भाषा

ENहिગુ
ग्रंथ पाठ

पौष्करसंहिता · अध्याय 30

30.1

इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां
कुण्डलक्षणं नाम एकोनत्रिंशो ऽध्यायः ॥
अथ त्रिंशो ऽध्यायः
पौष्कर उवाच ---
संजाते भगवन् लोपे भक्तानां मन्त्रसेविनाम् ।
ज्ञानादियोगनिष्ठस्य सद्व्यापारस्य चाच्युत

30.2

पातत्राणमुपायं वै श्रोतुमिच्छामि सांप्रतम् ।
कृतेन येन भक्तानां जायते कृतकृत्यता

30.3

श्रीभगवानुवाच ---
कथं संवत्सराद्विप्र कर्मणाभिमतं फलम् ।
प्राप्नुयाच्च क्रियासक्तः पवित्रारोहणं विना

30.4

यथाश्वमेधं विप्राणां सर्वेच्छापरिपूरकम् ।
राजसूयं नृपाणां च भक्तानां भूषणं तथा

30.5

भूषणानां यथा मध्ये कौस्तुभं वरभूषणम् ।
ज्ञेयं पवित्रकं तद्वद्भोगजालस्य चान्तरे

30.6

यत्पूरयति भक्तानां व्यापारं पारमेश्वरम् ।
भोगमोक्षाप्तये शश्वद्भोगस्तस्मास्तु को ऽधिकः

30.7

भक्तानां सततं भक्त्या सालोक्यं विदधाति वै ।
सामीप्यं साधकानां च नानासिद्धिसमन्वितम्

30.8

सायुज्यं साधकेन्द्राणां स्वमन्त्रात्मनि यच्छति ।
तदुत्तरायणे ऽतीते चातुर्मासस्य मध्यतः

30.9

आदावन्ते ऽथवा कुर्याद् द्वादशीष्वखिलासु च ।
संक्रान्तिषु च सर्वासु पौर्णमासिषु चाब्जज

30.10

अमावास्यास्वशेषासु तृतीयासु तथैव च ।
वैष्णवेष्वथ ऋक्षेषु तत्क्षणेष्वखिलेषु च

30.11

चातुर्मास्यस्य कालस्य तूत्थान द्वादशी तु या ।
षडशीतिमुखा दिव्या तस्यामारोपयेत्तु यः

30.12

पवित्रकं जगद्योनेः सपवित्रीकरोति च ।
अतीतां वर्तमानां च एष्यां स्वकुलसन्तातिम्

30.13

तत्र सन्निहितः साक्षान्नानानिर्माणविग्रहः ।
भक्तानां भगवान् प्रीतः परमात्माच्युतो हरिः

30.14

यद्यप्यब्जसमुद्भूत भक्तानां नित्यमेव हि ।
नारायणस्तु मन्त्रात्मा स्थितः सन्निहितः स्वयम्

30.15

तथापि बलवत्ता वै तत्तिथेस्तत्र कर्मणि ।
सन्निधि भजते येन मन्त्रिणां मन्त्रराट् प्रभुः

30.16

ग्रीष्मकालं समासाद्य यथार्कस्तीक्ष्णता व्रजेत् ।
स्वरूपमजहन्नेव सन्निधानतरं विभोः

30.17

सप्तात्रदेशकालानाम् आसृष्टेः स्थितये तु वै ।
अतः पवित्रकं तस्यामनस्यां तदसंभवात्

30.18

कार्यं क्रियापरैर्भक्त्या साखण्डा येन जायते ।
अखण्डकारी पुरुषो ज्ञानकर्मपरायणः

30.19

भक्तिश्रद्धातथोत्साहयुक्तो योगबलैर्युक्तः ।
ब्रह्मव्येकात्मतां याति अचिरादेव पौष्कर

30.20

सर्वभावेन भक्तानां यत्पालयति सर्वदा ।
मनोवाक्चित्तजं कुत्स्नं व्यापारं शुभलक्षणम्

30.21

परिज्ञेरायतस्तस्मात् स्वरूपं तस्य यादृशम् ।
फलमेति च वै येन भक्तानां तत्समापनात्

30.22

यदच्छिन्नं जगधोनेरनन्तप्रसरं सितम् ।
विच्छेदमकृतज्ञानामेति नानात्मना स्वयम्

30.23

जगत्सूत्रं तु तद्विद्धि हेमसूत्रादिना तु वै ।
बाड्गुव्यमभिमानं यद्धत्ते प्रतिसरात्मना

30.24

ज्ञानरागोपरक्तं च युक्तं कार्यैस्तु वीर्यजेः ।
तैजसैरावृत्तं मन्त्रैर्बलेनावलितं परम्

30.25

ऐश्वर्यमुपचारे तु संप्राप्ते शक्तितो ऽव्ययम् ।
एवं पवित्रकं तावत्परिज्ञातं न तत् प्रभोः

30.26

ब्रह्मव्यधिपतौ विष्णौ तदाकारे प्रतिष्ठिते ।
भक्त्या च विधिवद्दत्तं ददाति भगवत्पदम्

30.27

स्थूलस्य व्यतिरिक्तस्य व्यवहारपदस्थितैः ।
पदार्थैः कल्पनीया च यथा तदवधारस्य

30.28

सूक्ष्मं दृढं सितं श्लक्ष्णं सूत्रं ब्रह्मप्रसूतया ।
विनिर्मितं कुमार्या वा वृद्धया वा विनीतया

30.29

विशुद्धया विधवया संपादितमथापि वा ।
यथालब्धं तु चादाय कुर्यादस्त्रविशोधितम्

30.30

अवलोक्य स्मरन्मूलं विनिष्पाद्य चतुर्गुणम् ।
चातुरात्म्यव्यपेक्षायामथवाष्टगूणं द्विज

30.31

भगवन्मूर्तिभेदे तु भेदभिन्नोपलक्षितम् ।
केशवादिष्वधिष्ठातृभावेन त्रिचतुर्गुणम्

30.32

तन्तुभिर्विषमैविष्णोः समस्य परिवर्जयेत् ।
पवित्रिकी क्रिया यस्माद्विषमा सा न कस्यचित्

30.33

पवित्रकाणि कार्याणि तन्तुभिस्तैः सुतानितैः ।
मन्त्रास्त्रकुम्भयोः पूर्वं नानामन्त्रालयस्य च

30.34

मण्डलाख्यप्रधानस्य तद्गतस्तयाखिलस्य च ।
कर्णिकास्थस्य च विभोः केसरच्छदगस्य च

30.35

विभवव्यूहरूपस्य लाञ्छना स्त्रद्वयस्य च ।
मूर्ध्नि कण्ठे ऽसयोः पुष्पपूजायामुपरि क्षितौ

30.36

प्रमाणेन जगन्नाथप्रतिमायां चतुष्टयम् ।
द्वयं हि कुण्डानलयोः शास्त्रपीठस्य च द्वयम्

30.37

लिपेर्वाक्तत्त्वभूतस्य शब्दतत्त्वस्य च प्रभोः ।
घण्टाक्षसूत्रपूर्वाणां क्रियाङ्गानां महात्मानाम्

30.38

जायायां भक्तिनम्रायां रक्तायामर्चने हरेः ।
संबन्धिनां च मित्राणां भगवद्धर्मसेविनाम्

30.39

तदुत्तरसहायानां चातुरात्म्याभिलाषिणाम् ।
भृत्यानां स्वानुकूलानां पुरुषोत्तमयाजिनाम्

30.40

वृद्धये योषिता चैव पवित्रीकरणाय च ।
पवित्रीकरणं रम्यं रचनीयं यथाक्रमम्

30.41

षडध्वपीठसंस्थस्य नानाप्रन्त्रास्पदस्य च ।
ज्ञानादिगुणभेदस्य चतुःस्थानार्चनाय च

30.42

मुख्यमन्त्रस्य च विभोः शतेनाष्टाधिकेन च ।
तन्तुना भूषणं कुर्यादर्धेनांशेन वाब्जज

30.43

जपहोमदिका संख्या पूर्णा रिक्ता तदात्मना ।
समीकरोति भक्तानां मन्त्राणामत एव हि

30.44

हेमसद्रत्नकर्पूरमालयक्षोदकुङ्कुमैः ।
सर्वौषधिसमोपेतैस्त्वगेलादिविमिश्रितैः

30.45

पावनैर्विविधैर्द्रव्यैर्निर्व्याजपिचुना सह ।
कुर्यात्तद्भर्भरचनां सूत्रसंख्योपलक्षिताम्

30.46

बीजपूरवदब्जाक्ष आर्द्रामलकशङ्खवत् ।
तदन्तरालानि पुनस्त्वविच्छिन्नेन तु तन्तुना

30.47

विभागप्रतिपत्यर्थं ग्रन्थनीयान्यदूरतः ।
यथेच्छया ततो ऽन्येषो याज्यानां परिकल्प्य च

30.48

सूत्रभ्रमसमोपेतैर्गभैर्भूषणसंचयम् ।
आराधकस्य च गुरोः सगर्भं भूषणद्वयम्

30.49

विहितं भगवन्मन्त्रन्यासात्तादात्म्यभावनात् ।
अतो ऽन्येषामगर्भंच रचनीयं पवित्रकम्

30.50

अन्तरालगतं गर्भं कुर्याद्बाह्लीकरञ्जितम् ।
अलंकृत्यं च सौवर्णेरूपरिष्टाच्च रूपकैः

30.51

पत्रच्छेदसमत्थैस्तु जातरूपमयैस्तु वा ।
शङ्खचक्रगदापद्ममालाश्रीवत्सकौस्तुभैः

30.52

खगेशतालमुसलनन्दकज्याहलादिकैः ।
मन्दारकुसुमाकारैः पारिजातद्रुमोपमैः

30.53

श्रीवृक्षाचलनागेन्द्रस्वस्तिकैश्चामरैर्घटैः ।
वेधानलार्चिषाढ्या च व्यञ्जनैरातपत्रकैः

30.54

सरित्समुद्रवृषभभौगजालैस्तु सारसैः ।
एकस्यैव बहुनां वा यथास्थानानुरूपतः

30.55

धातुजे पित्तले भाण्डे वस्त्रच्छन्ने निधाय च ।
धादयेदुपरिष्टाच्च धूपितेनाहतेन च

30.56

कृताह्निको ऽधिवासार्थं दशभ्यां प्रयतः शुचिः ।
देशिकेन्द्रद्वितीयस्तु कर्तार्ध्यकुसुमोद्यतः

30.57

सह सद्ब्रह्मघोषेण स्तुतिमङ्गलपाढकैः ।
शशाङ्कोदयवेलायां कृत्वा द्वास्थार्चनं विशन्

30.58

वैराजभुवनाकारं मण्डपं मण्डनाङ्कितम् ।
उपविश्य यथान्यायमनतर्यागानतमारभेत्

30.59

न्यासपूर्वमशेषं तु अर्ध्याम्बुपरिकल्पनम् ।
गणेशाभ्यर्चनं कृत्वा निर्विघ्नफलसिद्धये

30.60

कल्पयेद्ब्रह्मकूर्चं तु शोधयेद्वसुधां ततः ।
स्थापनं तोरणादीनामर्चनं कुण्डसंस्कृतिः

30.61

मन्त्रास्त्रकुम्भरचना तयोर्मन्त्रावतारणम् ।
तदर्चनादिकं सर्वं कुर्याद्दीक्षाविधेः समम्

30.62

व्यापारमाचरेद्दिव्यं कुम्भकेन स्मरन् विभुम् ।
नानिशं युज्यते यस्मात्तस्मादेषा प्रतिक्रिया

30.63

विभाव्या मन्त्रिणा कैंभी आस्त्री रक्षार्थमेव हि ।
ततो ऽवतार्य भगवान्(?वन्तं )स्थण्डिले ऽभ्यर्च्य चासनम्

30.64

जपान्तमखिलं कृत्वा प्रयायाद्बिम्बसन्निधिम् ।
अष्टाङ्गेन नमस्कृत्य यद्यादर्ध्यं तु मूर्धनि

30.65

अनुलेपनसंयुक्तं ततः पुष्पाञ्जलिं शुभम् ।
साङ्गं सावरणं भक्त्या धपूयेत् पुरुषोत्तमम्

30.66

पुष्पपूजादिकं सर्वं मध्याह्ने यद्विनिर्मितम् ।
अपास्यादाय शिरसा अभिवन्द्य समर्च्य च

30.67

विष्वक्सेनस्य चास्त्रेण निर्मलीकृत्य वारिणा ।
सपीठं भगवद्बिंबं प्रासादं शोधयेत्ततः

30.68

स्नापयेद्देवदेवेशं विधिदृष्टेन कर्मणा ।
ब्रह्मकूर्चादिकैः स्नानैर्मन्त्रादानप्रकल्पितैः

30.69

पदार्थसंमितैः शक्त्या यथावदधिवासितैः ।
फलै रत्नादिकोपेतैः पूजयेद्विधिना ततः

30.70

भक्त्या क्रमोपदिष्टैस्तु भोगैः कृत्स्नैरकृत्रिमैः ।
सर्वं कृत्वा प्रणामान्तं यायाधोमनिकेतनम्

30.71

तत्रानलं च संस्कृस्य कुर्याद्वै मन्त्रतर्पणम् ।
कलश स्थार्चबैम्बीय संस्कृतेनाथ वह्निना

30.72

चरुं संश्रपयेच्चुल्यां हृदा क्षीराज्यतण्डुलैः ।
समुद्धृत्याज्यपूतं तं विनिवेद्य यथाक्रमम्

30.73

कलशस्थलवृत्तीनामेकांशं जुहुयात्ततः ।
दद्यात्पूर्णाहुतिं पश्चाद्बलिभिः सर्वमन्तरम्

30.74

तर्पयित्वाम्बुसिक्ताभिः क्रमेण जुहुयात्ततः ।
तद्वदाज्यं सुपूर्णं तं (?तद् )मुद्राबन्धादिकं तु वै

30.75

कृत्वा प्रणामपर्यन्तं स्थलस्तस्याग्रतो विभोः ।
अस्त्रमन्त्रेण संप्रोक्ष्य कृत्स्नद्रव्यगण ततः

30.76

निवेश्य वायुदिग्भागे सर्वं सूत्रपुरःसरम् ।
सितवस्त्रान्वितेनैव त्वक्षेतेनैव वर्मणा

30.77

अर्चयित्वास्त्रमन्त्रेण स्थगयेत् कवचेन चं ।
बहिः पक्षसमोपेतं सर्वमिष्वष्टकं ततः

30.78

दिग्विदिक्ष्वस्त्रजप्तं तु दत्त्वाज्यमनलालये ।
पञ्चरङ्गेण सूत्रेण दृढेण सुसितेन वा

30.79

प्रादक्षिणचतुष्कं तु स्मरन् वर्म समापयेत् ।
ग्रासादस्यान्तराद्बाह्याद्वेष्टयेत्तद्वदेव हि

30.80

प्राङ्मुखस्त्वासनारूढो गुरुपाणिपरिच्युतम् ।
ब्रह्मकर्चं पिबेत् पश्चाच्चरुशेषं तु भक्षयेत्

30.81

पिबेद्धॄदयसंजप्तं हेमरत्नकुशोदकम् ।
अद्यात्तदनु ताम्बूलं दन्तकाष्ठसमन्वितम्

30.82

कुतपे कम्बलोपेते स्थित्वा च सकुशास्तरे ।
जपेन्मन्त्रवरं साङ्गं पठन् स्तोत्रवरान् शुभान्

30.83

कथां सर्वेश्वरीं पुण्यां कुर्वन्निष्पाध मण्डलम् ।
कर्मशेषं तदापाद्य भूषणानां यथोदितम्

30.84

एकादश्यां प्रभाते तु स्नानपूर्वं तु पूजनम् ।
सम्पूर्णाहुतिदानान्तं हुत्वा सम्यग्यथाविधि

30.85

आसाद्य कलशोद्देशं विनिवेदनमाचरेत् ।
ततो विशेषभोगानां प्रभोरामन्त्रणाय च

30.86

दन्तकाष्ठं सताम्बूलं मुखवासांसि दर्पणम् ।
चन्दनादीनि गन्धानि जातिपूगफलानि च

30.87

विनिवेश्य निधायाग्रे दक्षिणे ऽथ जग त्प्रभोः ।
गुग्गुलं मृष्टधूपं च प्रकाशं ताम्रपात्रगतम्

30.88

दृक्प्रभामण्डनं चैव हेमसूत्रं सकङ्कणम् ।
मध्वाज्यपूरिते पात्रे तैजसे रोचनाञ्जनम्

30.89

रसषट्कं महामूर्तेर्नेत्रवस्त्रे सितारुणे ।
पश्चिमे ऽथ विभोर्दद्यात् पुव्यनद्युदकं तथा

30.90

तीर्थतोयान्नाभोगार्थं नगमृत् श्रीफलादि यत् ।
शाड्वलं नीलदर्भांश्च ताम्रपात्रे तु वायसे

30.91

उत्तरे ऽथ विभोर्दद्याद्देवदेवस्य पुष्कर ।
माल्यान्योषधयः सप्त बीजानि च फलानि च

30.92

तिलतण्डुलपात्राणि क्षीरं दधिरसं घृतम् ।
गन्धवृन्दत्वगेलाद्यं धातवो गैरिकादयः

30.93

सफलं नारिकेलं च विकारस्त्वैक्षवो ऽखिलः ।
सराजते कांस्यपात्रे संभवे सति पदृमज

30.94

यज्ञपर्णपुटे वापि विनिवेद्यमसंभवे ।
सकुशोदकमन्येषां ताम्बूलं दन्तधावनम्

30.95

सितानि सोत्तरीयाणि उपवीतानि चन्दनम् ।
कुङ्कुमागुरुकर्पूरश्रीखण्डैरधिवासितम्

30.96

चतुः स्थानावतीर्णस्य दद्याद्त्रन्धपवित्रकम् ।
ततोर्ऽध्यपुष्पधूपं च मुद्राबन्धं समाचरेत्

30.97

आदिमध्यावसाने तु सम्यागच्छिद्रशान्तये ।
जपेन्मन्त्रवरं साङ्गं पश्चाद्वद्धाञ्जलिः पठेत्

30.98

प्रणवदविद्ययाद्यं (?द्वयाद्यं )तु स्त्रोत्रमन्त्रं निवेदयेत् ।
सर्वमन्त्रमयानन्त नित्यसंनिहिताव्यय

30.99

गुणप्रधान योगेश भावनाभोगविग्रह ।
नारायणं परं ब्रह्म प्राणेश चतुराकृते

30.100

सर्वगाच्युत सन्मूर्ते सर्वज्ञ पुरषोत्तम ।
अस्मात्काललवाद्यावद्विसर्जनदिनावधि

30.101

नानामन्त्रगणोपेतः सन्निधिं भज मे प्रभो ।
देवबिम्बे तु तन्मूर्तौ कलशे मण्डलक्षितौ

30.102

संख्यासूत्रे ऽक्षसूत्रे च पावके गुरुविग्रहे ।
घण्टायां शास्त्रपीठे च यागोपकरणेषु च

30.103

स्रुक्-स्रुवाद्येष्वशेषेषु एकान्तिद्विजमूर्तिषु ।
विष्णु पाषदभेदेषु जन्मकर्मरतेषु च

30.104

श्रद्धापूतेषु दक्षेषु त्वदेकशरणेषु च ।
अतीत वात्सरीयाणां स्नानादीनां हि कर्मणाम्

30.105

नैमित्तिकानां नित्यानामपूर्णानां हि शान्तये ।
त्वत्प्रीतये यथाशास्त्रमद्य निर्वर्तयाम्यहम्

30.106

पावित्रकं विधानं च सर्वकर्मप्रपूरणम् ।
अतोयं मुखवासाद्यमुपचारं हि चर्चितम्

30.107

होमान्तमधिवासीयं कुरु सर्वं हि चात्मसात् ।
त्वामर्चयाम्यहं भक्त्या सुप्त्यतीते तु जागरे

30.108

यथावद्ब्रह्मसूत्रान्तैभोगैर्भोगापवर्गद ।
विज्ञप्तोसीह भगवन् वेत्सि सर्वं हृदि स्थितम्

30.109

भक्तस्य मम वात्सल्यात् प्राप्तः कार्यस्त्वनुग्रहः ।
एवं निमन्त्रयित्वाजमष्टाङ्गेन नमेत् क्षितौ

30.110

चतुः प्रदक्षिणीकृत्य हृदि मन्त्रमनुस्मरन् ।
गीतानृत्तादिकैः स्तोत्रैर्वेदपाठसमन्वितैः

30.111

जयशब्दसमेतैस्तु जागरेण नयेन्निशाम् ।
स्नात्वा ब्राह्ममूहूर्ते ऽथ कृतकौतुकमङ्गलः

30.112

महता विभवेन प्राक् द्वारयागं समाचरेत् ।
यथावद्भगवद्यागं कुर्यात्तदनु पौष्कर

30.113

सांस्पर्शिकै रासनाद्यैर्विविधैरौपचारिकैः ।
हृदयङ्गमसंज्ञैस्तु बहुभेदविनिर्मितैः

30.114

भक्ष्यैर्भोज्यैस्तथा लेह्यैश्चोष्यैनानाविधैरपि ।
षडृतुप्रभवैः सर्वैः शाकैर्मूलैः फलैः शुभैः

30.115

पावनैः पावकस्विन्नैरुपदंशादिकान्वितैः ।
गोसंभवैः स्थिरैः कांस्यपात्रैर्मध्वाज्यपूरितैः

30.116

रसालक्षीरसंपूर्णैर्दिक्स्थितैस्तु समुद्रवत् ।
मात्रावित्तैः सताम्बूलैरन्तर्मानैर्यथोचितैः

30.117

वरशय्यासमेतैस्तु पावनैरात्मवल्लभैः ।
स्वदेशपरदेशोत्थैः क्रीडाभोगैरकृत्तिमैः

30.118

जातरूपमयैः पात्रैर्गन्धमाल्याद्यलङ्कृतैः ।
जपमुद्रावसानान्तमेवं मण्डलसन्निधौ

30.119

कृत्वा तु भगवद्यागं विशेषाद्देवमन्दिरे ।
अथ भूषणपात्रं तु आदायोद्धाट्यपूज्य च

30.120

पवित्रकं समादाय यायात्कलशसंनिधिम् ।
आराधनाङ्गनिचयमव्यक्तं तात्त्विकं हि यत्

30.121

तृतीयमुभयात्मं वै अध्यात्मदित्रयं तथा ।
अनुसन्धाय वै तस्मिन् संस्मरन् हृदयाद्धिया

30.122

तत्राष्टाष्टकसंख्यं तु अव्यक्तं भोगसंग्रहम् ।
मन्त्रमुद्रासमूहं तु तात्त्विकं परिकीर्तितम्

30.123

स्वाध्यायगीतवाद्यानि व्रतानि नियमानि च ।
दानान्युत्सवपूर्वाणि नानानैमित्तिकानि च

30.124

एतान्युभयरूपाणि पुरुषार्थप्रदानि च ।
प्रीतिदानि जगधानौ मन्त्रमूर्तौ जनार्दने

30.125

भास्वरं चिन्मयं शुद्धं यदेषां रूपमक्षयम् ।
तद्भर्भेष्वनुसन्धेयं सूक्ष्मं तदनु पौष्कर

30.126

सूर्येन्दुवह्निसंकाशम् इयत्ता परिकल्पितम् ।
तद्ग्रन्थिगणदेशेषु भावनीयं महामते

30.127

सुस्थूलं व्यावहार्यं च तृतीयं सार्वलौकिकम् ।
तत्तन्तुनिचयोद्देशे भावनीयं सदैव हि

30.128

एवमाध्यात्मिकी व्यप्तिं लक्षयित्वा तु पौष्कर ।
चिन्तयेद्धिदेवाख्यां व्याप्तिं मान्त्रीम्मनश्वरीम्

30.129

चतुर्णामविनाभावि यद्रूपममृतोपमम् ।
नानाभासगणाकीर्णं मूर्तामूर्तमनश्वरम्

30.130

किरीटमालाश्रीवत्सकौस्तुभानां महामते ।
सन्निधिं भावयेन्नित्याम्मधिदेवात्मना त्रयम्

30.131

पृख्यप्तेजो ऽनिलाकाशपञ्चानां समुदायियत् ।
रमणीयं शुभं रूपं भक्तानां परितोषकृत्

30.132

तदस्य चाधिभूतत्वं मन्तव्यं योजनाविधौ ।
ध्यात्वैवं मूलमन्त्रान्ते समुदीर्याब्जसंभव

30.133

प्रणवालंकृतं मन्त्रं तमुद्यतकरः पठेत् ।
त्वत्प्राप्तिसाधनं देव ज्ञानं यदमलं परम्

30.134

भक्तिश्रद्धासमोपेता सत्क्रिया स्वत्प्रकाशिकी ।
अखण्डसिद्धये तस्या ह्युपायः कथितस्त्वय

30.135

ज्ञानकर्मप्रसक्तानां भक्तानां भावितात्मनाम् ।
पवित्राख्यं यथाशक्त्या त्वत्प्रसादान्मया कृतम्

30.136

यथोचितमिदानीं तां ध्यायस्व परमेश्वरीम् ।
तस्माच्छुभतरं कर्म विज्ञानममलं हि यत्

30.137

विध्यन्तरं मन्त्रगणाद् द्रव्यसङ्घस्त्वमेव हि ।
प्राप्तिः पूरयिता पूर्णमपूर्णानां हि कर्मणाम्

30.138

तश्येनानेन भगवन् भवभङ्गार्दितस्य च ।
अशठस्य क्रियाकाण्डमखण्डं सर्वमस्तु ते

30.139

विज्ञप्तो ऽसीह भगवन् अर्थिता मे परा त्वयि ।
विना त्वत्परितोषेण सम्यक् ज्ञानप्रदेन च

30.140

आपत्काले तु संप्राप्ते बुद्धिपूर्वं मयाच्युत ।
न सन्त्याज्यं क्रियाज्ञानं त्वं सर्वं वेत्सि तत्त्वतः

30.141

यथाकालं यथावच्च भोगैर्देव यथोचितैः ।
नार्चितो ऽसि यथा सम्यक् खेदश्चेतसि तेन मे

30.142

पूजनं भोगसंभोगैराज्यदोहैस्तु तर्पणम् ।
त्वय्येतत्कृतकृत्यानां न किञ्चिदुपयुज्यते

30.143

सुक्षेत्रवापितं ह्येतदखिलार्थस्य मैऽखिलम् ।
फलिष्यत्यमृतत्वेन ज्ञात्वैवं हि पुरा मया

30.144

अङ्गीकृतं गुरुमुखात् किन्तु सर्वेश्वर प्रभो ।
परिस्फुरति मे बुद्धौ न निर्व्यूढं यथास्थितम्

30.145

मनोवाक्कायकर्मैस्तु आप्रभातामृनिशावधि ।
अस्वातन्त्र्यादसामर्थ्यान्मनसश्चानवस्थिते

30.146

शीतोष्णवातवर्षाद्यैरन्तरायैर्ज्वरादिकैः ।
असम्पत्तेः क्रियाङ्गानां देव त्वदुनरूपिणाम्

30.147

आप्रवृत्तेः परानन्दप्राप्तिनिष्ठं यथाह्निकम् ।
यथोक्तममराणां तु यस्मान्न घटते त्वतः

30.148

तस्य संपूरणार्थं तु प्रधानतरमर्चनम् ।
पवित्रकाख्यमादिष्टं वत्सरं प्रति यत्त्वया

30.149

तन्मया कृतमध्यक्षमर्चितं यदनिर्मलम् ।
क्रियायोगादसंपूर्णं तन्मे निर्मलतां नय

30.150

ज्ञानतो ऽ ज्ञानतो वापि यथोक्तं न तु तन्मया ।
तत्सर्वं पूर्णमेवास्तु सुतृप्तो भव सर्वदा

30.151

ओमच्युत जगन्नाथ मन्त्रमूर्ते सनातन ।
रक्ष मां पुण्डरीकाक्ष क्षमस्वाज प्रसीद ओम्

30.152

उक्तवैवं मूलमन्त्रं तु हृदाद्यैर्लाञ्छनैः सह ।
समुद्दिश्य ततो दद्यान्मूर्ध्नि मन्त्रात्मनो विभोः

30.153

सर्वज्ञानक्रियाभोगशुभसंकल्पविग्रहम् ।
मण्डलान्तर्गतस्यैवं प्रासादान्तःस्थितस्य च

30.154

वह्निमध्यगतस्यापि समारोप्य महामते ।
अर्चनेन पुटीकृत्य पावनं च पवित्रकम्

30.155

यागोपकरणानां च दत्त्वा शास्त्रात्मनस्ततः ।
देशिकस्य हृदारोप्य पूजितस्य च देववत्

30.156

परितुष्टेन तेनाथ तस्य सर्वार्थसिद्धये ।
साशिषं हि सदारभ्य संस्थितस्याग्निसन्निधौ

30.157

हवनान्तेर्ऽचनान्ते वा ह्यन्येषां क्रमशस्तु वै ।
ततः प्रावरणैर्दानैर्यथासंपत्ति संभृतैः

30.158

सोपवीतोत्तरीयैश्च छत्त्रोपानत्समायुतैः ।
विविधैर्भोजनैर्विप्र धूपैश्चालभनादिकैः

30.159

पूजयेद्ब्राह्मणान् सर्वान् सुसूपायांस्तथा यतीन् ।
त्रिरात्रादथ सप्ताहादुपसंहृत्य पौष्कर

30.160

महदर्चनपूर्वं तु कृत्वा पूर्णावसानिकम् ।
क्रमशश्चोपसंहृत्य स्वयं गुर्वात्मनाथवा

30.161

आदाय पूजिते पात्रे अर्चयित्वा यथाविधि ।
जानु नी भूगते कृत्वा प्रणिपत्य च देशिकम्

30.162

मानयित्वार्ध्यपुष्पाद्यैः प्रणिपत्य स्वयं पुरा ।
विनिवेद्य च तत्पात्रं प्रसादः क्रियातां विभो

30.163

साशिषं भगवत्प्रीतिर्वाच्याचार्येण तस्य तु ।
यथागमं यथाशास्त्रं प्रसादाच्चतुरात्मनः

30.164

त्वयि सांवत्सरं विप्र सुसंपूर्णं तदस्तु ते ।
समुत्कीर्तयतस्तस्य आसनस्थस्य मूर्धनि

30.165

कलशद्वितयं मन्त्रं रक्षासौभाग्यमोक्षदम् ।
विसर्जनं विभोः कुर्यात् पूजापूर्वं यथाक्रमम्

30.166

विष्वक्सेनं यजेत् साङ्गं तर्पयेत्तदनन्तरम् ।
समाहृत्याखिलं पश्चात् कृते वै तद्विसर्जने

30.167

प्रकल्प्य पूर्ववत्सोमपानमच्छिद्रसिद्धये ।
रुक्मराजतसद्रत्नघटिते वा विभूषिते

30.168

चक्राधारे तु कलशे वितते कमलोदरे ।
पाञ्चजन्यवलीग्रीवे शतपत्रशुभानने

30.169

ऊध्वार्धः कौमुदीमालामण्डलालंकृते ऽब्जज ।
मकराननशेषाभिरमृताम्बुप्रवाहके

30.170

नदी समुद्रश्रीवृक्षमीनमाल्यैः परिष्कृते ।
एवं लक्षणसंयुक्ता (?क्ते )विभोराराधनाय च

30.171

पाद्यार्ध्याचमनस्नानदाने सावत्सरोत्सवे ।
तथा सहस्रकलशैरभिषेकविधावपि

30.172

इत्युक्तमरविन्दाक्ष पवित्रारोपणं परम् ।
ऊनातिरिक्ताद्यद्यति भुवि भक्तजनं सदा

30.173

तस्य निर्वर्तनाद्मक्त्या ब्राह्मणो वेदविद्यवेत् ।
श्रीमानत्युग्रशशक्तिर्वै क्षत्तियो ऽच्छिन्नसन्ततिः

30.174

धनधान्ययुतो वैश्यः शुद्रस्तु सुखवान् भवेत् ।
गोभूसुवर्णदानानामनन्तानां हि यत्फलम्

30.175

यावज्जीवं प्रदत्रानां प्रत्यहं तु समाः शतम् ।
परमायुषि संपूर्णे तत्फलं प्रापनुयान्नरः

30.176

प्राप्तकालः स्वबुध्या तु आसाद्यायतनं हरेः ।
स्मरन्मन्त्रेश्वरं सम्यक् सम्यक् सृजति विग्रहम्

30.177

यानैश्चन्द्र प्रतीकाशैर्दिव्यस्त्रीजनसंयुतैः ।
वीज्यमानो दिवं याति पूज्यमानस्तथामरैः

30.178

भुक्त्वा भोगांस्तु विपुलान् सर्वलोकान्तरोद्भवान् ।
कालेन महता साद्य मानुष्यं पुनरेव हि

30.179

शुभे काले शुभे देशे जायते च शुभे कुले ।
निवृत्ते बाल्यभावे तु व्यक्ते करणसंग्रहे

30.180

बुद्धितत्त्वे प्रबुद्धे तु जन्माभ्यासवशात्तु वै ।
कर्मणा मनसा वाचा नारायणपरो भवेत्

30.181

नित्यं क्रियापरो धीमान् ब्रह्मण्यः सत्यविक्रमः ।
अनन्यथा विशुद्धात्मा दुष्टसङ्गविवर्जितः

30.182

व्याधिशोकविनिर्मुक्तः पुत्रदारादिकैर्युतः ।
अपमृत्युविनिर्मुक्तो ज्ञानमासाद्य निर्मलम्

30.183

श्वेतद्वीपं समायाति सुराणां यत्सुदुर्लभम् ।
ज्ञानिनामपि चान्येषां तत्र दृष्ट्वा जगत्पतिम्

30.184

परं ब्रह्मत्वमायाति तत्कर्मपरमः पुमान् ।
पश्यन्त्यारोप्यमाणं ये ब्रह्मसूत्रं जगत्प्रभोः

30.185

तथानुमोदयन्त्यन्ये यान्ति ते ऽप्यमरावतीम् ।
श्रुण्वन्ति ये विधानं तु पवित्रं पापनाशनम्

30.186

प्राप्नुवन्ति च ते पुव्यमिष्टापूर्तादिकं हि यत् ।
नारीह्यनन्यशरणा पतिना परिचोदिता

30.187

तद्भक्ता सा सती साध्वी कर्मणा मनसा गिरा ।
नित्यं भर्तरि चाद्रोहा प्रयता साङ्गतेन वै

30.188

पवित्तकं जगद्योनेरारोपयतिचाब्जज ।
सातुलं चैव सौभाग्यं प्राप्नुयादचिरेण तु

30.189

देहान्ते देवनारीणां देवानां याति पूज्यताम् ।
सात्वरुन्धतिपूर्वाणामवा (?वी )क् समभिवीक्षते

30.190

ज्ञानमासादयत्यन्ते येन यान्त्य (त्य )त्त्युतं पदम् ।
प्रोत्तारयति बन्धूनां दुष्कृतेभ्यो ऽब्जसंभव

30.191

पितॄणां जनकादीनां नाम्ना स्नेहपुरस्तु यः ।
ददाति भूषणं विप्र मन्त्री मन्त्रात्मनो विभोः

30.192

दुर्गतेः सुगतिं याति द्युसिन्धोरस्थिरा नरः ।
यथा सुराणाममृतं नृणां गाङ्गं जलं यथा

30.193

स्वधा यथा पितॄणां च कर्मिणां तद्वदब्जज ।
पवित्रकं क्रियाढ्यानां पावनं भूतिवर्धनम्

30.194

सर्वदोषभयघ्नं च सर्वोपद्रवनाशनम् ।
सर्वसौख्यप्रदं चैव सर्वगुह्यप्रकाशकम्

30.195

यः सम्यग्भगवद्भक्तः कृतमन्त्रपरिग्रहः ।
एवमवे प्रवृत्तौ वा जन्माभ्यासात्सदार्चने

30.196

अनन्यत्वेन वै विष्णोः परस्य परमात्मनः ।
प्रयत्नेनार्थनीयं च महतानेन देशिकः

30.197

असन्निधानात् स्वगुरोरभावात्तस्य चाब्जज ।
प्रवर्तनीयमन्येन गुरुणाभ्यर्थितेन च

30.198

कर्मणा मनसा वाचा नेतरस्याधमस्य च ।
नान्यदर्शनसंस्थस्तु मद्भक्तैस्तत्परायणैः

30.199

पवित्रारोहणादीनामर्थनीयो हि देशिकः ।
मामतिप्रतिपन्नं च अन्तस्थो वेत्ति यद्यपि

30.200

कृतार्थमतिभक्तत्वादमुं मन्ये तदा गुरुम् ।
प्राप्तमुत्तारकं शिष्यो मन्ये भक्तिवशाद् गुरुम्

30.201

यत्रैव चित्तवृत्तीनां साम्यमस्ति त्रयस्य च ।
शिष्यदेशिकमन्त्राणां तन्त्रमोक्षश्च सिद्धयः

30.202

ज्ञात्वैवं यस्तु भक्तानामभक्तः संप्रवर्तते ।
मन्त्रदाने च शिष्याणां सं याति नरके ऽधमः

30.203

प्रत्यक्षमेति भक्तानां भक्तिः प्रागर्जिता शनैः ।
तत्सम्पर्कसमाचारान् मन्त्रदैवतनिन्दनात्

30.204

तस्माद्विषयसंभूतं यस्य यद्विषयं स्फुटम् ।
परेषामात्मनश्चापि तस्य तत्सिद्धिदं स्मृतम्

30.205

यत्रास्ति देशिकानां च भक्तिरव्यभिचारिणी ।
तत्रैव यदि शिष्याणामभिलाषो ऽस्ति पूजने

30.206

तदा मन्त्रवरः प्रीतः सन्निधिं कुरुतऽब्जज ।
सिद्धस्य समबुद्धेर् वै निष्क्रियस्य तु या क्रिया

30.207

अतो ऽन्यस्य क्रियां विद्धि भक्तिपूर्वा तु सा स्मृता ।
या च तद्विषया भक्तिः पतिवृत्तिसमोचिता

30.208

अष्टाङ्गलक्षणा पूर्णा श्रद्धापूता च मोक्षदा ।
अतो ऽन्या सिद्धिदा सिद्धिर्व्यभिचारफलप्रदा

30.209

सर्वस्याहं तटस्थो ऽहमाशयं वेद्मि तत्त्वतः ।
भक्तिर्मा प्रति वै ताभ्यां यदा ह्यव्यभिचारिणी

30.210

मन्त्रात्मनानुगृह्णामि शिष्य गुरुमुखेन तु ।
नाभक्तेन त्वतो भक्तो दीक्षणीयः कदाचन

30.211

नाभक्तस्त्वतिभक्तेन योजनीयस्त्वदर्चने ।
गुरोरंअभक्ताद्भक्तानां भक्तिरभ्येति तापनम्

30.212

शारीरं मानसं दुःखं वर्धते च क्षणात् क्षणम् ।
भावमासुरतामेति येन यात्यधमां गतिम्

30.213

गुरोरअनन्यशरणाद्भक्तानां कमलोद्भव ।
द्विविधं त्रिविधं दोषमचिरात् क्षयमेति च

30.214

अनुग्राह्यादभक्ताच्च सावलेपात् क्रियोज्झितात् ।
गुरोरकीर्तिं महतीं विद्वेषं सहते न वै

30.215

सांमुख्यं दुःसहानां च दोषाणां दिक्षितस्य च ।
तस्मात्सर्वप्रयत्नेन अदृष्टफलसिद्धये

30.216

विहितं यच्च तत्कार्यं शिष्येण गुरुणापि च ।
नाभक्तः संविदाप्नोति नाभक्तो ध्यानमाप्नुयात्

30.217

लाभक्तः संत्क्रियां वेत्ति नाभक्तः शास्त्रविद्भवेत् ।
नाभक्तमर्चां यागं च वह्निमर्चापयेत्तथा

30.218

बन्धापयेन्नमुद्रां च श्रावयेत्समयान्न हि ।
यो ऽपराधेन वा लोभादभक्तानां जगद्गुरौ

30.219

विपर्ययार्थवेतॄणामपहारसरतात्मनाम् ।
अभिगच्छापयेन्मोहात्स याति नरकं गुरुः

30.220

प्रायश्चित्तं हि पूर्वोक्तं तापार्तो नाचरेद्यदि ।
इत्युक्तमरविन्दोत्थ यत्त्वया परिचोदितम्

30.221

भक्तानामुपकाराथ पवित्रारोहणं शुभम् ।
प्रावृट्काले प्रवृत्ते तु त्रेलीक्योदरवर्तिनाम्

30.222

मनुष्यामरसिद्धानां वक्तव्यं चानुवर्तिनाम् ।
प्रवर्तन्ति हि वेगेन श्रद्धया वत्सरं प्रति

30.223

महत्यस्मिन् महाबुद्धे व्यापारे पारमेश्वरे ।
विभोः शयनसंस्थस्य काले पुष्फलाकुले

30.224

गगने लङ्घयमाने तु सबलाकैर्वलाहकैः ।
कुमुदोत्पलकह्लारैर्भूषिते वसुधातले

30.225

वनोपवनौद्याने हरितैः शाद्वलादिकैः ।
शालिसस्यादिकैर्युक्ते पल्वलोदकशोभिते

30.226

पवित्रकं कृतं विष्णोरन्तः स्थस्यातितु ष्टिदम् ।
तस्य प्राग्विहिता विप्र सततं शयनक्रिया

30.227

अथोक्तदिवसे ताभ्यां ब्रह्मन्निर्वर्तिते सति ।
रक्षणीयमवश्यं वै कर्मयागं क्रियापरैः

मूल पाठ: Pauṣkarasaṃhitā 27-43 · Edition: Prabhakar Pandurang Apte: Pauṣkarasaṃhitā : dvitīyo bhāgaḥ, Tirupati 2006 (Rashtriya Sanskrit Vidyapeetha Series, 120) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc