भाषा

ENहिગુ
ग्रंथ पाठ

पौष्करसंहिता · अध्याय 31

31.1

इति श्रीपाञ्चरात्ते महोपनिषदि पौष्करसंहितायां
पवित्रारोहणं नाम त्रिंशो ऽध्यायः ॥
अथ एकत्रिंशो ऽध्यायः
श्रीभगवानुवाच ---
पवित्रारोहणं कृत्वा चातुर्मास्यं महामते ।
निर्वहणीयं नियमैर्विविधैर्लोकपूजितैः

31.2

शयनं देवदेवीयम् अर्चयेत् तद् विधिं शृणु ।
हेमादिरत्नरवचिते सर्वाङ्गपरिशोभिते

31.3

भगवत्यनुरूपे च शयने शशिवासिते ।
सितातपत्रचमरकिङ्किणीवरमण्डिते

31.4

वैजयन्तीगणोपेते हेमदण्डाङ्घ्रिभूषिते ।
वितानकेन दिव्येन कुङ्कुमाद्यैर्विभूषिते

31.5

शोभिते चोपरिष्टात्तु तिर्यगूर्ध्वपटावृते ।
जातीफलादिकैर्लाजसर्वबीजादिपूरिते

31.6

विदिक् चित्रपटैर्युक्ते सत्पुष्पप्रकरीकृते ।
रत्नदीपसमायुक्त इत्यस्मिन् शयने स्मरेत्

31.7

श्रीरोदार्णवमध्यस्थं सहस्त्रफणमौलिनम् ।
हिमकुन्देन्दुधवलं नागनाथं महामते

31.8

प्रणवेन स्वनाम्ना च वर्णान्तेन सबिन्दुना ।
ध्यात्वार्चयित्वा स्तुत्वा च नमस्कृत्य प्रसाद्य च

31.9

निवेश्य तस्मिन् कर्मार्चां हारकेयूरभूषितम् ।
श्रीखण्डशाशिबाह्लीकविलिप्तां पुष्पवेष्टिताम्

31.10

प्रावृतां नेत्रवस्त्रेण मृष्टरूपैः सुधूपिताम् ।
स्वबीजं मन्त्रवर्णं तु ओं लक्ष्मीपतये नमः

31.11

समुदीर्य धिया चार्ध्यम् अङ्गोपाङ्गक्रमेण तु ।
द्वादशाक्षरवर्णैस्तु स्वनामपदसंयुतैः

31.12

कर्मार्चाया अभावात्तु दर्भमञ्जरिजं शुभम् ।
यथोक्तेन विधानेन विष्टरे विनिवेश्य च

31.13

तस्मिन् मन्त्रवरं न्यस्य स्वपद्मगगनोदरात् ।
निलीनाखिल गण्डादिशक्तिपञ्जरमध्यगम्

31.14

व्यक्तीनां मूर्तिदानेन नीत्वा ध्यानान्वितेन च ।
देवाङ्गमहितं वस्त्रम् अभुक्तम् अमलात्मकम्

31.15

क्ष्त्वोपरि समभ्यर्च्य पुष्पधूपविलेपनैः ।
सर्वतत्र्वोपसंहारं चितः शक्तिं तु विन्यसेत्

31.16

दक्षिणे त्वभिमानाख्यां मूर्तिं तु चमरोद्यताम् ।
एवं ज्ञाननिशां वामे तालवृन्तकरोद्यताम्

31.17

उत्तमां भावयेन् निद्रां करसंवाहने रताम् ।
पादारविन्ददेशस्थां लालयन्तीं कराम्बुजैः

31.18

आदाय चरणे दिव्ये साक्षाछ्रीः सन्निधिस्थिता ।
आनन्दं ब्रह्मणो रूपं तस्यै देवाधिदेवता

31.19

तदन्तः स्मरणानन्दजातविस्मयलोचनाः ।
स्वनामपदमन्त्रैस्ताः संपूज्याः प्रणवादिभिः

31.20

एवं हि देवदेवीयं शयनं कमलोद्भव ।
यथोक्तं संप्रतिष्ठाप्य चातुर्मास्यपरैर्नरैः

31.21

कार्यात्र प्रत्यहं पूजा मार्जनं चोपलेपनम् ।
मृदा धातुविकारैर्वा सुगन्धैश्चन्दनादिकैः

31.22

प्रदानं धूपदीपानां व्यजनेनानिलोत्थितः ।
शशिचन्दनसंयुक्तशीतलोदक सत्क्रियाः

31.23

कदलीदलकह्लारैः पद्मोत्पलविमिश्रितैः ।
स्वेदशान्तिं समापाद्य पौनःपुन्येन पूजनम्

31.24

वेणुवीणासमोपेतां गीतिं च मधुरस्वराम् ।
एवं मासद्वये याते जाते मेघरवे ऽम्बरात्

31.25

ब्रह्मन् भाद्रपदे मासि द्वादश्यां हि निशामुखे ।
ईषत् प्रबोधम् आश्रित्य देवदेवो ह्यधोक्षजः

31.26

स्थित्यर्थम् अमराणां च परिवर्तनम् आचरेत् ।
दक्षिणेनाङ्गसङ्घेन त्यक्त्वा चोत्तानशायिकाम्

31.27

योगनिद्रां समाश्रित्य प्रकुर्वन् प्रभवाप्ययौ ।
मरुच्चक्राक्षसंस्थस्य विश्वबीजस्य पौष्कर

31.28

मूलेन्दुमण्डलाच्चाथ अपास्याच्छादनाम्बरम् ।
आस्ते त्वाश्वयुजे त्वेष द्वादश्यां परमेश्वरः

31.29

संत्यजेच्छयनं दिव्यं निशायां कार्तिकस्य (तु )च ।
उत्थायामरनाथश्च समाक्रम्य पतत्रिराट्

31.30

निःशेषभुवनग्रामवीथीनां दोषशान्तये ।
विचरत्यप्रमेयात्मा नन्दयंस्तान् सुरादिकान्

31.31

आवीक्षयञ्जगत्यस्मिन् स्वकृतं धर्मपद्धतिम् ।
एवं भक्तजनैः कार्यं तस्य तच्चेष्टितं महम्

31.32

विविधैरुत्सवैर्दानजपजागरणैः शुभैः ।
नृत्रगीतसमोपेतैर्विलासैर्हास्यसंयुतैः

31.33

क्रीडमानैः सुमनसैः प्रयतैः प्रणतैः प्रभोः ।
एकदेशस्थितैर्विप्र अनन्यमानसैः सदा

31.34

मासशेषं तपोनिष्ठैः समर्थैः पुनरेव हि ।
स्वाश्रमे वामरक्षेत्रे रक्षणीयं महाजनैः

31.35

ब्रह्मन् द्वादशरात्रेण षड्रात्रेण शुभेन च (वा ) ।
असामर्थ्यं त्रिरात्रेण अहोरात्रेण वाब्जज

31.36

नयेन् नक्ताशनेनाथ चत्वार्येते शुभव्रताः ।
मासोपवासनिरतैर्नरैः परमवैष्णवैः

31.37

अन्ते त्रिद्वयेकरात्रं वा कार्यम् अच्युतजागरम् ।
पुण्याख्यानकथाभिस्तु स्तोत्रपूर्वैस्तु गीतकैः

31.38

सवाद्यैर्मधुरैर्नृत्तैरपहासैः तु इर्षदैः ।
जयशब्दैर्नमस्कारैः करतालसमन्वितैः

31.39

समर्चयेच्छ्रीनिवासं जुह्वान् ध्यायन् जपन्नपि ।
भोगैः षड्रसपूर्वैस्तु सूपूर्णैशैपचारिकैः

31.40

अर्ध्यैर्विलेपनैर्माल्यैर्मृष्टधूपसमन्वितैः ।
ब्राह्मे मुहूर्ते द्वाश्यां मन्त्रमूर्तिं यजेद्धरिम्

31.41

शङ्खध्वानसमोपेतैर्दुन्दुभीपटहस्वनैः ।
वन्दिवृन्दोत्थितोच्चाभिर्नानावाग्भिर्महामते

31.42

महाजयजयारावैः पुनःपुनरुदीरितैः ।
प्रबोधलक्षणैस्तोत्रैरुत्थाप्य शयनात्ततः

31.43

महता विभवेनाथ मण्डलादौ यजेत्क्रमात् ।
महत्स्नपनपूर्वैस्तु भोगैः पूणैर्यथोदितैः

31.44

महादीपैः प्रभूतैस्तु साङ्कुरैः पालिकागणैः ।
फलैः पनसपूर्वैस्तु मध्वाज्यतिलचर्चितैः

31.45

पुष्पार्ध्यचन्दनाद्यनतैर्ब्रह्मसूत्रविभूषितैः ।
मालतीमल्लिकापूर्वसमुत्थैर्मञ्जरीगणैः

31.46

कदम्बचूतश्रीवृक्षऋजुशाखासमन्वितैः ।
तरण्डैः सूत्रसम्बधैः कुङ्कुमाद्यैःसुपूजितैः

31.47

गोभूहेमादिकैदानैश्चित्रैः प्रावरणैः शुभैः ।
एवमिष्ट्वा तु होमान्तं ग्रामं वा नगरं गृहम्

31.48

सपवित्रेण यानेन सचक्रेण शुभेन वा ।
मन्त्रास्त्रकुम्भयुक्तेन तद्बिम्बोदरकेण वा

31.49

ब्रह्मघोषसमेतेन गीतवाद्यान्वितेन च ।
गणिकाभगवद्भक्ताः सहनागरिकैर्जनैः

31.50

परिव्राड्ब्रह्मचारीभिर्जपस्तुतिपरायणैः ।
महता केतुयुक्तेन सितच्छत्त्रावृतेन तु

31.51

प्रदहन् सुरभिं धूपं पृथक् साम्यं च गुगुलुम् ।
यानमेवं परिभ्रम्य द्रविणं चार्थिषु क्षिपेत्

31.52

ततः प्रदक्षिणीकृत्य चतुर्धां प्रणिपत्य च ।
सर्वाङ्गैर्दण्डवद् भूमौ भक्त्या तु पुरुषोत्रमम्

31.53

रथस्थं आलयस्थं तु चेतसा संस्तुवन् जपन् ।
प्रक्षिपन् चार्ध्यपुष्पे तु लाजान् सिद्धार्थकान् फलान्

31.54

दृष्टं यदेव दिग्देवं भावयेत् सर्वदिक् तथा ।
चङ्क्रमेद्भवनं कृत्स्नं स्थितिं बध्नाति येन वै

31.55

भक्तानां भगवान् भक्तौ दिक्कालाद्यैर् अनाहतः ।
एतत्प्रदक्षिणं नाम सामान्यं सर्वदेहिनाम्

31.56

समभ्यस्तं परिज्ञातं ददाति पदमाच्युतम् ।
जानुभ्यां सहपाणिभ्यां जानुभ्यां वा समाचरेत्

31.57

सकृत् संवत्सरस्यान्ते त्रिसन्ध्याद्वादशीषु वा ।
एकमेव तथेज्यान्ते शिरसावनतेन तु

31.58

समभ्यर्च्य ततो भावम् अचिराद् एव कर्मिणाम् ।
फलं यच्छति देहान्ते क्रमाल्लोकास्तु वैभवाः

31.59

कृतेज्यः परया भक्तया प्रणम्यैवम् अधोक्षजम् ।
प्रदक्षिणैर् अर्चनीयं प्रणिपातसमन्वितैः

31.60

सर्वक्षेत्राभिगमनात् सर्वतीर्थाटनात् तु वै ।
फलं ददाति भगवान् भक्तस्य चरणार्चितम्

31.61

प्रदक्षिणीकृता येन मूर्तिर्मन्त्रात्मनो हरेः ।
दोषैः प्रदक्षिणीकृत्य त्यक्तः संभवगैर्नरेः

31.62

भगवत् कर्मदीक्षाणां भक्तानां भावितात्मनाम् ।
प्रकृष्टम् एतद् व्यापारं दक्षिणं शुभवर्त्मनि

31.63

ज्ञानगोलकतुल्यत्वात् चक्रवद् भ्रमणात् तु वै ।
प्रददाति शुभं नित्यं क्षिणोति क्लेशसंचयम्

31.64

भगवत् कर्मनिष्ठानां देवायतनवासिनाम् ।
भक्तानाम् अपि वान्येषां कर्मवाग् इन्द्रियात्मकम्

31.65

अन्तर्गर्भगृहे विष्णोर्गर्भाद् वा आननमण्डपे ।
प्रणिपातगणं कुर्यात् प्रदक्षिणगणं विना

31.66

वह्निस्थस्य विभोर्यस्मात् पाणिपृष्ठस्य दर्शनम् ।
दोषकृन्मन्त्रमूर्तीनाम् एवं देहम् असिद्धिकृत्

31.67

जानुप्रदक्षिणं कृत्वा अन्तः सन्निकटे विभोः ।
विरुद्धम् अपरं विप्र भक्तानां चरणभ्रमः

31.68

उपानत् पादुकारूढच्छत्रोष्णीषधरास्तथा ।
यानाश्वशिबिकासंस्थः ताम्बूलाद्यं हि चर्वयन्

31.69

क्रीडापक्षिहिलादण्डदर्पणं व्यञ्जनं वहन् ।
प्रहसन्नथवामोदम् उच्छ्वसन् प्रलपन् बहु

31.70

विलासकेलिक्रीडां च कुर्वन् कुपितमानसः ।
त्वराविष्टः शुभार्थी यो लभेन् नात्र भ्रमन् फलम्

31.71

अनन्यबुद्धिना तस्मात् तग्दतेनान्तरात्मना ।
कार्यं शुभेप्सुना नित्यं गृहायतनयानगे

31.72

यस्माद् वै भूरिफलदम् अल्पक्लेशं महामते ।
एकबेरम् अनन्तं च महामोक्षकरं परम्

31.73

एवं प्रदक्षिणीकृत्य कृत्वा पुष्पाञ्जलिं ततः ।
अवतार्य रथान्मान्त्रं चक्राधिष्ठानपूर्वकम्

31.74

पूजनीयं पुनरपि मुद्राबद्धाञ्जलिं ततः ।
तर्पणीयमथाज्याद्यैर्दद्यात् पूर्णाहुतिं शुभाम्

31.75

अर्ध्यधूपप्रदानाद्यैः क्षमयेत् पुरुषोत्तमम् ।
यानपात्रं तथा च्छत्रं प्रतिपाद्य सदक्षिणम्

31.76

शयनं स्वगुरोर्विप्र द्विजानां तदसन्निधौ ।
कृत्वा जानुद्वयं भूमौ बद्धाञ्जलिरिदं पठेत्

31.77

देव सर्वेश्वरानादे कर्मणानेन चाखिलाम् ।
शुभां गतिं जनो यातु प्रीतिं त्वं परमां भज

31.78

भोजयेद् ब्राह्मणान् पश्चाद् विविधैः पानभोजनैः ।
श्रद्धया दक्षिणान्तैश्च तृप्त्यर्थं पितृसन्ततेः

31.79

अनुयागं ततः कुर्याद् बन्धुभृत्यसमान्वितः ।
विभवे सति वाब्जोत्थ कार्यमेवमनाकुलैः

31.80

द्रष्टव्यम् अमरैर्देवं क्षेत्रे ब्रह्मरथे स्थितम् ।
ग्रामीये नागरे स्थाने विमाने वा स्थितं प्रभुम्

31.81

इत्येवमुक्तं भक्तानां विधानं कौमुदीयकम् ।
यस्य सालोक्यतापूर्वं फलं भाववशात् स्थितम्

31.82

पवित्रारोहणाद्यं च भक्तानां भावितात्मनाम् ।
युदक्तमेवम् अखिलं यथाकमलसंभव

31.83

अस्वातन्त्राद् असामर्थ्याद् वित्ताभावात्तु वा द्विज ।
द्वादशीष्वखिलास्वेवं कुर्यात्संवत्सरान्तरे

31.84

वारिते ऽपि निशायां तु चातुर्मास्ये तु संयमे ।
भक्तैर्निर्वहणीयं च तुलाभागावसानिकम्

31.85

प्राक् भवेत्रुलभो (गात्तु )गस्तु ?द्वादश्यां विगतं यदि ।
निशायाम् आचरेत् कृत्स्नं पारम्यं तत् तिथेर्यतः

31.86

कुर्याद्व्रतवरं चैव पञ्चाहमुभयोरपि ।
एकादशीपूर्णिमान्ते तुलाद्वै वृश्चिकावधि

31.87

मधुमांसपरित्यागं मदिरास्त्रीनिषेवणम् ।
मारणं मृगजातीनां द्रुमविच्छेदनं तथा

31.88

वनदाहं च वसुधास्वातं कुद्दालकादिना ।
तानं गोपशूनां च वधबन्धादिकं नृणाम्

31.89

निशाटनम् अवर्णानां व्यवहारं तु तैः सह ।
मृष्टोदनं तु साभ्यङ्गं सर्वं यत्नाद् विवर्जयेत्

31.90

उपसंहारदिवसाद् अपरे ऽहनि पद्मज ।
भक्तानाम् आस्तिकानां च विहितं वत्सरं प्रति

31.91

कर्तव्यम् अभिषेकं च स्वस्तिशान्तिशुभाप्तये ।
तस्माद् अनुग्रहधिया कर्ताचार्यवरेण तु

31.92

जनन्या जनकेनाथ ऋत्विग्भिर्वा वयो ऽधिकैः ।
गुरोरसन्निधानाच्च साधकः साधकैस्तु वा

31.93

भद्रासने समारोप्य साम्बुजे स्वस्तिकाङ्किते ।
सूत्रिते नवनाभे तु पद्मे वाष्टदले ततः

31.94

कुङ्कुमाद्यैर्विलिखिते कुसुमैर्वा सुपूरिते ।
नेत्रवस्त्रैः परिच्छन्ने यथोक्तरजसा कृते

31.95

घण्टाविधानपूर्णैस्तु प्राक्स्थितैर्वा नषैर्युते ।
जातबीजशरावैस्तु शुभपूर्णयवाङ्कितैः

31.96

दधिदर्पणसच्छत्रपुष्पैः सन्माङ्गलीयकैः ।
सर्वबीजादिकैत्सर्वैः सुगन्धैः श्रीफलादिकैः

31.97

मङ्गल्यगीतिभिर्वाद्यैर्ब्रह्मघोषसमान्वितैः ।
आचार्यैः पञ्चरात्रज्ञैर्जपध्यानपरायणैः

31.98

प्रभवाप्ययसद्ब्रह्मसदागममतस्थितैः ।
अलाबुवीणाजलजैर्वंशघण्टारवैः सह

31.99

ज्वालासुमनसः पूर्णकुम्भसद्वृक्षमञ्जरीः ।
साकारविविधाकन्यालंकृतं यज्ञमन्दिरे

31.100

दूर्वादीनपि चर्वद्भिर्गोवृषैर्बालवत्सकैः ।
परितश्चावृते गोभिर्वन्दिवृन्दसमाकुले

31.101

वृद्धये तु परां लक्ष्मी सर्वशक्तिसमन्विताम् ।
प्राप्तये त्वाच्युतं सत्यं शाश्वतं पदमव्ययम्

31.102

भक्तानां विहितं स्नानविधिनानेन पौष्कर ।
पूर्वोद्दिष्टेन विधिना अधिवास्य यथाक्रमम्

31.103

हेमाद्यं रत्नखचितं प्रागुक्तरचनान्वितम् ।
नवकं कलशानां तु न्यस्तव्यमुदकोदरम्

31.104

सर्वेषां वरुणं तावद्धयेयं फणिरथस्थितम् ।
वरदाभयहस्तं च प्रोग्दिरन्तं सुधारसम्

31.105

स्वाद्वाख्यं क्षीरसंज्ञं च (तु )एकभावत्वम् आगतम् ।
विचित्रमकरारूढं रत्नपात्रकरोद्यतम्

31.106

वरपाणिं समुद्रं च ध्येयं सर्वत्र चाम्बुवत् ।
नारायणाङ्घ्रिसंभूतां पूर्वे जनघटोद्वहाम्

31.107

आग्नेये कच्छपारूढां यमुनां देवपूजिताम् ।
मण्डूकाम्बुजसंस्थां च दक्षिणे तु सरस्वतीम्

31.108

शनैः प्रवाहसंज्ञां च पाशबन्धविमोक्षणीम् ।
नैरृते वृषभस्थां च पश्चिमे सिंहवक्त्रकाम्

31.109

ऐरावतीं तु वायव्ये कलशे तु गजस्थिताम् ।
ईशानपद्ममध्ये ऽत्र वितस्तां मीनगां घटे

31.110

नर्मदां महिषारूढां समाङ्गां देवपूजिताम् ।
वृ (दृ )षद्वतीं देविकां च परोष्णीं बडबाह्वयाम्

31.111

सिन्धुः ककुप्सु सर्वासु अष्टासु परितः क्रमात् ।
उपकुम्भेषु वाब्जस्थाः सर्वास्तोयघटोद्यताः

31.112

कुसुमैःस्तबकैर्युक्ता जलमुग्दीर्यमानसाः ।
वासुदेवादिमूर्तिशैः शताष्टपरिमन्त्रितैः

31.113

पूजितैरभिषेकं च दद्यात् सर्वफलाप्तये ।
ध्यात्वाधारे तु हेमाद्ये एवं चक्रगते ऽम्बुजे

31.114

नदीसमुद्रवरुणयथोक्ते पूर्वनिर्मिते ।
उत्कृष्टमुक्तारत्नादये स्वस्तिकाद्यैर्विभूषिते

31.115

द्वादशारासु मासेकेशवाद्यैरधिष्टिते ।
सर्वाङ्गदेवतोपेते मन्त्रमन्यस्ते प्रतिष्ठिते

31.116

तदम्बुना तु वा कुर्यात् स्नानं चावभृथं शुभम् ।
प्रत्यहं तज्जलं मूर्ध्नि धारणाद् अभिवादनात्

31.117

मुच्यते सर्वदोषेभ्यो मङ्गल्यं वृद्धिमेव च ।
तीर्थेभ्यस्त्वासमुद्रेभ्यो गङ्गादिसरितो गणात्

31.118

स्नानोत्थं फलमाप्नोति भावितात्माच्युताश्रयी ।
कृते चावभृथस्नाने परितुष्टो ऽथ साधकः

31.119

भगवत्पदसिद्यर्थं गुरुपादाम्बुना स्वयम् ।
दक्षिणेन करेणैव स्वमन्त्रं मनसा स्मरन्

31.120

मूर्ध्नि संसिच्य शङ्खाख्यमुद्रया चोर्ध्ववक्त्रया ।
अम्बुसिक्ते ऽम्बरे ऽपास्य परिधायापरे ततः

31.121

प्राग्वदुष्णीषपूर्वैस्तु पुष्पैर्गन्धैस्तु भूषणैः ।
शरीरम् अभ्यलंकृत्य उपविश्यासने ततः

31.122

यथोदितं पुरास्त्रेण कुर्यान्निर्भर्त्सनं ततः ।
अभिनन्द्य कृतन्यासो मङ्गलार्ध्यपुरस्सरान्

31.123

नृपोपकरणान् सर्वान् छत्रचामरपश्चिमान् ।
देशिकेन्द्रकरात् प्राप्य समुत्थायासनात् ततः

31.124

नमस्कृत्य जगन्नाथं परमेश्वरम् अच्युतम् ।
अनलालयम् आसाद्य देशिकेन्द्रेण वै सह

31.125

पुष्पस्त्रग्गन्धधूपैश्च फलैर्बीजैस्तु वा (चा )ञ्जलिम् ।
पूरयित्वार्चनं कृत्वा विभोर्वह्निगृहान्तरे

31.126

संस्मरन् हृदि मन्त्रेशम् उपविश्याग्निसंमुखम् ।
ततो मन्त्राभिजप्तेन साम्बुना विष्टरेण तु

31.127

प्राग्वदामस्तकात् सर्वं स्पृशेद्धयानधिया शुचि ।
कुर्याद् विन्यस्तदेहं तु ध्यात्वा मन्त्रं करोदरे

31.128

गन्धपुष्पार्ध्ययुक्तं तद् दद्यान्मूर्ध्नि शिरोहृदि ।
सौत्रं वा कुसुमं दार्भा (?भं )
स्वे ऽम्बरे मेखलासूत्रे उपवीते ऽथ कूर्परे ।
कृत्वा सम्यम् निविष्टं प्राक् दद्यात् शिष्यकराम्बुजे

31.130

(...)
एवम् ऐक्यं समापाद्य सगुणेनानलेन वै ।
आमोक्षात् सर्वसिद्धीनां तस्य सांमुख्यसिद्धये

31.131

गुरुः समाचरेद्धोमं पूर्णान्तं पुनरेव हि ।
मिश्रीभूतैः समिद्द्रव्यैः सप्तभिः शर्करान्वितैः

31.132

मध्यस्थं मन्त्रमूर्तेर्वै साष्टकं जुहुयात् शतम् ।
सहस्त्रं वायुतं विप्र दद्यात् पूर्णाहुतिं ततः

31.133

सविष्टरम् अधोवक्त्रं स्त्रुचाम् उपरि विन्यसेत् ।
स्त्रुचम् अभ्यर्च्य पुष्पाद्यैराज्यपूर्णां स्त्रुचं ततः

31.134

कुर्यात् पूजां सुगन्धाक्तैः पुष्पैः सार्ध्यैर्निरम्बुभिः ।
उक्तसंख्यं त्वतस्त्वाज्यं तदर्धम् अथ होमयेत्

31.135

पूजान्ते पातयेत् पूर्णां पुनरेव यथोदिताम् ।
शतात् सहस्त्राद् अयुताल्लक्षाद् वामललोचन

31.136

ज्ञानात्मा पूर्वमूर्तीनां चतुर्थांश पृथक् पृथक् ।
तत्समं हृदयादीनाम् अथोर्ध्वम् अखिलासु च

31.137

परमेश्वरकान्तासु तदर्धेन तु पौष्कर ।
लाञ्छनाभरणादीनि सर्वाणि जुहुयात् क्रमात्

31.138

साधारासनमन्त्राणां षण्णां कालात्मरूपिणाम् ।
गुर्वादीनां च विहितमर्धं लाञ्छनतर्पणम्

31.139

सारस्त्राणां लोकपालानां द्वार्स्थानां कमलोद्भव ।
गुरुपूर्वक्रमाद् हुत्वा अर्धम् अर्धं यथाक्रमम्

31.140

कार्या चैकाधिका संख्या विषमार्धस्य चाहुतेः ।
आज्यहोमस्य विप्रेन्द्र तद्वद् एव अम्बुजादिषु

31.141

ब्रह्मयज्ञद्रुमोद्भूताः पूजज्ञानद्रुमोत्थिताः ।
एवं क्षीरतरुभ्यो वै समिधस्त्रिमधुप्लुताः

31.142

जुहुयाद् विधिवन्मन्त्री नयन्मन्त्रगणं क्रमात् ।
तृप्तिं पूर्णप्रदानैस्तु अंशांशहवनैः कृतैः

31.143

स्वबुद्धिसंख्याहोमेन स्वाङ्गं वै विश्वविघ्नजित् ।
तर्पणीयश्च पूर्णान्तम् एवम् अन्ते ऽनलो द्विज

31.144

पूर्णान्तेन नयेत्रृप्तिं मन्त्रव्यूहे कृते हृदि ।
इति संपादिते होमे दद्यात् पुष्पाञ्जलिं ततः

31.145

तिलकं चोर्ध्वपुण्ड्रं वा कुर्याद् वै भूतिना शिशोः ।
स्वस्थानेषु हृदा वर्म शिरोमन्त्रेण च क्रमात्

31.146

हृन्मन्त्रेण प्रयोक्तव्यं सर्वदा सर्वकर्मसु ।
तस्य सर्वाणि कर्माणि सदा तेन समाचरेत्

31.147

सर्वमन्त्राख्यभूतस्य विधिमेवं समाचरेत् ।
कृते चास्त्रवणे वारिबिन्दवः स्त्रुङ्मुखात् च्युताः

31.148

दद्यात् करेण शिरसि प्रणीताभाजनात् ततः ।
होममेतन्मुमुक्षोर्वै निष्कामस्य पुरोदितम्

31.149

सकामस्य मुमुक्षोर्वै कुर्यात् सालंकृतस्य च ।
काङ्क्षितं नानुजानाति सर्वज्ञो हृदये स्थितः

31.150

अप्रार्थितो ऽपि स्वर्गं तु भक्तानां यो ददाति च ।
किमदेयं हि तस्यास्ति तस्माद् अभ्यर्थनां त्यजेत्

31.151

एतावदर्थनीयं च परमेश्वरम् अच्युतम् ।
जन्तुना कृतपूजेन नित्यमेव महामते

31.152

मम यच्छ परां भक्तिं यया त्वं मे प्रसीदसि ।
त्वयि प्रसन्ने देवेश किं न प्राप्तं मया भुवि

31.153

इत्युक्तस्त्वरविन्दाक्ष आभिषेचनिको विधिः ।
समाप्य भगवत् शास्त्रश्रवणे ऽधिकृतो भवेत्

31.154

अधिकारपदं दिव्यम् आसादयति वैष्णवम् ।
येनातिभक्तः संसारादुत्रारयति संकटात्

31.155

कृते कलशदाने ऽथ सक्तुना पललादिना ।
मण्डलाद्बाह्यतो दद्यात् प्रादक्षिण्येन पौष्कर

31.156

सर्वदिग्भगवन्भूत ?बलिं दत्र्वा सहाम्बुना ।
सतिलोदकम् अध्वाज्यगन्धपुष्पान्वितेन च

31.157

कार्या पितृक्रिया प्राग्वदोदनेनानलाग्रतः ।
बहिर्मण्डलवत् कुण्डाद् बलिदाने कृते सति

31.158

आचम्य पूजयित्वाजं कुम्भात्कुण्डाच्च मण्डलात् ।
क्षान्त्याथ भुक्तं पूजार्थं माननीयो यथाविधि

31.159

साङ्गं सपरिवारं च धूपयित्वा यथाक्रमम् ।
तत् क्षान्तिप्रार्थनां कृत्वा निरम्बुकुसुमादिकैः

31.160

वह्निपूजां समापाद्य नमस्कृत्य यथाविधि ।
तच्छक्तिम् आत्मसात् कृत्वा हृदा संहारमुद्रया

31.161

विसृज्य स्त्रुक्स्त्रुवे कुर्यात् परिषेचनम् अम्बुना ।
यज्ञभूमेः स्वशिरसि प्रणीतोत्थम् अथोदकम्

31.162

अथ द्वाभ्यां च संहृत्य हृदि तत्स्थितम् अच्युतम् ।
स्तरोपसंहृतिं कृत्वा मधुक्षीराम्बुना ततः

31.163

संप्राप्य यरूवसुधामानलीमपि पद्मज ।
सर्वम् अम्भसि निक्षिप्य समाहृत्यार्ध्यपूर्वकम्

31.164

अनुग्रहार्थं शिष्यस्य अनुयागं समाचरेत् ।
भगवद्यागवत्कार्यं यागं तेनापि वै गुरोः

31.165

दत्त्वा शिष्यं ततो यायाद् आत्मयागे कृते सति ।
यथावद् अद्यप्रभृति मन्त्राराधनम् आचरेत्

31.166

मोहालस्यादिकैर्देषैर्बुद्धिपूर्वेण चेतसा ।
नाचर्तव्यं विभोः पुत्र परित्यागं हि पूजने

31.167

जपे तथाग्निभवने स्नाने दाने यथोदिते ।
स्तुतिपाठे यथा शास्त्रचिन्तने श्रवणे ऽपि च

31.168

व्याख्याने भव्यबुद्धीनां नारायणरतात्मनाम् ।
शिरसा दधताम् आज्ञां कृत्वा पादाभिवन्दनम्

31.169

प्राणयात्रां ततः कुर्यात् नैवेद्यप्राशनादिकाम् ।
कृतोपवासा ये ऽश्रन्ति प्रापणं पारमेश्वरम्

31.170

संप्रदानावशिष्टं च पूतदेहा नरास्तु ते ।
वन्दनीया नराणां च मान्या वै सिद्धिसन्ततेः

31.171

अन्वात्मतत्र्वं विज्ञेयं विहितं तस्य सर्वदा ।
आत्मनैवात्मसिद्ध्यर्थं यागमन्नेन तेन च

31.172

सहयज्ञावशिष्टेन साम्बुना च फलादिना ।
अनुयागं च तं विद्धिं आत्मनात्मनि यत्कृतम्

31.173

कुर्वन्ति भोजनात् पूर्वं प्रत्यहं प्राशनं तु ये ।
तच्छक्रिग्रहणं प्राणे प्रयोजनवशात् तु वा

31.174

भावभक्तिसमायुक्ताः सन्मार्गस्था दृढव्रताः ।
अप्रयत्नेन ते यान्ति देहान्ते पदमाच्युतम्

31.175

येषां व्रतमिदं दिव्यं नराणां पुण्यकर्मणाम् ।
ते सर्वव्रतिनां मूर्ध्नि तिष्ठन्ति मखयाजिनाम्

31.176

मन्त्रब्रह्मात्मनोविष्णोः सम्यग्विधिनिवेदितम् ।
शुभं तस्य परिज्ञेयं मत्वा वापमिदं पुनः

31.177

इदं तदमृतं ब्रह्म इदम् आयुरनश्वरम् ।
इदं ज्ञानमिदं वीर्यमिदं तेजस्तु वैष्णवम्

31.178

इदमिन्दुरखण्डं च स्थितम् अन्नात्मना स्वयम् ।
पर्जन्यदस्य भगवान् व्यञ्जनस्थितसिद्धये

31.179

हार्दानलात्मना भुङ्क्ते अध्यक्षः परमेश्वरः ।
तच्छक्त्यानुगृहीतत्वात् सो ऽहं प्रकृतिगः पुमान्

31.180

एवमन्नदमन्नादं ज्ञेयम् अन्नं पुरः स्थितम् ।
बाह्यतः स्वाञ्यदानेन संबोधम् उपयाति च

31.181

यथा तथाम्बुनाभ्येति देहस्थो हुतभुक् प्रभुः ।
कारणं रसम् अन्नस्य षड्गुणं षड्विधस्य च

31.182

आत्मब्रह्मा ततः तस्माद् ईषत् कारणेन तु ।
सांमुख्यम् आत्मनां नीत्वा ततो ऽन्नं जुहुयात् शनैः

31.183

प्रान्तपर्वैश्चतुर्धा प्राक् चातुरात्म्यव्यपेक्षया ।
तुर्यापेक्षावशेनैव जुहुयाद् वाहुतित्रयम्

31.184

सहृदा मूलमन्त्रेण भुञ्जीयात् कवलैस्ततः ।
प्रयतास्यकरश्चान्ते पिबेन्मन्त्राभिमान्त्रितम्

31.185

तोयं तद्ध्यानपादाब्जपरिस्त्रुतमथापि वा ।
प्रतिष्टितस्य वा पूर्वं तदाकृतिधरस्य च

31.186

यतः तत्सर्वम् आपन्नं सर्वदोषक्षयङ्करम् ।
सर्वोपतापशमनं सर्वसौख्यप्रदं सदा

31.187

पावनं सर्वतीर्थेभ्यो मन्त्रेभ्यः पद्मसंभव ।
अतस्तु भोजनान्ते वै हार्दाग्नेस्तर्पणं परा

31.188

भावभक्तिपरो नित्यं कं पिबेद् आज्यदोहवत् ।
ब्रह्मतीर्थे तदा पाने द्विः पठेद्वा चतुः क्रमात्

31.189

दत्रशिष्टस्य चान्नस्य प्रापणाख्यस्य वै तदा ।
माहात्म्यम् एवम् अतुलं परिज्ञेयं यथोदितम्

31.190

यागावसाने योग्यानां भक्तानां परमेश्वरे ।
पितॄणां तर्पयेन् नित्यं दयाद्वै प्रीतये विभोः

31.191

यो वेत्त्येवं महत्तां च नैवेद्यस्याच्युतस्य च ।
विधिपूर्वं समश्राति सयात्यच्युतसाम्यताम्

31.192

व्रतज्ञेन जगद्योनेर्भक्तेन च विशेषतः ।
प्राणवद् रक्षणीयश्च प्राणेभ्यो नित्यमेव हि

31.193

अन्नदानादिना सम्यग्विधिनानेन शक्तितः ।
परां प्रीतिं समभ्येति तस्य वै परमेश्वरः

31.194

मूर्तमन्नं परं ब्रह्म पूजितं प्रददाति यः ।
भगवत् तत्र्ववेतॄणां दत्तं तेनाखिलं भवेत्

31.195

व्रतपर्यन्तकाले तु स्थानेष्वायतनादिषु ।
पुण्येषु सन्मुद्दूर्तेषु तिथिलग्नाश्रितेषु च

31.196

कृत्वाक्षयं भगवतो दत्रम् अक्षय्यम् एति च ।
सत्पात्राणां तदग्रे तु येन तुष्यत्यधोक्षजः

31.197

अपात्राणाम् अभक्तानां नास्तिकानां दुरात्मनाम् ।
वर्जनीयं प्रयत्नेन स्वानुष्ठानपरेण तु

31.198

स्त्रीशूद्राणां पशूनां च भृक्तानां विशेषतः ।
सकामो वाथ निष्कामो मन्त्रज्ञः सद्व्रतस्थितः

31.199

मन्त्रपूतं हि नैवेद्यं निषिद्धानां ददाति यः ।
सिद्धो ऽपि याति पातिव्यमारुरुक्षुस्तु किं पुनः

31.200

पौष्कर उवाच ---
ज्ञातुमिच्छामि देवेश तत्तत् संक्षेपतो यथा ।
लौकिकं यत्र्वयोद्दिष्टं भगवद्धर्मसंग्रहम्

31.201

श्रीभगवानुवाच ---
धनेन धर्मलब्धेन भूरिणाल्पेन वा पुनः ।
अधिकृत्याच्युतं देवं यदि वाप्यशुभं शुभम्

31.202

भगवत्प्रीतये त्विष्टं सदस्यैः तन्मयैः सह ।
क्रतुवत् स्वल्फलदा स्वर्गदा यद्यपि स्मृताः

31.203

सकामानां हि तत्रापि तेन तत्फलदास्तु वै ।
अकामानां तु भक्तानां नूनम् अच्युतलोकदाः

31.204

कृच्छ्रचान्द्रायणादीनि तपांसि विविधानि च ।
कृतानि भगवत्प्रीत्यै यथाभिमतदानि च

31.205

यावज्जीवाधिकारं तु यदेभ्यो ऽभिमतं हि यत् ।
प्रीत्यर्थं परमेशाय अङ्गीकृतम् अस्वेददम्

31.206

तत्फलत्याचिरेणैव दिव्यज्ञानात्मना तु वै ।
पुण्यम् आसाद्य वै क्षेत्रं तत्र चागतमव्ययम्

31.207

स्थले वा पत्रपुष्पाद्यैर्योर्ऽचयत्यनिशं व्रती ।
भक्त्या ह्यनन्यचित्तसतु देहान्ते तस्य देहिनः

31.208

प्रसादाद् देवदेवस्य स्थितिः स्यात् सार्वलौकिकी ।
पूजां विष्णुवद् आप्नोति यावद् जीवावधिं तु सः

31.209

देहावसानसमये श्वेतद्वीपं प्रयाति च ।
भक्तिश्रद्धापरो विद्वान् नारायणपरायणः

31.210

तैर्विमानैश्च मार्गेण ह्यचिराद्यान् महामते ।
सुप्रसिद्धैः सुगन्धैस्तु हृद्यैः पुष्फलैः शुभैः

31.211

"अर्चिराद्यान् महामते"इत्यन्तं प्रथमो राशिः ः-- पश्चात्
"विभवव्यूह"इत्युपक्रम्य"देपादाम्बुपूर्वं तु तिलसत्फलचर्वणम्"
इत्यन्ता अर्धन्यूना श्लोकविंशतिः द्वितीयो राशिः-- अथ च
"सुप्रसिद्धैः"इत्युपस्तुत्य"तद्भूत दर्शिते नैव मार्गेण महता मुने"
इत्यन्ता श्लोकद्वाविंशतिः तृतीयो राशिः, अत ऊर्ध्वं"कृत्वा चाघ्राय"
इत्युपक्रम्य आचाध्यायसमाक्षि"चतुर्थो राशिः द्वितीयकोशवर्गे यथा---
प्रथम, द्वितीय, तृतीयराशयः यथापूर्व लिखिताः चतुर्थस्य आरम्भस्तु मिद्यते यथा ---
तृतीयराशेरनन्तरं पुनरपि द्वितीयराशिम् आन्तं लिखित्वा तृतीयराशिं परित्यज्य
तुरीयराशिरनुस्यूततया समग्रा लिखिता वर्तते कोशवर्गद्वये ऽपि
द्वितीयतृतीयराशयोः व्युत्क्रमेण लेखनमेव विपर्यासे हेतुः-- अत्रैवं
समाधिः---द्वितीयतुरीयराश्योरनालक्षितसन्धिबन्धतया स्थितिः
ग्रन्थस्य परिपाटी अनुसीव्यति, न विश्लेषयति च, यः पुनरन्तरा---
पतितः तृतीयो राशिः स तु तुरीयेण राशिना साकं कथंचिदपि
नान्वेतुं शक्नोति । प्रत्युत प्रथमेन राशिना समं सुघटितसुन्धानः
प्राप्तावसरश्च संपद्यते । अस्मात् परं द्वितीयराशिः साधूपक्रमः
ग्रन्थानुपूर्वीं पुष्णाति । अतः दर्शितानुसारेण ग्रन्थपरिपाटी संनिवेशिता ।
परमतः सुधियः प्रमाणम् ।
योऽर्चयत्यच्युतं भक्त्या वने वा पर्वतान्तरे ।
बहवो ऽभिमतान् कामान् प्राप्नोत्यप्रार्थितांस्तु वै

31.212

देहान्ते वासवादीनां संपूज्यो भगवानिव ।
वैष्णवायतने दिव्ये सैद्धे वा पौरुषे तु यत्

31.213

कुर्यात् कर्म धिया भक्त्या स्नानं क्षीरादिना महत् ।
श्रीखण्डागुरुकर्पूरबाह्लिकेनानुलेपनम्

31.214

सितपीतारुणैर्दिव्यैर्दुत्तुलैर्वेष्ठनं ?तु वै ।
शुभेन सोत्तरीयेण उपवीतेन तु द्विज

31.215

विभवे सत्यलंकारैः सौवर्णै रत्नर्ञ्जितैः ।
मण्डयेत् च ततः पुष्पैः स्नग्वरैश्चरणावधि

31.216

धूपयेद् आज्यसिक्तेन गुग्गुलेन शुभेन च ।
प्रभूतैश्च महादीपैस्तिलतैलाज्यपूरितैः

31.217

अभुक्ताहतसुश्वेतराञ्जितैर्व्यतिवेष्टनैः ।
गर्भीकृतत्वगेलाद्यैः पूजयेत् तदनन्तरम्

31.218

ततो मध्वाज्ययुक्तेन दध्नाभ्यर्चितम् ईश्वरम् ।
नैवेद्यैर्विविधैः पूतैर्भक्ष्यैः सफलमूलकैः

31.219

पानकैः पावनैः स्वच्छैः शीतलैर्मधुरादिकैः ।
त्वगेलाद्यन्विप्तैर्धृष्टैर्धूपकर्पूरवासितैः

31.220

नालिकेरोदकोपेतैस्तर्पणीयमनन्तरम् ।
नैवेद्याचमनार्थं तु गन्धोदकमनुत्तमम्

31.221

अभुक्तमहतं शुक्लमथ निष्पुसनाम्बरम् ।
अथ चूर्णितकर्पूरघृष्टश्रीखण्डभावितम्

31.222

सपूगफलमुत्कृष्टं ताम्बूलं विनिवेद्य च ।
शालयः शिम्बधान्यादितिलाः सिद्धार्थकानि च

31.223

रोचना श्रीफलं पुष्पं दूर्वा धात्रीफलं दधि ।
दुकूलमहतं श्वेतं दक्षिणावर्तम् अम्बुजम्

31.224

तमालादिदलच्छन्ने धातूत्थे वैदले ऽपि वा ।
पात्रे कृत्वार्ध्यपुष्पाढये तत्र मध्ये निवेश्य च

31.225

हेममानं हिरण्यं च स्वशक्त्या वातिनिर्मलम् ।
जानुनी भूगते कृत्वा शिरसावनतेन तु

31.226

आदायोत्तानपाणिभ्यां विनिवेद्य जगत्प्रभोः ।
संपूरणार्थं सर्वेषां भोगानां द्विजसत्तम

31.227

येनाप्तिः सर्वकामानां भाविनां सत्फलार्थिनाम् ।
परमात्मनि संयोज्यम् अकामानां हि येन वै

31.228

चामख्यजनादीनि भोगान्यन्यानि यानि च ।
शयनासननिष्ठानि तन्त्रीवाद्यानि यानि च

31.229

भेदीमृदङ्गसत्सङ्गपर्यन्तानि महान्ति च ।
तत् प्रेक्ष्य स्वधिया सम्यम् चित्तानन्दप्रदानि च

31.230

संभवे सति सर्वाणि मनसा तदसंभवे ।
श्रद्धाभक्तिवशाच्चैव यो यजव्यमराजितैः

31.231

स्वर्गादिसत्यनिष्ठानां भुक्त्वा भोगान् यथेच्छया ।
ततः कालान्तरेणैव देवीयेच्छावशेन तु

31.232

तद्भूतदर्शितेनैव मार्गेव महता मुने ।
विभवव्यूहलोकानामास्ते कल्पशतान् बहून्

31.233

ज्ञानम् आसाद्य तत्रैव ह्यवतीर्याथ भूतले ।
लयं च सहसा याति भगवत्यमितात्मनि

31.234

श्रेत्रायतनसत्तीर्थवशेनाच्युतम् अर्चनम् ।
उक्तम् उद्देशतः किञ्चित् भक्तानां भवशान्तये

31.235

इदानीं का (ल )म ?माश्रित्य हरेराराधनं शृणु ।
भक्तानां भवनाशार्थं विष्ण्वेकनिरतात्मनाम्

31.236

प्रभूतैः पावनैर्भोगैर्न्यायोपायसमार्जितैः ।
यष्टव्यं श्रद्धया भक्त्या पुण्येषु दिवसेष्वथ

31.237

नैमित्तिकेषु कालेषु नित्यमेव निराकुलैः ।
दिव्यान्तरिक्षभौमाख्यशुभलग्नक्षणेष्वपि

31.238

द्वादशीषु विशेषेण पक्षयोरुभयोरपि ।
दिनेषु देशरूढेषु विज्ञातेषु आगमान्तरात्

31.239

सत्क्रियेषु अविरुद्धेषु देवतान्तरपूजनात् ।
पयोमूलफलाद्यैर्वा परिविद्धाद्यवासरे

31.240

कोष्ठसंक्षालनार्थं तु पञ्चगव्यं ततः पिबेत् ।
भगवद्बिम्बपादाम्बुभावितं पर्णपात्रगम्

31.241

सुवर्णदर्भसद्रत्नक्षालितेनाम्भसा सह ।
एवं कृतोपवासश्च प्राग्वदाराध्य केशवम्

31.242

हिरण्यान्नाम्बुगोभूमिदानैः कृष्णाजिनादिकैः ।
निवेदितैश्च संतोष्य पुण्डरीकाक्षम् अच्युतम्

31.243

तदाज्ञां शिरसादाय यो यच्छेत् तन्मयस्य च ।
भक्त्या फलार्थिनो नूनं लभेत्तु भगवत्पदम्

31.244

फलार्थिनो ऽस्य च पुनः कल्पकोटिशतान् बजून् ।
दिव्यभावफलत्वेन फलव्याशु महामते

31.245

आयुरारोग्यसद्भृत्यपुत्रपदारान्वितस्य च ।
लाग्नं (यागं )मौहूर्तिकं कर्म तैय्यं यदपि विस्मृतम्

31.246

सशेषं प्राक् समापाद्य सावधानेन चेतसा ।
प्राप्तायां पुण्यवेलायां कर्मशेषं समापयेत्

31.247

पूर्णान्तम् अर्ध्यपुष्पाद्यैर्दत्तैर्हेमगवादिकैः ।
द्विवासरमहर्वात्र त्रिदिनं षडहं हि यत्

31.248

द्वादशाहं द्विपक्षं यत् (च )क्षपयित्वा यथाविधि ।
व्रतान्तवासरात्पूर्वं सहजागरणादिना

31.249

जपहोमार्चचध्यान प्रणामैः सप्रदक्षिणैः ।
कथानकैस्तवैः पुण्यैः क्षपणीयमतन्द्रितैः

31.250

ततः प्रभातसमये रात्रौ वा पुण्यवासरे ।
प्राणाग्निहवनान्तं च स्नानपूर्वं समाचरेत्

31.251

सूर्योदयं विना रात्रौ विरुद्धमनिशं ( ?शनं )द्विज ।
सिद्धान्नं कल्पयित्वा तु द्विजानाम् उदकान्वितम्

31.252

दद्याच्च भगवत्यग्रे सुसिद्धं हविषा युतम् ।
देवपादाम्बुपूर्वं तु तिलसत्फलंचर्वणम्

31.253

कृत्वा चाघ्राय नैवेद्यं स्पृशेत् पुनरेव हि ।
भोजनात् प्राक् समश्रीयाद् अशुभध्वंसनाय वै

31.254

वन्दनीयं सदानन्दसुखसौभाग्यसिद्धये ।
एषद् दिनोदयं ह्येवं व्रतज्ञैर्भगवन्मयैः

31.255

व्रताद्यदिवसं कार्यमेवं व्रतदिनस्य च ।
वर्जनीयं प्रयत्नेन प्रजासद्गतिकाङ्क्षिणा

31.256

परपीडदिनं शुद्धमुपादेयं हि सर्वदा ।
पुरोवर्तिदिनांशेन युक्तं गुरुतरं तु तत्

31.257

ईषदाद्यदिनोपेतम् उपवासदिनं यदि ।
लोके लब्धप्रतिष्ठं च तथात्वेन तु सर्वदा

31.258

उपवासपराणां तु न तद् दोषप्रदं भवेत् ।
निष्कामानां हि भक्तानां व्रतं व्रतपरायणः

31.259

फलार्थिनां तद्भविनां कर्मतन्त्ररतात्मनाम् ।
प्रतिषिद्धं च सिद्धत्वाद् उपवासे ऽशने ऽपि च

31.260

ततो ऽङ्भावं भक्तानां नतार्थं तत्प्रयान्ति च ।
मनसो येन कालुष्यं न भवत्यच्युतार्चने

31.261

उपवासेप्यशक्तानां कर्मब्रह्मरतात्मनाम् ।
परपीडसमंविद्धि सदानं सर्वमाचरेत्

31.262

सोपवासवदव्यस्मिन् दिवसे भगवन्मयः ।
इतिकर्तव्यताशक्तः प्राप्तादेवं गुरुं यजेत्

31.263

सन्तोष्पाभ्यर्थ्यं वै क्षान्तिं वृत्त्यर्थं हि जगद्गुरोः ।
दिवसार्धसमानेन तदूनेनाधिकेन वा

31.264

युक्तामाद्यदिनेनैवं पुरोवर्तिच वासरम् ।
कृत्वा नक्ताशनं नित्यं यदि संकल्पमाचरेत्

31.265

फलं सातिशयं तस्य उपवासात् तु जायते ।
सर्वदानावसानान्तम् आपाद्य व्रतवासरे

31.266

तस्मिन्नेवात्मयागं तु विधेयमुपवासिना ।
तद्वासरक्षयाच्छश्वद् विश्वेशे पूजनादिना

31.267

शिष्टं दिने ऽपरस्मिन् वै कृतं तदभवं भवेत् ।
विरोधमन्यथा सि (वि )द्धि कृतकृत्यस्य देहिनः

31.268

अक्षीणस्य परित्यागात् प्रभावादग्रहस्य च ।
परपीडतिथिष्वेवं हेयोपादेयतां पुरा

31.269

ज्ञात्वा तिथीशनाथात्मा वासुदेवो ऽच्युतः प्रभुः ।
पूजनीयो हि पर्वादौ सोपवासैः क्रमेण तु

31.270

पक्षयोरुभयोश्चैव सितपक्षे तु वेच्छया ।
पितामहात्मा भगवान् तत्राद्यऽहनि पद्मज

31.271

विधिवत्पूजनीयश्च भक्तियुक्तेन चेतसा ।
एवमब्ज द्विपक्षेण एकपक्षार्चने न वा

31.272

क्षपयित्वा यथान्यायं दानैर्हैमैः स्वशक्तितः ।
विधात्रात्मा द्वितीयायां तृतीयायां स्वयं हरिः

31.273

ततः संयमनात्माहं (नं ?)चतुर्थे ह(रि )नि मानयेत् ।
पञ्चम् अमृतात्मानं शक्तिशं षष्ठवासरे

31.274

सप्तम्यां ज्ञानमूर्तिं वै विश्वात्मा तदनन्तरम् ।
नवम्याम् अथ सिद्धात्मा धर्मात्मा भगवांसततः

31.275

ईशानात्माथ देवेशः सूर्यात्मा दिक्प्रकाशकृत् ।
कामात्माथ त्रयोदश्यां कलात्माथ महामते

31.276

भगवान् पितृसंज्ञात्मा भेदास्त्वेते जगत्प्रभोः ।
काम्यकर्माधिकारेण नित्यं चाभिमताप्तये

31.277

पूजनीयोर्ऽध्यपुष्पाद्यैरुपहारैः क्रियान्वितैः ।
पूजार्थम् आद्यदिवसे ब्राह्म (ब्रह्मा )णं वत्सरं यजेत्

31.278

एवं हि वाग्विभूत्यर्थी देवं धातारमव्ययम् ।
मोक्षविघ्नविनाशार्थं हरिं तत्सिद्धये ऽपि च

31.279

अधर्मशान्तये चैव यमं संयमतां ततः ।
आयुरारोग्यवृद्ध्यर्थं पञ्चम्याम् अमृतेश्वरम्

31.280

यजेच्छक्रिप्रभावार्थं षष्ठ्यां शक्तीशम् अच्युतम् ।
स्वसंविदाप्तये सम्यक् तद्दिनेशमथार्चयेत्

31.281

प्रभूतये तु विश्वात्मा त्रिविधास्वथ सिद्धिषु ।
प्राप्त्यथ्रं नवमीनाथं सधर्मावाप्तिकृत्ततः

31.282

दशम्यामर्चनीयं च तद्दिनेशं महामते ।
एकादेशे ऽह्नि विद्यार्थी विद्यानाथमहेश्वरम्

31.283

महत्तेजः प्रभावार्थं तदीशं द्वादशे ऽहनि ।
नानास्त्रीरत्नलाभार्थं त्रयोदश्यां च तत्पतिम्

31.284

कालात्मा कालमृत्यूनां विजये ऽथ यजेत्सदा ।
शान्तये त्रिविधस्याथ ऋणस्य परमेश्वरम्

31.285

एवं पञ्चदशाहेशो माननीयः स सर्वदा ।
यद्यप्युक्तं तिथीशानामर्चनं तिथिषु द्विज

31.286

नैकान्तिनां तद्विहितं द्विजानामफलार्थिनाम् ।
एकादश्यां हि वै तेषां पक्षयोरुभयोरपि

31.287

परपीडं च विहितं तान्निष्टं वा परावृतम् ।
तिथीश्वरद्वयेनैव यद्यप्युक्तं तिथिद्वयम्

31.288

एकादश्यादिकं चैवं तथापि द्विजसत्तम ।
गौणम् एतन्न मुख्यं च मुख्यत्वेन तदाच्युतम्

31.289

न केवलं हि तद्यावद् वस्तुजालं हि चापरमृ ।
मनवश्चोपदेष्टारः प्रपञ्चास्यास्य पौष्कर

31.290

एवं प्रवर्तितं सर्वं भक्तानुग्रहकाम्यया ।
पूर्णभावेश्वरपदात् सुपूर्णमय (?मिद )मुदीरितम्

31.291

व्रतार्थम् उपवासानां येन संवत्सरस्य च ।
संकल्पमुदकक्षेपपूर्वं कृतम् अकृत्रिमम्

31.292

तस्य द्वादशमे मासे अनुयागावसानिकम् ।
द्वादश्यां विहितं सर्वम् अनयथा वात्सरं फलम्

31.293

विफलं नूनमायाति त्रयोदश्यां समर्चनात् ।
इच्छयाभिमतायां वै एकादश्यां समाचरेत्

31.294

त्रिवर्गफलसिद्ध्यर्थं भक्त्या तावत्फलं विना ।
एकरात्रादिकं विप्र व्रतं व्रतपरायणः

31.295

सर्वभावेष्वसक्तत्वान्नदोषस्तस्य जायते ।
यजने चात्मयागे च त्रयोदश्यां विनोदयात्

31.296

पूर्वप्रहरपर्यन्तकालाद् वा धर्ममिश्रितम् ।
ऊनाधिकं तु प्रहरं द्वादशाख्यं यदा द्विज

31.297

अङ्गभावं त्रयोदश्याम् उपयातं महामते ।
अनुद्यमेनेच्छया तु परिहृत्य विशेषतः

31.298

स्वबुध्या च त्रयोदश्याम् इतिकर्तव्यतां चरेत् ।
प्रत्यवायो महांस्तस्य विहितं वैष्णवस्य च

31.299

अमन्त्रज्ञस्य देवानाम् अधिकं द्विजतर्पणम् ।
मन्त्रज्ञस्यार्चनं होमं जपदाने स्वशक्तितः

31.300

प्रीतः समाचरेद्यत्नं व्रतवांश्च क्रिया परः ।
संपद्यते ऽखिलो येन मुख्यकल्पविधिः सदा

31.301

भक्त्या संप्रतिपन्नानां विना शाठ्येन मायया ।
व्रतिनां मुख्यतः सम्यगनुकलयं समं स्मृतम्

31.302

सर्वस्य हृदयस्थो वै देवः सर्वेश्वरो हरिः ।
सत्यार्थं वेत्ति वै भावं फलं यच्छति तत्समम्

31.303

सुवर्णं रत्नमुदकं षड्रसानि तिलानि च ।
आज्योपवीतातपत्रमुपानद्वस्त्रगोमहीः

31.304

स्त्रग्गन्धदीपधानयं च सत्फलं कामिकास्त्वमी ।
प्रदाय समुदायेन कामदास्ते भवन्ति च

31.305

कामधेनुघटैस्तस्माद् बुधश्रवणवासरे ।
द्वादश्यां प्रीणनीयश्च निम्नसागररक्षितौ

31.306

सर्वकामाप्रये देवः सर्वसत्वहिताय च ।
सर्वद्वन्द्वविनाशार्थी पितॄणां तृपतये घटम्

31.307

कामधेन्वाख्यदानेन अनेन परमेश्वरः ।
प्रयोति परमां प्रीतिं जगदुद्धरणोद्यतः

31.308

अवेक्ष्य देशकालादीन् गृहे वायतने ऽच्युतम् ।
श्रद्धयाभ्यर्चितं तं तु प्रदत्तं स्याद् यथाविधि

31.309

न चेत् किन्त्वङ्गभावं तु भावशक्तिवशात् तु वै ।
द्विजलं यत्र वा तीर्थं गङ्गायमुनसङ्गमे

मूल पाठ: Pauṣkarasaṃhitā 27-43 · Edition: Prabhakar Pandurang Apte: Pauṣkarasaṃhitā : dvitīyo bhāgaḥ, Tirupati 2006 (Rashtriya Sanskrit Vidyapeetha Series, 120) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc