भाषा

ENहिગુ
ग्रंथ पाठ

पौष्करसंहिता · अध्याय 27

27.1

अथ सप्तविंशो ऽध्यायः
श्रीभगवानुवाच ---
एवं कृत्वा यथाशास्त्रं दिव्यमब्जज वै पुरा ।
पित्र्यं तदनु वै कुर्यात् विधिदृष्टेन कर्मणा

27.2

पौष्करौवाच---
ज्ञातुम् इच्छामि भगवान् त्वच्छासनस्थितैः ।
समुद्दिश्य पितृश्राद्धं कार्यम् आचार्यपूर्वकैः

27.3

केषां केषां च तत् कार्यं कस्य कस्य च कीदृशम् ।
विदधाति पञ्च पञ्चैव (?कथंचैव)सम्यङ्निर्वर्तितं हि यत्

27.4

श्री भगवानुवाच ---
कर्तव्यत्वेन वै कुर्यात् कर्मसन्यासिनां सदा ।
निर्वाणदीक्षितानां च भक्तानाम् अपि चाब्जज

27.5

अनिर्दिष्टक्रमाणां च चतुर्थाश्रमिणां तु वै ।
भगवद् पदलिप्सूनां ज्ञानिनां च तथैव हि

27.6

प्रीतये मन्यसिद्धानां साधकानां तु पौष्कर ।
शुभजन्माप्तये शश्वन्मन्यसामुख्यसिद्धये

27.7

कार्यं तत्पुत्रकाणां तु कृपया देशिकादिकैः ।
कुर्याद् वै समयज्ञानां नित्यं सद्धर्मवृद्धये

27.8

भूयः सुजन्मलाभाय सद्विधाधिगमाय च ।
बान्धवानामातो ऽन्येषां भक्तानाम् एवम् एव हि

27.9

सद्यो दुष्कृतशान्त्यर्थं कृपया नित्यम् आचरेत् ।
कर्ताना (?वा)कर्मसंन्यासी परिवृद्धो व्रताश्रयी

27.10

न निवाणपदंनीतो दीक्षायां भोगलालस ।
तीव्रभावं विना यस्तु न सिद्धो मन्यसेवनात्

27.11

निः सन्तानो ऽपि वै मन्त्री न याति सिद्धिगोचरम् ।
नूनम् एतत् द्विजश्रेष्ठ सन्मार्गस्यैः क्रियापरैः

27.12

सत्कर्तव्यप्रकारेण त्वनुग्राहयाः सदैव हि ।
समासाद्यात्र संयाति यथा दिव्यं परं पदम्

27.13

आतस्तुः (?अतस्तु) दीक्षितानां च सर्वेषां सा मयाजिनाम् ।
अवक्तव्यं च वक्तव्यं एतत् निर्वर्तनाय च

27.14

श्राद्धकाले तु वै मुक्तवा तैर् अप्यन्यत्र पद्मज ।
मन्त्रमुद्राक्रिया ध्यानमज्ञानादिक्रियां विना

27.15

नाभ्यस्तव्या न योक्तव्या भक्तैः सामयिकादिभिः ।
समाश्रित्य निमित्तं वै देशकालादिक्तं द्विज

27.16

क्रियते यत् पितॄणां च भवत्यनृणवान् नरः ।
प्रयाति तृप्तिम् अतुलां तेन कर्मवशाद् अपि

27.17

आगते गतिम् आयान्ति श्राद्धाद् आह्लादसंयुताम् ।
सकृद्वैकं तु बहुधा कालमादेहलक्षणम्

27.18

युक्तं तिथिगणेन एव वात्सरीयेण पौष्कार ।
क्षेत्राप्तिपूर्वेणान्नेन सन्निमित्तगणेन तु

27.19

संसारदुःखशान्त्यर्थं दुष्कृतक्षपणाय च ।
....

27.20

व्यक्ते च इन्द्रियचक्रस्य दुःखजं दुष्कृतं हि यत् ।
सवे (?यद् ) द्यनन्तकल्पं च कर्मात्मा ये?(?सं ) यतो ऽब्जजी

27.21

अतो भूतमयं देहं समन्तरम् अस्य वै ।
दुःखोपलम्भनं कल्पं यस्मात् कमलसंभव

27.22

दुःखेन शाम्यते दुःख सन्यस्कन्धगते (?दुःखमन्यस्कन्धगतं ) यथा ।
स्कन्धाद्गुरुतरं भारं नृणां दुष्कृतकारिणाम्

27.23

निद्रक्रान्तस्वपिण्डात् वै यथा निर्गत्य पौष्कर ।
वासनादेहम् आश्रित्य नानाचेष्टां करोति च

27.24

भूतपिण्डं विना तासां न शान्तिम् अनुविन्दति ।
एवम् अन्नाश्रितं पूर्वं प्राणम् इन्द्रियसंग्रहम्

27.25

व्यक्तिकृतं न वै देव (?हं )देहभावेन देहिनाम् ।
तावत् कर्मक्षयं तेषां कथमेति महामते

27.26

अन्तस्तद् उपचारार्थं ज्ञानपूर्वेण कर्मणा ।
संपाद्य यद्वशात् शीघ्रम् अनन्तं सुखमेधते

27.27

सामान्यं वैष्णवानां च गुर्वादीनां विशेषतः ।
साधारः संप्रधानाख्यः सांप्रतं विधिः उच्यते

27.28

निमन्त्रितं वा संप्राप्तं नित्यम् अङ्गीकृतं त्वथ ।
द्विजेन्द्रं पञ्जकालज्ञं षट्कर्मनिरतं तु वा

27.29

स्नानादिना पुरा कृत्वा प्रयतः संविशेत् पुनः ।
स्वयम् अर्ध्याम्बुना विप्र पवित्रीकृत्य पाणिना

27.30

सन्ताय कुसुमास्त्रेण मन्त्रारश्चाधिष्ठितेन च ।
समुद्धरन् नेत्रमन्त्रं मन्त्रार्थाधिष्ठितेन च

27.31

समुच्चरन् नेत्रमन्त्रम् अवलोक्य अथ कद्विति (?वास्त्विति ) ।
निवेश्य भगवत्यग्रे (?तो ऽग्रे ) प्रणवाधिष्ठितासने

27.32

पूजिते वितते पूते संमुखं वोत्तराननम् ।
उदक्दिग्क्षमाणं च विनिवेश्य तथा च तत्

27.33

यथा मन्त्रेशदिग्रश्मिप्रसरेण अभिविध्यते ।
मन्त्रेण आराध्य तं ध्यात्वा ब्रूयात् संयता (?त ) वाग्भव

27.34

समाधाय जगन्नाथ्र हृत्पद्मगगनेर्ऽकवत् ।
सप्तात्रस्याथ पात्राणां पात्राभ्यां वाब्जसंभव

27.35

एवं कृत्वा प्रतिष्ठानं प्राग् यत्नेनात्र कर्मणि ।
समुद्दिश्य पितॄन् दद्यात् दानम (?मा )न्तरवेदिकम्

27.36

निवेशितं द्विजेन्द्रं यद् वृत्तिस्थम् अपि मन्त्रराट् ।
अन्तर्वेदी तु सा ज्ञेया त्वाभ्याम् अभ्यन्तरं हि तत्

27.37

संप्रदानं पितॄणां यत् कुर्यात् सत्पात्रपिण्डकम् ।
तद् दिव्यम् अमलं यस्मात् चैतन्यम् अवलंब्यते

27.38

तत्कालं संविभज्याश्च (?थ ) तिष्ठन्ति कमलोद्भव ।
प्रदातृसङ्कल्पवशात् दत्तं पुष्करसंभव

27.39

एकस्य वा बहूनां वा प्रदद्याद् आसनोपरि ।
पुनरेवासनं दाभमिग्रन्थि बहुभिः कुशैः

27.40

विभोः यज्ञाङ्गदेहस्य लोमानि तु कुशाः स्मृताः ।
ता एव नायः सर्वा तस्य भूतशरीरगाः

27.41

रश्मयो भूतदेहे तु चिन्मूर्तेः शक्तयो ऽखिलाः ।
अत एव हि विप्रेन्द्र पितॄणां तु कुशासनम्

27.42

श्राद्धकाले तु विहितम् आहूतानां तदूर्ध्वतः ।
यत् किंचिद् दीयते भक्तया ब्रह्मभूतं तु तद्भवेत्

27.43

पुरा वै हेतुनानेन नृणाम् अविदितात्मनाम् ।
कर्मव्यत्र कुशाजालं विहितं कमलोद्भव

27.44

येषां सर्वगतं ब्रह्मन् मन्त्ररूपीश्वरो ऽच्युतः ।
भावस्थतत्वतस्ताभिस्तेषां वै न प्रयोजनम्

27.45

अथाश्चपरिजप्तेन भूतिनावात्मशङ्कुना ।
मसृणेनाश्मचूर्णेन परिघासु यथाथवा

27.46

बहिस्तदासने कार्या त्वग्रे दैर्घ्याच्छमाधिका ।
वैपुल्याच्छममानं तु प्राग्वत् पावनतां नयेत्

27.47

न्यसेत् तत्राप्यभग्नाग्रान् उदङ्मूलान् कुशान् द्विज ।
यस्माद् दिव्यम् उदग्भागं पित्र्यं दक्षिणसंज्ञकम्

27.48

स्वकेनामृतवीर्येण नित्यं संवर्धयन्ति च ।
दर्भमार्गच्छतेनैव पितॄणां ते ऽमरान् द्विज

27.49

वसत्यन्तः पितृगणो भागमाश्रित्य दक्षिणम् ।
चित्कलांशस्वरूपेण नृणामेवं हि चोत्तरे

27.50

कृतास्पदामला नित्या त्वमृताख्याक्षया कला ।
अत एवं हि यत्किञ्चिद् आब्रह्मविदितैः द्विज

27.51

प्रदीयते पितॄणां च तत् सत्येन तु पाणिना ।
ये ऽधिकृत्य जगद्योनिं मन्त्रात्मानमजं हरिम्

27.52

प्रयच्छन्ति पितॄणां च तोयतर्पणपूर्वकम् ।
तेषां तदाश्रयत्वा यदुक्तं नानकारणम्

27.53

कर्तव्यस्य च पारम्यं प्रकृतस्य महामते ।
स्फुरत्यन्तर्गतं येषां मन्त्राराधनपूर्वकम्

27.54

तत् स्वोत्तरवशाद्येषां मन्त्रसांमुख्यदिग्वशात् ।
चेतसा निर्विकल्पेन कृतं भवति चाक्षयम्

27.55

किन्तु पुष्करसम्भूत दुर्लभा भुवि चेतनाः ।
इति चेतसि वै येषां निश्चयीकृत्य वर्तते

27.56

सत्यतामुपनीये (?ते )त्वेवन्यस्ये कुशाचये ।
तिलांस्तथाश्चजप्ताश्च तदूर्ध्वे विकिरेत् पुनः

27.57

कुरुविन्दस्तु दर्भाग्रैर्यस्मादेतद् द्वयं द्विज ।
सर्वस्य भोगजालस्य जनकं भुवनत्रये

27.58

विशेषात् पितृदेवस्य श्रद्धापूतस्य वस्तुनः ।
अग्नीषोमस्वरूपेण शान्त्यात्मा भगवान स्वयम्

27.59

व्यक्तः कर्मात्मक ( त ) त्वानां मूर्तित्वेनात्मसिद्धये ।
स पित्र्यस्य च दिव्यस्य व्यापारस्यातिवद्धये

27.60

तत्तेजस्तिलभावेन ह्लादो वर्तत्यपात्मना ।
अत एवाप्रबुद्धानां प्रबुद्धानामपि द्विज

27.61

तिलोदकेन भावं तु गच्छतः श्राद्धकर्मणि ।
श्राद्धस्य च परा रक्षा ते द्वे नित्यममार्न्त्रणाम्

27.62

तत्स्वरूपविदां चै व विशेषो मन्त्रवेदिनाम् ।
न्यस्त्र स्त्राण्यभिजप्रानि तत्र पात्राणि विन्यसेत्

27.63

तत्राद्यं चकवृत्तानि हेमाद्युत्थानि ( ?न्य ) संभवे ।
पालाशकदलीपत्रतमालच्छदनान्यथ

27.64

पुरान्य स्त्राम्बुशद्धानि शुभपर्णमयानि च ।
पादयोरपि पाद्यार्थं कं क्षिपेद् दक्षिणादितः

27.65

आमूर्धम् अर्चयेत् पश्चाद् अर्ध्यपुष्पानुलेपनैः ।
वस्त्रस्त्रग्धूपदीपैः तु दध्यन्नं फलवादिणा

27.66

सताम्बूलेन वित्तेन यथाशक्ति महामते ।
समुद्दिश्य पितॄन् सर्वान् सनाभीयान् यथाक्रमम्

27.67

शब्दभावस्वरूपास्तु ज्ञवृत्तिस्थानविग्रहान् ।
बहुत्वे सति विप्राणां पितृणामेवमाचरेत्

27.68

यत्र द्विजद्वयं विप्र पित्रर्थं विनिवेशितम् ।
एकास्मिन् स्वपितृणां तु तदा कार्यश्च सन्निधिः

27.69

द्वितीये जननीयानां तथऽन्येषां तु संस्थितिम् ।
सर्वेषामेकप्राप्तं तु तृप्रये यदि योजितम्

27.70

ओमाद्यमस्मच्छब्दं तु पितृभ्यस्तदनन्तरम् ।
इदम् अर्ध्यम् इदं पाद्यं तदन्ते संस्मरेत् स्वधाम्

27.71

सर्वास्मिन् उपचारान्ते वं वा संस्मरन् नरम् ।
नमः स्वधाथवा ब्रूयान्नमोन्तां त्वथवा स्वथवा स्वधाम्

27.72

एवमेव हि यः कुर्यात् कर्तव्यत्वेन पौष्कर ।
तुल्यानां च स्वकुल्यानां नमस्तत्र च केवलम्

27.73

सत्युक्ते व्यत्यये नित्यं विहितं च स्वधा द्विज ।
स्वयमेव हि सन्यासी ददाति च फलार्थिनाम्

27.74

कार्यस्तेन नमस्कारः स्वधान्ते नित्यमेव हि ।
ददाति फलकामस्तु यो नित्यफलमार्थिनाम्

27.75

स्वधाकारावसाने तु हितं तस्य सदा नमः ।
एवम् इच्छवशेनै व संविभज्य पितॄन् द्विज

27.76

पृष्ट्वा पात्रमुखेनैव सतृप्तिं च पुनः पुनः ।
ततो ऽम्भश्चुलकं पाणौ ह्रन्मन्त्रेणामृतोपमम्

27.77

दद्यात् पूर्णेन्दुतुल्यं तद्ध्यातव्यं तत्कलाः पढन् ।
सानुस्वारम् अकाराद्यैर्भिन्नं षोडशभिः स्वरैः

27.78

त्वङ्कारननिनिष्टं च तत्र प्राकस्थः सतारकम् ।
इत्युक्तं सकलस्येन्दोर वाचकं मन्त्रमब्जज

27.79

पाणिप्रक्षकनात् पूर्वं पातव्यं तेन पूर्ववत् ।
येनामृतपुरान्तस्थम् अन्नवीर्यम् अनश्वरम्

27.80

भवत्याप्यायकृद् ब्रह्मन् पितृदेवगणस्य च ।
माषचूणादिना पाणिं प्रक्षाल्यामणिबन्धनात्

27.81

समाचम्योपसंहृत्य ऊच्छिष्टं तु यथाविधि ।
पवित्रीकृत्य वसुधां पाणौ कृत्वा तिलोदकम्

27.82

प्रीणनं भगवत्यग्रे समुत्थायाचरेत् ततः ।
तवास्तु भगवन् पूर्वः प्रीतः पितृगणस्तथा

27.83

शारीरो देवताव्यूह अ ( आ )पदा ( द्यो )द्या व्यवस्थितः ।
एवं सुवितते कुर्यात् कर्मत्वाराधनालये

27.84

सङ्कटे पुनरअन्यत्र यायादभ्यर्च्य मन्त्रराट् ।
स्थानं संस्कारसंशुध्दं कृत्वा प्राक्तानादिना

27.85

व्याप्तिशक्तयारितं भूतस्तोयाधारगतं स्मरेत् ।
मन्यमर्चनपूर्वं तु तदग्र सर्वमाचरेत्

27.86

पात्राघ्राणपरेणैव तत्पात्रस्थेन भावयेत् ।
माधुयुक्तेन हविषा दर्भकाण्डैस्तिलैः सह

27.87

निर्देषं वह्निना कृत्वा हृदा दर्भाग्रकेण तु ।
ध्यात्वा धाम द्रुमाकारं ज्ञस्वभावं महत् प्रभम्

27.88

द्रव्यदोषगण कृत्स्नं निर्दहन्तं समन्ततः ।
देवतानां पितॄणां यत् तृप्तये ऽन्नं महामते

27.89

तत् साधनं च विहितं संस्कृतेन पुरान्निना ।
द्वाभ्यां देशिकपूर्वाभ्यामे तद् विषयम् अब्जज

27.90

प्रदापनमतो ऽन्येषां तत्कालं तस्य वै हितम् ।
सदैव विधिनानेन तदर्थं शुभसिद्धये

27.91

एकस्या श्रयबीजस्य नानाकर्मवशात् तु वै ।
नानात्वं भावयेद् बुद्धया पितृकर्मव्यतः पुरा

27.92

तेनैव तर्पणीयं तत् स्वयंभूता तदात्मना ।
मत्प्रवाहवदन्तस्थो भावयेद् अन्नपात्रगौ

27.93

अर्हणाग्रहगर्भौ तु द्वौ दर्भौ तालसम्मितौ ।
ह्रन्मन्त्रमन्त्रितौ कृत्वा ताभ्यां सह समुद्धरेत्

27.94

रसरूपस्वभावं तत् स्थ ( स्थू )लत्वेनान्नतां गतम् ।
चतुरङ्गुलमात्रं तु ग्रासं ग्रासं महामते

27.95

अग्नीषोमाश्रयस्थस्य पूर्वं पितृगणस्य च ।
पितॄणां बीजभूतस्य ज्ञस्वभावस्य तत्त्वतः

27.96

दघात् पिण्डद्वयं चै व त्वग्नीषोमसमुद्भवम् ।
नाडीस्वरूपौ तौ दर्भौ पिण्डेन सह तत्र वै

27.97

लयं नीत्वा द्वितीयेन व्यवहारधियां ( ?या )ततः ।
पितॄणां कल्पयेत् तेन पिण्डान्यन्ये ( ? त्ने )न सांप्रतम्

27.98

क्रमेण प्रागदृष्टानां ह्रदा संज्ञापदेन तु ।
एवं दृष्टस्वरूपं च ज्ञात्वा तेषां स्थितिं स्फुरम्

27.99

प्राग्वत् स्वधावसानाघैर्मन्त्रैर् ओंकारपूर्वकैः ।
ह्रन्मन्त्रालङ्कृनैर्विप्र तदा संज्ञापदान्वितैः

27.100

पिण्डं प्रकल्पयामीति ततः पूर्ववदाचरेत् ।
अञ्जनाभ्यञ्जनाद्यैस्तु ह्युपचारैः प्रपूजनम्

27.101

क्रमेण तर्पणं कुर्यात् सतिलैश्चा म्भसा ततः ।
शिरसा वनते (? तौ )कृत्वा जानुपादौ क्षितौ गतौ

27.102

पाणियुग्मे लालारस्थे एकचिन्तः पढेद् इमम् ।
ओं नमो वः पितरो नमो वाः (? वै )पुरुषोत्तम

27.103

नमो विष्णुपदस्थेभ्यः स्वधा वः पितरो नमः ।
हरये पितृनाथाय ह्यग्नीषोमात्मने नमः

27.104

सत्सोमपात्मने विष्णो नमो बर्हिषदात्मने ।
आसंसाराभिजनका अग्निष्वात्ता अथाच्युत

27.105

पितामहाः सोमपास्त्वं त्वमन्ये प्रतितामहाः ।
तुभ्यं नमो भगवते पितृमूर्ते ऽन्युताय च

27.106

नारायणाय हंसाय विष्णो त्रिपुरुषात्मने ।
मुत्तवा त्वामेव भगवन् न नमामि अर्चयामि च

27.107

न तर्पयामि सर्वेश नान्यम् आवाहयाम्यहम् ।
स्तुत्वा एवं हि पितृव्यूहं भक्तया परमया पुनः

27.108

संभवे सति सन्धानं पिण्डमूर्तेः समाचरेत् ।
तदग्रतोपविष्टस्य क्रमात् पितृगणस्य च

27.109

अनुसन्धाय वै द्वाभ्याम् एकस्मिन् वा द्विजोत्तम ।
ऊष्माग्रावस्थितं ध्यात्वा पित्रयं पितृगणं क्रमात्

27.110

प्रणवेन स्वरूपं तु समुत्थाय ततः स्वयम् ।
मध्यतिर्यक्स्थितौ स्थित्वा ह्यदूरं ना न्यदृक्स्थिनैः

27.111

उत्तराभिमुखैश्च एव दक्षिणस्याथवा द्विज ।
तदुत्तराननवशाद् ह्रन्मन्त्रं ह्रदयान् न्यसेत्

27.112

नमो ऽन्तं प्रणवाद्यं तु मरुदम्बरविग्रहम् ।
पिण्डाग्रे ह्युपविष्टस्य प्राणशक्ति ( ? क्तेर )द्विजस्य वा

27.113

बहूनां वा प्रयत्नेन स्वातन्त्रान् निर्गतो बहिः ।
ध्यात्वा तया सह क्षिप्रमेकीभूतत्वमागतम्

27.114

आत्मशक्तौ लयं नीत्वा यदि ह्यूष्माख्यलक्षणा ।
कृत्वैवं प्राणसङ्घं च पितॄणां विप्रविग्रहे

27.115

प्राग्वदासनसंरुद्ध भोजयेत् पूर्ववत् ततः ।
ओं नमत्वमृतायान्नमिदं विष्णुपुरःसराः

27.116

देवा नद्यस्तथा गावः सूर्यः सोमो वनस्पतिः ।
ओं माधवो ऽथ भगवान् मन्त्रमूर्तिमयो महान्

27.117

मधुभावेन वो ऽन्यस्मिन् स्थित्वा तृप्तिं करोतु वै ।
अनुज्झितासनं कुर्यात् पितॄणां प्रीणनाय च

27.118

तस्मिन्नेवास्मि ( ?न् )भूभागे वस्त्वा तत्पिण्डविक्षितौ ( ? वीक्षिते ) ।
स्थितिः सर्वं पितॄणां च सांप्रतं कमलासन

27.119

यावत् प्राणविमुक्तानां पिण्डानां नोपसंहृतिः ।
सोच्छिष्टानां कृता सम्यक् तदन्ते संव्रजन्ति ते

27.120

स्वस्थानामाशिषं दत्वा श्राद्धकर्तुर्धिया द्विज ।
सामृतं सोदकं स्थाने सतिलं मन्त्रतेजसा

27.121

विविक्तं विवृतं मार्गं पुनरागमनाय च ।
नारायणाख्यसन्मन्त्रकर्म ब्रह्मजवीकृते

27.122

स्वे स्वोन्द्रियरथे कृत्वा तृप्ता याताच्युतास्पदम् ।
प्राजापत्यमिदं प्रोक्तं संप्रदायसमन्वितम्

27.123

संप्रदानं पितॄणां च पूर्वोक्तफलवर्धनम् ।
समाचरेत् सदा व्यूह्य मन्त्राणां मन्त्रकर्मणा

27.124

नित्यं बहुत्वे द्वित्वे वा प्रयोगं कमलोद्भव ।
यद्येतदप्यनङ्गं च तदा वै प्रतिकर्मणि

27.125

ह्रदाद्यङ्गाङ्गतो योज्यमङ्गि पूर्ववदब्जज ।
आराध्यानाममुनेत्राणाम् ओंङ्कारः तत्क्रियान्तरे

27.126

अस्मिन्नर्थे विकारस्तु य उक्तो मन्त्रपूर्वकः ।
समयः पुत्रकादीनामन्येषां भावितात्मनाम्

27.127

गुरोश्च साधकेन्द्रस्य मन्त्रो मम महामते ।
प्रदाने स विरुद्धश्च त्वतो ऽन्यस्त्वविरुद्धकृत्

27.128

समयी पुत्रकादीनां वैष्णवानामपि द्विज ।
चतुर्णां मौग्दलान्तानां तथैवाश्रमिणा तु वै

27.129

दीक्षया संस्कृतानां च दीक्षितानां महामुने ।
सामान्यस्त्वथ सर्वत्र साङ्गः सिद्धः सुपूजितः

27.130

तेषां यश्चोपदेष्टव्यो मन्त्रव्यूहो हि तं शृणु ।
सद्वादशाक्षरो मन्त्रः कवचं ब्रह्मणे नमः

27.131

एवं विश्वात्मने नेत्रमस्त्रं च परमात्मने ।
एते सप्रणवाः सर्वे शूद्राणां योग्यतावशात्

27.132

सम्यग्वा दीक्षितानां च तेषां वै प्रणवोज्झिताः ।
विहिताच ( ? श्च )यथा स्त्रीणां सदाचारवशात् तु वै

27.133

असम्यक् प्रतिपन्नानां शूद्राणां तु महामते ।
न खण्डयेत् तु मन्त्राणां नमस्कारो भवेत् पुनः

27.134

सजातेर्द्वादशार्णस्य तद्वदष्टाक्षरस्य च ।
षडक्षरस्य वै पूर्वं प्रयोज्यं पूरणार्थतः

27.135

यदा त्वभिहितो ऽष्टार्णे त्वष्टार्णेन अवतारितः ।
मुख्यता द्वादशार्णस्य मन्त्रस्य विहिता तदा

27.136

षडक्षरस्य मुख्यत्वं भवेदुभाववशाद् अपि ।
योज्यस्वष्टाक्षरो मन्त्रो नित्यमेव शिखावधौ

27.137

प्रणवस्य च मुख्यत्वं द्विषडष्टषडक्षराः ।
मन्त्रा हृदयपूर्वास्तु परिज्ञेयास्ततः क्रमात्

27.138

मन्त्राणां वर्मपूर्वाणां वाच्यत्वं यदि कल्प्यते ।
तदात्मता च विहिता तत्स्थाने प्रणवस्य च

27.139

देवो जितंतामन्त्रेण चित्तस्थः सन्निधीकृतः ।
योक्तव्यं तत्र च अङ्गानां मन्त्रषट्कं यथा स्थितम्

27.140

द्वादशाक्षरपूर्वं तु तृतीयं यत् प्रकीर्तितम् ।
तृतीयं ब्रह्मपूर्वं तु धर्मादीनां हि वाचकम्

27.141

प्रणवः सर्वमन्त्राणामितश्च आसनकर्मणि ।
द्वादशाक्षरपूर्वाणां मन्त्रसामान्यकर्मणाम्

27.142

दर्भातिलोदकादीनां द्रव्याणां प्रतिकर्मणि ।
जायते च विसृष्टानाम्वुपशान्तिश्च तैजसी

27.143

अत एवोपयुक्तानां भोगानां कमलोद्भव ।
विरुद्धसंग्रहो भूयस्त्वन्यास्मिन् हि क्रियान्तरे

27.144

गौणी व्यक्तिः यतस्तेषामामूलाच्चिदाधिष्ठिता ।
वर्तते परमाश्रित्य तत् कर्तुः फलसिद्धये

27.145

चित्सामान्यविनिर्मुक्ता ह्ययोम्यास्ते शरीरवत् ।
मन्त्राणां स्थायिनो भागा यान्ति वै योग्यतां पुनः

27.146

कदाचिन्मन्त्रसामर्थ्यात् ज्ञानभावनया द्विज ।
(इति नित्यश्राद्धविधिः )
- अथ नैमित्तिकश्राद्धविधिः -
नैमित्तकमतः श्राद्धविधानमवधारय ।
गतिप्रदं पितॄणां यत् कर्मणां सिद्धिभूरिदम्

27.147

सद्यः सत्पात्रसंप्राप्तिं विना नैव समाचरेत् ।
एवमाद्यैर्विनिर्मुक्तं श्राद्धमब्जसमुद्भव

27.158

तिष्ठत्यनुग्रहार्थं च यदि संप्रार्थितं हि यत् ।
तदा नियममातिष्ठे[दग्नि]काष्ठाद् अनादिकम्

27.149

मानमात्सर्यकार्पव्यक्रोधलोभादयो ऽखिलाः ।
दोषा दूरतरे त्याज्या ह्यानिष्पत्तिदिनावधि

27.150

शुद्धिपूर्वेण विधिना सुप्रयत्नेन चेतसा ।
प्रदत्तं फलमूलाद्यं भवेत् तदमृताधिकम्

27.151

देशपात्रवशेनैव संपत्तो सति पद्मज ।
एकाहात् सप्तरात्रं तु श्रद्धया तत् समाचरेत्

27.152

समाश्रित्य शुभं कालमेकाहं कमलोद्भव ।
निर्वर्त्य परया प्रीत्या नैति कालं यथान्यथा

27.153

त्रयमाश्रित्य ते श्राद्धं सानुकम्पेन चेतसा ।
सत्वस्थेन कृतं शक्त्या शुद्धेन द्रविणेन च

27.154

नयत्यवश्यमचिरात् सत्यलोकं तदर्थितम् ।
देशकालकृतं त्वेतत् तपोलोकं ददाति च

27.155

देशपात्राश्रितु श्राद्धं जन ( नो )लोकं ददाति च ।
फलं महर्लोकगति कालपात्रवशात् कृतम्

27.156

केवलं देशमासाद्य दत्तं स्वर्गं प्रयच्छति ।
कृतं यत् कालमश्रित्य भुवर्लोकं (? का )द्विजयाते?

27.157

सौम्यपात्राश्रितं श्राद्धं तद्भूलोकगतिप्रदम् ।
सामान्यस्य च देशादेस्त्रितयस्य फलं त्विदम्

27.158

तत्र पुष्कर पुष्टिं हि प्रसिद्धं देहमब्जज ।
कालं ग्राह्योपरागाद्यं पात्रं तन्मयमब्जज

27.159

तथा नियमवान् सम्यक् श्राद्धहेतोर्न चान्यथा ।
यदुक्तं त्रितयं श्राद्धे सविशेषं हि तत् पुनः

27.160

भवत्युतारकं नॄणां सविज्ञानेन जन्मना ।
प्रसिद्धया वैष्णवं देशं पात्रस्त्रद्भ्गवन्मया (? यः )

27.161

द्वादश्याख्यो बृहत्कालः सङ्कान्त्याद्यैः परिष्कृतः ।
त्रयमेतन्महाबुद्धे सविशेषतरं यदि

27.162

भवत्युत्तारकं नूनं देहान्तरनिवासिनाम् ।
स्वयंव्यक्तेन विभुना त्वेकमूर्त्यादिनाब्जज

27.163

अधिष्ठितं हि सर्गादावेकदेशात् सहाम्बुना ।
तद्विशेषान्तरं देशं सिद्धिकृत् सर्वकर्मणाम्

27.164

तस्मिन् द्विजोचिते काले द्वादश्याख्ये भवेद्यदि ।
समुहूर्तं सनक्षत्रं वैष्णवं तेन तद्भवेत्

27.165

प्रोत्तारकं पितॄणां च सव्यबाहुसमन्वितम् ।
सम्यक्सिद्धित्रयोपेतं पञ्चकालपरायणम्

27.166

लब्धलक्षं परे तत्त्वे पात्रमेकायनं द्विज ( ? जं ) ।
संयमाद्यैरुपेतं च तन्महार्थायनात्तु वै

27.167

पितृणां सुगतिप्राप्तिः शश्वदेव हि जायते ।
वेतं ( ?गं ) च तं महावेगात्[तुल्यवेगं हि]जायते

27.168

देशे शुभे शुभं जन्म ज्ञानसत्कर्मणा सह ।
फलं शुभतरान् भिन्नान् पितॄणां त्रितयात् क्रमात्

27.169

ज्ञात्वैवं श्राद्धदाने तु देशकालादयो गुणाः ।
चित्तशुद्धिसमेताश्च समासन्नाः प्रसन्नतः

27.170

एतदस्त्रादिना सर्वमुपकारं हि कर्मणाम् ।
केवलं भक्तिपूतानां लोकधर्मरतात्मनाम्

27.171

ज्ञानकर्मरतानां च द्विजानामधिकारिणाम् ।
पञ्चकालरतानां च स्वकर्मव्यब्जसंभव

27.172

यान्ति ?व्याघारमन्त्रेण परिक्राम्येन वै ततः ? ।
प्रबन्धब्रह्मवर्णत्वं ?तेषां तद्भगवान् हरिः

27.173

षाड्गुण्यविग्रहो देवः प्रभवाप्ययकृत् स्वयम् ।
गुणमुक्तसमूहेन स्वरूपादच्युतेन च

27.174

कालादीनां समुत्थानं षाड्गुव्याद् अत एव हि ।
न विन्दन्ति परत्वेन ते चान्यस्याच्युतं विना

27.175

कालादेः सूक्ष्मभूतस्य त्वाश्रयस्यामलस्य च ।
अतो ऽनयद्भगवद्भक्तास्तन्मन्त्रज्ञानतत्पराः

27.176

तेषां कमलसंभूत कालाद्यमखिलं हि यत् ।
सर्वम् अन्तःस्थितं भाति तत्प्रभाववशात् स्फुटम्

27.177

बहिरन्तरवश्चापि यस्मादेतदधीश्व[रात्] ।
विश्वस्य चापि देहत्वं पुरा ते संप्रकाशितम्

27.178

अध्वोपदेशद्वारेण विस्तरेण त[द्]एव हि ।
देहज्ञं सत्क्रियानिष्ठं ज्ञानिनं वैष्णवं स्थिरम्

27.179

इच्छन्त्युतारकं शुद्धं पितरः स्वकुले पुमान् ।
देशकालादयस्त्वेवमश्रित्य प्रयतः स्वयम्

27.180

निस्तुषैरुज्ज्वलैः शुद्धैः सक्षीरैद् अब्जसंभव ।
सव्द्यञ्जनसमोपेतं संसाद्य श्रद्धया पुरा

27.181

हृदा वा द्वादशार्णेन भाण्डेष्वभिनवेषु वै ।
विनिर्गतेषु वा पाकाद् भूयः स्नेहोक्षितेष्वथ

27.182

एवं वा साधनीयं च पुत्रशिष्यात्मना द्विज ।
भगिन्या धर्मसा ?पन्त्या ( ?पत्न्या वा ) सुहृत्सम्बन्धवर्त्मना

27.183

शुक्लांबरधरेणैव दक्षेण शुचिनाऽत्मना ।
शारीरव्याधिहीनेन क्षुत्तृष्णाविगतेन च

27.184

कासश्वास ....... स्वभावाथ दृक्श्रुतिहीनखर्वटैः ।
एवं विमुक्तादोषेण भावभक्तिपरेण च

27.185

संसाधनीयं श्राद्धार्थं स्वजातीयेन वै चरुः ।
अनुलोमेन विहितं वर्णानां चरुसाधनम्

27.186

दिव्ये पित्रये ऽब्जसंभूत प्रतिलोमश्च दोषकृत् ।
तदलाभात् क्रयक्रीतमदुष्टं कारुका ( ?कं )शुचिम् ( ?चि )

27.187

पूर्वोक्तादोशनिर्मुक्तं तेनापि कमलोद्भव ।
अपिक्षयविधूना वा ( ?नानां ) लौस्यैकनिरतात्मनाम्

27.188

रजस्वलानां षण्डानां ऋत्वादीनां विशेषतः ।
श्वानसूकरमार्जारमर्कटानां तथैव हि

27.189

विड्वराहशिवागृध्रपूर्वाणां तु स्वचारिणाम् ।
तस्मात् सर्वप्रयत्नेन निवातस्थगिताम्बरे

27.190

निःशस्ये कुट्टिमे भूयः सुलिप्ते धवलीकृते ।
स्थाने मन्त्रार्चनं देवपितृदेवस्य साधनम्

27.191

विहितं चैव सर्वेषां संभवे सति सर्वदा ।
अन्नव्यञ्जनभाण्डानां सर्वेषां क्रमशो द्विज

27.192

अन्तश्चारम्भकालो तु मध्वाज्यैः सकुशास्तिलाः ।
क्षेप्तव्या द्वादशार्णेन भूयः सिद्धेन संग्रहे

27.193

अष्टार्णेनाथ वस्त्रेण स्थगयेत् तान् प्रयत्नतः ।
यथा न बहिरन्योत्थं बाष्पं निर्याति पद्मज

27.194

ऊर्ध्वपुण्ड्रे कृते लिप्ते क्षालिते स्थ ( ?स्था )लिकाचये ।
वर्मणा वाससा च्छन्ने मर्यादाभ्यन्तरीकृते

27.195

रक्षपालं च तत्पङ्क्तौ दत्वा स्नानाद्यमाचरेत् ।
अग्नेर्विप्रमवासानां ?पूजास्थानस्य पौष्कर

27.196

भाण्डानां भागपूर्वाणां सत्सहायगणस्य च ।
विनियोगं पुरा कृत्वा पूर्णान्तं नित्यमाचरेत्

27.197

अपा..................... नात् प्रतिशाटकम् ।
तस्याधः शाटिकायां तु विधूयात् तनुवेष्टनम्

27.198

अधूतं विमलं स्वच्छं.......[विसूत्रं]वल्कलीदिकम् ।
नीलाञ्चितं च चत्किंचिद्विद्यते चाम्बरादिकम्

27.199

सर्वत्र विषयां चैव?त्वपास्य भुवनाद्बहिः ।
ततो धियाभिसन्धाय मन्त्रमूर्तिगतं परम्

27.200

यजाम्यनुग्रहार्थं च पितॄणां पुनरेव हि ।
निवेश्य प्राग्वदाहूय ह्यासनेषु क्रमाद् द्विजान्

27.201

तेभ्यः प्रागाननौ पूर्वं निवेश्यौ द्वौ द्विजोत्तमौ ।
द्वादशारो धरो धाम त्रितयाधिष्ठितासने

27.202

अथोक्तान् सर्वसामान्यान् षडङ्गा द्विजवास्वराः ? ।
अस्त्रमन्त्रशिखायुक्तः क्रमाद्बि ....... षडन्वितम्

27.203

नियोज्य प्राङ्मुखस्थाभ्यां देहतादात्म्यताप्तये ।
स्ववाचकेन सद्धाम्नो ह्येकमूर्त्यादिकात्मना

27.204

न्यस्तव्यं देवताव्यूहं फड्वौषट्कारसंयुतम् ।
नृसिंहाख्यं सवाराहं मन्त्रमूर्तिद्वयं हि यत्

27.205

अग्नीषोमाख्यदैवत्यं रक्षार्थं सर्वदैव हि ।
अवीक्षयन्नुदग्भाग अतो ऽन्ये विनिवेश्य च

27.206

तत्रादौ हृदयदीनामधःपङ्क्तौ निवेश्य च ।
दृशा सद्वर्णजानां तु सङ्घानामेवमेव हि

27.207

तस्य दक्षिणतश्चोर्ध्वे जननीयकुलस्य च ।
कवचेनापरं योज्यमेकान्तं भगवन्मयम्

27.208

पितृनाम्ना[द्वितीयं]च .......तस्य दक्षिणतस्ततः ।
तृतीयमाप्तिकारी ? च चतुर्थं हृदयेन तु

27.209

पितामहाभिधानेन मूर्तिमन्त्रेण पञ्चमम् ।
प्रतितामहनाम्ना वै योज्यमेकायनं द्विज

27.210

जनके जीवभावेन तदतीतत्रयं क्रमात् ।
निवेशनीयं तैर्मन्त्रैर्वर्तते च द्वयं क्रमात्

27.211

प्रतितामहपूर्वं तु समतीतत्रयं न्यसेत् ।
सामान्येन षडङ्गेन त्वेवमुक्तं स्वकेन वा

27.212

मन्त्रेण श्राद्धदाने तु विनियोगं द्विजार्चने ।
चतुर्मूर्ताधिकारेण द्विधावस्थमथोच्यते

27.213

सभोगमपवर्गं च मन्त्रैकस्मादवाप्यते ।
कैवल्यं केवलं चैव द्वितीयादमलेक्षण

27.214

ससुहृन्मन्त्रवर्गस्य न्यसेदव्यक्तमन्त्रराट् ।
त्रयाणां वासुदेवान्तं प्रद्युम्नाद्यमतः क्रमात्

27.215

न तद्वै सविशेषं च पुनरेव[च]मे शृणु ।
सुहृत्प्रपूर्वमिश्राणामनिरुद्धं हि वाचकम्

27.216

प्रद्युम्नमन्त्रवर्गस्य कामाद् द्वाभ्यां द्वयं ततः ।
प्रणवेन परं ब्रह्मस्वरूपं प्रतितामहम्

27.217

मह (ता तन्मु ) दाप्तमुखेनैव तर्पणं यन्महामते ।
नवमूर्त्यधिकारेण त्रिप्रकारमथोच्यते

27.218

समित्राणां च वात्सल्याद् द्विजानां विष्णुना न्यसेत् ।
ततो वैराजमन्त्रेण मातृवर्गस्य पौष्कर

27.219

त्रिभिर्नारायणद्यैस्तु पित्रादीनां त्रयं क्रमात् ।
विद्धि विद्धा (? द्या )ख्यमेतद्धि श्राद्धज्ञानं फलप्रदम्

27.220

पितॄणा यजमानस्य देहलाभे ( ? भान् ) विनैव हि ।
वैराजमन्त्रादारभ्य साङ्कर्षणान्तमब्जज

27.221

समन्त्रपञ्चकं विद्धि --------------------- ।
प्रतितामहनिष्ठानां यतच्छ्राद्धं हि पौष्कर

27.222

प्रयच्छत्यात्मलाभं तु श्राद्धकर्तुः पितृष्वपि ।
आधाराणां -------मन्त्राद्वै --------------

27.223

नियोजनं द्विजेन्द्राणां पञ्चानां श्राद्धकर्मणि ।
मित्रवर्गात् समारभ्य परमेतद्धि वश्वरम्

27.224

सामग्रीभिः समोपेतं कर्तुः पितृगणस्य च ।
परं यच्छति निर्वाणं सकृत्स्नं च किं पुनः

27.225

कालमाजीवितं विप्र श्रद्धापूतेन चेतसा ।
कृपया च समानानां संभवे सति पौष्कर

27.226

काम्ये ऽस्मिञ्श्राद्धदाने तु पङ्क्तया नान्यत्र योजयेत् ।
समूहमेकं पूर्वं तु विप्राणामुत्तराननम्

27.227

हृन्मन्त्रेणाब्जसंभूत सर्वेषां विन्यसेत् ततः ।
प्रणवेन स्वनाम्ना च ज्ञात -------हृदादिषु

27.228

अस्त्रभूषणहेतीश पूर्वमन्त्रान् सगोचरे ।
एवं वा प्राङ्मुखं शक्तया चक्रमन्त्रेण योजयेत्

27.229

विप्रमेकमुदग्वक्रं ( ?क्त्रं ) मुख्यमन्त्रेण योजयेत् ।
द्वयं चोदङ्मुखं तत्र ह्रन्मन्त्रेणानुसन्ध्य च

27.230

सुहृम्नित्रं द्विवेतं (?जेतं ) तु ?मातृवंशमथाब्जज ।
पितृवंशं हि निःशेषं स्मरेदपरदेहगम्

27.231

मण्डले त्वम्बुपात्रस्थ चक्रं वा नृहरिं यजेत् ।
[विप्रमेकमुदग्वक्त्रं मुख्यमन्त्रेण विन्यसेत्

27.232

तृप्तये पितृवर्गस्य यथा मातृकुलस्य च ।
सर्वं जनमातो ऽन्येषां प्रीतये च स्वशक्तितः

27.233

गवा ग्रासं समुद्धृत्य दद्याद् घृतमधुप्लुतम् ।
दर्भैस्तिलोदकैर्मिश्रं न क्षारं लवणोत्कटम्

27.234

आत्मवंशाधिकारेण कर्यादेवमतो ऽन्यथा ।
पौरोहित्येन कृपया प्रीत्या वान्यस्य कस्य चित

27.235

निर्वर्तने तदीयं हि तत्पूर्वं विहितं कुलम् ।
आपादाज्जानुपर्यन्तमाजानोर्मध्यमस्त ( ?बास्ति )कम्

27.236

आवस्तिमूर्ध्नो हृदयमाहृदो मसतकावधि ।
अनिरुद्धादयो मन्त्राश्चत्वारो विनिवेश्य च

27.237

सुगतिप्राप्तये विप्र पितॄणां नित्यमेव हि ।
तृप्तये वासुदेवाद्यादामूर्ध्नस्त्वङ् घ्रिगाचरम्

27.238

चत्वारश्चानिरुद्धान्तो योक्तव्या वा महामते ।
प्रणवेन हृदि ब्रह्मन् शान्तं संविन्मयं तु वा

27.239

समीशनलतोयक्ष्माभूतानां व्य ( ?व्या ) पकं क्रमात् ।
न्यस्तव्यं वासुदेवाद्यमध्यक्षान्तं चतुष्टयम्

27.240

अपेक्षयानिरुद्धाद्यं पृथिव्यादिचतुर्ष्वथ ।
रक्षार्थं नृहरिं न्यस्त्वा नवमूर्तेः परं द्विज

27.241

मूर्धास्यकण्ठहृन्नाभिगुह्यजानुद्वेय त्वथ ।
पादयोः क्ष्माधरान्तं तु न्यस्तव्यं त्वष्टकं क्रमात्

27.242

हृदम्बरे तु भगवान् वासुदेवो ऽप्यधोक्षजः ।
क्ष्मान्तानां बुद्धिपूर्वाणां क्रमात् सङ्कर्षणादिकम्

27.243

या ( ?यो )क्तव्यमथवा विप्र पृथिव्यादिक्रमेण तु ।
सप्तकं भूधराख्यं तु सङ्कर्षणान्तमेव हि

27.244

अथ चिद्धृत्वधिष्ठाने वासुदेवं तु भावयेत् ।
रसलोहितमांसानां मेदोमज्जास्थिषु द्विज

27.245

क्रमेण शुक्लधात्वन्तं न्यसेत् सङ्कर्षणादिकम् ।
सप्तकं च वराहान्तमाशुक्लाद् द्वारसिद्धये

27.246

वराहमन्त्रादारम्य सङ्कर्षणान्तमब्जज ।
एवं दुष्टनिरासार्थं पूर्ववत् पात्रकं न्यसेत्

27.247

व्यापकत्वेन भगवान् बहिरभ्यन्तरे स्ववत् ।
जीववत् साङ्कर्षणं च बीजं हृत्कमलोदरे

27.248

सृष्टिसंहारयोगेन सप्तकं धातुसप्तके ।
पौष्कर उवाच---
सामान्येन स्वमन्त्रेण सति सन्निहितेन वै ।
कारयो?र्विग्रहे वृत्तौ ज्वालन्ताभ्यन्तरे (यथा)तु वा

27.249

न्यासार्चनादिमुक्तानां मन्त्राणां युज्यते कथम् ।
विनियोगं चतुर्णां वा नवानां मन्त्रकर्मणि

27.250

श्रीभगवानुवाच---
सषडङ्गो हि सामान्यः सर्वेषां विहितः सदा ।
साधकस्य हि मन्त्रो हि विषमः स्याद्विरोधकृत्

27.251

अनुज्ञातः ससर्वस्य चातुरात्म्यादिकं हि यत् ।
गुरोरिच्छा स्वकीयात्र स्वमन्त्रादौ महामते

27.252

तत्रापि हि विशेषाय श्राद्धे द्वाभ्यां स उच्यते ।
मन्त्रग्रामे तु विन्यस्ते विप्राणामिच्छया पुरा

27.253

स्वमन्त्रमुपसंहृत्य स्वधाम्ना च धिया सता ।
ब्रह्मभावनया व्याप्त एवं कृत्वाऽश्रयादिकम्

27.254

यद्विप्रविग्रहे व्यस्तं मन्त्रव्यूहं तदात्मनि ।
अथानियोजनीयं च क्षन्तु ?तत्पाणिपूर्वकम्

27.255

तत्रायं ( ? त्रेदं ) विहितं विप्र विशेषं तन्निबोधतु ।
व्यापकत्वेन भगवान् प्राक् सव्येतरयोस्ततः

27.256

दक्षिणे करशाखासु द्वितीयं पञ्चसुन्यसेत् ।
तदन्द्वा ( ?द्वा ) मे तृतीयं हि त्वङ्गुष्ठादिक्रमेण तु

27.257

तलद्वये दक्षिणादावनिरुद्धमतो न्यसेत् ।
एकं वा वासुदेवान्तं न्यसेदिच्छावशेन तु

27.258

यदा नवात्मा करयोस्तदङ्गुष्ठद्वये ऽच्युतः ।
अष्ठकं च वराहन्तं प्राग्वदातर्जनेः क्रमात्

27.259

वामतर्जन ( ?नि )निष्ठं तु वासुदेवान्तमेव वा ।
स्वाहामध्योदितं कृत्वा पूजासारे ? तथा ( चेने )नले

27.260

हुतमप्यनलं भूतं प्राग्वत् पाव ( न )कतां नयेत् ।
एवमिच्छावशेनैव मन्त्राणां परिवर्तनम्

27.261

स्वाराध्या नवनिष्ठानां श्राद्धकाले ऽविरोधकृत् ।
एवं नियोजनं कृत्वा शिरसाभ्यर्च्य सांप्रतम्

27.262

सासनं पुष्पपात्रेण समूहं भगवन्मयम् ।
तन्मध्येम्भश्चलं चित्तं पञ्चेन्द्रियसमन्वितम्

27.263

कुर्यात्तांम( ?तन्म )न्त्रपीठस्थं मध्ये पारे ऽथवा हृदि ।
कालमाचमनान्तर्ं ( थं )तु मदनुग्रहकाम्यया

27.264

सन्निधाने द्विजानां च विभोः सज्वलनस्य च ।
भाव्यं सुयन्त्रितेनैव सर्वज्ञेनापि जन्तुना

27.265

एवं भूतैः द्विजेन्द्रैस्तु ( स्तैः ) बुद्धया तु सुविशद्धया ।
श्रद्धेयमखिलं तस्य सानुकम्पेन चेतसा

27.266

यस्मादब्जसमुद्भूत मानं यदुभयात्मकम् ।
नासकृत् सर्वभावानां विशेषाच्छ्राद्धकर्मणि

27.267

समये[तस्य]योज्यं तत् पूरण ( ?णं ) सर्वकर्मणाम् ।
पावनं तृप्तिजननं किं पुनः पितृकर्मणि

27.268

आदाय मनसा मान्त्रीमाज्ञां वै शिरसा सह ।
हार्दमापाद्य वै श्राद्धं द्रव्योत्थं यद्वशाद् द्विज

27.269

सफलं स्यात् पितॄणां तु ज्ञानमूलं हि तत्त्वतः ।
अन्यथा हेतुना केन पितॄणां तद्गतिपदम्

27.270

मूलं विना क्ष्मां नाभ्येति पादपानां यथा तथा ।
ज्ञानमाह्लादपूर्वेण फलत्याशु च वर्त्मना

27.271

कारणं सर्वेन्द्रियाग्रामं बहिर्वृत्तिगतं हि यत् ।
स्वयमात्मनि संलीनं कृत्वा हृत्कमलाम्बरे

27.272

स्वभावशक्त्या संपूर्य समास्ते सांप्रतं तु तत् ।
स्वरूपाद् वन्दनं कुर्याद्विभोः सर्वेश्वरस्य च

27.273

शान्तसंवित्स्वरूपस्य स्पन्दानन्दमयात्मनः ।
तावच्युतं हि चित् स्पन्दं स्वयं परिणतं स्मरेत्

27.274

सहस्त्रशशिसूर्याग्निप्रभया प्रोज्वलं स्थिरम् ।
मरीचिचक्रसंपूर्णचिद्गर्भं सर्वतोमुखम्

27.275

चिदम्बरान्तरावस्थं सुशान्तं भगवत्पदम् ।
तच्छक्ति ( तच्चित्र ) ज्ञाननाडेर्वै विलक्षणतरं हि यत्

27.276

स्मरेन्मरीचिकोणस्थं स्वभावाह्लादपिण्डकम् ।
स्वकं पितृसमूहं तु स्फुरन्तं कर्मशान्तये

27.277

महतः पावकाद्यद्वच्छक्तिर्दहनलक्षणा ।
अङ्गारकणमाश्रित्य बाह्यमायाति पौष्कर

27.278

तद्वदेव हि निर्यातः किन्तु सङ्क्स्पनिश्चयात् ।
अग्नीषोमौ समाश्रित्य पितरश्चेश्वरेच्छया

27.279

प्रकाशमन्त्रराड्बाह्यं मायाकाशव[शाद्]द्विज ।
क्रमेण यत् ततः स्वेषां सुखदुःखतरं तु वा

27.280

मूलान्तःकरणेनैव सेन्द्रियेण समाब्जज ।
मायाकाशवृतेनैव हृन्मन्त्रं भ्रामयेक्त्ततः

27.281

तद्दुः (खमु ) खादुपशान्त्यर्थं रश्मिरन्ध्रेण केनचित् ।
ज्ञानतस्त्वरविन्दाक्ष तदाकाशावधेः पुनः

27.282

तत्कालं तत्कुलोद्भेतमनुभाववशाद् द्विज ।
अग्नीषोमाश्रयस्थं च चित्पिण्डं तत्तु वै क्रमात्

27.283

अन्तःकरणबीजं तु महामोहबलोज्झितम् ।
ज्ञानान्तमंबरान्तस्थं सुसूक्ष्मं सततोदितम्

27.284

क्ष्मान्तं नारायणाद्यैस्तु ह्यध्यक्षान्तैरधिष्ठितम् ।
प्राणब्रह्मावसानैर्वा वासुदेवादिकैः क्रमात्

27.285

बुद्धया व्याप्तैर्यथावस्थैः प्रभवस्थितिलक्षणैः ।
मन्त्राङ्गैर्ज्ञस्वरूपैर्वा पञ्चभिर्लोचनोज्झितैः

27.286

यद्वशात् प्रतिपत्तिर्वै कर्तुर्भवति सुस्फुटा ।
सन्निवेशवशेनातो हार्दे ऽस्मिन् पितृतर्पणे

27.287

स्वानुष्ठानवशेनापि मन्त्राणाम्मुदयान् स्मरन् ।
अमूर्तमथवा मूर्तमधिदैवव्यवस्थया

27.288

चिद्बीजनिचयाधार ( ?रं ) ब्द्यात्मकं यत् पुरोदितम् ।
-------ताभिः संपूर्णमन्तःकरणशक्तिभिः

27.289

अभिन्नलक्षणेनैव प्रणवेन महामते ।
ध्यायोच्चित्कर्णिकामध्ये भूमौ बीजत्वमागतम्

27.290

सतुर्यमपृथग्भूतैः सत्वाद्यैरनुपप्लुतम् ।
तस्माद्विनिर्गतं ध्यायेत् त्रितयेनाभिरञ्जितम्

27.291

प्रतितामहसंज्ञं तु चैतन्यत्वेन पौष्कर ।
सुषुप्तिरूप (संज्ञ ) ताप्राप्तमीषत्कालुष्यमागतम्

27.292

विश्रान्तं कर्णिकाकाशदेशे चिद्भास्करोदरे ।
तदुद्देशं ततस्तमाच्चैतन्यान्निर्गतं स्मरेत्

27.293

स्वेनान्तःकरणेनैव रञ्जितं स्वं पितामहम् ।
एकारेण स्वनाम्ना च स्वप्नेनाविष्वकृतस्य च

27.294

संस्थितिं संस्मरेत्तस्य द्वयात्मना माश्रितस्य च ।
चिदंशस्य वै कण्ठदेशे नाभ्यन्तराम्बरे

27.295

मनोबुद्धिरहङ्काररञ्जितं संस्मरेत्ततः ।
जाग्रेणाकूलितेनैव पिता चैतन्यमब्जज

27.296

ब्रह्मनायन्तराकाशे ब्रह्मरन्ध्रपथावनौ ।
व्द्यात्मके जीवकोशे तु कारणे तुर्यलक्षणे

27.297

दैवत्यं वासुदेवं च साकारं वार्ऽकबिम्बवत् ।
तदात्मना च बोद्धव्यौ विबुधौ विश्वसंज्ञकौ

27.298

तन्मूलं हि यतः सर्वं कर्मिणां पितृसंग्रहः ।
प्रतितामहसंज्ञं वै त्वधिष्ठायाथवा भवेत्

27.299

मध्याह्नभास्कराकारं मूर्तं वा ज्ञानमूर्तिभृत् ।
पैतामहीयमेवं हि चैतन्यं कमलोद्भव

27.300

प्रद्युम्नाधिष्ठितं ध्यायेत् स्वस्थानेन पुरोदितम् ।
पिता ( ?त्रा ) धिदेवतारूपमनिरुद्धमतः स्मरेत्

27.301

मूर्ध्नश्छिद्रप्रवेशे तु अमूर्तं मूर्तमेव वा ।
आराध्य मन्त्रेणाढ्यं वा स्थानं कुर्यादधिधिष्ठितम्

27.302

हृन्मन्त्रेणापरं विप्र शिरसा तत् परं तु तत् ।
शिखाधिदैवतं ध्यायेच्चतुर्थं सर्वदैव हि

27.303

शक्तिमन्त्रेण तनुतीं हृन्मन्त्रानुगतां स्मरेत् ।
शिरसा सह चास्त्राख्यं शिखया सह लोचनम्

27.304

नवमूर्तेश्चतुष्कं तु चिद्रूपं केवलं हृदि ।
सत्तामात्रस्वरूपाभिर्विभिन्नं गुणशक्तिभिः

27.305

ओं तत्सदिति चैतद्वत् कर्णिकागहनान्तरे ।
व्यक्तं कण्ठावधोद्देशं कुर्याद्गरुडगादिना

27.306

ब्रह्मरन्ध्रग्रतं ध्यायेत् खवराहनृकेसरि[ ?म्] ।
भिन्नत्वे भेदबुद्धया तु यथैकस्मिन् हि जायते

27.307

स्वभावशीतलं चोष्णं स्वादु भिन्नजलद्वयम् ।
एवं भोगाप्तये कुर्यादेतस्माद्वमत्ययं हि ये ( ?यः )

27.308

ज्ञेयं तन्मोक्षदं विप्र नित्यमेवाफलार्थिनाम् ।
तनुत्रास्त्रदृशो मन्त्राः हृदयान्मसतकावधि

27.309

न्यस्याधिदेवतात्वेन शक्तित्वेन हृदादयः ।
ज्ञानादीनां हि वै यस्माद्भोग्यास्त्रीणि ( ?स्त्रा )बलादयः

27.310

ते च षड् हृदयादीनि निर्णीतानि च वै पुरा ।
एवं कारणमूलं तु देहे पितृगणं क्रमात्

27.311

न्यस्त्वा मनीषितैरन्यैश्चिद्रूपैः पितृभिः सह ।
सन्तर्पणं ततः पार्श्वे विश्वेदेवपुरस्सरम्

27.312

जलक्षणेन सन्तर्प्यौ प्रणवेन तु तौ पुरा ।
परमानन्दगर्भेण सहस्त्रशशिरश्मिना

27.313

हृदिप्राणकलामूले प्रोच्चरत् प्रणवं स्मरेत् ।
दुग्धबुद्बुदसङ्काशममृतं हिमशीतलम्

27.314

तरसारतयं तं च ( ? तारकासारभूतं च )ज्ञाननाडीक्रमं महत् ।
यमाश्रित्य च तिष्ठन्ति विश्वेदेवपुरस्सराः

27.315

पितरो भगवद्रूपाः साकारा वह्निराकृतिः ।
ब्रह्मरन्ध्रावधिं यावद्विसर्पन्तं स्मरेत ( ?च्च ) तत्

27.316

संपूर्णेन्दुत्वमापन्नं भावयेत्तत्र तद् द्विज ।
यत् पित्र्यदैवतं मन्त्रं ब्रह्मरन्ध्रोपरि स्थितम्

27.317

प्राणशक्तिर्ज्वलद्रूपा तदीया तच्छिरोपरि ।
सूर्यमण्डलमध्यस्था युगान्तानलवत् स्मरेत्

27.318

तत्तेजसावलीनं तद्धयायेन्मण्डलमामृतम् ।
जनकीयकरन्ध्रेण प्रतिस्त्रोतीकृतं पुनः

27.319

( अत्र ग्रन्थपात इव )
मूलनिष्ठं क्रमाद्धयायेत् चेतसा निर्मलेन तु ।
एवं गतपिपासार्थः प्राग्वदोङ्कारमुच्चरन्

27.320

तुर्यभूमिं तु पित्रादिलयध्यानधिया नयेत् ।
इति भोगाप्तये कुर्याद् भूयो भूयो द्विजोत्तम

27.321

पितॄणाममृतं श्राद्धं सर्वदुःखक्षयप्रदम् ।
प्रकाशाह्लादपिण्डस्थं कृत्वा पितृगणं तु वै

27.322

अन्तर्मायाम्बराद्यन्तं क्षीणसंस्कारलक्षणम् ।
आमूलादुल्लसन्तं च ऊर्ध्वदेहव्यपेक्षया

27.323

औदयेन क्रमेणैव सूर्यबिम्बमिवाम्बरे ।
तत् पुनर्विलयीकुर्याच्चन्द्रभावनया यथा

27.324

न रोगमायाति पुनः कर्मभमौ सचित्फलः ।
एवं यत् पातयेत् पिण्डं ब्रह्मक्षेत्रसमाश्चिते

27.325

अनन्ते विपुले पूर्णे चिद्रूपे त्वस्फुटं द्विज ।
स्ववंशोत्तारकं विद्धि ज्ञानकर्मपरायणम्

27.326

किन्त्वसौ दुर्लभो यस्य भावनैषां हि तत्त्वतः ।
भगवद्भक्तिपूता ( त्मा ? )तन्मन्त्रैक ( ?मन्त्र ) परायणः

27.327

प्रवर्तेताथ सिद्धयर्थं बाह्यतश्श्राद्धकर्मणि ।
मन्त्रेशवह्निविप्राणां सन्निधाने यथाक्रमम्

27.328

अभ्यर्थासनकर्माख्यं मन्त्रं यदवतारितम् ।
भगवन् पुण्डरीकाक्ष पित्र्यं वर्गं हि मामकम्

27.329

स्वयं श्राद्धात्मना भूत्वा प्रोद्धरस्व भवार्णवात् ।
भुङ्क्ष त्वं शक्तिनिष्ठेन स्वयं ज्ञानादिकेन वै

27.330

करणेन बलाद्यं हि भोगजालं त्रिलक्षणम् ।
एवमभ्यर्थयित्वा च ह्यभिसन्धाय चेतसा

27.331

क्रमात् पितृगणं सर्वमिदमुच्चार्य वै ततः ।
ओं ओं ओं ओं पितॄणां च तृप्तये परमेश्वर

27.332

उत्तारणार्थमपि वै यजाम्योमों नमो नामः ।
सकृच्चतुर्धा नवधा त्विमुच्चार्य चेतसा

27.333

स्मरन् बाह्याम्बरावस्थं विन्यस्तं यत् परात्मनि ।
ततो विभवतः सर्वैरर्ध्यपाद्यपुरस्सरैः

27.334

भोगैस्ताम्बूलपर्यन्तैर्मन्त्रनाथं यजेद् द्विज ।
तत्रेदं सर्वसामान्यं भोगोपादानकर्मणि

27.335

मन्त्रमुच्चारणीयं च श्राद्धदानेषु सर्वदा ।
ओं वौषडमृताभं तु बलवीर्यमयं त्विदम्

27.336

तेजःस्वभावममलं भोगं भुङ्क्ष्वों नमो नमः ।
नैवेद्यं विद्यमानं तु प्रोक्षयित्वा दृशा बृहत्

27.337

एवं यदबृहद्रूपं पाणौ कृत्वा तु पात्रगम् ।
तथा चाविद्यमानं यन्मनसा वाद्य धारणा

27.338

पितॄणां तृप्तये ह्येवमिष्ट्वा मन्त्रेश्वरं ततः ।
ततारा ?दर्भलोपे (भे ) तं प्रदद्याद्देहमोदकम्

27.339

ओं नमो ऽस्मप्तितृगणात् प्रीतो भव जगन्मय ।
तेषामस्त्विदमक्षय्यं यत् कृतं च त्वयाऽत्मसात्

27.340

इति कर्तव्यता सा वै पैत्रं स्थानात्मना नयेत् ।
मन्त्रेशरोमकूपानामाशयं चोदयार्कवत्

27.341

बहिर्हृत्कमलोद्देशे स्मरेत् पितृगणं क्रमात् ।
अथान्तर्माननिष्ठं तु ह्यर्घ्याद्यैः भोगसंचयैः

27.342

द्रवत्पूर्णेन्दुधवलं मरीचिचयसंकुलम् ।
संविशन्तं स्वशक्त्या वै ध्यायेन्मन्त्रात्मनि स्थिते

27.343

तेजोमये पितृव्यूहे पितृसंङ्घं हि तत् पुनः ।
मध्याह्नार्कायुताभं च संस्मरेद्वि (द्वि )स्फुरत्प्रभम्

27.344

तद्वयापारे निवृते ऽथ रोमरन्ध्रे शनैश्शनैः ।
मन्त्रहृत्पुष्कराकाशमाक्रान्तं तैः स्मरेदथा ( ?थ )

27.345

पीठसन्निहितं मन्त्रादादायेन्दुधिया ततः ।
यायादग्निसमीपं तु ध्यायेत्तत्रोदितं प्रभुम्

27.346

सन्तर्प्य विधिना भक्त्या पूर्णान्तं मन्त्रराट् ततः ।
तत्रापाद्य श्चरुः प्राग्वत् तथा पिण्डार्थमोदनम्

27.347

मध्वाज्यतिलदर्भाणां संपुटे रजतान्विते ।
अभिमान्त्रितमाराध्यैस्ततस्तैस्ताडनादिभिः

27.348

नीत्वा निर्देषतां पश्चात् स्थगयेदम्बरादिना ।
अथानुसन्धानपूर्वं साधारं त्वासनं यजेत्

27.349

क्रमात् कुशानामूर्ध्वे तु यथास्थानविभागशः ।
संसिच्य प्रणवेनाथ सतिलेन तु वारिणा

27.350

हेमपूर्वाणि तत्राग्रे पात्राणि क्रमशो न्यसेत् ।
पित्राद्यनुक्रमेणैव त्वादावन्त्ये ( ? न्ते )तदग्रतः

27.351

मन्त्रपूर्वेण नाम्ना तं सनमस्केन निक्षिपेत् ।
तिलास्त्वम्बुकुशाग्राणि त्विदं तेर्ऽघ्यं पठन् क्रमात्

27.352

प्रतितामहपर्यन्तामेवं कृत्वार्ध्यकल्पनाम् ।
कामो ऽन्यस्मिन् श्राद्धदाने ह्येवमन्येष्वपि द्विज

27.353

पूर्ववन्नामगोत्रे तु ह्यर्ध्यमापाद्य पात्रगम् ।
पृथक् पृथग्वा पात्राणामासीनद्विजसङ्खयया

27.354

प्रकल्पितमथ स्वं स्वं नीत्वा सार्ध्यं तु भोजनम् ।
प्रतितामहनिष्ठानां पाणौ दद्यात् कुशान्वितम्

27.355

सावशेषं तथान्येषां हस्तेर्ऽध्यं प्रतिपाद्य च ।
कुर्यात् सार्ध्योदकानां च सुमर्यादासु चान्तरे

27.356

संस्थानं सर्वपात्रस्य दत्ते सार्ध्योदके सति ।
विप्रपाणिघृतेनाथ तेन चार्ध्योदकेन तु

27.357

विसृज्य नयने स्वे वै पात्रे ऽन्यस्मिंस्ततो द्विज ।
क्रमादाहृत्य तत्तोयं प्रयायादग्निसन्निधिम्

27.358

ततस्तदग्रे तत्पात्रं तिलाम्बुपरिपूरितम् ।
कृत्वा तस्मिन् धिया ध्यायेद्विष्टरं परमेश्वरम्

27.359

संविभज्य पितृव्यूहं तत्रोङ्कारेण भावयेत् ।
विमलाम्बरसंस्थ तु यथा नक्षत्रसञ्चयम्

27.360

तथा कमलसंभत तस्मिन् पात्रान्तरे स्थिते ।
अपावन्यच्युताकाशे ह्लादवृत्तौ विभावयेत्

27.361

अन्तः सर्वेश्वरं देवं स्पन्दमानं स्वतेजसा ।
ततोर्ऽध्यैः कुसुमैर्गन्धैः कृत्वा तेषां पुरार्चनम्

27.362

मधुलिप्ते कुशाकाण्डे तत्र द्वे सलिले न्यसेत् ।
स्थगयित्वा परेणैव पात्रेण च कजेन तु

27.363

द्यावापृथिव्यौ ते पात्रे बोद्धव्ये द्विज पूरिते ।
निधाय चार्ययित्वा तु स्वोत्तरोत्तरमूलतः

27.364

तासु सूक्ष्मपितृव्यक्तिं
सामान्यचिस्वरूपं तु तारशब्दैकता गतम्

27.365

स्ववृत्तिमार्गेणायातां रुद्धां कुर्यात् कुशासने ।
नत्रोदितक्रमेणैव प्रभावेन विभावयेत्

27.366

क्वचिच्छब्दैकवृत्तौ तु पूर्वलक्षणलक्षिताम् ।
पङ्क्तीभूतां स्थितिं पैत्रीमनुमूर्ति प्रकाशिताम्

27.367

तिलोदकेन संपूर्य अर्ध्यपात्रात् कराञ्जलिम् ।
धारां सन्तानवद्दद्यात् क्रमात्तद्वै पठन् द्विज

27.368

नाम प्रणवनिष्ठं तु एतत्ते पाद्यमस्त्विति ।
ततो ऽन्यपात्रमुपाद्य प्राग्वदग्नौ समर्पयेत्

27.369

रजातलंकृतेनैव सपवित्रेण पाणिना ।
व्यापकं चित्स्वरूपं तु धातुसप्रकमूर्तिधृत्

27.370

ब्रह्मभावनयान्तं निश्चयीकृत्य चेतसा ।
तीवानामिदमाधारमिदमाप्यायनं परम्

27.371

संभव च लयस्थानं परमान्दलक्षणम् ।
अतस्तमादौ पात्रस्थमर्ध्यपुष्पानुलेपनैः

27.372

प्रणवेनार्चनीयं च तेनैवापाघ वै ततः ।
पठंस्तमेव मनसा वर्तयेद्गोलकाकृतिम्

27.373

सर्वेशक्त्यात्मकं यस्मात् सन्ति
गृह्णन्ति नियता ( ?तां ) मूर्तिं कर्मणां प्रतिपत्तये

27.374

सनाभीयाननुग्रह्यानधिकृत्याखिलान् पितॄन् ।
यथार्ऽध्यपूर्वेर्मन्त्रेशमिष्टं भोगैः सुपुष्कलैः

27.375

तथान्नमूर्तिमापन्नांस्तानपि क्रमशो यजेत् ।
अलकाद्यं हि वै भाण्डं पूरितं गालिताम्भसा

27.376

मधुदर्भतिलोपेतं कृत्वान्नं तत्र वै स्मरेत् ।
मन्त्रेशं चन्द्रबिम्बस्थममूर्तममितद्युतिम्

27.377

बहिः स्वस्मिन्नुल्लसन्तं ध्यायेत्तेनांभसा सह ।
कुम्भादुत्कीर्यमाणेन निर्मलं शीतशीकरम्

27.378

आदायाथ कराभ्यां तु प्राक्तिलं मधुसंप्लुतम् ।
आपूर्यापूर्य चैकस्य श्रद्धया परया द्विज

27.379

तिलान् ---( ?ञ्जलिं )स्तेन भागवनासहितेन च ।
पितॄणां क्रमशो दद्यात् तृप्तयेंभ (?येंजभ )स्तु मन्त्रितान्

27.380

अथ प्राङ्मुखपूर्वाणां द्विजेन्द्राणां समाचरेत् ।
पूर्ववत् सविशेषं हि स्वश्राद्धे श्रद्धयान्वितम्

27.381

सर्वाङ्गिकं क्रमाद्विप्र आपादान्मस्तकावधि ।
अर्ध्याम्बुमिश्रितैः पुष्पैश्चन्दनाद्यैर्विलेपनैः

27.382

ततः स (स्तु )पक्षव्यजनैस्तेषामुद्बोध्य मारुतम् ।
निवेद्य विविधान् पश्चाद्वस्त्रान् धूपाधिवसितान्

27.383

तता ( ?तो )ऽलंकृत्य वै शक्त्या कङ्कणाद्यैर्विभूषितैः ।
उपवीतान् सोत्तरीयान् दद्यात्तेषामनन्तरम्

27.384

शिरोमाल्यानि शुभ्राणि ततः कण्ठस्त्रजानि च ।
दिव्यगन्धं ततः क्षोदं मूर्ध्नि कर्पूरमिश्रितम्

27.385

ततो निवेद्य वै तेषां नयनाञ्जनमुत्तमम् ।
दर्शयेद्दर्पणं पश्चात् पुरतः कुसुमान् क्षिपेत्

27.386

सुगन्धधूपपूतेन ततस्तान् धूपयेत् क्रमात् ।
सुप्रकाशेन दीपेन पूजनीया महामते

27.387

उपानहौ .......तेषां छत्त्राणि विविधानि च ।
पादुकाः पादपीठानि आसनानि च तानि च

27.388

शयनानि विचित्राणि शिबिकाश्वादि चैव हि ।
कल्पनीयानि सर्वेषां कृत्वा तद्रजतदि च

27.389

तन्मूलमथवा शक्त्या सर्वेषां विनिवेद्य ( स )च ।
समवायश्च साधारश्चेतसः परितुष्टये

27.390

पुनरर्ध्योदकं पाणौ दत्वा मन्त्रं समुच्चरन् ।
कुर्यात् संपूजनं तेषां भगवद्यागवत् क्रमात्

27.391

मधुपर्केण चान्नेन श्रद्धया विविधेन च ।
भक्षैः सफलमूलैस्तु पावनैः पानकैस्ततः

27.392

रसालाभिः सुगन्धाभिः शृतेन पयसा सह ।
भक्षितश्चाग्रतः सर्वमल्पकेषु पुटेषु वा

27.393

प्रीतये ऽखिलविप्राणां समं कृत्वा निवेद्य च ।
प्राग्वदर्ध्योदकं पाणौ दद्यात् संप्राशनाय च

27.394

संस्मरन् मनसा मन्त्रं प्रतिपद्य द्विजाम्भसा ।
जपन् ध्यायंस्तथास्त्रं च आस्ते ऽग्रे नान्यमानसः

27.395

कलां वै तुष्टये तेषां सुखबोधमहाफलम् ।
तपा ( ?था ) धिकं ?धर्मशास्त्रं मोक्षशास्त्रमथोत्तमम्

27.396

उद्धोषयन् गुणांस्त ( द्य ) -------यस्योपयुज्यते ।
निवेदनीयं तत्तस्य अथ तृप्ते द्विजे -------

27.397

पूर्ववच्चानुसन्धाने संपन्ने सति सर्वदा ।
कुर्यादुदकदानं तु भूयः सन्तर्पयेद् द्विज

27.398

पिण्डदानावशिष्टेन अन्नेन सह वारिणा ।
मधुपर्कतिलक्षीरैराज्यसव्यञ्जनेन च

27.399

कराञ्जलिं च संपूर्य क्षिपेत् पिण्डं ततो बहिः ।
द्विजानामग्रतश्चापि सह चोदकधारया

27.400

क्षिपेद् उत्तरदिग्भागान् निनयेद् अन्तकास्पदम् ।
पवित्रकं ( ?क )परित्यागं कृत्वाथ प्रतिशाटकम्

27.401

तद्वासः परिवर्त्याथ ऊर्ध्वं वा संस्मरन् हृदि ।
स्वमन्त्रेणाचमेत् पश्चाद् हृन्मन्त्रेणामलात्मना

27.402

संपन्नमस्तु भोः सर्वं चोदयेद् आसनस्थितान् ।
द्विजान् संपतचितांस्तु दद्यात् पूर्णाहुतिं ततः

27.403

अथ पूर्ववद् अब्दानाम् आचर्तव्यं यथाक्रमम् ।
प्राङ्मुखाभ्यां विना सर्वैर् आचर्तव्यम् अतः स्थितैः

27.404

दद्यात् ताभ्यां तदन्ते ऽथ सर्वमुद्धृत्य चोदनम् ।
पात्रे सफलमूलं च मध्वाज्यतिलभावितम्

27.405

द्विज ( ?जा )नां चोदनं कुर्याद् भुक्तशेषस्य सांप्रतम् ।
उच्यतां विनियोगं भोः प्रब्रूयुस्ते ह्यनाकुलाः

27.406

उद्धृतं त्वस्मदीयं वै भाण्डस्थं विभवेच्छया ।
अथ पैतामहीयं यत् पूजितं चान्नगोलकम्

27.407

तस्मिन् किंगेहमानीयं पृथक् कृत्य स्फुलिङ्गवत् ।
स्वदेहाद्द्रेचकेनैव त्वनुसन्धाय वै ततः

27.408

ध्यात्वाअमृतपुटान्तस्थम् अमृतांशुसमं हृदा ।
कृत्वा द्विषट्कजप्तं तु प्रणताया द्विजेच्छया

27.409

प्रतिपाद्य स्वजायायाः शेषं ब्राह्मणकाम्यया ।
विनियुज्योपसंहृत्य गोष्वापस्वा ( ?पः सु )द्विजानले

27.410

अंषट् ( ?उच्छिष्ट )भोजनपात्राणां कृत्वा प्राग्ज्वलनं ततः ।
तत्र वा भगवत्यग्रे सतिलं चोदकाल ( ?त्म )कम्

27.411

सहिरण्यं क्रमाद् दद्यात् पितृभ्यः प्रीणनाय च ।
रक्षयेच्च सृगालेभ्यः सांप्रतं कमलोद्भव

27.412

पितृकर्मणि मा ( ?पा ) त्रे ऽसिमन् सम्यक् स्थान क्रियात्मके ।
क्रियान्नैः प्रापणीपैण्डी निर्वर्त्या भोजनाद् अनु

27.413

नाक्षय्यां वाचयेत् प्रीतिम् उद्दिष्टे ऽप्युदकक्रियाम् ।
न पूर्णाहुतिदानं च न चोदक् परिवर्तनम्

27.414

पैत्र्यं पात्रम् अथोद्धाट्य स्वमन्त्रं हृत्कुशेशयात् ।
विरेच्य देवायान्नेन कल्पान्तार्कानलद्युति

27.415

तत्पात्रं गगनोद्देशे तद् दूरे ( च )द्विषडङ्गुलात् ।
द्वादशान्तं हि तत्पित्र्यं पात्राद् ऐक्यं यथाक्रमम्

27.416

संपश्येतांश्च मन्त्रेशान् ध्यायेद् ध्यानधिया पितॄन् ।
पातं ( ?त्रं ) हि साब ( ?न ) लं तद्वन्निशि दीप्तानलाचलं

27.417

एवम् एकत्वम् आपन्नाः सह मन्त्रेण तेन ते ( ताः ) ।
शशाङ्कशतसङ्काशम् अथ मन्त्रेश्वरं हरिम्

27.418

निरस्तावयवं ध्यात्वा शक्तयस्ततत्र वैष्टराः ।
पितृव्यूहवद् आलीनं कृत्वा तदनु मन्त्रराट्

27.419

आत्मसात् पितृमार्गेण तत्र तेनोदकेन च ।
विसृ ( ?मृ ) ज्य नयने भूयः सपत्नीको दृशाब्जज

27.420

जलायैव च निक्षिप्य प्राग्दत्तं सह वारिणा ।
क्षा ( ? शा ) न्तानलगतं देवं समासाद्यार्चनालयम्

27.421

मन्त्रेशम् अर्चयित्वा च पूर्ववत् प्रीणयेद् द्विज ।
ततस्तदुपहार ( ?रं ) कृत्वा भोजनम् आचरेत्

27.422

बान्धवैः सह मन्त्रेशं ध्यायन् हृत्पुष्करोदरे ।
यतवाग् अमृतप्रख्यैर्ग्रासैः तदनु पौष्कर

27.423

निरुच्छिष्टे तु भूभागे कृते संक्षालने ततः ।
सो ( ?सौ )दनं व्यञ्जनीयं यद्दुःखा-------(?यद् दर्भापूतं च पाणिना )

27.424

तमाहृत्यापरस्मिन् वै पात्रे दर्भतिलान्विते ।
क्षिपेद् दीपद्वितीयं तद्बहिर्वै दक्षिणेन च

27.425

स्मरन्मन्त्रं शुचौ देशे दत्वा दर्भास्तरं ततः ।
नयेद् धर्मकथाभिस्तु योग्य ( ? गाभ्यासेन वानिशाम् )

27.426

इत्येवं विधिनां श्राद्धं पितॄणां विहितं द्विज ।
संसारदुःखशमनम् अचिराद् अपवर्गदम्

27.427

कृतम् एकप्रकारं च श्रद्धया चोभयात्मकम् ।
दत्वा ज्ञानक्रियानत ? ( ?यां )याचोपयुज्यते

27.428

लोकधर्मस्थिता सा संपूरणे याति वासनाम् ।
तस्माच्चित्रप्रसादं वै जायते येन कर्मणा

27.429

आचर्तव्यं प्रयत्नेन मन्त्रजैर्वितताप्तये ।
अथ-------मन[सः]संस्कारं संपन्नानां समाचरेत्

27.430

और्ध्वदेहिकसंज्ञं तु व्यापारं समनन्तरम् ।
पूर्वोक्तफलसिद्धयर्थं तन्मे निगदतः शृणु

27.431

तच्चापि द्विगुणं विद्धि द्विविधं (प्रथमं ) कमलोद्भव ।
सा ( ःसु )दीक्षितानां सर्वेषां मुक्तानाममृतादिकै

27.432

व्यक्तादिवृत्तिस्थानेषु हितं नित्यं तमेव हि ।
प्राग्वद् आराधिते मन्त्रे श्रद्धया संप्रदत्तवत्

27.433

आतृप्तेः भगवत्प्रीतिपर्यन्तम् अमलेक्षण ।
द्वितीयम् अमलाग्रे तु मन्त्रेशे सन्निधीकृते

27.434

ओदनेनात्मकेनैव भोजनं क्रिययोज्झितम् ।
आहृष्टेर् अल्पसत्वानां सर्वेषां सर्वदा हितम्

27.435

ज्वलदव्यक्तबीजान्तं निविष्ठं वर्तते ततः ।
सौम्यवृत्ति ससूक्ष्मंश्च प्राणशक्तिपरंश्च सन्

27.436

तद् दशांशं हि वै कालं बाह्यं च दिनलक्षणम् ।
समाश्रित्य क्रमेणैव कर्ता तदनुकल्पवान्

27.437

तत्प्राणांशानुविद्धा ( ?द्धं च ) ---व्यक्तम् इन्द्रियलक्षणम् ।
आपादयति चाव्यक्ताद् अन्नमूर्तिच्छलेन तु

27.438

श्रोत्रेन्द्रियादिकाश्चैव उपस्थेन्द्रियपश्चिमाः ।
यमाश्रित्य लभेताशु समतीते दशाहिके

27.439

एकादशे ऽह्नि विप्रेन्द्र अस्मिन् शक्तित्वमेव हि ।
त्रयास्त्रिंशाहिकेनैव ब्रह्मन् व्यक्तरेण तु

27.440

विनाडि सत्यपूर्वेण तत्प्राणांशेन वै पुनः ।
द्विषट्कलक्षणेनैव शेषं तत्त्वगणं द्विज

27.441

बुद्धितत्वान्धकारं तु व्यञ्जनीयं यथाक्रमम् ।
प्राक् संवत्सरे बुद्धि द्वितीयेन ततो द्विज

27.442

ततस्त्वाशब्दतन्मात्रात् पञ्चभिः पञ्चकं तु वै ।
तन्मात्राणां व्यञ्जनीयमाकाशाद्यम् अतः परम्

27.443

मासानां पञ्चकेनैव क्ष्मान्तं वै भूतपञ्चकम् ।
ततः सचेले संपन्ने स्था ( ? स्ना )भुक्तोज्झितं तथा

27.444

दन्तकाष्ठे हृदा पीते पञ्चगव्येन ते पुनः ।
मन्त्रे तु विधिवत् स्थाने प्रावृते चाम्बरे तथा

27.445

समाचम्य हृदा न्यस्य मूलं पाणितले ततः ।
आमूर्धयाथ ( ?मूर्ध्नो ऽथ ) तेनैव सकपलीकृत्य विग्रहम्

27.446

संक्षेपेण निरङ्गेण ततो हृन्मन्त्रमन्त्रिताः ।
सगोत्रविहितं विप्र प्रेतानुग्रहकाम्यया

27.447

तोयाञ्जलिंत्रयं दद्यात् तन्नाम्ना सतिलं द्विज ।
दर्भा राजतसम्मिश्रम् अमुना तस्य वै ततः

27.448

शुद्धये शुभशान्त्यर्थं जपेद् अष्टाधिकं शतम् ।
स्वमन्त्राद् अस्त्रमन्त्रं वा सामान्यं द्वादशाक्षरम्

27.449

नवात्मबीजसङ्घातम् एकं वा भावनावशात् ।
प्रवर्तेताथ विधिवत् पूर्वोद्दिष्टे तु कर्मणि

27.450

तीर्थोद्देशे नदीतरे गृहे बाऽयतने शभे ।
अतीव श्रेयसं द्वाभ्यां प्रेतश्राद्धं यते ( ?जे ) त् द्विज

27.451

विघ्नव्यूहतमोरूपं समासाद्या ?स्फुरादिकम् ।
व्यवसायविघातं च न्यूनं कुर्याच्च कर्मणाम्

27.452

तस्मात् संरक्षणीयं च ब्रह्ममन्ब्र ( ?न्त्र ) बलेन तु ।
भास्वरेण तमोरूपम् आमूलाद् वै स्वकं बलम्

27.453

तिलदर्भादिकं सर्वं मन्त्रेणाराध्य वै पुरा ।
एतन्निरस्यान्यः ?का ( ?स्यान्यकार्यं ) प्राङ्मुखश्चोत्थितस्ततः

27.454

सांप्रतं सर्वसामान्यं कुर्यात् स्थानपरिग्रहम् ।
ब्रह्मभावनया मूलमन्त्रं सर्वगतं स्मरेत्

27.455

वसुधागगनाभ्यां तु अष्टदिक्ष्वन्तरे स्मरेत् ।
प्रभाकरवद् आभासा मूर्तिर्द्दृन्मन्त्रमब्जज

27.456

ध्यायेद्गगनमान्त्रातम् अखिलं शिरसा ततः ।
स्तम्भभूतं शिवं मध्ये मध्ये संसारमार्गवत्

27.457

ब्रह्मनाडीस्वरूपं तु ध्यातव्यम् अमलं महत् ।
कल्पनालक्षणे बाह्ये वर्त्म सद्वस्तु विन्यसेत्

27.458

संशान्तकर्मब्रह्मभ्याम् अन्योन्यस्य तु वेदने (नम् ) ।
गवाक्षवत् स्मरेत् तत्र द्वारभूतं तु लोचनम्

27.459

भ्रमद् वह्नि स्फुल्लिङ्गो (र्मि ) सहस्त्रपरिराजितम् ।
राजहंसपदान्तं च ततो ध्यायेत् सुविघ्नहम्

27.460

एवम् आयतनं मन्त्रमूर्तिमन्त्रं मयोदितम् ।
आधारासनपूर्वाणां मन्त्राणां सर्वकर्मणाम्

27.461

हंसोपरमनिष्ठानां सिद्धये भावितात्मनाम् ।
न तत्रान्तं स्थितिं ? ( ?न्त संस्थितं ) कुर्यान्मन्त्रन्यासं यथाविधि

27.462

उपविश्यासने दार्भे प्रणवव्याप्तिभाविते ।
मूलमन्त्रेण निष्पाद्य प्राणायामं त्रिलक्षणम्

27.463

धारणाद्वितयेनाथ देहसंस्कारम् आचरेत् ।
मन्त्रन्यासं ततः कुर्यात् पूर्ववत् करदेहयोः

27.464

अर्घ्यं पाद्यं समासाद्य प्रोक्षयेत् च तदम्भसा ।
सर्वमन्त्रेण सन्ताय दर्भकाण्डगतेन च

27.465

निरीक्ष्य प्रोच्चरेस्तत्र दग्धं तत्तेजसा स्मरेत् ।
मूलेन रविभाकान्तिम् आपन्नम् अथ भावयेत्

27.466

सानलां सेन्धनां चुल्लीं प्रोक्षयेद् अस्त्रवारिणा ।
ज्वालयेन् नेत्रमन्त्रेण ततश्चोद्बोध्य वर्मणा

27.467

प्रक्षाल्यास्त्राम्भसा स्थालीं ताडयेत् तदनन्तरम् ।
कृत्वाम्बुदर्भमूलेन स्थगयेद् अथ वर्मणा

27.468

तण्डुलान् अस्त्रमन्त्रेण क्षालयित्वा पुनः पुनः ।
मध्वाज्यतिलगोक्षीरयुक्तं मूलेन निक्षिपेत्

27.469

दर्व्यारस्त्रमन्त्रन्यस्ताया श्रपयेद् हृदयेन तु ।
सिद्धम् उत्तारयेत् पश्चान्मूलमन्त्रेण मन्त्रवित्

27.470

प्रक्षाल्यालिप्य नेत्रेण शिखामन्त्रेण वै ततः ।
दिक्षूर्ध्वपुण्ड्रीकृत्य प्राक् कवचेनावकुण्ठ्य च

27.471

प्रणवाधिष्ठिते कुर्यात् संस्थितं च कुशास्तरे ।
सूपलिप्ते तु भूभागे तिलाक्षतसमन्विते

27.472

पिधाय च अस्त्रमन्त्रेण त्वेवं निष्पाद्य वै चरुम् ।
तं सुसाधनकाले तु ब्रह्मास्तरणकर्मणाम्

27.473

हृन्मन्त्रं संप्रयोक्तव्यं मन्त्रमार्गे जपन् धिया ।
प्रेतकार्यं ततः कुर्यात् ? ---वा तेन ( ?त्रिधा व्याप्तेन ) लौकिकम्

27.474

तत्र दिव्ये पुरा मन्त्रं पूर्ववत् संप्रपूज्य च ।
विधिवत् प्रेतमुद्दिश्य भोगैः पूर्वोक्तलक्षणैः

27.475

पुरुषाशनमात्रेण पात्रसा ( त् ? ) चक्रजं हि यत् ।
सर्वान्नेन समापूर्य अभ्यक्ताद्येन वै हृदा

27.476

दृशाग्निना तु संस्पृश्य कृत्वा सव्यञ्जनं तु वै ।
विनिवेद्य विभोः प्रोक्तं तदनुग्रहकाम्यया

27.477

स्वशब्दमूर्तिं सुव्यक्तामोङ्कारेणाथवाम्बरात् ।
प्रेतं स्वनाम्ना त्वाहृत्य कृत्वा हृद्वयोम्नि तंतु ?तत्

27.478

ईषन् निर्वाणशेषाग्निकणभूतं विचिन्त्य च ।
किञ्चित्प्राणकलायुक्तं कर्माणिर् ( ?मणा )च वशीकृतम्

27.479

विशेषसत्तामात्रं च शनैश्चानलवर्त्मना ।
बहिर्निवेद्य स्वस्थाने मन्त्रदृक् विषये स्थिते

27.480

भावयेत् प्रणवेनाथ तत्त्वशक्तिगणान्वितम् ।
अन्नवीर्याश्रितं ब्रह्मन् प्राणाख्यम् अविनश्वरम्

27.481

ततस्तदूष्ममार्गेण हृन्मन्त्रेण तु संस्मरन् ।
प्रेतं श्रोत्रेन्द्रियच्छन्नप्राणवत्त्वाद् विनिर्गतम्

27.482

ईषद्भावस्वरूपं तु विद्धि ज्ञानानुरञ्जितम् ।
प्रेतेन सह चैकत्वं समापन्नं च तत्त्वतः

27.483

चिन्तयेत् तेन तं विप्र किंचिद् हृदिगतं क्रमात् ।
एवं श्रोत्रेन्द्रियैर्व्यक्तप्राणैकै ( ?रे ) कत्वमागतैः

27.484

सांप्रतं कमलोद्भूत समूलमखिलं हितम् ।
लीनमन्नोत्थिते प्राणे स्मर्तव्यं वै यथानिलम्

27.485

निघातवदमूर्तं तु प्राणशक्त्या द्विजेरितम् ।
तदिन्द्रियमवध्यायेद् हृदा हृन्मन्त्रतां गतम्

27.486

आसीना ( ?न् )मासने त्वां ते ( ?शान्ते ) पूर्ववद्वयाप्तिभाविते ।
यजेन्मन्त्रेशवत् पश्चात् शश्वदर्घ्यादिभिः शुभैः

27.487

पुष्पानुलेपनैव् धूपैर् मात्रान्तैः कमलोद्भव ।
दद्यात् तिलोदकं पश्चान्नाम्ना गोत्रेण वै हृदा

27.488

अथानलाश्रयान्तस्थं हृन्मूर्तिं तु तम् इन्द्रियम् ।
तर्पयित्वा यथान्यायं पूर्वोक्तेन क्रमेण तु

27.489

समाहूय ततः पात्रं पूर्वोक्तं भगवन्मयम् ।
निवेश्य भगवत्यग्रे त्वासने पूर्ववत् स्मृते

27.490

न्यस्तमन्त्रं हृदा कृत्वा त्वर्घ्याद्यैर् अर्चयेत् ततः ।
यायाद् आराधनोद्देशम् उपविश्य यथासुखम्

27.491

हृदा तम् इन्द्रिये ध्यायेत् स्वशक्त्या मूर्ततां गतम् ।
रसात्मनान्नशक्तौ तु -------विभागेन च स्थितम्

27.492

ध्यातव्यं पूर्ववत् प्रेतं स्मर्तव्यं प्रणवेन तु ।
अन्नाधिष्ठातृभावेन नीत्वा च प्रतिपद्य च

27.493

द्विजेन्द्रस्य च मन्त्रान्तं सह चार्घ्योदकेन तु ।
अथ तत्प्राणशक्तौ तु हृदा वैकात्मतां गतम्

27.494

नैवेद्यं ग ?नरन्तस्तं ?( ?गगनान्तस्तं ) प्रेतं कमलसम्भव ।
ततस्तद् हृदयाकाशं प्राणेन सह वै क्रमात्

27.495

व्यक्तये श्रौत्रवृत्तौ तु प्रयातम् अनुभावयेत् ।
एवं लब्धात्मकं कृत्वा प्रेतं प्राग्विप्रविग्रहे

27.496

दद्यात् तदोदकं पाणौ पूर्ववत् प्राशनाय च ।
संप्रवृत्तस्य वै तस्य भोजने संशयस्य च

27.497

ध्यायन् धियाग्रतस्तिष्ठेद् अन्नवीर्याद्बलेन तु ।
हृदा श्रोत्रेन्द्रियात् तस्य तथार्थत्वम् उपागतम्

27.498

निष्पन्नभोजनस्यैव द्विजेन्द्रस्य द्विजोत्तम ।
स्वदेहात् प्रणवं शब्दंरेच्य दक्षिणवर्त्मना

27.499

विप्र हृत्कमलाकाशे प्रेतम् आकृष्य तेन वै ।
यथामृतेन स्वहृदा श्रोत्रे सत्तासमन्वितम्

27.500

अपनीते त्वथोच्छिष्टे प्रीणनं पूर्ववद् विभोः ।
विहितं विप्रशार्दूल कर्ताथ कृतभोजनः

27.501

अस्त्रं विघ्नादिशान्त्यर्थं जपेद् अष्टाधिकं शतम् ।
साङ्गम् आराधनस्थानं कुर्यान्मन्त्रेशमा (त्म ) वान्

27.502

संहृत्य सार्घ्यपुष्पाद्यं स्वरान्तम् अखिलं हि यत् ।
जलाशये विनिक्षित्य कुर्यात्स्वाय -------

27.503

ततो मन्त्रसमाधानं स जपं तु निशागमे ।
एवं (?श्रोत्रं )चक्षू ?रसानां (?सना )च घ्राणसंज्ञं चतुष्टयम्

27.504

चतुष्केण दिनानां तु व्यञ्जनीयं महामते ।
पञ्चकं त्वथा वागाद्यं क्रमेण शिरसा ततः

27.505

प्रेतश्रेयाप्तये कुर्यात् लब्धसत्त?द्विजोत्तम ।
एकादशे ऽथ दिवसे संप्राप्ते साधयेत् यरुम्

27.506

सभक्षव्यञ्नोपेतं श्रद्धया च सुसंयुतम् ।
प्रक्षालितांघ्रिं स्वाचान्तं ताडितं चावलोकितम्

27.507

अच्छाम्बुपूतप्रणतं भगवत्तत्त्वभावितम् ।
निवेश्यासनवारे च पूजिते व्याप्तिभाविते

27.508

समालभ्य ततो भक्त्या चन्दनाद्यैर्विलेपनैः ।
सद्वस्त्रवेष्टितं कृत्वा यथाशक्त्या विभूषयेत्

27.509

हेमकङ्कणपूर्वैस्तु सरत्नैर्भूषणोत्तमैः ।
माल्यैर्यज्ञोपवीताद्यैः शिरोवस्त्रैः सपावनैः

27.510

भक्ष्यव्यञ्जनहस्तं तत् कृत्वा मन्त्रेशम् अर्ययेत् ।
श्रद्धया परया विप्रप्रेतानुग्रहकाम्यया

27.511

कृत्वा भवनपर्यन्तं पूर्वम् आराधनं प्रभोः ।
समाचरेत्ततो मन्त्रन्यासं विप्रवरस्य च

27.512

उभे हस्ते ततो मूलम् अङ्गुलीषु हृदादयः ।
नेत्रं सर्वनखाग्राणां देहे त्वामस्तकात्ततः

27.513

न्यस्त्वा पादावसाने च स्वस्थानेषु हृदादयः ।
ध्यात्वा मन्त्रस्वरूपं च तदा तदभिमानयुक्

27.514

पितृसंज्ञासमेतेन नतिना प्रणवेन च ।
पूजयित्वार्घ्यपुष्पाद्यैः सविशेषैस्तु पूर्ववत्

27.515

प्रतिपाद्याखिलं तस्य मृ ( प्रे )तोपकरणं हि यत् ।
गोभूहेमावसानं च तोषमेति च येन तत्

27.516

जायते निरृणं प्रेतं[सम्युक्त]परं पदम् ।
यथावद्भोजनेनाथतर्पणीयं च पूर्ववत्

27.517

व्यापारं हृदयं प्राग्वन्मूलमन्त्रेण भावयेत् ।
किन्त्विन्द्रियगणान्तस्थं समायालक्षणं हि तत्

27.518

प्रणवं मूलमन्त्रेण प्रेतं सर्वत्र संस्मरेत् ।
एवं प्राप्तास्मितं सम्यग्युक्तम् इन्द्रियशक्तिभिः

27.519

बुद्धिपूर्वैर्धरान्तैस्तु कृत्वैतम् अनुरञ्जयेत् ।
बुध्यार्थम् आचरेत् तत्र शिखामन्त्रेण चालिखेत्

27.520

व्यक्तये मनसश्चैव कवचं विहितं द्विज ।
तन्मात्राणां व्यक्तये ऽथ पञ्चानामथ वै क्रमात्

27.521

भूतानाम् अस्त्रामन्त्रं तु वादितां ? सन्ततं हि नम् ।
मासद्वादशकेनैव दशैकादशकेन तु

27.522

प्रेतम् आपाद्य वै पिण्डं प्राप्ते मासे त्रयोदशे ।
योजना पितृमार्गे तु कार्यास्य भगवन्मये

27.523

यथा तथाब्जसंभूत शृणु मे गदतः स्फटम् ।
स्नानं पूर्वे समाख्यातं पश्चात्तदनु साधयेत्

27.524

श्राद्धार्थं श्रद्धयानं तु प्रभूतं च सुसंस्कृतम् ।
स्वाचान्तानथ धौताङ्घ्रीन् द्विजेन्द्रान् उपवेशयेत्

27.525

पुत्रकान् समयज्ञान् वा साधकानथ देशिकान् ।
गृहस्थान् ब्रह्मचारीन् वा वनस्थानथवा यतीन्

27.526

सम्मुखान् मन्त्रनाथस्य चत्वारो वाप्युदङ्मुखन् ।
एवं पूर्वानने द्वे तु विनिवेश्य द्विजोत्तम

27.527

तयोरेकस्य चास्त्रेण सकलीकरणं हि यत् ।
वर्मणाथ द्वितीयस्य न्यासकर्म विधीयते

27.528

उदङ्मुखेभ्यस्त्वाद्यस्य न्यासकर्मणि लोचनम् ।
तस्मादुपरिसंस्थास्य ( ?प्य )शिरसा विहितं द्विज

27.529

हृन्मन्त्रेण द्वितीयस्य मूलमन्त्रेण वै ततः ।
आचर्तव्यं चतुर्थस्य हस्तन्यासादिकं हि यत्

27.530

षण्णाम् अथ शिखामन्त्रं स्वा द्यखातप (?खाद्यस्वान्त ) (?प्र )विन्यसेत् ।
ततो ऽग्निभवनान्तं तु कृत्वा भगवदर्चनम्

27.531

पूजयेत् सविशेषं तु कृत्वैवं हि यथोदितम् ।
अस्त्रन्यस्तं ततो ऽस्त्रेण पूजनीयं द्विजोत्तम

27.532

वर्मणा वर्ममूर्तिं च नामगोत्रद्वयं विना ।
ततः स्वनाम्ना गोत्रेण कुर्याद् अन्येषु चार्चनम्

27.533

स्वेन स्वेन तु मन्त्रेण तत्र प्रेतं द्विजं हि यत् ।
नेत्रमन्त्रकृतन्यासं तत्तेनैव समर्चयेत्

27.534

तस्योपर्युपविष्टं तु संस्थितं पितृलक्षणम् ।
पूजने विहितं तस्य शिरोमन्त्रं स्वकं द्विज

27.535

विप्र हृन्मन्त्रम् अभ्यर्च्य यत्तद्विद्धि पितामहम् ।
प्रेतं तस्यार्चनं कुर्यान्नाम्ना गोत्रेण वै हृदा

27.536

मूलमन्त्रकृतन्यासं तद्विद्धि प्रतितामहम् ।
माननीयं हि तेनैव नाम्ना गोत्रेण वै सह

27.537

तेषां वै हृद्गतं विप्र पूजितानां च सांप्रतम् ।
प्रेतादिपितृकॢप्तस्य कार्या चान्तस्थयोजना

27.538

यथा तत्पद्मसंभूत मत्तः समवधारय ।
नैवेद्यनाशं क्रमशः प्राग्वदन्नरसात्मनाम्

27.539

स्वयं देवगणं चिन्त्यं समं ध्यायेद् धिया ततः ।
अजहन् स्वाश्रयं भक्त्या पूर्णेन्द्वा ?सकुल्यताम्

27.540

सामा ?पैत्रे ऽन्नमात्रं तु नेत्रमन्त्रं विचिन्त्य च ।
एवमेव शिरोमन्त्रमुपयातं धिया स्मरेत्

27.541

सह लोचनशक्त्या तु पात्रे हृन्मन्त्रभाविते ।
द्वे शक्ती नेत्रमूर्ध्वाख्ये समादायाथ हृन्मयीम्

27.542

शक्तिं वै मूलमन्त्रीयैर्नैवेद्यान्तर्गतां स्मरेत् ।
मन्त्रशक्तिच्छलेनैव सान्नेन प्रणवात्मना

27.543

मन्त्रब्रह्मणि चैकत्वं कुर्याद्वा तस्य पौष्कर ।
प्रतिपाद्याथ वै स्वस्मिन् नीत्वा नैवेद्यभाजनम्

27.544

द्विजानाम् उपविष्टानां भक्ष्यभोज्यादिकैः सह ।
गोक्षीरमात्रपर्यन्ते दद्यात्पाणौ ततो (?थो )दकम्

27.545

भोजने संप्रवृत्तानां यस्य यच्चोपयुज्यते ।
पृष्ट्वा पृष्ट्वा च दद्याद्वै पितॄणां तृप्तये द्विज

27.546

स्वाहान्तानां ततस्तेषां तत्र स्थानं समाचरेत् ।
एकत्वं त्विति शक्तीनां विधिनानेन पौष्कर

27.547

तत्त्वशक्तिगुणोपेतं प्रदीप्तमिव भास्करन् ।
सांप्रतं पूर्ववत्प्रेतं आहृत्य द्विद्विविग्रहात्

27.548

रेच्य हृत्कमले मन्त्रतेजसा तेन तत्पुनः ।
कुर्याद्युक्ततरं चैव तस्मादाकृष्य वै हृदि

27.549

पैतामहे विरेच्याथ हृत्पद्मोपरि वृद्धये ।
तस्मादुद्धृत्य संतृप्तं हृदा कुर्याच्च वै हृदि

27.550

प्रतितामहहृत्पद्मगोचरौ विनिवेश्य च ।
मन्त्रब्रह्मकलादीप्तं कृत्वा तत्रानयेत् हृदि

27.551

विलाप्य प्रणवेनाथ शान्तभावनयात्मनि ।
एवं कृत्वानुसन्धानं ततः प्रभृति तस्य वै

27.552

पितृत्वं वात्सरे श्राद्धे काल[दिष्टे]विशेषतः ।
(---?----भ्रात्रेतरेषां )मृतानां च विहिता वत्सरे गते

27.553

नान्येषां द्विजशार्दूल पितॄणां श्राद्धकाङ्क्षिणाम् ।
प्रेतत्वमुपशान्त वै जन्तोर्वाग्रस्थितस्य च

27.557

पितृत्वं लब्ध[ ?संस्कारं]संस्थितं चोत्तरोत्तरम् ।
एवमुक्तं हि साङ्गेन मन्त्रेण कमलोद्भव

27.555

और्ध्वदैहिकसंज्ञं तु विधानं भाविनामथ ।
चतुर्भिश्चातुरात्मीयैर्मन्त्रैस्तद्विनिबोध मे

27.556

श्रोत्राद्युपस्थपर्यन्तम् इन्द्रियाणां द्विपञ्चकम् ।
आपाद्य वासुदेवाख्यं मन्त्रेण दशभिर्दिनैः

27.557

अस्मिन् व्यक्तिमतः कुर्यात् साङ्कर्षणेन पौष्कर ।
बुद्धितत्त्वे तृतीयेन वा व्यञ्जयेन्मनसा सह

27.558

क्ष्मान्तम् आकाशतन्मात्राद् अनिरुद्धेन पौष्कर ।
पूर्ववद् व्यञ्जनीयं च एवं संवत्सरे गते

27.559

सपिण्डीकरणं कुर्याद् अनिरुद्धादितः क्रमात् ।
चतुर्भिर्वासुदेवान्तैर्मन्त्रैर्मन्त्रविदां वर

27.560

एवम् इच्छेन्नवात्मज्ञः समूर्तिनवकेन यत् ।
संविधानं द्विजश्रेष्ठ बान्धवानां शुभाप्तये

27.561

तदिदानीं समासेन एकाग्रम् अवधारय ।
श्रोत्रादीनाम् इन्द्रियाणां तृप्तये क्ष्माधरं स्मृतम्

27.562

भूगा ( ?म्या ) दीनां नृसिंहं तु अस्मिन् शक्तौ खगासने ।
व्यक्तये ब्रह्मतत्त्वं तु बुद्धे समनसां ?हितम्

27.563

तन्मात्राणां सभूतानां मन्त्राणां धारणात्मकम् ।
एवं तत्त्वकलायुक्तं जपं कृत्वा महामते

27.564

पञ्चभिस्तु वराहाद्यैः ततः संवत्सरे गते ।
चतुर्भिर् अनिरुद्धाद्यैः पितृभावनम् आनयेत्

27.565

पूर्वोक्तेन विधानेन ज्ञानध्यानान्वितेन च ।
दिव्येनानश्वरेणैव कर्मणानेकसाधनम्

27.566

संविधानं द्वितीयं तत्प्रोक्तं संसूचितं मया ।
तन्मे स्फुटतरं कृस्वा गदतश्चावधारय

27.567

सर्वं पूर्वोदितं कृत्वा विधानं साधने चरोः ।
प्रज्वाल्य पावकं कुर्यात् प्राग्वत्संस्कारसंस्कृतम्

27.568

ध्यात्वा तदन्तर्मन्त्रेशं समिद्भिक्तर्पयेत् क्रमात् ।
तदग्रतो दक्षिणाग्रान् कुशान् आस्तीर्य पूर्ववत्

27.569

सवासम् आसनं ध्यात्वा तदूर्ध्वे कमलासनम् ।
युक्तम् आद्यादिकैः प्राग्वद् विन्यसेद् अन्नगोलकम्

27.570

तस्मिन् पूर्वोदितं सर्वम् आपाद्य तदनन्तरम् ।
प्रेतनाम्ना तदग्रे ऽथ सतिलानुदकाञ्जलीन्

27.571

दत्त्वाथ चोपसंहृत्य विनिक्षप्य जलान्तरे ।
कृत्वाथ सह मन्त्रेण आत्मसादसनं ( ?ददनं )द्विज

27.572

जले ऽखिलं समाहृत्य विनिक्षिप्यानलं विना ।
दशाहमेवं निष्पाद्य प्राग्वदेकादशे ऽहनि

27.573

श्राद्धं कुर्याद् विधानज्ञः पिण्डदानपुरस्सरम् ।
संवत्सरे ऽथ निष्पन्ने पितृत्वापादनाय च

27.574

ध्यानं समन्त्रं पूर्वोक्तं[?तत्पितृ]त्वाधिकं भवेत् ।
भास्वज्ज्वलनसंकाशं समर्थैकत्वमागतम्

27.575

तदध्यक्षत्वभूतं यन्मन्त्रमध्यात्मलक्षणम् ।
अधिभूतम् अथापन्नं पिण्डं निर्गत्य संस्मरेत्

27.576

तदूर्ध्वदेशे नभसि व्यापारं सन्निरीक्षयेत् ।
एवम् अन्नात्पृथङ्नीते विप्रेते कमलोद्भव

27.577

तन्मन्त्रेण च तत्पिण्डाद् अधिभूतमयाद् अथ ।
समादायन्नमुष्टिं च तत्र तत् खण्डितं च यत्

27.578

स्मरेत्परिणतं सम्यम् व्यापकत्वेन सांप्रतम् ।
अथादिभूतं चाध्यात्मम् अधिदैवम् अथाब्जज

27.579

तदन्नं पितृपिण्डे तु तदूर्ध्वे ऽथ स्थितं नयेत् ।
एवम् एकत्वम् आपन्ने प्रेते चित्प्रतिना सह

27.580

प्रेतपिण्डवद् अब्जोत्थ वाचर्तव्यं हि चाखिलम् ।
व्यापारमथ तस्याथ तस्मात्पैतामहे ततः

27.581

तस्मात् तदपि -----------------तत्प्राग्वत्परतां नयेत् ।
यथोक्ते ऽस्मिन् द्विजश्रेष्ठ प्राजापत्ये तु कर्मणि

27.582

आदे कादशाद्यावत् पितृत्वापादने दिनम् ।
तावत्पूर्वोदितं शेषं यत्तत्पूर्वं समाचरेत्

27.583

किन्तु भोजनभूमौ तु द्विजप्तैरासनस्थितैः ।
वचनीयं हि चाक्षय्यं तिलमिश्रेण वारिणा

27.584

एतावतास्य तात्पर्यं यथावत्संप्रकाशितम् ।
और्ध्वदैहिकसंज्ञस्य व्या -------सात्विकम्

27.585

आसृष्टे सति रागौ च?यथा स्फरति वै हृदि ।
प्रत्ययावयवौ चैव -----------------पौष्कर

27.586

बल्यर्थं विहितं तेषाम् अन्नं पिण्डं तु सोदकम् ।
प्रेतक्रियाविधौ चैव स्वं स्वं काल कुलोचितं

27.587

चातुर्माननिषेधं च विहितं सूतकादिके ।
प्रतिषेधं गृहीतुर्वै आभूताद् अब्जसंभव

27.588

द्विजेन्द्राणां तु सन्येषां चातुरात्म्यैकयाजिनाम् ।
आराध्यानां प्रभ (?भा )वाच्च नास्तीति द्विजसत्तम

27.589

अत एवाधिकारं तु मृतके सूतके तु वा ।
प्रतिग्रहे प्रदाने च तत्कालं सङ्करं विना

27.590

सहजा प्रतिपत्तिर्वै इत्येषामरयाजिनाम् ।
भगवद्याजिनां चैव निस्सन्दिग्धा परस्परम्

27.591

मार्गम् इच्छति यस्त्वेवम् अनुसर्तृं हि चाच्युतम् ।
आशौचं समतीतं चेत्ततः कुर्याद् दशाहिकम्

27.592

इत्युक्तम् अब्जसंभूत सर[?हस्यं]यथा स्थितम् ।
संप्रदानादिकं शश्वत् श्राद्धावरणम् उत्तमम्

27.593

अथ काम्य श्राद्धविधिः ---
विध्यन्तरम् अथो भूयः प्रसङ्गाद् अवधारय ।
स्वर्गापवर्गफलदं भक्तानां भावितात्मनाम्

27.594

व्यवहारपदस्थं यद्विच्छिन्ना शस्त्र ? बन्धुभिः (?शास्त्रबुद्धिभिः ) ।
स्वयम् इच्छति वैकस्तु द्वादशाहाद्विजाखिलम्

27.595

तदिदानीं समासेन यथावत्कथयाम्यहम् ।
पुरा संभतसंभारः सुसहायैः समावृतः

27.596

मनः प्रसादजनकम् एवं वा बहवो द्विजाः (?विभवाद्द्विजान्) ।
पुरस्कृत्य दिने शुभ्रे पितृपक्षात्तु वै पुरा

27.597

प्रावृट्काले तु वाच्यत्र शरत्काले तु माधवे ।
यायाद् आयातनं विष्णोः पुष्पधूपजनाकुलम्

27.598

कूलं नदनदीनां वा सान्वाद्यं सोदकं गिरेः ।
निरातङ्कम् असङ्कीर्णं श्वपाकशबरादिकैः

27.599

तमासाद्य तपः कुर्याद् यागं च विधिपूर्वकम् ।
गणे च नागस्थाने च भूतानां च वनस्पतेः

27.600

क्षेत्रवासिमुखेनैव यथाशक्त्या सदक्षिणाम् ।
अपरे ऽहनि वै कुर्यात् स्वमन्त्राराधनं तु वै

27.601

[विष्णोरा]यतनस्थं च मन्त्रम् अज्ञातलक्षणम् ।
व्यक्तं वाप्यर्चनीयं च प्रार्थयेत्त ( म ) दनन्तरम्

27.602

विभोः प्रणमते (?तो ऽ )ध्यक्षं स्वचिद् बीजान्वितस्य च ।
व्यक्ताव्यक्ता[द्य]संज्ञस्य पिण्डम् इन्द्रिय[संज्ञितम्]

27.603

स्थापयामि सतत्त्वांशैः संधयित्वा यथाविधि ।
भेदरूपम् अभिन्नं च[का]यात्मांशुचयस्य च

27.604

सुकृतस्य च भोगार्थम् अन्यथा परमेश्वर ।
समुत्क्रान्तस्य मे देहात् स्थितं मारुतलक्षणम्

27.605

सदुःखाया (?सुखदुःखा )भिलाषा च धनेन च समावृता ।
जायते संभ्रमोपेता दीर्घकालवदक्षया

27.606

निष्क्रिया च तथा जन्तोर्वशा[?प्यवशा]स्य च ।
देहान्तरेण चाप्तेन शश्वत्कालान्तरेण वा

27.607

सा स्थिता दुस्सहा घोर तत्त्वतो याति संक्षयम् ।
त्वत्प्रसादाद् अतो नाथ शीघ्रम् अन्नं जलेन तु

27.608

पिण्डम् इन्द्रियसंज्ञं यन्निष्पाद्यं तन्निरामयम् ।
निःसन्तानस्त्वसंदेहं निराशः कर्मजालगः

27.609

अधिकृत्य त्वमेवाद्य करोति (?षि )त्राणम् आत्मना ।
पतितानां निराशानां नारकाणां परा गतिः

27.610

त्वमेव लुप्तपिण्डानां शश्वद् उद्धरणक्षमः ।
यतस्त्वमे (व )तत् शश्वद्[ना]रभ्य (?म्भ )सनातन

27.611

निष्पत्तिदिनपर्यन्तं विघ्नजालं सवासनम् ।
मम मायातु भगवन् कर्मसिद्धिर्ममास्तु वै

27.612

एवम् अभ्यर्थयित्वाजं करमापूर्य वारिणा ।
कुर्यात् तत् शेषपूर्णं तु आसमाप्ति तु संयमम्

27.613

लौकिकं व्यवहारं यद्धर्मकामार्थलक्षणम् ।
निरस्य पूर्ववत्सर्वं सावधानं ततो भवेत्

27.614

ततो ऽभिमतवृत्तौ तु कृत्वा देवार्चनं तु वै ।
तदग्रतो दक्षिणे वा चलयिष्ये शि ?तर्पणम्

27.615

द्विजेन्द्रं सन्निवेश्याथ सर्वं कृत्वा यथाविधि ।
निर्विशङ्केन मनसा तद्वदेव धिया ततः

27.616

स्वगृहं[च]स्वचैतन्यं ध्यायेत् सान्निध्यम् आगतम् ।
स्मरेद् एकं च निष्पापं प्रणवेनाप्तकालवत्

27.617

गतावसं ?यत्संस्कारं यथा शास्त्रोदितं महत् ।
कृतभिक्षस्तु विहितम् उक्तदीक्षं तु वा चरेत्

27.618

अस्थिसञ्चयं तु एवं कृत्वा यथाविधि ।
समाचरेत् ततः स्नानं मान्त्रम् अब्जज तत्र वै

27.619

द्विजेन्द्रैः कृतदीक्षैस्तु ऋग्यजुः सामसंगतैः ।
प्रधानमन्त्रैरब्लिङ्गैरुपस्नातो भवेद् अथ

27.620

द्वादशाक्षरपूर्वेभ्यो मध्यात्प्रागुक्तलक्षणम् ।
जपेद् एकतमं मन्त्रं दीक्षितस्वेकमेव हि

27.621

स्वमन्त्राद् अस्त्रमन्त्रैर्वा एवं स्नाने कृते पुनः ।
स्वमन्त्रं द्वादशार्णं वा ध्यायन् हृत्कमलान्तरे

27.622

तप्तकाञ्चनवर्णाम् अमुक्तमूर्तिं[त]मेव वा ।
मुहूर्तार्धं मुहूर्तं वा जपन्नास्ते ह्यनन्यधीः

27.623

तेन कल्पाग्निकं विप्र आशौचं स्वकुलोद्भवम् ।
क्षयमेत्यभिसन्धानान् नराणाम् अधिकारिणाम्

27.624

तत्त्वं मानसम् अन्येभ्यः संभूतानां यथाक्रमम् ।
न पुनः सर्वशक्तेर्वै संभूतानां सुखानले

27.625

तद्धा (?द्यायिनां )नां च तज्ज्ञानां द्विजानाम् अधिकारिणाम् ।
एवं संशुद्धदेहस्तु अन्नं संसाद्य पूर्ववत्

27.626

सभक्ष्यं व्यञ्जनोपेतं विभोर्यागार्थमेव च ।
तर्पणार्थं हि वै वह्नेः पिण्डनिर्वापणाय च

27.627

यथापिवाहिकं देहं द्वितीयं भूतविग्रहम् ।
कर्मणा नाशम् अभ्येति दीक्षाद्येन च मोक्षिणाम्

27.628

स्वयं संप्रति दत्वैवम् आदशाहादिकेन यत् ।
पुरस्ताद् उपकाराय कर्मणां देहमेति तत्

27.629

[?धर्मेणान्यच्चि]रेणैव भाविनां कमलोद्भव ।
दीर्घाभ्यासेन कालेन सह कर्मचयं महत्

27.630

शमम् आयाति वै नूनं मन्त्रेशानां प्रसादतः ।
पितृत्वापादनं तेन कर्मणा विमलेन च

27.631

अस्माद्गुरुतरं चैव स्वयं संपादितं तु वा ।
आदशाहादिकं पुंसाम् उपकाराय वै भवेत्

27.632

नित्यमन्ते निवृत्ते तु स्वाराध्यं संयजेत् ततः ।
अभिसन्धाय मनसा स्वयं गुरुमुखेन वा

27.633

कर्माधारं हि वै भावि देहं श्राद्धच्छलेन तु ।
सन्धाम् ईश्वरतत्त्वांगैर्देहभावात् पृथक्स्थितैः

27.634

प्राग्वदिष्ट्वाथ मन्त्रेशं भोगैः संपूर्णलक्षणैः ।
सतिलाञ्जलिदानान्तैर्विधिवत् कमलोद्भव

27.635

पूर्वोक्तेन विधानेन भक्त्या सश्रद्धया ततः ।
एकाहं बहवो विप्राः पञ्चकालपरायणाः

27.636

सन्तर्प्य भगवद् यागाद्यो हि वाञ्छति सम्पदम् ।
तस्माद् उत्तरणे हेतुर्जीवितस्य मृतस्य वा

27.637

न पश्यामि ऋते यागादेतस्मान्मन्त्रपूर्वकात् ।
प्रभवात्ययतत्त्वज्ञा व्यामिश्राराधनोज्झिताः

27.638

ते ऽत्र पात्रास्त्रयो ?नित्यं ज्ञानकर्मपरायणाः ।
मन्त्रप्रतिपरासक्ता इतिकर्तव्याच्युतिः

27.639

भक्तिश्रद्धासमोपेता परमुत्तारणप्लवः ।
आस्तां तावद् अपापानाम् उपायत्वेन पौष्कर

27.640

यागं ब्रह्ममयं शुद्धं प्रतिषिद्धं परैरपि ।
पतितत्वात्तु वै तेषां पिण्डदानं तिलोदकम्

27.641

नामसंकीर्तनं चैते प्रयान्ति परमां गतिम् ।
एकमुक्तं समुत्कृष्टम् अव्यापारं पराक्रमः (?मम् )

27.642

(?आ )अधाराधनपूर्वं वा प्राजापत्यं समाचरेत् ।
सपिण्डीकरणान्तं तु आदशाहाद् द्विजोत्तम

27.643

अग्नावग्रे तदन्तस्थे मन्त्रेशे तर्पिते सति ।
पिण्डनिर्वापणं कुर्यात् पूर्वोक्तविधिना ततः

27.644

विनिवेश्यासने विप्रम् एकं शक्त्या बहूनपि ।
तर्पणीयानि विधिवत् तत्त्वसन्धानसिद्धये

27.645

भोजने फलमूलैस्तु भक्ष्यैरुच्चावचैस्तथा ।
पावनैर्विविधैः पानैर्लेह्यैः पेयैश्च चोष्यकैः

27.646

दक्षिणाभिस्तु ताम्बूलैर्वारिकुम्भसमन्वितैः ।
छत्रोपानहयानैस्तु दानैः काम्यैर्यथोचितैः

27.647

द्मीतिम् अभ्येति वै येन समूहं भगवन्मयम् ।
ज्ञात्वा वा व्यवसायं यद् देशकालबलाबलम्

27.648

सह सत्पात्रलोभेन शीघ्रं यत्कर्तुम् इच्छति ।
श्राद्धं दशाहपूर्वं वा पितृत्वापादनान्तिकम्

27.649

अनेकदिवसोत्थं तु सिद्धान्नेन विना द्विज ।
यथावद् अर्चनं कृत्वा पत्रपुष्पादिकैर्विभः

27.650

वह्नितर्पणनिष्ठं तु स्वार्थम् उद्दिश्य वै पितॄन् ।
पात्रं मध्वाज्यसिक्तैस्तु संपूर्णं शालितण्डुलैः

27.651

उपरिष्टाद्रसैर्मूर्तेः फलमूलैर्विभूषितम् ।
सोत्तरीयोपवीताढ्यं सरर् ?-------युतम्

27.652

सस्य ?एकसमोपेतं वारिकुम्भसमन्वितम् ।
धूपदीपादिकैर्युक्तं पूजयित्वा निवेद्य च

27.653

पित्रर्थं तु द्विजात्मार्थं ततो दद्यात् तिलोदकम् ।
एकमेवं हि चै[कार्यं वह्यर्थं]बहवस्तु वा

27.654

सिद्धान्नं सद्विजेन्द्राणां पूजित -------------- ।
प्रतिपाद्य क्रमेणैव पूजनीयं हि वै विभोः

27.655

पिण्डं मध्वाज्यसिक्तैर्वा प्राग्वद् आपाद्य तण्डुलैः ।
अग्निगर्भगतस्याग्रे विभोर्दर्भसु -------

27.656

-----------------------त यथोक्तं तु स ।
---ति प्राणेन्द्रियाणां तु यथावसरम् अत्र च

27.657

गन्धानां पूर्ववत् कुर्यात् बुध्या च सुविशुद्धया ।
प्रेतोद्दिष्टेन विधिना[यथावदा]त्मनात्मना

27.658

विधिना मन्त्रपूर्वेण वत्सरं संप्रपूर्य च ।
प्रतिसंवत्सरं श्राद्धं यावज्जीवं समाचरेत्

27.659

नानादानसमोपेतं भावश्चाद्धविभूषितम् ।
यथोद्दिष्टेन मार्गेण किन्तु गोत्रसमन्विताः

27.660

मन्त्रान्ते विनियोक्तव्याः समशब्दपुरस्सराः ।
स्वयं ज्ञानाभिमानाख्यं मूर्तिं ध्यायेत् स्वकं द्विज

27.661

अतःशुद्धां ज्वलद्रूपां क्वचिद् आकृतिलक्षणाम् ।
क्वचिद्गोलकरूपां च मध्याह्नादित्यसन्निभात्

27.662

क्वचिन्मन्दतराभां च तद् व्यापारवशेन तु ।
एवं समाप्य विधिवत् भगवद्यागपूर्वकम्

27.663

विप्रतर्पणपर्यन्तम् अखिलं पूर्वचोदितम् ।
प्रा[गो]दन[स्य]पिण्डाद्यैर्वह्न्यन्ते चोपसंहृतैः

27.664

बन्धुभिः सह चाक्षीयाद् दत्तशिष्टं द्विजोत्तम ।
प्राजापत्यं तु वै दिव्ये और्ध्वदैहिपूर्वके

27.665

व्यापारे ऽस्मिन् समन्त्रे तु सिद्धिरस्ति ?विदात्मनाम् ।
स्वयमात्मनि कर्तॄणां भावान्मन्त्रांश्च सा[धितान्]

27.666

येन चोपरतस्याशु यथार्थत्वं प्रयाति च ।
तत्र[श्राद्धविधिं]कुर्यान्मन्त्रन्यस्तेन चाखिलम्

27.667

आपङ्क्तिसाधनात्कारि ?तृप्त्यन्तम् अमलेक्षण ।
आचरेद् वचसा सर्वं मन्त्रोच्चारणपूर्वकम्

27.668

गृहाणानय संयच्छ त्वेवमाद्यं हि यद्द्विज ।
मनसा भोजनान्तं तु व्यापारम् अखिलं स्मरेत्

27.669

प्रणवेनार्कचन्द्राग्निसमूहद्युतिसन्निभम् ।
संविशन्तं स्वयं मन्त्रमग्नौ तद्रूपलक्षणे

27.670

परमात्मनि वा भिन्ने चातुरात्म्यं तु विद्धि तत् ।
कदम्बकुसुमाकारं सर्वशक्तिमलेपकम्

27.671

इतीदम् उक्तम् अब्जाक्ष जीवभावस्थितस्य च ।
पारत्रिकं विधानं तु मुखकल्पसमं महत्

27.672

अत्र पूर्वोदितं विप्र उक्तानुक्तं तु चाखिलम् ।
भगवत्प्रीतिपर्यन्तं विज्ञातव्यं समाहितः

27.673

विधिनानेन यत्कुर्यात् पितृप्रेतमयं महत् ।
प्रीतये परतस्तस्य शुभां यच्छन्ति सन्ततिम्

27.674

भावमन्त्रक्रियाद्रव्यैरसंपूर्णस्तु योगवत् ।
पठन् वै श्राद्धभोक्तॄणां श्राद्धाध्यायम् इदं द्विज

27.675

समस्तं ह्यग्रतो भक्त्या पितॄणाम् अनृणो भवेत् ।
किं पुनर्ब्रह्मसन्मन्त्रं मन्त्रकर्म महामते

27.676

पौष्कर उवाच ---
व -------पुव्येन भगवन् ब्रह्म -------------- ॥
---------------------- मे मूर्तं अत्रास्ति संशयः

27.677

श्रीभगवानुवाच ---
न तेषां व्रत[चयहिः]सूर्यबिम्बं यथा विना ।
तथा भगवतो विष्णोर्मूर्तषाड्गुव्यविग्रहान्

27.678

प्रकाश -------त पूर्व -------न्दर्माग्रा ------- ।
मा ----------------------------------

27.679

व्यञ्जन्ति कमलोद्भूत त्वदन्येनैव सर्वदा ।
भेद एवं हि ?विभोश्चतुर्मूर्तेः परस्य च

27.680

यत्तत्पिण्डार्[थं]कृतानां च रसानां भिन्नरूपिणाम् ।
-------परस्पर ------- द्वयापकत्वे स्थितं द्विज

27.681

विभोः सर्वेश्वरस्यैव सर्वः सर्वासु शक्तिषु ।
वर्तन्ते च यथा ----------------------

27.682

(अत्र ग्रन्थपातः )
---------------------------- परुपचर्यते ।
विश्वात्मा भगवान् विप्र वासुदेवः सनातनः

27.683

चिद्धनारुताः पुनः सम्यगुपकाराय कर्मणि ।
---------------------स्यरूपु व्यञ्जयन्ति च

27.684

-------भावानां भाति संपूर्णलक्षणम् ।
पूर्णात्मनि पुनः सर् ( वेर् )वाः तथात्वेन च संस्थिताः

27.685

किन्तु कुर्वन्ति ताः कृत्याः कर्ता प -------रा ।
प्रकाशशक्त्या यां शक्ति -------स्य च

27.686

स्वचिता रश्मिजालेन यन्मध्यादेकम् अब्जज ।
प्रकटीकृतम् आत्मनम् आदितत्त्वेन वै सह

27.687

समाधिसंविधानं च लाभे वा ध्यानकर्मणि ।
परमात्मा ससुद्भूत -------------- विभुः

27.688

स्वप्रकाशांशमात्रेण अत एवानुमीयते ।
एवम् आह्लादशक्तेर्वै लवमात्रं हि चन्द्रमाः

27.689

ज्ञातव्यम् अरविन्दाक्ष प्रीतस्य निधि ? मं ( ?निखिलु )परम् ।
-------क्ति ( ?चिच्छक्तिः )परिज्ञेया तद्वदेव हि पावकः

27.690

जगत्यस्मिन् हि ये भावा अन्ये तद् अनुकारिणः ।
ज्ञानादयो ऽपि लभ्यन्ते तेन शक्तिज ( च )यांशजाः

27.691

सर्वत्र भगवानेवं सामान्यत्वेन वर्तते ।
नेदं मायात्मकं रूपं जडशक्तिगुणैर्युतम्

27.692

भगवत्यब्जसंभूत त्वन्तल्लीनं हि विद्यते ।
यतो विचार्यमाणं हि नित्यम् अच्युतभाविनाम्

27.693

अभावभूमिम् आयाति स्वप्नदृष्टम् इवेश्वरम् ।
मन्त्राः श्राद्धे समा ये च ये च दीक्षादिषूदिताः

27.694

व्यापारेष्वपि चान्येषु ते ऽप्येवं महिमान्वितम् ।
बुध्यैवं मन्त्रपूर्वं च स ( व्या )पारं शास्त्रचोदितम्

27.695

कृतिं ( तं )ज्ञानात्मनाभ्येति ह्यचिरादेव कर्मणाम् ।
श्रोत्रियाणां द्विजेन्द्राणां त्वदर्थाश्रमवर्तिनाम्

27.696

यद्वद्भुक्ताद्ध ?व ( विः)श्शूद्रात् न दोषो ज्ञानगौरवात् ।
एवं स्वभावदीप्तानां निर्मलानां सदैव हि

27.697

नवैर्जातं ?न ( ?मनैर् ) मल्यं भवेच्छूद्रपरिग्रहात् ।
यथैतदेव शूद्राणां[न दोषो]ज्ञानगौरवात्

27.698

अविरोधो ऽस्ति सर्वत्र मन्त्राणां समयैः सह ।
--------------------सर्वेषामत एव हि

27.699

त्रयीमयानांमन्त्राणां प्रवृत्तिफलदायिनाम् ।
अस्ति ----------------------ष्मान्तद्विजग्रहम्

27.700

अनिसर्गाद्विजश्रेष्ठ ब्रह्मतेजोविभासितम् ।
---------------------नामवस्थितम्

27.701

अनिषेकं च संबुद्धं बोध्यं तेषां स वर्तते ।
अपकारत्वम् एवास्ति -------परस्परम्

27.702

द्विजेन्द्राणामृगादीनां मन्त्राणां कमलोद्भव ।
एक---नतरन्तं तु विश्रा -------क्रमात् क्रमात्

27.703

संस्थितं च चतुर्थस्य शूद्रसंज्ञस्य पौष्कर ।
प्रभाकरं च वाहं च ?तैक्ष्य ( ?क्ष्व्य )मध्ववशात्तु वै

27.704

निवर्तन्ते तथा ब्रह्मन् तेजोवर्णत्रयं तथा ।
प्रतिषिद्धं यदर्थं वै ---------------------

27.705

आधारस्तदृगादीनां मन्त्राणां मन एव हि ।
पवित्रता च या तेषां विद्धि सर्वेश्वरी हि सा

27.706

निवृत्तचक्र ?कास्तु वै मन्त्रास्तन्निवृत्तिफलप्रदाः ।
संशयाविष्कृतानां च स्वाहा वौषड्वषट् तथा

27.707

प्रतिषिद्धं यदर्थं वै मया ते कथितं पुरा ।
पूरणैर्भगवन्मन्त्राः प्रणव ---------------------

27.708

सर्वज्ञपाचकास्ते वै सामान्या यद्यपि द्विज ।
मुखत्वेन च तत्रापि वर्तनते मस्वकर्मणि

27.709

येन दीप्तिकारत्वं च नोद्वहन्ति महामते ।
आदिदेवेन विभुना ---------------------

27.710

त्रिविधे शब्दराशौ तु त्रिविधा विकृतो जनः ।
अनन्ययाजिनो विप्रा मन्त्रसङ्घे ऽञ्चलादिकेः ?

27.711

ऋग्यजुस्साम --------------व्यामिश्रयाजकाः ।
चत्वारो ---------------------बीजपिण्डपदादिके

27.712

मन्त्रव्यूहे सुशुद्धे च रजोमोहान्वयोज्झिते ।
राजसानां हि मन्त्राणां तामसानां -------

27.713

[विधिना]धिकृताः सर्वे आत्मलाभार्थमेव हि ।
सुयन्त्रितेन वै नित्यं भक्तेन च विशेषतः

27.714

मन्त्रज्ञेन त्रयाणां च भाव्यं शूद्रेण सर्वदा ।
-------गाद्बलादीनां मन्त्राणां परमात्मनाम्

27.715

----------कारिणां फलकैवल्यम् अब्जज ।
ऋग्यजुः सामसंज्ञानां प्रयुक्तानां हि कर्मणि

27.716

स्वर्गनिष्ठं हि चोत्कृष्टं सफलं साङ्गसां ?तथा ।
सिद्धसर्वज्ञमन्त्राणाम् अणिमा ----------

27.717

संयुक्तम् अपवर्गेणाप्रार्थितं सर्वदैव हि ।
अत एव हि सामग्री निः शेषाराधकस्य च

27.718

अपयुज्यति तत्सिध्यै फलं यस्याणिमादयः ।
भागेन मह सामग्ग्र्या ------- पौष्कर

27.719

साक्षात्करं हि यत्तस्य कैवल्यं शाश्वतं फलम् ।
राजसानां हि मन्त्राणां तामसानां महामते

27.720

ईषद् दृष्टफलोपेतम् आत्मसंस्कारमेव हि ।
जन्मोत्कर्षसमेतं च चित्तोत्कर्षफलप्रदम्

27.721

एषां प्रधानभूतं यत्फलम् उक्तव्यपेक्षया ।
सात्विकानां हि मन्त्राणाम् एकदेशाश्रितं हि यत्

27.722

प्रत्ययार्थं हि मोक्षस्य सिद्धये संप्रकीर्तितम् ।
मशनामाकरोन्मन्त्राः ?तत्सिद्धिस्तत्क्रियावशात्

27.723

क्रियाधिगम्यते शास्त्रात् --------------------- ।
-------संशुद्धिसन्तोषभक्तिपूर्वात्तु संयमात्

27.724

भवेत्तत्साधुसंपर्कात् --------------------- भोत् ? ।
सन्मन्त्राणां द्विजेन्द्राणां शाश्वतस्य च कर्मणः

27.725

क्वचित्त्रयस्य संयोग ---------------फलम् ।
क्वचिन्महत्ता मन्त्राणां फलनिष्ठा क्रिया द्विज

27.726

मुखस्वरूपा ---------------------णान् स्थितान् ।
अधिकारं क्वचित्कर्तुं स्थितं मन्त्रवशात् द्विज

27.727

जन्मोत्कर्षक्रिया ---------- जायन्ते प्रत्ययैः सह ।
जात्वैवं योजनं कार्यं भक्तानां सर्वदैव हि

मूल पाठ: Pauṣkarasaṃhitā 27-43 · Edition: Prabhakar Pandurang Apte: Pauṣkarasaṃhitā : dvitīyo bhāgaḥ, Tirupati 2006 (Rashtriya Sanskrit Vidyapeetha Series, 120) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc