पौष्करसंहिता · अध्याय 32
इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसुहितायां
लोकधर्मो नाम एकत्रिंशो ऽध्यायः ॥
॥ श्री ॥
अथ द्वात्रिंशो ऽध्यायः ।
पौष्कर उवाच ---
भगवन् भूतभव्येश नृणां सन् मन्त्रयाजिनाम् ।
तदर्चन परिख्यागाद् बुद्धिपूर्वात् तु किं भवेत्
श्रीभगवानुवाच ---
मन्त्रपूर्वं हि संकल्पं कृत्वा मन्त्रसमर्चने ।
अनिर्वेदान्महाबुद्धे यावदायुष (ष्य )मेव च
संदिष्टदेवतानां च कर्मणा मनसा गिरा ।
यत्नात् निर्वहणीयं तत् शक्त्यास्वविभवेन च
अस्वातन्त्र्याद् असामर्थ्यात् जाते वै सूतकादिके ।
विधिवत् प्रार्थनापूर्वं गुरुम् अर्चापयेत् तदा
संयतं गुरुपुत्रं वा भ्रातरं सहदीक्षितम् ।
कनिष्ठम् अथवा ज्येष्ठम् अन्यथा कमलोद्भव
प्रायश्चित्तं भवेद् घोरं प्राक्संकल्पपरीक्षया ।
तदर्भम् इतरेषां वै मन्त्रमुद्रादिकं स्वकम्
नाख्येयमत्यये प्राप्ते सम्यक्सिद्धिपरैर्नरैः ।
प्रकाशयति यो मोहान्मन्त्रमुद्रादिकं स्वकम्
इतरेषामभक्तानां तन्त्र (भ )मन्त्रेश्वरो द्विज ।
सहसिद्धगणेनैव समभ्येति पराङ्मुखम्
दत्त्वा चैव महादुःखं तस्मात् यत्नेन याजकैः ।
स्वमन्त्रं गोपनीयं च इतिकर्तव्यतान्वितम्
मुक्त्वा गुरुं सुतं जायां तत्शिष्यं चाप्यकृत्रिमम् ।
नान्येषां सन्निधौ कुर्यान् मन्त्रसन्तर्पणार्चने
तत्राति कमलोद्भूत इतिकर्तव्यतापरं (रः ) ।
प्रोच्चरेन्मनसा मन्त्रं मन्त्रध्यानं तु गोपयेत्
न्मुद्राक्षसूत्रं च यथा वै सिद्धिभाग भवत् ।
एवमेव हि वै येन विना मन्त्रपरिग्रहात्
देवार्चां स्वगृहे भक्त्या संस्कृत्य विनिवेशिताम् ।
तस्यार्चने नियोक्तव्यः स्वसामर्थ्यादिके सति
द्विजेन्द्रः पंचकालज्ञः षट्कर्मनिरतस्तु वा ।
संभवे सति चैतस्य वृत्तिं कुर्यात् च शाश्वतीम्
शाश्वतं भवतो येन ऐहिकामुष्मिकं फलम् ।
अन्यथा परोधेन न भयेन न मायया
देवम् अर्चापयेत् प्राज्ञो नित्ये ऽप्याकस्मिके ऽपि वा ।
सुसंपूर्णफलप्राप्तेः सद्वृत्त्यम्लेक्षण
तदर्थमर्चनं येन नित्यमङ्गीकृतं पुरा ।
प्रत्यवायं हि तल्लोपात् तस्य तत् फलभाग भवेत्
ना वक्तव्यमतस्तस्माद् वृत्तिलोपं शुभेप्सुना ।
कादाचित्केतु वा नित्ये नियुक्तानां हि वार्चने
बहिः प्रतिष्ठितानां च स्थापितानां तु वा गृहे ।
वृत्तिं भुङ्क्ते तु यां यस्य यन्निमित्तं महामते
तन्निमितात् फलं तस्य सफल्पादेव चाखिलम् ।
तस्मान् न लोपयेद् वृत्तिम् आराधनपरायणः
मनसा मन्त्रमूर्तेर् वै अर्थिनां गृहमेधिनाम् ।
ज्ञात्वा हृदयसद्भाव द्वाभ्यां वै देवता द्विज
विदधाति फलं सम्यक् प्रत्यवायं करोति वा ।
एवं ज्ञात्वा प्रयत्नेन शास्त्रसद्भावम् अब्जज
नोपेक्ष्या बुद्धिपूर्वा च सावलेपेन चेतसा ।
या काचित् चातुरात्मीया मूर्तिर्वा वैभवी विभोः
सा अर्चा तु शैलकाष्ठोत्था पटे कुडये च चित्रिता ।
आत्मशक्त्यनुसारेण सूतकादौ सदार्चने
लोपः सरक्षणीयश्च ज्ञात्वा कालं कुलोत्थि (?चि )तम् ।
कृत्वा स्वस्वनिवृत्तिं च श्रद्धापूतेन चेतसा
तावद् अर्चापयेत् यावत् - कालम् अभ्येति निर्मलम् ।
क्षान्त्यर्थम् अर्चनं भूयः स्नानपूर्वं समाचरेत्
हुत्वाग्निं विधिवत् भक्त्या गुर्वादीनां च दक्षिणा ।
प्रायश्चितो ऽन्यथा विप्रभवेद् आराधकस्य वै
अनर्चनात् तु देवानां कलितानां गृहान्तरे ।
यस्माद् व्यक्तिगतानां च देवानाम् अर्चनं नृणाम्
शुभप्रदं ह्येवमेव किं पुनः कमलोद्भव ।
विधिपूर्वं तु निःशेषं सामग्रीभिः समन्वितम्
सह वै भोगसंपत्या भक्त्या सश्रद्धया द्विज ।
नीति मार्गगतेनैव बुद्ध्या तु सुविशुद्धया
मन्त्र - मुद्रासन - ध्यानैर् देवतानां यदर्चनम् ।
तदर्थ - सिद्धिकृत् शश्वद् याजकानां यथास्थितैः
एवं ज्ञात्वा नावलेपः कार्यः संसार - भीरुणा ।
अनर्चने तु देवानां काम्ये नैमित्तिके ऽब्जज
प्रत्यहं च विशेषेण तव (?)विघ्नं यथा भवेत् ।
विप्रादीनां च भक्तानां विप्रयोगा दिकात् तु वै
दिव्यपित्र्योचितं स्नानं कृत्वा तदनु पौष्कर ।
प्राणायामं जपान्तं च प्राधान्येनाभिवर्तिनाम्
मन्त्राणां च महत् तेषां सिद्धान्ताख्यागमस्य च ।
प्राप्यते तदनुष्ठानात् सर्वोत्कृष्ठतरं फलम्
तथा च कमलोद्भूत जगत्यस्मिन् हि दृश्यते ।
देवासुर - मनुष्याणां व्यवहारं स्वभावजम्
जात्युक्तैः स्वप्रणैर् युक्ता (?)वर्णाद्याश्रमिणो ऽखिलाः ।
पुराण - स्मृतिपारज्ञा वेद वेदान्त वेदिनः
स्वकर्मधर्मनिरता मुनयो ऽपि महामते ।
न यान्ति परमां सिद्धिं विना मन्त्र पिरग्रहात्
सैध्दान्तिकाद् अनुष्ठानात् तद्विधानां च सेवनात् ।
किं पुनर् लोभ मोहार्थं मानवा मन्दबुद्धयः
ज्ञात्वैव यत्नमातिष्ठेन् मन्त्राराधन कर्मणि ।
प्रसादने गुरूणां च सिद्धान्ताद्यवगाहने
तन्निष्ठानां यतः सम्यक् कैवल्यम् अमलेक्षण ।
अपरोक्षम् अतो ऽन्येषां शुष्कतर्करतात्मनाम्
ज्ञान - कर्मरतानां च सिद्धयो विविधास्त्विह ।
सर्वथा यान्ति कैवल्यं शश्वद् देहपरीक्षया
पौष्कर उवाच---
नाथर् (?थ )ज्ञानानुविद्धस्य ज्ञातुमिच्छामि सांप्रतम् ।
कर्मणो ऽहं स्वरूपं च मन्त्रिणां यन्महर्द्धिदम्
श्रीभगवानुवाच---
वाचकान्तानिविष्टं तु मन्त्रकृव्यादिकं हि यत् ।
प्रयाति चाङ्गभावं तु भोगजाले हि मन्त्रिणाम्
तत् तदादौ परिज्ञेयं नित्यमाराधकेन तु ।
शुद्ध - संवित् - स्वरूपं च प्रस्फुरन्तं स्वतेजसा
विषयेन्द्रियभूताख्ये नाना करणशक्तिभिः ।
सुसंपूर्णं प्रबुद्धाभिद्न्यग्भूताभिः परस्परम्
यच्चाभिमानिके रूपे भोगे व्यक्तिं व्रजन्ति च ।
तत् पुनर् भोगकैवल्य सिद्धये स्वयमेव हि
प्रसिद्धं लक्षणेनैव वपुषा मन्त्रयाजिनाम् ।
समायात्यङ्गभावं च एवं नित्यं स्थिता स्थितिः
सांप्रतं च प्रबुद्धैस्तु सा पद्मदललोचन ।
क्षेप्तव्या भावनापेक्षो (?क्षा )वस्तु तच्चासतो न हि
सत्वं स्याद् भाव मन्त्रेण सद्भावं किन्तु साधनम् ।
आप्तवाक्य प्रधानानाम् आगमैक रतात्मनाम्
सम्यगच्युत भक्त्या वै निर्मलीकृत चेतसाम् ।
यथा जलत्वं वै वह्नेर् युक्तिभिर् नोपपद्यते
एवं जलस्य वह्नित्वं न कदाचित् प्रजायते ।
यत्र वा मन्त्रिणा ताभ्यां विपर्यासो ऽभिदृश्यते
तदिन्द्रजालं वै मान्त्रं भक्तानां शुभवर्त्मनि ।
प्रेरकं कमलोद्भूत नाना प्रत्ययलक्षणम्
ज्ञानमूर्तिस्तु भगवान् भक्तानुग्रहकाम्यया ।
भुक्त्वा भोगात्मनांशेन भुनक्ति स्वयमेव हि
मुक्त्ये याजकानां तु द्विविधं वस्तुसंग्रहम् ।
द्विविधेन तु भेदेन तस्मान् नित्यं समभ्यसेत्
ज्ञानयुक्तं हि वै कर्तृ कर्मैवं सुविलक्षणम् ।
यत् प्राप्तम् आप्तवक्त्र्त् तु आगमान्निश्चयीकृतम्
अभ्यर्थनादिना मन्त्रं यत्क्रमात् समुपागतम् ।
मुद्रान्वितं महाबुद्धे ह्यस्तित्वेनाप्यलङ्कृतम्
तत् प्रमादाद् अबुद्धानाम् अन्यकर्मरतात्मनाम् ।
वर्णाद्यैः व्यत्ययीभूतं विलुप्तं वा स्वरादिना
अधिकं वाब्जसंभूत तत् करोत्याशुभं सदा ।
मन्त्रिणाम् अचिरादेव तत्रापि कमलोद्भव
अतिभक्तिप्रभावेन वाचस्यानेकरूपणिः ।
संमुखीकरणादीनां कर्मणा संप्रयोजितम्
तदनुग्रहसामर्थ्यात् वाञ्छितं संप्रयच्छति ।
यस्मात् सद्भक्ति भूतानां प्रपन्नानां क्रमं विना
प्रसादमेति मन्त्रेशस्त्वचिराद् भावितात्मनाम् ।
किं पुनर् वै क्रिया ज्ञानसंपूर्णानां तु पौष्कर
भक्तिश्रद्धापराणां च बोधितानां च देशिकैः ।
विना गर्वोक्तिभिः चैव वाक्यैश्चित्तानुरञ्जकैः
समुद्राणां च मन्त्राणां उपायं प्राग्यतो महत् ।
परंपरागतं चैव शाश्वतं हि गुरुक्रमम्
ततः सदास्तिकत्वं च तत् परिग्राहिणो द्विज ।
संयमं भक्तिपूर्वं तु सक्रियं तदनन्तरम्
ततश्चैवागमार्थं तु पश्चात् संवेदनं स्वकम् ।
बुद्ध्वैव भक्तिपूर्वं तु ह्युपायैर् विविधैः पुनः
आप्तः सदागमज्ञश्च सेवनीयः सदैव हि ।
नित्यं मन्त्रपरेणैव दृष्टादृष्ट फलार्थिना
संभवे सति सम्यक् च प्रत्यहं तस्य पौष्कर ।
योगक्षेमादिकं सर्वं चिन्तनीयं स्वशक्तितः
यस्माद् अस्मिन् हि संसारे गुरुत्वेन प्रवर्तितम् ।
ईश्वरेच्छावशात् चैवम् अच्युतं परमेश्वरम्
तन्मुखेन महाबुद्धे यः प्रसर्पितुम् इच्छति ।
स्वमन्त्रं भक्तिमत्यर्थं तदादौ तस्य[पौष्कर]
तत् पुत्रस्य अथवा भक्त्या अनुयागविधौ सदा ।
निवेदनीयं पाकाग्रं परितुष्ठेन चेतसा
आस्तां तावन् महाबुद्धे स्वगुरुं तत्सुतं तुवा ।
क्रमविच्चागमज्ञो ऽन्य एकान्ती वा त्रयीमयः
कृताह्निकः सुसंतुष्टः शान्तचिन्तो ह्यनाकुलः ।
अभ्यर्थितो ऽतिभक्तो वै चिरकालं महामते
स्वमन्त्रसाधनाख्यं वा द्वि षडष्टषडक्षरम् ।
जितन्तसंज्ञं प्रणवम् आद्यं चान्तं सबीजकम्
एवम् एकत्र संयोज्यम् ऊर्ध्वम् अङ्गारक्टवत् ।
साङ्गं पाणितले न्यस्य तद्विज्ञानादिनां तनौ
तद् अहङ्कारम् आलम्ब्य यस्य सानुग्रहं गृहे ।
भुनक्ति तद् अनन्तं वै जायेते तस्य तत्क्षणात्
मण्डलादौ तु मन्त्रेशो भोगैर् इष्टस्तथाखिलैः ।
तर्पितश्चाव्निमध्ये तु आज्याद्यैर्न तथाब्जज
समभ्येति परां प्रीतिं यथाचार्यशरीरगम् ।
तस्मान् निमित्तम् आश्रित्य प्रतिपक्षस्य चान्तरे
तथा मासस्य चाब्दस्य मासषट्कस्य वा अब्जज ।
मध्ये ऽभ्यर्च्यं विशेषेण स्वमन्त्रं गुरुसन्निधौ
पितॄणां प्रीतये पश्चाद् भूतये ऽपि हि चात्मनः ।
प्रपूज्य देशिकेन्द्रंतु कालं रात्रिक्षयावधि
पादसंवाहनान्तैस्तु भोगैः पाद्यार्ध्य - पूर्वकैः ।
प्रसाद्य च यथाशक्त्या मात्रवित्तं निवेद्य च
अनुव्रज्य महाबुद्धे व्रजन्तं स्वगृहादिकम् ।
एवं संप्रतिपन्ना ये मन्त्राराधन - कर्मणि
वर्णा द्विजेन्द्रपूर्वास्तु ब्रह्नचारि - पुरःसरा ।
भैक्षुकान्तास्तु वै सर्वे सिद्धिं समुपयान्ति च
पौष्कर उवाच ---
पुरा यस्यजगन्नाथ मन्त्रमूर्तिर् गृहान्तरे ।
एका वा नेकं भेदोत्था विद्यते बिम्बलक्षणा
भक्त्या परिगृहीता प्राक् स्वयं वा पूर्वजैर् द्विज ।
निवेशिता मन्त्रपूर्वं निक्षिप्ता वा परेण तु
धनेनाप्ताथवान्यस्माद् अयोग्यात् तस्करादिकान ।
सांप्रतं स्वगुरोर् लब्धा दृष्टादृष्ट प्रसिद्धये
चित्तप्रसाद जनको मन्त्रः संसारदुःखहृत् ।
स च तद्विनियुक्तस्तु साङ्गः सपरिवारकः
आराधकस्य भगवन् विहितं वा नवादिशा ।
श्रीभगवानुवाच---
स्वयं व्यक्तं हि यद् विप्र तथा मरगणैर् द्विज ।
स्थापितं मन्त्रसिद्धेस्तु आकारं भगवन्मयैः
तदधिष्ठित - मन्त्राणां सह तस्य च योजना ।
विहिता कमलोद्भूत नृणां सन्निधिसिद्धये
एवं सपरिवारं च न स्वमन्त्रः सदा गृहे ।
मन्त्राकृतौ तु चान्यस्मिन् योजनीयः पदादिषफ
पूजनीयं स्वमन्त्रेण लाञ्छनाङ्गान्वितेन च ।
बिम्बसंरुद्ध - मन्त्रं च तद्विमुक्तमपि द्विज
सर्वा चैव स्वयंव्यक्तपूर्णानां हि महामते ।
निवेशनं हि मन्त्राणाम् अन्योन्यानां गुणावहम्
नित्यं यो यतचित्तस्तु मन्त्राराधन - कर्मणि ।
देहस्थं क्षपयेत् शेषं कर्मबन्धम् अशाश्वतम्
समः सर्वेषु भूतेषु मन्त्रेषु च विशेषतः ।
निषिद्धं तद्विना न्येषां स्वमन्त्रस्य नियोजनम्
कस्यचित् कुत्रचित् सम्यक् यस्मान् मन्याकृतौ द्विज ।
प्रसीदति स्वमात्मानं शुध्दज्ञानोदयं विना
न निषिद्धं स्वमन्त्रेण क्वचिद् अन्यत्र पूजनम् ।
प्राधान्येन स्वमार्गा च्च गृहे वा न्यत्र मण्डले
समाहृतां च पूजार्थं मन्त्रतन्त्रार्चने सति ।
स्वमन्त्रेण न दोषो ऽस्ति तद्वद् आयतनेषु च
मन्त्रेण भिन्नमार्गा च्च प्रतिमा मण्डलं तु वा ।
अधिष्ठितं यदा तत्र विहितं दर्शनं तु वै
पुष्पदानं स्वमन्त्रेण व्यापकेन मलात्मना ।
चिन्मात्रता - स्वरूपेण मन्त्राणां हि यतो ऽब्जज
अविशेषं हि सामान्यं शब्दब्रह्ममयं वपुः ।
ध्यान - न्यासादिकैः तेषो विशेषस्तु परस्परम्
जायते शबलं भीमम् अभिचारफलप्रदम् ।
अनुग्रहपरं मन्त्रं शब्दब्रह्ममयं स्वकम्
याज्य - याजकभावेन समभ्पेति तथाब्जज ।
संरुद्धम् अपि यत् तूत्र व्यक्तिशक्ति - धिया विना
शब्दब्रह्मात्मना त्वास्ते तदैक्यात् च बलं कुतः ।
पटव्यक्ति - द्वयेनैव विना ऐक्यं नमसो यथा
द्वाभ्यां शब्दस्वरूपाभ्याम् एवम् ऐक्यम् अनुग्रहात् ।
सुजन्म चैवं क्षोभस्य विशेषयजनं विना
स्वगृहे मण्डले यागे दिव्याद्यायतने ऽपि च ।
पौष्कर उवाच---
परं मार्गं न पश्यामि जगत्यस्मिन् जगन्मय ।
वासुदेवात्मकं यस्मात् सर्वं स्थावरजङ्गमम्
श्रीभगवानुवाच---
सत्यम् एतन्महाबुद्धे यथा संयोदितं त्वया ।
किन्तु क्रियाप्रवृत्तस्य जन्तोर् भक्तिपरस्य च
हृदयावर्जको (गो )यत्र विश्रामः परमार्थतः ।
तत् सन्मार्गो याञकस्य वैष्णवः स हि सात्विकः
स्वयमेव प्रवृत्तस्य लोकानुग्रहकाम्यया ।
विभवव्यूहभावेन स्वच्छसत् षङ्गुणात्मना
तस्योपचर्यते येन आगमेनाथ कर्मणा ।
सन्मार्गं विद्धि तं विप्र शश्वद् ब्रह्म विभूतिदम्
विभुर्विभवभावस्थ इच्छया वितनोति यत् ॥
प्राकृतं क्षेत्रमाश्रित्य तद्गुणं देवतात्मकम्
तन्मायीयं च निःशेषज्ञानाद्यैश्छुरितं गुणैः ।
गुणात्मकं तु तं विद्धि शबलं नातिनिर्मलम्
तद् व्यञ्जकं हि यत् शास्त्रम् इतिकर्तव्यता च वै ।
असन्मार्गं तु तं विप्र विद्धि पूर्वव्यपेक्षया
तस्मात् परपदप्राप्तेः कारणं परमं स्मृतम् ।
विभवव्यूहसंज्ञं तु शाश्वतं रूपम् आच्युतम्
क्षिप्रमेव प्रपन्नानां ज्ञानपूर्वेण कर्मणा ।
ददाति सत्पदप्राप्तिं कर्तिणां भावितात्मनाम्
काम्यानां कर्मणां प्राप्तौ हि अचिरेणैव पद्मज ।
उपायं नापरं मन्ये नित्यं भोगाभिलाषिणाम्
सुसूक्ष्म - न्यूहविभवं मुक्त्वा सद्ब्रह्न - याजिनाम् ।
सांसारिकं फलं हेयं स्वर्गादि - प्राप्तिलक्षणम्
प्रार्थ्यमानं हि यज्ञाद्यैः शश्वत् तस्मान् न चाव्यते ।
अतएव हि मायीये नाराध्यो देवतागणः
सम्यम् संप्रतिपन्नैस्तु सन्मार्गे परिचोदिते ।
तस्मात् कमलसंभूत प्रयत्नेन सदैव हि
कुर्याद् आराधनं भक्त्या मन्त्राणां हि यथाक्षणम् ।
एषाम् अनुग्रहाद् दुःखं त्रिविधं क्षयमेति च
अधिभौतिकम् आध्यात्मम् अधिदेवीयम् अब्जज ।
पौष्कर उवाच ---
आराधकानां भगवन् मन्त्राणां शश्वद् अर्चने ।
सर्वदा पत्रपुष्पाद्यैः भोगैः किं फलमर्चनात्
विस्तरेणार्चनात् तेषां बहुभिः कुसुमादिकैः ।
किं फलं याजकानां तु अत्र मे संशयो महान्
श्रीभगवानुवाच ---
फलसाम्यं द्विजश्रेष्ठ भावभक्तिवशात् स्थितम् ।
दरिद्राणां च भक्तानां फलपुष्पादिना विना
यत्फलं तद् द्विजाढ्यानां निरन्नानां तु चार्चनात् ।
सदाढ्यानां च भक्तानां होमाद्यैर् अर्चनात् फलम्
यत् तद् विद्धि दरिद्रणां भक्तानां कुसुमादिकैः ।
क्षणस्य च समं ज्ञेयं सदा होरात्रलक्षणम्
नृपाणां च दरिद्राणां कालं यत् तत् क्रियश्रितम् ।
तत्रापि कमलोद्भूत भूतार्थम् अवधारय
यथालब्धेन शुद्धेन भोगजालेन वै सह ।
कर्तव्या धारणा ध्यानं मन्त्राणां यत्र पौष्कर
समुद्राणां च योगस्य विस्तरात् नित्यमेव हि ।
तद् याजकानां यजनम् अचिराद् भुक्तिमुक्तिदम्
संक्षिप्तं धारणाद्यैर् यत् तत् कृतम् चाप्यभोगदम् ।
संभोगैर् धारणाद्यैर् यत् संकटं तत् चिरेण तु
विदधाति च भक्तानां भोगहीनं परं पदम् ।
तस्मात् श्रेयो ऽर्थिनां नित्यं भुक्तिमुक्ति - फलाप्तये
निर्व्याकुधिलया भक्त्या कालांशम् अवलब्म्य वै ।
विमुक्तमन्यैर् व्यापारैर् विधिवद् घटते यथा
सुसंपूर्णं तु यजनं धारणाद्यैः सुविस्तृतैः ।
भोगैर् यद्यपि संपूर्णैः संपत्तिः सह वै नृणाम्
तथापि कर्मनिष्ठानां आधिक्यं चास्ति पौष्कर ।
भोगापवर्गहृत् शाठ्यात् तन्निरासात् कृते स्फुटे
जायेते याजकानां तु नातो (?त्रो )त्साहं परित्यजेत् ।
द्रव्यसंपद्विना नित्यं मन्त्राराधन - कर्मणि
परं हि यस्य वा भावो भोगवृन्दस्य पौष्कर ।
भोगाप्ति फलनिष्ठस्य प्रथमं चाकृतात्मनः
न पुनर्मोक्षनिष्ठस्य कर्मणः शाश्वतस्य च ।
पुरुषार्थप्रदस्याशु खण्डनं सद्विवेकिनाम्
पौष्कर उवाच---
संसारिणां हि भक्तानां नानाकर्मरतात्मनाम् ।
पुत्रदारादिभरणे नित्यं व्याकुलचेतसाम्
विस्तरेणार्चने तेषां कथं संपद्यते ऽच्युत ।
अनर्चनात् त्वयोद्दिष्ट - फलं वैकल्यम् उत्तमम्
श्रीभगवानुवाच ---
क्रमयुक्तं हि यत् कर्म तच्च श्रेयस्करं नृणाम् ।
तस्मात् तत् न परित्याज्यं संक्षिप्तमथ विस्तृतम्
मुख्यकल्पं हि विस्तारम् अनुकल्पम् अतः परम् ।
समत्व घटते केन हेतुना कमलोद्भव
तत्रापि चा शठानां च भक्तानां भावितात्मनाम् ।
विहितं पत्रपुष्पाद्यैः सभोगैः वाग्भिर् अर्चनम्
कर्मणाम् अनुसंधानं विना कालान्तरेण तु ।
क्ष्मा - जलानलवाय्वाख्यं नाभसीयं महामते
धारणापञ्चकात् चैव संक्षिप्तं विहितं द्वयम् ।
दहनाप्यायनाख्यं यद् आदेहात् सर्वशुद्धये
परापर - स्वरूपात् च ध्यानात् एकं परं महत् ।
हृन्मन्त्रं सर्वमन्त्रयाणाम् उपचारक्रियाविधौ
कर्मणा समनस्कं च प्रणवाद्यं महामते ।
एका हि आराध्यमुद्रा वै योगमन्त्रस्य सा स्मृता
स्मरणान्नेत्रयोर्मध्ये स्वोच्चारं निष्कलस्य तु ।
नति - प्रणवगर्भाभिः स्वसंज्ञाभिर्यदर्चनम्
विधिवन् मन्त्रमूर्तीनां तत्परं क्षिप्रसंज्ञितम् ।
बीजैर् विशेषिताभिः तद् द्वितीयं सूक्ष्मलक्षणम्
यल्लक्षणामृतैः पिण्डैः सह संज्ञाभिर् अब्जज ।
जपान्तम् अखिलं कर्म मन्त्राणां तद् बृहत् स्मृतम्
क्षिप्रमाद्यात् च कैवल्यं किंचित् कालान्तरेण तु ।
द्वितीयाद् अब्जसंभूत बुद्धिपूर्वक्रमेण तु
ज्ञानादि गुणषट्कं चे इहैवाद्यं प्रयच्छति ।
अणिमादि अष्टकं चैव द्वितीयम् अमलेक्षण
समस्तभुवनैश्वर्यं तृतीयम् अचिरात् तु वै ।
साम्यं निःश्रेयसावाप्तेः सर्वेषां किन्तु पौष्कर
क्षिप्रं लक्षणपूर्वेण कालेन त्रिविधेन तु ।
महत्तैव हि मन्त्रस्य स्वसंज्ञाख्यस्य यद्यपि
तथापि कमलोद्भूत क्षिप्रपूर्वादिकेर्ऽचने ।
बीजं वा पिण्डमन्त्रं च प्रणवाद् अनुसंस्मरेत्
आराध्यं मन्त्रनाथस्य हृदादीनां तथैव च ।
अन्येषाम् अन्तरङ्गाख्यं मन्त्राणां कमलोद्भव
प्रधानलक्षणानां च कमलासनवर्तिनाम् ।
न विरोधस्ति अतः अन्येषां बीजैः पिण्डैर्विना अब्जज
वज्रळाञ्छन लोकेशतदस्त्राधारर्तिनाम् ।
तथासनाख्य विघ्नेश पूर्वाणां द्वारवासिनाम
ब्रह्मचारि - गृहस्थस्य स्वतन्त्रस्य यतेरपि ।
किं पुनस्तु गृहस्थस्य व्यापारनिरतस्य चा
एतद् वै नैष्ठिकानां तु तच्चित्तनिरतात्मनाम् ।
साधकानां सवित्तानां हितम् एकान्तवासिनाम्
भक्तिश्रद्धापरः सम्यग्गृहीत्वा यः समाचरेत् ।
ददाति तत्र मन्यात्मा पूर्वोक्तं द्विविधं फलम्
सह साधकसिद्धीभिर निर्विघ्नेन महामते
मूल पाठ: Pauṣkarasaṃhitā 27-43 · Edition: Prabhakar Pandurang Apte: Pauṣkarasaṃhitā : dvitīyo bhāgaḥ, Tirupati 2006 (Rashtriya Sanskrit Vidyapeetha Series, 120) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0