भाषा

ENहिગુ
ग्रंथ पाठ

पाशुपतसूत्र · अध्याय 4

4.1

गूढविद्या तप आनन्त्याय प्रकाशते ॥

4.2

गूढव्रतः ॥

4.3

गूढपवित्रवाणिः ॥

4.4

सर्वाणि द्वाराणि पिधाय ॥

4.5

बुद्ध्या ॥

4.6

उन्मतवद् एको विचरेत लोके ॥

4.7

कृतान्नम् उत्सृष्टम् उपाददीत ॥

4.8

उन्मत्तो मूढ इत्य् एवं मन्यन्ते इतरे जनाः ॥

4.9

असन्मानो हि यन्त्राणां सर्वेषाम् उत्तमः स्मृतः ॥

4.10

इन्द्रो वा अग्रे असुरेषु पाशुपतम् अचरत् ॥

4.11

स तेषाम् इष्टापूर्तम् आदत्त ॥

4.12

मायया सुकृतया समविन्दत ॥

4.13

निन्दा ह्य् एषानिन्दा तस्मात् ॥

4.14

निन्द्यमानश् चरेत् ॥

4.15

अनिन्दितकर्मा ॥

4.16

सर्वविशिष्टो ऽयं पन्थाः ॥

4.17

सत्पथः ॥

4.18

कुपथास् त्व् अन्ये ॥

4.19

अनेन विधिना रुद्रसमीपं गत्वा ॥

4.20

न कश्चिद् ब्राह्मणः पुनर् आवर्तते ॥

4.21

अत्रेदं ब्रह्म जपेत् ॥

4.22

तत्पुरुषाय विद्महे ॥

4.23

महादेवाय धीमहि ॥

4.24

तन् नो रुद्रः प्रचोदयात् ॥

मूल पाठ: Pāśupatasūtra · Edition: Krishnanda Sagar, Varanasi 1987 · Data entry Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc