पौष्करसंहिता · अध्याय 29
इति श्रीपञ्चरात्रे पौष्करसंहितायां हुताशनयोनिविभागो नाम अष्टाविंशो ऽध्यायाः ॥
अथ एकोनत्रिंशो ऽध्यायः
श्रीभगवानुवाच ---
प्राजापत्ये दैशिकीये शैषोत्थकरसंमिते ।
क्षेत्रं क्रमान् नयेद् वृद्धिं तावद् एकैकम् अङ्गुलम्
यावद् अष्टकरं क्षेत्रं धिष्ण्यार्थम् उपजायते ।
एवं स्यान्मानभावेन त्वेकाशीत्यधिकं शतम्
कुण्डानां सर्व ----------------------- ।
जायते ऽष्टगुणं संख्या त्वष्टदिक्संस्थिता शुभा
चतुरश्रादिभेदोत्था काम्यानां कर्मणां द्विज ।
-------प्रकारेण क्षेत्रसाम्येन वै सति
सद्रत्नमालाश्रीवत्समुकुटाङ्गदलक्षणाः ।
शङ्खचक्रगदापद्मशार्ङ्गनानाशरोपमाः
सर्वे सपीठा विहिताश्चतुस्त्रिद्वयेकमेखलाः ।
चक्रपद्मगदाशङ्खसमस्तव्यस्तलाञ्छिताः
तथाष्टयोनिनिर्वाहैः स्वैरङ्गैरुचिरोत्थिताः ।
प्रत्येकस्वस्वकव्यासद्विद्विद्वादशसंख्यया
भागं तम् अङ्गुलं विद्धि सर्वावयवसिद्धये ।
नानास्वातवशात् चैव सर्वेषां पुनरेव हि
अप्रकाशप्रकाशाख्यं भेदं तु विविधं स्मृतम् ।
सद्भोगलक्षणं बन्धम् अनन्तफलम् अर्थिनाम्
----------व्यासस्वाताः समा हि या ।
संप्रयच्छति कामानां संपदं परमेश्वर
प्रकाशिलक्षणन्याये तेषां स्वातो महामते ।
------------------------------क्षया
आद्वादशाङ्गुलाः कुण्डाः करान्ते ये त्रयोदश ।
सर्वाकृतिधराश्चैव जङ्गमा मेखलोज्झिताः
अनुकल्पे तु विहिता जङ्गमा मन्त्रतर्पणे ।
एवं द्विहस्तपर्यन्ताः महालक्षणलक्षिताः
भूमावुल्लिख्य संपूर्य धान्यैर्बीजैर्मृदा तु वा ।
सामग्रीविरहाद् वापि शश्वत्कर्मसमाप्तये
अनुकल्पानुकल्पे तु नित्यम् एवाविरोधकृत् ।
त्वगन्वितैः समैः पूर्णैः सरसैः सरलैः स्थिरैः
दलीकृतैस्तु --------------------- ।
-------काष्टैः -------कार्यात्र वै पुरी
द्वादशाङ्गुलपूर्वाणां धातूत्थानाम् अपि द्विज ।
विधेया हव्यपूरित्वे चलानाम् एवमेव हि
नाकुण्डं हवनं यस्मात्सिद्धिकृन्मन्त्राजिनाम् ।
तस्मात्कुण्डं सदा कार्यं सौत्रं वा जङ्गमं स्थिरम्
हव्यभूमेर्विशेषाच्च पीते तु द्विगुणोच्छ्रिते ।
तत् तद् द्विचतुरश्रं तु व्यष्टाश्रं परिमण्डलम्
-------षष्ठांशद्विषट्कांशेन चोन्नतम् ।
आपाद्य स्वातमानं प्राग्यथाभिमतम् उच्छ्रितम्
इष्टकाभिव् अपक्वाभिः पक्वाभिर्वा यथारुचि ।
------------------------------हितम् अन्यदा
कुर्याद्वाथ समास्तुल्या तेष्वंशं -------स्यतः क्षितः ।
द्वयङ्गुलेनाधिकं जातं वासाद् वासां यथा भवेत्
प्राङ्मेखलाननात् देशात् तत्तद्वा पत्तदु ------- ।
--------------दुप्रेमा -------वनेः पुरा
त्रिभागोनम् अथार्धं च नेमिमानसितात्मना ।
कुण्डानां तत्त्वतो मानाद् अवस्थानं द्वादशानां महामते
द्वादशाङ्गुलनिष्ठानां द्वादशानां कदाचन ।
संविभज्य चतुर्धात्र त्रिधा वामललोचन
तन्मानम् अथ नेमीनाम् उच्छ्रिता विस्तृतेरपि ।
तत्समा सर्वदा योने[ःकार्]येण पृष्टतःकृतेः
किन्तु व्द्यङ्गुलमानेन प्रोन्नता पृष्ठतो ऽवधेः ।
ह्लासयेद् अनुपातेन त्वंतु नेम्य -------क्रमात्
स्वाङ्गुलांश्च तृतीयांशादुल्बणत्वेन सर्वदा ।
विस्तृता मेखलामानात् पादोनात् कमलोद्भव
विधेयाथ त्रिभागेन तदग्रं संप्रसार्य च ।
-----------------------------द्य मेखला
------------------------बिम्बप्राणप्रणालवत् ।
तं योनिं वृद्धिनिर्वाहं कोष्ठानिष्ठाविधिं क्रमात्
समापाद्यानुपातेन समं श्लक्ष्णं गजोष्ठवत् ।
समाश्रित्य स्वकं ?मूर्तिं विचित्रां गुणलक्षणाम्
निर्वहन्ति निशं बोधप्रवाहेना ----------नादिना ।
पुंसमुद्रे त्वगाधे तु स ----------क्षालनाश्रये
निशम्य योनिं ----------व्योम्नि रज ------- ।
द्वाभ्यां गुणाभ्यां तमसो द्विनेमिविनित्ततात्
गुणस्याभिभवादेव ----------कं वत्सत्वमेखलम् ।
यदमूर्तं परं ब्रह्म तद् विद्धि नभसो गतम्
सचतुर्मेखले धिष्ण्ये मेखलासं चतसृषु ।
चतुरात्मानम् अव्यक्तं तत्र प्राक् परिधेः स्वयम्
समः संपूर्णमूर्तीनां ममा-------मोक्षजम् ।
गुणद्वयद्वयात्मानम् अच्युताद्यं क्रमात् त्रयम्
---------------------सा योनिः सर्वकर्मणाम् ।
यत्प्रवाहाश्रितं कर्म ब्रह्मण्येकात्मतां व्रजेत्
विस्तीर्णानन्तयोनीनां दूरतो वन?मूर्तिनाम् ।
कुण्डनामितिमारी ?----------पूव्रवत्
विधेया वितताश्चाङ्गी-------सुस्थिरवर्तिरा ।
पल्वस्तनगर्भेण तमूर्धक्षणम् आसपातयेत् ?
योनिश्चलस्तो ऽन्येषाम् उद्यतानां ------- ।
--------------वितता कार्या सुस्थिता दर्पणोदरा
म्स्. क रेअद्स् अfतेर् 38अब्:
--कुण्डलानाममि ---------------पूर्ववत् ।
विधेया वितताङ्गी सुस्थिरवर्ति ------- ।
-------दर्भेण ---------------------- ।
योनिश्चलरतो ऽन्येषामुद्यताना ------- ।
--------------वितता कार्या सुस्थिता दर्पणोदरा ।
संकोचः कुण्डनेमीनामनुकाले त्वतः शृणु ।
चतुर्भागा तुषा ?विप्रह्युत्तमादिव्यपेक्षया ।
करा ---------------------ह्यङ्गुलैः पञ्चभिर्विना ।
सततप्यासमानानां नानाकारवदात्मनाम् ।
विस्तारायामतुल्यां च -------------- ।
--------------मेकैकमङ्गुलानन ? ।
बन्धयेद्विकलान्येति साक्षि --------------- ।
तुङ्गद्व -------------------------- ।
द्विहस्तमूर्घतो ऽन्येषां तत्समं तु भवेच्छतम् ।
एवं विचार्य च पुरा देशकालवशादिकम् ।
स्वसामर्थ्यं ततो व्यूहसूत्रपातं स ------- ।
-------समक्षं च चि -------यादिष्टकादिकैः ।
---------------पीढानामूर्ध्वतो ऽब्जज ।
खातो ऽष्टमेखलानां च चोनिः पीढस्य पौष्कर ।
संकोचः कुण्डनेभीनाम् अनुकाले त्वतः शृणु ।
चतुर्भागा तु षा (?सा )विप्र ह्युत्तमादिव्यपेक्षया
करायस्स (?न्तः स )मितं मानम् एकैकानाङ्गुलेन वा ।
वर्धयेत् द्विकरा --------------न्येति साक्षितः
सर्वदिक् करमानाश्चाप्यङ्गुलैः पञ्चभिर्विना ।
सततव्यासमानानां नानाकारवद् आत्मनाम्
विस्तारायाम् अतुल्यानां धिष्ण्यानां मेखलासु च ।
-------सतुङ्गद्व----------सर्वमूर्धे नवोन्नति
द्विहस्ता मूर्धतो ऽन्येषां तत्समं तु भवेच्छतम् ।
एवं विचार्य च पुरा देशकालवशादिकम्
स्वसामर्थ्यं ततो व्यूहस्तत्र पातं ससिरि ?--- ।
-------शिल्पिसमक्षं च चिन्व (?नु )याद् इष्टकादिकैः
सवृत्ताष्टाश्रतुर्यान्त्री (?श्रि )पीठानाम् ऊर्ध्वतो ऽब्जज ।
खातो ऽष्टमेखलानां च चोनिः पीठस्य पौष्कर
क्षयवृद्ध -------प्रत्याय्य द्रुमनस्वयम् ।
विलाप्यन्त -------ज्ञानसंशुद्धया धिया
द्विशोभात्मना स्वे -------तुष्ट्यर्थं सांप्रतं नयेत् ।
भगवद् वह्निशक्तेर्वै ज्वालाद्या प्रकृतिः परा
अपरा प्रकृतधिष्ण्यानां नानाकारं यथानलात् ।
एतद् एवाग्निरूपा(?पं )वै कुण्डभावान्नि (?गाग्नि )कर्मणि
का --------------विहिता विभोर्विप्राननस्य च ।
हव्यं यत् पतिते कुण्डे दीयमानं हि देशिकात्
सर्वं सिद्धिदम् अग्नेर्वै हुतं यद् दहते ऽखिलम् ।
पुरस्तात् -------सम्यक् क्रमाल्लब्धं बलं स्वयम्
कोटिलक्षायुतगुणं द्रव्यं यद् विहितं हुतम् ।
विधूमे लेलिहाने ऽग्नौ स्वे -------स्वशयाश्रिते
सहस्त्रशतसंख्यं च जुहुयाद् द्रव्यसंग्रहम् ।
दण्डकृद् द्विकपक्षं च[यन्]निर्वाहकम् अक्षयम्
धारावाहि ततो ऽन्येषा -------------- ।
पुत्र युक्त्याम्बरस्थं च मन्त्रब्रह्माम्बुजोपरि
मुख्यकल्पो विलुप्ते तु -------युक्तम् अथाब्जज ।
कुण्डानां विततानां च वंशवीर्यादिकं च यत्
---------------------------ततोन्नतिः ।
कमलालयगर्भं तु ताम्रम् आयसजं तु वा
धर्मान्यो(?न्तो )द्वहनं येन न स्वेव (?स्वे न )यति भूतलम् ।
संस्कारसंस्कृतं कुर्यात् कुण्डं तदनु तन्न्यसेत्
--------------------तत्राग्निं जनयित्वावतार्य च ।
आज्यदोहैस्तु बहुभिः मन्त्रसन्तर्पणाय च
वह्नेवो (?रो )ङ्कारवेगेन रसता सूपरि द्विज ।
पातयेद् आज्यदोहं द्राक् मध्ये मन्त्रात्मनो विभोः
मोक्षभोगाप्तये चैवं ब्रह्मरन्ध्रमुखे क्रमात् ।
यथागन्धवनोपेतं संपूर्णं च समप्रभम्
कृत्वा तु मन्त्रनाथस्य ब्रह्मन् अर्चनसंयुतम् ।
सव्यूहव्याङ्गसंयुक्तं लाञ्छनस्यावृतस्य च
कुर्याल्लब्धाधिकारो ऽथ सेवार्थम् अयुतादिकम् ।
जपम् आरब्धमन्त्रस्य ब्रह्मपूर्वम् अतन्द्रितः
नियतं हि य (था श ?)क्ति प्रभाते ऽस्तं गते रवौ ।
रात्रिया (?रात्रेर्वा )मध्यभागे तु यथाशास्त्रनिबन्धनम्
पूर्वसेवाविधेरूर्ध्वं प्रीत्यर्थं पूजितस्य च ।
लक्षजापादिके सिद्धे -------ब्रह्मदिने -------
समाप्ते तत्समे होमे -------विहितो ऽथवाब्जज ।
अङ्गेनम् अङ्गतुल्यं वा धान्यैर्बीजैस्तिलैः फलैः
हरिणानननाराचमुद्रया जलजाख्यया ।
--------------समत्वात् जुहुयात् तदनन्तरम्
षण्माससममानेन द्विगुणेनाथ पौष्कर ।
चतुर्गुणेन वा शक्त्या ह्यन्तरान्तरयोगतः
शक्त --------------शतान्ते च द्विचतुष्परिपूरिते ।
-------वे साज्ये त्रिचतुष्कैकरात्रिणाम्
---------------------भूरिचात्म समानयेत् ।
समि -------------------------------------
-------नखिलमन्त्रेस्तु सह मन्त्री च संहिताम् ।
समुच्चरन् धिया सम्यक् स्वशक्त्या वा पृथक् पृथक्
भिन्नमन्त्रगणं सर्वम् आज्यदोहैर्मुदं नयेत् ।
ध्रुवाच्चार्चितया ?--------------त्तु वै
तल्लक्षणम् अथो वक्ष्ये मानमेयसमन्वितम् ।
प्रसिद्धयज्ञवृक्षोत्थं न दोषैर्दृढमव्रण (त )म्
सुस्पष्टं काष्ठम् आदाय दवाग्नित्रासवर्जितम् ।
निरसंजिरका ?--------------पर्युषितं शुभम्
मध्यमाङ्[गु]लिपर्यन्तं बाह्नोरामणिबन्धतः ।
तमङ्गुष्ठोदरैर्भूयो --------------नगुण्य च
अष्टावष्टौ त्यजन् यायात् शेषास्त्वेकाधिकाहि --- ।
आचारस्ते वै परिज्ञेया ध्वजाद्य(न्य )ष्टौ यथाक्रमात्
तत्रैवम् अवशेषं यच्छुभं च शुभनः स्मृतः ।
यूयं (?थं )युग्मावशेषाच्च तृतीयाच्च मृगाधिपः
चतुष्टय स्व (?श्व )वृद्धिं च पञ्चका वृषभः स्मृतः ।
करष्मका (?करेणुका )च शेषाच्च गजा वै सप्तकात् तु वै
एकाख्यः सप्तकाः शुद्धेस्तत्रामी शुभदाः स्मृताः ।
गजेन्द्रसिंहवृषभध्वजाद्या ये शुभप्रदाः
अशुभाय(?ये )विघातार्थं स्वशुभाय(?ये )विवृद्धये ।
अङ्गुलं वाङ्गुलयुतं युक्तिदैर्ध्यं विनिक्षिपेत्
तद् दीर्घं पञ्चधा कुर्यात् तद् विरुतारं दलेन तु ।
सिद्धये मध्यदेशस्य विधेया यत्र पौष्कर
आद्यकौशादयश्वागोः तद् उद्देशात् क्रमेण तु ।
पत्रकेसरचक्राङ्गं भूमीनां ह्रासमाचरेत्
-------वनिपर्यन्तम् उन्नतास्तात्क्षिपेत् पुनः ।
निर्वर्त्याः कर्णचिह्नास्तु चक्राब्जाभ्यां तु सान्तरात्
पञ्चमांशेन दैर्ध्यं तु तद् विस्तारसमेन तु ।
द्विभागसंहतं चैव शाखादेशाग्रतो भवेत्
-------चेतराकारवेदी कार्या वसुन्धरा ।
आराप्रणालमध्यस्ता नानाकर्मविराजिता
स्वं स्वं संवेदितं कुर्यात् तेन चावेदिकं शुभम् ।
क्षितिमण्डलमध्यस्थभागेनाद्येन वै ततः
कमलं लक्षणोपेतं केवलं षोडशच्छदम् ।
सनालम् अभिनिर्वर्त्य केसरालं सकर्णिकम्
निबीजं कर्णिकाकोशम् ईषत्परिविभूषितम् ।
यथोक्तलक्षणाढ्येन हेतीशेनावृतं तु वा
चक्रधारावनिं कुर्यात् कोणेषूभयतो ऽङ्किताम् ।
कौस्तुभैः स्वस्तिकैर्वाथ शङ्खाद्यैर्मण्डल ?मण्डितम्
तारात्ता (ए )गणाढ्यं वा -------------- ।
--------------कुर्याच्चास्त्रं चोग्रयावदासचेत्
अतश्चान्तानुपातार्थम् अष्टांशं पक्षगं पुनः ।
त्यक्त्वा समाचरेद्ध्रासं यथा स्याद् गजपाणिवत्
अन्तरं वसुधाभ्यां --------------ष्टांशसंमितम् ।
कार्यं षडंशतुल्यं वा विस्तृतैः शुभलक्षणम्
तद् विस्तारं द्विधा कृत्वा पञ्चधा वा समैः पदैः ।
----------------------------मध्यभागस्य---
-------भागम् अभागं च पक्षयोर्वा द्वयं द्वयम् ।
अग्रतश्चानुपातार्थं विभज्यैव यथेच्छया
स्कन्धान्तरं च --------------------- ।
मत्स्यवल्लांञ्छन --------------यथाक्रमम्
पार्श्वाभ्याम् अन्तरं बाह्यात् शेषं कण्ठात्मना नयेत् ।
यथा स्याद् गोमुखे भास -------कण्ठं महर्द्धिदम्
निर्मुक्तवेदिकानां तु शङ्खादीनां यदन्त------- ।
-------पट्टेन युक्तं --------------पद्मद्वयेन वा
वेदिकावासुधांशा (भ्यां )त्वनुपातेन शातयेत् ।
स्कन्धकण्ठात् समारभ्यत्रयो ग्रीवा यथेच्छया
विधाय भागं प्रागुक्त ---------------------तम् ।
वेदिकाविधिहीनस्य शङ्खस्य वचनं हि यत्
सपादभागसमेतं कुर्यात् पञ्चाङ्गसंमितम् ।
विस्तृतेर् वाधिकं किञ्चित् न्यूनं वा राजते यथा
कुम्भभागत्रयं सद्मद्वयं संशातयेत् क्रमात् ।
पृथूदरस्य शङ्खस्य पञ्चमांशेन शातयेत्
कुक्षिदेशं द्विधा चैव स्त्रगाद्यैर् अर्चयेत् ततः ।
वर्तते मूलम् आश्रित्य दैर्ध्याद् भागत्रयं हि यत्
तन्मध्यात् कण्ठदेशे प्रागाक्षिप्याङ्गं यथोदितम् ।
शेषं तु दशधा कृत्वा ततः सप्ताङ्गसंमितम्
दण्डं कुर्याद् गदाकारं कण्ठविस्तारविस्तृतम् ।
द्विप्रकारं यथोद्दिष्टमते-------लवणान्वितम्
अंशकत्रितयेनैव तत्र निर्माणम् उच्यते ।
वेदिकोपगतं कुर्याद् एकभागसमाश्रितम्
स्वास्तिकं लक्षणोपेतं मध्यतः कमलाङ्कितम् ।
कर्णिका निचयश्श्चान्तं ?प्रत्यंशं रचयेत् ततः
अङ्गणे -------पेतैः सुसमैर् अन्तरीकृतैः ।
(...)
धाराचनविधानैवं ?द्विषट्कपरिनिष्ठिते ।
वर्तुलं चतुरश्रं तु --------------चयमध्यगम्
करग्रहवतीं मुष्टि--------------मरोदयलक्षणाम् ।
ईषा (?षन् )मानाधिकं दण्डं बाह्यम् आपूरयेत् तथा
शतपत्रम् अधोवक्त्रं पृथुलं चोर्ध्वकर्णिकम् ।
मुष्टिनिष्ठायुधौ (?वधौ )कुर्यात् बहुपर्णं सकेसरम्
अथवेदिक्षिपेत् ?पीठलक्षणं चापरं शृणु ।
विहितं चार्धकल्पेयं ?देवपीठोपमं शुभम्
उष्णीवपदपर्यन्तम् आचाग्रेः स ?विभज्य च ।
स (मैर् )भागैः पुरात्र स्यु-------द्वाद---दिष्टमुच्यते
पद्मं चक्रारविन्दं वा -------लक्षणलक्षितम् ।
किंतु मानं विभागं च भूयः क्षेत्रवशात् शृणु
ब्रह्मस्थानावधेः क्षेत्रं कृत्वा षङ्भागभाजितम् ।
द्वौ भागौ भूषयेन्मध्ये कर्णिकापदसिद्धये
परिधिश्चार्धभागेन त्वर्धेन केसरावलिम् ।
सार्धेन पत्रनिचयं व्योम चार्धेन तद् बहिः
पार्थिवं पुरम् अंशेन विचित्ररचनान्वितम् ।
सान्तराणि समासाद्य क्षेत्राण्येतानि पौष्कर
किञ्चित् किञ्चित् समादाय प्रो[न्नते]ष्ववयवेषु च ।
आख्यातपरि[तो] ब्रह्मन् दलपादानिकं क्रमात्
निम्नतां च नयेद् ईषत् क्षेत्रात् क्षेत्रं यथोदितम् ।
शेष एव सचक्रम्य [परि]मार्यचान्यथा
खातात्मकेसरक्षेत्रमानम् अत्र यथोदितम् ।
दलजालं समापाद्य सव्योम चांशकेन तु
सचक्रनेमिवृत्तं तु सार्धेनांशेन तद् बहिः ।
भाग-------क्षेत्रं कुर्यात् प्रागुक्तलक्षणम्
पृष्ठतस्व --------------कुर्यात् सपद्मं कैवलं तु वा ।
कमलं दलजालं च मुख ---------------------
एतत् प्रमाणनिर्माणपरि --------------------- ।
तदा प्रमेयम् अस्यां वै ज्ञातव्यं कर्मसिद्धये
शतपत्रात्मनानन्तो मुष्टिस्तेनन्तवात्र ?धृक् ।
अन्तर्बीजात्मभावेन स्थित्वा चोत्थमुखः पुनः
पतस्कन्धं यदर्यात्मभूतप्राणमरुन्महत् ।
प्रेरितं ब्रह्मरन्ध्रेण तत् तद् इच्छावशात् पुनः
सप्तपातालनालं च त्वगमक्षात्मनाम्बुजम् ? ।
यदाश्रित्य स्ववाहे तु ह्यमृतं जलवत् स्थितम्
सचक्ररचनाजाले स्थितस्ते सत्रमूर्तिधृक् ।
शङ्खविग्रहधृग्वायुराज्यकोशं च खं ततः
निर्बीजम् अजम् अक्षोभ्यम् आद्यं स्त्रग्देवतस्याधिदैवतम् ? ।
सत्यभूतम् अमेयं च प्रमेयम् इदम् अच्युतम्
संस्कारकाले त्वारोप्य नित्यं संमन्त्र्य तर्पणे ।
दैर्घ्यम् एव तम् उज्झित्य वेदिविस्तारमेव च
यथोक्तांशं ----------------------- ।
-------संहतं गदादण्डं सुखिरं सुदृढं तु वा
नातिस्थूलं नातिकृशं युक्तम् ऋजुगणेन तु ।
एवं द्रव्यमयं कुर्यात् शुभदारमयं ?तु वा
स्त्रतुक्स्त्रुवानां च होमार्थं तल्लक्षणम् अथोच्यते ।
आयशुद्धं समादाय प्रागुक्तगणलक्षितम्
त्रयेंशोनं स्त्रुचा दैर्ध्याद् अष्टधा चोच्छ्रितं भजेत् ।
तेन भागप्रमाणेन तद् विस्तारं विधीयते
संविभज्य समांशैस्तत् सूत्रैः स्पष्टैर्यथाक्रमम् ।
कलशं कॢप्तयेन्मूलाद् अष्टांशं चतुरश्रकम्
वर्जयित्वाथ बाहुल्यं विस्तारार्धेन कल्प्य वै ।
कुर्याद् आधारविश्रान्तं कमलं रचितान्वितम्
तं शंखं विततास्यं तु नन्द्यावर्तं सुलक्षणम् ।
पार्श्वभागद्वयं त्यक्तवा चतुरंश -------स्मृतम्
पाशवद्ग्रथितं मध्ये सुविभक्तं च वर्तुलम् ।
चतुर्भागाननं दण्डं निर्गतं कलशाननात्
वितानं शङ्खवक्त्राद् वा -------त्रितयसंयुतम् ।
धारानालद्वयं कुर्यात् --------------ष्टाङ्गसंमितान्
पीठवत् कण्ठपीठं तु चतुरश्रं समाप्य च ।
तस्मिन् पङ्कजम् उल्लिख्य चक्रवृत्तान्तरीकृतम्
मुक्ताजालसमं सूत्रं शङ्खकोणचतुष्टये ।
एकांशेनोन्नता ग्रीवा विस्तारव्द्यङ्गसंमिता
ईषद् वक्त्रा न साष्टांशाद् ऊर्ध्वे भागसमुज्झिताम् ।
पद्मवच्चोत्तमाङ्गं च ग्रीवानालं सकर्णिकम्
अनन्तकेसरप्रान्तैरावृतं कर्णिकाननम् ।
तद् बहिः पत्रजालं तु केसरोच्छ्रायसंमितम्
अविभाग --------------पृष्ठतस्तिर्यगाननम् ।
कुर्याच्च कर्र्णिकामध्ये गोलकेनैव मुद्रितम्
कौस्तुभेनाङ्कितं चैव सौरभीयाश्रिणाथवा ।
सार्धहोमप्रमाणेन द्रव्यजाज्याहुतेः क्षमम्
प्रमाणोपे --------------लक्षणं समुदाहृतम् ।
स्मृतं सदाज्यहोमार्थं शेषम् अनयन्निबोधतु
साक्षाद् अमृतमूर्तिर्वै वरुणः कमलात्मना ।
नालात्मना तदस्त्रं च संस्थितं विघ्नभीतिकृतृ
जगदाप्यायकृत् चन्द्रः पद्मत्चेनाग्रदेश ------- ।
आनन्दाख्यं हि सामर्थ्यं ज्ञेयं तत् परमेश्वरम्
देशिकस्तु तदान्याससाधकः संयतस्तु वा ।
दैवीयम् अभिमानं च समाश्रित्य -------ते
अर्चने साग्निकार्ये तु यथोपकरणाखिलाः ।
सन्नार्य स्वकरणानां तु ह्येकस्मिन् स्वाश्रये स्थिताः
-------सर्व -------देहेनानेन त्वर्ध्यपात्र ------- ।
----------------------------शङ्खचक्रादिकैर्युताः
-------कार्या --------------त्वम् अभिमताप्तये ।
तस्माद् अनधिकार्ये ऽथ ह्यन्नदेवपरस्तथा
दमहो ----------------------------संश्रयेत् ।
निषिद्ध ---------------------देहापहरणं शुभम्
संपाद्य पदवीं याति यो ऽधिकारपदे स्थितः ।
ददाति अनुज्ञाजुष्टानां त्वद् भक्तानां च तत्प्रति
आज्यस्थाली बृहद् ब्रह्मलक्षणे ------- ।
कुर्यात् कमलगर्भं तु याम्ययात्रात्मतो ?शुभाः
गृहीत्वात्मामृतः सम्यक् संस्तुत्वं लभते ऽग्निना ॥
ध्रुवं प्रमाणनालं च तन्मूले शुभलक्षणम्
कुर्याद् अमलसारं च --------------ब्जज ।
तत्समर्थं च तन्नालसंज्ञिताः श्रीनिषेविताः
संपाद्य नलिनीं दिव्यां प्रफुल्लैर् अर्धपुष्पितैः ।
तथा मुकुलितैः पद्मैः सपद्मैर् अन्तरीकृतैः
-------दिक्पालिताश्चैव दक्षिणोत्तरयोस्तु वा ।
चतुर्विस्तारवक्त्रां च फुल्लपद्मान्तराणि (?रीकृ )ताम् ?
चक्रव्योमत्रिभागेन निम्ना वातदलेन तु ।
मूलयेद् गलदेश (स्ता )ःस्याद् अन्यमन्यं समाप्य वै
उष्णीषं चात्पलोपेतं संसिद्धा सुरभीरवैः ।
सनाला नलिनी तेषां तत्पात्रं पारमेश्वरम्
शयनासनसंज्ञं च सततं चामृतार्णवम् ।
--------------द्यावापृथिव्या -------
स्त्रग्गंधव ---तेरस्ते -------सपुष्पे चोपलद्वये ।
प्रणीतादीनि पात्राणि तूपयोग्यानि यान्यपि
तानि शङ्खाब्जहेतीशसंयुक्तान्यखिलानि च ।
विचित्रं रचना -------धातुदार्वमयानि वा
यथाभिमतमानानि कुर्यात् पद्मेवतानि ?च ।
मन्त्राराधनपूर्वाणां कर्मणां कमलोद्भव
सर्वं सलाञ्छनं कुर्या-------पदंत्र ?कलशादि ------- ।
-------त्वासनादीनि स्वात्मोपकरणानि च
मुक्ताङ्गुलीयकं चैव भूषकं (णं )कटकादिकम् ।
उत्तमाङ्गोद्वहं सर्वं शिरोष्णीषादीकं तु वै
मूल पाठ: Pauṣkarasaṃhitā 27-43 · Edition: Prabhakar Pandurang Apte: Pauṣkarasaṃhitā : dvitīyo bhāgaḥ, Tirupati 2006 (Rashtriya Sanskrit Vidyapeetha Series, 120) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0