पाशुपतसूत्र · अध्याय 5
असङ्गः ॥
योगी ॥
नित्यात्मा ॥
अजः ॥
मैत्रः ॥
अभिजायते ॥
इन्द्रियाणाम् अभिजयात् ॥
रुद्रः प्रोवाच तावत् ॥
शून्यागारगुहावासी ॥
देवनित्यः ॥
जितेन्द्रियः ॥
षण्मासान् नित्ययुक्तस्य ॥
भूयिष्ठं संप्रवर्तते ॥
भैक्ष्यम् ॥
पात्रागतम् ॥
मांसम् अदुष्यं लवणेन वा ॥
आपो वापि यथाकालम् अश्नीयाद् अनुपूर्वशः ॥
गोधर्मा मृगधर्मा वा ॥
अद्भिर् एव शुचिर् भवेत् ॥
सिद्धयोगी न लिप्यते कर्मणा पातकेन वा ॥
ऋचम् इष्टाम् अधीयीत गायत्रीम् आत्मयन्त्रितः ॥
रौद्रीं वा बहुरूपीं वा ॥
अतो योग प्रवर्तते ॥
ओंकारम् अभिध्यायीत ॥
हृदि कुर्वीत धारणाम् ॥
ऋषिर् विप्रो महान् एषः ॥
वाग्विशुद्धः ॥
महेश्वरः ॥
श्मशानवासी ॥
धर्मात्मा ॥
यथालब्धोपजीवकः ॥
लभते रुद्रसायुज्यम् ॥
सदा रुद्रम् अनुस्मरेत् ॥
छित्त्वा दोषाणां हेतुजालस्य मूलम् ॥
बुद्ध्या ॥
संचित्तम् ॥
स्थापयित्वा च रुद्रे ॥
एकः क्षेमी सन् वीतशोकः ॥
अप्रमादी गच्छेद् दुःखानाम् अन्तम् ईशप्रसादात् ॥
अत्रेदं ब्रह्म जपेत् ॥
ईशानः सर्वविद्यानाम् ॥
ईश्वरः सर्वभूतानाम् ॥
ब्रह्मणो ऽधिपतिर् ब्रह्मा ॥
शिवो मे अस्तु ॥
सदा ॥
शिवः ॥
मूल पाठ: Pāśupatasūtra · Edition: Krishnanda Sagar, Varanasi 1987 · Data entry Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0