भाषा

ENहिગુ
ग्रंथ पाठ

पौष्करसंहिता · अध्याय 34

34.1

भवेत् तत्त्वजयाद् भिन्नं फलं तत्त्वं फलर्थिनाम् ।
इति श्रीपाञ्चरात्रे महोपनिषदि
पौष्करसंहितायां तत्त्वसमाख्यानं नाम
त्रयस्त्रिंऽध्यायः ॥
अथ चतुस्त्रिंशोध्यायः
श्रीभगवानुवाच ---
क्षेत्रे वायतने दिव्ये तीर्थोद्देशेन संकुत्ने ।
क्षुद्रद्माणिविमुक्ते च वने तूपवने शुभे

34.2

भूगृहे वा गिरेः शृङ्गे गुप्ते देवगृहान्तरे ।
स्वास्थ्यं मत्वैकदेशे वा गोष्ठे द्विजपरिग्रहे

34.3

अर्धरात्राद् अतिक्रान्ते काले कमत्त्रसंभव ।
खमन्त्रस्याग्रतस्त्वेव तत्त्वाभ्यासं समाचरेत्

34.4

तत्र श्र्रमजये त्त्रब्धे दत्त्वार्ध्यं मन्त्रमूर्धनि ।
घण्टाशब्दसमोपेतं धूपं दत्त्वा महामते

34.5

स्तुत्वा प्रदक्षिणीकृत्य शुचिस्थाने तु सास्तरे ।
कृष्णाजिनप्रतिच्छन्ने कुतपे कम्बले तु वा

34.6

निद्रां सन्त्यज्य वै ब्रह्मन् पावने शयने स्थितः ।
ब्राह्मे मुहूर्ते चोत्थाय पञ्चाङ्गं स्नानम् आचरेत्

34.7

प्लवने वाप्सु मध्ये वा सन्ध्यां कृत्वा यथाविधि ।
तस्याग्रतश्चोपविश्य निर्मलं दर्पणं द्विज

34.8

दर्शयित्वोपसंहृत्य मन्त्रं हृत्कमलोदरे ।
प्रतिष्ठितं नित्य मन्त्रं विना स्थल जलात्मकान्

34.9

मन्त्रान् क्रियाङ्गसंरुद्धान् संहृत्य तदनन्तरम् ।
शेषमर्ध्यादिकं सर्वं भुक्तपूर्वेण वै सह

34.10

पाणिना तोयपूर्णेन विष्वक्सेनाय चार्प्य च ।
प्राग्वद् अभ्यसि निक्षिप्य समाहृत्य तदाखिलम्

34.11

स्वदेहादुपसंहारमन्त्राणामपि चाचरेत् ।
मनसात्मनि विप्रेन्द्र कुर्याद् भोगार्जनं ततः

34.12

भगवद्यागसिध्यर्थं शुद्धेन द्रविणेन च ।
याचयित्वा च पात्रेभ्यो वैष्णवेभ्यो हि नान्यथा

34.13

पौष्कर उवाच ---
अत्यर्थेन जगन्नाथ भूयोभूयः प्रशंससि ।
भोगेभ्यो धूपदानं च घण्टाध्वनिसमन्वितम्

34.14

महत्तां ज्ञातुमिच्छामि प्रमाणं लक्षणं तथा ।
यथावद् धूपघण्टाभ्यां धूपाग्नेर्धारकस्य च

34.15

स्वरूपं धूपधूमस्य लक्षणं प्रत्युदीर्यताम् ।
श्रीभगवानुवाच ---
शब्दब्रह्मैकदेहायाः लक्षणं कमलोद्भव ।
प्रमाणमतिशुद्धं च सप्रमेयं निबोधतु

34.16

सममर्धसमं ज्येष्ठम् आयाम(धम?)म् अथ मध्यमम् ।
तत्त्रिभागसमं विद्धि चतुर्थाशं तु कन्यसम्

34.17

त्रिभागेन तदुच्छ्रायाद् द्वा दशांशान्वितेन तु ।
प्रमाणेन तु विस्तारं त्रिविधं तु विधीयते

34.18

कृत्वा सूत्रपरिच्छिन्नं प्राक्प्रत्यग्दक्षिणोत्तरम् ।
चतुरश्रायतं क्षेत्रम् एवमापाद्य वै पुरा

34.19

तिर्यगूर्ध्वगतैस्सूत्रै भङ्क्त्वा संपूर्यते ?ततः ।
तत्र पञ्चोर्ध्वसूत्राणि दद्याद् एकादशानि च

34.20

भुजाख्यानि च वै यानि विभागम् अथ मे शृणु ।
सार्धैस्तु पञ्चभिर्भागैः शब्दक्षेत्रं विधीयते

34.21

तत्र चक्रं च कमलं सर्वदश्यं प्रकल्प्य च ।
शङ्खं कमलसंभूतं मुक्ताहारादिकं क्रमात्

34.22

वलयत्रितयान्तस्थं मुक्ताहारं सुवर्तुलम् ।
भागार्धेनाग्रतः कुर्यात् त्यक्त्वार्धार् धं तदूर्ध्वतः

34.23

शिष्टेनांशेन महता भागार्धेन तदूर्ध्वतः ।
नाभिक्षेत्रान्वितं चक्रं द्वादशारं विधीयते

34.24

केवलं कर्तरीभिर्वा मिश्रं क्ष्मामिश्रितैर्वशात् ।
षोडशारं तु वा विप्र शतशृङ्गं मनोहरम्

34.25

सांशेनाथोर्ध्वभागेन कर्णिकाकेसरान्वितम् ।
चतुर्विंशद्दलं पद्मम् आपाद्य कमलोद्भव

34.26

चक्रनाभेर्दलाग्राणां वर्जयित्वान्तरं धिया ।
यथाभिमतमानं च सुश्लक्ष्णरचनोज्झितम्

34.27

दलमध्यनिविष्टं व किञ्जल्कनिचयं शुभम् ।
कुर्याद् वा कर्णिकालग्नम् उच्छ्रितं च सुसंहतम्

34.28

ऊर्ध्वे मार्गद्वयेनाथ भागेन शुभलक्षणम् ।
कर्णिकावनिविश्रान्तम् अर्धद्वश्यं च शङ्खराट्

34.29

भुवनावत्त्रियोगेन वलीभूतेन भूषितम् ।
ओङ्कारावर्तरूपेण कुम्भं तस्यांशसंमितम्

34.30

कुम्भोपर्यथ चार्धेन भागेन तु शनैः शनैः ।
कलशं कु (कु)शतां ?नीत्वा च्छिद्रदेशावधेः क्रमात्

34.31

शङ्खकुम्भावधेर्विप्र शातनीयं च दिग्द्वयात् ।
मत्स्यवल्लाञ्छनं चैव अर्धम् अर्धं पदद्वयात्

34.32

चतुरंशार्धविस्तीर्णा प्रथमा भुवनावली ।
द्वितीया विरता चान्या तृतीया भागसंमिता

34.33

आ अग्रात् स्वधिया त्वीषदूर्ध्वान्तं कमलोद्भव ।
अनुपातवशान्मध्यं क्षामं क्षेत्रं विधीयते

34.34

शङ्खोपरि यथा कार्यं तथा तदवधारय ।
सार्धभागचतुष्केण तदुच्छ्राय महामते

34.35

विस्तारं सार्धभागेन गदायां विहितं तु वै ।
मुष्टिसंज्ञं तु यत्पीठं कुर्याद् भागोन्नतं द्विज

34.36

चतुरश्रं तु वा श्लक्षणं चित्रकर्मविभूषितम् ।
वृत्तायां चतुरश्रं तु तुर्याश्रं वर्तुले स्मृतम्

34.37

तुल्यरूपं हि वा ब्रह्मन् करग्राहं च तत्र यत् ।
तत्त्वष्टाग्रं (श्रं)तु वा वृत्तं सामान्यं सर्वतः स्मृतम्

34.38

मुष्टेरूर्ध्वगतं कुर्याद् गदास्तम्भं च पूर्ववत् ।
विद्धि तं सप्तपर्वं तु ग्रन्थिका शुक्तिभिर्युतम्

34.39

मुक्तावलिगणोपेतं तीक्ष्णाश्रं(ग्रं)चतुरश्रकम् ।
वलयाकृतिरूपेण युक्तं तारागणेन च

34.40

शुक्तिवृन्दसमेतेन वर्तुलं वा समाप्य च ।
रचनारहितं श्लक्ष्णं केवलं चतुरश्रकम्

34.41

अष्टाश्रं च सुवृत्तं वा स्वप्रमाणेन लक्षितम् ।
कुर्याद् एवं गदास्तम्भम् अथ तन्मस्तकोपरि

34.42

भागद्वयोन्नतं कुर्याद् द्विभुजं वा चतुर्भुजम् ।
प्रागुक्तं प्रविभक्ताङ्गं पक्षमण्डलमण्डितम्

34.43

तत्पक्षविस्तृतं कुर्याच्चतुर्भागसमं द्विज ।
त्रिभागविततं चाथ पुच्छपक्षद्वयं हि तत्

34.44

तत्समं विततं चैव मुख्यपाणियुगं तु वै ।
विधेयं कमत्त्रोद्भूत तस्य संपुटवद्यथा

34.45

पक्षवत्प्रसृतं स्वस्थं वेदाध्ययनचिह्नितम् ।
मन्त्रजातरतं चैव विधेयं वा सविस्तरम्

34.46

प्रस्तार्यं विधिनानेन स्वयं क्षितितत्त्रे ततः ।
शिल्पिनश्चैव द्रष्टव्यं प्रमाणेनाकृतैः (?तेः)सह

34.47

न्यूनत्वम् अतिरिक्तं वा अतो हेतोस्तदग्रतः ।
पूरयेद्घृदयेनैव स्वधिया कर्मणा स्वयम्

34.48

चलन्तं गर्भमानेन तीक्ष्णलोहेन निर्मितम् ।
भागार्धेनाधिकं क्षेत्रात् शब्दव्यञ्जकमब्जज

34.49

एतावद् आद्यं विहितं निर्माणं तैजसं महत् ।
व्यक्तं यत्राश्रितं कात्त्रं नाभिस्थं कमलोद्भव

34.50

तत्र चाक्रमरावृन्दं स्वकं द्वादशकं स्मृतम् ।
तदेव षोडशारं च वर्णैः सह नपुंसकैः

34.51

वर्णानां त्रिविधं रूपं सर्वेषां कमलोद्भव ।
संस्थितं वैखरीनिष्ठं पश्यन्ती पूर्वमब्जज

34.52

अराश्रितद्विषट्कारे वाक्स्वरूपं परं हि यत् ।
तत्रैव षोडशारे च तत्रेवाकर्तरीषु च

34.53

मध्यमाख्यस्वरूपेण नित्यमेव हि वर्तते ।
अत ऊर्ध्वं चतुर्विंशत्संख्यं वर्णगुणं हि यत्

34.54

दलजालं हि यत्पद्मं परिज्ञेयं महामते ।
मकारसंज्ञं यद्वर्णं विद्धि सा पद्मकर्णिका

34.55

शङ्खं यकारवर्णं समुष्टीके गदाग्रहे ।
रादयःसप्त ये वर्णा हान्ताः पर्वगदात्मकाः

34.56

क्षान्तं पतत्रिराङ्विद्धि एवं कमलसंभव ।
शब्दब्रह्मस्वरूपं च घण्टाविग्रहलक्षणा

34.57

विज्ञेया भगवच्छक्तिः षाङ्गुण्यान्तर्गता हि सा ।
तेजोगणसमोपेता तेजस्तद् द्रव्यरूपधृक्

34.58

घण्टाख्यमेत द्वै विद्धि अध्यक्षीयं गुणद्वयम् ।
शब्दब्रह्मत्वहेयं यद् हृदयाकाशमध्यगम्

34.59

नित्योदितमनौपम्यं मनसा (स्या)दगोचरम् ।
उपदेष्टुम् अतो ऽन्येषाम् अभक्तानां न युज्यते

34.60

परस्वरूपमन्त्राणाम् एतल्लक्षणम् अब्जज ।
दशप्रकारे यच्छब्दे विसर्गान्ते ऽ क्षरादिके

34.61

नानामन्त्रस्वरूपे च वर्तते वर्णविग्रहे ।
भोगमोक्षप्रदे मन्त्रे य आप्तः सद्गुरोर्मुखात्

34.62

पञ्चस्थानगतं ज्ञेयं भक्तैर्दिव्यक्रियापरैः ।
बहिस्थं प्रतिमादौ तु जिह्वाग्रे हृत्कुशेशये

34.63

धूपधूमशिखायां च घण्टाशब्दे सुलक्षणे ।
स्वरूपं ज्योतिरेषां तत् भासयत्संस्थितं हृदि

34.64

मध्यमेन स्वरूपेण अभ्युच्छिन्नं महामते ।
धूपधूमाश्रितं विद्धि वैखरीविग्रहं पुनः

34.65

घण्टायां चाल्यमानायाम् अच्छिन्नम् अनुभूतये(यते) ।
अस्याम् आश्रित्य ये संस्था ज्ञातव्यास्तु सदैव हि

34.66

नित्यम् अर्चनकाले तु साधकैः सिद्धिलालसैः ।
कालवैखानरोपेतम् अनन्तं शब्दचोदके

34.67

मुक्ताहाराश्रितं शङ्खं घण्टाया वदने स्थितम् ।
संस्थितं च महाबुद्धे तदूर्ध्वे गगनाश्रितम्

34.68

चक्रं यस्मिन्नरोद्देशे द्वादशात्मा स्थितो रविः ।
मासात्मना पुनः सैव कर्तरीष्ववतिष्ठति (?ते )

34.69

षोडशात्मकलात्मा वै कलादेहस्तु चन्द्रमाः ।
सर्वेषु वृत्तक्षेत्रेषु वरुणः स्वयमेव हि

34.70

तत्त्वसंवलिताव्यक्तपद्मपत्राश्रितस्तु वै ।
जीवः कमलकिञ्जल्के कर्णिकाश्रित ईश्वरः

34.71

शङ्खाहितश्च प्रणवो विद्यां विद्धि गदाश्रितम् ।
प्राणाधिदैवं गरुडम् इत्येवं देवतागणम्

34.72

ध्यात्वाभ्यर्च्य पुरार्ध्यायैः धूपयित्वा यथाविधि ।
पीठप्रतिष्ठितां कृत्वा कालेषु कमलोद्भव

34.73

संचालनीया वैधेषु तानि मे गदतः गृणु ।
गणेशपीठमध्यस्थदेवानाम् अर्चने ततः

34.74

आहुतीकालमन्त्राणां धूपदाने विशेषतः ।
जपस्तुत्यवसानाभ्यां प्रवृत्ते चाग्नितर्पणे

34.75

पूर्णाहुतिप्रदाने च मन्त्राणां च विसर्जने ।
विष्वकसेनार्चनाकाले तत्पूजाप्रतिपादने

34.76

नातो ऽन्यथा स्यात् विहितं चालनं सिद्धिमिच्छता ।
प्रमाणं लक्षणोपेतं सप्रमेयं सदैवतम्

34.77

यथावद् अरविन्दोत्थ मुख्यम् इत्युदिनं स्फुटम् ।
मुख्याभासानि चान्यानि रूपाण्यस्य निबोधमे

34.78

यथोक्तं त्रिविधं मानं विस्तारायाम् असंज्ञितम् ।
चक्रादिगरूडान्तेन पञ्चसंख्योदितेनतु

34.79

संचाल्याभिमतेनैव योग्यस्थानाश्रितेन च ।
पादनीरचनां विप्र सर्वासां च विधीयते

34.80

पद्मं कुर्यात् तदूर्ध्वे तु प्रफुल्लं चोर्ध्वकर्णिकम् ।
विततं दीर्घपत्रं तु किञ्जल्कनिचयान्वितम्

34.81

तत्कर्णिकाश्रितं कुर्यात् शङ्खाद्यं त्रितयं हि यत् ।
वक्त्रसूत्रसमीपे तु चक्रं वा केवलं द्विज

34.82

कृत्वा पद्मान्वितं पश्चात् शखं पूर्वं हि तत् त्रयम् ।
यथोदितं च संपाद्य सर्वं गरुडपश्चिमम्

34.83

विमुक्तचक्रपद्मस्य क्षेत्रस्योपरि पद्मज ।
शङ्खं गदां खगेन्द्रं च संपाद्य चतुरानन

34.84

कवाटोपरि पद्मं तु दीर्घच्छदम् अधोमुखम् ।
शङ्खचिह्न विनिर्मुक्तं गदनालखगान्वितम्

34.85

समानेन सभूमेर्वै शङ्खं कृत्वा यथोदितम् ।
गदा कार्या तदूर्ध्वे तु पन्नागारिसमन्विता

34.86

कुर्याद् वा गरुडोद्देशे ऊर्ध्ववक्त्रं च हेतिकम् ।
कमलं वा खवक्त्रं तु तदुद्देशे विधीयते

34.87

शङ्खं च दक्षिणावर्तं वलित्रितयभूषितम् ।
एकैकम् एवम् आपाद्य शङ्खचक्राम्बुजोज्झिते

34.88

सुश्लक्ष्णवर्तुले क्षेत्रे मुक्तातारगणानने ।
निर्मुक्तलाञ्छना घण्टा विघ्नानाम् आश्रया भवेत्

34.89

लाञ्छितेनान्विता विप्र विघ्नविद्राविणी हि सा ।
अतः सलाञ्छना कार्या नूनं भर्तृफलाप्तये

मूल पाठ: Pauṣkarasaṃhitā 27-43 · Edition: Prabhakar Pandurang Apte: Pauṣkarasaṃhitā : dvitīyo bhāgaḥ, Tirupati 2006 (Rashtriya Sanskrit Vidyapeetha Series, 120) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc