पाशुपतसूत्र (टीका सहित) · अध्याय 5
* तद् इति दृक्क्रियाशक्त्योर्ग्रहणम् ॥ प्स्भ्_4.24:1
* न इत्यात्मापदेशे ॥ प्स्भ्_4.24:2
* अस्माकमित्यर्थः ॥ प्स्भ्_4.24:3
* रुद्र इति कारणापदेशे ॥ प्स्भ्_4.24:4
* रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ प्स्भ्_4.24:5
* प्र इत्यादिकर्मणि ॥ प्स्भ्_4.24:6
* चुद प्रेरणे ॥ प्स्भ्_4.24:7
* चोदनं नाम ज्ञानक्रियाशक्तिसंयोगः ॥ प्स्भ्_4.24:8
* याद् इति लिप्सा ॥ प्स्भ्_4.24:9
* संयोजयस्व मामित्यर्थः ॥ प्स्भ्_4.24:10
* उक्तं हि रुद्रस्येच्छापूर्वको यो योगो ज्ञानक्रियाशक्तिभ्यां पश्वादिषु सम्भवः तच्चोदनम् आहुर् आचार्याः ॥ प्स्भ्_4.24:11
पाशुपतसूत्र, 5
असङ्गः
* अत्र अकारः सङ्गप्रतिषेधे ॥ प्स्भ्_5.1:1
* अत्र सङ्गो नाम यदेतत् पुरुषे विषयित्वम् ॥ प्स्भ्_5.1:2
* तेन विषयित्वेन योगादधर्मेण चायं पुरुषो यदा अध्ययनध्यानादिभ्यश्च्यवति ॥ प्स्भ्_5.1:3
* दृष्टान्तश्रवणप्रेक्षणलक्षणो वनगजवत् त्रैकाल्यम् इत्य् अर्थः ॥ प्स्भ्_5.1:4
* असङ्गित्वम् अप्य् अतीतानागतवर्तमानानां विषयाणामनुचिन्तनं भिक्षुवत् ॥ प्स्भ्_5.1:5
* एवं महेश्वरे भावस्थितिस् तदसङ्गित्वमित्यर्थः ॥ प्स्भ्_5.1:6
* आह किम् असङ्गित्वम् एवैकमुक्तं नान्यल् लक्षणम् ॥ प्स्भ्_5.1:7
* उच्यते यस्मादाह ॥ प्स्भ्_5.1:8
योगी
* इति ॥ प्स्भ्_5.2:1
* अत्र योगो नामात्मेश्वरसंयोगो योगः प्रत्येतव्यः ॥ प्स्भ्_5.2:2
* उक्तं हि । शङ्खदुन्दुभिनिर्घोषैर् विविधैर् गतिवादितैः । क्रियमाणैर्न बुध्येत एतद् युक्तस्य लक्षणम् ॥ प्स्भ्_5.2:3
* इति ॥ प्स्भ्_5.2:4
* आह किं लक्षणद्वयमेवात्र युक्तस्योच्यते ॥ प्स्भ्_5.2:5
* न ॥ प्स्भ्_5.2:6
* यस्मादाह ॥ प्स्भ्_5.2:7
नित्यात्मा
* अत्र नित्यत्वविशेषणेनानित्यत्वं निवर्तते ॥ प्स्भ्_5.3:1
* नित्यत्वं नाम सति विभुत्वे पुरुषेश्वरयोर् मनसा सह गतस्यात्मताभावस्य वृत्त्याकारस्य विषयं प्रति क्रमो ऽक्षोपो ऽवस्थानं वृक्षशकुनिवत् ॥ प्स्भ्_5.3:2
* तस्मिन् निर्वृत्ते महेश्वरे युक्तो नित्य इत्युच्यते ॥ प्स्भ्_5.3:3
* आत्मा इति क्षेत्रज्ञमाह ॥ प्स्भ्_5.3:4
* कथं गम्यते ॥ प्स्भ्_5.3:5
* चित्तस्थित्युपदेशाद् योगार्थं विद्याचरणोपदेशाद् असङ्गयोगियुक्तात्माजमैत्रादीनां चेतने सम्भवात् न त्व् अचेतनेषु कार्यकरणप्रधानादिषु ॥ प्स्भ्_5.3:6
* तस्मिंश् चेतने आत्मशब्दः ॥ प्स्भ्_5.3:7
* आत्मा च कस्मात् ॥ प्स्भ्_5.3:8
* अततीत्यात्मा ॥ प्स्भ्_5.3:9
* आपूर्य कार्यकरणं विषयांश् चेतयतीत्य् आत्मा ॥ प्स्भ्_5.3:10
* उक्तं हि । यद् आप्नोति यद् आदत्ते यच् चात्ति विषयान् पुनः । यच् चास्य सततं भावः तस्मादात्मेति संज्ञितः ॥ प्स्भ्_5.3:11
* स च श्रोता स्प्रष्टा द्रष्टा रसयिता घ्राता मन्ता वक्ता बोद्धा इत्येवमादिः ॥ प्स्भ्_5.3:12
* उक्तं हि । पुरुषश् चेतनो भोक्ता क्षेत्रज्ञः पुद्गलो जनः । अणुर् वेदो ऽमृतः साक्षी जीवात्मा परिभूः परः ॥ प्स्भ्_5.3:13
* इति । तस्य सुखदुःखेच्छाद्वेषप्रयत्नचैतन्यादिभिर् लिङ्गैर् अधिगमः क्रियत इत्यर्थः ॥ प्स्भ्_5.3:14
* आह किं लक्षणत्रयमेवास्य युक्तस्योच्यते ॥ प्स्भ्_5.3:15
* न यस्मादाह ॥ प्स्भ्_5.3:16
अजः
* अत्र अज इत्यर्थान्तरप्रादुर्भावप्रतिषेधो ऽभिधीयते ॥ प्स्भ्_5.4:1
* अत्रार्थान्तरं नाम शब्दस्पर्शरूपरसगन्धान्तरम् अध्ययनध्यानस्मरणादयः ॥ प्स्भ्_5.4:2
* तेषु न जायत इति अजः ॥ प्स्भ्_5.4:3
* आह किं लक्षणचतुष्कमेवास्य युक्तस्योच्यते ॥ प्स्भ्_5.4:4
* न ॥ प्स्भ्_5.4:5
* यस्मादाह ॥ प्स्भ्_5.4:6
मैत्रः
* अत्र मैत्र इति समतायां भवति ॥ प्स्भ्_5.5:1
* यथा मैत्र आदित्यः ॥ प्स्भ्_5.5:2
* सर्वभूतस्थिते च महेश्वरे स्थितचित्तः इच्छाद्वेषविनिवृत्तो ऽप्रवृत्तिमान् मैत्र इत्युच्यते ॥ प्स्भ्_5.5:3
* तस्मात् कार्यकरणवान् एव चित्तस्थितिसमकालम् एवासङ्गादिभावेन जायते ॥ प्स्भ्_5.5:4
* आह अथ कथं पुनरेतद् गम्यते ॥ प्स्भ्_5.5:5
* यथा कार्यकरणवान् एव चित्तस्थितिसमकालम् एवासङ्गादिभावेन जायते ॥ प्स्भ्_5.5:6
* उच्यते गम्यते ॥ प्स्भ्_5.5:7
* यस्मादाह ॥ प्स्भ्_5.5:8
अभिजायते
* अत्र अभिशब्दो विशेषणे ॥ प्स्भ्_5.6:1
* को विशेष इति चेत् ॥ प्स्भ्_5.6:2
* तदुच्यते ॥ प्स्भ्_5.6:3
* यस्मादयं सङ्गी अयोगी अनित्यात्मा अनजो ऽमैत्रश् च भूत्वा असङ्गादिभावेन जायत इत्येष विशेषः ॥ प्स्भ्_5.6:4
* जायते इति ॥ प्स्भ्_5.6:5
* जनी प्रादुर्भावे ॥ प्स्भ्_5.6:6
* तस्मात् कार्यकरणवान् एव चित्तस्थितिसमकालम् एवासङ्गादिभावेन युगपज् जायते अवश्यादिवद् इत्यर्थः ॥ प्स्भ्_5.6:7
* असङ्गादिभावे को ऽसाव् अभ्युपायो येन जायते ॥ प्स्भ्_5.6:8
* उच्यते ॥ प्स्भ्_5.6:9
इन्द्रियाणामभिजयात्
* अत्र जितता जयः ॥ प्स्भ्_5.7:1
* तस्माज् जयाद् असङ्गतादि भवति ॥ प्स्भ्_5.7:2
* अत्र परिग्रहतयेश्वराणि इन्द्रियाणि बुद्ध्यादीनि वागन्तानि त्रयोदश करणानि ॥ प्स्भ्_5.7:3
* तेषाम् अभिजयाद् इत्यर्थः ॥ प्स्भ्_5.7:4
* आह कथं बुद्धिसिद्धिरिति चेत् ॥ प्स्भ्_5.7:5
* तदुच्यते सिद्धत्वात् ॥ प्स्भ्_5.7:6
* अत्र मतिबुद्धिपिधानस्थापनोद्देशाद् घटपटवत् सिद्धत्वाच् च बुद्धिः सिद्धा तथा परोपदेशात् स्वात्मपरात्मप्रतिविभागदर्शनात् सुरोऽहं नरोऽहमिति भिन्नवृत्तित्वाच् चाहंकारः सिद्धः ॥ प्स्भ्_5.7:7
* तथा मनः प्रवर्तते मनोजवी मनोऽमन इति संकल्पविकल्पवृत्तिनानात्वं च सिद्धम् ॥ प्स्भ्_5.7:8
* एवं त्रिकालवृत्त्यन्तःकरणं पुरुषस्य व्याख्यातम् ॥ प्स्भ्_5.7:9
* तथा बुद्धीन्द्रियाणां श्रोत्रं व्याख्यातम् ॥ प्स्भ्_5.7:10
* परपरिवादादिवचनाद् उच्चैरुभयथा प्रमुखे द्विर् अधिष्ठाने संनिविष्टं सामन्ताच्छब्दव्यञ्जनसमर्थं सिद्धम् ॥ प्स्भ्_5.7:11
* तथातितपोपदेशात् त्वग् अन्तर्बहिश्च शरीरं व्याप्य संनिविष्टा स्पर्शव्यञ्जनसमर्था सिद्धा ॥ प्स्भ्_5.7:12
* तथा मूत्रपुरीषदर्शनप्रतिषेधात् कृतान्नादिवचनाच् च चक्षुः उच्चैर् उभयथा प्रमुखे द्विर् अधिष्ठाने संनिविष्टं घटरूपादि व्यञ्जनसमर्थं सिद्धम् ॥ प्स्भ्_5.7:13
* तथा मांसलवणोपदेशाज् जिह्वा तन्मुखे मांसपेश्यां संनिविष्टा रसज्ञानजननसमर्था सिद्धा ॥ प्स्भ्_5.7:14
* तथा प्राणायामोपदेशाद् घ्राणं प्रमुखे उच्चैरुभयथा द्विर् अधिष्ठाने संनिविष्टं गन्धग्रहणसमर्थं सिद्धम् ॥ प्स्भ्_5.7:15
* एवमधिकारिवृत्तिभिर्बुध्यत्य् एभिः पुरुष इति बुद्धीन्द्रियाणि ॥ प्स्भ्_5.7:16
* तथा कर्मेन्द्रियाणि ॥ प्स्भ्_5.7:17
* मण्टनविहरणोपदेशात् पादेन्द्रियम् अधस्ताद् द्विर् अधिष्ठाने संनिविष्टं गमनक्रियासमर्थं सिद्धम् ॥ प्स्भ्_5.7:18
* तथा मूत्रपुरीषदर्शनप्रतिषेधात् पाय्विन्द्रियं गुह्यप्रदेशे संनिविष्टम् उत्सर्गक्रियासमर्थं सिद्धम् ॥ प्स्भ्_5.7:19
* तथा स्त्रीप्रतिषेधाद् उपस्थेन्द्रियं त्रिवलीगुह्यप्रदेशसंनिविष्टम् आनन्दक्रियासमर्थं सिद्धम् ॥ प्स्भ्_5.7:20
* तथा अपि तत्कर्मोपदेशात् हस्तेन्द्रियम् उच्चैरुभयथा द्विर् अधिष्ठाने भुजान्तर्देशे संनिविष्टम् आदानक्रियासमर्थं सिद्धम् ॥ प्स्भ्_5.7:21
* तथा अपि तद्भाषणोपदेशाद् वागिन्द्रियं वाक्तालुजिह्वादिषु स्थानेषु संनिविष्टं वचनक्रियासमर्थं सिद्धम् ॥ प्स्भ्_5.7:22
* अत्र विकारतद्वृत्तिभिः कर्मोत्पत्तिः पुरुषे इति कर्मेन्द्रियाणि एवमेतानि त्रयोदश करणानीन्द्रियाणि सूत्रतो व्याख्यातानि ॥ प्स्भ्_5.7:23
* कस्मात् ॥ प्स्भ्_5.7:24
* इन्द्रियाणामिति सामान्यग्रहणाद् विकरणवत् सामान्यप्रतिषेधाच् च ॥ प्स्भ्_5.7:25
* इन्द्रियाणाम् इति षष्ठीबहुवचनम् ॥ प्स्भ्_5.7:26
* उक्तं हि । आदानाद् ग्रहणात् त्यागाद् रङ्गणाद् गमनात् तथा । इङ्गनाद्रवणाच् चैव तस्माद् इन्द्रियमुच्यते ॥ प्स्भ्_5.7:27
* अभिजयाद् इति ॥ प्स्भ्_5.7:28
* अभिशब्दः अत्यन्तविजये वशीकरणे च ॥ प्स्भ्_5.7:29
* आक्रम्य वशीकर्तव्यानि ॥ प्स्भ्_5.7:30
* वायुकामक्रोधपाटलिपुत्रवत् ॥ प्स्भ्_5.7:31
* तस्माद् अकुशलेभ्यो व्यावर्तयित्वा कामतः कुशलं योजितानि तदा जितानि भवन्ति ॥ प्स्भ्_5.7:32
* तस्माद् उक्तम् इन्द्रियाणाम् अभिजयादिति असङ्गादिजन्मनिमित्तत्वात् पञ्चमी द्रष्टव्या ॥ प्स्भ्_5.7:33
* आह अन्यत्र सांख्ययोगादीनाम् असङ्गादियुक्ताः मुक्ताः शान्तिं प्राप्ताः ॥ प्स्भ्_5.7:34
* निरभिलप्या मुक्ता इत्युच्यन्ते मुक्त एव न युक्त इति क्व सिद्धम् ॥ प्स्भ्_5.7:35
* तदुच्यते इह यस्मादाह ॥ प्स्भ्_5.7:36
रुद्रः प्रोवाच तावत्
* तत्र रुद्र इति कारणापदेशे ॥ प्स्भ्_5.8:1
* रुद्रत्वं पूर्वोक्तम् ॥ प्स्भ्_5.8:2
* प्र इत्यभिधानविशुद्धौ ॥ प्स्भ्_5.8:3
* प्रसन्नेन्द्रियवत् ॥ प्स्भ्_5.8:4
* वच व्यक्तायां वाचि ॥ प्स्भ्_5.8:5
* प्रोवाच इति ॥ प्स्भ्_5.8:6
* एवं यत् सांख्यं योगश्च वर्णयति असङ्गादियुक्ताः मुक्ताः शान्तिं प्राप्ता इति तदविशुद्धं तेषां दर्शनम् ॥ प्स्भ्_5.8:7
* तैमिरिकस्य चक्षुषश् चन्द्रदर्शनवत् ॥ प्स्भ्_5.8:8
* अयं तु युक्त एव न मुक्त इति विशुद्धमेतद्दर्शनं द्रष्टव्यम् ॥ प्स्भ्_5.8:9
* कस्मात् ॥ प्स्भ्_5.8:10
* सर्वज्ञवचनाद् अविसंवादित्वाच् चैतद् गम्यम् ॥ प्स्भ्_5.8:11
* एवम् एतन् नान्यथेत्यर्थः ॥ प्स्भ्_5.8:12
* किंचान्यद् इदम् अथशब्दादि शिवान्तं प्रवचनं रुद्रप्रोक्तं तावत् सर्वतन्त्राणां श्रेष्ठम् ॥ प्स्भ्_5.8:13
* तस्मात् कारणशास्त्रयोः परप्रमाणभावो ऽवधार्यत इत्यर्थः ॥ प्स्भ्_5.8:14
* अत्र श्लोको निर्वचनः ॥ प्स्भ्_5.8:15
* आह किम् एतानीन्द्रियाणि परिज्ञानमात्राद् एव जितानि भवन्ति प्रधानवत् ॥ प्स्भ्_5.8:16
* तदुच्यते न ज्ञानेन वचनादिभिरेषां जयः कर्तव्यः यस्मादेषां जये भगवता वसत्यर्थवृत्तिबलक्रियालाभाय वसता इत्यतस् तज्जये वसत्यर्थ एव तावद् उच्यते ॥ प्स्भ्_5.8:17
* यस्मादाह ॥ प्स्भ्_5.8:18
शून्यागारगुहावासी
* इति ॥ प्स्भ्_5.9:1
* अत्र शून्यमेवागारं शून्यागारम् ॥ प्स्भ्_5.9:2
* शून्यं विविक्तं निर्जनमित्यर्थः ॥ प्स्भ्_5.9:3
* आगारम् इति गृहपर्यायः आगारं गृहं वेश्म सदनमिति पर्यायः ॥ प्स्भ्_5.9:4
* गुहू संवरणे ॥ प्स्भ्_5.9:5
* प्रविष्टं साधकम् आवरयति गोपयतीति गुहा ॥ प्स्भ्_5.9:6
* आह आवरकत्वाविशेषाच् छून्यागारगुहयोर् अविशेष इति चेत् तदुच्यते मृत्तृणकाष्ठादिकृतम् अगारं पर्वतगुहाद्या गुहा ॥ प्स्भ्_5.9:7
* तस्मान् नाविशेष इति ॥ प्स्भ्_5.9:8
* यथा सति विभुत्वे ज्ञत्वं साधर्म्यं पुरुषेश्वरयोः सर्वज्ञत्वतो विशेषः ॥ प्स्भ्_5.9:9
* तस्माद् आयतने ऽविविक्तदोषं दृष्ट्वा शून्यागारे गुहायां वा यथोपपत्तितो विचार्य विविक्तं विवेच्य यन्मात्रस्थानासनशयनादिभिर् उपजीवति तन्मात्रं संस्करणमर्यादयोपयोगक्रियाभिनिविष्टेन वस्तव्यम् ॥ प्स्भ्_5.9:10
* वसतिसंयोगाद् गुहावासी भवति ॥ प्स्भ्_5.9:11
* पुलिनवासिवत् ॥ प्स्भ्_5.9:12
* आह तत् कथं ज्ञेयं यथा जितानीन्द्रियाणि ॥ प्स्भ्_5.9:13
* तेषां जितानां वा किं लक्षणम् ॥ प्स्भ्_5.9:14
* तदुच्यते ॥ प्स्भ्_5.9:15
देवनित्यः
* अत्र देवो भगवान् ॥ प्स्भ्_5.10:1
* तत्र यदास्य भगवति देवे नित्यता कथम् ॥ प्स्भ्_5.10:2
* अध्ययनध्यानाभ्यां देवे ऽधिकृतस्य प्राधान्येन निश्चलता वर्तते ॥ प्स्भ्_5.10:3
* स्वल्पतरव्यवधानेऽपि अतियोगाभ्यासनिरन्तरप्राप्तिः ॥ प्स्भ्_5.10:4
* स्मृतिस्तु देवनित्यतेत्यर्थः ॥ प्स्भ्_5.10:5
* आह देवनित्यतायाः किं लक्षणम् ॥ प्स्भ्_5.10:6
* तदुच्यते जितेन्द्रियत्वम् ॥ प्स्भ्_5.10:7
* यस्मादाह ॥ प्स्भ्_5.10:8
जितेन्द्रियः
* अत्र जितेन्द्रियत्वं नाम उत्सर्गनिग्रहयोग्यत्वम् ॥ प्स्भ्_5.11:1
* इन्द्रियाणि बुद्ध्यादीनि वागन्तानि त्रयोदश करणानि पूर्वोक्तानि ॥ प्स्भ्_5.11:2
* तानि यदा अकुशलेभ्यो व्यावर्तयित्वा कामतः कुशले योजितानि हतविषदर्वीकरवद् अवस्थितानि भवन्ति तदा देवनित्यो जितेन्द्रिय इत्यर्थः ॥ प्स्भ्_5.11:3
* आह किं देवनित्यतैवास्य परो निष्ठायोगः ॥ प्स्भ्_5.11:4
* उच्यते न ॥ प्स्भ्_5.11:5
* यस्मादाह ॥ प्स्भ्_5.11:6
षण्मासान्नित्ययुक्तस्य
* अथवान्यो दूरस्थः सम्बन्धः ॥ प्स्भ्_5.12:1
* यस्मादुक्तम् । यस्य येनार्थसम्बन्धो दूरस्थमपि तेन हि । अर्थतो ऽन्यसमानानाम् आनन्तर्ये ऽप्यसंगतिः ॥ प्स्भ्_5.12:2
* एवमिहापि दूरस्थः सम्बन्धः कस्मात् ॥ प्स्भ्_5.12:3
* इह पुरस्तादुक्तं विज्ञानानि चास्य प्रवर्तन्ते इति एतैर् गुणैर् युक्त इति च ॥ प्स्भ्_5.12:4
* कियता कालेनास्य ते गुणाः प्रवर्तन्ते ॥ प्स्भ्_5.12:5
* किं युक्तस्य किं वियुक्तस्य किं युगपत् क्रमशो वा किं सकलस्य निष्कलस्य वेति ॥ प्स्भ्_5.12:6
* इत्येषाम् अर्थानाम् अनिर्वचनानां निर्वचनार्थमिदमारभ्यते ॥ प्स्भ्_5.12:7
* यस्मादाह षण्मासान्नित्ययुक्तस्य ॥ प्स्भ्_5.12:8
* अत्र षड् इति संख्या मासान् इति कालनिर्देशः ॥ प्स्भ्_5.12:9
* मनुष्यगणनया त्रिंशद्दिवसो मासः ॥ प्स्भ्_5.12:10
* द्वादश मासाः संवत्सरः ॥ प्स्भ्_5.12:11
* द्वादश पक्षा अर्धसंवत्सरः ॥ प्स्भ्_5.12:12
* षण्मासानिति ॥ प्स्भ्_5.12:13
* तस्मात् षष्ठप्रथममासयोरभ्यन्तरे ॥ प्स्भ्_5.12:14
* नित्ययुक्तस्य ॥ प्स्भ्_5.12:15
* संततमविच्छिन्नमित्यर्थः ॥ प्स्भ्_5.12:16
* युक्त इति ॥ प्स्भ्_5.12:17
* आत्मेश्वरसंयोगो योगः ॥ प्स्भ्_5.12:18
* नित्ययुक्तस्य इति षष्ठी ॥ प्स्भ्_5.12:19
* आह अस्य युक्तस्य किं भवति ॥ प्स्भ्_5.12:20
* तदुच्यते ॥ प्स्भ्_5.12:21
भूयिष्ठं सम्प्रवर्तते
* अत्र भूयिष्ठम् इति क्रमे प्राये च भवति ॥ प्स्भ्_5.13:1
* यथा क्रमशो ददाति आदित्यो वा गतो भूयिष्ठम् ॥ प्स्भ्_5.13:2
* तस्मात् सूच्यग्रेणोत्पलपत्त्रशतभेदनक्रमवत् क्रमाद् दूरदर्शनादयः प्रवर्तन्त इत्यर्थः ॥ प्स्भ्_5.13:3
* सम् इत्येकीभावे ॥ प्स्भ्_5.13:4
* निष्कलस्य कार्यकरणरहितस्येत्यर्थः ॥ प्स्भ्_5.13:5
* प्र इत्यादिकर्मण्य् आरम्भे भवति ॥ प्स्भ्_5.13:6
* युक्तोत्तरे प्रभावाद् गुणाः प्रवर्तन्ते इत्यर्थः ॥ प्स्भ्_5.13:7
* वर्तते कस्मिन् ॥ प्स्भ्_5.13:8
* दर्शनं दृश्ये श्रवणादि श्रव्यादिष्वित्यर्थः ॥ प्स्भ्_5.13:9
* तस्मात् षष्ठप्रथममासयोरभ्यन्तरे नित्ययुक्तस्य क्रमशो गुणाः सम्प्रवर्तन्ते ॥ प्स्भ्_5.13:10
* कुतः ॥ प्स्भ्_5.13:11
* महेश्वरप्रसादात् ॥ प्स्भ्_5.13:12
* अशिवत्वसंज्ञके विनिवृत्ते शिवत्वप्रसादाभ्यां गुणाः प्रवर्तन्ते ॥ प्स्भ्_5.13:13
* गुणशब्दो दूरदर्शनादिवचनः ॥ प्स्भ्_5.13:14
* आह कां वृत्तिमास्थाय शून्यागारे गुहायां वासः कार्यः ॥ प्स्भ्_5.13:15
* तदुच्यते ॥ प्स्भ्_5.13:16
भैक्ष्यम्
* भिक्षाणां समूहो भैक्ष्यं कापोतवत् ॥ प्स्भ्_5.14:1
* तच् च नगरग्रामादिभ्यो गृहाद् गृहं पर्यटतो भक्ष्यभोज्यादीनाम् अन्यतमं यत् प्राप्यते कृतान्नादिवचनाद् भैक्ष्यम् ॥ प्स्भ्_5.14:2
* भयक्षपणाद् भैक्ष्यम् ॥ प्स्भ्_5.14:3
* भिक्षावचनाद् अभैक्ष्यप्रतिषेधः ॥ प्स्भ्_5.14:4
* आह आधारात्तु कृत्वा संदेहः अथ कुत्र तद् भैक्ष्यं ग्राह्यम् ॥ प्स्भ्_5.14:5
* तदुच्यते पात्रे ॥ प्स्भ्_5.14:6
* यस्मादाह ॥ प्स्भ्_5.14:7
पात्रागतम्
* अत्र भैक्ष्यवत् प्रसिद्धं पात्रम् ॥ प्स्भ्_5.15:1
* अलाबुदारुवस्त्रादीनाम् अन्यतमं यत् प्राप्यते तत् खलु हिंसास्तेयादिरहितेन क्रमेणाहारे यत्पर्याप्तं ग्राह्यम् ॥ प्स्भ्_5.15:2
* तस्मिन् तदफलके पात्रे आगतं पात्रागतमित्यर्थः ॥ प्स्भ्_5.15:3
* आह ब्रह्मचारिकल्पे मधुमांसलवणवर्जमिति ॥ प्स्भ्_5.15:4
* तत् किं मधुमांसादीन्य् एकान्तेनैव दुष्टानीति ॥ प्स्भ्_5.15:5
* तदुच्यते न ॥ प्स्भ्_5.15:6
* यस्मादाह ॥ प्स्भ्_5.15:7
मांसम् अदुष्यं लवणेन वा
* तत्र भैक्ष्यवत् प्रसिद्धं मांसम् ॥ प्स्भ्_5.16:1
* यस्य माहिषवाराहादीनाम् अन्यतमं यत् प्राप्यते तत् खलु हिंसास्तेयरहितत्वात् ॥ प्स्भ्_5.16:2
* लवणेन वा ॥ प्स्भ्_5.16:3
* अत्र लवणं नाम सैन्धवसौवर्चलाद्यं मांसवत् प्रसिद्धम् ॥ प्स्भ्_5.16:4
* तद् एतन् मांससमसंसृष्टं वा भैक्ष्यविधिना प्राप्तम् ॥ प्स्भ्_5.16:5
* अदुष्यम् अकुत्सितम् अगर्हितमित्यर्थः ॥ प्स्भ्_5.16:6
* वा विकल्पे ॥ प्स्भ्_5.16:7
* मांसेन वा लवणेन वा उभाभ्यामपि साक्षाद्वा अदुष्यम् इत्यर्थः ॥ प्स्भ्_5.16:8
* आह भैक्ष्यालाभकाले अपर्याप्तिकाले वा किमनेन कर्तव्यम् ॥ प्स्भ्_5.16:9
* तदुच्यते अपः पीत्वा स्थेयम् ॥ प्स्भ्_5.16:10
* यस्मादाह ॥ प्स्भ्_5.16:11
आपो वापि यथाकालमश्नीयादनुपूर्वशः
* अत्र आण् आपः आपः ॥ प्स्भ्_5.17:1
* आङ् इति अत्र संवृतपरिपूतादिमर्यादाम् अधिकुरुते कृतान्नोत्सृष्टवद् अपदान्तरितत्वात् ॥ प्स्भ्_5.17:2
* द्वितीयास्थाने प्रथमा द्रष्टव्या ॥ प्स्भ्_5.17:3
* आपोऽत्र लोकादिप्रसिद्धाः ॥ प्स्भ्_5.17:4
* तृणादिव्यावृत्तम् उदकमित्यर्थः ॥ प्स्भ्_5.17:5
* वा विभागे ॥ प्स्भ्_5.17:6
* अन्यद् भैक्ष्यम् अन्या आप इति ॥ प्स्भ्_5.17:7
* अपिशब्दः सम्भावने ॥ प्स्भ्_5.17:8
* अप्य् अपः पीत्वा स्थेयं न तु शास्त्रव्यपेतेन क्रमेण वृत्त्यर्जनं कर्तव्यमित्यर्थः ॥ प्स्भ्_5.17:9
* यथा इतिशब्दः समानार्थे ॥ प्स्भ्_5.17:10
* यथा भैक्ष्योपदेशं कृत्वा योगकर्मण्युद्यमः कर्तव्य इति व्याख्यातं तथा अपः पीत्वेति ॥ प्स्भ्_5.17:11
* कालोऽत्र द्विविधः अलाभकालः अपर्याप्तिकालश्च ॥ प्स्भ्_5.17:12
* तत्र यदा ग्रामं नगरं वा कृत्स्नमटित्वा न किंचिदासादयति सः अलाभकालः अपर्याप्तिकालो नाम यदा भिक्षां भिक्षाद्वयं वा आसादयति तदा अपः पीत्वापि स्थेयम् ॥ प्स्भ्_5.17:13
* आह एवं स्थितेन किमनेन कर्तव्यम् ॥ प्स्भ्_5.17:14
* तदुच्यते उपयोक्तव्यम् ॥ प्स्भ्_5.17:15
* यस्मादाह अश्नीयादनुपूर्वशः इति ॥ प्स्भ्_5.17:16
* अश्नीयादिति योगक्रियानुपरोधेनाहारलाघवमर्यादाम् अधिकुरुते ॥ प्स्भ्_5.17:17
* अश भोजने ॥ प्स्भ्_5.17:18
* अश्नीयादनुपूर्वशः ॥ प्स्भ्_5.17:19
* अनु पृष्ठकर्मक्रियायाम् ॥ प्स्भ्_5.17:20
* अनुपूर्वश इति अतिक्रान्तापेक्षणे प्रकारवचने च ॥ प्स्भ्_5.17:21
* यथापूर्वं ग्रामादि प्रविश्य भैक्ष्यार्जनं कृत्वालाभकाले अपर्याप्तिकाले वा तदनु पश्चाद् अपः पीत्वा स्थेयमिति कृत्वा भगवता एतदुक्तम् अश्नीयादनुपूर्वश इति ॥ प्स्भ्_5.17:22
* अत्र श्लोको निर्वचनः ॥ प्स्भ्_5.17:23
* आह शून्यागारगुहावस्थस्येन्द्रियजयेन वर्ततोऽस्य बलं किं चिन्त्यते किमकलुषत्वमेव ॥ प्स्भ्_5.17:24
* तदुच्यते न ॥ प्स्भ्_5.17:25
* यस्मादाह ॥ प्स्भ्_5.17:26
गोधर्मा मृगधर्मा वा
* अत्र गौर् लोकादिप्रसिद्धो मृगवत् खुरककुदविषाणसास्नादिमान् इति ॥ प्स्भ्_5.18:1
* तथा मृगोऽपि गोद्रव्यवल् लोकादिप्रसिद्धः कृष्णमृगादीनाम् अन्यतमः ॥ प्स्भ्_5.18:2
* तयोस्तु सति धर्मबहुत्वे समानो धर्मो गृह्यते आध्यात्मिकादिद्वंद्वसहिष्णुत्वम् ॥ प्स्भ्_5.18:3
* तदुत्तरत्र वक्ष्यामः ॥ प्स्भ्_5.18:4
* गोमृगधर्मग्रहणं तु परस्परविशेषणार्थम् ॥ प्स्भ्_5.18:5
* वाशब्दो विकल्पार्थः ॥ प्स्भ्_5.18:6
* क्रियासामान्यदृष्ट्या रौद्रीबहुरूपीवद् एकधर्मेण चैकधर्मेण वा स्थेयमित्यर्थः ॥ प्स्भ्_5.18:7
* आह केन बलेनास्य कार्यनिष्पत्तिः ॥ प्स्भ्_5.18:8
* तदुच्यते ॥ प्स्भ्_5.18:9
अद्भिरेव शुचिर्भवेत्
* अत्र अद्भिः आङ् इव अद्भिरेव आपो जलमित्यादिप्रसिद्धाः पूर्वोक्ताः ॥ प्स्भ्_5.19:1
* अद्भिरिति तृतीया ॥ प्स्भ्_5.19:2
* आङ् इति पूर्वप्रसिद्धमात्रादिमर्यादाम् अधिकुरुते ॥ प्स्भ्_5.19:3
* गोमृगवद् द्वंद्वसहिष्णुत्वमर्यादायां च ॥ प्स्भ्_5.19:4
* इव इति उपमायाम् ॥ प्स्भ्_5.19:5
* यथा अद्भिश्च मृद्भिश्च प्रक्षालितानि वस्त्रादीनि शुद्धानि भवन्ति तद्वत् ॥ प्स्भ्_5.19:6
* गोमृगधर्मित्वेन बलेन शुचिर्भवतीति ॥ प्स्भ्_5.19:7
* उच्यते न ॥ प्स्भ्_5.19:8
* यस्मादाह गोमृगयोर् अकुशलधर्मप्रतिषेधं कुशलधर्मे च नियोगं सिद्धशक्तिप्रशंसया असिद्धशक्तिप्रतिषेधं च वक्ष्यामः ॥ प्स्भ्_5.19:9
* तदाह ॥ प्स्भ्_5.19:10
सिद्धयोगी न लिप्यते कर्मणा पातकेन वा
* असिद्धस्तु सर्वथापि वर्तमानो लिप्यत इत्यर्थः ॥ प्स्भ्_5.20:1
* अतो योगी सिद्ध इत्येवं प्राप्ते सुखमुखोच्चारणार्थम् उक्तं सिद्धयोगी इति ॥ प्स्भ्_5.20:2
* अत्र ॥ प्स्भ्_5.20:3
* योगो नामात्मेश्वरयोर्योगः ॥ प्स्भ्_5.20:4
* तेनायं योगी ॥ प्स्भ्_5.20:5
* सिद्धो नाम दर्शनाद्यैश्वर्यं प्राप्तः ॥ प्स्भ्_5.20:6
* स खलु वशीकरणावेशनपालनादिप्रवीणः ॥ प्स्भ्_5.20:7
* न लिप्यते न संयुज्यत इत्यर्थः ॥ प्स्भ्_5.20:8
* आह केन न लिप्यते ॥ प्स्भ्_5.20:9
* तदुच्यते कर्मणा ॥ प्स्भ्_5.20:10
* अत्र कर्मणेत्युच्यते ॥ प्स्भ्_5.20:11
* कस्मात् ॥ प्स्भ्_5.20:12
* कृतकत्वात् ॥ प्स्भ्_5.20:13
* कर्मणेति तृतीया ॥ प्स्भ्_5.20:14
* इष्टस्थानशरीरेन्द्रियविषयसम्बन्धकृतेन कर्मणा न लिप्यते न संयुज्यत इत्यर्थः ॥ प्स्भ्_5.20:15
* आह अनिन्दितेन शुभेन कर्मणा न संयुज्यत इत्युच्यते आहो अथ किमशुभेन कर्मणा लिप्यते नेति ॥ प्स्भ्_5.20:16
* तदुच्यते न ॥ प्स्भ्_5.20:17
* यस्मादाह पातकेन ॥ प्स्भ्_5.20:18
* अत्र पापाख्येन पातकेन वानिष्टस्थानशरीरेन्द्रियविषयगतो ऽशुभं भुङ्क्ते तेनाप्यशुभेन कर्मणा न लिप्यते न युज्यत इत्यर्थः ॥ प्स्भ्_5.20:19
* वा त्रिकल्पे ॥ प्स्भ्_5.20:20
* पातकेन वा अपातकेन वा समस्ताभ्यां वा वशीकरणावेशनपालनादिषु प्रवर्तमानो न लिप्यते न संयुज्यत इत्यर्थः ॥ प्स्भ्_5.20:21
* कस्मात् ॥ प्स्भ्_5.20:22
* सिद्धिसामर्थ्यात् ॥ प्स्भ्_5.20:23
* असिद्धश्चायं योगी ब्राह्मणो गोमृगधर्मावस्थो यदि सर्वथापि गोमृगवत् प्रवर्तते ततो लिप्यते ॥ प्स्भ्_5.20:24
* तस्माद् गोमृगयोर् अकुशलधर्मो न ग्राह्यः ॥ प्स्भ्_5.20:25
* कुशलधर्मश्च स्वाध्यात्मिकादिद्वंद्वसहिष्णुत्वं परिगृह्यते ॥ प्स्भ्_5.20:26
* तेनायं शुचिर्भवति ॥ प्स्भ्_5.20:27
* आह किमस्याशौचम् ॥ प्स्भ्_5.20:28
* तदुच्यते द्वंद्वैर् योगव्यासङ्गकरैः कामक्रोधशिरोरोगादिनिमित्तैः शीतादिभिरन्यैर्वा ॥ प्स्भ्_5.20:29
* न लिप्यते न संयुज्यत इत्यर्थः ॥ प्स्भ्_5.20:30
* कस्मात् ॥ प्स्भ्_5.20:31
* प्राप्तबलत्वादित्यर्थः ॥ प्स्भ्_5.20:32
* अत्र श्लोको निर्वचनः ॥ प्स्भ्_5.20:33
* आह शून्यागारगुहावस्थस्येन्द्रियजये वर्ततः काः क्रियाः कर्तव्याः ॥ प्स्भ्_5.20:34
* किं स्नानहसिताद्याः क्राथनस्पन्दनमण्टनाद्या वा ॥ प्स्भ्_5.20:35
* तदुच्यते न ॥ प्स्भ्_5.20:36
* यस्मादाह ॥ प्स्भ्_5.20:37
ऋचमिष्टामधीयीत गायत्रीमात्मयन्त्रितः
* अत्र ऋचम् ऋचामित्यप्यदुष्टः पाठः ॥ प्स्भ्_5.21:1
* अत्र ऋचा नामाघोरा ॥ प्स्भ्_5.21:2
* कथं गम्यते ॥ प्स्भ्_5.21:3
* ऋङ्मध्यात् ॥ प्स्भ्_5.21:4
* सद्योजाततत्पुरुषेशानवद् अर्चिवर्चगाः ॥ प्स्भ्_5.21:5
* इष्टा चेयं तत्र तत्र जप्तव्यत्वेन गुणीकृतत्वात् ॥ प्स्भ्_5.21:6
* पूर्वोत्तरसूत्रेषु जप्तव्यत्वेन गायत्र्या सहाध्यानाद् आशुभावसमाध्यासादनाच् च इष्टा ॥ प्स्भ्_5.21:7
* अध्ययनम् इति जप्यपर्यायः ॥ प्स्भ्_5.21:8
* ईत इत्याज्ञायां नियोगे च ॥ प्स्भ्_5.21:9
* मानसम् एवाधीयीतेत्यर्थः ॥ प्स्भ्_5.21:10
* आह किम् ऋचैवैकाध्येतव्या ॥ प्स्भ्_5.21:11
* उच्यते न ॥ प्स्भ्_5.21:12
* यस्माद् आह गायत्रीम् इति ॥ प्स्भ्_5.21:13
* गायत्री नाम तत्पुरुषा ॥ प्स्भ्_5.21:14
* निरुक्तमस्याः पूर्वोक्तम् ॥ प्स्भ्_5.21:15
* मानसम् एवाधीयीतेत्यर्थः ॥ प्स्भ्_5.21:16
* आह कीदृशो ऽधीयीतेति ॥ प्स्भ्_5.21:17
* तदुच्यते आत्मयन्त्रितः ॥ प्स्भ्_5.21:18
* आत्मयन्त्रणमिति प्रत्याहारपर्यायः ॥ प्स्भ्_5.21:19
* आत्मेति क्षेत्रज्ञ उच्यते ॥ प्स्भ्_5.21:20
* आत्मत्वमस्य चैतन्यम् ॥ प्स्भ्_5.21:21
* आप्तव्यं कार्यं करणं विषयाश्च ॥ प्स्भ्_5.21:22
* आत्मयन्त्रणमित्यत्र सति त्रिके युज्यते ॥ प्स्भ्_5.21:23
* यन्त्रणं नाम यथायम् आत्मभावो ब्रह्मण्य् अक्षरपदपङ्क्त्यां युक्तो वर्तते तदात्मा यन्त्रितो भवति ॥ प्स्भ्_5.21:24
* कथम् ॥ प्स्भ्_5.21:25
* नृत्यप्रसक्तचित्तदृष्टान्तात् कस्मात् ॥ प्स्भ्_5.21:26
* आत्मात्मभावयोर् अव्युच्छेदात् ॥ प्स्भ्_5.21:27
* गुणगुणिनोरपि तथा युगपद्भावः ॥ प्स्भ्_5.21:28
* कथम् ॥ प्स्भ्_5.21:29
* यष्टुं प्रवृत्तो यन्त्रयितुं च प्रवृत्त एव भवति ॥ प्स्भ्_5.21:30
* भिक्षुवत् ॥ प्स्भ्_5.21:31
* तस्माद् यन्त्रणमेवैष प्रत्याहार इति ॥ प्स्भ्_5.21:32
* आह अत्र गायत्रीबहुत्वात् संदेहः ॥ प्स्भ्_5.21:33
* कथमवगम्यते ऋचा अघोरेण वा तत्पुरुषेणेति ॥ प्स्भ्_5.21:34
* उच्यते गम्यते ॥ प्स्भ्_5.21:35
* यस्मादाह ॥ प्स्भ्_5.21:36
रौद्रीं वा बहुरूपीं वा
* अत्र रौद्री नाम तत्पुरुषा ॥ प्स्भ्_5.22:1
* निरुक्तमस्याः पूर्वोक्तम् ॥ प्स्भ्_5.22:2
* वाशब्दो रौद्रीबहुरूप्योः प्रतिविभागे द्रष्टव्यः ॥ प्स्भ्_5.22:3
* बहुरूपी नामाघोरा ॥ प्स्भ्_5.22:4
* वा विकल्पे ॥ प्स्भ्_5.22:5
* तुल्यफलत्वात् ॥ प्स्भ्_5.22:6
* वेत्यत एका चैका वा ॥ प्स्भ्_5.22:7
* आत्मयन्त्रितो ऽधीयीत इत्यर्थः ॥ प्स्भ्_5.22:8
* आह आत्मयन्त्रितस्याधीयतः का कार्यनिष्पत्तिः ॥ प्स्भ्_5.22:9
* तदुच्यते ॥ प्स्भ्_5.22:10
अतो योगः प्रवर्तते
* अत्र अत इति कारणापदेशे ॥ प्स्भ्_5.23:1
* आत्मयन्त्रितोऽधीयीतेत्यर्थः ॥ प्स्भ्_5.23:2
* तस्मादनेन कारणेन हेतुना निमित्तेनेत्यर्थः ॥ प्स्भ्_5.23:3
* योग इति ॥ प्स्भ्_5.23:4
* आत्मेश्वरसंयोगो योग इति मन्तव्यः ॥ प्स्भ्_5.23:5
* प्र इत्यादिकर्मणि ॥ प्स्भ्_5.23:6
* प्रवर्तते इत्यस्य पूर्वोक्तोऽर्थः ॥ प्स्भ्_5.23:7
* अत्र श्लोको निर्वचनः ॥ प्स्भ्_5.23:8
* आह ऋचम् अधीयता ब्रह्मण्यक्षरपदपङ्क्त्यां किं युक्तेनैव स्थेयम् ॥ प्स्भ्_5.23:9
* आहोस्विद् दृष्टा अस्यान्या सूक्ष्मतरा उपासना क्रियाध्याननमःस्तव्यम् ॥ प्स्भ्_5.23:10
* उच्यते दृष्टा ॥ प्स्भ्_5.23:11
* यस्मादाह ॥ प्स्भ्_5.23:12
ओंकारमभिध्यायीत
* अत्र ओं इत्येष जप्यपर्यायो वामदेवादिवत् ॥ प्स्भ्_5.24:1
* कारशब्दो ऽवधारणे द्रष्टव्यः ॥ प्स्भ्_5.24:2
* किंकारणम् ॥ प्स्भ्_5.24:3
* उक्तं हि । प्रणवे नित्ययुक्तस्य व्याहृतिषु च सप्तसु । त्रिपदायां च गायत्र्यां न मृत्युर्विन्दते परम् ॥ प्स्भ्_5.24:4
* इत्यत ओंकार एवावधार्यते ध्येयत्वेन न तु गायत्र्यादयः ॥ प्स्भ्_5.24:5
* अभिर् अभ्यासे ॥ प्स्भ्_5.24:6
* ओंकारसंनिकृष्टचित्तेन भवितव्यम् ॥ प्स्भ्_5.24:7
* ध्यै चिन्तायाम् ॥ प्स्भ्_5.24:8
* ध्यानं चिन्तनमित्यर्थः ॥ प्स्भ्_5.24:9
* उक्तं हि । ध्यै चिन्तालक्षणं ध्यानं ब्रह्म चौंकारलक्षणम् । धीयते लीयते वापि तस्माद् ध्यानमिति स्मृतम् ॥ प्स्भ्_5.24:10
* मुहूर्तार्धं मुहूर्तं वा प्राणायामान्तरेऽपि वा ॥ प्स्भ्_5.24:11
* ध्येयं चिन्तयमानस्तु पापं क्षपयते नरः ॥ प्स्भ्_5.24:12
* ईत इत्याज्ञायां नियोगे च ॥ प्स्भ्_5.24:13
* ओंकार एव ध्येयो नान्य इत्यर्थः । आह ओंकारो ध्येयः ॥ प्स्भ्_5.24:14
* को वा ध्यानदेशः ॥ प्स्भ्_5.24:15
* कस्मिन् वा देशे धारणा कर्तव्या ॥ प्स्भ्_5.24:16
* ध्यायमानेन वा किं कर्तव्यम् ॥ प्स्भ्_5.24:17
* तदुच्यते ॥ प्स्भ्_5.24:18
हृदि कुर्वीत धारणाम्
* तत्र हृदि इत्यात्मपर्यायः ॥ प्स्भ्_5.25:1
* कस्मात् ॥ प्स्भ्_5.25:2
* पूर्वोत्तरसामर्थ्यात् ॥ प्स्भ्_5.25:3
* यो ऽर्थो यत्र मिलति स तत्र स्थापयितव्यः स एवार्थो धारयितव्यः ॥ प्स्भ्_5.25:4
* किंच वेदप्रामाण्यादुक्तम् । अङ्गादङ्गात् सम्भवसि हृदयाद् अधिजायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥ प्स्भ्_5.25:5
* अन्यत्रापि आत्मा विजायते पुत्र आत्मा वै आत्मनः पिता । आत्मप्रजो भविष्यामि परमं हृदयं हि सः ॥ प्स्भ्_5.25:6
* अतो हृदयमात्मेत्युक्तम् ॥ प्स्भ्_5.25:7
* प्रकुरुते भावं बुद्धिरध्यवसायिताम् ॥ प्स्भ्_5.25:8
* हृदयं प्रियाप्रिये वेत्ति त्रिविधा करणस्थितिः ॥ प्स्भ्_5.25:9
* तथा लोकेऽपि सन्ति वक्तारो हृदयं ते ज्ञास्यति ॥ प्स्भ्_5.25:10
* किमुक्तं भवति ॥ प्स्भ्_5.25:11
* आत्मा ते ज्ञास्यतीति ॥ प्स्भ्_5.25:12
* अतोऽवगम्यते हृदीत्यात्मपर्यायः ॥ प्स्भ्_5.25:13
* हृदीति औपश्लेषिकं संनिधानम् ॥ प्स्भ्_5.25:14
* अत्र तु ओंकारो धार्यो नात्मा किंतु य एवात्मन्यात्मभावः ॥ प्स्भ्_5.25:15
* तस्योंकारात् प्रच्युतस्य विषयेभ्यो वृत्तिविकारमात्रेण गतस्य प्रत्यानयनं प्रत्याहारः ॥ प्स्भ्_5.25:16
* प्रत्याहृत्य हृदि धारणा कर्तव्या ॥ प्स्भ्_5.25:17
* धार्यं चोंकारानुचिन्तनम् ॥ प्स्भ्_5.25:18
* तत्रैव सुदीर्घकालम् अवस्थानमध्ययनम् ॥ प्स्भ्_5.25:19
* तद्धारणाहितं परं ध्यानम् ॥ प्स्भ्_5.25:20
* निष्ठायोगस्तु स्थापयित्वेति वक्ष्यामः ॥ प्स्भ्_5.25:21
* कुर्वीत इति ॥ प्स्भ्_5.25:22
* डुकृञ् करणे ॥ प्स्भ्_5.25:23
* तस्य सप्तम्यन्ते कुर्वीतेति भवति ॥ प्स्भ्_5.25:24
* हृदि धारणा कर्तव्या ॥ प्स्भ्_5.25:25
* ईत इत्याज्ञायां नियोगे च ॥ प्स्भ्_5.25:26
* पादजानुकटिनासिकादिस्थानेषु धारणाकर्तव्यताप्रतिषेधार्थो नियोगः ॥ प्स्भ्_5.25:27
* हृदि धार्या नान्यत्रेत्यर्थः ॥ प्स्भ्_5.25:28
* आह ओंकारः किं परप विष्णुरुमा कुमारश्च चतस्रो ऽर्धमात्रा वा ॥ प्स्भ्_5.25:29
* उत समानपुरुष इति ॥ प्स्भ्_5.25:30
* उच्यते न ॥ प्स्भ्_5.25:31
* यस्मादाह ॥ प्स्भ्_5.25:32
ऋषिर् विप्रो महानेषः
* अत्र ऋषिः इत्येतद् भगवता नामधेयम् ॥ प्स्भ्_5.26:1
* ऋषिः कस्मात् ॥ प्स्भ्_5.26:2
* ऋषिः क्रियायाम् ॥ प्स्भ्_5.26:3
* ऋषित्वं नाम क्रियाशंसनादृषिः ॥ प्स्भ्_5.26:4
* तथा कृत्स्नं कार्यं विद्याद्यमीशत इत्यतः ऋषिः ॥ प्स्भ्_5.26:5
* तथा विप्र इत्येतदपि भगवतो नाम ॥ प्स्भ्_5.26:6
* विप्रः कस्मात् ॥ प्स्भ्_5.26:7
* विद ज्ञाने ॥ प्स्भ्_5.26:8
* विप्रत्वं नाम ज्ञानशक्तिः ॥ प्स्भ्_5.26:9
* व्याप्तमनेन भगवता ज्ञानशक्त्या कृत्स्नं ज्ञेयमित्यतो विप्र इति ॥ प्स्भ्_5.26:10
* तथा महान् इत्यभ्यधिकत्वे ॥ प्स्भ्_5.26:11
* यदेतद् दृक्क्रियालक्षणमस्ति अनागन्तुकम् अकृतकमैश्वर्यं तद्गुणसद्भावः सतत्त्वं तत्त्वधर्मः तदकृतकं पुरुषचैतन्यवत् तन् नान्यस्येत्यतो ऽभ्यधिकः उत्कृष्टोऽतिरिक्तश्चेति महान् ॥ प्स्भ्_5.26:12
* एष इति प्रत्यक्षे ॥ प्स्भ्_5.26:13
* एष यो मया पूर्वम् ओं इति श्रोत्रप्रत्यक्षीकृतो ऽर्थः असौ विष्णूमाकुमारादीनाम् अन्यतमो न भवति ॥ प्स्भ्_5.26:14
* कस्मात् ॥ प्स्भ्_5.26:15
* ऋषित्वाद् विप्रत्वान् महत्त्वाच् चेत्यर्थः ॥ प्स्भ्_5.26:16
* आह ऋषित्वं विप्रत्वं च कीदृशे महेश्वरे चिन्तनीयम् ॥ प्स्भ्_5.26:17
* कीदृशो वा ओंकारो ध्येयः ॥ प्स्भ्_5.26:18
* तदुच्यते ॥ प्स्भ्_5.26:19
वाग्विशुद्धः
* अत्रापि वाग्विशुद्ध इत्यपि भगवतो नामधेयम् ॥ प्स्भ्_5.27:1
* न अमी इत्यन्यो भगवान् ॥ प्स्भ्_5.27:2
* स यथा ह्य् अथो हित्वा वाणीं मनसा सह रूपरसगन्धविद्यापुरुषादिपरो निष्कलो ध्येयः ॥ प्स्भ्_5.27:3
* यस्मादुक्तम् । आकृतिमपि परिहृत्य ध्यानं नित्यं परे रुद्रे । येन प्राप्तं योगे मुहूर्तमपि तत् परो योगः ॥ प्स्भ्_5.27:4
* परमयोग इत्यर्थः ॥ प्स्भ्_5.27:5
* आह अथ यथायं बालवन् निष्कलस्तथा किं समानपुरुषः ॥ प्स्भ्_5.27:6
* तदुच्यते न ॥ प्स्भ्_5.27:7
* यस्मादाह तदाप्ययम् ॥ प्स्भ्_5.27:8
महेश्वरः
* अत्रानाद्यज्ञानद्यतिना ऋषित्वविप्रत्वसंज्ञकेन महता ऐश्वर्येण महेश्वर इति सिद्धम् इह तु यदायं वाग्विशुद्धो निष्कलस्तदा किं समानपुरुषवद् अनीश्वर इत्यस्य संशयस्य संव्युदासार्थम् उच्यते महेश्वर इति ॥ प्स्भ्_5.28:1
* यस्माद् अस्यैश्वर्यं निष्कलस्यापि स्वगुणसद्भावः सतत्त्वं तत्त्वधर्मः ॥ प्स्भ्_5.28:2
* तदकृतकत्वं पुरुषचैतन्यवत् ॥ प्स्भ्_5.28:3
* अतस् तदाप्ययं महानेवेश्वरो महेश्वरः ॥ प्स्भ्_5.28:4
* तस्मादकृतक एव महच्छब्द इत्यतो महेश्वर इति ॥ प्स्भ्_5.28:5
* एवमोंकारमिति ध्येयमुक्तम् ॥ प्स्भ्_5.28:6
* ध्येयगुणीकरणमुक्तम् ऋषिर् विप्रो महानेष इति ॥ प्स्भ्_5.28:7
* ध्येयावधारणमुक्तं वाग्विशुद्धो निष्कल इति ॥ प्स्भ्_5.28:8
* ध्येयशक्तिप्रशंसा चोक्ता महेश्वर इति ॥ प्स्भ्_5.28:9
* एवं यस्मादिन्द्रियजये वर्तते अतो वसत्यर्थवृत्तिबलक्रियालाभादयश्च व्याख्याता इति ॥ प्स्भ्_5.28:10
* अतोऽत्र युक्तं वक्तुम् ॥ प्स्भ्_5.28:11
* शून्यागारगुहाप्रकरणं परिसमाप्तमिति ॥ प्स्भ्_5.28:12
* आह शून्यागारगुहायां यदा जितानीन्द्रियाणि देवनित्यता च प्राप्ता भवति तदा किं तदेव भैक्ष्यं वृत्तिमास्थाय तत्रैवानेन दुःखान्तप्राप्तेः स्थेयम् ॥ प्स्भ्_5.28:13
* आहोस्विद् दृष्टोऽस्यापि वसत्यर्थो वृत्तिर्बलक्रियालाभाश्चेति ॥ प्स्भ्_5.28:14
* उच्यते दृष्टः ॥ प्स्भ्_5.28:15
* यस्मादाह ॥ प्स्भ्_5.28:16
(...)
* आह शून्यागारगुहाम् उत्सृज्य प्रयोजनाभावात् श्मशाने संक्रान्तिरयुक्तेति चेत् ॥ प्स्भ्_5.29:1
* तदुच्यते न ॥ प्स्भ्_5.29:2
* योगव्यासङ्गपरिहारार्थत्वात् ॥ प्स्भ्_5.29:3
* इहावस्थानाद् अवस्थानं प्राप्य ब्राह्मणस्य सर्वत्र वसत्यर्थवृत्तिबलक्रियालाभादयो ऽयुतसिद्धा वक्तव्याः ॥ प्स्भ्_5.29:4
* तत्रादिधर्मा अप्यस्य तावदायतने वसत्यर्थः वृत्तिर्भैक्ष्यं बलमष्टाङ्गं ब्रह्मचर्यं क्रियाः स्थानहसिताद्याः स्नानं कलुषापोहः शुद्धिः ज्ञानावाप्तिः अकलुषत्वं च लाभा इति ॥ प्स्भ्_5.29:5
* तथा असन्मानपरिभवोपदेशाद् आयतने वसत्यर्थः वृत्तिरुत्सृष्टं बलमकलुषत्वम् इन्द्रियद्वारपिधानं च क्रिया इन्द्रियाणि पिधाय उन्मत्तवदवस्थानं पापक्षयाच् छुद्धिः लाभस्तु कृत्स्नो धर्मस्तुल्येन्द्रियजये वर्तते ॥ प्स्भ्_5.29:6
* तथा वसत्यर्थः शून्यागारगुहा वृत्तिर्भैक्ष्यं बलं गोमृगयोः सहधर्मित्वं क्रिया अध्ययनध्यानाद्या अजितेन्द्रियवृत्तितापोहः शुद्धिः लाभस्तु देवनित्यता जितेन्द्रियत्वं चेति ॥ प्स्भ्_5.29:7
* तथेहापि श्मशाने वसत्यर्थः वसन् धर्मात्मा ॥ प्स्भ्_5.29:8
* यथालब्धमिति वृत्तिः क्रिया स्मृतिः अस्मृत्यपोहः शुद्धिः लाभस्तु सायुज्यम् ॥ प्स्भ्_5.29:9
* तथोत्तरत्र ऋषिर् इति वसत्यर्थः बलमप्रमादः प्रसाद उपायः दुःखापोहः शुद्धिः गुणावाप्तिश्च लाभ इति ॥ प्स्भ्_5.29:10
* तथोक्तं च । पञ्च लाभान् मलान् पञ्च पञ्चोपायान् विशेषतः । यस्तु बुध्यति पञ्चार्थे स विद्वान् नात्र संशयः ॥ प्स्भ्_5.29:11
* प्रथमो विद्यालाभस्तपसो लाभोऽथ देवनित्यत्वम् । योगो गुणप्रवृत्तिर्लाभाः पञ्चेह विज्ञेयाः ॥ प्स्भ्_5.29:12
* अज्ञानमधर्मश्च विषयाभ्यासः स्थितेरलाभश्च । अनैश्वर्यं च मला विज्ञेयाः पञ्च पञ्चार्थे ॥ प्स्भ्_5.29:13
* वासो ध्यानम् अखिलकरणनिरोधस्तथा स्मृतिश्चैव । प्रसाद इति चोपाया विज्ञेयाः पञ्च पञ्चार्थे ॥ प्स्भ्_5.29:14
* वासार्थो लोकश्च शून्यागारं तथा श्मशानं च । रुद्रश्च पञ्च देशा नियतं सिद्ध्यर्थमाख्याताः ॥ प्स्भ्_5.29:15
* तस्माद्युक्तमुक्तम् ॥ प्स्भ्_5.29:16
* स एव प्रागुक्तः सम्बन्धः श्मशानवासी इति ॥ प्स्भ्_5.29:17
* अत्र श्मशानं नाम यद् एतल् लोकादिप्रसिद्धं लौकिकानां मृतानि शवानि परित्यजन्ति तत् ॥ प्स्भ्_5.29:18
* शवसम्बन्धात् श्मशानम् तस्मिन्न् आकाशे वृक्षमूले यथानभिष्वङ्गमर्यादया जितद्वंद्वेन स्मृतिक्रियानिविष्टेन वस्तव्यम् ॥ प्स्भ्_5.29:19
* वसतिसंयोगात् श्मशानवासी भवति पुलिनवासिवद् इत्यर्थः ॥ प्स्भ्_5.29:20
* आह किमस्य गोमृगयोः सहधर्मित्वमेव बलम् ॥ प्स्भ्_5.29:21
* तदुच्यते न ॥ प्स्भ्_5.29:22
* यस्मादाह ॥ प्स्भ्_5.29:23
श्मशानवासी
* अत्र धर्मो नाम य एष यमनियमपूर्वको ऽभिव्यक्तो माहात्म्यादिधर्मः स पूर्वोक्तः ॥ प्स्भ्_5.30:1
* सो ऽस्यात्मनि प्रचितः ॥ प्स्भ्_5.30:2
* तेन धर्मेण धर्मात्मा भवतीत्यर्थः ॥ प्स्भ्_5.30:3
* आह किमस्य भैक्ष्यमेव वृत्तिः ॥ प्स्भ्_5.30:4
* उच्यते न ॥ प्स्भ्_5.30:5
* यस्मादाह ॥ प्स्भ्_5.30:6
धर्मात्मा
* अत्र यथा इति समानार्थे अम्लादिषु जितेन्द्रियत्वात् ॥ प्स्भ्_5.31:1
* लब्धम् आसादितम् अप्रार्थितम् इत्यर्थः ॥ प्स्भ्_5.31:2
* उप इति समीपधारणे ॥ प्स्भ्_5.31:3
* तद् यथालब्धमन्नपानं श्मशानादनिर्गच्छता दिवसे दिवसे जीवनाय स्थित्यर्थं तदुपजीवन् यथालब्धोपजीवको भवतीत्यर्थः ॥ प्स्भ्_5.31:4
* आह किं जीवनमेव परो लाभ इति ॥ प्स्भ्_5.31:5
* उच्यते न ॥ प्स्भ्_5.31:6
* यस्मादाह ॥ प्स्भ्_5.31:7
यथालब्धोपजीवकः लभते रुद्रसायुज्यम्
* अत्र लभते विन्दते आसादयतीत्यर्थः रुद्र इति कारणापदेशे ॥ प्स्भ्_5.32:1
* रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ प्स्भ्_5.32:2
* साक्षाद् रुद्रेण सह संयोगः सायुज्यम् ॥ प्स्भ्_5.32:3
* भावग्रहणम् आत्मेश्वराभ्याम् अन्यत्र प्रतिषेधार्थम् ॥ प्स्भ्_5.32:4
* योगस्य सम्यक्त्वं सायुज्यमिति योगपर्यायो ऽवगम्यते ॥ प्स्भ्_5.32:5
* धर्मात्मवचनाद् अतिगत्यानन्त्यवद् इत्यर्थः ॥ प्स्भ्_5.32:6
* आह तत् केनोपायेन लभते ॥ प्स्भ्_5.32:7
* किमध्ययनध्यापनाभ्यामेव ॥ प्स्भ्_5.32:8
* तदुच्यते न ॥ प्स्भ्_5.32:9
* यस्मादाह ॥ प्स्भ्_5.32:10
सदा रुद्रमनुस्मरेत्
* अत्र सदा नित्यं सततमव्युच्छिन्नमिति रुद्रमिति कारणापदेशे ॥ प्स्भ्_5.33:1
* रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ प्स्भ्_5.33:2
* रुद्रमिति द्वितीया कर्मणि ॥ प्स्भ्_5.33:3
* अनु पृष्ठकर्मक्रियायाम् ॥ प्स्भ्_5.33:4
* पूर्वोक्तो ध्येयोऽर्थः सततम् अनुस्मर्तव्यः । स्मृतिः चिन्तायाम् ॥ प्स्भ्_5.33:5
* ऊष्मवदवस्थितस्य कर्मणश्च्युतिहेतोः क्षपणार्थं सततम् अनुस्मर्तव्यः ॥ प्स्भ्_5.33:6
* स्मृतिस्तु देवनित्यतेत्यर्थः ॥ प्स्भ्_5.33:7
* ततः क्षीणे कर्मणि तद्दोषहेतुजालमूलविशिष्टस्य प्रत्यासैकनिमित्ताभावात् सायुज्यप्राप्तौ न पुनः संसारः ॥ प्स्भ्_5.33:8
* अत्र श्लोको निर्वचनः ॥ प्स्भ्_5.33:9
* आह अज्ञानकलुषपापवासनादिप्रसङ्गप्रसरणसम्भवात् संदेहः ॥ प्स्भ्_5.33:10
* सूक्ष्मवदवस्थिते कर्मणि क्षीणे ऽत्यन्तविशुद्धः सायुज्यमासादयति आहोस्विद् अविशुद्ध इति ॥ प्स्भ्_5.33:11
* उच्यते विशुद्धः ॥ प्स्भ्_5.33:12
* यस्मादाह ॥ प्स्भ्_5.33:13
छित्त्वा दोषाणां हेतुजालस्य मूलम्
* अत्र व्युत्क्रमाभिधानाच् छेदः क्रमशो योजनीयः ॥ प्स्भ्_5.34:1
* यन्त्रणधारणात्मकश्छेदो द्रष्टव्यः ॥ प्स्भ्_5.34:2
* किमर्थम् ॥ प्स्भ्_5.34:3
* सूक्ष्मवदवस्थितस्य कर्मणः क्षयार्थं वसत्यर्थादिनिर्देशार्थत्वात् ॥ प्स्भ्_5.34:4
* किंच अर्थानाम् अनिर्वचनार्थत्वात् तत्र जप एव केवलोऽभिहितः ॥ प्स्भ्_5.34:5
* इह तु यत इन्द्रियाणि जेतव्यानि यो जेता यया जेतव्यानि यथा जेतव्यानि यत्प्रयोजनं जेतव्यानि यस्मिंश्च जिते जितानि भवन्ति तद् वक्ष्यामः ॥ प्स्भ्_5.34:6
* तथा यस्यात्मवृत्तिर् अध्ययनध्यानस्मरणादि च वक्ष्यामः ॥ प्स्भ्_5.34:7
* तथा यत आत्मा छेत्तव्यः छेत्तारं छेदकरणं छेदप्रयोजनं छेद्यं छित्तिं यस्मिन् छिन्ने छिन्नं भवति तद् वक्ष्यामः ॥ प्स्भ्_5.34:8
* तदुच्यते छित्त्वा ॥ प्स्भ्_5.34:9
* अत्र छेदो नाम आत्मभावविश्लेषणमात्रम् ॥ प्स्भ्_5.34:10
* विच्छेदवचनाद् गम्यते ॥ प्स्भ्_5.34:11
* त्वा इति शून्यागारगुहावस्थितस्याध्ययनध्यानधारणयन्त्रणादिकं गम्यते ॥ प्स्भ्_5.34:12
* आह किं तत् ॥ प्स्भ्_5.34:13
* केभ्यो वा छेत्तव्यम् ॥ प्स्भ्_5.34:14
* तदुच्यते दोषाणां हेतुजालस्य मूलम् इति ॥ प्स्भ्_5.34:15
* अत्र दोषाः शब्दस्पर्शरूपरसगन्धाः ॥ प्स्भ्_5.34:16
* कस्मात् ॥ प्स्भ्_5.34:17
* कामार्जनादिमूलत्वात् ॥ प्स्भ्_5.34:18
* यस्मादुक्तम् । कामः क्रोधस्तथा लोभो भयं स्वप्नश्च पञ्चमः । रागो द्वेषश्च मोहश्च ॥ प्स्भ्_5.34:19
* तथा अर्जनरक्षणक्षयसङ्गहिंसादयो दोषाः ॥ प्स्भ्_5.34:20
* अर्जनं नाम प्रतिग्रहजयक्रयविक्रयनिर्वेश्यादिषु वर्णिनां विषयार्जनोपायाः ॥ प्स्भ्_5.34:21
* एतेषु च विषयाणामर्जने वर्ततात्मपीडा परपीडा वा अवर्जनीये भवतः ॥ प्स्भ्_5.34:22
* तत्र यद्यात्मानं पीडयति तेन इहैव लोके दुःखी भवति ॥ प्स्भ्_5.34:23
* स्यात् परं पीडयति तत्राप्यस्याधर्मो दुःखादिफलः संचीयते ॥ प्स्भ्_5.34:24
* तच् च दुःखं नान्योऽनुभवति कर्तैवानुभवति ॥ प्स्भ्_5.34:25
* अपि च किम्पाकफलोपमा विषयाः ॥ प्स्भ्_5.34:26
* तद्यथा श्रूयते लवणसागरसंनिकर्षे कालयवनद्वीपे किम्पाका नाम विषवृक्षाः ॥ प्स्भ्_5.34:27
* तत्फलान्य् आस्वादेनामृतोपमानि च केचिदज्ञानाद् गुडवद् भक्षयन्ति ॥ प्स्भ्_5.34:28
* भक्षितानि च तानि मूर्छां छर्दिं च जनयन्ति ॥ प्स्भ्_5.34:29
* तत्तीव्रदुःखाभिभूताः पञ्चत्वमापुः ॥ प्स्भ्_5.34:30
* श्रुत्वा तु सुहृदां वाक्यं यो नरो ह्य् अवमन्यते । स दह्यते विपाकान्ते किम्पाकैरिव भक्षितैः ॥ प्स्भ्_5.34:31
* एवं किम्पाकफलोपमा विषयाः सेव्यमानाः सुखं जनयन्ति ॥ प्स्भ्_5.34:32
* परिणामे संसारे जन्मनिमित्तत्वाद् दुःखानि प्रतिपद्यन्ते ॥ प्स्भ्_5.34:33
* इत्येवं विषयाणामर्जने दोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि कश्चित् ॥ प्स्भ्_5.34:34
* तथा ऽन्यः कथम् ॥ प्स्भ्_5.34:35
* अस्त्वेष विषयाणामर्जने दोषः ॥ प्स्भ्_5.34:36
* स भवतु तेषाम् ॥ प्स्भ्_5.34:37
* न वयं तत् प्रतिषेधयामः ॥ प्स्भ्_5.34:38
* अयं त्व् अन्यः कष्टो विषयदोषः ॥ प्स्भ्_5.34:39
* कश्चासाव् इति ॥ प्स्भ्_5.34:40
* उच्यते रक्षणदोषः ॥ प्स्भ्_5.34:41
* अर्जितानाम् अप्येषाम् अवश्यम् एवोद्यतायुधेन रक्षा विधातव्या ॥ प्स्भ्_5.34:42
* कस्मात् ॥ प्स्भ्_5.34:43
* नृपदहनतस्करदायादसाधारणफलत्वात् ॥ प्स्भ्_5.34:44
* तत्रात्मपीडा ॥ प्स्भ्_5.34:45
* परपीडायां च यथोक्तः ॥ प्स्भ्_5.34:46
* उक्तं हि । स्वद्रव्यं पुरुषं चोराः स्वमांसं पिशिताशिनः । क्लेशयन्ति यथा घोरास् तथाहि विषया नरम् ॥ प्स्भ्_5.34:47
* क्लेशं समनुभुङ्क्ते च विषयाणां परिग्रहात् । तेषामेव परित्यागात् सर्वक्लेशक्षयो भवेत् ॥ प्स्भ्_5.34:48
* आत्मदुःखोपघातार्थं त्यागधर्मं समाचरेत् । नापरित्यज्य विषयान् विषयी सुखमेधते ॥ प्स्भ्_5.34:49
* विषयाणामर्जनादौ दोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि कश्चित् ॥ प्स्भ्_5.34:50
* तथा अन्यः कथम् ॥ प्स्भ्_5.34:51
* अस्त्वेष विषयाणाम् अर्जनरक्षणादौ दोषौ भवतस्तेषाम् ॥ प्स्भ्_5.34:52
* न वयं तौ प्रतिषेधयामः ॥ प्स्भ्_5.34:53
* अयं त्व् अन्यः कष्टतरो विषयाणां दोषः ॥ प्स्भ्_5.34:54
* कश्चासाव् इति ॥ प्स्भ्_5.34:55
* उच्यते क्षयो दोषः ॥ प्स्भ्_5.34:56
* अर्जितानां सुरक्षितानाम् अप्येषाम् अवश्यम् एवाभ्युपगन्तव्यः ॥ प्स्भ्_5.34:57
* विषयक्षये च पुनर्विषयिणां तीव्रदुःखमभिव्यज्यते ॥ प्स्भ्_5.34:58
* मत्स्यादिवद् यथोदकक्षये नदीनां तद्वत् तस्माद् अशोभनम् ॥ प्स्भ्_5.34:59
* उक्तं हि । त्रय एव ह्रदा दुर्गाः सर्वभूतापहारिणः । स्त्रियो ऽन्नपानम् ऐश्वर्यं तेषु जाग्रथ ब्राह्मणाः ॥ प्स्भ्_5.34:60
* नास्ति ज्ञानसमं चक्षुर्नास्ति क्रोधसमो रिपुः । नास्ति लोभसमं दुःखं नास्ति त्यागात् परं सुखम् ॥ प्स्भ्_5.34:61
* इति ॥ प्स्भ्_5.34:62
* एवं विषयाणां क्षयदोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि कश्चित् ॥ प्स्भ्_5.34:63
* तथान्यः कथम् इति ॥ प्स्भ्_5.34:64
* सन्त्वेते विषयदोषाः ॥ प्स्भ्_5.34:65
* अयमन्यतरः कष्टतरो दोषः कश्चासाव् इति ॥ प्स्भ्_5.34:66
* उच्यते सङ्गदोषः ॥ प्स्भ्_5.34:67
* यदि तावद् अर्जनं क्रियते रक्षणं च क्षये च पुनः पुनरर्जनं क्रियते रक्षणं च ॥ प्स्भ्_5.34:68
* यदि सङ्गदोषो न स्यात् ॥ प्स्भ्_5.34:69
* कथम् ॥ प्स्भ्_5.34:70
* यावद् अयम् इन्द्रिययुक्तो विषयान् अभिलषति तावदस्य तृप्तिरुपशान्तिरौत्सुक्यविनिवृत्तिश्च न भवति ॥ प्स्भ्_5.34:71
* भूय एव विषयान् अन्वेष्टुम् आरभते ॥ प्स्भ्_5.34:72
* ततः पुनरतृप्त्यादयो भवन्ति तद्वत् ॥ प्स्भ्_5.34:73
* तस्माद् अशोभनम् ॥ प्स्भ्_5.34:74
* उक्तं हि । न जातु कामः कामानाम् उपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ प्स्भ्_5.34:75
* यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । नालमेकस्य तत् तृप्त्यै तस्माद् विद्वान् शमं व्रजेत् ॥ प्स्भ्_5.34:76
* इति ॥ प्स्भ्_5.34:77
* एवं विषयाणां सङ्गदोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि कश्चित् ॥ प्स्भ्_5.34:78
* तथान्यः कथम् इति ॥ प्स्भ्_5.34:79
* सन्त्वेते विषयाणामर्जनादयो दोषाः ॥ प्स्भ्_5.34:80
* ते भवन्तु तेषाम् ॥ प्स्भ्_5.34:81
* न वयं तान् प्रतिषेधयामः ॥ प्स्भ्_5.34:82
* अयं त्व् अन्यः कष्टतमो विषयाणां दोषः ॥ प्स्भ्_5.34:83
* कश्चासाव् इति ॥ प्स्भ्_5.34:84
* उच्यते हिंसादोषः ॥ प्स्भ्_5.34:85
* शक्यमेतेषां विषयाणाम् अर्जनादि कर्तुम् इन्द्रियलौल्यदोषोऽपि भवतु ॥ प्स्भ्_5.34:86
* यदि हिंसादोषो न स्यात् ॥ प्स्भ्_5.34:87
* कथम् ॥ प्स्भ्_5.34:88
* एतेषामेव विषयाणामुपभोगे वर्तता अवश्यमेव हिंसादिदोषाः कर्तव्याः ॥ प्स्भ्_5.34:89
* कस्मात् ॥ प्स्भ्_5.34:90
* नानुपहत्य भूतानि विषयोपभोगः शक्यते कर्तुम् ॥ प्स्भ्_5.34:91
* तत्र शब्दनिमित्तं तावदयं क्रियते ॥ प्स्भ्_5.34:92
* तद्यथा वीणानिमित्तं खदिरादीन् छिद्यमानान् दृष्ट्वा तन्त्रीनिमित्तं वा कांश्चिद्धिंस्यमानान् दृष्ट्वा यदि कश्चिद् ब्रूयाद् अशोभनोऽयं भूतवधः क्रियते कदनं कर्म क्रियते स वक्तव्योऽत्र ते न शोभनोऽयम् ॥ प्स्भ्_5.34:93
* यदा भिक्षाप्रदगृहेषु रम्यान् शब्दान् श्रोष्यसि तत्र परः परितोषो भविष्यति ॥ प्स्भ्_5.34:94
* तथा सूत्रादिनिमित्तं तावद् भूतवधः क्रियते ॥ प्स्भ्_5.34:95
* तद्यथा कोशकारादीन् वध्यमानान् दृष्ट्वा यदि कश्चिद् ब्रूयाद् अशोभनोऽयं भूतवधः कदनं कर्म क्रियते ॥ प्स्भ्_5.34:96
* स वक्तव्योऽत्र ते न शोभनोऽयम् यदा भिक्षदगृहेषु मृदुतरस्पर्शानि वासांसि प्राप्स्यसि तत्र ते परः परितोषो भविष्यति ॥ प्स्भ्_5.34:97
* तथा रूपनिमित्तं तावद् भूतवधः क्रियते ॥ प्स्भ्_5.34:98
* तद्यथा अशोकादीन् वृक्षान् छिद्यमानान्दृष्ट्वा हस्तिनश्च दन्तनिमित्तं वध्यमानान् दृष्ट्वा यदि कश्चिद् ब्रूयाद् अशोभनो ऽयं भूतवधः कदनं कर्म क्रियते स वक्तव्योऽत्र ते न शोभनोऽयम् ॥ प्स्भ्_5.34:99
* यदा भिक्षदगृहम् अलंकृतकवाटगोपुरं द्रक्ष्यसि तत्र ते परः परितोषो भविष्यति ॥ प्स्भ्_5.34:100
* तथा रसनिमित्तं तावद् भूतवधः क्रियते ॥ प्स्भ्_5.34:101
* तद्यथा तित्तिरिमयूरवराहादीन् वध्यमानान् दृष्ट्वा यदि कश्चिद् ब्रूयाद् अशोभनो ऽयं भूतवधः क्रियते ॥ प्स्भ्_5.34:102
* स वक्तव्योऽत्र ते न शोभनोऽयम् ॥ प्स्भ्_5.34:103
* यदा भिक्षदगृहेषु षड्रसमांसप्रकारैर् भोक्ष्यसे तत्र ते परः परितोषो भविष्यति ॥ प्स्भ्_5.34:104
* तथा गन्धनिमित्तं तावद् भूतवधः क्रियते । तद्यथा पञ्चनखादीन् वध्यमानान् दृष्ट्वा यदि कश्चिद् ब्रूयाद् अशोभनोऽयं भूतवधः कदनं कर्म क्रियते ॥ प्स्भ्_5.34:105
* स वक्तव्योऽत्र ते न शोभनोऽयम् ॥ प्स्भ्_5.34:106
* यदा भिक्षदगृहेषु सुगन्धान् गन्धान् प्राप्स्यसि तत्र ते परितोषो भविष्यति ॥ प्स्भ्_5.34:107
* एवम् । कामः क्रोधश्च लोभश्च भयं स्वप्नश्च पञ्चमः । रागो द्वेषश्च मोहश्च । इति ॥ प्स्भ्_5.34:108
* अर्जनरक्षणक्षयसङ्गहिंसादिमूलत्वाद् अतोऽत्र शब्दादयो विषया दोषाः ॥ प्स्भ्_5.34:109
* दोषाश्च कथम् ॥ प्स्भ्_5.34:110
* चित्तवैचित्ये ॥ प्स्भ्_5.34:111
* दूषयन्तीति दोषाः ॥ प्स्भ्_5.34:112
* दूषयन्ति यस्माद् अध्ययनध्यानादिनिष्ठं साधकं विचित्तं कुर्वन्तीति दोषाः ॥ प्स्भ्_5.34:113
* दोषाणाम् इति षष्ठीबहुवचनम् ॥ प्स्भ्_5.34:114
* आह किं दोषाणामेव दोषेभ्य एव वा छेत्तव्यमुक्तम् ॥ प्स्भ्_5.34:115
* न ॥ प्स्भ्_5.34:116
* यस्मादाह हेतुः ॥ प्स्भ्_5.34:117
* अत्र हेतुरधर्मः ॥ प्स्भ्_5.34:118
* कस्मात् ॥ प्स्भ्_5.34:119
* चित्तच्युतिहेतुत्वात् यस्मात् तेनाविष्टः साधको ऽध्ययनस्मरणादिभ्यश् च्यवतीत्यतो ऽत्राधर्मो हेतुः धर्मस्तु स्थित्यादिहेतुः ॥ प्स्भ्_5.34:120
* आह कस्यायं हेतुः ॥ प्स्भ्_5.34:121
* उच्यते जालस्य ॥ प्स्भ्_5.34:122
* अत्र यदा अधर्मः कूटस्थो ऽनारब्धकार्यस् तदा हेतुरित्युच्यते ॥ प्स्भ्_5.34:123
* यदा त्व् अज्ञानवासनावशाद्धृत्या स्थित्यादिभावम् आपन्नस्तदा जालाख्यां लभते ॥ प्स्भ्_5.34:124
* कस्मात् ॥ प्स्भ्_5.34:125
* जालादिवत् समूहस्येत्यर्थः ॥ प्स्भ्_5.34:126
* अन्यस्य तन्मयकारणस्याभावात् ॥ प्स्भ्_5.34:127
* जालस्येति षष्ठी छेदनशेषत्वे वर्तते ॥ प्स्भ्_5.34:128
* अतश्छिन्नमेव भवति ॥ प्स्भ्_5.34:129
* कस्मात् ॥ प्स्भ्_5.34:130
* दोषचित्तसंनिपातप्रभवत्वाद्धेतुजालयोः ॥ प्स्भ्_5.34:131
* आह किं प्रतिसम्बन्धि दोषहेतुजालसंश्लिष्टं भवति ॥ प्स्भ्_5.34:132
* तदा कथमभिलप्यते ॥ प्स्भ्_5.34:133
* तदुच्यते मूलम् ॥ प्स्भ्_5.34:134
* अत्र मूलमित्युक्ते कस्येति भवति ॥ प्स्भ्_5.34:135
* दोषचित्तसंनिपातप्रभवत्वाद्धेतुजालयोः प्रवृत्तेर् इत्यतो ऽवगम्यते संयोगमूलमेवात्र मूलमिति ॥ प्स्भ्_5.34:136
* आह केनायं छेत्ता मूलच्छेदं करोति ॥ प्स्भ्_5.34:137
* तदुच्यते ॥ प्स्भ्_5.34:138
बुद्ध्या
* अन्तःकरणाख्या बुद्धिरित्युक्ता ॥ प्स्भ्_5.35:1
* तया धर्मस्मृतिचोदनादिसहितया विद्यागृहीतया बुद्ध्या छेद्यं स्थाप्यं चेत्यर्थः ॥ प्स्भ्_5.35:2
* आह किं दोषादिसहगतवधादिविश्लिष्टमपि तत् परतन्त्रमुच्यते ॥ प्स्भ्_5.35:3
* न ॥ प्स्भ्_5.35:4
* यस्मादाह मूलाख्यायां निवृत्तायाम् ॥ प्स्भ्_5.35:5
संचित्तम्
* अत्र सम् इति दोषादिविश्लिष्टं स्वयमेव स्वगुणत्वेन परिगृह्यते अग्न्युष्णत्ववदित्य् आनुबन्धित्वाच् चेत्यर्थः ॥ प्स्भ्_5.36:1
* आह किं तद् इति ॥ प्स्भ्_5.36:2
* उच्यते चित्तम् ॥ प्स्भ्_5.36:3
* अत्र चिती संज्ञाने चेतयति चिनोति वा अनेनेति चित्तम् ॥ प्स्भ्_5.36:4
* चेतयति सुखं दुःखं पदार्थान् चिनोति धर्माधर्मौ अर्जयतीत्यतः चेतयति चिनोति वा अनेनेति चित्तम् ॥ प्स्भ्_5.36:5
* चित्तं मनो ऽन्तःकरणमित्यर्थः ॥ प्स्भ्_5.36:6
* अत्र त्व् एतेभ्यो दोषहेतुत्वादिभ्यो युगपच् छेत्तव्यं विद्यमानेभ्यस्तु क्रमशः क्षपणमिति ॥ प्स्भ्_5.36:7
* आह छित्त्वा तच् चित्तं किं कर्तव्यम् ॥ प्स्भ्_5.36:8
* उच्यते रुद्रस्थम् ॥ प्स्भ्_5.36:9
* यस्मादाह ॥ प्स्भ्_5.36:10
स्थापयित्वा च रुद्रे
* अत्र ष्ठा गतिनिवृत्तौ ॥ प्स्भ्_5.37:1
* चित्तस्य रुद्राद् अव्यवधानं स्थितिरित्युच्यते ॥ प्स्भ्_5.37:2
* वा इति श्मशानाद्यवस्थस्य स्मृतिकर्मणो निष्ठा ॥ प्स्भ्_5.37:3
* चशब्दः समुच्चये ॥ प्स्भ्_5.37:4
* न केवलं छित्त्वा स्थेयं किंतु स्थापयितव्यं चेत्यर्थः ॥ प्स्भ्_5.37:5
* रुद्रे इति कारणापदेशे ॥ प्स्भ्_5.37:6
* रुद्रस्य रुद्रत्वं पूर्वोक्तम् रुद्र इत्यौपश्लेषिकं संनिधानम् ॥ प्स्भ्_5.37:7
* रुद्रे चित्तम् उपश्लेषयितव्यं नान्यत्रेत्य् अर्थः ॥ प्स्भ्_5.37:8
* एवं विषयेभ्य इन्द्रियाणां जयः कर्तव्यः ॥ प्स्भ्_5.37:9
* अत्र यो जेता आत्मा ॥ प्स्भ्_5.37:10
* यया जेतव्यानि बुद्ध्या ॥ प्स्भ्_5.37:11
* यथा जेतव्यानि क्रमशश्च ॥ प्स्भ्_5.37:12
* यत्प्रयोजनं जेतव्यानि चित्तस्थित्यर्थम् ॥ प्स्भ्_5.37:13
* यस्मिंश्च जिते जितानि भवन्ति चित्तम् इत्येतदपि व्याख्यातम् ॥ प्स्भ्_5.37:14
* एवं जपयन्त्रणधारणात्मकच्छेदादिष्वपि योज्यम् ॥ प्स्भ्_5.37:15
* तथान्तःकरणवृत्तिम् आस्थाय कालविशेषनिमित्तरश्मिमणिदीपवत् तथात्मवृत्तिरध्ययनध्यानस्मरणादीनि चित्तस्थितिश्च व्याख्याता ॥ प्स्भ्_5.37:16
* श्लोको निर्वचनः ॥ प्स्भ्_5.37:17
* आह कार्यकरणं च तच् चित्तस्थितिसमकालम् एव रुद्रे स्थितानि तानि युक्तानि ॥ प्स्भ्_5.37:18
* अथ किं तान्येव युक्तस्य लक्षणानि इति ॥ प्स्भ्_5.37:19
* उच्यते न ॥ प्स्भ्_5.37:20
* यस्मादाह ॥ प्स्भ्_5.37:21
एकः क्षेमी सन् वीतशोकः
* अत्र धर्माधर्मयोर् वृत्त्योरुपरमे अवसितप्रयोजनत्वात् पक्वफलवत् सर्पकञ्चुकवद् गतप्रायेषु कार्यकरणेषु रुद्रे स्थितचित्तो निष्कल एक इत्यभिधीयते ॥ प्स्भ्_5.38:1
* तथा योगव्यासङ्गकरे ऽधर्मे निवृत्ते दोषादिविश्लिष्टो निस्तीर्णकान्तारवद् अवस्थितो रुद्रे स्थितचित्तः क्षेमी इत्यभिधीयते ॥ प्स्भ्_5.38:2
* तथा सूक्ष्मस्थूलसबाह्याभ्यन्तरसलक्षणविलक्षणासु क्रियासु विनिवृत्तासु रुद्रे स्थितचित्तो निष्क्रियः सन् इत्यभिधीयते ॥ प्स्भ्_5.38:3
* आह अथ निष्क्रियोऽयमिति कथमवगम्यते ॥ प्स्भ्_5.38:4
* किं चात्र युक्तस्य लक्षणत्रयमेव ॥ प्स्भ्_5.38:5
* उच्यते न ॥ प्स्भ्_5.38:6
* यस्मादाह वीतशोकः ॥ प्स्भ्_5.38:7
* अत्र शोकश्चिन्तेत्यनर्थान्तरम् ॥ प्स्भ्_5.38:8
* सा च चिन्ता द्विविधा भवति ॥ प्स्भ्_5.38:9
* कुशला चाकुशला च ॥ प्स्भ्_5.38:10
* तत्र कुशला नाम अध्ययनध्यानस्मरणाद्या ॥ प्स्भ्_5.38:11
* अकुशला नाम अनध्ययनाध्यानास्मरणाद्या ॥ प्स्भ्_5.38:12
* एवं जपयन्त्रणधारणादींश्च करिष्यामि न करिष्यामीत्येवम् अनेकविधायामपि चिन्तायां विनिवृत्तायां व्यपगतशोको वीतशोक इत्यभिधीयते ॥ प्स्भ्_5.38:13
* एवमत्र योगपदार्थः समाप्तः ॥ प्स्भ्_5.38:14
* कस्मात् ॥ प्स्भ्_5.38:15
* अर्थानां निर्वचनत्वात् ॥ प्स्भ्_5.38:16
* यस्माद् अस्याध्यायस्यादाव् उद्दिष्टा ये पदार्थास्ते दोषच्छेदासङ्गस्थित्यादिषु व्याख्याताः ॥ प्स्भ्_5.38:17
* एवमनेन युक्तेन ब्रह्मादयो देवा विशेषिता भवन्ति ॥ प्स्भ्_5.38:18
* तदसङ्गादिवचनात् ॥ प्स्भ्_5.38:19
* आह अथ सांख्ययोगमुक्ताः किं न विशेषिताः ॥ प्स्भ्_5.38:20
* उच्यते विशेषिताः ॥ प्स्भ्_5.38:21
* कथम् ॥ प्स्भ्_5.38:22
* तज्ज्ञानातिशयात् ॥ प्स्भ्_5.38:23
* कथम् ॥ प्स्भ्_5.38:24
* सांख्ययोगमुक्ताः कैवल्यगताः स्वात्मपरात्मज्ञानरहिताः संमूर्छितवत् स्थिताः ॥ प्स्भ्_5.38:25
* अस्य तु ज्ञानमस्ति ॥ प्स्भ्_5.38:26
* यस्मादाह ॥ प्स्भ्_5.38:27
अप्रमादी गच्छेद् दुःखानामन्तम् ईशप्रसादात्
* इति ॥ प्स्भ्_5.39:1
* एवं कुर्वन् सर्वज्ञो ऽस्यासंमोहं ज्ञापयति ॥ प्स्भ्_5.39:2
* उक्तम् । कार्यकरणाञ्जनेभ्यो निरञ्जनेभ्यश्च सर्वपुरुषेभ्यः । अप्राप्तान्तं पुरुषं यो ऽभ्यधिकं वर्णयेत् स बुधः ॥ प्स्भ्_5.39:3
* आह गतं यद् गन्तव्यम् ॥ प्स्भ्_5.39:4
* अथ किमयमुपचारः ॥ प्स्भ्_5.39:5
* उच्यते न ॥ प्स्भ्_5.39:6
* अपरिज्ञानान् नास्माकं योगनिष्ठं तन्त्रम् ॥ प्स्भ्_5.39:7
* अपितु तत्कैवल्यव्यतिरिक्तोऽपि सर्वज्ञेनोच्यते ॥ प्स्भ्_5.39:8
* अप्रमादाद् गच्छेद् दुःखानाम् अन्तमीशप्रसादात् ॥ प्स्भ्_5.39:9
* अत्र प्रमादशब्दो ऽनागतानवधानगतत्वं पारतन्त्र्यं च ख्यापयतीत्यर्थः ॥ प्स्भ्_5.39:10
* तदङ्कुरपरिरक्षणवद् अनागतकालप्रतीकारकरणेन चैवायम् अप्रमादीशब्दो द्रष्टव्यः ॥ प्स्भ्_5.39:11
* तस्माद् युक्तेनैवाप्रमादिना स्थेयम् ॥ प्स्भ्_5.39:12
* तथा वर्तमानेन माहेश्वरमैश्वर्यं प्राप्तमेवेत्युक्तम् ॥ प्स्भ्_5.39:13
* गच्छेद् इति गतिः प्राप्तिर्भवति ॥ प्स्भ्_5.39:14
* गमॢ सृपॢ गतौ ॥ प्स्भ्_5.39:15
* प्राप्नोतीत्यात्मेति पत्त्रपाण्डुताफलपाकवत् ॥ प्स्भ्_5.39:16
* कथम् ॥ प्स्भ्_5.39:17
* तस्मिन्नेव प्रवर्ततो यो ऽयं दुःखापोहो गुणस्तत्रेयं गतिरिति संज्ञा क्रियत इत्यर्थः ॥ प्स्भ्_5.39:18
* दुःखानाम् इत्यत्र प्रसिद्धानि दुःखान्याध्यात्मिकाधिभौतिकाधिदैविकानि ॥ प्स्भ्_5.39:19
* तत्राध्यात्मिकं द्विविधं दुःखं शारीरं मानसं च ॥ प्स्भ्_5.39:20
* तत्र मनसि भवं मानसं क्रोधलोभमोहभयविषादेर्ष्यासूयाद्वेषमदमानमात्सर्यारत्याद्यविशेषदर्शनादिनिमित्तं तद् दुःखम् ॥ प्स्भ्_5.39:21
* तथा शारीरमपि शिरोरोगदन्तरोगाक्षिरोगज्वरप्रतिमत्स्यातिसारकासश्वासोदरामयादिनिमित्तोत्पन्नं दुःखम् ॥ प्स्भ्_5.39:22
* तथान्यदपि पञ्चविधं दुःखं भवति ॥ प्स्भ्_5.39:23
* तद्यथा गर्भजन्माज्ञानजरामरणम् इति ॥ प्स्भ्_5.39:24
* तत्र गर्भे तावद् यदायं पुरुषो मातुरुदरे न्यस्तगात्रः खण्डशकटस्थ इव पुमान् नियमश्रमम् अनुभवमानो ऽवकाशरहितः आकुञ्चनप्रसारणादिष्व् अपर्याप्तावकाशः सर्वक्रियासु निरुद्ध इत्येवम् अद्वारके अन्धतमसि मूढो बन्धनस्थ इव पुमान् अवश्यं समनुभवति ॥ प्स्भ्_5.39:25
* कस्मात् ॥ प्स्भ्_5.39:26
* चेतनत्वाद् भोक्तृत्वात् तन्मयत्वाच् च न तु कार्यकरणानि ॥ प्स्भ्_5.39:27
* कस्मात् ॥ प्स्भ्_5.39:28
* अचेतनावादभोक्तृत्वाद् अतन्मयत्वाच् च ॥ प्स्भ्_5.39:29
* तथा जन्मदुःखमपि ॥ प्स्भ्_5.39:30
* यदायं पुरुषो जायमानः पुरीषपङ्कमग्नवदनो मूत्रधाराभिर् अभिषिच्यमानो देहे संवृतद्वारके योनिनिःसरणसंकटे ऽत्यर्थं पीड्यमानो ऽस्थिमर्मबन्धनैः प्रघृष्यमाणो विक्रोशन् निनदंश् च जायते ॥ प्स्भ्_5.39:31
* पश्चात् पुनस्तस्यानुचितेन बाह्येन वायुना जननावर्तेन स्पृष्टस्य तीव्रं दुःखमभिव्यज्यते ॥ प्स्भ्_5.39:32
* राजपुष्टकादिवत् ॥ प्स्भ्_5.39:33
* तेन चास्य जात्यन्तरादिस्मृतिहेतुसंस्कारलोपो भवति ॥ प्स्भ्_5.39:34
* एव जन्मदुःखं पुरुष एवानुभवति ॥ प्स्भ्_5.39:35
* कस्मात् ॥ प्स्भ्_5.39:36
* चेतनत्वाद् भोक्तृत्वात् तन्मयत्वाच् च ॥ प्स्भ्_5.39:37
* न तु कार्यकरणानि ॥ प्स्भ्_5.39:38
* कस्मात् ॥ प्स्भ्_5.39:39
* अचेतनत्वाद् अभोक्तृत्वाद् अतन्मयत्वाच् च ॥ प्स्भ्_5.39:40
* तथा अज्ञानदुःखमपि अहंकारसत्कृतगात्रो न जानन् को ऽहं कुतोऽहं कस्याहं केन वा बन्धनेन बद्धोऽहमिति किं कारणं किमकारणं किं भक्ष्यं किमभक्ष्यं किं पेयं किमपेयं किं सत्यं किमसत्यं किम् ज्ञानं किमज्ञानम् इत्यज्ञानदुःखं पुरुष एवानुभवति ॥ प्स्भ्_5.39:41
* कस्मात् ॥ प्स्भ्_5.39:42
* चेतनत्वाद् भोक्तृत्वात् तन्मयत्वाच् च ॥ प्स्भ्_5.39:43
* न तु कार्यकरणानि ॥ प्स्भ्_5.39:44
* कस्मात् ॥ प्स्भ्_5.39:45
* अचेतनत्वाद् अभोक्तृत्वाद् अतन्मयत्वाच् च ॥ प्स्भ्_5.39:46
* तथा जरादुःखमपि ॥ प्स्भ्_5.39:47
* यदायं पुरुषो जराजर्जरितः कृशशरीरः शिथिलीकृतनयनकपोलनासिकाभ्रूदशनावरणः क्रौञ्चजानुरिव निर्विण्णो ऽक्षिदूषिकादिष्वपकर्षणादिष्व् असमर्थो विहंग इव लूनपक्षो लङ्घनप्लवनधावनादिष्व् असमर्थः पूर्वातीतानि भोगव्यायामशिल्पकर्माण्य् अनुस्मरमाणः स्मृतिवैकल्यम् आपन्नो ऽवश्यं क्लेशमनुभवति ॥ प्स्भ्_5.39:48
* कस्मात् ॥ प्स्भ्_5.39:49
* चेतनत्वाद् भोक्तृत्वात् तन्मयत्वाच् च ॥ प्स्भ्_5.39:50
* न तु कार्यकरणाणि ॥ प्स्भ्_5.39:51
* कस्मात् ॥ प्स्भ्_5.39:52
* अचेतनत्वाद् अभोक्तृत्वाद् अतन्मयत्वाच् च ॥ प्स्भ्_5.39:53
* तथा मृत्युदुःखमपि ॥ प्स्भ्_5.39:54
* यदायं पुरुषो मरणसमये श्लथकरणः शिरोधरम् अवलम्बमानः श्वासनोच्छ्वसनतत्परः खुरुखुरायमाणकण्ठः स्वोपार्जितमणिकनकधनधान्यपत्नीपुत्रपशुसंघातः कस्य भविष्यतीत्य् अनुतप्यमानः विषयाननु दोदूयमानः सलिलादि याचमानो विरक्तवदनो मर्मभिश् छिद्यमानैर् अवश्यं क्लेशमनुभवति ॥ प्स्भ्_5.39:55
* कस्मात् ॥ प्स्भ्_5.39:56
* चेतनत्वाद् भोक्तृत्वात् तन्मयत्वाच् च ॥ प्स्भ्_5.39:57
* न तु कार्यकरणानि ॥ प्स्भ्_5.39:58
* कस्मात् ॥ प्स्भ्_5.39:59
* अचेतनत्वाद् अभोक्तृत्वाद् अतन्मयत्वाच् च ॥ प्स्भ्_5.39:60
* उक्तं हि । गर्भे प्रविशन् दुःखं निवसन् दुःखं विनिष्क्रमन् दुःखम् । जातश्च दुःखम् ऋच्छति तस्मादपुनर्भवः श्रेयान् ॥ प्स्भ्_5.39:61
* इति ॥ प्स्भ्_5.39:62
* तथान्यदपि पञ्चविधं दुःखं भवति ॥ प्स्भ्_5.39:63
* तद्यथा इहलोकभयं परलोकभयम् अहितसंप्रयोगः हितविप्रयोगः इच्छाव्याघातश्चेति ॥ प्स्भ्_5.39:64
* तथान्यदपि त्रिविधं दुःखं भवति ॥ प्स्भ्_5.39:65
* आध्यात्मिकमज्ञानं पुरुषे आधिभौतिकं विषयित्वम् आधिदैविकं च पशुत्वं त्रिविधम् अपरं प्राहुः ॥ प्स्भ्_5.39:66
* इत्येवमादीनि बाधनाया अप्रीतिफलाया जन्मनिमित्तत्वाद् दुःखानीत्युपचर्यन्ते ॥ प्स्भ्_5.39:67
* आह चरणाधिकारे ऽनतिप्रसादाद् अशिवत्वसंज्ञके सर्वाण्य् अनतिप्रसादबीजत्वात् कुतो नात्यन्तनिवृत्तानि भवन्ति ॥ प्स्भ्_5.39:68
* कस्मात् ॥ प्स्भ्_5.39:69
* संहारं प्राप्तस्य निगडमुक्ताधिकारवन् मुक्ताव् अतिशयितगुणप्राप्त्यर्थम् उच्यते गच्छेद् दुःखानामन्तम् ॥ प्स्भ्_5.39:70
* दुःखानाम् अत्यन्तं परमापोहो गुणावाप्तिश्च परं भवतीति ॥ प्स्भ्_5.39:71
* तदुभयमपि इत एव भवतीति ॥ प्स्भ्_5.39:72
* तदाह ईशप्रसादात् ॥ प्स्भ्_5.39:73
* अत्रेश इत्येतद् भगवतो नामधेयम् ॥ प्स्भ्_5.39:74
* ईशः कस्मात् ॥ प्स्भ्_5.39:75
* विद्यादिकार्यस्येशनादीशः ॥ प्स्भ्_5.39:76
* प्रसादो नाम सम्प्रदानेच्छा ॥ प्स्भ्_5.39:77
* तस्मात् प्रसादात् सर्वदुःखापोहो गुणावाप्तिश् चदिम् उपाध्यन्तरात् परपरिवादादिवचनात् शुद्धिरिव युगपदित्यर्थः ॥ प्स्भ्_5.39:78
* एवम् अयम् अथशब्दः ॥ प्स्भ्_5.39:79
* पशुपतेर् इत्युद्दिष्टयोर् दुःखान्तप्रसादयोर् गच्छेद् दुःखानाम् अन्तमीशप्रसादादिति दुःखान्तं परिसमाप्तमिति ॥ प्स्भ्_5.39:80
* एवमध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम् ॥ प्स्भ्_5.39:81
अत्रेदं ब्रह्म जपेत्
* इति ॥ प्स्भ्_5.40:1
* अस्य पूर्वोक्तोऽर्थः ॥ प्स्भ्_5.40:2
* विधिनैव पूर्वोक्तेन विधिना जप्तव्यम् ॥ प्स्भ्_5.40:3
* न तु दुःखान्तगतेन गणपतिवदित्यर्थः ॥ प्स्भ्_5.40:4
* आह कामित्वात् कृपया भगवता दुःखान्तो दत्तः स्वेच्छयैव न पुनरदुःखान्तं करिष्यति ॥ प्स्भ्_5.40:5
* अथाशक्तस् तथाप्यस्य शक्तिव्याघातः पाचकवद् अकर्मापेक्षत्वं चोच्यते ॥ प्स्भ्_5.40:6
* अत्र यथा नित्यो दुःखान्तस्तथा वक्ष्यामः ॥ प्स्भ्_5.40:7
* यथा च काङ्क्षतो लिप्सतश् च साधकाधिकारनिवृत्तिस्तथा वक्ष्यामः ॥ प्स्भ्_5.40:8
* पदार्थनिगमनार्थे चोच्यते ॥ प्स्भ्_5.40:9
ईशानः सर्वविद्यानाम्
* अत्र ईशनाद् ईशानः ॥ प्स्भ्_5.41:1
* अत्रेशनाद् ईशान इत्युक्तं कारणम् ॥ प्स्भ्_5.41:2
* ईशानः प्रभुः धातेत्यर्थः ॥ प्स्भ्_5.41:3
* आह कस्यायमीशानः ॥ प्स्भ्_5.41:4
* तदुच्यते सर्वस्येशानः । सर्वशब्दो विद्याप्रकृतेर् निरवशेषवाची द्रष्टव्यः ॥ प्स्भ्_5.41:5
* विद्यानां धर्मार्थकामकैवल्यतत्साधनपराणाम् ईशानः विद्यानामिति षष्ठीबहुवचनम् ॥ प्स्भ्_5.41:6
* आह किं विद्यानामेवेशानः न तु विद्याभिर्ये विदन्ति ॥ प्स्भ्_5.41:7
* उच्यते ॥ प्स्भ्_5.41:8
ईश्वरः सर्वभूतानाम्
* अत्र निरतिशय ऐश्वर्येण ईश्वरः ॥ प्स्भ्_5.42:1
* पुरुषः चैतन्यवद् इत्यर्थः ॥ प्स्भ्_5.42:2
* आह कस्यायमीश्वरः ॥ प्स्भ्_5.42:3
* तदुच्यते सर्वभूतानाम् । अत्र चेतनाचेतनेषु सर्वशब्दः न केवलं पृथिव्यादिषु किंतु सिद्धेश्वरवर्जं चेतनेष्वेव सर्वभूतप्रकृतेर्निरवशेषवाची सर्वशब्दो द्रष्टव्यः ॥ प्स्भ्_5.42:4
* कस्माद् भूतानि ॥ प्स्भ्_5.42:5
* भावनत्वाद् भूतानीत्युक्तम् भूतानामिति षष्ठीबहुवचनम् ॥ प्स्भ्_5.42:6
* आह अत्र केचिद् विद्याभूतव्यतिरिक्तं ब्रह्माणमिच्छन्ति ॥ प्स्भ्_5.42:7
* तस्यायं किं प्रभुर्भवति नेति ॥ प्स्भ्_5.42:8
* उच्यते प्रभुः ॥ प्स्भ्_5.42:9
* यस्मादाह ॥ प्स्भ्_5.42:10
ब्रह्मणोऽधिपतिर्ब्रह्मा
* अत्र यो ऽयं विरिञ्चिः परमः पतिः सर्वचेतनव्यतिरिक्तः क्षेत्रज्ञः तस्मिन् ब्रह्मसंज्ञा ॥ प्स्भ्_5.43:1
* न तु प्रधानादिषु ॥ प्स्भ्_5.43:2
* कस्मात् ॥ प्स्भ्_5.43:3
* अधिपतिवचनविरोधात् ॥ प्स्भ्_5.43:4
* ब्रह्म च कस्मात् ॥ प्स्भ्_5.43:5
* बृंहणत्वाद् बृहत्त्वाद् ब्रह्मा ॥ प्स्भ्_5.43:6
* बृंहयते यस्माद् विद्याकलाभूतानि बृहच् च तेभ्य इत्यतो ऽधिपतिर्ब्रह्मा ॥ प्स्भ्_5.43:7
* ब्रह्मण इति षष्ठी ॥ प्स्भ्_5.43:8
* अधिर् अधिष्ठातृत्वे ॥ प्स्भ्_5.43:9
* तत्स्वाभाव्यात् संहृते चासंहृते च कार्य इत्यर्थः ॥ प्स्भ्_5.43:10
* पत्युः पतिः अधिपतिः ॥ प्स्भ्_5.43:11
* राजराजवत् ॥ प्स्भ्_5.43:12
* पतिः पालने पतिर्दर्शने भोगे च ॥ प्स्भ्_5.43:13
* पालयते यस्माद् ब्रह्मादीन् ईश्वरः ॥ प्स्भ्_5.43:14
* पाति ब्रह्मादिकार्यम् । अधिपतिः ब्रह्मा ॥ प्स्भ्_5.43:15
* अधिपतिरीश्वरः ॥ प्स्भ्_5.43:16
* एवं बृंहयते यस्माद् विद्यादिकार्यं बृहच् च तेभ्य इत्यतो ऽधिपतिर्ब्रह्मा भगवानिति ॥ प्स्भ्_5.43:17
* आह अत्र कार्यकरणमहाभाग्यम् एवात्र ब्रह्मणि चिन्त्यते न तु साधकस्य लिप्सा लाभो वेति ॥ प्स्भ्_5.43:18
* उच्यते न ॥ प्स्भ्_5.43:19
* यस्मादाह ॥ प्स्भ्_5.43:20
शिवो मे अस्तु
* अत्र येषां साधिकारत्वाद् अनतिप्रसन्नस् तेषामशिवत्वं दृष्ट्वा दुःखान्तं गतेषु च शिवत्वं दृष्ट्वा आह शिवो मे अस्तु इति ॥ प्स्भ्_5.44:1
* मे इत्यात्मापदेशे ममेत्यर्थः ॥ प्स्भ्_5.44:2
* अस्त्विति काङ्क्षायाम् ॥ प्स्भ्_5.44:3
* काङ्क्षति लिप्सति मृगयतीत्यर्थः ॥ प्स्भ्_5.44:4
* आह कियन्तं कालं भगवानस्य शिवो भवति ॥ प्स्भ्_5.44:5
* तदुच्यते नित्यम् ॥ प्स्भ्_5.44:6
* यस्मादाह ॥ प्स्भ्_5.44:7
सदा
* अत्र सदा नित्यं संततम् अव्युच्छिन्नमित्यर्थः ॥ प्स्भ्_5.45:1
* आह कमेवमाह ॥ प्स्भ्_5.45:2
* को वास्य शिवो भवतीति ॥ प्स्भ्_5.45:3
* उच्यते ॥ प्स्भ्_5.45:4
शिवः
मूल पाठ: Pāśupatasūtra with Kauṇḍinya's Pañcārthabhāṣya · Edition: R. Anantakrishna Shastri Trivandrum: The Oriental Manuscripts Library of the University of Travancore, 1940 (Trivandrum Sanskrit Series ; 143) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0