ग्रंथ पाठ
पाशुपतसूत्र · अध्याय 3
3.1
अव्यक्तलिङ्गी ॥
3.2
व्यक्ताचारः ॥
3.3
अवमतः ॥
3.4
सर्वभूतेषु ॥
3.5
परिभूयमानश् चरेत् ॥
3.6
अपहतपाप्मा ॥
3.7
परेषां परिवादात् ॥
3.8
पापं च तेभ्यो ददाति ॥
3.9
सुकृतं च तेषाम् आदत्ते ॥
3.10
तस्मात् ॥
3.11
प्रेतवच् चरेत् ॥
3.12
क्राथेत वा ॥
3.13
स्पन्देत वा ॥
3.14
मण्टेत वा ॥
3.15
शृङ्गारेत वा ॥
3.16
अपि तत् कुर्यात् ॥
3.17
अपि तद् भाषेत् ॥
3.18
येन परिभवं गच्छेत् ॥
3.19
परिभूयमानो हि विद्वान् कृत्स्नतपा भवति ॥
3.20
अत्रेदं ब्रह्म जपेत् ॥
3.21
अघोरेभ्यः ॥
3.22
अथ घोरेभ्यः ॥
3.23
घोरघोरतरेभ्यश् च ॥
3.24
सर्वेभ्यः ॥
3.25
शर्वसर्वेभ्यः ॥
3.26
नमस् ते अस्तु रुद्ररूपेभ्यः ॥
मूल पाठ: Pāśupatasūtra · Edition: Krishnanda Sagar, Varanasi 1987 · Data entry Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0