भाषा

ENहिગુ
ग्रंथ पाठ

पौष्करसंहिता · अध्याय 28

28.1

मन्त्रव्यूहे तु विविधे ब्रह्मन् भोगापवर्गदे ।
इति श्रीपाञ्चरात्रे श्रीपौष्करसंहितायां श्राद्धाख्यानो नाम सप्तविंशो ऽध्यायः ॥
अथ अष्टाविंशो ऽध्यायः
-(अत्र ग्रन्थपात श्व )-
श्री भगवानुवाच ---
न वेदपाठसक्तानां न मोक्षक्रतुयाजिनाम् ।
न तपो ऽभिरतानां च दानधर्मैकसेविनाम्

28.3

अग्निहोत्रपराणां च सर्वेषां चैव पौष्कर ।
महत चाग्निहोत्रेण त्वेवमुक्ता गरीयसी ।
तथा कथं न संसारदुःखशान्तिर्भवेन्नृणाम्

28.4

-(अत्र भूयान् ग्रन्थपातः )
श्री भगवानुवाच ---
स्वर्गमार्गप्रदं चैव तथात्कृष्टफलप्रदम् ।
केवलं चाग्निहोत्रं तु विप्राणां वेदवादिनाम्

28.5

ये पुनस्तु ततो ब्रह्मन् स्थिता तद्धर्मधर्मिणि ।
त[पार्]चने समाधौ तु जपकर्मणि चस्तु तौ ?

28.6

तेषामुन्नतचित्तानां भगवत्कर्मवेदिनाम् ।
सन्तप[द्]भवनं (?भविनां )सच्छास्त्रपरिशोधिनाम्

28.7

गुग्गुल्वाद्यादिकैर्द्रव्यैः संपूर्णाहुतिभिः सह ।
कृतं रहस्यमन्त्रैस्तु भवादुत्तारकं भवेत्

28.8

धिष्ण्या वैकङ्कती ....... वैस्तु साधनैः ।
धनेन धर्मलब्धेन भक्त्या च श्रद्धयापि च

28.9

यथावदाहृते वह्नौ नानायोन्युद्भवे तु वै ।
पुरा ते विधिना सम्यक्कुण्डं सं[?स्थाप्य चैव तु]

28.10

अवतार्य च तन्मध्ये नानायोन्युत्थितं तु तत् ।
-(अत्र ग्रन्थपातः )-
पौष्कर उवाच ---
योनयो भगवंश्चाग्नेः ज्ञान[?तुमिच्छामि सांप्रतम् ] ।
-------यथा ----------त्वत्प्रसादाधितकाम्यया

28.11

श्रीभगवानुवाच ---
यौ (?यो )निरग्नेर्द्विधा सौरिप्रभवा रत्नलक्षणा ।
तत्करादर्शसंयोगाद् द्वितीया कमलोद्भव

28.12

विविधारणियोनिस्तत्तै....... नैकलक्षणा

28.13

या मन्थनक्रमेणैव जगत्यस्मिन् व्यवस्थिता ।
[विविधारणियोगाद्]वै परस्परनिधर्षणात्

28.14

कदाचित्[स्थात्तदुद्भूतिः]कैचकी यत्जवर्जिता

28.15

त्रिप्रकारां तु पाषाणी तत्रैषा केवलाब्जज ।
या समग्रेशुभे गे वै (?ग्रावे )परस्परनिघर्षणात्

28.16

[दीप्तानामन]लानां तु प्रज्वालयति पर्वतान् ।
सलोहघातकी चैव तर्जन्या भ्रंशलक्षणा

28.17

तृतीयावर्तयोः सम्यक् तामनं च परस्परम् ।
लोहपाषाणयोनीनां[तामनं स्यात् त]थैव च

28.18

अष्टम .......पि संक्षिप्तमेकमन्थानलक्षणम्

28.19

सन्ताडनं च ............................ न्न परं हि तम् ।
यद्रत्नत ....... कुत्रापि कमलोद्भव

28.24

(...)
प्रकृष्टमपि बोद्धव्यं काल...................... ।
ज्वालाग्रात्तु कचालाच्च तद्भूतिमस्त ....... ।
आसां पञ्चविधं स्थानं .......न्तं ब्राह्मणाकिम् ।
सदेव नानादेवैस्तु व्यक्तियुक्ता महामते ।
शक्तिर्गणश रैः पूर्णा सामान्यव्याप[काभवेतु]

28.25

शक्तिभावेन वै तस्मादहर्तव्यं च पावकम् ।
यथा गृही तथा[नृभ्यां]विरोधे नोपपद्यते

28.26

तस्मात्सर्वपदार्थानामादेशा (?शात् )शक्तिरब्जज ।
श (?विशे )षणं तु वै वह्नेर्वह्निकार्ये ह्युपस्थिते

28.27

चतुष्प्रकाराग्षैव गीयते सप्तधा पुनः ।
कथा कमलसंभूत तवेदानीं निगद्यते

28.28

याक्षी च पार्थिवी सौरी शैखी भ्राष्ट्री तथैव च ।
कापाली कमलोद्भूत स्वतन्त्राग्नि (ग्ने )श्च तं (?तां )विना

28.29

स्थितिरासां द्विधा विप्र पुनरेव निगद्यते ।
निर्बीजाख्या सबीजा च निर्बीजा तावदुच्यते

28.30

भवनी द्विप्रकारा च तत्स्थानाख्यच वै (कै )चकी ।
सलो[हा]चैव पात्राणि (?)केवलाश्ममयी तथा

28.31

निर्बीजेयं समाख्याता सबीजा च निगद्यते ।
शैखी भ्राष्ट्री च कापाली स्वतन्त्रानललक्षणा

28.32

होत्रा संयोजनी चैव यदुक्तं ते मयाब्जज ।
अविशेषा सुसामान्या सर्वेषां चैव सर्वदा

28.33

यद्यप्यब्जसमुद्भेत तथावग[मितं]श्रुणु ।
[विशेषयो]नीनामाश्रमाणां स्थितं क्रमात्

28.34

विहिता ब्रह्मचारीणां लोहपाषाणलक्षणा ।
आधानाख्या गृहस्थानां कैचकी वनवासिनाम्

28.35

सावित्री च यतीनां वै त्वाराधन[रतात्मनाम्] ।
[युक्त]षट्कर्मसक्तानां बाकीमन्यानलक्षणा (?न्यानललक्षणा )

28.36

विहिता नयने वह्नेररणीनां परस्य च ।
नृपस्य तदनुज्ञाता सामान्यान्नाभसी द्विधा

28.37

तद् द्वयं तदनुज्ञानं (?तं )त्रितय ------- ।
सीमन्त वैश्यजातेर् वै त्रयमेतच्च रा

28.38

शूद्रस्य क्रमसिद्ध्यर्थं विशेषात्तदनुज्ञया ।
द्विजेन्द्रस्य द्विजे ------- --------------

28.39

------- ---------------दशास्तु वै ।
द्वितीया चैव शूद्रस्य स -------दन्यस्य पौष्कर

28.40

आपत्काले तु नान्यस्य यच्छेच्छूद्रस्य वान्य ------- ।
--------------------------------------------

28.41

--- (अत्र कोशचतुष्टये ऽपि ग्रन्थपातः)---
------- ------- -------चो विरोधकृत् ।
-------तथान -------मेतन्मुख्यमतः परम्

28.42

तम्मुख्य ----------व्युत्क्रमं चाल्पसिद्धिदम् ।
फलभेदेन सर्वेषां विहिता योनयो ऽ खिलाः

28.43

एकादशाब्जसंभूत यथा तदवधारय ।
रत्नजा भूमिकामानां कांसी तेजो ऽर्त्भिनां तु वै

28.44

गोप --------------------यच्छत्यरणिलक्षणा ।
विजेया कैचकी योनिः सुखसौभाग्यपुष्टिदा

28.45

बुद्धिवीर्यप्रदा भूमिः -------ख्या शत्रुनाशिनी ।
किर्तिता लोहपाषाणशोभिनी योनिरब्जज

28.46

धर्मा -------शैखी भ्राष्ट्री भूमिप्रदा तु वै ।
संवेदयोनिः कापाली स्थानवृद्धिकराब्जज

28.47

रोगोपशान्तिकामानां योनिर्भूतकरी शुभा ।
चतुर्णामाश्रमाणां च मनुकल्पे[पु रोदिता]

28.48

अण्डभा ?न्नविरोधो ऽस्ति त्वन्योन्यहरणे सति ।
सर्वेषां योनयः सर्वा इच्छाकाले ह्युपस्थितौ (ते )

28.49

मन्त्राराधनसक्तानामविरुद्धाः सदैव हि ।
याव -------वाधिकं काले माभूतं यत्पुरा द्विज

28.50

प्रमादानुपशान्तश्चे द्योनिरन्याहरेत् पुनः ।
न बलादुपरोधाच्च संग्रहस्थस्य नार्चनात्

28.51

संगृहीतस्य वै भुयः प्रायश्चित्तं समाचरेत् ।
सविशेषं प्रकाशे तु ह्यप्रकाशौ तु चान्यथा

मूल पाठ: Pauṣkarasaṃhitā 27-43 · Edition: Prabhakar Pandurang Apte: Pauṣkarasaṃhitā : dvitīyo bhāgaḥ, Tirupati 2006 (Rashtriya Sanskrit Vidyapeetha Series, 120) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc