पाशुपतसूत्र (टीका सहित) · अध्याय 4
* अत्र नम इत्यात्मप्रयुक्त इत्यर्थः ते इति कारणापदेशे ॥ प्स्भ्_3.26:1
* नमस्तुभ्यं नमस्ते ॥ प्स्भ्_3.26:2
* अथवा नमस्कारेणात्मानं प्रदाय धर्मप्रचयपरिग्रहमिच्छन्ति ॥ प्स्भ्_3.26:3
* अथ कतमोऽयं परिग्रहः ॥ प्स्भ्_3.26:4
* तदुच्यते विशिष्टे परिग्रहात् ॥ प्स्भ्_3.26:5
* तदुच्यते ऽत्र रुद्र इति कारणापदेशे ॥ प्स्भ्_3.26:6
* रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ प्स्भ्_3.26:7
* रूपाणि यानि शरीराण्युत्पादयति तेभ्यो रूपेभ्य इत्यर्थः ॥ प्स्भ्_3.26:8
* अत्र रूपव्यपदेशेन रूपिणि नमस्कारो द्रष्टव्यः ॥ प्स्भ्_3.26:9
* कस्मात् ॥ प्स्भ्_3.26:10
* तदभिसंधिप्रयोगात् ॥ प्स्भ्_3.26:11
* शिवपुरि उपस्थानवत् ॥ प्स्भ्_3.26:12
* एभ्य इति ॥ प्स्भ्_3.26:13
* अपरिमितासंख्यातेभ्य इत्यर्थः ॥ प्स्भ्_3.26:14
* रूपनिर्देशार्थान्यत्वाच् च पुनरुक्तापुनरुक्ताभ्यां शब्दा द्रष्टव्याः ॥ प्स्भ्_3.26:15
पाशुपतसूत्र, 4
गूढविद्या तपआनन्त्याय प्रकाशते
* गुहू रक्षणे ॥ प्स्भ्_4.1:1
* रक्षितव्या न प्रकाशयितव्येत्यर्थः ॥ प्स्भ्_4.1:2
* गोपनं नामाप्रकाशनम् ॥ प्स्भ्_4.1:3
* विद्या पूर्वोक्ता स्वपरान्यप्रकाशिका प्रदीपवत् ॥ प्स्भ्_4.1:4
* लिङ्गैर्गोप्या रूढविद्या साधके इत्यर्थः ॥ प्स्भ्_4.1:5
* आह गूढविद्ये साधके का कार्यनिष्पत्तिः ॥ प्स्भ्_4.1:6
* तदुच्यते तपआनन्त्याय प्रकाशते इत्येष पाठः ॥ प्स्भ्_4.1:7
* अथवा कुरवोन्महितवत् तपोऽनन्त्याय प्रकाशत इत्येष वा पाठः ॥ प्स्भ्_4.1:8
* तस्मादत्र तपस्तदेव ॥ प्स्भ्_4.1:9
* निरुक्तमस्य पूर्वोक्तम् ॥ प्स्भ्_4.1:10
* अन् इत्यपि नियोगपर्यायः गम्यते ॥ प्स्भ्_4.1:11
* तपःकार्यत्वाद् अतिगतिसायुज्यवत् ॥ प्स्भ्_4.1:12
* आह किं परिमितेष्वर्थेष्वानन्त्यशब्दः उतापरिमितेषु किं वा परिमितापरिमितेष्विति ॥ प्स्भ्_4.1:13
* उच्यते परिमितापरिमितेष्वर्थेषु आनन्त्यशब्दः ॥ प्स्भ्_4.1:14
* तत्र तावद् ईश्वरस्यैकैकशः परिमितेषु तेष्वेव विभुत्वाद् अपरिमितेषु तथा परिमितापरिमितेष्वर्थेषु अभिव्यक्तास्य शक्तिः ॥ प्स्भ्_4.1:15
* तस्य कुशलाकुशलेषु भावेष्व् आनन्त्यशब्दः ॥ प्स्भ्_4.1:16
* यस्मादुक्तं न चैतास्तनवः केवलं मम इति ॥ प्स्भ्_4.1:17
* तथा रुद्रः समुद्रो हि अनन्तो भास्करो नभः । आत्मा ब्रह्म च वाक् चैव न शक्यं भेददर्शनम् ॥ प्स्भ्_4.1:18
* अनात्मविद्भिरध्यस्तां पङ्क्तिं योजनमायताम् । वेदवित् पुनते पार्थ नियुक्तः पङ्क्तिमूर्धनि ॥ प्स्भ्_4.1:19
* तथा च वेदवित् पङ्क्तिमात्मवित् पुनते द्विजः । आनन्त्यं पुनते विद्वान् नाभात्वं यो न पश्यति ॥ प्स्भ्_4.1:20
* आनन्त्याय इति चतुर्थी तस्मात् तप एतत् न तु विद्या कार्या ॥ प्स्भ्_4.1:21
* प्रकाशो नाम भावप्रकाश्यम् न तु प्रदीपवत् ॥ प्स्भ्_4.1:22
* कथम् ॥ प्स्भ्_4.1:23
* योगाधिकृतस्य प्रदीपस्थानीतयमानैजस्थानीयम् आवारकम् अभिभूय प्रकाशते ॥ प्स्भ्_4.1:24
* चक्षुःस्थानीयया विद्यया कुशलविवेकादिकार्यं माहात्म्यातिगतिप्रकाशप्रवृत्तिस्मृतिसायुज्यस्थित्यादिप्रकाशनं तपःकार्यमित्यर्थः एवं च गुप्ते ब्राह्मणे तप आनन्त्याय प्रकाशत इत्यर्थः ॥ प्स्भ्_4.1:25
* आह स्वभावगुप्तत्वाद् अतीन्द्रियात्मगती विद्या गोप्येति ॥ प्स्भ्_4.1:26
* तदुच्यते अव्यक्तप्रेताद्यवस्थानैर् लिङ्गैर्गोप्या इत्यर्थः ॥ प्स्भ्_4.1:27
* आह कानि पुनस्तानि विद्यालिङ्गानि यैर् गुप्तैर् विद्या गुप्ता भवति ॥ प्स्भ्_4.1:28
* तदुच्यते व्रतादीनि ॥ प्स्भ्_4.1:29
* यस्मादाह ॥ प्स्भ्_4.1:30
गूढव्रतः
* अत्र गूढं प्रच्छन्नम् अप्रकाशमित्यर्थः ॥ प्स्भ्_4.2:1
* व्रतं नाम यदायतने स्नानहसिताद्यः साधनवर्गस्तद् व्रतम् ॥ प्स्भ्_4.2:2
* कस्मात् ॥ प्स्भ्_4.2:3
* साकृतत्वाद् यस्मादयं ब्राह्मणस्तथा प्रयुङ्क्ते यथा लौकिकानां धर्मसाधनभावो न विद्यत इति अतो गूढव्रत इति ॥ प्स्भ्_4.2:4
* आह अव्यक्तप्रेतत्वादेव गूढत्वप्राप्तेः पुनरुक्तमिति ॥ प्स्भ्_4.2:5
* उच्यते ऽर्थान्यत्वाद् अपुनरुक्तम् ॥ प्स्भ्_4.2:6
* तत्रावस्थानमात्रम् एवाव्यक्तम् ॥ प्स्भ्_4.2:7
* इह तु स्नानहसितादिगोपनम् ॥ प्स्भ्_4.2:8
* अपि च तत्र निष्पन्नं लिङ्गम् अव्यक्तम् ॥ प्स्भ्_4.2:9
* इह तु निष्पत्तिकाले च गोपनोपदेशः ॥ प्स्भ्_4.2:10
* न वाव्यक्तप्रेतत्वं वा विद्यालिङ्गम् ॥ प्स्भ्_4.2:11
* अतश्चापुनरुक्तम् ॥ प्स्भ्_4.2:12
* तस्माद् गूढव्रतोपदेशाय स्थानापदेशापवादाय स्थाने वस्तव्यम् ॥ प्स्भ्_4.2:13
* स्नानहसितादयश्च गूढाः कर्तव्याः ॥ प्स्भ्_4.2:14
* एवं विद्या गुप्ता भवतीत्यर्थः ॥ प्स्भ्_4.2:15
* आह किं व्रतमेवैकं विद्यालिङ्गं गोप्यम् आहोस्विद् अन्यदप्यस्ति नेति ॥ प्स्भ्_4.2:16
* उच्यते ऽस्ति ॥ प्स्भ्_4.2:17
* यस्मादाह ॥ प्स्भ्_4.2:18
गूढपवित्रवाणिः
* अत्र गूढा गुप्ता प्रच्छन्ना अप्रकाशेत्यर्थः ॥ प्स्भ्_4.3:1
* पवित्रा नाम सत्या संस्कृता अर्घ्यहेतुः सम्पन्ना न तु विपरीतेत्यर्थः ॥ प्स्भ्_4.3:2
* सा गोप्या ॥ प्स्भ्_4.3:3
* किमर्थमिति चेत् ॥ प्स्भ्_4.3:4
* तदुच्यते जातिज्ञानतपःस्तवसूचनार्थम् ॥ प्स्भ्_4.3:5
* यथा शरदं कुररः सूचयति ॥ प्स्भ्_4.3:6
* उक्तं हि । शरदं कुररः प्राह वसन्तं प्राह कोकिलः । प्राह वर्षा मयूरश्च वाक् पवित्राह ब्राह्मणम् ॥ प्स्भ्_4.3:7
* तथा । वागेव हि मनुष्यस्य श्रुतमाख्याति भाषिता । दीपयन्ती यथा सर्वं प्रभा भानुमिवामला ॥ प्स्भ्_4.3:8
* अतो जातिज्ञानतपःस्तवा भवन्ति ॥ प्स्भ्_4.3:9
* स्तविते चावसानादिमत्त्वयोः पुण्यपापक्षयवृद्ध्योरभावः ॥ प्स्भ्_4.3:10
* अत एतदुक्तं गूढपवित्रवाणिरिति ॥ प्स्भ्_4.3:11
* आह किं व्रतं वाणी च द्वयमेवात्र गोप्यम् आहोस्विद् अन्यदप्यस्ति नेति ॥ प्स्भ्_4.3:12
* उच्यते अस्ति ॥ प्स्भ्_4.3:13
* यस्मादाह ॥ प्स्भ्_4.3:14
सर्वाणि द्वाराणि पिधाय
* इति ॥ प्स्भ्_4.4:1
* अत्र सर्वशब्दो द्वारप्रकृतेर् निरवशेषवाची द्रष्टव्यः ॥ प्स्भ्_4.4:2
* द्वाराणि क्राथनादीनि ॥ प्स्भ्_4.4:3
* द्वाराणि च कस्मात् ॥ प्स्भ्_4.4:4
* धर्माधर्मयोर् आयव्ययहेतुत्वाद् द्वाराणि ॥ प्स्भ्_4.4:5
* द्वाराणीति बहुवचनं विज्ञानयन्त्रेन्द्रियवत् ॥ प्स्भ्_4.4:6
* पिधाय इति प्राक्साधनप्रयोगमधिकुरुते ॥ प्स्भ्_4.4:7
* कथम् ॥ प्स्भ्_4.4:8
* अस्थानकालदेशक्रियाप्रयोगप्रयोजनान्तराणि विधिवद् विवेच्य यदा सम्यङ् मायया संनाद्यभेदक्रमेण प्रयुक्तानि तदा पिहितानि भवन्तीत्यर्थः ॥ प्स्भ्_4.4:9
* आह केन तानि पिधेयानि ॥ प्स्भ्_4.4:10
* तदुच्यते ॥ प्स्भ्_4.4:11
बुद्ध्या
* यस्मादस्य श्रोत्रेन्द्रियवत् पिधायेति सम्यग् ज्ञानप्रयोगे सर्वज्ञेन भगवता विद्यानुगृहीतया बुद्ध्या पिधानमुक्तं तस्मादत्र करणाख्या बुद्ध्येति न ज्ञानाख्या ॥ प्स्भ्_4.5:1
* कथं गम्यते ॥ प्स्भ्_4.5:2
* बुद्ध्येति तृतीयाप्रयोगात् ॥ प्स्भ्_4.5:3
* भस्मना स्नानवत् ॥ प्स्भ्_4.5:4
* न ज्ञानाख्या ॥ प्स्भ्_4.5:5
* यस्य विज्ञानाख्या बुद्धिर्न ज्ञानाख्या कथं गम्यते ॥ प्स्भ्_4.5:6
* तस्य प्राग् ज्ञानोत्पत्तेर् अचेतनपुरुषस्तस्य ह्य् अज्ञानाद् असंबोध्यः स्यात् ॥ प्स्भ्_4.5:7
* तस्मादत्र त्रिकं चिन्त्यते पिधाता पिधानं पिधेयमिति तत्र पिधाता साधकः ॥ प्स्भ्_4.5:8
* पिधानमस्य विद्यानुगृहीता बुद्धिः ॥ प्स्भ्_4.5:9
* पिधेयं व्रतं वाणी द्वाराणि चेति ॥ प्स्भ्_4.5:10
* क्रमवृत्तित्वाच् च बुद्धेरेव प्रयुङ्क्ते शेषाण्य् अकर्तृत्वेनैवाप्रयुक्तानि ॥ प्स्भ्_4.5:11
* तदा पिहितानि भवन्तीत्यर्थः ॥ प्स्भ्_4.5:12
* अत्रेदं विद्याज्ञानप्रकरणं परिसमाप्तमिति ॥ प्स्भ्_4.5:13
* आह किमव्यक्तप्रेत इत्यवस्थानद्वयमेवात्र कर्तव्यम् ॥ प्स्भ्_4.5:14
* वागादीनि वा गोपायित्वा साधकेन किं कर्तव्यम् ॥ प्स्भ्_4.5:15
* उच्यते ॥ प्स्भ्_4.5:16
उन्मत्तवदेको विचरेत लोके
* अत्र बुद्ध्या अन्तःकरणानां श्रोत्रादीनां च बाह्यानां वृत्तिविभ्रमः कर्तव्योऽसति विषये विषयग्रहणम् ॥ प्स्भ्_4.6:1
* अत्र । पञ्चोन्मादाः समाख्याता वातपित्तकफात्मकाः । चतुर्थः संनिपातस्तु अभिघातस्तु पञ्चमः ॥ प्स्भ्_4.6:2
* एवं ग्रहबहुत्वे सति यो ऽयं वातपित्तश्लेष्मणां समूहः सांनिपातिकोऽयं महाग्रहः ॥ प्स्भ्_4.6:3
* एवं साधनप्रयोगः कर्तव्यः ॥ प्स्भ्_4.6:4
* तत्र यदि कश्चिद् ज्ञानजिज्ञासनार्थं दयार्थम् अनुग्रहार्थं वा पृच्छति तं निवर्तयित्वा ब्रूयात् समयतः प्रविशस्वेति ॥ प्स्भ्_4.6:5
* ततो द्वारेण प्रविश्य विपरीतम् अविपरीतं वा यदि कश्चिद् ब्रूयात् को भवानिति ततो वक्तव्यं माहेश्वरोऽहं कौमारो ऽहमिति दुरत्ययं कृतं च ममानेनेति ॥ प्स्भ्_4.6:6
* ततो जिघांसनार्थं मया स्पृष्टो न तु विषयक्रीडार्थं वा ॥ प्स्भ्_4.6:7
* ततः परिवर्जयति इत्येवं लौकिकपरीक्षकाणां सम्मोहनार्थम् उक्तम् उन्मत्तवद् इति ॥ प्स्भ्_4.6:8
* किंचिदुन्मत्तप्रेतवत् तस्यान्तःकरणादिवृत्तिविभ्रममात्रं परिगृह्यते ॥ प्स्भ्_4.6:9
* एक इत्य् असंवहता चिन्त्यते ॥ प्स्भ्_4.6:10
* एकेनेतरेभ्यो विच्छिन्नेनासहायेनेत्य् अर्थः आह एकेन किं कर्तव्यमिति ॥ प्स्भ्_4.6:11
* उच्यते विहर्तव्यम् ॥ प्स्भ्_4.6:12
* यस्मादाह विचरेत ॥ प्स्भ्_4.6:13
* अत्र विर्विस्तरे ॥ प्स्भ्_4.6:14
* चरेत्यार्जनम् अधिकुरुते धर्मार्जने ॥ प्स्भ्_4.6:15
* ईत इत्याज्ञायां नियोगे च ॥ प्स्भ्_4.6:16
* विस्तरनियोग विशेषतश्च विहर्तव्यमित्यर्थः ॥ प्स्भ्_4.6:17
* आह क्व विहर्तव्यमिति ॥ प्स्भ्_4.6:18
* उच्यते लोके ॥ प्स्भ्_4.6:19
* त्रिवर्णाश्रमिषु लोकसंज्ञा न तु ब्रह्मलोकादिषु ॥ प्स्भ्_4.6:20
* कस्मात् ॥ प्स्भ्_4.6:21
* उत्कृष्टेष्व् असंभवात् ॥ प्स्भ्_4.6:22
* लोके इति सामीपिकं संनिधानम् ॥ प्स्भ्_4.6:23
* परवर्णा लोकास्तेषु तदध्यक्षेषु विहर्तव्यमित्यर्थः ॥ प्स्भ्_4.6:24
* आह कां वृत्तिमास्थाय लोके विहर्तव्यम् सर्वभक्षमेव ॥ प्स्भ्_4.6:25
* उच्यते न ॥ प्स्भ्_4.6:26
* यस्मादाह ॥ प्स्भ्_4.6:27
कृतान्नमुत्सृष्टम् उपाददीत
* अत्र कृतग्रहणादकृतानां बीजकाण्डफलादीनां प्रतिषेधः ॥ प्स्भ्_4.7:1
* कृतं भिन्नोद्भिन्नाद्यं तद् भैक्षम् उत्सृष्टं यथालब्धं विधिना प्राप्तमुपयोज्यम् ॥ प्स्भ्_4.7:2
* अत्र कृतग्रहणादकृतप्रतिषेधः अकृतप्रतिषेधाच् च कृत्स्ना हिंसा तन्त्रे प्रतिषिद्धा द्रष्टव्या ॥ प्स्भ्_4.7:3
* आह किं तत् कृतं नाम बुद्धिघटाद्यम् ॥ प्स्भ्_4.7:4
* तदुच्यते न ॥ प्स्भ्_4.7:5
* यस्मादाह अन्नम् ॥ प्स्भ्_4.7:6
* तत्रान्नवचनाद् अनन्नप्रतिषेधः ॥ प्स्भ्_4.7:7
* तच् च द्वियोनि इन्द्राभिषिक्तम् इन्द्रियाभिषिक्तं च तत्रेन्द्राभिषिक्तं व्रीहियवाद्यम् ॥ प्स्भ्_4.7:8
* इन्द्रियाभिषिक्तं तु मांसम् ॥ प्स्भ्_4.7:9
* तत् पञ्चविधम् भक्ष्यं भोज्यं लेह्यं पेयं चोष्यमिति ॥ प्स्भ्_4.7:10
* तथा षड्रसं मधुराम्ललवणतिक्तकटुकषायम् इति ॥ प्स्भ्_4.7:11
* आह तस्य कृतान्नस्यार्जनं कुतः कर्तव्यम् ॥ प्स्भ्_4.7:12
* तदुच्यते उत्सृष्टम् ॥ प्स्भ्_4.7:13
* अत्रोत्सृष्टग्रहणाद् भैक्षयथालब्धप्रतिषेधः ॥ प्स्भ्_4.7:14
* किं कारणम् ॥ प्स्भ्_4.7:15
* सूनादिदोषपरिहारार्थत्वान्नस्तेयप्रतिग्रहादिदोषात् ॥ प्स्भ्_4.7:16
* तच् च त्रिविधमुत्सृष्टम् ॥ प्स्भ्_4.7:17
* तद् यथा निसृष्टं विसृष्टम् अतिसृष्टमिति ॥ प्स्भ्_4.7:18
* तत्र सनिमित्तं परित्यक्तमन्नं पानं वा तन् निसृष्टम् ॥ प्स्भ्_4.7:19
* गोब्राह्मणादिनिमित्तं त्यक्तं विसृष्टम् ॥ प्स्भ्_4.7:20
* अतिसृष्टम् अन्यतः परित्यक्तम् ॥ प्स्भ्_4.7:21
* दयार्थम् आनृशंसार्थं वा यदि कश्चिद् दद्यात् तदपि ग्राह्यमेव ॥ प्स्भ्_4.7:22
* आह अनेन साधकेन किं कर्तव्यमिति ॥ प्स्भ्_4.7:23
* उच्यते उपयोक्तव्यम् ॥ प्स्भ्_4.7:24
* यस्मादाह उपाददीत अत्रोपेत्य् अभ्युपगमे ॥ प्स्भ्_4.7:25
* अत्यन्तासन्मानसयन्त्रस्थेनेत्यर्थः ॥ प्स्भ्_4.7:26
* आददीत इत्युपयोगे ग्रहणे च विवक्षितसूत्रग्रहणे त्वावद् भवति ॥ प्स्भ्_4.7:27
* तदुक्तम् । संचित्वा नरमेवैनं कामानामवितृप्तिकम् । व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति ॥ प्स्भ्_4.7:28
* इति ॥ प्स्भ्_4.7:29
* उपयोगेऽपि नाथकणादवत्सम् ॥ प्स्भ्_4.7:30
* तस्मादुपयोक्तव्यमिति ॥ प्स्भ्_4.7:31
* ईत इत्याज्ञायां नियोगे च ॥ प्स्भ्_4.7:32
* तदुत्सृष्टं विधिप्राप्तमुपयोक्तव्यम् ॥ प्स्भ्_4.7:33
* अन्यथा हि विधिव्यपेतेन क्रमेण वृत्त्यर्जनं न कर्तव्यमित्यर्थः ॥ प्स्भ्_4.7:34
* आह व्रतादीनि गोपयित्वा सम्यक्साधनप्रयोगे उत्सृष्टोपयोगे च वर्ततः के वार्था निष्पद्यन्ते ॥ प्स्भ्_4.7:35
* असन्मानप्रकरणस्य वा परिसमाप्तिः किमस्ति नेति ॥ प्स्भ्_4.7:36
* उच्यते अस्ति ॥ प्स्भ्_4.7:37
* यस्मादाह ॥ प्स्भ्_4.7:38
उन्मत्तो मूढ इत्येवं मन्यन्ते इतरे जनाः
* अत्र उन्मत्तः स एव ॥ प्स्भ्_4.8:1
* निरुक्तमस्य पूर्वोक्तम् मूढ इति ॥ प्स्भ्_4.8:2
* मुहु अपरिज्ञाने ॥ प्स्भ्_4.8:3
* अव्यक्तोऽयं प्रेतोऽयम् उन्मत्तोऽयं मूढोऽयं मूर्खोऽयमिति वक्तारो वदन्तीत्यर्थः ॥ प्स्भ्_4.8:4
* इतिशब्दोऽर्थानां निर्वचनत्वात् प्रकरणपरिसमाप्त्यर्थः ॥ प्स्भ्_4.8:5
* एवं यस्माद् अवस्थानकालदेशक्रियाप्रयोगप्रयोजनगोपनवसत्यर्थकृत्स्नतपांसि च व्याख्यातानि ॥ प्स्भ्_4.8:6
* एवम् इत्यतिक्रान्तापेक्षणे ॥ प्स्भ्_4.8:7
* मन्यते इत्यवधारणे ॥ प्स्भ्_4.8:8
* इतरे इति गृहस्थब्रह्मचारिवानप्रस्थभिक्षुपाषण्डिनां ब्रह्मचर्याधिकृतानां ग्रहणम् ॥ प्स्भ्_4.8:9
* जना इति ॥ प्स्भ्_4.8:10
* जनी प्रादुर्भावे ॥ प्स्भ्_4.8:11
* जना इति वर्णाश्रमिणां जनानाम् अधिकृतानां ग्रहणम् उक्तं हि । जनेन हि जनो जातः जनं जनयसे जन । जनं शोचसि नात्मानं मात्मानं शोच मा जनम् ॥ प्स्भ्_4.8:12
* इत्येवं वक्तारो वदन्तीत्यर्थः ॥ प्स्भ्_4.8:13
* अत्रेदम् आधिकारिकम् असन्मानचरिप्रकरणं समाप्तम् ॥ प्स्भ्_4.8:14
* आह व्रतादीनि गोपयित्वा सम्यक्साधनप्रयोगे उत्सृष्टोपयोगे च ततः को गुणः यं गुणं ज्ञात्वा अव्यक्तप्रेतोन्मत्ताद्या वादा निष्पाद्या इति ॥ प्स्भ्_4.8:15
* तदुच्यते तं गुणं ज्ञात्वा वक्ष्यामः ॥ प्स्भ्_4.8:16
* अपि च अव्यक्तप्रेतोन्मत्ताद्यं ब्राह्मणकर्मविरुद्धं क्रमं दृष्ट्वा यावदयं शिष्यः एनमर्थं न ब्रवीति तत्तस्य हृदिस्थम् अशङ्कितम् उपलभ्योत्तरं ब्रूम इति कृत्वा भगवानिदं सूत्रमुवाच ॥ प्स्भ्_4.8:17
असन्मानो हि यन्त्राणां सर्वेषामुत्तमः स्मृतः
* अत्र अकारो मानप्रतिषेधे ॥ प्स्भ्_4.9:1
* मानोऽत्र द्विविधः ॥ प्स्भ्_4.9:2
* जात्यभिमानो गृहस्थाभिमानश्च ॥ प्स्भ्_4.9:3
* तत्र जात्यभिमानो नाम ब्राह्मणोऽहमिति ॥ प्स्भ्_4.9:4
* पूज्यत्वाद् ऊर्ध्वगमनादीनां कार्याणाम् उच्छ्रितत्वात् त्रयाणामपि वर्णानामुपदेशेन गुरुत्वाद् यज्ञकर्तृत्वात् त्रैलोक्यस्थितिहेतोः ब्राह्मणोऽहमिति प्रथमो मानो जात्युत्कर्षात् ॥ प्स्भ्_4.9:5
* तथा ब्राह्मणानामपि गृहस्थादीनां पूज्यत्वात् तत्कृतमानश्च ॥ प्स्भ्_4.9:6
* एतच् च मानद्वयमव्यक्तलिङ्गवचनात् प्रतिषिद्धम् ॥ प्स्भ्_4.9:7
* तथा वित्तं बन्धुर्यशः कर्म विद्या भवति पञ्चमी । एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥ प्स्भ्_4.9:8
* एतानि चैकवासःप्रेताचरणगूढव्रतोपदेशिना सूत्रतः प्रतिषिद्धानीत्यतो मानो न कर्तव्यः ॥ प्स्भ्_4.9:9
* सन् इति प्रशंसायामस्तित्वे च ॥ प्स्भ्_4.9:10
* अग्रे तदसन्मानचरिप्रकरणविशिष्टं च ॥ प्स्भ्_4.9:11
* हिशब्दो ऽयमुत्तमोत्कर्षापेक्षो द्रष्टव्यः ॥ प्स्भ्_4.9:12
* यन्त्राणि अग्निष्टोमादीनि मासोपवासादीनि च गृहस्थादीनां शुद्धिवृद्धिकराणि ॥ प्स्भ्_4.9:13
* यन्त्राणि च कस्मात् ॥ प्स्भ्_4.9:14
* यन्त्रं कर्मादयः ॥ प्स्भ्_4.9:15
* यस्माद् अयन्त्रा लौकिका अमर्यादावस्था भवन्तीत्यतो यन्त्राणाम् ॥ प्स्भ्_4.9:16
* यन्त्राणाम् इति षष्ठीबहुवचनम् ॥ प्स्भ्_4.9:17
* आह बहुवचनप्रयोगात् संदेहः अथ कियतां यन्त्राणाम् ॥ प्स्भ्_4.9:18
* तदुच्यते सर्वेषाम् ॥ प्स्भ्_4.9:19
* अत्र सर्वेषाम् इत्यशेषाणामित्यर्थः ॥ प्स्भ्_4.9:20
* सर्वेषामिति षष्ठीबहुवचनम् ॥ प्स्भ्_4.9:21
* आह षष्ठ्याः साकाङ्क्षत्वात् संदेहः ॥ प्स्भ्_4.9:22
* तेषां कारणात्मानो वर्तन्ते ॥ प्स्भ्_4.9:23
* तदुच्यते उत्तमः ॥ प्स्भ्_4.9:24
* अत्रोत्तम इति श्रेष्ठत्वे परमविशुद्धित्यागादानभावादिषु ॥ प्स्भ्_4.9:25
* उक्तं हि । वरेण्यः सत्तमो मुख्यो वरिष्ठः शोभनोऽथवा । उत्तमश्चापरार्धश्च स्वर्थः श्रेष्ठार्थवाचकाः ॥ प्स्भ्_4.9:26
* श्रेष्ठः ॥ प्स्भ्_4.9:27
* इह चोक्तम् उत्तम इति ॥ प्स्भ्_4.9:28
* आह असन्मानः सर्वयन्त्राणामुत्तम इति क्व सिद्धम् ॥ प्स्भ्_4.9:29
* उच्यते इह ॥ प्स्भ्_4.9:30
* यस्मादाह स्मृतः ॥ प्स्भ्_4.9:31
* अत्र स्मृत इत्युक्तपर्यायः महेश्वरेणोक्तं प्रोक्तं कथितं वर्णितमित्यर्थः ॥ प्स्भ्_4.9:32
* विशिष्टः कस्मात् ॥ प्स्भ्_4.9:33
* सर्वज्ञवचनाद् अविसंवादित्वाच् च ॥ प्स्भ्_4.9:34
* नहि प्रत्यक्षदर्शिनां वचनानि विसंवदन्तीत्यर्थः ॥ प्स्भ्_4.9:35
* आह अस्मिन् क्रमे उत्तमत्वेन व्याख्यायमानं क आद्यः शोधकः ॥ प्स्भ्_4.9:36
* केन वा इदं विधानं चीर्णम् ॥ प्स्भ्_4.9:37
* आचरता वा किं फलं प्राप्तम् ॥ प्स्भ्_4.9:38
* सो ऽस्मत्प्रत्ययार्थम् वाच्यः ॥ प्स्भ्_4.9:39
* तदुच्यते ॥ प्स्भ्_4.9:40
इन्द्रो वा अग्रे असुरेषु पाशुपतमचरत्
* अत्र देवतानां राजा इन्द्रः ॥ प्स्भ्_4.10:1
* कथं गम्यते असुरेष्वाचरणवचनात् ॥ प्स्भ्_4.10:2
* ब्राह्मणश्चायमिन्द्रः श्रेष्ठः ॥ प्स्भ्_4.10:3
* सूत्रे ब्राह्मणग्रहणात् शूद्रप्रतिषेधाच् च ॥ प्स्भ्_4.10:4
* इदि परमैश्वर्ये धातुः तस्येन्द्रः ॥ प्स्भ्_4.10:5
* इन्द्र उत्कृष्टः श्रेष्ठः देवगन्धर्वयक्षराक्षसपितृपिशाचादीनां श्रेष्ठो न तु ब्रह्मादीनाम् ॥ प्स्भ्_4.10:6
* किं तु स्वर्गिणां मध्ये ऐश्वर्येण विद्यया आज्ञया चेत्य् अतः श्रेष्ठत्वाद् इन्द्रः ॥ प्स्भ्_4.10:7
* वाशब्दः सम्भावने ॥ प्स्भ्_4.10:8
* अन्यैरपि देवश्रेष्ठैरिदं विधानमाचीर्णम् ॥ प्स्भ्_4.10:9
* कुतस्तर्हि युष्मदादिभिर् मनुष्यमात्रैः ॥ प्स्भ्_4.10:10
* तस्मात् संभाव्योऽयमर्थः ॥ प्स्भ्_4.10:11
* आह कदा चीर्णमिति ॥ प्स्भ्_4.10:12
* उच्यते ऽग्रे ॥ प्स्भ्_4.10:13
* अत्राग्र इति पूर्वकालमधिकुरुते ॥ प्स्भ्_4.10:14
* कुशिकेशानसम्बन्धात् प्राक् ॥ प्स्भ्_4.10:15
* प्रथमम् अमरैश्चीर्णम् ॥ प्स्भ्_4.10:16
* कृतत्रेताद्वापरादिषु युगेष्वित्यर्थः ॥ प्स्भ्_4.10:17
* आह केष्वाचीर्णमिति ॥ प्स्भ्_4.10:18
* उच्यते असुरेषु ॥ प्स्भ्_4.10:19
* अत्रासुरा नाम सुरेतराः स्तेययुक्ताः ॥ प्स्भ्_4.10:20
* प्राणापहरणाद् वा असुराः प्रजापतिपुत्रा विज्ञेयाः ॥ प्स्भ्_4.10:21
* असुरेष्विति सामीपिकं संनिधानम् ॥ प्स्भ्_4.10:22
* असुरसमीपे असुराभ्याशे असुराणामध्यक्ष इत्यर्थः ॥ प्स्भ्_4.10:23
* आह किं तदिति ॥ प्स्भ्_4.10:24
* उच्यते पाशुपतम् ॥ प्स्भ्_4.10:25
* अत्र पशुपतिनोक्तपरिग्रहाधिकारेषु वर्तत इति पाशुपतम् ॥ प्स्भ्_4.10:26
* पशुपतिर्वास्मिन् चिन्त्यत इति पाशुपतम् ॥ प्स्भ्_4.10:27
* पशुपतिप्रापकत्वाद् वा पाशुपतम् ॥ प्स्भ्_4.10:28
* पाशुपतमिति समस्तस्य सम्पूर्णस्य विधानस्यैतद् ग्रहणम् ॥ प्स्भ्_4.10:29
* कस्मात् ॥ प्स्भ्_4.10:30
* व्यक्तलिङ्गपूर्वकत्वाद् अव्यक्तादिक्रमस्य ॥ प्स्भ्_4.10:31
* तस्मात् कृत्स्नमिदमेव विधानमाचीर्णमिन्द्रेण दुःखान्तार्थिना शुद्धिवृद्ध्यर्थम् ॥ प्स्भ्_4.10:32
* धर्मबाहुल्यात् सुराणां भुव्याचीर्णम् ॥ प्स्भ्_4.10:33
* अचरद् इत्यतीतः कालः ॥ प्स्भ्_4.10:34
* अतीते काले चीर्णवान् इत्यर्थः ॥ प्स्भ्_4.10:35
* आह इन्द्रेणासुरेष्वाचरता किं फलं प्राप्तम् ॥ प्स्भ्_4.10:36
* तदुच्यते ॥ प्स्भ्_4.10:37
स तेषामिष्टापूर्तमादत्त
* स इतीन्द्रग्रहणम् तेषाम् इत्यसुरनिर्देशः ॥ प्स्भ्_4.11:1
* इष्टापूर्तम् इति द्वंद्वसमासः ॥ प्स्भ्_4.11:2
* इष्टं च पूर्तं चेष्टापूर्तम् तत्र यन् मन्त्रपूर्वकेण विधिना दत्तं हुतं स्तुत्यादिनिष्पन्नं सुकृतं तद् इष्टम् ॥ प्स्भ्_4.11:3
* यद् अमन्त्रपूर्वकेणैव तत् पूर्तम् ॥ प्स्भ्_4.11:4
* इन्द्रेणासुरेभ्यः केनोपायेन दत्तमिति ॥ प्स्भ्_4.11:5
* उच्यते ॥ प्स्भ्_4.11:6
मायया सुकृतया समविन्दत
* क्राथनस्पन्दनादिप्रयोगैः धिक्कृतस्य निद्राविष्टो वायुसंस्पृष्टो मन्दकारी असम्यक्कारी असम्यग्वादीति यो ऽयं दुष्टशब्दो ऽभियोगशब्दश्च निष्पद्यते तस्मिन्न् अनृते मायासंज्ञा ॥ प्स्भ्_4.12:1
* मानसकायिकाभियोगे च ॥ प्स्भ्_4.12:2
* मायया इति तृतीया ॥ प्स्भ्_4.12:3
* सुकृतया इति ॥ प्स्भ्_4.12:4
* सु प्रशंसायाम् तया सुकृतया सम्यक् प्रयुक्तयेति साधकसाधनप्राधान्यम् ॥ प्स्भ्_4.12:5
* अविन्दत इति प्राप्तौ प्राधान्ये च ॥ प्स्भ्_4.12:6
* स तेषाम् इष्टापूर्तम् आदत्तेति ॥ प्स्भ्_4.12:7
* उक्तं हि । आक्रोशमानो नाक्रोशेन्मन्युरेव तितिक्षति । स तेषां दुष्कृतं दत्त्वा सुकृतं चास्य विन्दति ॥ प्स्भ्_4.12:8
* आह उत्तम इन्द्रः ॥ प्स्भ्_4.12:9
* स तेषामिष्टापूर्तम् इत्युक्ते परापदेशेनास्य वृत्तिर् निर्गुणीकृता ॥ प्स्भ्_4.12:10
* अथात्मापदेशोऽत्र किमस्ति नेति ॥ प्स्भ्_4.12:11
* उच्यते अस्ति ॥ प्स्भ्_4.12:12
* यस्मादाह ॥ प्स्भ्_4.12:13
निन्दा ह्य् एषानिन्दा तस्मात्
* अत्रावमानपरिभवाद्या निन्दा ॥ प्स्भ्_4.13:1
* कुत्सा गर्हा इत्यर्थः ॥ प्स्भ्_4.13:2
* शब्दो निन्दोत्तमोत्कर्षोपक्षेपे द्रष्टव्यः ॥ प्स्भ्_4.13:3
* उत्तमाधिकाराद् गम्यते ॥ प्स्भ्_4.13:4
* एषा इत्यतिक्रान्तापेक्षणे ॥ प्स्भ्_4.13:5
* अवमानपरिभवपरिवादाद्या निन्देत्यर्थः ॥ प्स्भ्_4.13:6
* अनिन्दा इत्यकारो निन्दितत्वं प्रतिषेधति ॥ प्स्भ्_4.13:7
* अनिन्दा अकुत्सा अगर्हा इत्यर्थः ॥ प्स्भ्_4.13:8
* अत्र तस्माच्छब्दः पूर्वोत्तरं चापेक्षते ॥ प्स्भ्_4.13:9
* तत्र पूर्वाकाङ्क्षायां तावत् कृत्स्ना निन्दाप्रकरणगुणवचने ॥ प्स्भ्_4.13:10
* यस्माद् इन्द्रस्यापि शुद्धिवृद्धिकारिणी आत्मापदेशेन परापदेशेन च भगवता असन्मानचरिर् गुणीकृता तस्मादित्यर्थः ॥ प्स्भ्_4.13:11
* आह निराकाङ्क्षानिर्देशात् संदेहो यथा यथा वर्णितं तथा तथा च व्याख्यातम् ॥ प्स्भ्_4.13:12
* निन्दाया अनिन्दितत्वं गुणं ज्ञात्वा साधकेन किं कर्तव्यम् ॥ प्स्भ्_4.13:13
* तदुच्यते ॥ प्स्भ्_4.13:14
निन्द्यमानश्चरेत्
* अत्र निन्दा पूर्वोक्ता ॥ प्स्भ्_4.14:1
* निन्द्यमानेनैव निन्दायाः वर्तमानकाल इत्यर्थः ॥ प्स्भ्_4.14:2
* चरेद् इत्य् आर्जनम् अधिकुरुते ॥ प्स्भ्_4.14:3
* धर्मार्जने नियोगे च ॥ प्स्भ्_4.14:4
* संशयान्यत्वाच् चापुनरुक्तश् चरिशब्दो द्रष्टव्यः ॥ प्स्भ्_4.14:5
* अत्रेदम् आनुषङ्गिकम् असन्मार्गचरिप्रकरणं परिसमाप्तम् ॥ प्स्भ्_4.14:6
* आह निन्द्यमानश् चरेदित्युक्त्वा आद्यं विधानमाचरतः को ऽर्थो निष्पद्यते ॥ प्स्भ्_4.14:7
* निष्पन्नेन वा कथम् अभिलप्यते ॥ प्स्भ्_4.14:8
* तदुच्यते ॥ प्स्भ्_4.14:9
अनिन्दितकर्मा
* अत्र चर्योत्तरसम्बन्धाद् गम्यते यदेतदनिन्दितं कर्म धर्मः स एव निन्द्यमानस्याचरतो निष्पद्यते ॥ प्स्भ्_4.15:1
* अतः अनिन्दितकर्मा भवतीत्यर्थः ॥ प्स्भ्_4.15:2
* आह निन्द्यमानस्याचरतो ऽनिन्दितं कर्म भवतीति क्व सिद्धम् ॥ प्स्भ्_4.15:3
* तदुच्यते इह यस्मादाह ॥ प्स्भ्_4.15:4
सर्वविशिष्टोऽयं पन्थाः
* अत्र अयम् इति प्रत्यक्षे ॥ प्स्भ्_4.16:1
* यथायं पुरुषः ॥ प्स्भ्_4.16:2
* यथाविधिश् चरिरिति याः क्रियाः अत्राधिकृतस्यानिन्दितं कर्म भवतीत्याह भगवान् ॥ प्स्भ्_4.16:3
सत्पथः
* कस्मात् । रुद्रसमीपप्रापणसामर्थ्यात् ॥ प्स्भ्_4.17:1
* अनावृत्तिप्रापणसामर्थ्याच् चाविकलः ॥ प्स्भ्_4.17:2
* तस्मात् सर्वज्ञवचनाविसंवादित्वाच् चायं सत्पथ इत्यर्थः ॥ प्स्भ्_4.17:3
* आह किमन्यत्र पन्थानो न सन्ति इति ॥ प्स्भ्_4.17:4
* उच्यते सन्ति ॥ प्स्भ्_4.17:5
* किंतु ॥ प्स्भ्_4.17:6
कुपथास्त्वन्ये
* अत्र कु कुत्सायां भवति ॥ प्स्भ्_4.18:1
* कस्मात् ॥ प्स्भ्_4.18:2
* कुशब्दप्रयोगाद् गम्यते ॥ प्स्भ्_4.18:3
* कुपुरुषवत् ॥ प्स्भ्_4.18:4
* पन्थानो विधय उपाया इत्यर्थः ॥ प्स्भ्_4.18:5
* तुशब्दो ऽनावृत्त्युत्कर्षे ॥ प्स्भ्_4.18:6
* अन्ये इति ॥ प्स्भ्_4.18:7
* गृहस्थब्रह्मचारिवानप्रस्थभिक्षुपाषाण्डिनां पन्थानः ॥ प्स्भ्_4.18:8
* ते कुपथाः ॥ प्स्भ्_4.18:9
* न ॥ प्स्भ्_4.18:10
* आह अयमेव सत्पथः शेषाः कुपथा इति क्व सिद्धम् ॥ प्स्भ्_4.18:11
* किं वास्य सत्पथत्वम् ॥ प्स्भ्_4.18:12
* शेषाणां वा कुपथत्वं किमिति ॥ प्स्भ्_4.18:13
* उच्यते इह ॥ प्स्भ्_4.18:14
* यस्मादाह ॥ प्स्भ्_4.18:15
अनेन विधिना रुद्रसमीपं गत्वा
* अत्र अनेन इत्य् अनपेक्षणे । विधिना भस्मस्नानक्राथनादिनोपायेनेत्य् अर्थः ॥ प्स्भ्_4.19:1
* विधिनेति तृतीया ॥ प्स्भ्_4.19:2
* रुद्र इति कालोपदेशे ॥ प्स्भ्_4.19:3
* रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ प्स्भ्_4.19:4
* समीपम् इति योगपर्यायः ॥ प्स्भ्_4.19:5
* कथं गम्यते ॥ प्स्भ्_4.19:6
* विध्यनन्तरोक्तत्वात् ॥ प्स्भ्_4.19:7
* सति विधिविषयत्वे पुरुषेश्वरयोर् विषयाधिकारकृतं वियोगं दृष्ट्वा ज्ञानपरिदृष्टेन विधिनाध्ययनध्यानाधिकृतो विशुद्धभावः समीपस्थ इत्यर्थः ॥ प्स्भ्_4.19:8
* गतिः प्राप्तिर्भावस्येत्यर्थः ॥ प्स्भ्_4.19:9
* त्वा इति विधिकर्मणोर्निष्ठा ॥ प्स्भ्_4.19:10
* आह अत्रैवं विध्याचरणं समीपगमनं च कस्योपदिश्यते ॥ प्स्भ्_4.19:11
* उच्यते न तीर्थयात्रादिधर्मवत् सर्वेषाम् ॥ प्स्भ्_4.19:12
* किंतु संस्कारवद् ब्राह्मणस्यैव ॥ प्स्भ्_4.19:13
* यस्माद् आह ॥ प्स्भ्_4.19:14
न कश्चिद् ब्राह्मणः पुनरावर्तते
* अत्र नकारोपदेशो ऽन्याचरणप्रतिपत्तिप्रतिषेधार्थः ॥ प्स्भ्_4.20:1
* कश्चिद् इति गृहस्थाद्यः ॥ प्स्भ्_4.20:2
* स्थानमात्रवैलक्षण्यदर्शनाद् ब्राह्मणेष्वेव कश्चिच् छब्दः ॥ प्स्भ्_4.20:3
* गृहस्थो ब्रह्मचारी वानप्रस्थो भिक्षुर् एकवेदो द्विवेदस् त्रिवेदश् चतुर्वेदो गायत्रीमात्रसारो वानेन विधिना रुद्रसमीपं प्राप्तः सन् न कश्चिद् ब्राह्मणः पुनरावर्तत इत्यर्थः ॥ प्स्भ्_4.20:4
* ब्राह्मणग्रहणं ब्राह्मण्यावधारणार्थं ब्राह्मण एव नान्य इत्यर्थः ॥ प्स्भ्_4.20:5
* क्षेत्रज्ञे च ब्राह्मणसंज्ञा ॥ प्स्भ्_4.20:6
* कस्मात् ॥ प्स्भ्_4.20:7
* उपचयजन्मयोगात् संस्कारयोगात् श्रुतयोगाच् च ब्राह्मणः ॥ प्स्भ्_4.20:8
* पुनःशब्दः पुनरावृत्तिप्रतिषेधे ॥ प्स्भ्_4.20:9
* यथा पूर्वसंज्ञानादिभिर् गत्वा आवर्तते पुनः पुनः तथानेन विधिना रुद्रसमीपं गत्वा न सकृदावर्तते ॥ प्स्भ्_4.20:10
* पुनः पुनः सर्वथापि नावर्तत इत्यर्थः ॥ प्स्भ्_4.20:11
* आङ् इति स्वशास्त्रोक्तमर्यादाम् अधिकुरुते अभिविध्यर्थं च ॥ प्स्भ्_4.20:12
* ये चानेन विधिनाक्षपिताज्ञानकलुषपापमायादयः क्षीणाः ते पुनः पुनरावर्तन्ते ॥ प्स्भ्_4.20:13
* न तैः सह संयोगो भवति ॥ प्स्भ्_4.20:14
* न चापरं जन्म प्रतिपद्यत इत्यर्थः ॥ प्स्भ्_4.20:15
* एवम् अध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम् ॥ प्स्भ्_4.20:16
अत्रेदं ब्रह्म जपेत्
* अस्य पूर्वोक्तोऽर्थः ॥ प्स्भ्_4.21:1
* आह किं पुनस्तद् ब्रह्म ॥ प्स्भ्_4.21:2
* तद् उच्यते कारणादिभावेनोक्तस्य भगवत एकत्वं साधको ज्ञात्वा तत्साधनम् आरभते ॥ प्स्भ्_4.21:3
तत्पुरुषाय विद्महे
* अत्र पूर्वं कारणत्वबहुत्वनानात्वेनोपदिष्टस्य परामर्शः तद् इति ॥ प्स्भ्_4.22:1
* पुरुष इति पौरुष्यानुपूरणाच् च पुरुषः ॥ प्स्भ्_4.22:2
* पौरुष्यमस्यानेकेषु रूपेष्ववस्थानात् ॥ प्स्भ्_4.22:3
* तत्संस्थानि रूपाणि अघोरादीनि ॥ प्स्भ्_4.22:4
* तत्पुरुषायेति चतुर्थी ॥ प्स्भ्_4.22:5
* यथा ग्रामाय तत्त्वं ज्ञातुमिच्छति तथा पुरुषाय तत्त्वं ज्ञातुमिच्छति ॥ प्स्भ्_4.22:6
* विद्मह इति ॥ प्स्भ्_4.22:7
* विद ज्ञाने ॥ प्स्भ्_4.22:8
* विद्महे जानीमहे उपलभामह इत्यर्थः ॥ प्स्भ्_4.22:9
* आह पुरुषबहुत्वात् संदेहः ॥ प्स्भ्_4.22:10
* अथ कतमस्मै पुरुषाय ॥ प्स्भ्_4.22:11
* तदुच्यते ॥ प्स्भ्_4.22:12
महादेवाय धीमहि
* अत्र महादेवत्वं च पूर्वोक्तम् महादेवायेति चतुर्थी ॥ प्स्भ्_4.23:1
* धीमहि इति ॥ प्स्भ्_4.23:2
* धीङ् संश्लेषणे ॥ प्स्भ्_4.23:3
* ध्यायेमहि लीयामहे ज्ञानक्रियाशक्तिभ्यां संयुज्यामह इत्यर्थः ॥ प्स्भ्_4.23:4
* अत्र धी इति ज्ञानशक्तिपर्यायः ॥ प्स्भ्_4.23:5
* यया सर्वपदार्थानां तत्त्वमधिगच्छति सा ज्ञानशक्तिः ॥ प्स्भ्_4.23:6
* महि इति क्रियाशक्तिपर्यायः ॥ प्स्भ्_4.23:7
* यया विधियोगाचरणसमर्थो भवति सा क्रियाशक्तिरित्यर्थः ॥ प्स्भ्_4.23:8
* आह अथैते दृक्क्रियाशक्ती महादेवात् साधकः किं स्वशक्तित आसादयति आहोस्वित् परशक्तितः उतोभयशक्तितः ॥ प्स्भ्_4.23:9
* तदुच्यते परशक्तितः ॥ प्स्भ्_4.23:10
* यस्मादाह ॥ प्स्भ्_4.23:11
तन् नो रुद्रः प्रचोदयात्
मूल पाठ: Pāśupatasūtra with Kauṇḍinya's Pañcārthabhāṣya · Edition: R. Anantakrishna Shastri Trivandrum: The Oriental Manuscripts Library of the University of Travancore, 1940 (Trivandrum Sanskrit Series ; 143) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0