भाषा

ENहिગુ
ग्रंथ पाठ

पाशुपतसूत्र (टीका सहित) · अध्याय 2

2.1

* अत्र भव इति विद्याकलापशूनामेव ग्रहणम् ॥ प्स्भ्_1.44:1
* तस्योत्पत्तिकर्ता भगवान् इत्यतो भवोद्भव इति ॥ प्स्भ्_1.44:2
* अत्रोत्पादकानुग्राहकतिरोभावकधर्मि कारणम् उत्पाद्यानुग्राह्यतिरोभाव्यधर्मि कार्यम् इत्येतत् कार्यकारणयोर् लक्षणम् ॥ प्स्भ्_1.44:3
* एतस्मिन् कारणे प्रपत्त्यादि क्रमोपयोगि द्रष्टव्यम् ॥ प्स्भ्_1.44:4
* एवमत्र भगवत्कौण्डिन्यकृते पञ्चार्थभाष्ये प्रथमोऽध्यायः सह ब्रह्मणा ग्रन्थतो ऽर्थतश्च परिसमाप्त इति ॥ प्स्भ्_1.44:5
पाशुपतसूत्र, 2
वामः

2.2

* नामभिः श्रेष्ठ इत्यर्थः ॥ प्स्भ्_2.1:1
* उक्तं हि । पुरुषध्वजशृङ्गेषु हविर्भूषणलक्ष्मसु । वामः श्रेष्ठेष्ववक्रेषु नवस्वर्थेषु कीर्तितः ॥ प्स्भ्_2.1:2
* आह किंनिमित्तास्योत्पादकादिप्रवृत्तिः किंप्रयोजना वा ॥ प्स्भ्_2.1:3
* तद् उच्यते ॥ प्स्भ्_2.1:4
देवस्य

2.3

* इति ॥ प्स्भ्_2.2:1
* अत्र देव इति दिवु क्रीडायाम् ॥ प्स्भ्_2.2:2
* क्रीडाधर्मित्वात् क्रीडानिमित्ता ॥ प्स्भ्_2.2:3
* क्रीडावानेव स भगवान् विद्याकलापशुसंज्ञकं त्रिविधमपि कार्यम् उत्पादयन् अनुगृह्णाति तिरोभावयति चेत्य् अतो देवः ॥ प्स्भ्_2.2:4
* प्रवृत्तिश्चोत्पत्त्यादिफला द्रष्टव्या ॥ प्स्भ्_2.2:5
* देवस्य इति तद्धर्मित्वे षष्ठी ॥ प्स्भ्_2.2:6
* आह किं नामद्वयमेवात्र कारणे वितन्यते अर्थद्वयमेव वा आहोस्विद् अन्यदप्यस्ति नेति ॥ प्स्भ्_2.2:7
* उच्यतेऽस्ति ॥ प्स्भ्_2.2:8
* यस्माद् आह ॥ प्स्भ्_2.2:9
ज्येष्ठस्य

2.4

* इति ॥ प्स्भ्_2.3:1
* अत्र परत्वाज् ज्येष्ठः ॥ प्स्भ्_2.3:2
* केषां केन वा परः ॥ प्स्भ्_2.3:3
* तद् उच्यते सिद्धसाधकपशूनाम् ॥ प्स्भ्_2.3:4
* तदायत्तत्वात् सिद्धसाधकभावस्य सर्वपशूनां च प्रवृत्तिनिवृत्तिस्थित्यादिफलानाम् इत्यतो ज्येष्ठः परतरः ॥ प्स्भ्_2.3:5
* परतमश्चेति ॥ प्स्भ्_2.3:6
* अकृतकं चास्यैश्वर्यम् ॥ प्स्भ्_2.3:7
* उक्तं हि । दृक्क्रियालक्षणा शक्तिस्तत्त्वधर्मोऽस्य नित्यता । श्रेष्ठोऽतः सर्वभूतेषु तस्मादेष परः स्मृतः ॥ प्स्भ्_2.3:8
* इत्येवं परत्वाज् ज्येष्ठः ॥ प्स्भ्_2.3:9
* अत्रापि ज्येष्ठस्येति तद्धर्मित्वे षष्ठी ॥ प्स्भ्_2.3:10
* आह किं नामत्रयम् एवात्र कारणे चिन्त्यते अर्थत्रयमेव वा आहोस्विद् अन्यदप्यस्ति नेति ॥ प्स्भ्_2.3:11
* उच्यतेऽस्ति ॥ प्स्भ्_2.3:12
रुद्रस्य

2.5

* इति ॥ प्स्भ्_2.4:1
* अत्र रुतस्य भयस्य द्रावणात् संयोजनाद् रुद्रः तत्र रुतम् अभिलाप इत्यनर्थान्तरम् ॥ प्स्भ्_2.4:2
* द्रावणं नाम ॥ प्स्भ्_2.4:3
* भयं विविधम् ॥ प्स्भ्_2.4:4
* उक्तं हि । नानाविधैः कृतैर्यस्माद् भयैश्च विविधैस्तथा । संयोजयति भूतानि तस्माद् रुद्र इति स्मृतः ॥ प्स्भ्_2.4:5
* अत्रापि तद्धर्मित्वे षष्ठी ॥ प्स्भ्_2.4:6
* आह किं तत् ॥ प्स्भ्_2.4:7
* कीदृशं वा तदस्येति ॥ प्स्भ्_2.4:8
* उच्यते ॥ प्स्भ्_2.4:9
कलितासनम्

2.6

* अत्र त्रिविधेन कार्येण विद्याकलापशुसंज्ञकेन तत्रैव स्थित्युत्पत्तिप्रलयान् प्राप्नुवता कलितं शोभितशब्दितं नभस्ताराभिर् इवेत्यर्थः ॥ प्स्भ्_2.5:1
* आह यदेतत् पत्युः पतित्वं शक्तिः सामर्थ्यमैश्वर्यं स्वगुणः सद्भावः सतत्त्वं तत्त्वधर्मः तद् आसनम् ॥ प्स्भ्_2.5:2
* नतु पद्मासनवदुपवेशनलक्षणम् इत्यर्थः आसनं कस्मात् ॥ प्स्भ्_2.5:3
* आस्तेऽस्मिन् आसनम् ॥ प्स्भ्_2.5:4
* कार्यमनेन वा अध्यास्त इत्यासनमित्यर्थः ॥ प्स्भ्_2.5:5
* अत आसनम् ॥ प्स्भ्_2.5:6
* अतोऽव्ययोऽमृतो भगवान् कामतः स्वशक्तिस्थं कार्यं स्वशक्त्या अध्यास्ते ॥ प्स्भ्_2.5:7
* तस्मादासनस्थं कार्यं कारणं चेति ॥ प्स्भ्_2.5:8
* आह कार्यकारणयोर्वृत्तिसंकरदोषो गोजाविमहिषीक्षीरवत् ॥ प्स्भ्_2.5:9
* तदुत न ॥ प्स्भ्_2.5:10
* अङ्गुल्यग्ररूपादिवद् इत्यसंकरः ॥ प्स्भ्_2.5:11
* दीपादित्यप्रकाशनयनरश्मिवच् चासंकरः ॥ प्स्भ्_2.5:12
* आह संकरे अपरिच्छेददोषः ईश्वरपुरुषविद्याकलानां माक्षिककोटद्रव्यवत् ॥ प्स्भ्_2.5:13
* तदुच्यते एकोत्तरोत्कर्षेण व्याप्यव्यापकभावेनावस्थितानां तत्त्वादीनां नापरिच्छेददोषः सूत्रत्वाद् व्यापकं महेश्वरतत्त्वं व्याप्यं पुरुषादिपञ्चविंशकम् ॥ प्स्भ्_2.5:14
* तथा आत्मत्वाद् व्यापकं पुरुषतत्त्वं व्याप्यं प्रधानादिचतुर्विंशकम् ॥ प्स्भ्_2.5:15
* तथा व्यापकं प्रधानं व्याप्यं बुद्ध्यादित्रयोविंशकम् ॥ प्स्भ्_2.5:16
* व्यापिका भवति बुद्धिः व्याप्यम् अहंकारादिद्वाविंशकम् ॥ प्स्भ्_2.5:17
* तथा व्यापको भवत्यहंकारः व्याप्यान्येकादशेन्द्रियाणि दशविधं च कार्यम् ॥ प्स्भ्_2.5:18
* व्यापकान्येकादशेन्द्रियाणि व्याप्यानि पञ्चभूतसूक्ष्माणि शब्दादीनि ॥ प्स्भ्_2.5:19
* तथा व्यापकानि पञ्चभूतसूक्ष्माणि शब्दादीनि व्याप्यानि आकाशादीनि पञ्चमहाभूतानि ॥ प्स्भ्_2.5:20
* तथा व्यापकमाकाशं व्याप्यं वाय्वादिभूतचतुष्कम् ॥ प्स्भ्_2.5:21
* तथा व्यापको भवति वायुः व्याप्यं तेजःप्रभृति भूतत्रयम् ॥ प्स्भ्_2.5:22
* तथा व्यापकं भवति तेजः व्याप्यम् अबादिद्वयम् ॥ प्स्भ्_2.5:23
* तथा व्यापिका भवन्त्यापः व्याप्या पृथिवी ॥ प्स्भ्_2.5:24
* व्यापिका पृथिवी व्याप्यानि भूम्युदकरसलक्षणानि कार्याणि ॥ प्स्भ्_2.5:25
* तथा व्यापकानि भूम्युदकरसलक्षणानि कारणानि व्याप्यं देवमनुष्यतिर्यग्योनि तृणौषधिवृक्षगुल्मलतावनस्पत्यादिकार्यम् अनेकविधम् अतो नापरिच्छेददोषः ॥ प्स्भ्_2.5:26
* आह वृत्त्यसंकरग्रहणे दृष्टान्ताभावाद् अयुक्तम् तदुच्यते हरिद्रोदकवद् व्याप्यं व्यापकं च तद्यथा हरिद्रोदके स्निग्धत्वशैत्यादिधर्मैर् अपां ग्रहणं गन्धवर्णघनक्षारत्वादिभिर् हरिद्रायाः ॥ प्स्भ्_2.5:27
* तथार्णवदेवादिस्थानशरीरेन्द्रियविषयादिसंनिवेशेन सुखदुःखसंनिपातेन चेश्वरस्य ॥ प्स्भ्_2.5:28
* एवं पुरुषस्यापि ॥ प्स्भ्_2.5:29
* ईश्वरस्यापि अपरिणामिधर्मित्वात् सुखदुःखदातृत्वाच् च प्रधानधर्माधर्मादीनां ग्रहणम् ॥ प्स्भ्_2.5:30
* तथा प्रधानस्य मानससंकल्पालोचनगमनादिभिः करणग्रामस्य विषयाणां च ग्रहणम् ॥ प्स्भ्_2.5:31
* तथा धृतिसंग्रहपक्तिव्यूहावकाशदानादिभिर् धर्मैः पृथिव्यादीनां ग्रहणमिति प्रधानवादिनो मन्यन्ते ॥ प्स्भ्_2.5:32
* आह अथेह तन्त्रे कथं कार्यकारणावस्थानम् ॥ प्स्भ्_2.5:33
* तद् वाच्यम् ॥ प्स्भ्_2.5:34
* तदुच्यते इह यस्माद् आह शर्वसर्वेभ्यः इति वचनाद् यथासम्भवम् ॥ प्स्भ्_2.5:35
* सति विभुत्वे स्ववृत्त्या कार्यकारणयोः सर्वगतत्वेऽपि स्ववृत्त्यसंकरः तस्माद् आसनस्थं कार्यं कारणं चेति ॥ प्स्भ्_2.5:36
* आह किं तद् आसनस्थं कार्यम् आसने नित्यम् आहोस्विद् अनित्यमिति ॥ प्स्भ्_2.5:37
* उच्यते नित्यं कार्यम् ॥ प्स्भ्_2.5:38
* कस्मात् ॥ प्स्भ्_2.5:39
* पत्युर् भवति ॥ प्स्भ्_2.5:40
* कारणेश्वरनित्यत्वात् पतिनित्यत्वम् ॥ प्स्भ्_2.5:41
* इह सद्योजातादिवचनात् पालको नित्यः ॥ प्स्भ्_2.5:42
* पालकनित्यत्वाच् च पाल्यमपि नित्यम् ॥ प्स्भ्_2.5:43
* कस्मात् ॥ प्स्भ्_2.5:44
* न ह्य् असति पाल्ये पालक इत्येव ॥ प्स्भ्_2.5:45
* सति नित्यत्वे तान्येव पश्वादीनि संयोजयति ॥ प्स्भ्_2.5:46
* मृल्लोहमयप्राकारादिवद् दृष्टान्तात् ॥ प्स्भ्_2.5:47
* वृत्तिलाभश्चोत्पत्तिरित्युच्यते ॥ प्स्भ्_2.5:48
* स्थितिस्थानशरीरेन्द्रियविषयाद्यायतनानां परस्परोपकाराच् चानुग्रहः ईश्वरचोदनानुग्रहः वियोजनं वृत्तिलोपश्च ॥ प्स्भ्_2.5:49
* लोपोऽभावः ॥ प्स्भ्_2.5:50
* तस्मात् त्रिष्वपि कालेषु आसनस्थं कार्यं द्रष्टव्यम् ॥ प्स्भ्_2.5:51
* पृथिव्यां बीजवद् इत्यर्थः ॥ प्स्भ्_2.5:52
* आह किं तत् कार्यं भगवान् युगपदुत्पादयति क्रमशो वा ॥ प्स्भ्_2.5:53
* किं वा कर्मापेक्षः अनपेक्षो वा ॥ प्स्भ्_2.5:54
* तदुच्यते यथेष्टम् ॥ प्स्भ्_2.5:55
* यस्मादाह ॥ प्स्भ्_2.5:56
सार्वकामिक इत्याचक्षते

2.7

* अत्र सर्वशब्दो विद्यादिकार्यनिरवशेषवाची द्रष्टव्यः ॥ प्स्भ्_2.6:1
* कामिक इत्यत्रापि नस्त्रिकं चिन्त्यते ॥ प्स्भ्_2.6:2
* कामी कामः काम्यमिति च तत्र कामी ईश्वरः ॥ प्स्भ्_2.6:3
* कामोऽस्येच्छा ॥ प्स्भ्_2.6:4
* काम्यं विद्यादिकार्यम् ॥ प्स्भ्_2.6:5
* तदक्रमेण क्रमशो वा यथेष्टमुत्पादयति ॥ प्स्भ्_2.6:6
* कस्मात् ॥ प्स्भ्_2.6:7
* कामित्वात् ॥ प्स्भ्_2.6:8
* अकर्मापेक्षित्वं चास्यात एव सिद्धम् ॥ प्स्भ्_2.6:9
* कर्मकामिनश्च महेश्वरमपेक्षन्ते न तु भगवानीश्वरः कर्म पुरुषं वापेक्षते ॥ प्स्भ्_2.6:10
* अतो न कर्मापेक्ष ईश्वरः ॥ प्स्भ्_2.6:11
* इतिशब्दोऽर्थानां निर्वचनत्वात् प्रकरणपरिसमाप्त्यर्थः ॥ प्स्भ्_2.6:12
* आह कामित्वं तत्त्ववैधर्म्यं कुर्यात् ॥ प्स्भ्_2.6:13
* कार्यत्वेन वा परिणामित्वम् आत्मनो बन्धमोक्षविपर्ययं वा कुर्यात् ॥ प्स्भ्_2.6:14
* तदुच्यते यस्मादाह आङ् इति ॥ प्स्भ्_2.6:15
* आङ् इति कार्यकारणत्वम् आत्मनो मुक्तानां च मर्यादा ॥ प्स्भ्_2.6:16
* तदुच्यते उत्पाद्यानुग्राह्यतिरोभाव्यकल्पकत्वाभावकत्वेनापरिणामित्वम् आत्मनो मुक्तानां च पुनर्दुःखैर् असंयोजनम् इत्येषा कारणमर्यादा ॥ प्स्भ्_2.6:17
* स्थाप्या च कार्यमर्यादा ॥ प्स्भ्_2.6:18
* तदुच्यते उत्पाद्यानुग्राह्यतिरोभाव्यकाल्प्यविकार्यमर्यादा ॥ प्स्भ्_2.6:19
* तदन्यचोद्याधिष्ठेयत्वं च ॥ प्स्भ्_2.6:20
* चक्षिङ् कथने ॥ प्स्भ्_2.6:21
* भगवता कार्येभ्यो भवता रुद्रेणाचक्षितम् ॥ प्स्भ्_2.6:22
* भगवतो महेश्वरस्य शक्तिः सनातनी ॥ प्स्भ्_2.6:23
* तद्विद्यादिकार्यं कलितम् इत्येषोऽर्थः ॥ प्स्भ्_2.6:24
* तथा चोक्तं वर्णितमित्यर्थः ॥ प्स्भ्_2.6:25
* अत्रेदमाधिकारिकं कार्यकारणप्रकरणं परिसमाप्तमिति ॥ प्स्भ्_2.6:26
* किं नाम कामित्वं रुद्रकामित्वं च ॥ प्स्भ्_2.6:27
* एतदेव कारणे महाभाग्यम् आहोस्विदन्यदस्ति ॥ प्स्भ्_2.6:28
* उच्यते अस्ति ॥ प्स्भ्_2.6:29
* यस्मादाह ॥ प्स्भ्_2.6:30
अमङ्गलं चात्र मङ्गलं भवति

2.8

* अमङ्गलम् इति अत्र साधनजातम् अधिकुरुते तदुद्देशेन तु मङ्गलवचननिर्देशं करोति ॥ प्स्भ्_2.7:1
* चशब्दः कारणगुणवचनोपक्षेपे द्रष्टव्यः ॥ प्स्भ्_2.7:2
* उपक्षिप्योत्तरत्र मङ्गलं प्रदक्षिणं च वक्ष्यामः ॥ प्स्भ्_2.7:3
* तस्मादुभयं रुद्रे देवाश्च पितरश्च इत्युपरिष्टाद् वक्ष्यामः ॥ प्स्भ्_2.7:4
* अत्रशब्दे मूर्त्यधिष्ठातरि मनःसंज्ञे कारणे सकले उपतिष्ठता अपसव्यसम्बन्धो द्रष्टव्यः ॥ प्स्भ्_2.7:5
* मङ्गलम् इत्यत्रापि चामङ्गले वक्तव्ये मङ्गलमेव तद् वक्ष्यामः ॥ प्स्भ्_2.7:6
* तद् उच्यते अत्र अमङ्गलं नाम नग्नत्वापसव्यत्वसम्बन्धो हसिताद्यः साधनवर्गः ॥ प्स्भ्_2.7:7
* स त्किह कारणमूर्तिसामर्थ्यान्मङ्गलं भवति ॥ प्स्भ्_2.7:8
* शैलोदोमावनवत् ॥ प्स्भ्_2.7:9
* मङ्गलं साधनं धर्मनिष्पादकम् ॥ प्स्भ्_2.7:10
* भवति इति भूतार्थवादो निःसंशयम् ॥ प्स्भ्_2.7:11
* कारणमूर्तौ क्रियमाणममङ्गलं मङ्गलं भवतीत्यर्थः ॥ प्स्भ्_2.7:12
* आह किं नग्नत्वम् अपसव्यत्वं वा साधनद्वयमेवोच्यते ॥ प्स्भ्_2.7:13
* न ॥ प्स्भ्_2.7:14
* यस्मादाह ॥ प्स्भ्_2.7:15
अपसव्यं च प्रदक्षिणम्

2.9

* नग्नत्वं च साधनम् एवेत्यर्थः ॥ प्स्भ्_2.8:1
* अत्रामङ्गलनिर्देशार्थत्वात् प्रत्याहारवद् उपहारसामान्यमात्रख्यापनाच् च पृथगपसव्यारम्भः ॥ प्स्भ्_2.8:2
* तस्मादत्र अपसव्यं नाम यत् सव्याद् विपरीतम् ॥ प्स्भ्_2.8:3
* चशब्दः समुच्चये ॥ प्स्भ्_2.8:4
* न केवलं कारणमूर्तिसामर्थ्याद् अमङ्गलं मङ्गलमापद्यते अपसव्यं च प्रदक्षिणमापद्यत इत्यर्थः ॥ प्स्भ्_2.8:5
* प्रदक्षिणं नाम यद् अन्येषाम् अपसव्यं तदिह प्रदक्षिणं धर्मनिष्पादकं भवति ॥ प्स्भ्_2.8:6
* ननु यत् तेषां प्रदक्षिणं कस्मात् ॥ प्स्भ्_2.8:7
* उत्सूत्रादिदोषाद् अप्स्नानादिवद् इत्यर्थः ॥ प्स्भ्_2.8:8
* आह समस्तानां कारणगुणानां तु वचनं किमस्ति नेति ॥ प्स्भ्_2.8:9
* उच्यते अस्ति ॥ प्स्भ्_2.8:10
* यस्मादाह ॥ प्स्भ्_2.8:11
तस्मादुभयथा यष्टव्यः

2.10

* इति ॥ प्स्भ्_2.9:1
* अत्र तस्माच्छब्दः कारणगुणवचने ॥ प्स्भ्_2.9:2
* के कारणगुणा इति ॥ प्स्भ्_2.9:3
* तदुच्यते पतित्वसत्त्वाद्यत्वाजातत्वोत्पादकानुग्राहकतिरोभावकत्वतपावावेदे वामदेवज्येष्ठरुद्रकामित्वं च मङ्गलावाप्तिः प्रदक्षिणावाप्तिश्च ॥ प्स्भ्_2.9:4
* एतान् कारणगुणान् ज्ञात्वा ॥ प्स्भ्_2.9:5
* अतो ब्रवीति तस्मादिति ॥ प्स्भ्_2.9:6
* अथैतत् कारणगुणवचनं ज्ञात्वा साधकेन किं कर्तव्यम् ॥ प्स्भ्_2.9:7
* तदुच्यते उभयथा यष्टव्यः ॥ प्स्भ्_2.9:8
* अत्रोभयथा द्विधेत्यर्थः ॥ प्स्भ्_2.9:9
* यष्टव्य इत्यत्रापि नस्त्रिकं चिन्त्यते ॥ प्स्भ्_2.9:10
* यष्टा यजनं यष्टव्यमिति ॥ प्स्भ्_2.9:11
* अत्र यष्टा साधकः ॥ प्स्भ्_2.9:12
* यष्टव्यो भगवान् महेश्वरः ॥ प्स्भ्_2.9:13
* यजनं भावना ॥ प्स्भ्_2.9:14
* यजनम् अध्ययनध्यापनस्मरणाद्यम् ॥ प्स्भ्_2.9:15
* तत्फलदेवनित्यता सायुज्यम् इत्युत्तरत्र वक्ष्यामः ॥ प्स्भ्_2.9:16
* आह अनिर्देशात् संदेहः ॥ प्स्भ्_2.9:17
* कथमुभयथा ॥ प्स्भ्_2.9:18
* द्विधा निर्देशो वाच्यः ॥ प्स्भ्_2.9:19
* तदुच्यते ॥ प्स्भ्_2.9:20
देववत् पितृवच् च

2.11

* कथमिति ॥ प्स्भ्_2.10:1
* उच्यते पूर्वमस्य ब्राह्मणस्य देवयजने पितृयजने चाधिकारोऽधिगतः ॥ प्स्भ्_2.10:2
* तस्मात् तेभ्यो देवपितृभ्यो भक्तिव्यावर्तनं कृत्वा उभयथापि महेश्वरे भावम् अवस्थाप्य यजनं कर्तव्यं नान्यस्य ॥ प्स्भ्_2.10:3
* चशब्दः प्रतिषेधे ॥ प्स्भ्_2.10:4
* यत् तत् पूर्वं देवपितृषु कारकत्वं संभावितं तत् तेषु न विद्यते ॥ प्स्भ्_2.10:5
* अतस्तेषां यजनं न कर्तव्यम् इत्यर्थः ॥ प्स्भ्_2.10:6
* आह यद्येवं तस्माद् उच्यतां देवपित् णां को दोषः यस्मात् ते न यष्टव्याः ॥ प्स्भ्_2.10:7
* रुद्रे वा को गुणः यस्मात् स एव यष्टव्यः ॥ प्स्भ्_2.10:8
* इति निर्देशो वाच्यः ॥ प्स्भ्_2.10:9
* अप्स्नानादिवत् ॥ प्स्भ्_2.10:10
* तदुच्यते ॥ प्स्भ्_2.10:11
उभयं तु रुद्रे देवाः पितरश्च

2.12

* तत्रोभयं द्वयं समस्तम् इत्यर्थः ॥ प्स्भ्_2.11:1
* तुशब्दो देवपितृषु वैशेषिकं कारणत्वं व्यावर्तयति रुद्रे इति कारणापदेशम् ॥ प्स्भ्_2.11:2
* रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ प्स्भ्_2.11:3
* रुद्र इति वैषयिकं संनिधानम् ॥ प्स्भ्_2.11:4
* अत्र शक्तिर्विषय इत्य् अनर्थान्तरम् ॥ प्स्भ्_2.11:5
* ते देवपितरो रुद्रशक्त्यां हार्यधार्यकार्यत्वेन वर्तन्ते आधीयन्ते विषये वर्तन्त इत्यर्थः ॥ प्स्भ्_2.11:6
* देवाः पितरश्च ॥ प्स्भ्_2.11:7
* तत्र देवा इति ऋभुषु ब्रह्मादिपिशाचान्तेषु मनुष्यतिर्यग्योनिवर्जं सामान्यसंज्ञा ॥ प्स्भ्_2.11:8
* विधिवत् ॥ प्स्भ्_2.11:9
* पितर इति विशेषसंज्ञा भस्मस्नानादिवद् इत्यर्थः ॥ प्स्भ्_2.11:10
* ब्राह्मणदेवदत्तादिवच् च ॥ प्स्भ्_2.11:11
* अत्राह सामान्यविशेषसंज्ञाभिधाने किं प्रयोजनमिति चेत् ॥ प्स्भ्_2.11:12
* तदुच्यते त्रिविधस्यापि कार्यस्य रुद्रे हार्यधार्यकार्यज्ञापनार्थं किंच कालक्रियास्वाहास्वधामन्त्रान्यत्वदर्शनाद् देवपितृयजनापहृतचित्तव्यावर्तनार्थत्वाच् च ॥ प्स्भ्_2.11:13
* तस्माद् अन्यानन्यत्वेनापि व्याख्यानम् अदुष्टम् ॥ प्स्भ्_2.11:14
* चशब्दोऽभ्यधिकत्वे ॥ प्स्भ्_2.11:15
* देवपितृवत् सत्त्वस्य त्रिविधस्यापि कार्यस्येश्वरे प्रतिष्ठाप्रसवसंयोगवियोगसुखमोहबन्धमोक्षदातृत्वेन च स एव परं कारणं समस्तत्वेनाप्यते इत्येवं चशब्दोऽभ्यधिकत्वे द्रष्टव्यः तस्माद् दुःखान्तार्थिना ते देवपितरो न यष्टव्याः ॥ प्स्भ्_2.11:16
* तदर्थे भगवान् महेश्वरो यष्टव्य इत्यर्थः ॥ प्स्भ्_2.11:17
* अत्रेदम् आनुषङ्गिकं कार्यकारणप्रकरणं परिसमाप्तम् ॥ प्स्भ्_2.11:18
* अत उत्तरस्य विधिप्रकरणस्य सत्यपि पदार्थवैलक्षण्ये साध्यसाधनभावाद् यजनेन सह सम्बन्धं करिष्यामः ॥ प्स्भ्_2.11:19
* कस्मात् ॥ प्स्भ्_2.11:20
* इह पुरस्तादुक्तम् उभयथा यष्टव्यः देववत् पितृवच् च ॥ प्स्भ्_2.11:21
* यत्र पूर्वं देवपितृभ्यो व्यावर्तितया भक्त्या महेश्वरं यजतोऽनवगमात् स्वात्मेश्वरसंयोगं योगं प्राप्स्यसि तत्फलं वक्ष्यामः ॥ प्स्भ्_2.11:22
* येन च बलेनोपबृंहितस्य तत्रैव यजने उद्योगोऽभिनिवेशश्च भविष्यति तद् बलं वक्ष्यामः ॥ प्स्भ्_2.11:23
* तद्बलप्राप्तौ चोपायं वक्ष्यामः ॥ प्स्भ्_2.11:24
* तदुच्यते ॥ प्स्भ्_2.11:25
हर्षाप्रमादी

2.13

* इति ॥ प्स्भ्_2.12:1
* अथवान्यो दूरस्थः सम्बन्धः ॥ प्स्भ्_2.12:2
* यस्माद् उच्यते यस्य येनार्थसम्बन्धो दूरस्थस्यापि तेन तदर्थोत्पत्तिः समाना ॥ प्स्भ्_2.12:3
* आनन्तर्येऽपि असंबन्धो ग्रहणक्षयादिवन् न त्व् अत्र अमङ्गलादिभिः ॥ प्स्भ्_2.12:4
* कस्मात् ॥ प्स्भ्_2.12:5
* शेषाभावात् ॥ प्स्भ्_2.12:6
* एवमिहापि दूरस्थः सम्बन्धः ॥ प्स्भ्_2.12:7
* कस्मात् ॥ प्स्भ्_2.12:8
* इह पुरस्तादुक्तम् अकलुषमतेः चरतः ततोऽस्य योगः प्रवर्तते ॥ प्स्भ्_2.12:9
* अत्र कलुषव्यतिरेकेण ये ऽन्ये योगव्याघातकरा हेतवः तान् वक्ष्यामः ॥ प्स्भ्_2.12:10
* यथा चैका चरितव्या योगप्रापिका इति व्याख्यास्यामः ॥ प्स्भ्_2.12:11
* तथा चर्यान्तरेण तपसा योगप्राप्तिर्यथा भवति तद् बलं वक्ष्यामः ॥ प्स्भ्_2.12:12
* तद्बलप्राप्तौ चोपायं वक्ष्यामः ॥ प्स्भ्_2.12:13
* हर्षाप्रमादी इति ॥ प्स्भ्_2.12:14
* अत्र हर्षो नाम दिव्येषु विषयेषु विधानजधर्मप्रकाशितेषु प्रीतितुष्टिप्रमोदाः ॥ प्स्भ्_2.12:15
* ते त्व् इह प्राप्त्यादिव विश्वामित्रादिस्वरूपा द्रष्टव्याः ॥ प्स्भ्_2.12:16
* कथंलक्षणा इति चेत् ॥ प्स्भ्_2.12:17
* तदुच्यते कार्यकरणविशुद्धिलक्षणाः तत्र कार्यविशुद्धिस् तावद् यदैतद् देवशरीरं ज्वलन्तं भासा दीप्यन्तं दिवि भुव्यन्तरिक्षे च रुक्मदण्डवद् उच्छ्रितमात्मानं पश्यति तदा दिवि अणिमा लघिमा महिमा इति त्रयः कार्यगुणा भवन्ति ॥ प्स्भ्_2.12:18
* अन्तरिक्षे च यस्माद्धर्मविशेषात् ॥ प्स्भ्_2.12:19
* तथा करणविशुद्धिरपि गरिमादिभिः बाह्यैरन्तः करणेन च दूरविषयग्राहकत्वालोचनसंकल्पाध्यवसायाभिमानादयो भवन्ति ॥ प्स्भ्_2.12:20
* कस्मात् ॥ प्स्भ्_2.12:21
* धर्मादिवचनात् ॥ प्स्भ्_2.12:22
* अपिच प्राप्तिः प्राकाम्यम् ईशित्वं वशित्वं च यत्र कामावसायित्वमिति पञ्च करणगुणा भवन्ति ॥ प्स्भ्_2.12:23
* इत्येवं यदन्येषाम् अणिमाद्यष्टगुणं चतुःषष्टिविकल्पं धर्मकार्यम् ऐश्वर्यं तदिह शास्त्रे हर्ष इति संज्ञितम् ॥ प्स्भ्_2.12:24
* तेषु मदम् अकुर्वन् हर्षाप्रमादी भवति ॥ प्स्भ्_2.12:25
* धर्मविद्याबलेनेत्य् अर्थः ॥ प्स्भ्_2.12:26
* आह कुत्रस्थस्य ते हर्षा अभिव्यज्यन्ते कीदृशस्य वा ॥ प्स्भ्_2.12:27
* तदुच्यते ॥ प्स्भ्_2.12:28
चर्यायां चर्यायाम्

2.14

* अत्र चर्यायां चर्यायाम् इति वीप्सा ॥ प्स्भ्_2.13:1
* आह अनिर्देशादिह वीप्सा एकवचनद्विवचनबहुवचनेषु भवति ॥ प्स्भ्_2.13:2
* तत्रैकवचने तावद् भवति ॥ प्स्भ्_2.13:3
* यस्मादुक्तम् । अद्य ते रुधिरं तीव्रं पिबामि पुरुषाधम । वदेदानीं सुसंरब्धः पुनर्गौरिति गौर् इति ॥ प्स्भ्_2.13:4
* इति ॥ प्स्भ्_2.13:5
* तथा द्विवचनेऽपि भवति । उभौ ध्वजौ वातमलौ शुशुभाते रथे रथे । संरब्धौ परमक्रुद्धौ युधि घ्नन्तौ परस्परम् ॥ प्स्भ्_2.13:6
* तथा बहुवचनेऽपि भवति ॥ प्स्भ्_2.13:7
* यस्मादुक्तम् । पुरुषे पुरुषे बुद्धिः सा सा भवति निश्चिता । तुष्यन्ति च पृथक् सर्वे ते मनुष्यास्तथा तथा ॥ प्स्भ्_2.13:8
* इत्यतः संशयः ॥ प्स्भ्_2.13:9
* अतः किमेका चरिः उत चरिद्वयम् उत चरिबहुत्वमिति ॥ प्स्भ्_2.13:10
* उच्यते एका चरिः क्रियाबहुत्वेऽपि भवति ॥ प्स्भ्_2.13:11
* यथायतने लोके च ॥ प्स्भ्_2.13:12
* तत्रायतने स्नानहसिताद्याः लोके च क्राथनस्पन्दनाद्याः विधिक्रियाः इत्येवं चरिक्रियातत्त्वं दृष्ट्वा वीप्सार्थेनाभिहितं चर्यायां चर्यायां क्रियायामित्यर्थः ॥ प्स्भ्_2.13:13
* तस्मात् सकृदुच्चारिता वीप्सा बहुवचनेऽपि भवति ॥ प्स्भ्_2.13:14
* वृक्षबलिवत् ॥ प्स्भ्_2.13:15
* किंच माहात्म्यमिति चर्योत्तरसम्बन्धात् कथ्यते एका चरिः क्रियाबहुत्वे भवति ॥ प्स्भ्_2.13:16
* कार्यकरणविशुद्धिलक्षणा हर्षा इत्युक्तम् ॥ प्स्भ्_2.13:17
* न च विभा कार्यकरणैश्वर्याभिनिवेशः शक्यते कर्तुमित्यतोऽवगम्यते कार्यकरणवतश्चरतो महिमानोऽभिव्यज्यन्त इत्यर्थः ॥ प्स्भ्_2.13:18
* आह अप्रमत्तस्याचरतः का कार्यनिष्पत्तिः ॥ प्स्भ्_2.13:19
* तदुच्यते ॥ प्स्भ्_2.13:20
माहात्म्यमवाप्नोति

2.15

* माहात्म्यं नाम अर्यम् अप्रकाशवत् ॥ प्स्भ्_2.14:1
* तदुत यस्य सांनिध्याद् अयं ब्राह्मणः परिदृष्टार्थोऽपि भूत्वा दुष्टाश्वतररथस्थानीयैर् देहेन्द्रियादिभिर् अपनीयते अपह्रियते तद् अमाहात्म्यम् ॥ प्स्भ्_2.14:2
* विधियोगाभिनिवेशासामर्थ्यम् अधर्मबलम् ॥ प्स्भ्_2.14:3
* उक्तं हि । ह्रियते बुद्धिर्मनोऽपि नरस्य देहेन्द्रियैः । अमूढसंज्ञो दुर्दान्तैर् दुष्टाश्वैरिव सारथिः ॥ प्स्भ्_2.14:4
* माहात्म्यमतो विपरीतम् ॥ प्स्भ्_2.14:5
* यस्य सांनिध्याद् अयं ब्राह्मणः स्नानशयनानुस्नानादिक्राथनस्पन्दनाध्ययनध्यानस्मरणकरणसमर्थो भवति परया श्रद्धया युक्तस् तन्माहात्म्यम् ॥ प्स्भ्_2.14:6
* आह किं तदिति ॥ प्स्भ्_2.14:7
* उच्यते यदेतत् प्रभ्रष्टस्य तपसो वीर्यं तपोबलं तपःशक्तिस् तन्माहात्म्यम् ॥ प्स्भ्_2.14:8
* कथं गम्यते ॥ प्स्भ्_2.14:9
* चर्यानन्तरोक्तत्वात् ॥ प्स्भ्_2.14:10
* यदनन्तरं यदवाप्नोति तत एव तद् आसादयतीत्यर्थः ॥ प्स्भ्_2.14:11
* आह प्राप्नोतीति अस्तु पाठः ॥ प्स्भ्_2.14:12
* लब्धुर् भविष्यतीत्युच्यते ॥ प्स्भ्_2.14:13
* अवरम्य क्षणगतिप्रीतिप्राप्त्यर्थत्वात् तेन विधिचरणेन रक्षते हर्षविशेषाणाम् अभिप्रीतिविशेषणम् अतिगतिसंस्तवनावाप्तिश् च ॥ प्स्भ्_2.14:14
* तस्मान् मन्त्रबलवद् धर्मबलमेवास्य माहात्म्यम् अवाप्नोतीत्यर्थः ॥ प्स्भ्_2.14:15
* आह कः सो ऽभ्युपायः ॥ प्स्भ्_2.14:16
* कानि वा तानि धर्मसाधनानि यैर् हर्षोत्पत्तिर् माहात्म्यलाभश्च भवति ॥ प्स्भ्_2.14:17
* चरिक्रियाणां वा कतिविधो विभागः ॥ प्स्भ्_2.14:18
* दानादीनां वा पूर्वोक्तानां विशेषणं किमस्ति नेति ॥ प्स्भ्_2.14:19
* उच्यतेऽस्ति ॥ प्स्भ्_2.14:20
* यस्मादाह ॥ प्स्भ्_2.14:21
अतिदत्तम् अतीष्टम्

2.16

* अत्र कुदानानि गोभूहिरण्यसुवर्णादीनि ॥ प्स्भ्_2.15:1
* कस्मात् ॥ प्स्भ्_2.15:2
* अनैकान्तिकानात्यन्तिकसातिशयफलत्वात् कुपथाध्वप्रवादाच् च ॥ प्स्भ्_2.15:3
* तस्मादत्र अतिशब्दो विशेषणम् ॥ प्स्भ्_2.15:4
* अतिदानं चात्मप्रदानम् ॥ प्स्भ्_2.15:5
* कस्मात् ॥ प्स्भ्_2.15:6
* आत्मनः दातृत्वाद् भूयो दानप्रयोजनाभावात् ॥ प्स्भ्_2.15:7
* स्थानशरीरेन्द्रियविषयाद्यप्रापकत्वात् ॥ प्स्भ्_2.15:8
* ऐकान्तिकात्यन्तिकरुद्रसमीपप्राप्तेर् एकान्तेनैवानावृत्तिफलत्वाद् असाधारणफलत्वाच् चात्मप्रदानम् अतिदानम् ॥ प्स्भ्_2.15:9
* तथा कुयजनान्य् अग्निष्टोमादीनि ॥ प्स्भ्_2.15:10
* कस्मात् ॥ प्स्भ्_2.15:11
* संग्रहप्रतिग्रहहिंसादियुक्तेन श्रवेणाभिनिर्वृत्तिदर्शनात् पत्त्रीरात्रिजदेवतादिसाधारणफलत्वाद् अनित्यसातिशयसंकीर्णफलत्वाच् च कुयजनान्य् अग्निष्टोमादीनि ॥ प्स्भ्_2.15:12
* तस्माद् अत्रातिशब्दो विशेषणम् ॥ प्स्भ्_2.15:13
* अतियजनं नाम यदायतने लोके वा ॥ प्स्भ्_2.15:14
* तत्रायतने स्नानहसिताद्या लोके च क्राथनस्पन्दनाद्या विधिक्रिया ॥ प्स्भ्_2.15:15
* कस्मात् ॥ प्स्भ्_2.15:16
* संग्रहप्रतिग्रहहिंसादिरहितेन क्रमेण स्वशरीरसमुत्थाभिः कायिकवाचिकमानसिकाभिरिज्यते यस्मात् ॥ प्स्भ्_2.15:17
* अतश्चेत्युच्यते अतियजनम् ॥ प्स्भ्_2.15:18
* आह किं दानं यजनं च साधनद्वयम् एवात्रातिशब्देन विशिष्टं कर्तव्यमिति ॥ प्स्भ्_2.15:19
* उच्यते न ॥ प्स्भ्_2.15:20
* यस्मादाह ॥ प्स्भ्_2.15:21
अतितप्तं तपस्तथा

2.17

* अतिशब्दो विशेषणे ॥ प्स्भ्_2.16:1
* नायान्त्याध्यात्मिकाधिभौतिकाधिदैविकास् तेषां स्वशास्त्रोक्तेन क्रमेण मनसि संमतानां मतानाम् अनुपायतः प्रतीकारम् अकुर्वतां तपो निष्पद्यते ॥ प्स्भ्_2.16:2
* यत्र तृतीयायाम् आत्मसंयोगान् निष्पद्यते तत् तप इत्यर्थः ॥ प्स्भ्_2.16:3
* तदा शयनार्थे कथम् ॥ प्स्भ्_2.16:4
* तथातितापेभ्यो ऽतितपो निष्पद्यते तथा दानयजनाभ्याम् अपीति ॥ प्स्भ्_2.16:5
* तथाशब्दः साधनत्रयोपसंहारार्थः ॥ प्स्भ्_2.16:6
* यदा ददाति तदा यजति तप्यति च ॥ प्स्भ्_2.16:7
* यदापि यजति तदा ददाति तप्यति च ॥ प्स्भ्_2.16:8
* यदा तप्यति तदा ददाति यजति च ॥ प्स्भ्_2.16:9
* एवमादिदीक्षाप्रभृतिर् अस्य ब्राह्मणस्य ॥ प्स्भ्_2.16:10
* एभिस् त्रिभिर् उपायैर् गङ्गास्रोतोवद् धर्मस्यायो ऽधर्मस्य व्ययो भवति तदातिदानादिनिष्पन्नेन प्रकृष्टेन तपसा अस्य ब्राह्मणस्य हर्षोत्पत्तिर्माहात्म्यलाभश्च सम्भवतीत्यर्थः ॥ प्स्भ्_2.16:11
* आह अतिदानादिनिष्पन्नेन प्रकृष्टेन तपसास्य ब्राह्मणस्य का गतिर्भवतीति ॥ प्स्भ्_2.16:12
* उच्यते अभ्युदयकैवल्यव्यतिरेकेण ॥ प्स्भ्_2.16:13
अत्यागतिं गमयते

2.18

* अत्र अतिशब्दो विशेषणे ॥ प्स्भ्_2.17:1
* आङ् इति मर्यादायां भवति ॥ प्स्भ्_2.17:2
* कथम् अध्ययनध्यानादिरहितमपि साधकं तपोऽतिगतिं गमयति तदभ्यासो हरत्येनम् इति वचनात् ॥ प्स्भ्_2.17:3
* अतिगतिरिति योगपर्यायः ॥ प्स्भ्_2.17:4
* कथं गम्यते ॥ प्स्भ्_2.17:5
* तपःकार्यत्वाद् आनन्त्यब्रह्मसायुज्यवत् ॥ प्स्भ्_2.17:6
* सांख्ययोगाभ्युदयादिगतिविशेषविशेषितत्वाद् उपरिष्टाद् वर्तत इत्यर्थः ॥ प्स्भ्_2.17:7
* तस्मात् तपसः फलं विशेषार्थमभिधीयते योगोऽतिगतिमिति ॥ प्स्भ्_2.17:8
* अतिगतिमिति कर्म ॥ प्स्भ्_2.17:9
* गमयते ॥ प्स्भ्_2.17:10
* न तावद् गतः गमिष्यति किंतु गमयतीत्यर्थः ॥ प्स्भ्_2.17:11
* आह अतिदानाद् यथावत् तपसो गुणवचनं किमस्ति नेति ॥ प्स्भ्_2.17:12
* उच्यते अस्ति ॥ प्स्भ्_2.17:13
* यस्मादाह ॥ प्स्भ्_2.17:14
तस्मात्

2.19

* इति ॥ प्स्भ्_2.18:1
* अत्र तस्माच्छब्दस् तपसो गुणवचने ॥ प्स्भ्_2.18:2
* तस्मादतिदानादिनिष्पन्नो धर्मोऽत्यागतिं गमयते निरतिशयां प्रापयति ॥ प्स्भ्_2.18:3
* न स्थानशरीरेन्द्रियविषयादिप्राप्तौ ॥ प्स्भ्_2.18:4
* ऐकान्तिकात्यन्तिकरुद्रसमीपप्राप्तेर् एकान्तेनैवानावृत्तिफलत्वं च दृष्ट्वा ॥ प्स्भ्_2.18:5
* अतो ब्रवीति तस्मादिति ॥ प्स्भ्_2.18:6
* आह अत्यन्ततपसो गुणवचनं ज्ञात्वा कारणं च साधकेन किं कर्तव्यम् ॥ प्स्भ्_2.18:7
* तदुच्यते तदर्थमेव ॥ प्स्भ्_2.18:8
भूयस्तपश्चरेत्

2.20

* अत्र भूयः पुनःसंधाने द्रष्टव्यः इष्टापूर्तवत् ॥ प्स्भ्_2.19:1
* कथम् ॥ प्स्भ्_2.19:2
* हर्षेष्व् अभिसक्तस्य मुहूर्तमर्धमुहूर्तं वा साधनेभ्यो व्युच्छेदं दृष्ट्वा संधाने भूयःशब्दोऽभिहितः ॥ प्स्भ्_2.19:3
* तस्मादत्र तपस्तदेव ॥ प्स्भ्_2.19:4
* निरुक्तमस्य पूर्वोक्तम् ॥ प्स्भ्_2.19:5
* चरेद् इत्यर्जनम् अधिकुरुते ॥ प्स्भ्_2.19:6
* धर्मानेकसंशयान्यत्वाच् च अपुनरुक्तोऽयं चरशब्दो द्रष्टव्यः ॥ प्स्भ्_2.19:7
* आह यद्येवं तस्मादुच्यतां हर्षाणां को दोषोऽभिव्यज्यते ॥ प्स्भ्_2.19:8
* माहात्म्यस्य वा को गुणः यस्मात् तद् ग्राह्यमिति ॥ प्स्भ्_2.19:9
* तदुच्यते कुरुते माहात्म्यम् ॥ प्स्भ्_2.19:10
* यस्मादाह ॥ प्स्भ्_2.19:11
नान्यभक्तिस्तु शंकरे

2.21

* अयं नकारो ऽन्यभक्तिप्रतिषेधे ॥ प्स्भ्_2.20:1
* भक्तिर्भावनेत्यर्थः ॥ प्स्भ्_2.20:2
* तुशब्दो विशेषणे ॥ प्स्भ्_2.20:3
* कथम् ॥ प्स्भ्_2.20:4
* ये हर्षेष्वभिसक्ताः दूष्यतः तस्करत्वमापन्नाः ते विशेषेण तु शंकराद् दूरस्था भवन्ति ॥ प्स्भ्_2.20:5
* शंकरः कस्मात् ॥ प्स्भ्_2.20:6
* समस्तसुखनिर्वाणकरत्वाच् छंकरः ॥ प्स्भ्_2.20:7
* शंकरे इत्यौपश्लेषिकं संनिधानम् ॥ प्स्भ्_2.20:8
* शंकरे भावना कर्तव्या नान्यत्रेत्य् अर्थः ॥ प्स्भ्_2.20:9
* उक्तं हि । कर्मणा मनसा वाचा यद् अश्लक्ष्णं निषेवते । तदभ्यासो हरत्येनं तस्मात् कल्याणमाचरेत् ॥ प्स्भ्_2.20:10
* एवमेते महात्मानः प्राहुर् अध्यात्मचिन्तकाः । यच्चित्तस् तन्मयो भावो गुह्यमेतत् सनातनम् ॥ प्स्भ्_2.20:11
* गच्छंस् तिष्ठन् शयानो वा जाग्रच् चैव स्वपंस्तथा । शंकरे भावनां कुर्याद् यदीच्छेद् योगमात्मनः ॥ प्स्भ्_2.20:12
* यस्मात् क्षयान्ते त्रैलोक्यं शंकरे याति संक्षयम् । तस्मात् संवर्तको धाता शंकरस्त्वभिधीयते ॥ प्स्भ्_2.20:13
* एवं शंकरे भाव उपश्लेषितव्यो नान्यत्रेत्य् अर्थः ॥ प्स्भ्_2.20:14
* एवं परिसमाप्तिं कृत्वा युक्तं वक्तुम् ॥ प्स्भ्_2.20:15
अत्रेदं ब्रह्म जपेत्

2.22

* इति ॥ प्स्भ्_2.21:1
* अस्य पूर्वोक्तोऽर्थः ॥ प्स्भ्_2.21:2
* आह धर्मपरिणामकत्वात् शंकरत्वात् सुखद ईश्वरोऽभिहितः ॥ प्स्भ्_2.21:3
* अथान्तरसृष्ट्यां सुखदुःखकारणं किं भवति धर्माधर्मसत्त्वरजोवद् उत नेति ॥ प्स्भ्_2.21:4
* उच्यते अत्र य उपायः सुखदः तथा वक्ष्यामः यथावान् यत्र व्यवस्थिते संसारगते कार्ये स एव कारणं परम् ॥ प्स्भ्_2.21:5
* ननु कोर्यकलवन् निरधिकारस् तथा वक्ष्यामो विस्तरशश् चास्मिन् ब्रह्मणि कारणशक्तिं वक्ष्यामः ॥ प्स्भ्_2.21:6
* शक्तिं च ज्ञात्वा यथा साधकोऽष्टभिर् नमस्कारैरात्मानं ददाति तथा वक्ष्यामः ॥ प्स्भ्_2.21:7
* अत इदमारभ्यते ॥ प्स्भ्_2.21:8
वामदेवाय नमो ज्येष्ठाय नमो रुद्राय नमः

2.23

* इति ॥ प्स्भ्_2.22:1
* प्रयोगान्यत्वात् प्रयोजनान्यत्वाच् चापुनरुक्ता वामदेवादिशब्दा द्रष्टव्याः ॥ प्स्भ्_2.22:2
* अत्र वामत्वं देवत्वं ज्येष्ठत्वं रुद्रत्वं च पूर्वोक्तम् ॥ प्स्भ्_2.22:3
* वामदेवज्येष्ठरुद्रायेति चतुर्थी ॥ प्स्भ्_2.22:4
* नम इत्यात्मप्रदाने पूजायां च ॥ प्स्भ्_2.22:5
* सम्भावनान्यत्वाच् चापुनरुक्ताः सर्वनमस्कारा द्रष्टव्याः ॥ प्स्भ्_2.22:6
* आह किं चतुष्कमेवात्र कारणे चिन्त्यते ॥ प्स्भ्_2.22:7
* नामचतुष्कापदेशेन वा नाम्नि नमस्कारो द्रष्टव्यः ॥ प्स्भ्_2.22:8
* उच्यते न ॥ प्स्भ्_2.22:9
* यस्मादाह ॥ प्स्भ्_2.22:10
कालाय नमः

2.24

* अत्र काल इत्येष महेश्वरपर्यायः कस्मात् पूर्वोत्तरसूत्रसामर्थ्यात् ॥ प्स्भ्_2.23:1
* कालयते यस्मात् क्षेत्रसाधिनिष्ठानि स्थानानि कलादिशरीरेन्द्रियविषयादिभ्यो वियोगेनेति ततः कालः ॥ प्स्भ्_2.23:2
* उक्तं हि ॥ प्स्भ्_2.23:3
* ब्रह्मादिभूर्जपर्यन्तं जगद् एतच् चराचरम् । यतः कलयते रुद्रः कालरूपी ततः स्मृतः ॥ प्स्भ्_2.23:4
* काल्यान् कलयते यस्मात् कलाभ्यः कालपर्ययात् । कलनात् कालनाच् चापि काल इत्यभिधीयते ॥ प्स्भ्_2.23:5
* एवं कालो हि भगवान् ॥ प्स्भ्_2.23:6
* काल्याः क्षेत्रज्ञाः ॥ प्स्भ्_2.23:7
* स्थानानि तु ब्रह्मेन्द्रदेवपित्रादिवचनाद् ब्राह्मं प्राजापत्यं सौम्यम् ऐन्द्रं गान्धर्वं याक्षं राक्षसं पैशाचमिति ॥ प्स्भ्_2.23:8
* तथा ब्राह्मणशूद्रगोमृगसर्वभूतकृतान्नादिवचनात् तथा मानुषपशुमृगपक्षिसरीसृपस्थावरादीनां ग्रहणम् ॥ प्स्भ्_2.23:9
* तथा योगेश्वरा देवेष्वन्तर्भूताः ॥ प्स्भ्_2.23:10
* कस्मात् ॥ प्स्भ्_2.23:11
* धर्मबाहुल्यात् ॥ प्स्भ्_2.23:12
* तथा नारकास् तिर्यक्ष्व् अन्तर्भूताः ॥ प्स्भ्_2.23:13
* कस्मात् ॥ प्स्भ्_2.23:14
* अधर्मबाहुल्यात् ॥ प्स्भ्_2.23:15
* एवं स्थानतश्चतुर्दशकः संसार इत्युपचर्यते ॥ प्स्भ्_2.23:16
* एतेषु कलादिवचनान् महेश्वरो निमित्तम् ॥ प्स्भ्_2.23:17
* कस्मात् ॥ प्स्भ्_2.23:18
* पूर्वोत्तरशरीरेषु भोगलोपाभिव्यक्तिमात्रत्वात् ॥ प्स्भ्_2.23:19
* आदिमान् संसारो द्रष्टव्यः ॥ प्स्भ्_2.23:20
* तत्फलभोक्तृत्वात् कार्यकरणयोर् अनादित्वाद् अनादिर् अकृताभ्यागमाद् इत्येतद् भगवत्यभ्यधिकत्वं शेषेषु च पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं कालाय नमः ॥ प्स्भ्_2.23:21
* अत्रापि कालाय इति चतुर्थी ॥ प्स्भ्_2.23:22
* नम इत्यात्मप्रदाने पूजायां च ॥ प्स्भ्_2.23:23
* सम्भावनान्यत्वाच् चापुनरुक्तोऽयं नमस्कारो द्रष्टव्यः ॥ प्स्भ्_2.23:24
* आह अथ स्थानशरीरेन्द्रियविषयादीनां किमेष भगवान् प्रभुः कर्ता भवति नेति ॥ प्स्भ्_2.23:25
* उच्यते प्रभुः कर्तैव ॥ प्स्भ्_2.23:26
* यस्मादाह ॥ प्स्भ्_2.23:27
कलविकरणाय नमः

2.25

* अत्र कला नाम कार्यकरणाख्याः कलाः ॥ प्स्भ्_2.24:1
* तत्र कार्याख्याः पृथिव्यापस्तेजो वायुराकाशः ॥ प्स्भ्_2.24:2
* आकाशः शब्दगुणः ॥ प्स्भ्_2.24:3
* शब्दस्पर्शगुणो वायुस्तौ च रूपं च तेजसि । ते रसश्च जले ज्ञेयास्ते च गन्धः क्षिताव् अपि ॥ प्स्भ्_2.24:4
* शब्दस्पर्शरूपरसगन्धाः ॥ प्स्भ्_2.24:5
* तथा करणाख्याः श्रोत्रं त्वक् चक्षुः जिह्वा घ्राणं पादः पायुः उपस्थः हस्तः वाक् मनः अहंकारः बुद्धिर् इति ॥ प्स्भ्_2.24:6
* तासां विकरणो भगवानीश्वरः ॥ प्स्भ्_2.24:7
* कस्मात् ॥ प्स्भ्_2.24:8
* दृक्क्रियाशक्त्योरप्रतीघातात् ॥ प्स्भ्_2.24:9
* विकरणत्वं नाम स्थानशरीरेन्द्रियविषयादिसंनिवेशेन विस्तरविभागविशेषतश्च कार्यकरणाख्याभिः कलाभिर् धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्यादिभिश्च क्षेत्रज्ञसंयोजनमित्येतद् भगवत्य् अभ्यधिकत्वं शेषेषु च पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं कलविकरणाय नमः ॥ प्स्भ्_2.24:10
* अत्रापि कलविकरणाय इति चतुर्थी । नम इत्यात्मप्रदाने पूजायां च ॥ प्स्भ्_2.24:11
* सम्भावनान्यत्वाच् चापुनरुक्तोऽयं नमःशदः ॥ प्स्भ्_2.24:12
* आह कालनविकरणत्वाद् अवान्तरसृष्ट्यां कर्मक्षये वृत्तिलाभे चापेक्षते नेति ॥ प्स्भ्_2.24:13
* धर्मज्ञानवैराग्यैश्वर्यादीनां वा किमेष भगवान् प्रभुर्भवति नेति ॥ प्स्भ्_2.24:14
* उच्यते प्रभुः ॥ प्स्भ्_2.24:15
* यस्मादाह ॥ प्स्भ्_2.24:16
बलप्रमथनाय नमः

2.26

* बलं नाम धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्याणि इच्छाद्वेषप्रयत्नादीनि विद्यावर्गः रूपाणि ॥ प्स्भ्_2.25:1
* प्र इति भृशार्थे कामित्वाकर्षणे च ॥ प्स्भ्_2.25:2
* मथनत्वं नाम बलवृत्तिनिरोधनम् उदधिमथनवत् ॥ प्स्भ्_2.25:3
* न वाग्निज्ञानादीनि दुर्बलानि ॥ प्स्भ्_2.25:4
* यस्मादुक्तम् । न ह्य् अतेजस्विनाशाय तैजसाः प्रभवन्ति वै । बलान्यतिबलान्यस्य न भवेऽतिबलानि वै ॥ प्स्भ्_2.25:5
* इत्येवं भगवत्यभ्यधिकत्वं शेषेषु पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं बलप्रमथनाय नमः ॥ प्स्भ्_2.25:6
* अत्रापि बलप्रमथनाय इति चतुर्थी ॥ प्स्भ्_2.25:7
* नम इत्यात्मप्रदाने पूजायां च ॥ प्स्भ्_2.25:8
* सम्भावनान्यत्वाच् चापुनरुक्तोऽयं नमस्कारो द्रष्टव्यः ॥ प्स्भ्_2.25:9
* आह केषां कालनविकरणमथनानि करोति ॥ प्स्भ्_2.25:10
* तदुच्यते भूतानाम् ॥ प्स्भ्_2.25:11
* यस्मादाह ॥ प्स्भ्_2.25:12
सर्वभूतदमनाय नमः

2.27

* अत्र कलावचने पुनरुक्तिदोषान् न पृथिव्यादिषु सर्वशब्दः ॥ प्स्भ्_2.26:1
* किं तु सिद्धेश्वरवर्जं चेतनेष्वेव सर्वभूतशब्दः ॥ प्स्भ्_2.26:2
* आह भूतत्वानुपपत्तेर्न चेतनेषु सर्वभूतशब्दः ॥ प्स्भ्_2.26:3
* तदुच्यते दमनाय ॥ प्स्भ्_2.26:4
* शमु दमु उपशमे ॥ प्स्भ्_2.26:5
* देवमनुष्यादीनां स्थानशरीरेन्द्रियविषयादिषु या रतिः रञ्जनाधिवासना तत्सर्वम् अन्तरदृष्ट्या सर्वमीश्वरकृतमेव द्रष्टव्यमित्येतद् भगवत्यभ्यधिकत्वं शेषेषु च पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं सर्वभूतदमनाय नमः ॥ प्स्भ्_2.26:6
* अत्रापि सर्वभूतदमनाय इति चतुर्थी ॥ प्स्भ्_2.26:7
* नम इत्यात्मप्रदाने पूजायां च ॥ प्स्भ्_2.26:8
* सम्भावनान्यत्वाच् चापुनरुक्तोऽयं नमस्कारो द्रष्टव्यः ॥ प्स्भ्_2.26:9
* आह कीदृशे महेश्वरे कालनादिशक्तिरुच्यते किं सकले निष्कले उत उभयोरपि ॥ प्स्भ्_2.26:10
* उच्यते उभयोरपि ॥ प्स्भ्_2.26:11
* यस्मादाह ॥ प्स्भ्_2.26:12
मनोऽमनाय नमः

मूल पाठ: Pāśupatasūtra with Kauṇḍinya's Pañcārthabhāṣya · Edition: R. Anantakrishna Shastri Trivandrum: The Oriental Manuscripts Library of the University of Travancore, 1940 (Trivandrum Sanskrit Series ; 143) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc