भाषा

ENहिગુ
ग्रंथ पाठ

पाशुपतसूत्र (टीका सहित) · अध्याय 3

3.1

* अत्र मनःशब्देनान्तःकरणं तत्तन्त्रत्वाद् उदाहरणार्थत्वाच् च मनोग्रहणस्य उभयात्मकत्वाच् च मनसः सर्वकरणग्रहणानुग्रहणाच् च कार्यग्रहणमित्यतः कार्यकरणाधिष्ठातृत्वाच् च सकल इत्युपचर्यते ॥ प्स्भ्_2.27:1
* तथा चैतादृशमनसः प्रतिषेधादत्र कार्यकरणरहितो निष्कलो भगवान् अमन इत्युच्यते ॥ प्स्भ्_2.27:2
* तस्मात् सकलेतरानुग्राहकानादिशक्तिर् विद्यते ॥ प्स्भ्_2.27:3
* उक्तं हि । अपाणिपादोदरपार्श्वजिह्वः अतीन्द्रियो व्यापिस्वभावसिद्धः । पश्यत्य् अचक्षुः स शृणोत्यकर्णो न चास्त्यबुद्धं न च बुद्धिरस्ति । स वेत्ति सर्वं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् ॥ प्स्भ्_2.27:4
* इत्येतद् भगवत्यभ्यधिकत्वं शेषेषु च न्यूनत्वं च ज्ञात्वा युक्तं वक्तुं मनोऽमनाय नमः ॥ प्स्भ्_2.27:5
* मनोऽमनाय इति चतुर्थी ॥ प्स्भ्_2.27:6
* नमु इत्यात्मप्रदाने पूजायां च ॥ प्स्भ्_2.27:7
* सम्भावनान्यत्वाच् चापुनरुक्ताः सर्वे नमःशब्दा द्रष्टव्याः ॥ प्स्भ्_2.27:8
पाशुपतसूत्र, 3
अव्यक्तलिङ्गी

3.2

* इति ॥ प्स्भ्_3.1:1
* अत्र अकारो लिङ्गव्यक्तत्वं प्रतिषेधति ॥ प्स्भ्_3.1:2
* अवसितप्रयोजनः पूर्वोक्तैर् लिङ्गोपकरणैर् अनुस्नाननिर्माल्यैकवासाद्यैः प्रयोजनैर् विनिवृत्तैर् लोकतस् त्रिषु स्नानं कुर्वन्नपि ॥ प्स्भ्_3.1:3
* षडाश्रमलिङ्गानुपलब्धावनवधृतोक्तलिङ्गवद् अव्यक्ताः क्रियाः कार्याः ॥ प्स्भ्_3.1:4
* आह कया वा मर्यादया कस्मिन् वा काले सा क्रिया कर्तव्या ॥ प्स्भ्_3.1:5
* तद् उच्यते ॥ प्स्भ्_3.1:6
व्यक्ताचारः

3.3

* अत्र व्यक्तशब्दो दिवसमधिकुरुते ॥ प्स्भ्_3.2:1
* व्यक्ताः स्फुटाः प्रकाशाः ॥ प्स्भ्_3.2:2
* अहनीत्यर्थः ॥ प्स्भ्_3.2:3
* आङ् इत्य् अवमानादिनिष्पत्तिमर्यादाम् अधिकुरुते ॥ प्स्भ्_3.2:4
* चार इति क्राथनादीनाम् उद्देशः ॥ प्स्भ्_3.2:5
* तान् क्राथनादीन् साधको नटदवस्थितो रङ्गवल् लौकिकानधिजन्य नाटकवद् आचारानाचरति करोति प्रयुङ्क्त इत्यतोऽयं व्यक्ताचारः ॥ प्स्भ्_3.2:6
* आह अव्यक्तलिङ्गिनो व्यक्ताचारस्य का कार्यनिष्पत्तिः ॥ प्स्भ्_3.2:7
* तदुच्यते अवमानः ॥ प्स्भ्_3.2:8
* यस्मादाह ॥ प्स्भ्_3.2:9
अवमतः

3.4

* अत्र अव वर्जने ॥ प्स्भ्_3.3:1
* मानेन तेषां लिङ्गाचारज्ञानविधिविपरीतप्रवृत्तिं दृष्ट्वा सर्वदोषदुष्टोऽयमिति मानसाधेनावमाने यो जनः परिवर्जयतान्यतो ऽयमबहुमतत्वं प्राप्नोति ॥ प्स्भ्_3.3:2
* उक्तं च ॥ प्स्भ्_3.3:3
* अमृतस्येव लिप्सेत नैव मानं विचक्षणः । विषस्येव जुगुप्सेत सन्मानस्य सदा द्विजः ॥ प्स्भ्_3.3:4
* सुखं ह्य् अवमतः शेते सर्वसङ्गविवर्जितः । दोषान् परस्य न ध्यायेत् तस्य पापं सदा मुनिः ॥ प्स्भ्_3.3:5
* आह केष्वव्यक्तलिङ्गिना व्यक्ताचारेणावमतेन भवितव्यमिति ॥ प्स्भ्_3.3:6
* तदुच्यते ॥ प्स्भ्_3.3:7
सर्वभूतेषु

3.5

* अत्र सर्वभूतशब्दो वर्णाश्रमिषु द्रष्टव्यः ॥ प्स्भ्_3.4:1
* कस्मादुच्यते वर्णाश्रमिष्विति ॥ प्स्भ्_3.4:2
* भूतेषु इत्युक्तं नतु देवतिर्यग्योनिम्लेच्छादिषु ॥ प्स्भ्_3.4:3
* कस्मात् ॥ प्स्भ्_3.4:4
* व्यक्ताचारावमानदानादानविरोधात् ॥ प्स्भ्_3.4:5
* उक्तं हि । धन्यो देशो यत्र गावः प्रभूताः मेध्यं चान्नं पार्थिवा धर्मशीलाः । पुण्या नद्यः सर्वलोकोपभोग्यास् तांस् तान् देशान्सिद्धिकामो व्रजेत ॥ प्स्भ्_3.4:6
* भूतेषु इति सामीपिकं संनिधानम् ॥ प्स्भ्_3.4:7
* भूतसमीपे भूताभ्याशे भूतानामध्यक्ष इत्यर्थः ॥ प्स्भ्_3.4:8
* सामीपिकव्याख्यानेनावमानदेशादिस्पष्टतरत्वाद् अस्य विध्याचरणम् ॥ प्स्भ्_3.4:9
* असुरेषु इत्याचरणज्ञापकाच् च ॥ प्स्भ्_3.4:10
* आह अवमतेन सर्वभूतेषु किं कर्तव्यम् ॥ प्स्भ्_3.4:11
* तदुच्यते चरितव्यम् ॥ प्स्भ्_3.4:12
* यस्मादाह ॥ प्स्भ्_3.4:13
परिभूयमानश्चरेत्

3.6

* अत्र परि सर्वतोभावे ॥ प्स्भ्_3.5:1
* पगक्ष्याः परीक्ष्या इत्यर्थः ॥ प्स्भ्_3.5:2
* भूय इति बहुधा ॥ प्स्भ्_3.5:3
* यष्टिमुष्ट्यादिभिः संयोजनं परिभवः ॥ प्स्भ्_3.5:4
* कायिक इत्यर्थः ॥ प्स्भ्_3.5:5
* मान इति साधककालकर्माभिधाने ॥ प्स्भ्_3.5:6
* परिभूयमानेनैव ॥ प्स्भ्_3.5:7
* स परिभवो दरिद्रपुरुषराजाभिषेक इव द्रष्टव्यः ॥ प्स्भ्_3.5:8
* कनकपाषाणवद् इन्द्रकीलकवच् च भवितव्यम् ॥ प्स्भ्_3.5:9
* चरेद् इत्यर्जनमधिकुरुते ॥ प्स्भ्_3.5:10
* धर्मार्जने नियोगे च निन्दित इति गर्हिताभ्याख्याने चरितव्यमित्यर्थः ॥ प्स्भ्_3.5:11
* आह अवमतस्य परिभूयमानस्याचरतः किं तापशान्तिरेव उत शुद्धिर् अप्यस्ति ॥ प्स्भ्_3.5:12
* उच्यते अस्ति ॥ प्स्भ्_3.5:13
* यस्मादाह ॥ प्स्भ्_3.5:14
अपहतपाप्मा

3.7

* भवतीति वाक्यशेषो वचनाधिकाराद् गम्यते ॥ प्स्भ्_3.6:1
* अत्र अप वर्जने आघाते नाशे च ॥ प्स्भ्_3.6:2
* अपहता अन्यतनष्टा इत्यर्थः ॥ प्स्भ्_3.6:3
* पाप्मानोऽत्र द्विविधाः सुलक्षणाः दुःखलक्षणाश्च ॥ प्स्भ्_3.6:4
* तत्र सुखलक्षणाः उन्मादः मदः मोहः निद्रा आलस्यं कोणता अलिङ्गः नित्यमसद्वादित्वं बहुभोजनमित्येवमाद्याः ॥ प्स्भ्_3.6:5
* तथा दुःखलक्षणाःशिरोरोगदन्तरोगाक्षिरोगाद्याः ॥ प्स्भ्_3.6:6
* एवमेते पाप्मान आत्मगताः कायकरणेष्व् आदर्शप्रतिरूपकवदभिव्यक्ताः ॥ प्स्भ्_3.6:7
* कृत्स्नाः अपहताः पाप्मानः सो ऽयमपहतपाप्मा भवतीत्यर्थः ॥ प्स्भ्_3.6:8
* आह किमवमानः परिभवश्च कायिकं मानसं साधनद्वयमेवास्य पापक्षयशुद्धिहेतुः आहोस्विद् वाचिकमप्यस्ति नेति ॥ प्स्भ्_3.6:9
* उच्यते यस्मादाह ॥ प्स्भ्_3.6:10
परेषां परिवादात्

3.8

* अत्र परा नाम स्वपरसमयाधिकृता ये अवमानादिभिः संयोजयन्ति तेषाम् ॥ प्स्भ्_3.7:1
* परेषाम् इति षष्ठीबहुवचनम् ॥ प्स्भ्_3.7:2
* आह स्वपरवाक्यावमानादिभिः शुद्धिरेवास्य न तु वृद्धिः ॥ प्स्भ्_3.7:3
* सा च साधकस्य फलाभिधानाद् अतिदानादिष्वित्युच्यते न पूर्वकृतसुकृतदानविवक्षया ॥ प्स्भ्_3.7:4
* परि इति च सर्वतोभावे ॥ प्स्भ्_3.7:5
* वद वादः ॥ प्स्भ्_3.7:6
* अव्यक्तोऽयं प्रेतोऽयम् उन्मत्तोऽयं मूढोऽयं मूर्खोऽयं निद्राविष्टो वायुरुद्धोऽयं दुष्काम्य् असम्यक्कारी असम्यग्वादी इत्येवमुग्रैर्वचोभिर् अभिघ्नन्तीति वादाः ॥ प्स्भ्_3.7:7
* वादाद् इति निमित्तपञ्चमी द्रष्टव्या ॥ प्स्भ्_3.7:8
* तस्मादवमानादिभिः परान् संयोजयता स्वयमेवात्मा संयोक्तव्यः ॥ प्स्भ्_3.7:9
* अन्यथा पाशमात्रः स्यादिति ॥ प्स्भ्_3.7:10
* पाप्मनां वा जानपदेशात् संदेहः ॥ प्स्भ्_3.7:11
* कस्य कार्यं पाप्मनः ॥ प्स्भ्_3.7:12
* कथं वा तेषां कार्यकरणेष्वभिव्यक्तानां परसमुत्थैरवमानादिभिर्निर्घातनं भवति ॥ प्स्भ्_3.7:13
* तदुच्यते ॥ प्स्भ्_3.7:14
* यस्मादाह ॥ प्स्भ्_3.7:15
पापं च तेभ्यो ददाति

3.9

* अत्र पापम् इत्यधर्मपर्यायः ॥ प्स्भ्_3.8:1
* तद्यथा । आगोऽपरागो मुसलं दुरितं दुष्कृतं तरून् । पापं पाप्मानं वृजिनं स्तेयम् ॥ प्स्भ्_3.8:2
* इत्येकार्थवाचकाः शब्दाः ॥ प्स्भ्_3.8:3
* इह चोक्तं पापमिति ॥ प्स्भ्_3.8:4
* पापं च कस्मात् ॥ प्स्भ्_3.8:5
* पावकपासकत्वात् पापम् ॥ प्स्भ्_3.8:6
* पावयति यस्मात् शिरोरोगदन्तरोगाक्षिरोगादिभिः पातयति नरकादिषु पासयति वानिष्टाभिः कार्यकरणाख्याभिः कलाभिरिति ॥ प्स्भ्_3.8:7
* अतः पावकपातकपासकत्वात् पापम् ॥ प्स्भ्_3.8:8
* एवंच बीजाङ्कुरवत् पापपाप्मनां हेतुहेतुमत्त्वोपनयो द्रष्टव्यः ॥ प्स्भ्_3.8:9
* बीजपापप्रसवाः पाप्मान इत्यर्थः ॥ प्स्भ्_3.8:10
* तेभ्य इति चतुर्थी सम्प्रदानार्था ॥ प्स्भ्_3.8:11
* अथ एवमवमानादिभिः संयोजयन्ति तेभ्यो ददाति प्रयच्छति संक्रामयतीत्यर्थः ॥ प्स्भ्_3.8:12
* आह किमवमानादिभिः शुद्धिरेवास्य न तु वृद्धिरिति ॥ प्स्भ्_3.8:13
* तदुच्यते वृद्धिरप्यस्ति ॥ प्स्भ्_3.8:14
* यस्मादाह ॥ प्स्भ्_3.8:15
सुकृतं च तेषामादत्ते

3.10

* अत्र सु प्रशंसायाम् ॥ प्स्भ्_3.9:1
* कृतम् इति धर्मपर्यायः ॥ प्स्भ्_3.9:2
* चशब्दः शुद्धिसमुच्चयार्थः पूर्वधर्मनियोगार्थश्च ॥ प्स्भ्_3.9:3
* तेषाम् इति ॥ प्स्भ्_3.9:4
* ये अवमानादिभिः संयोजयन्ति तेषामित्यर्थः ॥ प्स्भ्_3.9:5
* तेषामिति षष्ठीग्रहणमनभिव्यक्तस्य कृत्स्नस्यादानज्ञापनार्थम् ॥ प्स्भ्_3.9:6
* आदत्ते ॥ प्स्भ्_3.9:7
* आ ग्रहणे ॥ प्स्भ्_3.9:8
* स्वात्मनि करोति विषमं वा इहातुरवदित्यर्थः ॥ प्स्भ्_3.9:9
* आह अतिदानाद्यतितपोवद् अवमानादिसाधनं गुणवचनं किमस्ति नेति ॥ प्स्भ्_3.9:10
* उच्यते अस्ति ॥ प्स्भ्_3.9:11
* यस्मादाह ॥ प्स्भ्_3.9:12
तस्मात्

3.11

* इति । अत्र तस्माच्छब्दः अवमानादिसाधनगुणवचने ॥ प्स्भ्_3.10:1
* कथम् ॥ प्स्भ्_3.10:2
* यस्मादवमानादिभिः पापपाप्मनां क्षये शुद्धिः सुकृतादाने च वृद्धिर्भवति ॥ प्स्भ्_3.10:3
* यस्माच् च तन्निष्ठालौकिकशरीरेन्द्रियविषयादिप्रापकः ऐकान्तिकात्यन्तिकरुद्रसमीपप्राप्तिर् एकान्तेनात्यन्तिकी भवति ॥ प्स्भ्_3.10:4
* अतो ब्रवीति तस्मादिति ॥ प्स्भ्_3.10:5
* आह अथैतद् अवमानादिसाधनमेव कर्तव्यम् ॥ प्स्भ्_3.10:6
* किं वा अव्यक्तावस्थानैव चरितव्यम् ॥ प्स्भ्_3.10:7
* तदुच्यते न ॥ प्स्भ्_3.10:8
* यस्मादाह ॥ प्स्भ्_3.10:9
प्रेतवच् चरेत्

3.12

* अत्र पुरुषाख्यः प्रेतः न मृताख्यः ॥ प्स्भ्_3.11:1
* कस्मात् ॥ प्स्भ्_3.11:2
* आचरणोपदेशात् ॥ प्स्भ्_3.11:3
* वद् इति किंचिदुपमा ॥ प्स्भ्_3.11:4
* उन्मत्तसदृशदरिद्रपुरुषस्नातमलदिग्धाङ्गेन रूढश्मश्रुनखरोमधारिणा सर्वसंस्कारवर्जितेन भवितव्यम् ॥ प्स्भ्_3.11:5
* अतो वर्णाश्रमव्युच्छेदो वैराग्योत्साहश्च जायते ॥ प्स्भ्_3.11:6
* प्रयोजननिष्पत्तिश्च भवति अवमानादि ॥ प्स्भ्_3.11:7
* चरेद् इत्याज्ञामधिकुरुते ॥ प्स्भ्_3.11:8
* धर्मार्जने नियोगे च ॥ प्स्भ्_3.11:9
* संशयान्यत्वाच् चापुनरुक्तोऽयं चरशब्दो द्रष्टव्यः ॥ प्स्भ्_3.11:10
* आह चरतोऽस्य के क्रियाविशेषाः ॥ प्स्भ्_3.11:11
* का वार्थनिष्पत्तिः ॥ प्स्भ्_3.11:12
* आचाराणां वा को विस्तारः ॥ प्स्भ्_3.11:13
* तदुच्यते ॥ प्स्भ्_3.11:14
क्राथेत वा

3.13

* अत्र यदा प्राप्तज्ञानः क्षीणकलुषश्च कृताभ्यनुज्ञः तदा आचार्यसकाशान् निष्क्रम्यागत्य प्रत्यगारं नगरं वा प्रविश्य यत्र लौकिकानां समूहस्तत्र तेषां नातिदूरे नातिसंनिकर्षे यत्र च तेषां नोपरोधो दृष्टिनिपातश्च भवति तत्र हस्त्यश्वरथपदातीनां पन्थानं वर्जयित्वोपविश्य निद्रालिङ्गशिरश्चलितजृम्भिकादीनि प्रयोक्तव्यानि ॥ प्स्भ्_3.12:1
* तत्रैवानेनासुप्तेन सुप्त इव भवितव्यम् ॥ प्स्भ्_3.12:2
* ततः प्राणरेचनस्य वायोः कण्ठदेशे पुरुपुरुशब्दः कर्तव्यः ॥ प्स्भ्_3.12:3
* ततस्ते मनसा वा वाचा वा निद्राविष्टोऽयमिति लौकिकाः प्रपद्यन्ते परिभवन्ति च ॥ प्स्भ्_3.12:4
* अनेनानृताभियोगेनास्य यत् तेषां सुकृतं तदागच्छति ॥ प्स्भ्_3.12:5
* अस्यापि च यत् पापं तत् तान् प्रति ॥ प्स्भ्_3.12:6
* एवं क्राथनम् इति क्रिया ॥ प्स्भ्_3.12:7
* इत इत्य् अभियजन आज्ञायां नियोगे च ॥ प्स्भ्_3.12:8
* वाशब्दः क्राथनस्पन्दनादिविभागे द्रष्टव्यः ॥ प्स्भ्_3.12:9
* आह अविभक्ताभिधानादेव क्राथनस्पन्दनादीनां विभागसिद्धिः हसितादिवत् ॥ प्स्भ्_3.12:10
* कस्माद् भाविवचनं भवति ॥ प्स्भ्_3.12:11
* उच्यते पृथगभिधाने सत्यपि हसितगीतनृत्यवत् संदेहः ॥ प्स्भ्_3.12:12
* पृथगभिधाने सत्यपि हसितगीतयोः पृथक् पृथक् प्रयोगः ॥ प्स्भ्_3.12:13
* अत्र विभक्तयोस्तु गीतनृत्ययोः ॥ प्स्भ्_3.12:14
* अध्ययनयन्त्रणयोश्च ॥ प्स्भ्_3.12:15
* तस्मात् पृथगभिधानमनुरतो वा विभागे भवतान्यदोषः ॥ प्स्भ्_3.12:16
* ततः क्राथनक्रिययावमानादिषु निष्पन्नेषु क्राथनादि संसृष्टं समुत्सृज्य शीघ्रमुत्थातव्यम् ॥ प्स्भ्_3.12:17
* यथा लौकिकानां सम्प्रत्ययो भवति किमप्यनेन स्वप्नान्तरे भयं दृष्टमिति ॥ प्स्भ्_3.12:18
* अत उत्थाय शिरःपाण्यादीनामन्यतमं स्पन्दितव्यम् ॥ प्स्भ्_3.12:19
* यस्मादाह ॥ प्स्भ्_3.12:20
स्पन्देत वा

3.14

* अत्र स्पन्दनमिति ज्ञानेच्छामधिकुरुते ॥ प्स्भ्_3.13:1
* कस्मात् ॥ प्स्भ्_3.13:2
* ज्ञानेच्छाप्रयत्नपूर्वकं शरीरावयवाः स्पन्दयितव्याः ॥ प्स्भ्_3.13:3
* द्रष्टारो हि वायुसंसृष्टो ऽयमिति लौकिकाः प्रतिपद्यन्ते परिभवन्ति च ॥ प्स्भ्_3.13:4
* अनेनानृताभियोगेनास्य तत्पुण्यमागच्छति अस्यापि च यत् पापं तान् गच्छति ॥ प्स्भ्_3.13:5
* एवं स्पन्दनम् इति क्रिया ॥ प्स्भ्_3.13:6
* इत इत्य् अभियजन आज्ञायां नियोगे च ॥ प्स्भ्_3.13:7
* एवमादिसाधने सति वा विकल्पे रौद्रीबहुरूपीवत् ॥ प्स्भ्_3.13:8
* अवस्थानक्राथनोत्थानस्पन्दनादौ वाशब्दो द्रष्टव्यः ॥ प्स्भ्_3.13:9
* आह अभिप्रस्थितस्य धर्मसाधनं किमस्ति नेति ॥ प्स्भ्_3.13:10
* उच्यते अस्ति ॥ प्स्भ्_3.13:11
* यस्मादाह ॥ प्स्भ्_3.13:12
मण्टेत वा

3.15

* वेति पादवैकल्यमधिकुरुते ॥ प्स्भ्_3.14:1
* मण्टने च प्रयुक्ते वक्तारो वदन्त्युपहतम् अस्य पादेन्द्रियम् ॥ प्स्भ्_3.14:2
* कृत्स्नस्याशुभस्य च वृत्तिर् अस्मिञ्छरीरे उपलभ्यते ॥ प्स्भ्_3.14:3
* उक्तं हि । दारिद्र्यं व्याधिभूयिष्ठता मूर्खत्वं चारूपता भ्रंशतापि । देहोत्पत्तिर्वर्णहीने कुले वा प्रत्यादेशः कर्मणां दुष्कृतानाम् ॥ प्स्भ्_3.14:4
* द्रष्टारो हि उपहतपाद इति प्रपद्यन्ते परिभवन्ति च ॥ प्स्भ्_3.14:5
* अनेनानृताभियोगेन यत् तेषां सुकृतं तदस्यागच्छति ॥ प्स्भ्_3.14:6
* अस्यापि च यत् पापं तान् गच्छति ॥ प्स्भ्_3.14:7
* एवं मण्टनम् इति क्रिया ॥ प्स्भ्_3.14:8
* इत इत्यभियजने आज्ञायां नियोगे च ॥ प्स्भ्_3.14:9
* वाशब्दः क्राथनस्पन्दनमण्टनादिविभागे द्रष्टव्यः ॥ प्स्भ्_3.14:10
* आह स्त्रीष्वधिकारिकर्मसाधनं किमस्ति नेति ॥ प्स्भ्_3.14:11
* उच्यते अस्ति ॥ प्स्भ्_3.14:12
* यस्मादाह ॥ प्स्भ्_3.14:13
शृङ्गारेत वा

3.16

* अत्र शृङ्गारणमिति भावप्रसादमधिकुरुते ॥ प्स्भ्_3.15:1
* कथम् ॥ प्स्भ्_3.15:2
* स्त्रीजनसमूहस्यानुपरोधे नातिदूरे नातिसंनिकर्षे अधिदृष्टिनिपाते स्थित्वैकां रूपयौवनसम्पन्नां स्त्रियम् अधिकृत्यालोचनसंकल्पाध्यवसायाभिमानादयः प्रयोक्तव्याः ॥ प्स्भ्_3.15:3
* अयुक्ता चेच्छावलोके हि सति केशसंयमनादीनि कामलिङ्गानि प्रयोक्तव्यानि ॥ प्स्भ्_3.15:4
* ततः स्त्रीपुंनपुंसकादयो वक्तारो वदन्त्यब्रह्मचारी काम्ययमिति ॥ प्स्भ्_3.15:5
* अनेनानृताभियोगेनास्य यत् तेषां सुकृतं तदागच्छति अस्यापि यत् पापं तत् तेषां गच्छत्येव ॥ प्स्भ्_3.15:6
* शृङ्गारणम् इति क्रिया ॥ प्स्भ्_3.15:7
* इत इत्यभियजने आज्ञायां नियोगे च वाशब्दः क्राथनस्पन्दनमण्टनशृङ्गारणादिक्रियान्तराणां विकल्पे ॥ प्स्भ्_3.15:8
* क्रियान्यत्वाच् चापुनरुक्तोऽयं वाशब्दो द्रष्टव्यः ॥ प्स्भ्_3.15:9
* आह क्राथनादिक्रियाचतुष्कं यस्य नास्ति तस्य सामान्यत्वात् ॥ प्स्भ्_3.15:10
* उक्तं हि । ये हि वै दीक्षितं यजमानं पृष्ठतोऽपवदन्ति ते तस्य पाप्मानमभिव्रजन्ति ॥ प्स्भ्_3.15:11
* पृष्ठतः पदमग्रतः पार्श्वतश्च योज्यम् ॥ प्स्भ्_3.15:12
* तस्मात् क्राथेत वा स्पन्देत वा मण्टेत वा शृङ्गारेत वा ॥ प्स्भ्_3.15:13
* कस्मात् ॥ प्स्भ्_3.15:14
* अतियजनादिविशेषितत्वात् ॥ प्स्भ्_3.15:15
* कस्मात् ॥ प्स्भ्_3.15:16
* सर्वज्ञवचनाद् अर्थाविसंवादित्वाच् च लोकापरिग्रहाभावः ॥ प्स्भ्_3.15:17
* आह क्रियाचतुष्कमेवात्र कर्तव्यमिति ॥ प्स्भ्_3.15:18
* उच्यते न ॥ प्स्भ्_3.15:19
* यस्मादाह ॥ प्स्भ्_3.15:20
अपितत्कुर्यात्

3.17

* अत्र अपिशब्दः क्राथनादिसर्वक्रियासमुच्चयवचने ॥ प्स्भ्_3.16:1
* तद् इति अनैकान्ते ॥ प्स्भ्_3.16:2
* कुर्याद् इति कुशलां हासवृत्तिमधिकुरुते ॥ प्स्भ्_3.16:3
* यमानामविरोधिनां शुविरूपकाणां द्रव्याणां काष्ठलोष्टादीनां ग्रहणधारणसंस्पर्शनादीनि कर्तव्यानि ॥ प्स्भ्_3.16:4
* ततस्ते वक्तारो वदन्ति असम्यक्कारी शुच्यशुच्योः कार्याकार्ययोर् अविभागज्ञ इति ॥ प्स्भ्_3.16:5
* अनेनानृताभियोगेनास्य धर्माधर्मयोश्च हानादानशुद्धिर्भवति ॥ प्स्भ्_3.16:6
* आह किं क्रियापञ्चकमेवात्र कर्तव्यम् ॥ प्स्भ्_3.16:7
* तदुच्यते न ॥ प्स्भ्_3.16:8
* यस्मादाह ॥ प्स्भ्_3.16:9
अपितद्भाषेत्

3.18

* अत्र अपिशब्दः सर्वेन्द्रियवृत्त्यपादानसम्भावने ॥ प्स्भ्_3.17:1
* तद् इति अनैकान्ते ॥ प्स्भ्_3.17:2
* भाषेद् इति वाक्यवृत्तिमधिकुरुते ॥ प्स्भ्_3.17:3
* इत्पदम् अपार्थकं पुनरुक्तं व्याहतं भाषितव्यमिति ॥ प्स्भ्_3.17:4
* ततस्ते वक्तारो वदन्ति असम्यग्वादी वाच्यावाच्ययोर् अविभागज्ञ इति ॥ प्स्भ्_3.17:5
* अनेनानृताभियोगेनास्य धर्माधर्मयोस् त्यागादानशुद्धिर्भवति ॥ प्स्भ्_3.17:6
* आह किं हसितादिवद् यथापाठक्रमेणैव क्राथनादयः प्रयोक्तव्याः ॥ प्स्भ्_3.17:7
* किं वा प्रयोजनं कर्तव्यम् ॥ प्स्भ्_3.17:8
* तदुच्यते परिभवादिनिष्पत्त्यर्थम् ॥ प्स्भ्_3.17:9
* यस्मादाह ॥ प्स्भ्_3.17:10
येन परिभवं गच्छेत्

3.19

* अत्र यच्छब्दः अतिक्रान्तापेक्षणे वीप्सायां च ॥ प्स्भ्_3.18:1
* परिभवः पूर्वोक्तः ॥ प्स्भ्_3.18:2
* गच्छेद् इत्यवमानपरिभवपरिवादाः प्राप्तव्या इत्यर्थः ॥ प्स्भ्_3.18:3
* एवमत्र व्यक्ताचारसमासोक्तानां क्राथनादीनामाचाराणां विस्तरविभागविशेषोपसंहारादयश् च व्याख्याता इत्यर्थः ॥ प्स्भ्_3.18:4
* आह कियन्तं कालं परिभवादयः प्राप्तव्याः ॥ प्स्भ्_3.18:5
* कीदृशेन वा ॥ प्स्भ्_3.18:6
* तदुच्यते ॥ प्स्भ्_3.18:7
परिभूयमानो हि विद्वान् कृत्स्नतपा भवति

3.20

* अत्र परि सर्वतोभावे ॥ प्स्भ्_3.19:1
* भूय इत्यनेकशोऽवमानादयः प्राप्तव्याः ॥ प्स्भ्_3.19:2
* मान इत्यस्य पूर्वोक्तोऽर्थः ॥ प्स्भ्_3.19:3
* हिशब्दः कृत्स्नतपौत्कर्षे ॥ प्स्भ्_3.19:4
* उत्कर्षापेक्षो द्रष्टव्यः ॥ प्स्भ्_3.19:5
* विद्या नाम या ग्रन्थार्थवर्तिपदार्थानाम् अभिव्यञ्जिका विप्रत्वलक्षणा ॥ प्स्भ्_3.19:6
* न्यायात् पदार्थानाम् अधिगतप्रत्ययो लाभमलोपायाभिज्ञः विद्वानित्युच्यते ॥ प्स्भ्_3.19:7
* कृत्स्नमिति प्रयोगप्राप्तौ पर्याप्तिमधिकुरुते न तु हर्षादिप्राप्ताव् इत्यर्थः ॥ प्स्भ्_3.19:8
* कृत्स्नतपाः पर्याप्ततपाः साधक इत्यर्थः ॥ प्स्भ्_3.19:9
* भवति इति भूतार्थवादो निःसंशयम् ॥ प्स्भ्_3.19:10
* यदा यमनियमेषु दृढो भूत्वा क्राथनादीन् प्रयुङ्क्ते तदा कृत्स्नतपा भवति ॥ प्स्भ्_3.19:11
* कृत्स्नस्य तपसो लक्षणमात्मप्रत्यक्षं वेदितव्यम् ॥ प्स्भ्_3.19:12
* एवमध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम् ॥ प्स्भ्_3.19:13
अत्रेदं ब्रह्म जपेत्

3.21

* इति ॥ प्स्भ्_3.20:1
* अस्य पूर्वोक्तोऽर्थः ॥ प्स्भ्_3.20:2
* किंपुनस्तद् ब्रह्मेति ॥ प्स्भ्_3.20:3
* तदुच्यते ॥ प्स्भ्_3.20:4
अघोरेभ्यः

3.22

* अथवा ब्रह्मणा सह ब्रह्मसम्बन्धो भवति ॥ प्स्भ्_3.21:1
* कथम् ॥ प्स्भ्_3.21:2
* मनोग्रहणाद् रूपादिविहीना अर्थाः ॥ प्स्भ्_3.21:3
* किं तानि सुरूपाणि सलक्षणानि विलक्षणानि उत सलक्षणविलक्षणानीति ॥ प्स्भ्_3.21:4
* किं परिमितानि उत अपरिमितानि उत परिमितापरिमितानि ॥ प्स्भ्_3.21:5
* उच्यते कारणत्वबहुत्वेनोक्तस्य भगवतो रूपनानात्वं वैलक्षण्यावैलक्षण्यं परिमितापरिमितत्वं चोच्यते अघोरेभ्यः ॥ प्स्भ्_3.21:6
* अकारो रूपाणां घोरत्वं प्रतिषेधति ॥ प्स्भ्_3.21:7
* अघोराण्यतिशान्तानि अनुग्रहकराणीत्यर्थः ॥ प्स्भ्_3.21:8
* एभ्य इत्यपरिमितापरिसंख्यातेभ्य इत्यर्थः ॥ प्स्भ्_3.21:9
* आह किमेतान्येव एभ्य एव वा ॥ प्स्भ्_3.21:10
* तदुच्यते न ॥ प्स्भ्_3.21:11
* यस्मादाह ॥ प्स्भ्_3.21:12
अथ घोरेभ्यः

3.23

* अत्र अथशब्दो घोररूपोपाधिको द्रष्टव्यः घोराणि अशिवानि अशान्तानि अननुग्रहकारीणीत्यर्थः ॥ प्स्भ्_3.22:1
* एभ्य इत्यपरिमितापरिसंख्यातेभ्य इत्यर्थः ॥ प्स्भ्_3.22:2
* आह किमेतान्येव द्विसंस्थानसंस्थेभ्य एव वा ॥ प्स्भ्_3.22:3
* उच्यते यस्मादाह ॥ प्स्भ्_3.22:4
घोरघोरतरेभ्यश्च

3.24

* अत्र घोर इत्येतद् भगवतो नामधेयम् ॥ प्स्भ्_3.23:1
* द्वितीयो घोरशब्दो रूपेषु द्रष्टव्यः ॥ प्स्भ्_3.23:2
* तर विशेषणे ॥ प्स्भ्_3.23:3
* शानतरादिवत् ॥ प्स्भ्_3.23:4
* तेभ्यो घोरेभ्यो ऽघोरेभ्यश्च यान्यन्यानि पशूनां सम्मोहकराणि तानि घोरतराणीत्यर्थः ॥ प्स्भ्_3.23:5
* एभ्य इत्यपरिमितासंख्यातेभ्य इत्यर्थः ॥ प्स्भ्_3.23:6
* चशब्दो घोराघोररूपोपसंहारे द्रष्टव्यः ॥ प्स्भ्_3.23:7
* एतान्येव त्रिसंख्यानि रूपाणि नान्यानीत्यर्थः ॥ प्स्भ्_3.23:8
* आह कुतस्तानि रूपाणि करोति ॥ प्स्भ्_3.23:9
* कुत्रस्थानि वा ॥ प्स्भ्_3.23:10
* तदुच्यते ॥ प्स्भ्_3.23:11
सर्वेभ्यः

3.25

* अत्र यानि रूपकारणे ॥ प्स्भ्_3.24:1
* सर्वत्वं कस्मात् ॥ प्स्भ्_3.24:2
* सर्वत्रानवकाशदोषात् सूच्यग्रे द्विनाभीयबदरवत् ॥ प्स्भ्_3.24:3
* किंतु कारणशक्तेर् अव्याहतत्वाच् च ॥ प्स्भ्_3.24:4
* सर्वत्र तानीत्यर्थः ॥ प्स्भ्_3.24:5
* आह रूपकरणे करणेष्वस्याप्रतिघात इति क्व सिद्धम् ॥ प्स्भ्_3.24:6
* तदुच्यते इह ॥ प्स्भ्_3.24:7
* यस्मादाह ॥ प्स्भ्_3.24:8
शर्वसर्वेभ्यः

3.26

* अत्र शर्व इत्येतद् भगवतो नामधेयम् ॥ प्स्भ्_3.25:1
* शर्वः कस्मात् ॥ प्स्भ्_3.25:2
* विद्यादिकार्यस्य शरणाच्छर्व इत्युच्यते ॥ प्स्भ्_3.25:3
* सर्वं विद्यादिकार्यं रुद्रस्थम् ॥ प्स्भ्_3.25:4
* सर्वस्मिंश्च भगवांश्चोदकः कारणत्वेन सर्वत्र ॥ प्स्भ्_3.25:5
* सर्वशब्दः त्रिसंख्येष्वपि एषु निरवशेषवाची द्रष्टव्यः ॥ प्स्भ्_3.25:6
* एभ्य इत्यपरिमितासंख्येभ्य इत्यर्थः ॥ प्स्भ्_3.25:7
* आह अथैतां रूपविभूतिं ज्ञात्वा साधकेन किं कर्तव्यम् ॥ प्स्भ्_3.25:8
* तदुच्यते ॥ प्स्भ्_3.25:9
नमस्ते अस्तु रुद्ररूपेभ्यः

मूल पाठ: Pāśupatasūtra with Kauṇḍinya's Pañcārthabhāṣya · Edition: R. Anantakrishna Shastri Trivandrum: The Oriental Manuscripts Library of the University of Travancore, 1940 (Trivandrum Sanskrit Series ; 143) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc