भाषा

ENहिગુ
ग्रंथ पाठ

पौष्करसंहिता · अध्याय 33

33.1

इति श्रीपाञ्चरात्रे सहोपनिषदि पौष्कर -
संहितायाम् आराधनलोपविचारः नाम
द्वात्रिंशो ऽध्यायः ॥
अथ त्रयस्त्रिंशो ऽध्यायः
पौष्कर उवाच ---
नवमूर्तेः परिज्ञातं पूर्वंम् आराधनं मया ।
नानात्वेनापवर्गार्थं न ज्ञातं चतुरात्मनः

33.2

श्रीभगवानुवाच ---
अनुज्झितस्वरूपस्य देवस्य चतुरात्मनः ।
केवलस्यार्चनात् मोक्षं भवेते तद् द्विधार्चनात्

33.3

नानाफलाप्तये ब्रह्मन्नानारूपधरस्य च ।
नानात्वेनार्चनं भूयः शृणु सम्यग्यथास्थितम्

33.4

व्यापकं परमात्मानम् आदिदेवम् अधोक्षजम् ।
प्राग् अर्चनीयं सर्वत्र पूजान्ते चापि मध्यतः

33.5

ततः प्रभवयोगेन प्राक्पत्रादि समर्चयेत् ।
चतुष्कं संकर्षणाद्यं क्रमान्नारायणान्तिम(क )म्

33.6

पुनरप्यययोगेन वन्ध्याधीरापदावधि ? ।
नारायणाद्यं यष्टव्यं संकर्षणान्तमेव हि

33.7

एवम् आग्नेयपद्मे तु प्रद्युम्नाद्यं चतुष्टयम् ।
शब्दब्रह्मादिदेवान्तम् अर्चनीयं सदैव हि

33.8

दक्षिणे तु अनिरुद्धाद्यं गरुडासनपश्चिमम् ।
विहितं चैव विन्यासं प्रभवाप्ययलक्षणम्

33.9

नारायणनृसिंहान्तं रक्षःपद्मेर्ऽचयेत् ततः ।
प्रत्यग् दिक्संस्थिते पद्मे ब्रह्माद्यं क्ष्माधरान्तिमम्

33.10

संकर्षणावसानान्तं विष्ण्वाद्यं मारुते ऽम्बुजे
नृकेसरिं वराहं च ज्ञानाद्योदकृद्युदक् ?

33.11

त्रयं संकषणाद्यं यत् ईशाने क्ष्माधरादिकम् ।
प्रभवेनापि अयेनैव माननीयम् अतः क्रमात्

33.12

नवसंख्यम् इदं विप्र प्रथमं यत्प्रकीर्तितम् ।
तदीयं जायते तस्य प्रभावं तत् कमार्चनात्

33.13

---------------------नवमूर्तिमयं महत् ।
चातुरात्म्यचतुर्वर्गफलदं भावितात्मनाम्

33.14

नानाफलापितर आचिरात् जायते च फलार्थिनाम् ।
स्वातन्त्र्येणार्चनात् नित्यम् एतेषां चतुरात्मनाम्

33.15

यस्य यस्य चतुर्मूर्तेः प्रथमं यत् प्रकीर्तितम् ।
तदीयं जायते तस्य प्रभावं तत्क्रमार्चमात्

33.16

एतावद् उक्तं हि फलं सन्निवेशवशात् तु वै ।
यतः प्रतिहतं वीर्यम् ऐश्वर्यं प्रभवाप्यये

33.17

तं विप्रं मन्त्रमूर्तीनां मन्त्रम् अप्रतिमप्रभम् ।
अनन्तं स्वप्रकाशत्वम् अनौपम्यं जगत्प्रभोः

33.18

परमेश्वरमूर्तीनां परिज्ञानवशात् सति ।
अनादिनिधनो ऽनन्तः कर्मिणां प्रतिपत्तये

33.19

तदुत्तारणसिध्यर्थं व्यूहताम् आगतः स्वयम् ।
प्राणेच्छाशब्दकालख्यचतुरात्मतया नव

33.20

अविशेषस्वरूपस्य देवस्यैव महात्मनः ।
नित्यसन्निहिताशेषशक्तेर्नित्योदितस्य च

33.21

शब्दवित्संभवानन्दविशेषैर्गमितस्य च ।
इदं उक्तं मया योगं भविनां भवशान्तये

33.22

अहेयम् अपि अभिन्नं च प्रपञ्चं परमात्मनः ।
सत्यरूपस्य वै सम्यक् क्षोभं निश्रेयसप्रदम्

33.23

यस्य सांसारिकी मायाचक्रमिच्छावशात् पुनः ।
निर्गता यत्र मुह्यन्ति ऋषयः सामरा नराः

33.24

यावन्नानुगृहीता वै देशिकव्यक्तिगेन च ।
षाड्गुण्यमूर्तिनानेन परेण चतुरात्मना (नः )

33.25

अस्याराधनकाले तु बहिर्वा हृदयाम्बरे ।
कदम्बपुष्पवद् व्यक्तिं संस्मरेत् षड्गुणोज्ज्वलाम्

33.26

बह्वात्मना चार्चकेन चतुर्वर्णमयेन च ।
स्वरेण वाक्षरेणैव केवलेन सबिन्दुना

33.27

बाह्योपचारनाम्ना तु सुप्रसिद्धेन केनचित् ।
मुख्येनाभिमतेनैव मनसः तुष्टिदेन च

33.28

न्यस्याङ्गानि स्वकान्यस्य प्राक् संपूर्णगुणानि च ।
स्वमन्त्रैरर्चनेनैव स्थानभेदं विनाब्जज

33.29

तस्मिन् कदम्बकुसुमसदृशे मन्त्रगोलके ।
द्वादशाक्षरमन्त्रेण त्वभिन्नेन तु सांप्रतम्

33.30

व्यक्तिम् आपाद्य वै तस्यां पुनर्वर्णक्रमेण तु ।
अङ्गोपाङ्गस्थितिं कुर्यात् स्थानेषु हृदयादिषु

33.31

हृदि मूर्ध्नि शिखायां च स्कन्ध्योः करमध्यतः ।
नेत्रयोः उदरे पृष्ठे देशे बाहुद्वये ततः

33.32

उरुभ्यां जानुयुग्मे च पादयोःतदनन्तरम् ।
तत्र प्रणवपूर्वं तु षड्वर्णास्त्वाड्गिका मताः

33.33

षडुपाङ्गाभिधास्त्वन्ये एतेषां लक्षणं शृणु ।
यत् सुप्रतिष्ठितं शुद्धं सामान्यं यद् अनावृतम्

33.34

प्रबुद्धं भास्वरं नित्यं ज्ञानं साक्षात् तद् आच्युतम् ।
स्वस्य शक्तिसमूहस्य बलाद्यस्याखिलस्य च

33.35

उदयस्थितिसंहारकारणे ऽङ्गात्मना पुनः ।
विशेषतां समायाति स्वरूपम् अपि चात्यजन्

33.36

मन्त्रेशामान्त्रशक्तीनाम् अनन्तानां तु तद्विज ।
नानासामर्थ्यवर्गानां हृदयं रत्नदीपवत्

33.37

आत्मप्रकाशकं चैव बलादीनां तथा च तत् ।
सर्वातिशायि चैश्वर्यं यद्गुणं पारमेश्वरम्

33.38

तच्छिरः सर्वमन्त्राणां श्रीमद् भोगापवर्गदम् ।
या भूरिशक्तिभिः पूर्णा शक्तिर्वै पारमेश्वरी

33.39

ऊर्ध्वतेजोवहा शुद्धा विद्धि मान्त्री शिखा तु सा ।
धैर्यं यन्नापरं प्राणाद् आच्युतं धृतिलक्षणात्

33.40

तद् एव कवचं विद्धि मन्त्राणां हि बलात्मकम् ।
यद् अप्रतिहतं वीर्यम् ऐश्वर्यं प्रभवाप्ययम्

33.41

तद् विप्र मन्त्रमूर्तीनाम् अस्त्रम् अप्रतिमप्रभम् ।
यदनन्तप्रकाशत्वम् अनौपम्यं जगत्प्रभोः

33.42

तन्नेत्रं तत्परिज्ञानात् धाम चालक्ष्यते परम् ।
हृदा सह प्रलीनं च तत्केषांचिन्महामते

33.43

स्वकं उज्झित्य वै क्षेत्रं ज्ञानम् उद्दीपयेद् स्थितम् ।
मन्त्राणां नेत्रमन्त्रं तु ईश्वरेच्छावशाद् द्विज

33.44

क्वचिद् अङ्गचतुष्कस्य अन्तस्था (ञ्ज )जनवत्प्रभा ।
वर्तते मूर्धपूर्वस्य रत्नेष्विव उपाश्रयम्

33.45

वाचकेन विना तस्मात् तदीयाज्ञामयप्रभा ।
भगवत्कर्मकुशलैः परिज्ञेयार्चना ---ताः

33.46

इत्याङ्गिकी स्थितिस्तावत् सर्वत्र न्यासकर्मणि ।
प्रकाशिताब्जसंभूत त्वौपाङ्गं निश्चयं शृणु

33.47

क्रोडीकरोति वै येन ज्ञानधर्मेण सर्वदा ।
वहिर्वा विषयं स्वल्पम् उपाङ्गम् उदरम् च तत्

33.48

संसिद्धम् उपचराद् वै अन्ये ऽप्येवं महामते ।
उपायधर्मवद् यस्तु सिद्धिमोक्षवशात् पुनः

33.49

पृष्ठतः सर्वदाने च ऐश्वर्यस्य फलात्मनः ।
पृष्ठसंज्ञाम् उपाङ्गं तद् द्वितीयम् अमलेक्षण

33.50

द्व्यात्मकं हि यद् उल्लासं विभोः शक्त्यात्मनो द्विज ।
सुतीक्ष्णम् अतिसौम्यं च तद् उपाङ्गं भुजाभिधम्

33.51

विभूतिशक्तेर्व्यक्तस्य नानाबीजस्य यन्महत् ।
रसं वीर्यमयं क्षेत्रम् ऊरुसंज्ञं तदात्मकम्

33.52

यत्सर्वज्ञस्य शक्तेर्वै विद्याविद्यात्मकं वपुः ।
जान्वाख्यं तद् उपाङ्गं वै पञ्चमं परिकीर्तितम्

33.53

आच्युतस्थितिशक्तिर्यत् स्वगुणं हि विलक्षणम् ।
संधारकत्वम् अब्जाक्ष तत् पादाह्वम् उदाहृनम्

33.54

सृष्टिसंस्थितिसंहारन्यासे स्वात्मनि वा प्रभोः ।
द्वादशाक्षरपूर्वाणां पूर्वाङ्गोपाङ्गकल्पना

33.55

सा पुनः स्वल्पवर्णानाम् अधिकाक्षरवर्तिनाम् ।
हीनातिरिक्तरूपापि तद् अङ्गाः परमेश्वर

33.56

एवं भजन्ति मां नित्यं प्रक्रियार्थं तु वै पुनः ।
स्वक्षेत्रेषु अर्चयेन् नाम्ना नतिना प्रणवेन तु

33.57

वर्णाधिकानां मन्त्राणाम् उपाङ्गेष्विदमाचरेत् ।
सह द्वादशमानैव वर्णेन समुदीरणा

33.58

सामान्यशब्दभावेन स्याद् एव हृन्मयी स्थिता ।
अकारादिस्वरेणैव कादिना वा सबिन्दुना

33.59

स्वख्यञ्जनमिश्रेण पिण्डीभूतेन पाणिना ।
यत्र द्विजेन्द्र विहितं व्यक्तिदानं पुराणिषु

33.60

अङ्गोपाङ्गमयी व्याप्तिः स्मर्तव्या वान्यलक्षणा ।
ज्ञानाङ्गोपाङ्गनिर्मुक्ता मन्त्रज्ञानप्रभात्मिका

33.61

या परा प्रकृतिर्वाणी चिद्रूपा निर्मलां परा ।
पूरिताध्यक्षभावेन निष्कलेन महात्मना

33.62

शरीरम् इव जीवेन स्थूलसूक्ष्माद् विलक्षणम् ।
स्थूलं भूतमथ तत्र सूक्ष्मं पुर्यष्टकाभिधम्

33.63

देहस्थम् आत्मतत्त्वं तु भोगं विषयजं यथा ।
भुनक्ति तद्वद् आदत्ते पूर्णव्यक्तिगतः प्रभुः

33.64

सर्वथा तु स्वमन्त्रेण मन्त्रेशं मूर्तिसंस्थितम् ।
भोगैर्जपैः तथा स्तोत्रैर्विविधैर्वह्नितर्पणैः

33.65

दानैर्विशेषयागैस्तु पितृतर्पणपश्चिमैः ।
नेतव्यम् अतुलां प्रीतिं प्रयोगैः प्रतिवाचकैः

33.66

मन्त्रेशस्यार्चनं कुर्यात् क्रमात्तदनु पौष्कर ।
तन्मूर्तिवाचकादीनां मन्त्रेशानां हि माननाम्

33.67

अन्तरङ्गाङ्गयुक्तानां लाञ्छनानामपि द्विज ।
भोगभूमौ तु तन्मूर्तौ किन्तु भोगावनेस्तु ते

33.68

यथोक्तलक्षणाः सर्वे ध्यातव्यास्तु यथाक्रमम् ।
मन्त्रमूर्तौ सदेहे च प्रस्फुरत्किरणोज्ज्वलाः

33.69

या परा प्रकृतिर्मान्त्री वैश्वरूप्यात्तु सा पुनः ।
नानानामाक्षरत्वेन नानामूर्तित्वम् एव च

33.70

अतो न विहितं वित्र मूर्तिदानं पृथक् पृथक् ।
मूलमन्त्रवद् अन्येषां मन्त्राणां पृथग् अक्षरैः

33.71

कारणानिर्गताः केचिद्वचक्तिशक्तिगुणैर्युताः ।
पृथक् व्यक्तिमयाः चान्ये मन्त्रनाथास्तदिच्छया

33.72

एकः सर्वेश्वरो ऽनन्तो जीवानाम् अनुकंपया ।
नानामन्त्रस्वरूपेण संस्थितिं स्वेच्छया यथा

33.73

प्रकृत्येका तथा बह्वी ह्याधेयानां महात्मनाम् ।
लोकनाथेच्छया विप्र बहुधा संव्यवस्थिता

33.74

या परा प्रकृतिर्मान्त्री वासुदेवाख्यलक्षणा ।
षाड्गुण्यविग्रहा सर्वशक्तितत्त्वगुणान्विता

33.75

कोशभूतत्वम् आपन्ना स्वयम् आनन्दलक्षणा ।
प्रकाशैकस्वभावे तु सूक्ष्मे स्वे मन्त्रविग्रहे

33.76

जपात् संस्मरणाद् यस्य स्वव्यक्तिस्थस्य पूजनात् ।
तद् अभिन्नं परं शान्तं परम् आप्नोति तद् व्रती

33.77

एवम् एकत्वम् आपन्नं योर्ऽचयति अच्युतं विभुम् ।
नित्याकृतध(?न )रस्तस्य भोगमोक्षौ करस्थितौ

33.78

शुद्धसंवित्स्वभावानां ज्ञानादिगुणिनां तु वै ।
स्वमन्त्रशक्तिव्यूहानां व्यक्तये परमेश्वरः

33.79

स्वेच्छया शब्दशक्तिं स्वाम् अनभिव्यक्तलक्षणाम् ।
प्रकाश्य चाब्जसंभूत यस्यां मन्त्रमयं वपुः

33.80

ते सर्वज्ञगुणैश्चाथ मन्त्रैः संप्रोक्तलक्षणाः ।
अनुग्रहार्थं भविनां निबध्नन्ति स्थितिं स्थिराम्

33.81

लिपिव्यूहे तु विविधैर्बीज(?जैः )पिण्डवद् आत्मिके ।
केवले ऽपि च संमिश्रे भूरिसंख्ये जपात्मिके

33.82

ज्ञशुद्धिः चिद् अधिष्ठातृवशाद् अमरपूजिता ।
यस्योपचारमन्त्रत्वम् आमूलाद् उपयान्ति च

33.83

शब्ददेहाः पुनः तु एते मन्त्रा मननधर्मिणः ।
अपरिच्युतरूपाश्च नानात्वम् उपयान्ति च

33.84

नानाकारवशाच्चैव नानासत्त्ववशाद् अपि ।
श्रद्धाभक्तिवशान्नाना नानाफलवशात् पुनः

33.85

नानाजातिवशाच्चापि नानादेशवशात् पुनः ।
नानाकालवशाद् ब्रह्मन् नानासाधनसंभ्रमैः

33.86

मोक्षैकनिरतानां च नराणाम् आत्मसिद्धये ।
विषयाक्षिप्तचित्तानां भूतये भविनाम् अपि

33.87

पौष्कर उवाच ---
त्वयोक्तं भगवद् यागं शुद्धसत्त्वस्य कर्मिणः ।
जितोन्द्रियस्य भक्तस्य मन्त्रसिद्धस्य चाच्युत

33.88

योगं तत्त्वजयार्थं वै ज्ञातुम् इच्छामि अहं पुनः ।
विधिवद् यत् परिज्ञानं मन्त्रज्ञो लभते स्थितम् ।
निवाताचलदीपाभे समाधौ पारमेश्वरे

33.89

श्रीभगवान् उवाच ---
प्रधानयोगम् उक्तं ते कर्मयोगाद् अनन्तरम् ।
तद् गार्हस्थस्य च मुनेर्विहितं नान्ययाजिनः

33.90

तथा परमहंसस्य लोकबाह्यस्थितस्य च ।
तत्त्वयोगं अतो वक्ष्ये भूमिकाभिन्नलक्षणम्

33.91

शुद्धये ऽखिलतत्त्वानां कृतदीक्षस्य पौष्कर ।
शश्वत् साक्ष्तात् तु करणे नानासिद्धिव्यपेक्षया

33.92

अपवर्गाप्तये चैव ज्ञानावरणशान्तये ।
शुद्धसंवित् स्वभावेन परमात्मनि तिष्ठति

33.93

चित्प्रकाशस्वरूपेण मन्त्रात्मनि महामते ।
विभवव्यूहयोगेन कर्मणाच्छाद्य संस्थितः

33.94

व्याप्तः परेण विभुना सर्वशक्त्यात्मकेन तु ।
यम् आच्छाद्य स्थितः सम्यग् बोध्यं तं सर्वदाब्जज

33.95

असङ्कीर्णम् असंख्यं च वासनाशतवासितम् ।
गुरुणा अनुगृहीतस्य मन्त्रैकनिरतस्य च

33.96

समग्रं तत्त्वजालं तद् विनिवर्तति नान्यथा ।
अतस्तु लब्धलक्षेण कर्मतन्त्ररतेन च

33.97

नित्यं तत्त्वजयं कार्यं स्वरूपप्राप्तये तु वै ।
व्यापकः सर्वशक्त्यात्मा समाराध्य विभाव्य च

33.98

तत्त्वाधिष्ठातृभावेन आपादान् मस्तकावधि ।
ज्ञातव्यं स्थानभेदेन दीक्षायां कथितं यथा

33.99

कदलीपुठवच्चाथ ततो मोदकवद् द्विज ।
तज्जायार्थ समभ्यस्य योगम् एवम् त्रिधा अमलम्

33.100

किन्तु चाभ्या (भ्यः?)समानस्य ?मोहम् आया(?ये )ति सांप्रतम् ।
निद्रालस्यश्रमश्वासशून्यदृष्टित्वम् अब्जज

33.101

षट्कोशलक्षणं विद्धि सविघ्नं ते तदात्मना ।
निश्चयात् तद् जयेद् एतद् अस्त्रध्यानाद् जपाद् अपि

33.102

प्राणादीनां तु वायूनां कृत्वा तु विजयं पुरा ।
सुखासनोपविष्टस्तु गुर्वङ्घ्रिं वन्दयेद् धिया

33.103

व्यापकत्वेन चाराध्य न्यस्त्वाकारशरीरगम् ।
ततः तादात्म्यम् आलम्ब्य चित्तं बाह्यस्थम् आचरेत्

33.104

हृत्पुण्डरीकमध्ये तु त्रिधाम भुवनोदरे ।
प्रणवेनापरं ब्रह्म सर्वशक्तिमयं द्विज

33.105

अभ्यस्याभ्यासयोगेन प्रथमं भावयेत् ततः ।
कुर्यात् तत्त्वजयाभ्यासं विधिनानेन वै द्विजः

33.106

प्रणवाद्यन्तरुद्धेन हृदा संज्ञापरेण वा ।
सहस्ररश्मिं ध्यायेद् वै तत्त्वजालं पृथक् पृथक्

33.107

जपाद् विलयम् आयाति तत्त्वज्ञानं शनैः शनैः ।
आधारं प्रणवं शब्दं हृन्मन्त्रः तन्मये ततः

33.108

तत्त्वतो भवहृत् शब्दं तत्संज्ञं प्रणवोदरे ।
स्वात्मानं प्रणवं शब्दम् आत्मानन्दमये हरौ

33.109

एवं क्रमेण क्ष्मादीनां तन्मन्त्राणां जयं द्विज ।
कुर्यात् स्वकरणानां च इन्द्रियाणां पराजयम्

33.110

इति त्रिदशकं जित्वा तत्त्वानां चाव्ययेन तु ।
ततो मनः तु अहंकारं बुद्धिं गुणगणं क्रमात्

33.111

तमो रजः सत्त्वसंज्ञं ध्यात्वा जप्त्वा परित्यजेत् ।
सूक्ष्मं संधातसंज्ञं तु स्वगुणेभ्यो विलक्षणम्

33.112

साक्षात्कृत्वाथ संत्यज्य अव्यक्तं च जयेत् ततः ।
कारणं यत् प्रपञ्चस्य अस्योक्तस्यापरस्य च

33.113

नानामतिनिविष्टस्य स्वविकल्पोत्थितस्य च ।
कालतत्त्वम् अतः चिन्त्यं भूतभव्यभवात्मकम्

33.114

सुद्धिकृद् यद् अनन्तस्य सदसद्-लक्षणस्य च ।
प्रपञ्चस्य महाबुद्धे ध्यात्वा एवं त्रितयं त्यजेत्

33.115

उपायलक्षणं धर्मं चतुः संख्यं हि लक्षणम् ।
ज्ञानक्रियेच्छात्राणाख्यशक्तिसंज्ञं हि शाश्वतम्

33.116

साक्षात् कुर्याद् जपाद् ध्यानाद् योगाभ्यासाद् अथोर्ध्वतः ।
उपादेयम् अतो ब्रह्मन् समूहं व्यापकं ध्रुवम्

33.117

सप्तसंज्ञं पदं दिव्यं ध्यातव्यं कर्मशान्तये ।
शब्दब्रह्मावसानं च ज्ञातव्यं च सदोदितम्

33.118

शब्दब्रह्मस्वरूपस्य परस्य परमात्मनः ।
अमूर्तस्य च तन्मूर्तेः स्थितिः सा षड्गुणात्मिका

33.119

शब्दब्रह्मन समभ्यस्य गुणषट्काद् अनन्तरम् ।
अनुच्चार्यंम् अवर्णं तं निरावरणम् अस्वरम्

33.120

सद्ब्रह्मवाचकं तद् वै वाङ्मयातीतम् अच्युतम् ।
स्वख्यञ्जनरूपाश्च सर्वेषां मूर्तिवाचकाः

33.121

स्वविशेषाच्च बहवो दशूलक्षणलक्षिताः ।
अक्षरस्वरवर्णाख्यघोष(षो?)रागस्वरात्मकाः

33.122

ध्वनिः कूटस्तथा स्फोटविसर्गान्ता महामते ।
एभ्यः संकीर्णरूपाभ्यो यत्ने वाक्यतरात्मना

33.123

आमोक्षात् सर्वसिद्धीनां प्रदाता सिद्धिभाग् भवेत् ।
ध्याता तस्मिन् हि निष्णातः परं ब्रह्माधिगच्छति

33.124

सम्यग्वेत्ति तदाभ्यासात् स्वाराध्येनानुरञ्जनात् ।
विलक्षणं च तद् ध्यानं ध्यानाध्यात्मकम् अब्जज

33.125

प्रकाशानन्दरूपे च नानाभूतं हि यद् बहिः ।
ते द्वे सच्छब्दनाथस्य ऊर्मिः सूक्ष्मतमा अमला

33.126

यथा सह समं याति तत्त्वज्ञस्तु अव्यये पदे ।
आत्मलाभम् अतः प्राप्य परस्मात् परमेश्वरात्

33.127

ज्ञानकर्मरतानां च श्रद्धासंयमसेविनाम् ।
आस्तिकानां जिताक्षाणां सद्भक्तानां सदा भवेत्

33.128

न एतद् वाच्यं अभक्ताय नास्तिकाय कदाचन ।
न कुतर्कं अतिष्ठाय कर्मब्रह्मोज्झिताय च

33.129

आ प्रभातात् निशान्तं च व्यापारं पारमेश्वरम् ।
लोकातीतास्तु ये विप्राः तेषां तद् हृदयंगमम्

33.130

लौकिकव्यवहारस्था बहवो ऽन्ये च नेश्वराः ।
शून्यब्रह्मैकनिष्ठाय वाक्प्रपञ्चधियान्विताः

33.131

पौष्कर उवाच ---
तत्त्वग्रामस्य भेदैश्च हेयोपादेयलक्षणम् ।
ज्ञातुम् इच्छामि विधिवत् तन् ममा चक्ष्व शाश्वत

33.132

श्री भगवान् उवाच ---
यथा क्षीरस्य वै स्नेहं भेदेन न तु वर्तते ।
एवं हि विद्धि सर्वेषां तत्त्वानां परमेश्वरः

33.133

एकत्वेन पृथक्त्वेन समाधौ प्रोक्तम् अभ्यसेत् ।
केवलं हि यथापूर्वम् उद्विष्टं च तदाप्तये

33.134

आक्षितेः करणग्रामम् इन्द्रियाख्यगणान्वितम् ।
उत्तमव्यक्तपर्यन्तं प्रपञ्चं तद् अनश्वरम्

33.135

नानामूर्तिसमाख्यं च भोगक्षेत्रं हि कर्मिणाम् ।
सुखदुःखगुणोपेतं मोहमायामयं दृढम्

33.136

अज्ञानं तु तदासक्तेर्वर्धने तु क्षणात् क्षणम् ।
ज्ञानाद् विलयम् आयाति तस्मात् नित्यं हि तद् द्विज

33.137

हेयभावनया चिन्त्यम् उपायं यद्यपि स्फुटम् ।
सिद्धीनाम् आत्मलाभे तु तत्राप्यस्थिरम् एव तत्

33.138

सारम् आदाय वै तस्मात्साधनं योगसिद्धये ।
मनोबुद्धिरहङ्कारः सत्त्वं सत्त्ववतां वर

33.139

चतुष्कम् उदं अव्यक्तं ब्रह्मप्राप्त्या निवर्तते ।
अथोपकरणं दिव्यं पञ्चशक्त्योपलक्षितम्

33.140

कालज्ञानक्रियाख्येच्छाप्राणसंज्ञं महामते ।
अहेयम् अपरं नित्यं कर्मण्यानां च सिद्धिकृत्

33.141

तत्त्ववृन्दस्य विजये गुणषट्कोपलब्धये ।
चातुरात्म्यपरिज्ञाने शब्दब्रह्माप्तये तु वै

33.142

प्रकाशानन्दलाभे तु निर्विकल्पपदाप्तये ।
नवप्रकारेणानेन प्राक्प्राप्तेन गुरोर्मुखात्

33.143

प्राकृतेनाच्युतीयेन साध्यसाधनवस्तुना ।
तद् नास्ति यद् न च आप्नोति साक्षात्कारात्तु साधकः

33.144

सिद्धध्यान जयात् स्वं स्वं फलं यच्छति वै सदा ।
एतस्मात् कारणात् साध्यं साध्यस्यान्यस्य साधनम्

33.145

तच्च ज्ञानादिकं षट्कं ब्रह्मतत्त्वविलक्षणम् ।
अणिमाद्यष्टकं चैवम् अतो ऽन्यं रोचते हि यत्

33.146

प्रभवः प्रलयश्वैव ऐश्वर्यं सर्वतोमुखम् ।
आध्यात्मम् आधिदैवत्यम् आधिभूतात्मना द्विज

33.147

तत्त्वाभ्याससमाधौ तु ज्ञातव्यं तत्त्वचिन्तकैः ।
शब्दब्रह्मपदाद् एव क्षित्यन्ते तत्त्वसंग्रहे

33.148

अध्यात्मं परमं ब्रह्म सामान्यं विद्धि सर्वदा ।
ज्ञातव्यम् अधिदैवं च सेश्वरं प्रणवं तथा

33.149

स्वं स्वं स्वभावं सर्वस्य स्थूलसूक्ष्मपरात्मकम् ।
विज्ञेयम् अधिभूतत्वं साक्षात्कमललोचन

33.150

सामान्यम् एतत् सर्वत्र ध्येयम् अध्यात्मपूर्वकम् ।
सविशेषम् अयो वक्ष्ये श्रुणुष्वैकाग्रमानसः

33.151

निस्तरङ्गं परं ब्रह्म शब्दब्रह्मणि अकृत्रिमे ।
अध्यात्मं द्विज बोद्धव्यं मन्त्रकोट्या ह्यनेकशः

33.152

अधिदैवत्यभावेन तस्मिन्नेव सदा स्थिताः ।
अधिभूतं तु बोद्धव्यं तद् वाक्त्त्त्वचयं तु यत्

33.153

अध्यात्मगुणषट्काख्यं शब्दब्रह्म यथोदितम् ।
चातुरात्म्यं परिज्ञेयम् अधिदैवम् अनाकृति

33.154

शक्तिव्यूहम् असंख्यं यद् गुणेभ्यः प्रवदन्ति तु ।
तद्विशेषस्वरूपं च आधिभूतं तु विद्धि तत्

33.155

प्राणशक्तेस्तु चाध्यात्मं षाड्गुण्यम् अखिलं हि यत् ।
अधिदैवतम् अब्जाक्षो वासुदेवः सनातनः

33.156

अधिभूतम् अपानाद्या वायवो विश्वधारकाः ।
इच्छाशक्तेः परत्वेन स्थितं ज्ञानबलद्वयम्

33.157

ज्ञेयं तद् अधिदैवं च परः संकर्षणः प्रभुः ।
सामर्थ्यम् अधिभूतं च सर्वतत्त्वाश्रितं हि यत्

33.158

द्वयम् ऐश्वर्यवीर्याख्यम् अध्यात्मं विद्धि पौष्कर ।
क्रियाशक्तेस्तु दैवत्यं प्रद्युम्नः परमेश्वरः

33.159

महत्प्रकाशप्रसरम् अधिभूतं सदोदितम् ।
तेजः शक्तिर्द्विजाध्यात्मम् अव्यक्तम् अमलेक्षण

33.160

अर्केन्दुवह्नित्रितयं दैवतं परिकीर्तितम् ।
गुणत्रयम् असङ्कीर्णम् अधिभूतं महामते

33.161

गुणत्रयस्य चाध्यात्मं सङ्घातकरणं स्वकम् ।
सत्त्वस्य दैवतं वह्नी रजसः त्वं अमृतात्प(?स्प)दम्

33.162

तमसस्तपनो विष्णुः सत्व (?त्वे )[ज्ञाना]धिभूतता ।
रजस्यरागो विज्ञेयम् अधिभूतं महामते

33.163

महामोहं हि तमसस्त्वधिभूतं प्रकीर्तितम् ।
अध्यात्मं चेतनो बुद्धेर्धर्मं सदधिदेवता

33.164

स वै रागं ?द्विजैश्वर्यम् अधिभूतं तदात्मकम् ।
अहङ्काराख्यतत्त्वस्य बुद्धिः अध्यात्मम् अब्जज

33.165

अधिदैवं परिज्ञेयं कालवैश्वानरो महान् ।
महत्त्वम् अधिभूतं च मनसो ऽथ निरुच्यते

33.166

अध्यात्मं तु अहङ्कारो नृवराहः प्रजापतिः ।
विज्ञेयम् अधिदैवं च संकल्पंम् अधिभूतता

33.167

पञ्चानाम् इन्द्रियाणां तु अध्यात्मं च मनः स्मृतम् ।
कालात्मदैवतं विद्धि अधिभूतं सुखादिकम्

33.168

वागादीनां द्विजाध्यात्मं व्यूहंम् इन्द्रियकं तु यत् ।
अधिदैवं तु बोद्धव्यं विश्वरूपाख्यम् अच्युतम्

33.169

व्यापारम् अधिभूतं च अष्टयोन्यात्मकं हि यत् ।
तन्मात्राणां सभूतानांम् अध्यात्मम् अमलेक्षण

33.170

सूसूक्ष्मं करणव्यूहम् अधिदैवं निबोधतु ।
वैभवं भगवद्व्यूहं विचित्रं विद्धि पद्मज

33.171

बोद्धव्यंम् अधिभूतं च तत्त्वभूमिजयैषिणाम् ।
उक्तम् अध्यात्मपूर्वं यत् त्रितयं योगसिद्धये

33.172

प्रभावेन क्रमेणैव तत्पुनः चतुरानन ।
आप्ययेन क्रमेणैव अभ्यस्तैः सर्वयोगिनाम्

33.173

आ (क्षितेः?)सर्वशक्त्यात्मा पदपर्यन्तं आच्युतम् ।
तत्त्वबुद्धनिरासार्थं योगाभ्यासंम् इदं स्मृतम्

मूल पाठ: Pauṣkarasaṃhitā 27-43 · Edition: Prabhakar Pandurang Apte: Pauṣkarasaṃhitā : dvitīyo bhāgaḥ, Tirupati 2006 (Rashtriya Sanskrit Vidyapeetha Series, 120) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc