भाषा

ENहिગુ
ग्रंथ पाठ

पाशुपतसूत्र (टीका सहित) · अध्याय 1

1.1

पाशुपतसूत्र, 1
अथातः पशुपतेः पाशुपतं योगविधिं व्याख्यास्यामः

1.2

* हितार्थम् अखिलं येन सृष्टं ब्रह्मादिकं जगत् । प्रणम्य तं पशुपतिं शिरसा सदसस्पतिम् । अर्थातिशयसम्पन्नं ज्ञानातिशयम् उत्तमम् । पञ्चार्थं क्रियते भाष्यं कौण्डिन्येनानुपूर्वशः ॥ प्स्भ्_1.1:1
* आह वक्ष्यति भगवान् पञ्चार्थम् ॥ प्स्भ्_1.1:2
* अथास्यादिसूत्रं किम् इति ॥ प्स्भ्_1.1:3
* अत्रोच्यते अथातः पशुपतेः पाशुपतं योगविधिं व्याख्यास्यामः इति ॥ प्स्भ्_1.1:4
* एतत् प्रथमसूत्रं शास्त्रादाव् उच्चार्यते ॥ प्स्भ्_1.1:5
* तदनन्तरं पदविग्रहः क्रियते ॥ प्स्भ्_1.1:6
* तदुपयोगिनं योगविधिं व्याख्यास्याम इति ॥ प्स्भ्_1.1:7
* अष्टपदं सूत्रम् ॥ प्स्भ्_1.1:8
* तत्र अथ अतः इति द्वे पदे नैपातिके ॥ प्स्भ्_1.1:9
* पशुपतेर् इत्य् एतत् पदं परिग्रहार्थेनोच्चार्यते ॥ प्स्भ्_1.1:10
* पाशुपतम् इति तद्धितम् ॥ प्स्भ्_1.1:11
* योगविधिम् इति सामासिकम् ॥ प्स्भ्_1.1:12
* वि आङ् इति द्वे पदे । ख्यास्याम इत्य् आख्यातिकम् ॥ प्स्भ्_1.1:13
* आह किं प्रयोजनं पदविग्रहः क्रियते ॥ प्स्भ्_1.1:14
* तद् उच्यते अर्थप्रसिद्ध्यर्थम् ॥ प्स्भ्_1.1:15
* कस्माद् अर्थाप्रसिद्धिः पदानाम् ॥ प्स्भ्_1.1:16
* यस्मात् पृथगर्थानीह पदानि भवन्ति ॥ प्स्भ्_1.1:17
* यस्माद् एवं ह्य् आह ॥ प्स्भ्_1.1:18
* यथा विवृतगात्रोऽ पि शिरसि प्रावृतो नरः । नाभिव्यक्तिं व्रजत्य् एवं सूत्रं विग्रहवर्जितम् ॥ प्स्भ्_1.1:19
* एवम् अर्थप्रसिद्ध्यर्थं पदविग्रहः क्रियते ॥ प्स्भ्_1.1:20
* आह उक्तः पदविग्रहः प्रयोजनं च ॥ प्स्भ्_1.1:21
* इदं तु वाच्यम् अथ शास्त्रादिः कः इति ॥ प्स्भ्_1.1:22
* अत्रोच्यते अथातः पशुपतेर् इत्य् एष तावच् छास्त्रादिः ॥ प्स्भ्_1.1:23
* तत्र शास्त्रं तन्त्रं ग्रन्थो विद्या च ॥ प्स्भ्_1.1:24
* ग्रन्थार्थयोस् तदधिगमोपायत्वात् ॥ प्स्भ्_1.1:25
* पारिमाण्यम् अथशब्दादिशिवान्तं प्रवचनम् ॥ प्स्भ्_1.1:26
* संख्या पञ्चाध्यायाः पञ्च ब्रह्माणि अधिकरणं च ॥ प्स्भ्_1.1:27
* अथशब्दातःशब्दव्याख्यानवचनस्नानशयनाद्युपदेशाच् च शिष्याचार्ययोः प्रसिद्धिः ॥ प्स्भ्_1.1:28
* कैवल्यगतानाम् अपि दुःखित्वदर्शनात् कार्यकारणप्रत्यक्षदर्शी विप्रत्वाद् उपायोपेयप्रत्यक्षदर्शित्वाच् च प्रश्नप्रतिवक्ता ऐश्वर्यावस्थश् चैव मुक्तत्वान् मनोऽमनःसंस्थश् च कामित्वाद् अतः सर्वाचार्यविशिष्टो ऽयम् आचार्य इति ॥ प्स्भ्_1.1:29
* तथा ब्राह्मणग्रहणात् स्त्रीप्रतिषेधाद् इन्द्रियजयोपदेशाच् च उक्तं हि । बाधिर्यम् आन्ध्यम् अघ्रत्वं मूकता जडता तथा । उन्मादः कौण्यं कुष्ठित्वं क्लैब्यं गुदावर्तपङ्गुता ॥ प्स्भ्_1.1:30
* आदिरहितः पट्विन्द्रियो ब्राह्मणः शिष्यः ॥ प्स्भ्_1.1:31
* स चान्यविशिष्टो ऽयं शिष्य इति ॥ प्स्भ्_1.1:32
* तथा देवादिभ्यश् च क्रीडाधर्मित्वात् क्रीडानिमित्ता ईश्वरप्रवृत्तिः ॥ प्स्भ्_1.1:33
* अनुग्रहार्था चाचार्यस्य प्रवचनवक्तृत्वे प्रवृत्तिः ॥ प्स्भ्_1.1:34
* तथा भजनचोदनप्रसादशिवत्वलिप्सोपदेशाद् दुःखान्तार्थिनः शिष्यस्येहोपसदनप्रवृत्तिः ॥ प्स्भ्_1.1:35
* न तु धर्मार्थकामकैवल्यार्थात्रेति ॥ प्स्भ्_1.1:36
* तथा कामित्वाद् इन्द्रकौशिकादिभ्यश् चाचार्यो दिव्यो निरतिशयक्रीडैश्वर्यस्वाभाव्याद् इत्य् अर्थः ॥ प्स्भ्_1.1:37
* चोदनोपसदनसंस्कारवश्यादिदुःखैर् अभिभूतत्वाच् चादिव्या इन्द्रकौशिकाद्याः शिष्या इति ॥ प्स्भ्_1.1:38
* तथा शिष्टप्रामाण्यात् कामित्वाद् अजातत्वाच् च मनुष्यरूपी भगवान् ब्राह्मणकायम् आस्थाय कायावतरणे अवतीर्ण इति ॥ प्स्भ्_1.1:39
* तथा पद्भ्याम् उज्जयिनीं प्राप्तः । कस्मात् । शिष्टप्रामाणत् चिह्नदर्शनश्रवणाच् च । अत्याश्रमप्रसिद्धं लिङ्गमास्थाय प्रवचनम् उक्तवान् भस्मस्नानशयनानुस्नाननिर्माल्यैकवासोग्रहणाद् अधिकरणप्रसिद्ध्यर्थं च स्वशास्त्रोक्ते आयतने शिष्यसम्बन्धार्थं शुचौ देशे भस्मवेद्यामुषितः । अतो रुद्रप्रचोदितः कुशिकभगवान् अभ्यागत्याचार्ये परिपूर्णपरितृप्त्याद्युत्कर्षलक्षणानि विपरीतानि चात्मनि दृष्ट्वा पादाव् उपसंगृह्य न्यायेन जातिं गोत्रं श्रुतम् अनृणत्वं च निवेदयित्वा कृतक्षणम् आचार्यं काले वैद्यवद् अवस्थितम् आतुरवद् अवस्थितः शिष्यः पृष्टवान् भगवन् किम् एतेषाम् आध्यात्मिकाधिभौतिकाधिदैविकानां सर्वदुःखानाम् ऐकान्तिको ऽत्यन्तिको व्यपोहो ऽस्त्य् उत नेति । अथोक्तपरिग्रहाधिकारलिप्सासु परापदेशेनोपदेशे सच्छिष्यसाधकपाठप्रसिद्ध्यर्थं कारणपदार्थाधिगमार्थं चात्मनि परापदेशं कृत्वा भगवान् एवोक्तवान् अथेति । अत्र पूर्वप्रकृतापेक्षायाम् अथशब्दः । कथम् । शिष्येणोदीरितं पूर्वं प्रश्नम् अपेक्ष्योक्तवान् अथेति । एवम् अयम् अथशब्दः पृष्टप्रतिवचनार्थो ऽस्ति । स दुःखान्त इत्य् अर्थः । आह किं परीक्षिताय शिष्याय दुःखान्तः प्रतिज्ञातः उतापरीक्षितायेति । उच्यते परीक्षिताय । यस्माद् आह इति । अत्र अतःशब्दः शिष्यगुणवचने । यस्माद् अयं ब्रह्मावर्तदेशजः कुलजः पट्विन्द्रियो विविदिषादिसम्पन्नः शिष्यः । पूर्वं चात्रार्थतो ऽतः शब्दो द्रष्टव्यः । अथ स दुःखान्तः कुतः प्राप्यते केन वाभ्युपायेनेति । तद् उच्यते पशुपतेः । प्रसादाद् इति वाक्यशेषः । अत्र पशूनां पतिः ॥ प्स्भ्_1.1:40
* पशुपतिः । अत्र पशवो नाम सिद्धेश्वरवर्जं सर्वे चेतनावन्तः । कार्यकरणाञ्जना निरञ्जनाश् च पशवः । आह किं तेषां पशुत्वम् । उच्यते अनैश्वर्यं बन्धः । कारणशक्तिसन्निरोधलक्षणम् अस्वातन्त्र्यम् अनैश्वर्यं बन्धो ऽनाडिः । बन्धगुण इत्य् उपचर्यते । तत् कथंलक्षणम् इति चेत् । तद् उच्यते पश्यनात् पाशनाच् च पशवः । तत्र पाशा नाम कार्यकरणाख्याः कलाः । ताश् च कला उपरिष्टाद् वक्ष्यामः । ताभिः पाशिताः बद्धाः संनिरुद्धाः शब्दादिविषयपरवशाश् च भूत्वावतिष्ठन्ते इत्य् अतो ऽवगम्यते ऽस्वातन्त्र्यम् अनैश्वर्यं बन्धः । कार्यकरणरहितस्य पशुत्वं निवर्तत इति चेत् । तद् उच्यते संहृतानाम् अपि पुनः पुनः संबन्धग्रहणाच् छास्त्रे । किं चान्यत् । पश्यनाच् च पशवः । यस्माद् विभुत्वे ऽपि चित्समवेतत्वे ऽपि च शरीरमात्रम् एव पश्यन्त्य् उपलभन्ति च न बहिर्द्धानि । कार्यकरणरहिताश् च न कार्यकरणं प्रतिपद्यते त्यजन्ति वा । धर्माधर्मप्रकाशदेशकालचोदनाद्यपेक्षितत्वाच् च । अतः सुष्ठूक्तं पश्यनात् पाशनाच् च पशवः । यस्माद् उक्तं सांख्ययोगेन ये मुक्ताः सांख्ययोगेश्वराश् च ये । ब्रह्मादयस् तिर्यगन्ताः सर्वे ते पशवः स्मृताः ॥ प्स्भ्_1.1:41
* पतिः कस्मात् । आप्ति पाति च तान् पशून् इत्य् अतः पतिर् भवति । तान् केनाप्नोति केन रक्षति । ततो विभुशक्त्या । यस्मात् तत्रापि शक्तिम् अस्यानन्तां नातिवर्तन्ते । विप्रत्वाच् चास्यानन्ता ज्ञानशक्तिः अपरिमिता । तया अपरिमितया अपरिमितान् एव प्रत्यक्षान् पशून् आप्नोतीति पतिः । तथा पालयतीति प्रभुशक्तिः । कस्मात् । तच्छन्दात् तेषां प्रवृत्तिनिवृत्तिः स्थितिर् इष्टानिष्टस्थानशरीरेन्द्रियविषयादिप्राप्तिर् भवति । तत्परिदृष्टानां तत्प्रचोदितानां चेत्य् अर्थः । एवं ॥ प्स्भ्_1.1:42

* पशुपतेर् इति कार्यकारणयोः प्रसादस्य चोद्देशः । तस्मात् प्रसादात् स दुःखान्तः प्राप्यते । न तु ज्ञानवैराग्यधर्मैश्वार्यत्यागमात्राद् इत्य् अर्थः । आह कुत्रस्थस्य कदा कीदृशस्य वा स भगवान् प्रसीदतीति । उच्यते यदानेन तु तत् प्राप्तं भवति । आह किं तद् इति । उच्यते पाशुपतम् अत्र पशुपतिनोक्तं परिगृहीतं पशुपतिम् अधिकृत्य चारभ्यत इति पाशुपतम् । यथा वैष्णवं मानसम् इति । किं तद् इति । उच्यते योगम् । अत्रात्मेश्वरसंयोगो योगः । स पुनः पुरुषस्याध्ययनादिनैमित्तिकत्वाद् अन्यतरकर्मजः स्थाणुश्येनवत् । चोदनाध्ययनादिवचनाद् मेषवद् उभयकर्मजः । यस्मात् सति विभुत्वे अनधिकारकृतत्वाद् वियोगस्य । वियुक्तस्यैव च संयोग उपदिश्यते । विषयरक्तविरक्तवत् क्रियायोगे । इह तु समाधिलक्षणे योगे संनियम इति । आह किं परिज्ञानमात्राद् एव तद्योगः प्राप्यते । उच्यते । यस्माद् आह तत्प्राप्तौ विधिं व्याख्यास्यामः । अत्र योगस्य विधिः योगविधिर् इति षष्ठीतत्पुरुषसमासः । अत्र सूक्ष्मस्थूलसबाह्याभ्यन्तरसलक्षणविलक्षणक्रियासु विधिसंज्ञा यज्ञविधिवत् । न तु सेनावनादिवत् । कस्मात् । क्रियाणां क्षणिकानां समुदायासम्भवात् । यद्य् एवं विधिः कस्मात् । विधायकत्वाद् विधिः । उपायोपेयभावाच् च । विधिम् इति कर्म । एव सदुःखान्तः कार्यं कारणं योगो विधिर् इति पञ्चैव पदार्थाः समासत उद्दिष्टाः । ते व्याख्येयाः । व्याख्यानम् एतेषां विस्तरविभागविशेषोपसंहारनिगमनानि । तस्माद् अन्यद् व्याख्येयम् अन्यद् व्याख्यानम् । यस्माद् आह व्याख्यास्यामः । अत्र विः विस्तरे विभागे विशेषे च भवति । तत्र विस्तर इति प्रत्यक्षानु ॥ प्स्भ्_1.1:43
* मानाप्तवचनम् इति प्रमाणान्य् अभिधीयन्ते । तत्र प्रत्यक्षं द्विविधम् इन्द्रियप्रत्यक्षम् आत्मप्रत्यक्षं च । इन्द्रियप्रत्यक्षम् इन्द्रियार्थाः शब्दस्पर्शरूपरसगन्धघटाहाः व्याख्यानतापमूत्रपुरीषमांसलवणप्राणायामैः सिद्धम् । आत्मप्रत्यक्षं तदुपहारकृत्स्नतपोदुःखान्तादि वचनात् सिद्धम् । यथा प्रस्थेन मितो व्रीहिः प्रस्थः । परमार्थतस् त्व् इन्द्रियार्थसम्बन्धव्यञ्जकसामग्र्यं धर्माधर्मप्रकाशदेशकालचोदनाद्यनुगृहीतं सत् प्रमाणम् उत्पद्यते । आत्मप्रत्यक्षं तु चित्तान्तःकरणसम्बन्धसामग्र्यम् । अनुमानम् अपि प्रत्यक्षपूर्वकं चित्तात्मान्तःकरणसम्बन्धसामग्र्यं च धर्माधर्मप्रकाशदेशकालचोदनादिस्मृतिहेतुकम् उत्पत्त्यनुग्रहतिरोभावकालादि । तैश् चोत्तरसृष्टिकर्तृत्वम् अनुमीयते कारणस्य । अतो नोत्सूत्रम् । तच् च द्विविधं दृष्टं सामान्यतोदृष्टं च । तत्र दृष्टम् अपि द्विविधं पूर्ववच्छेषवच् च । तत्र पूर्वदृष्टो ऽयं षडङ्गुलीयकः स एवेति पूर्ववत् । विषाणादिमात्रदर्शनाद् गौर् इति शेषवत् । सामान्यतोदृष्टम् अपीह गतिपूर्विकां देशान्तरप्राप्तिं दृष्ट्वा चास्यादित्यादिगतिप्रसिद्धिः । त्रैकाल्ये ऽप्य् अर्थाधिगमे निमित्तं प्रमाणम् । आगमो नाम आ महेश्वराद् गुरुपारम्पर्यागतं शास्त्रम् । आगमो ऽलौकिकादिव्यवहारहेतुर् आचक्षितः स्मृतः । रुद्रः प्रोवाच वचनात् सिद्धिः । एष्व् एवोपमानार्थापत्तिसम्भवाभावैतिह्यप्रतिभादीनां व्याख्यायमानानाम् अन्तर्भावः । एवम् एतानि त्रीणि प्रमाणानि । प्रमापयिता भगवांश् चोदकः । प्रमाता पुरुषः । प्रमेयाः कार्यकारणादयः पञ्च पदार्थाः । प्रमितिः संवित् । संवित् संचिन्तनं सम्बोधो विद्याभिव्यक्तिर् इत्य् अर्थः । उद्देशनिर्देशाधिगमाच् च विर् विस्तरे भवति । विभागो नाम पदपदार्थसूत्रप्रकरणाध्यायाद्यसंकरः । विशेषो ॥ प्स्भ्_1.1:44
* नाम साध्यसाधनव्यतिरेकः । आङ् इति व्याख्यामर्यादायां भवति । पदात् पदं सूत्रात् सूत्रं प्रकरणात् प्रकरणम् अध्यायाद् अध्यायम् आ बोधाद् आ परिसमाप्तेर् इति मर्यादावस्थस्यैव च वक्ष्यामः । ख्या प्रकथने । प्रतीताप्रतीताभिः संज्ञाभिः वेदादिविहिताभिव्यतिरेकेण च व्याख्यास्यामः । स्या इत्य् एष्ये काले । यावद् अयम् आचार्यो गृहस्थादिभ्यो ऽभ्यागतं पूर्वम् अतःशब्दात् परीक्षितं ब्राह्मणं व्रतोपवासाद्यं महादेवस्य दक्षिणस्यां मूर्तै सद्योजातादिसंस्कृतेन भस्मना संस्करोति उत्पत्तिलिङ्गव्यावृत्तिं कृत्वा मन्त्रश्रावणं च करोति तावद् एष्यः कालः क्रियते । म इति प्रतिज्ञायां भवति । उत्थानादिगणे सम्यग्व्वावस्थितस्य व्याख्येयव्याख्यानयोर् भगवान् एव क्रमशो वक्ता । स्थूलोपायपूर्वकत्वात् सूक्ष्मविधेयाधिगमस्य पूर्वाश्रमनियमप्रतिषेधार्थम् अत्याश्रमयमनियमप्रसिद्ध्यर्थं च विधिः प्रथमं व्याख्यायते । इत्य् अत्रायं पदार्थोपन्यासः परिसमाप्त इति ॥ प्स्भ्_1.1:45
* अत्राह प्रतिपन्नांशो यथाविधि प्रथमं व्याख्यायते । इदम् इदानीं चिन्त्यम् । अथास्य कश् चादिः किं मध्यं को ऽन्तः कत्यङ्गो वा विधिर् इति । तद् उच्यते भस्मनाद्यो निन्दामध्यो मूढान्तश् च विधिः । स च त्र्यङ्गो दानयजनतपोङ्ग इति । तत् कथम् अवगम्यते यस्माद् इदम् आरभ्यते ॥ प्स्भ्_1.1:46
भस्मना त्रिषवणं स्नायीत

1.3

* अत्र भस्म वामद्रव्यं यद् अग्नीन्धनसंयोगान् निष्पन्नम् ॥ प्स्भ्_1.2:1
* तत् परकृतं पार्थिवं भुक्तं दीप्तिमत् ॥ प्स्भ्_1.2:2
* ग्रामादिभ्यो भैक्ष्यवद् भस्मार्जनं कर्तव्यम् ॥ प्स्भ्_1.2:3
* स्नानशयनानुस्नानकृत्यबन्धुत्वान् निष्परिग्रहत्वाद् अहिंसकत्वाद् उत्कृष्टम् एव शुचि प्रभूतं ग्राह्यं साधनत्वात् ॥ प्स्भ्_1.2:4
* अलाभे स्वल्पम् अपि ग्राह्यम् ॥ प्स्भ्_1.2:5
* आधारो ऽप्य् अलाबुचर्मवस्त्रादिर् अत्र प्रसिद्धः ॥ प्स्भ्_1.2:6
* आह किं तेन भस्मना कर्तव्यम् ॥ प्स्भ्_1.2:7
* तद् उच्यते भस्मनेति तृतीया करणार्थे कर्तुः क्रियाम् आदिशति यथा वाश्या तक्षणं बुद्ध्या पिधानम् ॥ प्स्भ्_1.2:8
* आह अथ कस्मिन् काले सा क्रिया कर्तव्येति ॥ प्स्भ्_1.2:9
* त्रिषवणम् इति ॥ प्स्भ्_1.2:10
* द्विगुः समासः ॥ प्स्भ्_1.2:11
* त्रीणीति संख्या ॥ प्स्भ्_1.2:12
* सवनम् इति कालनिर्देशः ॥ प्स्भ्_1.2:13
* पूर्वसंध्या मध्याह्नसंध्या अपरसंध्येति संध्यात्रयम् ॥ प्स्भ्_1.2:14
* त्रिषवणं त्रिसंध्यं त्रिकालम् इत्य् अर्थः ॥ प्स्भ्_1.2:15
* आह त्रिषवणं किम् अनेन कर्तव्यम् ॥ प्स्भ्_1.2:16
* तद् उच्यते स्नायीत ॥ प्स्भ्_1.2:17
* अत्र स्नानं शौचकार्येण शरीरेष्व् आगन्तुकानां स्नेहत्वग्लेपमलगन्धादीनां भस्मनापकर्षणं कर्तव्यम् ॥ प्स्भ्_1.2:18
* स्नानं तु भस्मद्रव्यगात्रसंयोजनम् ॥ प्स्भ्_1.2:19
* परमार्थतस् तु स्नानादि पुण्यफलसंयोगधर्मात्मवचनाद् आत्मशौचम् एवैतत् ॥ प्स्भ्_1.2:20
* केवलं स्नानाद्यकलुषापहतपाप्मादिवचनात् कार्यकरणव्यपदेशेनात्मशौचं व्याख्यायते ॥ प्स्भ्_1.2:21
* इत इत्य् एतद् आज्ञायां नियोगे च ॥ प्स्भ्_1.2:22
* नियोगत्वान् निगतं नियतत्वान् निगम इत्य् अर्थः ॥ प्स्भ्_1.2:23
* कस्मात् ॥ प्स्भ्_1.2:24
* प्रतितन्त्रसिद्धत्वाद् अहिंसकत्वान् निःश्रेयसहेतुत्वाच् च ॥ प्स्भ्_1.2:25
* भस्मना स्नेयं न चाद्भिर् विपरीतत्वाद् इत्य् अर्थः ॥ प्स्भ्_1.2:26
* किं स्नानम् एवैवं भस्मना कर्तव्यम् ॥ प्स्भ्_1.2:27
* उच्यते ॥ प्स्भ्_1.2:28
* यस्माद् आह ॥ प्स्भ्_1.2:29
भस्मनि शयीत

1.4

* अत्र भस्म तद् एव ॥ प्स्भ्_1.3:1
* निरुक्तम् अस्य पूर्वोक्तम् ॥ प्स्भ्_1.3:2
* भस्मनि इत्य् औपश्लेषिकं संनिधानम् ॥ प्स्भ्_1.3:3
* शय इत्य् उपशमस्य विश्रामस्याख्या ॥ प्स्भ्_1.3:4
* इत इत्य् एतद् आज्ञायां नियोगे च ॥ प्स्भ्_1.3:5
* भस्मन्य् एव रात्रौ स्वप्तव्यं नान्यत्रेत्य् अर्थः ॥ प्स्भ्_1.3:6
* उक्तं हि । यथा मृगा मृत्युभयस्य भीता उद्विग्नवासा न लभन्ति निद्राम् । एवं यतिर् ध्यानपरो महात्मा संसारभीतो न लभेत निद्राम् ॥ प्स्भ्_1.3:7
* किं च विशेषार्थित्वात् ॥ प्स्भ्_1.3:8
* विशेषार्थी चायं ब्राह्मणः ॥ प्स्भ्_1.3:9
* उक्तं हि । न विशेषार्थिनां निद्रा चिरं नेत्रेषु तिष्ठति । हयानाम् इव जात्यानाम् अर्धरात्रार्धशायिनाम् ॥ प्स्भ्_1.3:10
* तस्मात् परिवृष्टे भूप्रदेशे दिवा परिग्रहं कृत्वा भस्मास्तीर्याध्ययनाध्यापनध्यानाभिनिविष्टेन प्रवचनचिन्तनाभिनिवेशैश् च श्रान्तेन बाहूपधानेन सद्योजातादिसंस्कृते भस्मनि रात्रौ स्वप्तव्यम् इत्य् अर्थः ॥ प्स्भ्_1.3:11
* किम् अर्थम् इति चेत् ॥ प्स्भ्_1.3:12
* उच्यते तपोऽर्थं भूप्रदेशे शौचार्थं विश्रामार्थं वा ॥ प्स्भ्_1.3:13
* समविषमनिम्नोन्नतायां भूमौ यामं यामद्वयं वा स्वप्तव्यम् इत्य् अर्थः ॥ प्स्भ्_1.3:14
* आह किं स्नानं शयनं च भस्मना प्रयोजनद्वयम् एवात्र कर्तव्यम् उतान्यद् अपि ॥ प्स्भ्_1.3:15
* सवनान्तस्थस्यास्याशौचकं प्राप्तस्य निर्घातकं किम् इति ॥ प्स्भ्_1.3:16
* तद् उच्यते ॥ प्स्भ्_1.3:17
अनुस्नानम्

1.5

* मन्त्रादिस्नानवत् ॥ प्स्भ्_1.4:1
* अत्र अनु इति पृष्ठकर्मक्रियायां भवति ॥ प्स्भ्_1.4:2
* अनुपानानुगमनवत् ॥ प्स्भ्_1.4:3
* स्नानं तु भस्मद्रव्यसंयोजनम् एव ॥ प्स्भ्_1.4:4
* सवनत्रये स्नानस्यान्तरेषु भुक्तोच्छिष्टक्षुतनिष्ठीवितमूत्रपुरीषोत्सर्गादिनिमित्तकम् अशौचकम् अभिसमीक्ष्य तद् अनुस्नानं कर्तव्यम् ॥ प्स्भ्_1.4:5
* किम् अर्थम् इति चेत् शौचार्थं लिङ्गाभिव्यक्त्यर्थं च ॥ प्स्भ्_1.4:6
* स्नेयम् इत्य् अर्थः ॥ प्स्भ्_1.4:7
* आह किं भस्मैवैकं लिङ्गाभिव्यक्तिकारणम् ॥ प्स्भ्_1.4:8
* भक्तिविवृद्धौ वा अप्रतिषिद्धस्य साधनं किम् इति ॥ प्स्भ्_1.4:9
* तद् उच्यते ॥ प्स्भ्_1.4:10
निर्माल्यम्

1.6

* अत्र भस्मवल् लोकादिप्रसिद्धं निर्माल्यम् ॥ प्स्भ्_1.5:1
* निर् इति निर्मुक्तस्याख्या ॥ प्स्भ्_1.5:2
* माल्यम् इति पुष्पसमूहपर्यायः ॥ प्स्भ्_1.5:3
* तत् परकृतं कारणमूर्त्यारोपितावतारितं निष्परिग्रहं पद्मोत्पलाद्यम् ॥ प्स्भ्_1.5:4
* भक्तिविवृद्ध्यर्थं लिङ्गाभिव्यक्त्यर्थं च तद् धार्यम् इत्य् अर्थः ॥ प्स्भ्_1.5:5
* आह भस्मनिर्माल्येन तस्य लिङ्गं व्यक्तं भवतीति क्व सिद्धम् ॥ प्स्भ्_1.5:6
* तद् उच्यते इह ॥ प्स्भ्_1.5:7
* यस्माद् आह ॥ प्स्भ्_1.5:8
लिङ्गधारी

1.7

* अत्र यथान्येषाम् अपि वर्णाश्रमिणाम् आश्रमप्रतिविभागकराणि लिङ्गानि भवन्ति ॥ प्स्भ्_1.6:1
* तत्र गृहस्थस्य तावद् वासस् त्रयं वैणवी यष्टिः सोदकं च कमण्डलु सोत्तरोष्ठवपनं यज्ञोपवीतादि लिङ्गम् ॥ प्स्भ्_1.6:2
* तथा ब्रह्मचारिणो ऽपि दण्डकमण्डलुमौञ्जीमेखलायज्ञोपवीतकृष्णाजिनादि लिङ्गम् ॥ प्स्भ्_1.6:3
* तथा वानप्रस्थस्यापि करीरचीरवल्कलकूर्चजटाधारणादि लिङ्गम् ॥ प्स्भ्_1.6:4
* तथा भिक्षोस् त्रिदण्डमुण्डकमण्डलुकाषायवासोजलपवित्रस्थलपवित्रादि लिङ्गम् ॥ प्स्भ्_1.6:5
* एवम् इहापि यद् एतत् पाशुपतयोगाधिकरणं लिङ्गम् इत्य् आश्रमप्रतिविभागकरं भस्मस्नानशयनानुस्नाननिर्माल्यैकवासादिनिष्पन्नं स्वशरीरलीनं पाशुपतम् इति लौकिकादिज्ञानजनकं तत् ॥ प्स्भ्_1.6:6
* लीयनाल् लिङ्गनाच् च लिङ्गम् ॥ प्स्भ्_1.6:7
* तद् धारयन् लिङ्गधारी भवति ॥ प्स्भ्_1.6:8
* दण्डधारिवद् इत्य् अर्थः ॥ प्स्भ्_1.6:9
* आह अथैते स्नानशयनानुस्नानादयो ऽर्थाः क्व कर्तव्याः ॥ प्स्भ्_1.6:10
* कुतो वा निर्माल्यस्यार्जनं कर्तव्यम् ॥ प्स्भ्_1.6:11
* कुत्रस्थेन वा तद् धार्यम् ॥ प्स्भ्_1.6:12
* कृतलिङ्गेन वा क्व वस्तव्यम् ॥ प्स्भ्_1.6:13
* तद् उच्यते आयतने ॥ प्स्भ्_1.6:14
* यस्माद् आह ॥ प्स्भ्_1.6:15
आयतनवासी

1.8

* अथ भस्मनिर्माल्यवल् लोकादिप्रसिद्धम् आयतनम् ॥ प्स्भ्_1.7:1
* आङ् इति मर्यादायां भवति ॥ प्स्भ्_1.7:2
* यस्माद् एते गृहस्थादयः प्रयतनियतशुचिसाध्वाचाराः स्वस्वमर्यादयोपतिष्ठन्ते यजन्ति च शान्तिकपौष्टिकादिभिः क्रियाभिर् इति ॥ प्स्भ्_1.7:3
* यजनाच् चायतनम् ॥ प्स्भ्_1.7:4
* तस्मिन् परकृत आयतने वस्तव्यम् इति वासी इत्य् आयतनं च परिगृह्णाति ॥ प्स्भ्_1.7:5
* भूप्रदेशे आकाशे वृक्षमूले बहिः प्रादक्षिण्येन वा यत्र क्वचित् प्रतिवसन् शिष्टमर्यादया आयतनवासी भवति ॥ प्स्भ्_1.7:6
* पुलिनवासवद् वसेद् इत्य् अर्थः ॥ प्स्भ्_1.7:7
* पुण्यफलावाप्तिश् चास्याशु भवति ॥ प्स्भ्_1.7:8
* उक्तं हि । ग्रामे वा यदि वारण्ये पुण्यस्थानं हि शूलिनः ॥ प्स्भ्_1.7:9
* आवासो धर्मतृप्तानां सिद्धिक्षेत्रं हि तत् परम् ॥ प्स्भ्_1.7:10
* आह तस्मिन्न् आयतने प्रतिवसता काः क्रियाः कर्तव्याः ॥ प्स्भ्_1.7:11
* किं स्नानाद्या उपलेपनाद्या वा ॥ प्स्भ्_1.7:12
* आहोस्विद् दृष्टा अस्यान्या वैशेषिक्यः क्रियाः कर्तव्याः ॥ प्स्भ्_1.7:13
* यथा चान्या वैशेषिक्यः क्रियाः कर्तव्याः प्रयोजनं च वक्ष्यामः - ॥ प्स्भ्_1.7:14
हसितगीतनृत्तडुंडुंकारनमस्कारजप्योपहारेणोपतिष्ठेत्

1.9

* अथ त्रिषु स्नानकालेषु सद्योजातादिसंस्कृतेन भस्मना जपता स्नात्वा जपतैवायतनम् अभिगन्तव्यम् ॥ प्स्भ्_1.8:1
* अभिगम्य च यत् पूर्वं जपति तत् प्रत्याहारार्थं जप्यम् ओं ओं ओं ॥ प्स्भ्_1.8:2
* हसितादीनि तु कृत्वा यत् पश्चाज् जपति तन्नियमार्थं जप्यम् ॥ प्स्भ्_1.8:3
* तद् अत्र हसितं नाम यद् एतत् कण्ठौष्ठपुटविस्फूर्जनम् अट्टहासः क्रियते तद्धसितम् ॥ प्स्भ्_1.8:4
* गीतम् अपि गान्धर्वशास्त्रसमयानभिष्वङ्गेण यत्र भगवतो महेश्वरस्य सभायां गौणद्रव्यजकर्मजानि नामानि चिन्त्यन्ते तत् ॥ प्स्भ्_1.8:5
* संस्कृतं प्राकृतं परकृतम् आत्मकृतं वा यद् गीयते तद् गेयम् ॥ प्स्भ्_1.8:6
* नृत्तम् अपि नाट्यशास्त्रसमयानभिष्वङ्गेण हस्तपादादीनाम् उत्क्षेपणम् अवक्षेपणम् आकुञ्चनं प्रसारणं चलनम् अनवस्थानम् ॥ प्स्भ्_1.8:7
* निगमकाले नियमार्थं गेयसहकृतं नृत्तं प्रयोक्तव्यम् ॥ प्स्भ्_1.8:8
* डुंडुंकारो नाम य एष जिह्वाग्रतालुसंयोगान् निष्पद्यते पुण्यो वृषनादसदृशः सः ॥ प्स्भ्_1.8:9
* डुंडुंकरणं डुंडुंकारः ॥ प्स्भ्_1.8:10
* कारशब्दो डुंडुंकारस्योपहाराङ्गावधारणार्थः ॥ प्स्भ्_1.8:11
* नम इति ॥ प्स्भ्_1.8:12
* नाप्य् ओष्ठीयं कर्तव्यं नोपांशु ॥ प्स्भ्_1.8:13
* मानसं तु नमस्करणं नमस्कारः ॥ प्स्भ्_1.8:14
* कारशब्दो वाचिकोपांशुप्रतिषेधार्थं मानसोपहाराङ्गावधारणार्थं चेत्य् अर्थः ॥ प्स्भ्_1.8:15
* जप्यं नाम सद्योजातादिष्व् अक्षरपङ्क्त्यां मनसा भावस्य संचारविचारः ॥ प्स्भ्_1.8:16
* तज् जप्यम् ॥ प्स्भ्_1.8:17
* उपेति विशेषणे क्रियोपसंहारे समस्तत्वे च ॥ प्स्भ्_1.8:18
* उपहरणाद् उपहारो व्रतं नियम इत्य् अर्थः ॥ प्स्भ्_1.8:19
* उपह्रियते निवेद्यते नियोगमात्रकर्तृत्वात् साधकेनेत्य् उपहारः ॥ प्स्भ्_1.8:20
* उपतिष्ठेत् ॥ प्स्भ्_1.8:21
* अत्रोपेत्य् अभ्युपगमे ॥ प्स्भ्_1.8:22
* अभ्युपगतेन विधिस्थेन प्रणतविनतेनेत्य् अर्थः ॥ प्स्भ्_1.8:23
* तिष्ठेद् इत्य् ऐकाग्र्यं प्रत्याहाराभावस्थितिम् एवाधिकुरुते ॥ प्स्भ्_1.8:24
* सर्वकरणानां वृत्तौ प्रत्याहारं कृत्वा कायिकवाचिकमानसिकाभिः क्रियाभिर् उपहारं कृत्वा भृत्यवद् उपहारेण स्थेयम् ॥ प्स्भ्_1.8:25
* अपसव्यं च प्रदक्षिणम् उपरिष्टाद् वक्ष्यामः ॥ प्स्भ्_1.8:26
* आह कस्य निर्माल्यं धार्यम् ॥ प्स्भ्_1.8:27
* कस्य वा आयतने वस्तव्यम् ॥ प्स्भ्_1.8:28
* क्व चोपस्थेयम् इति ॥ प्स्भ्_1.8:29
* तद् उच्यते ॥ प्स्भ्_1.8:30
महादेवस्य दक्षिणामूर्तेः

1.10

* अत्र महान् इत्य् अभ्यधिकत्वे ॥ प्स्भ्_1.9:1
* सर्वक्षेत्रज्ञानाम् अभ्यधिक उत्कृष्टो व्यतिरिक्तश् च भवतीत्य् अभ्यधिकः ॥ प्स्भ्_1.9:2
* ऋषिर् विप्रः अधिपतिः ॥ प्स्भ्_1.9:3
* सदाशिवत्वम् अभ्यधिकत्वं च प्रवक्ष्यामः ॥ प्स्भ्_1.9:4
* अत्र देव इति दिवु क्रीडायाम् ॥ प्स्भ्_1.9:5
* क्रीडाधर्मित्वात् ॥ प्स्भ्_1.9:6
* अग्न्युष्णत्ववत् ॥ प्स्भ्_1.9:7
* क्रीडावान् एव भगवान् विद्याकलापशुसंज्ञकं त्रिविधम् अपि कार्यम् उत्पादयति अनुगृह्णाति तिरोभावयति च ॥ प्स्भ्_1.9:8
* उक्तं हि । अप्रचोद्यः प्रचोद्यैस् तु कामकारकरः प्रभुः । क्रीडते भगवान् लोकैर् बालः क्रीडनकैर् इव ॥ प्स्भ्_1.9:9
* देवस्य इति षष्ठी ॥ प्स्भ्_1.9:10
* स्वस्वामिभावः सम्बन्धः ॥ प्स्भ्_1.9:11
* परिग्रहार्थम् एवाधिकुरुते ॥ प्स्भ्_1.9:12
* अत्र दक्षिणेति दिक्प्रतिविभागे भवति ॥ प्स्भ्_1.9:13
* आदित्यो दिशो विभजति ॥ प्स्भ्_1.9:14
* दिशश् च मूर्तिं विभजन्ति ॥ प्स्भ्_1.9:15
* मूर्तिनाम यद् एतद् देवस्य दक्षिणे पार्श्वे स्थितेनोदङ्मुखेनोपान्ते यद् रूपम् उपलभ्यते वृषध्वजशूलपाणिनन्दिमहाकालोर्ध्वलिङ्गादिलक्षणं यद् वा लौकिकाः प्रतिपद्यन्ते महादेवस्यायतनम् इति तत्रोपस्थेयम् ॥ प्स्भ्_1.9:16
* दक्षिणामूर्तिग्रहणात् पूर्वोत्तरपश्चिमानां मूर्तीनां प्रतिषेधः ॥ प्स्भ्_1.9:17
* मूर्तिनियोगाच् च मूर्त्यभावे नियमलोपः ॥ प्स्भ्_1.9:18
* भैक्ष्यानुपयोगान् निर्घातानाम् उक्तत्वाच् चेत्य् अर्थः ॥ प्स्भ्_1.9:19
* विधिर् इत्य् उपदिष्टानाम् अर्थानां भस्मस्नानोपदेशाद् अप्सु स्नानादीनां प्रतिषेधः ॥ प्स्भ्_1.9:20
* भस्मशयनोपदेशाद् विषयशयनादीनां प्रतिषेधः ॥ प्स्भ्_1.9:21
* आयतने वसत्य् अर्थोपदेशाच् छेषवसत्य् अर्थप्रतिषेधः ॥ प्स्भ्_1.9:22
* हसिताद्युपदेशाच् छेषोपहारप्रतिषेधः ॥ प्स्भ्_1.9:23
* निर्माल्योपदेशात् प्रत्यग्राणां माल्यानां प्रतिषेधः ॥ प्स्भ्_1.9:24
* भस्मनिर्माल्यलिङ्गोपदेशाच् छेषलिङ्गप्रतिषेधः ॥ प्स्भ्_1.9:25
* महादेवग्रहणाद् अन्यदेवताभक्तिप्रतिषेधः ॥ प्स्भ्_1.9:26
* दक्षिणामूर्तिग्रहणात् पूर्वपश्चिमानां मूर्तीनां प्रतिषेधः ॥ प्स्भ्_1.9:27
* एवं दक्षिणामूर्तिर् इत्य् उक्ते अस्य ब्राह्मणस्य पूर्वप्रसिद्धा नियमा नियमैः प्रतिषिध्यन्ते ॥ प्स्भ्_1.9:28
* कीलकप्रतिकीलकवत् पुराणोदकनवोदकवच् चेति ॥ प्स्भ्_1.9:29
* अत्रेदं भस्मप्रकरणं समाप्तम् ॥ प्स्भ्_1.9:30
* आह नियमाभिधानाद् एव हि संशयः ॥ प्स्भ्_1.9:31
* यत्र यमास् तत्र नियमाः ॥ प्स्भ्_1.9:32
* मिथुनम् एवैतद् यस्मात् ॥ प्स्भ्_1.9:33
* अतो न संशयः ॥ प्स्भ्_1.9:34
* यमा अस्मिन् तन्त्रे के चिन्त्यन्ते ॥ प्स्भ्_1.9:35
* उच्यते प्रसिद्धा यमाः अहिंसादय इति ॥ प्स्भ्_1.9:36
* अत्र त्व् अन्येषाम् ॥ प्स्भ्_1.9:37
* अहिंसा ब्रह्मचर्यं च सत्यासंव्यवहारकौ । अस्तेयम् इति पञ्चैते यमा वै संप्रकीर्तिताः ॥ प्स्भ्_1.9:38
* अक्रोधो गुरुशुश्रूषा शौचम् आहारलाघवम् । अप्रमादश् च पञ्चैते नियमाः संप्रकीर्तिताः ॥ प्स्भ्_1.9:39
* तद्वद् अस्माकं न भवति ॥ प्स्भ्_1.9:40
* कस्मात् ॥ प्स्भ्_1.9:41
* नियमनिवृत्तिदर्शनात् ॥ प्स्भ्_1.9:42
* अस्मिन् हि तन्त्रे कालान्तरिता नियमा निवर्तन्ते ॥ प्स्भ्_1.9:43
* कथम् आ देहपाताद् यमानां न निवृत्तिर् अस्ति ॥ प्स्भ्_1.9:44
* कस्मात् ॥ प्स्भ्_1.9:45
* हिंसादिदोषात् ॥ प्स्भ्_1.9:46
* तस्माद् अहिंसाद्या दश सर्वे ते यमाः प्रत्यवगन्तव्यः ॥ प्स्भ्_1.9:47
* आह यद्य् एवं निगमनिवृत्तौ भ्रष्टनियमस्य पतनप्रसङ्गः ॥ प्स्भ्_1.9:48
* उच्यते अवसितप्रयोजनत्वान् न पतनप्रसङ्गः ॥ प्स्भ्_1.9:49
* किं च यमानां प्राधान्यात् ॥ प्स्भ्_1.9:50
* उक्तं हि पतति नियमवान् यमेष्व् असक्तो न तु यमवान् नियमालसो ऽवसीदेत् ॥ प्स्भ्_1.9:51
* इति यमनियमौ समीक्ष्य बुद्ध्या यमबहुलेष्व् अतिसंदधीत बुद्धिम् ॥ प्स्भ्_1.9:52
* तस्मान् न पतनप्रसङ्गः ॥ प्स्भ्_1.9:53
* अतः प्रसिद्धा यमा अहिंसादयः ॥ प्स्भ्_1.9:54
* आह किं प्रसिद्धा इति कृत्वा गृह्यन्ते आहोस्विच् छक्यम् एतेषां यमानां सर्वज्ञोक्तशास्त्रतः सद्भावो वक्तुम् ॥ प्स्भ्_1.9:55
* उच्यते यद्य् अन्यत्र प्रसिद्धा इति क्व ॥ प्स्भ्_1.9:56
* तत्र चिन्त्यते ॥ प्स्भ्_1.9:57
* कस्मात् ॥ प्स्भ्_1.9:58
* कृतोपदेशात् ॥ प्स्भ्_1.9:59
* यस्मादुक्तं सूत्रतःकृतम् इत्यत्र ॥ प्स्भ्_1.9:60
* कृताप्रतिषेधा कृत्स्ना हिंसा तन्त्रे प्रतिषिद्धा द्रष्टव्येत्यर्थः ॥ प्स्भ्_1.9:61
* सा च हिंसा त्रिविधा भवति ॥ प्स्भ्_1.9:62
* दुःखोत्पादनम् अण्डभेदः प्राणनिर्मोचनमिति ॥ प्स्भ्_1.9:63
* तत्र दुःखोत्पादनं नाम क्रोशनतर्जनताडननिर्भर्त्सनादिबहुभेदोऽपि चतुर्विधस्यापि भूतग्रामस्य मनोवाक्कायकर्मभिर् अभिद्रोहो न कर्तव्यः ॥ प्स्भ्_1.9:64
* एवम् अहिंसा भवत्येतेषां जन्तूनाम् ॥ प्स्भ्_1.9:65
* अण्डभेदो नाम दाहतापधूमोपरोधपरिहारार्थम् अग्निकरणादानसम्प्रदानप्रतिनिधानसंधुक्षणादीनि न कुर्यात् नैव कारयेत् ॥ प्स्भ्_1.9:66
* तथा प्राणनिर्मोचनं नाम वस्त्रशिक्यभस्माधारभैक्ष्यभाजनादीनि मुहुर्मुहुर् विवेचयितव्यानि ॥ प्स्भ्_1.9:67
* कस्मात् ॥ प्स्भ्_1.9:68
* प्राणिनो हि सूक्ष्मचारिणः क्षिप्रमेव विलयं प्रयान्ति ॥ प्स्भ्_1.9:69
* तस्मात् सूक्ष्मैर् अङ्गपवित्रैः पक्ष्मचामरतालवृन्तैर् वस्त्रान्तरैर् वा मुहुर्मुहुर् विग्रन्थोदकेन वा ॥ प्स्भ्_1.9:70
* हरितेषु तृणेषु न संसिक्ते भूप्रदेशे भवति ॥ प्स्भ्_1.9:71
* वसन्तग्रीष्महैमान्तिकान् अष्टौ मासान् भिक्षुर् विचक्रमेत् ॥ प्स्भ्_1.9:72
* दयार्थं सर्वभूतानाम् एकत्र वर्षासु वसेत् ॥ प्स्भ्_1.9:73
* वर्षाभेदं तु यः कुर्याद् ब्राह्मणो योगदीक्षितः । प्राजापत्येन कृच्छ्रेण ततः पापात् प्रमुच्यते ॥ प्स्भ्_1.9:74
* शारीरं दृश्यते यत्र भयं कस्यांचिद् आपदि । दुर्दिने राष्ट्रभङ्गे वा वर्षास्वपि व्यतिक्रमेत् ॥ प्स्भ्_1.9:75
* नासूर्यं च व्रजेन्मार्गं नादृष्टां भूमिम् आक्रमेत् । परिपूनाभिरद्भिश्च नित्यं कुर्यात् प्रयोजनम् ॥ प्स्भ्_1.9:76
* संवत्सरकृतं पापं मत्स्यबन्धस्य यद् भवेत् । एकाहात् तदवाप्नोति अपूतजलसंग्रही ॥ प्स्भ्_1.9:77
* दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् । सत्यपूतां वदेद् वाचं मनःपूतं समाचरेत् ॥ प्स्भ्_1.9:78
* हिंसकास्तु निवर्तन्ते ब्रह्मत्वमपि ये गताः । तस्मादपूतमुदकं नोपयुञ्जीत योगवित् ॥ प्स्भ्_1.9:79
* अथ नष्टे पवित्रे च गृह्णीयात् त्रिषु वै सकृत् । नदीप्रस्रवणे चैव गृहस्थेषु च साधुषु ॥ प्स्भ्_1.9:80
* काण्डानि यानि गृह्यन्ते कन्दाश्चैव प्ररोहिणः । बीजानि चैव पक्वानि सर्वाण्येतानि वर्जयेत् ॥ प्स्भ्_1.9:81
* यदा न कुर्याद् द्रोहं च सर्वभूतेषु दारुणम् । कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥ प्स्भ्_1.9:82
* यो न हिंसति भूतानि स्थावराणि चराणि च । आत्मानमिव सर्वाणि सो ऽमृतत्वाय कल्पते ॥ प्स्भ्_1.9:83

* न यज्ञदानैर्न तपोऽग्निहोत्रैर्न ब्रह्मचर्यैर् न च सत्यवाक्यैः । न वेदविद्याध्ययनैर् व्रतैर्वा प्राप्यं फलं यद्य् अहिंसकस्य ॥ प्स्भ्_1.9:84
* यो दद्यात् काञ्चनं मेरुं कृत्स्नां चैव वसुंधराम् । समुद्रं रत्नपूर्णं वा न तुल्यं स्यादहिंसया ॥ प्स्भ्_1.9:85
* इत्येवम् अहिंसा तन्त्रे सिद्धा ॥ प्स्भ्_1.9:86
* तथा ब्रह्मचर्यं च तन्त्रे सिद्धम् ॥ प्स्भ्_1.9:87
* कस्मात् ॥ प्स्भ्_1.9:88
* स्त्रीप्रतिषेधात् इन्द्रियजयोपदेशाच् च त्रयोदशकस्य करणस्यानुत्सर्गो ब्रह्मचर्यमित्युक्तम् ॥ प्स्भ्_1.9:89
* विशेषेण तु जिह्वोपस्थयोरिति ॥ प्स्भ्_1.9:90
* अत्राह विशेषग्रहणं किंप्रयोजनम् ॥ प्स्भ्_1.9:91
* त्रयोदशकस्य करणस्यानुत्सर्गो ब्रह्मचर्यमित्युक्त्वा जिह्वोपस्थयोर् विशेषग्रहणं किंप्रयोजनं क्रियते ॥ प्स्भ्_1.9:92
* उच्यते प्रधानत्वात् ॥ प्स्भ्_1.9:93
* तन्मूलत्वादितरप्रवृत्तेः ॥ प्स्भ्_1.9:94
* तन्मूला हीतरेषां प्रवृत्तिर्भवति ॥ प्स्भ्_1.9:95
* कथम् ॥ प्स्भ्_1.9:96
* जिह्वेन्द्रियविषये उपस्थेन्द्रियविषये वा सक्तः त्रयोदशभिः प्रवर्तते ॥ प्स्भ्_1.9:97
* अत एतदुक्तं विशेषेण जिह्वोपस्थयोरिति ॥ प्स्भ्_1.9:98
* जिह्वोपस्थनिमित्तं हि पतनं सर्वदेहिनाम् । तस्माद् अमित्रवत् पश्येज् जिह्वोपस्थं हि मानवः ॥ प्स्भ्_1.9:99
* अथवा मनःपूर्वकत्वात् सर्ववृत्तीनां तन्निग्रहात् सर्ववृत्तीनां निग्रहः कृतो भवति ॥ प्स्भ्_1.9:100
* उक्तं हि । मनो हि मूलं सर्वेषामिन्द्रियाणां प्रवर्तने । शुभाशुभास्ववस्थासु तच् च मे सुव्यवस्थितम् ॥ प्स्भ्_1.9:101
* पुनरप्युक्तम् । इन्द्रियैः प्रसृतैर् दुःखमिन्द्रियैर् निभृतैः सुखम् । तस्माद् इन्द्रियरूपेभ्यो यच् छेदात्मानमात्मना ॥ प्स्भ्_1.9:102
* इन्द्रियाणि हि तत् सर्वं यत् स्वर्गनरकाव् उभौ । निगृहीतविसृष्टानि स्वर्गाय नरकाय च ॥ प्स्भ्_1.9:103
* अतो जन्म अतो दुःखमतो मृत्युभयं तथा । इन्द्रियाणां प्रसङ्गाद् वै तस्मादेतान् जयामहे ॥ प्स्भ्_1.9:104
* इन्द्रियाणां प्रसङ्गेन दोषम् ऋच्छत्यसंशयम् । संनियम्य तु तान्येव ततः सिद्धिं नियच्छति ॥ प्स्भ्_1.9:105
* रज्जुरेषा निबन्धाय या स्त्रीषु रमते मतिः । छित्त्वैनां कृतिनो यान्ति नैनां त्यजति दुष्कृती ॥ प्स्भ्_1.9:106
* स्त्रीहेतोर्निर्गमो ग्रामात् स्त्रीकृते क्रयविक्रयः । स्त्रियो मूलमनर्थानां नैनां प्राज्ञः परिष्वजेत् ॥ प्स्भ्_1.9:107
* विषमग्निरसिर्बाणः स्फुटं कृत्वा विभीषिका । माया रूपवती ह्य् एषा यां स्त्रियं मन्यते जनः ॥ प्स्भ्_1.9:108
* अमेध्यपूर्णे कृमिजन्तुसंकुले स्वभावदुर्गन्ध अशौच अध्रुवे । कडेबरे मूत्रपुरीषभाजने रमन्ति मूर्खा न रमन्ति पण्डिताः ॥ प्स्भ्_1.9:109
* माद्यतीति स्त्रियं दृष्ट्वा सुरां पीत्वा न माद्यति । तस्माद् दृष्टिमदां नारीं दूरतः परिवर्जयेत् ॥ प्स्भ्_1.9:110
* अधोमुखेनादंष्ट्रेण जघनान्तरचारिणा । सर्वशास्त्राचिकित्स्येन जगद् दष्टं भगाहिना ॥ प्स्भ्_1.9:111
* लोमशेन कुरूपेण दुर्गन्धेन कुचर्मणा । हरिणीपदमात्रेण सर्वम् अन्धीकृतं जगत् ॥ प्स्भ्_1.9:112
* दीप्ताङ्गारसमा नारी घृतकुम्भसमः पुमान् । ये प्रसक्ता विलीनास्ते ये स्थितास्ते दिवं गताः ॥ प्स्भ्_1.9:113
* यथाग्निरेधःसंवृद्धो महाज्योतिः प्रकाशते । तथेन्द्रियनिरोधेन स्वात्मज्योतिः प्रकाशते ॥ प्स्भ्_1.9:114
* ब्रह्मचर्ये स्थितं धैर्यं ब्रह्मचर्ये स्थितं तपः । ये स्थिता ब्रह्मचर्येण ब्राह्मणा दिवि ते स्थिताः ॥ प्स्भ्_1.9:115
* क्षीरं पिबन्ति मधु ते पिबन्ति सोमं पिबन्त्यमृतेन सार्धम् । मृत्योः पुरस्तादमरा भवन्ति ये ब्राह्मणा ब्रह्मचर्यं चरन्ति ॥ प्स्भ्_1.9:116
* इत्येवं ब्रह्मचर्यं तन्त्रे सिद्धम् ॥ प्स्भ्_1.9:117
* तथा सत्यं तन्त्रे सिद्धम् ॥ प्स्भ्_1.9:118
* तच् च द्विविधम् ॥ प्स्भ्_1.9:119
* तद्यथा परिदृष्टार्थभूतार्थं वचनं वाक्सत्यं चेति ॥ प्स्भ्_1.9:120
* तत्र परिदृष्टार्थभूतार्थं वचनं सत्यं तन्त्रे सिद्धम् ॥ प्स्भ्_1.9:121
* कस्मात् ॥ प्स्भ्_1.9:122
* व्याख्यानोपदेशात् विद्वदुपदेशाच् च ॥ प्स्भ्_1.9:123
* तथा वाक्सत्यमपि तन्त्रे सिद्धम् ॥ प्स्भ्_1.9:124
* कस्मात् ॥ प्स्भ्_1.9:125
* वाग्विशुद्ध्युपदेशात् ॥ प्स्भ्_1.9:126
* इह स्वशास्त्रोक्तं भाषतोऽनृतमपि सत्यमापद्यते ॥ प्स्भ्_1.9:127
* कस्मात् ॥ प्स्भ्_1.9:128
* शुद्धिवृद्धिकरत्वात् ॥ प्स्भ्_1.9:129
* यस्मादाह । स्वर्गमनृतेन गच्छति दयार्थमुक्तेन सर्वभूतानाम् । सत्येनापि न गच्छति सतां विनाशार्थमुक्तेन ॥ प्स्भ्_1.9:130
* पुनस्त्वाह । गोब्राह्मणार्थे ऽवचनं हिमस्ति न स्त्रीषु राजन् न विवाहकाले । प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥ प्स्भ्_1.9:131
* सत्यं ब्रूयात् प्रियं ब्रूयान् न ब्रूयात् सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥ प्स्भ्_1.9:132
* यथा हि तेषामेव भूतानां हितमनृतमपि सत्यमापद्यते एवमिहाप्यस्माकं स्वशास्त्रोक्तं भाषतामनृतमपि सत्यमापद्यते ॥ प्स्भ्_1.9:133
* कस्मात् ॥ प्स्भ्_1.9:134
* विधिविहितत्वात् ॥ प्स्भ्_1.9:135
* इत्येतदपि तत्र सिद्धम् ॥ प्स्भ्_1.9:136
* तथा असंव्यवहारस्तन्त्रे सिद्धः ॥ प्स्भ्_1.9:137
* कस्मात् ॥ प्स्भ्_1.9:138
* अव्यक्तप्रेतोन्मत्तमूढोपदेशात् ॥ प्स्भ्_1.9:139
* नेह लोके अव्यक्तप्रेतोन्मत्तमूढाः संव्यवहारं कुर्वन्ति यस्माद् अतोऽत्रासंव्यवहारस्तन्त्रे सिद्धः ॥ प्स्भ्_1.9:140
* संव्यवहारश्च पुनर्द्विविधः ॥ प्स्भ्_1.9:141
* तद्यथा क्रयावक्रयसंव्यवहारा राजकुलसंव्यवहारश्चेति ॥ प्स्भ्_1.9:142
* अत एकतरेणाप्यत्राधिकृतस्यात्मपीडा परपीडा चावर्जनीये भवतः ॥ प्स्भ्_1.9:143
* तत्र यद्यात्मानं पीडयति तेनेहैव लोके दुःखी भवति ॥ प्स्भ्_1.9:144
* स्यात् परं पीडयति तत्राप्यस्याधर्मो दुःखादिफलः प्रचीयते ॥ प्स्भ्_1.9:145
* तेनामुष्मिन् लोके तीव्रं दुःखमनुभवति ॥ प्स्भ्_1.9:146
* तस्मादुभयथापि संव्यवहारो वर्जनीयः ॥ प्स्भ्_1.9:147
* भवति ह्य् अपि । यश्च पापं प्रकुरुते यश्च पापं प्रशंसति । सहायश्चोपभोक्ता च सर्वे ते समकर्मिणः ॥ प्स्भ्_1.9:148
* उक्तं हि । विक्रये तु महान् दोषो विक्रयात् पतते यतः । एष एव क्रये दोषस्तस्मात् तं परिवर्जयेत् ॥ प्स्भ्_1.9:149
* प्रच्छन्नं कुरुते पापं न मे जानाति कश्चन । मुच्यते जनवादेभ्यस्तस्मात् पापान् न मुच्यते ॥ प्स्भ्_1.9:150
* पुनरप्युक्तम् । आदित्यचन्द्राव् अनिलोऽनलश्च द्यौर् भूमिर् आपो हृदयं यमश्च । अहश्च रात्रिश्च उभे च संध्ये धर्मो हि जानाति नरस्य वृत्तम् ॥ प्स्भ्_1.9:151
* नारम्भशीलो न च दम्भशीलः शास्त्रोपदिष्टानि करोत्यदीनः । यमेषु युक्तो नियमेषु चैव मुनिर् भवत्य् एष्व् अजरोऽमरश्च ॥ प्स्भ्_1.9:152
* तथा अस्तेयं तन्त्रे सिद्धम् ॥ प्स्भ्_1.9:153
* कस्मात् ॥ प्स्भ्_1.9:154
* अवासोपदेशात् अनुत्सृष्टान्नप्रतिषेधाच् च ॥ प्स्भ्_1.9:155
* इह विद्यमानस्याप्येकस्य वाससो मलवद् अवस्थितस्यावासोपदेशात् परिग्रहपरित्याग उपदिश्यते ॥ प्स्भ्_1.9:156

* किंचान्यदपि ॥ प्स्भ्_1.9:157
* परित्यक्तानाम् अन्नपानादीनामुपयोगो दृष्टो यस्मात् ॥ प्स्भ्_1.9:158
* अतोऽत्रास्तेयं तन्त्रे सिद्धम् ॥ प्स्भ्_1.9:159
* स्तेयं च पुनः षड्विधम् ॥ प्स्भ्_1.9:160
* तत्र अदत्तादानम् अनतिसृष्टग्रहणम् अनभिमतग्रहणम् अनधिकारप्रतिग्रहः अनुपालम्भः अनिवेदितोपयोगश्चेति ॥ प्स्भ्_1.9:161
* अदत्तस्य ग्रहणमदत्तादानम् ॥ प्स्भ्_1.9:162
* अनतिसृष्टग्रहणं नाम बालोन्मत्तप्रमत्तवृद्धदुर्बलानां वित्तापहरणम् ॥ प्स्भ्_1.9:163
* अनभिमतग्रहणं नाम कीटभ्रमरपक्षिपतंगादीनाम् अनभिप्रेतद्रव्यापहरणम् ॥ प्स्भ्_1.9:164
* अनधिकारप्रतिग्रहो नाम इह शास्त्रे अनभ्यनुज्ञातानाम् अर्थानां गोभूहिरण्यद्विपदचतुष्पदादीनां ग्रहणम् ॥ प्स्भ्_1.9:165
* अनुपालम्भो नाम कुहककल्कनडम्भविस्मापनवर्धापनादिभिर् उपायैः परेभ्यो हिरण्याच् छादनोपयोगः ॥ प्स्भ्_1.9:166
* अनिवेदितोपयोगो नाम भक्ष्यभोज्यलेह्यपेयचोष्यादीनाम् अन्यतमं यत्किंचिद् गुरवे ऽनिवेदितम् उपयुङ्क्ते स उच्यते अनिवेदितोपयोग इति ॥ प्स्भ्_1.9:167
* एवं षड्विधं स्तेयम् ॥ प्स्भ्_1.9:168
* अस्य षड्विधस्यापि स्तेयस्य परिवर्जनम् अस्तेयमाहुराचार्याः ॥ प्स्भ्_1.9:169
* भवति ह्य् अपि । यदेतद् धनमित्याहुः प्राणा ह्य् एते बहिश्चराः । स तस्य हरते प्राणान् यो यस्य हरते धनम् ॥ प्स्भ्_1.9:170
* उक्तं हि । सर्वस्वपरिमोष्टा च जीवितान्तकरश्च यः । द्वाव् एतौ समकर्माणौ तस्मात् स्तेयं विवर्जयेत् ॥ प्स्भ्_1.9:171
* न स्तेनस्य परो लोको नायं लोको दुरात्मनः । शङ्कितः सर्वभूतानां द्रोहात्मा पाप एव सः ॥ प्स्भ्_1.9:172
* मृदमापस्तथा यानं पत्त्रं पुष्पं फलान्यपि । असंवृतानि गृह्णीयात् पवित्रार्थीह कार्यवान् ॥ प्स्भ्_1.9:173
* नद्यश्च वाप्यः कूपाश्च तटाकानि सरांसि च । असंवृतानि गृह्णीयात् प्राजापत्येन कर्मणा ॥ प्स्भ्_1.9:174
* इत्य् एवमस्तेयं तन्त्रे सिद्धम् ॥ प्स्भ्_1.9:175
* अक्रोधस्तन्त्रे सिद्धः ॥ प्स्भ्_1.9:176
* कस्मात् ॥ प्स्भ्_1.9:177
* शूद्रप्रतिषेधात् अतितापोपदेशाच् च ॥ प्स्भ्_1.9:178
* इहाध्यात्मिकाधिभौतिकाधिदैविकानां सर्वद्वंद्वानां मनसि शरीरे च उपनिपतितानां सहिष्णुत्वम् अप्रतीकारश्चेति यस्मात् कृतो ऽत्राक्रोधस् तन्त्रे सिद्धः ॥ प्स्भ्_1.9:179
* क्रोधश्च पुनश्चतुर्विधः ॥ प्स्भ्_1.9:180
* तद्यथा भावलक्षणः कर्मलक्षणः वैकल्यकरः उद्वेगकरश्चेति ॥ प्स्भ्_1.9:181
* तत्र भावलक्षणो नाम सः यत्रासूयाद्वेषमदमानमात्सर्यादयो भावाः प्रवर्तन्ते ॥ प्स्भ्_1.9:182
* कर्मलक्षणो नाम यत्र कलहवैरसंप्रहरणाद्या भावाः प्रवर्तन्ते ॥ प्स्भ्_1.9:183
* वैकल्यकरो नाम यत्र पाणिपादनासाक्ष्यङ्गुलिप्रहरणादयो भावाः प्रवर्तन्ते ॥ प्स्भ्_1.9:184
* उद्वेगकरो नाम यत्र स्वात्मानं परात्मानं वा प्राणैर् वियोजयति ॥ प्स्भ्_1.9:185
* इत्येवं चतुर्विधः क्रोधः ॥ प्स्भ्_1.9:186
* अस्य चतुर्विधस्यापि क्रोधस्य परिवर्जनम् अक्रोधमाहुराचार्याः ॥ प्स्भ्_1.9:187
* तस्माद् देशजातिकुलकर्मसम्बन्धनिन्दायां करणक्रियायां कार्यनिन्दायाम् आहारनिन्दायां वाधिकृतेन क्रोधो न कर्तव्यः ॥ प्स्भ्_1.9:188
* तत्र देशनिन्दा तावद् भवति ॥ प्स्भ्_1.9:189
* तद्यथा यत्र भवान् जातस्तत्र देशे ब्राह्मणा एव न सन्तीति यदि कश्चिदधिक्षेपं कुर्यात् तत्र क्रोधो न कर्तव्यः ॥ प्स्भ्_1.9:190
* तत्रैतत् स्याद् एवमभिहिते तीव्रदुःखं मानसमभिव्यज्यते ॥ प्स्भ्_1.9:191
* कथमत्र क्रोधो न भविष्यतीति ॥ प्स्भ्_1.9:192
* उच्यते न भविष्यति ॥ प्स्भ्_1.9:193
* कस्मात् ॥ प्स्भ्_1.9:194
* परिसंख्यानसामर्थ्यात् ॥ प्स्भ्_1.9:195
* इह मनुष्यलोके देशोऽयं नाम मातापितृहेतुकः औपचयिकः कार्यपिण्डः शरीराख्यः ॥ प्स्भ्_1.9:196
* स तस्माद् भवः ॥ प्स्भ्_1.9:197
* क्षेत्रज्ञस्तु चेतनः सर्वगतः शुचिः ॥ प्स्भ्_1.9:198
* अस्य चास्माकं चान्तरमविदितम् ॥ प्स्भ्_1.9:199
* अपरिदृष्टार्थे भवानेतद् वा ब्रूयात् ॥ प्स्भ्_1.9:200
* अतः क्रोधनिमित्तासंभवात् परिसंख्यानसामर्थ्येन क्रोधो न कार्यः ॥ प्स्भ्_1.9:201
* एवं शेषेष्वपि द्रष्टव्यम् ॥ प्स्भ्_1.9:202
* भवति ह्य् अपि । शृङ्गवान् नखवान् दंष्ट्री विकृतो रुधिराशनः । राक्षसो वा पिशाचो वा क्रोधिष्णुर् जायते नरः ॥ प्स्भ्_1.9:203
* पुनश्चाह । कङ्कगृध्रसृगालेषु दंशेषु मशकेषु च । पन्नगेषु च जायन्ते नराः क्रोधपरायणाः ॥ प्स्भ्_1.9:204
* विद्विष्टः सर्वभूतानां बह्वमित्रो ऽल्पबान्धवः । क्रूरधर्मा दुराचारः क्रोधिष्णुर् जायते नरः ॥ प्स्भ्_1.9:205
* क्रुद्धः करोति पापानि क्रुद्धः पापानि भाषते । क्रुद्धो भवति निर्लज्जस्तस्मात् क्रोधं विवर्जयेत् ॥ प्स्भ्_1.9:206
* तथा चोक्तम् । यत् क्रोधनो जपति यच् च जुहोति यद्वा यद्वा तपस्तप्यति यद् ददाति तत्सर्वम् । वैवस्वतो हरति पूर्तममुष्य सर्वं मिथ्या श्रुतं भवति तस्य शमोऽपि तस्य ॥ प्स्भ्_1.9:207
* धन्यास्ते पुरुषव्याघ्रा ये बुद्ध्या क्रोधमुत्थितम् । शमयन्ति महात्मानो दीप्तमग्निमिवाम्भसा ॥ प्स्भ्_1.9:208
* यतो रूपं ततो ज्ञानं यतो ज्ञानं ततस्तपः । यतस्तपस्ततः सिद्धिर्यतः सिद्धिस्ततः क्षमा ॥ प्स्भ्_1.9:209
* क्षमा सर्वपरं मित्रं क्रोधः सर्वपरो रिपुः । क्षमावतामयं लोकः परो लोकः क्षमावताम् ॥ प्स्भ्_1.9:210
* एतस्मात् कारणात् क्षन्तव्यम् इत्य् एवमक्रोधस्तन्त्रे सिद्धः ॥ प्स्भ्_1.9:211
* तथा गुरुशुश्रूषा तन्त्रे सिद्धा ॥ प्स्भ्_1.9:212
* कस्मात् ॥ प्स्भ्_1.9:213
* व्याख्यानोपदेशाद् विद्वदुपदेशाच् च ॥ प्स्भ्_1.9:214
* इह चोक्तं विधिं व्याख्यास्यामः इति ॥ प्स्भ्_1.9:215
* अत्राण् इति मर्यादायाम् ॥ प्स्भ्_1.9:216
* म इति प्रतिज्ञायां भवति ॥ प्स्भ्_1.9:217
* मयि वर्तते ॥ प्स्भ्_1.9:218
* मयि तिष्ठतीति ॥ प्स्भ्_1.9:219
* यदि चेष्टे वत्स्यसि यदि चेष्टे स्थास्यसि ततस्ते वक्ष्यामः ॥ प्स्भ्_1.9:220
* तत्रेष्टमित्यष्टाङ्गं ब्रह्मचर्यं मर्यादामधिकुरुते ॥ प्स्भ्_1.9:221
* तद्यथा उत्थानप्रत्युत्थानाभिवादनगुरुकार्यहितकारी अनुत्तरोत्तरवादी पूर्वोत्थायी जघन्यसंवेशी प्रेषिताप्रेषितसर्वकार्यकृतज्ञः सर्वनिवेदितात्मा दक्षो दाक्षिण्यानुरक्तः स्नानोद्वर्तनसंवाहनादिभिः क्रियाविशेषैः छायेवानुगतो नित्यमिदं कृतम् इदं करिष्ये किं करवाणीति भूत्वा गुरवे ऽहरहर् वर्तितव्यम् ॥ प्स्भ्_1.9:222
* यस्तु विद्यां गुरोरधिकृत्य बहुभ्यः सम्प्रयच्छति अनेनास्य विद्याया दानेन गुरवः शुश्रूषिता भवन्ति ॥ प्स्भ्_1.9:223
* क्षीणे च ब्रह्मचर्ये नियतं गुरुषु यद् गौरवं तद् ब्रह्मचर्यम् ॥ प्स्भ्_1.9:224
* भवति ह्य् अपि । गुरुर्देवो गुरुः स्वामी गुरुर्माता गुरुः पिता । यस्यैवं निश्चितो भावः श्रेयस्तस्य न दूरतः ॥ प्स्भ्_1.9:225
* अग्निसूर्येन्दुताराभिश्चाक्षुषो ऽर्थः प्रकाशते । भूतं भव्यं भविष्यं च गुरुवाक्यैः प्रकाशते ॥ प्स्भ्_1.9:226

* देशकैर्गम्यतेऽध्वानं देशकैर्गम्यतेऽर्णवः । देशकैर्गम्यते स्वर्गो गुरुर्मोक्षस्य देशकः ॥ प्स्भ्_1.9:227
* अमृतस्य प्रदातारं यो गुरुं ह्य् अवमन्यते । षष्टिवर्षसहस्राणि नरकं पर्युपासते ॥ प्स्भ्_1.9:228
* गुरोर्यत्र परीवादो निन्दा यत्र प्रवर्तते । कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ प्स्भ्_1.9:229
* आचार्यं पूजयेद् यस्तु सर्वावस्थं हि नित्यशः । पूजितस्तेन भवति शिवो वै नात्र संशयः ॥ प्स्भ्_1.9:230
* आचार्यमूर्तिमास्थाय शिवो ज्ञानं प्रयच्छति । तस्माद् वै नावमन्तव्य आचार्यः श्रेय इच्छता ॥ प्स्भ्_1.9:231
* ग्रन्थार्थविदुषे नित्यं योगमार्गानुदर्शिने । सर्वार्थेनापि कर्तव्यः परितोषो विजानता ॥ प्स्भ्_1.9:232
* ऋचं वा यदि वार्धर्चं पादं वा यदि वाक्षरम् । सकाशाद् यस्य गृह्णीयान् नियतं तत्र गौरवम् ॥ प्स्भ्_1.9:233
* लिङ्गकर्त्री यथा माता शास्त्रकर्ता यथा पिता । प्रबोधकृद् गुरुस्तेषां तदेवायतनं महत् ॥ प्स्भ्_1.9:234
* इत्येवं गुरुशुश्रूषा तन्त्रे सिद्धा ॥ प्स्भ्_1.9:235
* तथा शौचं तन्त्रे सिद्धम् ॥ प्स्भ्_1.9:236
* कस्मात् ॥ प्स्भ्_1.9:237
* भस्मस्नानोपदेशात् ॥ प्स्भ्_1.9:238
* तच् च शौचं त्रिविधम् ॥ प्स्भ्_1.9:239
* तद् यथा गात्रशौचं भावशौचम् आत्मशौचं चेति ॥ प्स्भ्_1.9:240
* तत्र भस्मस्नानोपदेशात् प्रसिद्धं भस्मना गात्रशौचम् ॥ प्स्भ्_1.9:241
* आह यदुक्तं प्रसिद्धं भस्मना गात्रशौचमिति एतदेवायुक्तम् ॥ प्स्भ्_1.9:242
* कस्मात् ॥ प्स्भ्_1.9:243
* पूर्वोत्तरव्याघातात् ॥ प्स्भ्_1.9:244
* इह पुरस्तादुक्तं प्रसिद्धा यमा अहिंसादयो भवन्ति ॥ प्स्भ्_1.9:245
* यदिह भूयोऽपि अप्रसिद्धं भस्मना गात्रशौचमित्यभिधीयते ॥ प्स्भ्_1.9:246
* तस्मादिदं पूर्वोत्तरं न संगच्छति ॥ प्स्भ्_1.9:247
* व्याहतं च भवति ॥ प्स्भ्_1.9:248
* एष दोष इत्यतः पूर्वोत्तरव्याघातात् ॥ प्स्भ्_1.9:249
* तत्र यदुक्तं प्रसिद्धं भस्मना गात्रशौचमित्येतदयुक्तम् ॥ प्स्भ्_1.9:250
* उच्यते नायं दोषः ॥ प्स्भ्_1.9:251
* कस्मात् ॥ प्स्भ्_1.9:252
* प्रसिद्धिदर्शनात् ॥ प्स्भ्_1.9:253
* इहान्यत्रापि प्रसिद्धं भस्मना गात्रशौचमिति ॥ प्स्भ्_1.9:254
* एवं ह्य् आह । संसर्गजाश्च ये दोषा ये चान्ये पितृमातृजाः । अन्नपानकृताश्चैव संकरा देहमाश्रिताः । सर्वांस्तान् दहते भस्म अस्थिमज्जागतानपि ॥ प्स्भ्_1.9:255
* पुनश्चाह । केशकीटोपपन्नानि दुष्टान्नानि च यानि वै । भस्मना स्पृष्टमात्राणि भोज्यान्य् आहुर् मनीषिणः ॥ प्स्भ्_1.9:256
* पुनरप्युक्तम् । मद्यं पीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा । भस्मोद्ध्वस्तो भस्मराशौ शयानो रुद्राध्यायी मुच्यते पातकेभ्यः ॥ प्स्भ्_1.9:257
* यः स्नानम् आचरेन् नित्यमाग्नेयं संयतेन्द्रियः । कुलैकविंशमुद्धृत्य स गच्छेत् परमां गतिम् ॥ प्स्भ्_1.9:258
* एवमन्यत्रापि प्रसिद्धं भस्मना गात्रशौचम् ॥ प्स्भ्_1.9:259
* तस्माद् युक्तं वक्तुं प्रसिद्धा यमा अहिंसादय इति ॥ प्स्भ्_1.9:260
* तथोपस्पर्शनप्राणायामजप्यैः अकलुषमतिर्भवतीति भावशौचं तन्त्रे सिद्धम् ॥ प्स्भ्_1.9:261
* भावमन्तर्गतं दुष्टं न स्नानमपकर्षति । भावशुद्धिः परा शुद्धिः शेषं शृङ्गारमार्जनम् ॥ प्स्भ्_1.9:262
* मृत्तिकानां सहस्रेण जलकुम्भशतेन च । न शुध्यन्ति दुरात्मानः पापोपहतचेतसः ॥ प्स्भ्_1.9:263
* सत्यं शौचं तपः शौचं शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचम् अद्भिः शौचं तु पञ्चमम् ॥ प्स्भ्_1.9:264
* शौचमेव परं तेषां येषां नोत्पद्यते स्पृहा । प्रतिग्रहे तथारम्भे इन्द्रियाणां च गोचरे ॥ प्स्भ्_1.9:265
* यस्मादाह । सर्वस्वमपि यो दद्यात् कलुषेणान्तरात्मना । न तेन धर्मभाग् भवति भाव एवात्र कारणम् ॥ प्स्भ्_1.9:266
* यथा यथा हि पुरुषः कल्याणीं कुरुते मतिम् । तथा तथास्य सिध्यन्ति सर्वार्था नात्र संशयः ॥ प्स्भ्_1.9:267
* इत्येवं भावशौचं तन्त्रे सिद्धम् ॥ प्स्भ्_1.9:268
* तथात्मशौचं तन्त्रे सिद्धम् ॥ प्स्भ्_1.9:269
* कस्मात् ॥ प्स्भ्_1.9:270
* यस्माद् अवमानपरिभवपरिवादाद्यैर् अपहतपाप्मा भवति इत्यात्मशौचं तन्त्रे सिद्धम् ॥ प्स्भ्_1.9:271
* यस्माद् अन्यैर् अप्युक्तं । कृत्स्नां महीं पर्यटतः सशैलवनकाननाम् । अपमानात् परं नास्ति साधनं मनुरब्रवीत् ॥ प्स्भ्_1.9:272
* इत्येवं शौचं तन्त्रे सिद्धम् ॥ प्स्भ्_1.9:273
* तथा आहारलाघवं तन्त्रे सिद्धम् ॥ प्स्भ्_1.9:274
* कस्मात् । भैक्षोत्सृष्टयथालब्धोपदेशात् ॥ प्स्भ्_1.9:275
* स्वल्पमपि अनुपायतोऽर्जितमलघु प्रभूतमपि उपायतोऽर्जितं लघ्वेव द्रष्टव्यम् ॥ प्स्भ्_1.9:276
* उक्तं हि । चरेन्माधुकरीं वृत्तिं वल्मीकनिचयोपमाम् । अक्रुद्धश् चाप्रहृष्टश् च तपस्तद्धि सनातनम् ॥ प्स्भ्_1.9:277
* यश्चरेत् सर्वभोज्येषु भैक्ष्यं च व्यवहारतः । भुञ्जीत प्रतिगृह्णीयात् प्रशस्तानां स्वकर्मसु ॥ प्स्भ्_1.9:278
* चातुर्वर्ण्यं चरेद् भैक्ष्यं पतितांस्तु विवर्जयेत् । पयश्चापश्च भैक्ष्यं च सममेतन् न संशयः ॥ प्स्भ्_1.9:279
* भैक्ष्यशेषं तु यो भिक्षुर्यदि किंचित् समुत्सृजेत् । ग्रासे ग्रासे तु कर्तव्याः प्राणायामास्त्रयस्त्रयः ॥ प्स्भ्_1.9:280
* संनिधानं न कुर्वीत सर्वावस्थोऽपि योगवित् । संनिधानकृतैर्दोषैर्यतिः संजायते कृमिः ॥ प्स्भ्_1.9:281
* माधुकरम् असंकल्पं प्राक्प्रवृत्तमयाचितम् । तत्तत्कालोपपन्नं च भैक्ष्यं पञ्चविधं स्मृतम् ॥ प्स्भ्_1.9:282
* गृहाद् गृहं पर्यटंस्तु न गृहं परिवर्जयेत् । परस्य वचनं श्रुत्वा दुष्टवेश्म विवर्जयेत् ॥ प्स्भ्_1.9:283
* अदुष्टापतितं साधुं भिक्षुको यो व्यतिक्रमेत् । स तस्य सुकृतं दत्त्वा दुष्कृतं प्रतिपद्यते ॥ प्स्भ्_1.9:284
* तथैव च गृहस्थस्य निराशो भिक्षुको व्रजेत् । स तस्येष्टं च पूर्तं च भिक्षुरादाय गच्छति ॥ प्स्भ्_1.9:285
* अकृते वैश्वदेवे तु भिक्षुके गृहमागते । उद्धृत्य वैश्वदेवार्थं भिक्षुकं तु विसर्जयेत् ॥ प्स्भ्_1.9:286
* वैश्वदेवकृतान् दोषान् शक्तो भिक्षुर्व्यपोहितुम् । नहि भिक्षुकृतान् दोषान् वैश्वदेवो व्यपोहति ॥ प्स्भ्_1.9:287
* दशाहं द्वादशाहं वा यत्र भिक्षा न लभ्यते । तद् गृहं वर्जयेद् भिक्षुरूषराणीव कर्षकः ॥ प्स्भ्_1.9:288
* चतुरक्षरसंयुक्तां भिक्षां तु समुदाहरेत् । एष प्रव्रजिनां धर्मः शेषस्तु क्रयविक्रयः ॥ प्स्भ्_1.9:289
* न हसेन् न चाभिप्रेक्षेत् भिक्षामिच्छंस्तु भिक्षुकः । गोदोहमात्रं संतिष्ठेन् नोपतिष्ठेत् कदाचन ॥ प्स्भ्_1.9:290
* जरामरणगर्भेभ्यो भीतस्य नरकादपि । भयात् क्षपयते यस्मात् तस्माद् भैक्ष्यमिति स्मृतम् ॥ प्स्भ्_1.9:291
* दधिभक्षाः पयोभक्षा ये ऽन्ये यावकभक्षिणः । सर्वे ते भैक्ष्यभक्षस्य कलां नार्हन्ति षोडशीम् ॥ प्स्भ्_1.9:292
* तप्तकाञ्चनवर्णेन गवां मूत्रेण यावकम् । पिबेद् द्वादश वर्षाणि न तद् भैक्ष्यसमं भवेत् ॥ प्स्भ्_1.9:293

* मासि मासि कुशाग्रेण यः पिबेत् सोममग्रजः । भैक्ष्यं चाव्यवहारेण तुल्यं भवति वा न वा ॥ प्स्भ्_1.9:294
* भैक्ष्यमन्नं परं श्रेयो भैक्ष्यमन्नं परं शुचि । भैक्ष्यं हि व्रतिनां श्रेष्ठं भैक्ष्यमेव परा गतिः ॥ प्स्भ्_1.9:295
* यद्यज् जलं निर्धमनेष्व् अपेयं नदीगतं तत् पुनरेव पेयम् । तथान्नपानं विधिपूर्वमागतं द्विजातिपात्रान्तरितं न दुष्यति ॥ प्स्भ्_1.9:296
* लवणमलवणं वा स्निग्धम् अस्नेहिकं वा सहरसविरसं वा शुष्कमन्नं द्रवं वा । यदि इह निरवद्यं भुञ्जते भैक्ष्यमन्नं स खलु भवति भिक्षुर्भिक्षुधर्मादलुप्तः ॥ प्स्भ्_1.9:297
* तथोत्सृष्टं यथालब्धं च तत्रैवावसरप्राप्तत्वात् प्रतितन्त्रसिद्धान्तसिद्धं सूत्रतो ऽर्थनिर्देशं करिष्यामः ॥ प्स्भ्_1.9:298
* इत्येवमाहारलाघवं तन्त्रे सिद्धम् ॥ प्स्भ्_1.9:299
* तथा अप्रमादस्तन्त्रे सिद्धः ॥ प्स्भ्_1.9:300
* कस्मात् ॥ प्स्भ्_1.9:301
* अप्रमादोपदेशात् जप्योपदेशाच् च ॥ प्स्भ्_1.9:302
* इह नित्यं यमेष्व् अप्रमत्तेनोपस्थितस्मृतिना भवितव्यम् ॥ प्स्भ्_1.9:303
* उक्तं हि । अप्रमादो दमस्त्यागो ब्राह्मणस्य हयाः स्मृताः । शीलरश्मिसमायुक्तैर् धेयात्मा मानसे रथे ॥ प्स्भ्_1.9:304
* तं ब्रह्मरथमारुह्य गर्भजन्मजरायुतान् । छिन्दन् मृत्युभयान् पाशान् ब्रह्मभूतोऽवतिष्ठते ॥ प्स्भ्_1.9:305
* इत्येवमप्रमादस्तन्त्रे सिद्धः ॥ प्स्भ्_1.9:306
* एवं प्रसिद्धा यमा अहिंसादयः ॥ प्स्भ्_1.9:307
* आह अविशेषदोषान् न प्रसिद्धा यमाः ॥ प्स्भ्_1.9:308
* इहान्येषामप्यहिंसादीनि धर्मसाधनानि ॥ प्स्भ्_1.9:309
* इहापि च शास्त्रे तान्येव ॥ प्स्भ्_1.9:310
* तस्मात् साध्यसाधननिष्ठास्व् अप्यविशेषः ॥ प्स्भ्_1.9:311
* उच्यते न ॥ प्स्भ्_1.9:312
* अतिप्रसङ्गादनेकान्ताच् च ॥ प्स्भ्_1.9:313
* यदि धर्मसाधनास्तित्वमात्रसाधर्म्याद् अहिंसादीनां त्यागः क्रियते तस्मात् कार्यकारणक्षेत्रज्ञधर्माधर्मसुखदुःखसंसारपदार्थादयो ऽपि त्याज्याः ॥ प्स्भ्_1.9:314
* अथ नैवम् अनेकान्तः ॥ प्स्भ्_1.9:315
* किंच त्यागे कृतिहिंसादीनां धर्मसाधनत्वप्रसङ्गः ॥ प्स्भ्_1.9:316
* किंच अतिदानातियजनातितपोऽतिगत्यनावृत्त्यादिभिः यमनियमगर्भत्वाद् विधेः सिद्धम् ॥ प्स्भ्_1.9:317
* नियमविशेषणाच् च नाविशेषः ॥ प्स्भ्_1.9:318
* तस्माद् युक्तमुक्तं प्रसिद्धा यमा अहिंसादय इति ॥ प्स्भ्_1.9:319
* अत एतदुक्तंमहादेवस्य दक्षिणामूर्तेः इति ॥ प्स्भ्_1.9:320
* अत्रेदं यमप्रकरणं समाप्तम् ॥ प्स्भ्_1.9:321
* आह तस्मिन्न् आयतने प्रतिवसतः का मात्रा ॥ प्स्भ्_1.9:322
* सा वाच्या गृहस्थादिवत् ॥ प्स्भ्_1.9:323
* तदुच्यते न ॥ प्स्भ्_1.9:324
* यस्माद् आह ॥ प्स्भ्_1.9:325
एकवासाः

1.11

* अत्र एकम् इति संख्या ॥ प्स्भ्_1.10:1
* वास इत्य् आच्छादने भवति ॥ प्स्भ्_1.10:2
* तस्य वासः पञ्चविधम् अण्डजं वोडजं वालजं वल्कलजं चर्मजं वा ॥ प्स्भ्_1.10:3
* यत् कुशलेनाभ्युपायेनोपपद्यते तद् एकपटलम् अनेकपटलं वा ग्राम्यादिभ्यो निष्परिग्रहं कौपीनप्रच्छादनमात्रं लज्जाप्रतीकारार्थं चैकं वासो ग्राह्यम् ॥ प्स्भ्_1.10:4
* अस्यैव च सूत्रस्य सामर्थ्यात् सर्वद्रव्यपरित्यागे कृते एकवासोमात्रपरिग्रहः संस्कर्तव्यः शिष्यः । आह लज्जाविनिवृत्तिर् अस्य कदा भवतीति । उच्यते ज्ञानाकलुषाभ्याम् । अत्र यदा प्राप्तज्ञानः क्षीणकलुषश् च भवति तदा तस्य लज्जानिवृत्तिः ॥ प्स्भ्_1.10:5
* आह किं विनिवृत्तायाम् अपि लज्जायां नियतम् एवैकं वासो ग्राह्यम् आहोस्विद् अनियतम् इति । उच्यते अनियतम् यस्माद् आह ॥ प्स्भ्_1.10:6
अवासा वा

1.12

* अत्र अकारो वासःप्रतिषेधे वर्तते । अवाससा नग्नेन यथा जातेन निष्परिग्रहेण भवितव्यम् । आह अवासस्त्वे किं ते प्रयोजनम् । तद् वाच्यम् एकवासस्त्ववत् । तद् उच्यते निष्परिग्रहार्थम् अमङ्गलख्यापनार्थं चेति प्रयोजनद्वयं द्रष्टव्यम् । वाशब्दः शक्त्यशक्त्योर् विचारणे । यद्य् अशक्तस् तदा अनग्नेनैकवाससा भाव्यम् । यदि शक्तस् तदा अवाससा नग्नेन यथाजातेन निष्परिग्रहेण भवितव्यम् इत्य् अर्थः । न तु वा विकल्पे । विकल्पार्थासंभवाद् इत्य् अर्थः ॥ प्स्भ्_1.11:1
* आह तस्मिन्न् आयतने प्रतिवसता किम् आ देहपाताद् अनिर्गच्छतैव स्थेयं ध्यानैकनिष्ठेन शिलावद् आहोस्विद् दृष्टो ऽस्यायतनान् निर्गमः भस्मभैक्ष्योदकार्जनादिनिमित्तं ग्रामादिप्रवेशो वा । उच्यते दृष्टः । यस्मात् ॥ प्स्भ्_1.11:2
मूत्रपुरीषं नावेक्षेत्

1.13

* अत्र मूत्रं च पुरीषं च मूत्रपुरीषम् । चार्थे द्वंद्वसमासः अत्र मूत्रं नाम यद् एतद् उदरपर्युषितं निःसरति बहिः स्रवति तन् मूत्रम् ॥ प्स्भ्_1.12:1
* मोचनान् मूत्रम् ॥ प्स्भ्_1.12:2
* मूत्रत्वाभिसम्बन्धाद्धि मूत्रं लोकादिप्रसिद्धम् इत्य् अर्थः ॥ प्स्भ्_1.12:3
* पुरीषं नाम यद् एतत् पीतखादितावलीढानाम् आहारविशेषाणाम् आध्यात्मिकेन अग्निना परिपक्वम् अपानेन स्खलति तत् पुरीषम् ॥ प्स्भ्_1.12:4
* पुरान् निर्गतत्वात् पुरीषत्वाभिसम्बन्धाद् वा पुरीषं लोकादिप्रसिद्धम् इत्य् अर्थः ॥ प्स्भ्_1.12:5
* नकारो दर्शनप्रतिषेधे ॥ प्स्भ्_1.12:6
* न द्रष्टव्यम् इत्य् अर्थः ॥ प्स्भ्_1.12:7
* अव इति अपवर्जनं नाम प्रतिषेधे जातिग्रहणेन्द्रियान्तरप्रतिषेधे चेत्य् अर्थः ॥ प्स्भ्_1.12:8
* ईक्ष दर्शने ॥ प्स्भ्_1.12:9
* यद् एतन् निजं बुद्धीन्द्रियं चक्षुर् अनेन चक्षुषा अनया बुद्ध्या मनुष्यादीनां मूत्रपुरीषं न द्रष्टव्यम् ॥ प्स्भ्_1.12:10
* न तु गवादीनाम् इत्य् अर्थः ॥ प्स्भ्_1.12:11
* आह किं मूत्रपुरीषसंदर्शनमात्रम् एवास्य प्रतिषिध्यते ॥ प्स्भ्_1.12:12
* उच्यते न ॥ प्स्भ्_1.12:13
* यस्माद् आह ॥ प्स्भ्_1.12:14
स्त्रीशूद्रं नाभिभाषेत्

1.14

* अत्र स्त्री च शूद्रश् च स्त्रीशूद्रम् ॥ प्स्भ्_1.13:1
* चार्थे द्वंद्वसमासः ॥ प्स्भ्_1.13:2
* अत्र स्त्री नाम सेयं लोकप्रसिद्धा स्तनजघनकेशवती हावभावविलासयुक्ता पुरुषभावस्वभाविका दिव्या मानुषा अतिरतिरसा विषयमूर्तिर् इति कृत्वा प्रतिषिध्यते ॥ प्स्भ्_1.13:3
* अनुभाषणपूर्विका चास्याः प्राप्तिर् भविष्यतीत्यतः स्त्री नाभिभाषितव्येत्य् अर्थः ॥ प्स्भ्_1.13:4
* शूद्रो नामायं लोकादिप्रसिद्धस् त्रिवर्णपरिचारकः ॥ प्स्भ्_1.13:5
* शोचनाद् द्रोहणाच् च शूद्रः ॥ प्स्भ्_1.13:6
* स खल्व् अदयालुर् इति कृत्वा प्रतिषिध्यते ॥ प्स्भ्_1.13:7
* किम् अर्थम् ॥ प्स्भ्_1.13:8
* तेनाक्रुष्टश् चाभिहतश् च वा क्रुद्धस् तद्वधार्थं प्रवर्तते अतो जातिज्ञानतपःश्रुतहानिर् भवति ॥ प्स्भ्_1.13:9
* सूचिते चावमानाद्यभावे ऽवमानाद्यभावात् सूचिवृद्धयोर् अभावः ॥ प्स्भ्_1.13:10
* अकलुषसूत्रे चास्य दोषनिर्देशं करिष्यामः ॥ प्स्भ्_1.13:11
* नकारो भाषणप्रतिषेधे ॥ प्स्भ्_1.13:12
* नाभिभाषितव्यम् इत्य् अर्थः ॥ प्स्भ्_1.13:13
* अभिशब्दः प्रसङ्ग इति ॥ प्स्भ्_1.13:14
* प्रतिषेधे जातिग्रहणे चेतरप्रतिषेधे चेत्य् अर्थः ॥ प्स्भ्_1.13:15
* भाष व्यक्तायां वाचि ॥ प्स्भ्_1.13:16
* यद् एतत् कर्मेन्द्रियं वाग् अनया वाण्या इति ॥ प्स्भ्_1.13:17
* अतः स्त्रीशूद्रं नाभिभाषितव्यम् इत्य् अर्थः ॥ प्स्भ्_1.13:18
* आह नावेक्षेन् नाभिभाषेद् इत्य् उक्ते ऽथ किम् अनेन साधकेनान्धमूकवद् अवस्थातव्यम् इति ॥ प्स्भ्_1.13:19
* उच्यते न ॥ प्स्भ्_1.13:20
* यस्माद् आह ॥ प्स्भ्_1.13:21
यद्य् अवेक्षेद् यद्य् अभिभाषेत्

1.15

* अत्र यदि यदि इत्य् आशङ्कायाम् ॥ प्स्भ्_1.14:1
* नाभिभाषेद् इति वचनान् निषिद्धे ऽप्य् अर्थे गुर्वर्थम् आत्मार्थं वा भस्मभैक्ष्योदकार्जनादिनिमित्तं ग्रामादीन् प्रविष्टस्य विण्मूत्रयोः स्त्रीशूद्रयोश् च दर्शनम् अभिभाषणं च भविष्यतीति कृत्वा ॥ प्स्भ्_1.14:2
* अत एतद् उक्तं सर्वज्ञेन भगवता यद्य् अवेक्षेद् यद्य् अभिभाषेद् इति ॥ प्स्भ्_1.14:3
* अवश्यं भवेद् इत्य् अर्थः ॥ प्स्भ्_1.14:4
* आह दृष्टे चाभिभाषिते चोपहतेन निर्घातनं किं कर्तव्यम् ॥ प्स्भ्_1.14:5
* तद् उच्यते उपस्पर्शनम् ॥ प्स्भ्_1.14:6
* यस्मात् ॥ प्स्भ्_1.14:7
उपस्पृश्य

1.16

* अत्र उप इत्य् अभ्युपगमे ॥ प्स्भ्_1.15:1
* अभ्युपगमनेन कलुषमतिनेत्य् अर्थः ॥ प्स्भ्_1.15:2
* स्पृश्य इति भस्मद्रव्यगात्रसंयोजनम् एव ॥ प्स्भ्_1.15:3
* उपस्पृश्येति स्नानपर्यायः ॥ प्स्भ्_1.15:4
* सचैलोदकस्पर्शनवत् ॥ प्स्भ्_1.15:5
* स च भस्मना कर्तव्यः नाद्भिः ॥ प्स्भ्_1.15:6
* कस्मात् ॥ प्स्भ्_1.15:7
* पूर्वोत्तरव्याघातात् ॥ प्स्भ्_1.15:8
* स्नानस्याप्रसङ्गाच् च ॥ प्स्भ्_1.15:9
* उपस्पृश्येति निष्ठा ॥ प्स्भ्_1.15:10
* आह उपस्पृश्य यदि कलुषं न क्षीणं स्यात् ततो निर्घातनं किं कर्तव्यम् ॥ प्स्भ्_1.15:11
* तद् उच्यते साकाङ्क्षत्वान् निष्ठाशब्दस्य प्राणायामः कर्तव्यः ॥ प्स्भ्_1.15:12
* यस्माद् आह ॥ प्स्भ्_1.15:13
प्राणायामं कृत्वा

1.17

* अत्र प्राणो नाम य एष मुखनासिकाभ्यां निःसरति वायुर् एष प्राणः ॥ प्स्भ्_1.16:1
* तस्य आयामो निग्रहो निरोधः स प्राणायामः ॥ प्स्भ्_1.16:2
* स च पुरुषवृत्तिर् द्रष्टव्यः ॥ प्स्भ्_1.16:3
* कस्मात् ॥ प्स्भ्_1.16:4
* ज्ञानेच्छाप्रयत्नपूर्वकत्वात् प्राणायामस्य च ॥ प्स्भ्_1.16:5
* एकोद्धातो द्विर् उद्धातो वा ॥ प्स्भ्_1.16:6
* तथा विंशतिमात्रश् चतुर्विंशतिमात्रस् त्रिंशन्मात्रो वा ॥ प्स्भ्_1.16:7
* मात्रा त्व् अक्षिनिमेषकालः ॥ प्स्भ्_1.16:8
* स यथाशक्ति यथाबलं कर्तव्यः ॥ प्स्भ्_1.16:9
* तस्माद् उपस्पृश्य पद्मकस्वस्तिकोपस्थाञ्जलिकार्धचन्द्रपीठकदण्डायतसर्वतोभद्रादीनाम् अन्यतमेनासनबन्धेन प्राङ्मुख उदङ्मुखो वा उपविश्यैतान्य् अङ्गानि कृत्वा ग्रीवाम् उन्नाम्य पूरणपूर्वको वा रेचकपूर्वको वा तावत् कर्तव्यो यावन् निगृहीता वायवो ध्यानीभूतश् च भवति ॥ प्स्भ्_1.16:10
* तत्र ध्यानीभूतो नाम यदा दन्तिवद् अन्तःशरीरं पूर्णं भवति ॥ प्स्भ्_1.16:11
* निगृहीतानां तु लक्षणं यदा कूर्मवद् अन्तःशरीरे उच्छ्वासप्रत्युच्छ्वासा वर्तन्ते स्वच्छेन्द्रियश् च भवति तदा मन्तव्या निगृहीता वायव इति ॥ प्स्भ्_1.16:12
* ततः शनैः शनैर् मोक्तव्या नासिकया यथोत्पलपत्त्रम् अपि नासापुटस्थं न कम्पयति ॥ प्स्भ्_1.16:13
* तद् अत्र प्रश्नाक्रान्तौ क्रमेणाक्रमितव्यः अन्तर्भावे ऽन्तरे वायवो भावयितव्याः ॥ प्स्भ्_1.16:14
* अन प्राणने ॥ प्स्भ्_1.16:15
* आङ् इति आसनबन्धनिभृतनिगृहीतकलुषक्षपणविसर्गादिमर्यादाम् अधिकुरुते ॥ प्स्भ्_1.16:16
* यम् उ बन्धने ॥ प्स्भ्_1.16:17
* बन्धयितव्याः ॥ प्स्भ्_1.16:18
* डुकृञ् करणे द्रष्टव्यः ॥ प्स्भ्_1.16:19
* त्वा इति कर्मनिष्ठायाम् ॥ प्स्भ्_1.16:20
* विच्छेदवद् इत्य् अर्थः ॥ प्स्भ्_1.16:21
* आह अथ कृते प्राणायामे यदि कलुषं न क्षीणं स्यात् ततो ऽनेन किं कर्तव्यम् ॥ प्स्भ्_1.16:22
* तद् उच्यते जप्यम् ॥ प्स्भ्_1.16:23
* यस्माद् आह ॥ प्स्भ्_1.16:24
रौद्रीं गायत्रीं बहुरूपीं वा जपेत्

1.18

* अत्र त्वाशब्दसामर्थ्याद् गम्यते प्राणसंयमेन समं जप्यं कर्तव्यम् ॥ प्स्भ्_1.17:1
* उपस्पर्शनवत् ॥ प्स्भ्_1.17:2
* तस्माद् अत्र रौद्री नाम तत्पुरुषा ॥ प्स्भ्_1.17:3
* रौद्री च कस्मात् ॥ प्स्भ्_1.17:4
* रुद्रस्योपस्थापकत्वाद् रौद्री ॥ प्स्भ्_1.17:5
* रुद्रो वास्यां चिन्त्यते रुद्रप्रापकत्वाद् वा रौद्री ॥ प्स्भ्_1.17:6
* आह सद्योजातादिबहुप्रकारा तत्र का सा रौद्री ॥ प्स्भ्_1.17:7
* तद् उच्यते गायत्री ॥ प्स्भ्_1.17:8
* अत्र या रौद्री सा गायत्री ॥ प्स्भ्_1.17:9
* गायत्री च कस्मात् ॥ प्स्भ्_1.17:10
* गीता गातारं त्रायत इति ॥ प्स्भ्_1.17:11
* गायत्रे वा छन्दसि वर्तत इति गायत्री ॥ प्स्भ्_1.17:12
* अत्र रौद्रीग्रहणाद् वैदिक्यादिगायत्रीप्रतिषेधः ॥ प्स्भ्_1.17:13
* इह तु गायत्रीग्रहणात् सद्योजातादीनां प्रतिषेधः ॥ प्स्भ्_1.17:14
* गायत्रीम् इति कर्म ॥ प्स्भ्_1.17:15
* बहुरूपी नामाघोरा ॥ प्स्भ्_1.17:16
* बहुरूपी च कस्मात् ॥ प्स्भ्_1.17:17
* बहुरूपस्योक्तपरिग्रहेष्व् आकारेषु वर्तत इति बहुरूपी ॥ प्स्भ्_1.17:18
* बहुरूपो वा अस्यां चिन्त्यत इति बहुरूपप्रापकत्वाद् बहुरूपी ॥ प्स्भ्_1.17:19
* बहुरूपीम् इति कर्म ॥ प्स्भ्_1.17:20
* वा इति विकल्पे ॥ प्स्भ्_1.17:21
* उभयोर् अपि ब्रह्मत्वम् उभयोर् अपि तुल्यार्थसाधकत्वम् उभे अपि महेश्वरपरिगृहीते इत्य् अत एकाम् अनेकां वा उपस्पृश्य जपेद् इति मानसी क्रियेत्य् अर्थः ॥ प्स्भ्_1.17:22
* आह उपस्पर्शनप्राणायामजप्याधिकृतस्य का कार्यनिष्पत्तिः ॥ प्स्भ्_1.17:23
* तद् उच्यते अकलुषत्वम् ॥ प्स्भ्_1.17:24
* यस्माद् आह ॥ प्स्भ्_1.17:25
अकलुषमतेः

1.19

* इति ॥ प्स्भ्_1.18:1
* अत्र अकलुषा यस्य मतिः सो ऽयम् अकलुषमतिः ॥ प्स्भ्_1.18:2
* बहुव्रीहिसमासः ॥ प्स्भ्_1.18:3
* अत्राकारः कलुषप्रतिषेधे ॥ प्स्भ्_1.18:4
* भावकालुष्यम् एवात्र कालुष्यम् ॥ प्स्भ्_1.18:5
* कथं गम्यते ॥ प्स्भ्_1.18:6
* प्राक्सिद्धत्वात् ॥ प्स्भ्_1.18:7
* इह च पुरस्ताद् उक्तम् ॥ प्स्भ्_1.18:8
* नावेक्षेन् नाभिभाषेद् इत्य् उक्ते अर्थापन्नं दृष्टे चाभिभाषिते च द्वेषेच्छाक्रोधा उत्पद्यन्ते ॥ प्स्भ्_1.18:9
* ते चोत्पन्ना मताव् अभिव्यज्यन्ते ॥ प्स्भ्_1.18:10
* कालतिलकादिदर्शनवत् ॥ प्स्भ्_1.18:11
* अभिव्यक्तेश् चोच्यते कलुषितो ऽहं व्याहतो ऽहं मलिनीकृतो ऽहम् इति ॥ प्स्भ्_1.18:12
* अतो द्वेषेच्छाक्रोधनिमित्तत्वान् मूत्रपुरीषस्त्रीशूद्रप्रतिषेधः क्रियते ॥ प्स्भ्_1.18:13
* यदा त्व् एते द्वेषादयो भावा बीजक्षये सति नोत्पद्यन्ते तदा परं भावशौचं प्रत्यवगन्तव्यम् ॥ प्स्भ्_1.18:14
* कलुषमतेर् इति ॥ प्स्भ्_1.18:15
* नैमित्तिकं च कलुषम् ॥ प्स्भ्_1.18:16
* न च निमित्तानित्यत्वान् नैमित्तिकं नित्यं भवति ॥ प्स्भ्_1.18:17
* बीजक्षये ऽङ्कुरवत् ॥ प्स्भ्_1.18:18
* न च यत्रैव कलुषम् उत्पद्यते तत्रैवोपस्पर्शनादीनि कर्तव्यानि ॥ प्स्भ्_1.18:19
* आयतने तु कर्तव्यानि ॥ प्स्भ्_1.18:20
* अथापि कलुषम् उत्पन्नं प्रध्वस्तं स्यात् तथापि तदर्थं न कर्तव्यानि ॥ प्स्भ्_1.18:21
* यदा तु तद् अवस्थितं सम्भवति शिरोरोगादिवत् तदा कर्तव्यानि ॥ प्स्भ्_1.18:22
* अत्र मतिर् इति बुद्धिर् इत्य् अनर्थान्तरम् ॥ प्स्भ्_1.18:23
* अत्रापि करणव्यपदेशेनात्मशौचं व्याख्यायत इत्य् अर्थः ॥ प्स्भ्_1.18:24
* आह अकलुषमतिना साधकेन किं कर्तव्यम् ॥ प्स्भ्_1.18:25
* तद् उच्यते चरितव्यम् ॥ प्स्भ्_1.18:26
* यस्माद् आह ॥ प्स्भ्_1.18:27
चरतः

1.20

* अत्र चरतः इति धर्मार्जनम् अधिकुरुते ॥ प्स्भ्_1.19:1
* भैक्ष्यचरणवत् तपश् चरितव्यं विहर्तव्यं तपसो ऽर्जनं कर्तव्यं न स्थेयम् इत्य् अर्थः ॥ प्स्भ्_1.19:2
* चरत इति वर्तमानकालः ॥ प्स्भ्_1.19:3
* अकलुषमतेश् चरतो वा अस्य का कार्यनिष्पत्तिः ॥ प्स्भ्_1.19:4
* तद् उच्यते ॥ प्स्भ्_1.19:5
ततो ऽस्य योगः प्रवर्तते

1.21

* अत्र ततः इति चर्यापदेशे ॥ प्स्भ्_1.20:1
* ततः चर्याभिनिवेशाद् अनन्तरं तज्जन्यधर्माद् इत्य् अर्थः ॥ प्स्भ्_1.20:2
* अस्य इति साधकापदेशे ॥ प्स्भ्_1.20:3
* यो ऽयम् अकलुषमतिश् चरति तस्येत्य् अर्थः ॥ प्स्भ्_1.20:4
* आह किं भवतीति ॥ प्स्भ्_1.20:5
* तद् उच्यते योगः प्रवर्तते ॥ प्स्भ्_1.20:6
* अध्ययनध्यानादिलक्षणः क्रियायोगश् चरतः प्रवर्तत इत्य् अर्थः ॥ प्स्भ्_1.20:7
* अत्रात्मेश्वरसंयोगो योगः प्रत्येतव्यः ॥ प्स्भ्_1.20:8
* प्र इति आदिकर्मणि आरम्भे भवति ॥ प्स्भ्_1.20:9
* यदा अकलुषमतिश् चरति तदा प्रवर्तत इत्य् अर्थात् ॥ प्स्भ्_1.20:10
* तत्र यतः प्रवर्तते ॥ प्स्भ्_1.20:11
* विषयेभ्यः ॥ प्स्भ्_1.20:12
* प्रत्याहृतचित्तस्य यत् प्रवर्तते तद्योगः ॥ प्स्भ्_1.20:13
* यथा प्रवर्तते ॥ प्स्भ्_1.20:14
* क्रमशः ॥ प्स्भ्_1.20:15
* येन प्रवर्तते ॥ प्स्भ्_1.20:16
* तपसा प्रवर्तते ॥ प्स्भ्_1.20:17
* यस्य प्रवर्तते ॥ प्स्भ्_1.20:18
* आत्मनः साधकस्य ॥ प्स्भ्_1.20:19
* यस्मिन् प्रवर्तते ॥ प्स्भ्_1.20:20
* यो ऽयम् आत्मन्य् आत्मभावः स महेश्वरे प्रवर्तत इत्य् अर्थः ॥ प्स्भ्_1.20:21
* एवं यस्माद् द्रव्यावस्थानकालदेशक्रियाप्रयोगोच्चावचप्रयोजनयमनियमवृत्तिवसत्यर्थप्राणायामप्रत्याहारनिमित्तप्रतिषेधसंशयनिर्घातनशौचनियोगफलोपायाश् च व्याख्याताः अतो ऽत्रायतनप्रकरणं समाप्तम् ॥ प्स्भ्_1.20:22
* अत्राह किं प्रयोजननिष्ठं तन्त्रम् ॥ प्स्भ्_1.20:23
* उच्यते न ॥ प्स्भ्_1.20:24
* योगनिष्ठम् ॥ प्स्भ्_1.20:25
* यस्माद् आह युक्तोत्तरे सत्य् अपि पदार्थवैलक्षण्ये रङ्गपताकादिवच्छिष्यप्रलोभनार्थम् इदम् आरभ्यते ॥ प्स्भ्_1.20:26
दर्शनश्रवणमननविज्ञानानि चास्य प्रवर्तन्ते

1.22

* अत्र दूरं नाम यद् एतद् दर्शनाद्यं विकरणान्तं माहेश्वरम् ऐश्वर्यम् अनेन कदाचित् प्राप्तपूर्वकं तस्मिंस् तत्प्राप्तौ च ॥ प्स्भ्_1.21:1
* दर्शनादिष्व् आधिकारिको ऽत्र दूरशब्दो द्रष्टव्यः ॥ प्स्भ्_1.21:2
* तत्प्राप्तिश् च योगप्रवृत्तितः ॥ प्स्भ्_1.21:3
* आह यद्य् एवं सूत्रतो ऽभिधीयन्तां दर्शनादयः ॥ प्स्भ्_1.21:4
* तद् उच्यन्ते ॥ प्स्भ्_1.21:5
* दर्शनम् इत्य् अत्रापि च नस्त्रिकं चिन्त्यते ॥ प्स्भ्_1.21:6
* द्रष्टा दर्शनं दृश्यम् इति ॥ प्स्भ्_1.21:7
* अत्र द्रष्टा सिद्धः ॥ प्स्भ्_1.21:8
* दर्शनम् अस्य सिद्धिः ज्ञानम् ॥ प्स्भ्_1.21:9
* द्रष्टव्यानि रूपाणि ॥ प्स्भ्_1.21:10
* तत् कृत्स्नेषु विषयेषु समासविस्तरविभागविशेषतश् च दर्शनं प्रवर्तत इत्य् अर्थः ॥ प्स्भ्_1.21:11
* तथा श्रवणम् इत्य् अत्रापि नस्त्रिकं चिन्त्यन्ते ॥ प्स्भ्_1.21:12
* श्रोता श्रवणं श्रव्यम् इति ॥ प्स्भ्_1.21:13
* तत्र श्रोता सिद्धः ॥ प्स्भ्_1.21:14
* श्रवणम् अस्य सिद्धिर् ज्ञानम् ॥ प्स्भ्_1.21:15
* श्रव्याः शब्दाः ॥ प्स्भ्_1.21:16
* तद् अस्य सिद्धस्य श्राव्येष्व् अर्थेषु समासविस्तरविभागविशेषतश् च श्रवणं प्रवर्तत इत्य् अर्थः ॥ प्स्भ्_1.21:17
* तथा मननम् इत्य् अत्रापि च नस्त्रिकं चिन्त्यते ॥ प्स्भ्_1.21:18
* मन्ता मननं मन्तव्यम् इति ॥ प्स्भ्_1.21:19
* अत्र मन्ता सिद्धः ॥ प्स्भ्_1.21:20
* मननम् अस्य सिद्धिर् ज्ञानम् ॥ प्स्भ्_1.21:21
* मन्तव्यानि परचित्तानि ॥ प्स्भ्_1.21:22
* देवमनुष्यतिर्यग्योनीनां धर्मार्थकाममोक्षचित्तानां मन्ता भवतीत्य् अर्थः ॥ प्स्भ्_1.21:23
* तथा विज्ञानम् इत्य् अत्रापि नस्त्रिकं चिन्त्यन्ते ॥ प्स्भ्_1.21:24
* विज्ञाता विज्ञानं विज्ञेयम् इति ॥ प्स्भ्_1.21:25
* तत्र विज्ञाता सिद्धः ॥ प्स्भ्_1.21:26
* विज्ञानम् अस्य सिद्धिर् ज्ञानम् ॥ प्स्भ्_1.21:27
* विज्ञेया वृत्तयः ॥ प्स्भ्_1.21:28
* अस्य सिद्धस्य प्रवर्तन्ते स्वतः प्रादुर्भवन्तीत्य् अर्थः ॥ प्स्भ्_1.21:29
* अस्य ज्ञानम् अस्ति नेति ॥ प्स्भ्_1.21:30
* उच्यते अस्ति ॥ प्स्भ्_1.21:31
* यस्माद् आह ॥ प्स्भ्_1.21:32
सर्वज्ञता

1.23

* अत्रोक्तेषु दृश्यश्रव्यादिषु च अशेषेषु सिद्धेश्वरपश्वादिषु निर्विशेषवाची सर्वशब्दो द्रष्टव्यः ॥ प्स्भ्_1.22:1
* ज्ञता इत्य् अत्रापि च नस् त्रिकं चिन्त्यते ॥ प्स्भ्_1.22:2
* ज्ञाता ज्ञानं ज्ञेयम् इति ॥ प्स्भ्_1.22:3
* तत्र ज्ञाता सिद्धः ज्ञानम् अस्य सिद्धिर् ज्ञानम् ॥ प्स्भ्_1.22:4
* ज्ञेयं कार्यं कारणं सिद्धाश् चेति ॥ प्स्भ्_1.22:5
* तस्माद् एका ज्ञानशक्तिर् अपरिमितेन ज्ञेयेनानेकेनानेकधोपचर्यते ॥ प्स्भ्_1.22:6
* स्फटिकादित्यवच् चास्य सर्वतः प्रवर्तत इत्य् अर्थः ॥ प्स्भ्_1.22:7
* आह किम् अयं सिद्धो ज्ञानमात्रसंतुष्टः पङ्गुवद् उत क्रियाशक्तिर् अप्य् अस्ति नेति ॥ प्स्भ्_1.22:8
* उच्यते अस्ति ॥ प्स्भ्_1.22:9
* यस्माद् आह ॥ प्स्भ्_1.22:10
मनोजवित्वम्

1.24

* अत्रागन्तुकत्वात् सर्वज्ञानशक्तिर् उक्ता ॥ प्स्भ्_1.23:1
* न तु ऋषित्वविप्रत्ववद् इत्य् अर्थः ॥ प्स्भ्_1.23:2
* यस्मात् अत्र मनोजववद् इत्य् एवं प्राप्ते समानोपमानत्वान् मनोजवित्वम् इत्य् उक्तम् ॥ प्स्भ्_1.23:3
* मनोजववत् ॥ प्स्भ्_1.23:4
* आह ॥ प्स्भ्_1.23:5
* को ऽर्थः सूत्रस्य ॥ प्स्भ्_1.23:6
* उच्यते यादृङ् मनसो जवित्वम् आशुकारित्वम् ईदृशम् अस्य सिद्धस्य कर्तृत्वे शीघ्रत्वम् ॥ प्स्भ्_1.23:7
* न चास्य प्रजापतिवत् तपोनिमित्तत्वाद् भावोत्तरा प्रवृत्तिः ॥ प्स्भ्_1.23:8
* किंतु भावस्य बलीयस्त्वात् प्रवृत्तेर् उत्पन्नस्वभावः करोमीति कृतम् एव भवति ॥ प्स्भ्_1.23:9
* विनाशयामीति विनष्टं वा ॥ प्स्भ्_1.23:10
* कस्मात् ॥ प्स्भ्_1.23:11
* दृक्क्रिययोर् अप्रतीघातत्वात् ॥ प्स्भ्_1.23:12
* त्वम् इति भावनिर्देशाद् गम्यते वित्तम् अस्य शक्तिः सामर्थ्यम् ॥ प्स्भ्_1.23:13
* ऐश्वर्यम् ईदृशम् इत्य् अर्थः ॥ प्स्भ्_1.23:14
* आह किम् अस्य सिद्धस्य कर्तव्यं करणं कुतो वा करोति ॥ प्स्भ्_1.23:15
* तद् उच्यते ॥ प्स्भ्_1.23:16
कामरूपित्वम्

1.25

* कामरूपी इत्य् अत्रापि च नस् त्रिकं चिन्त्यते ॥ प्स्भ्_1.24:1
* कामी कामः काम्यम् इति ॥ प्स्भ्_1.24:2
* तत्र कामी सिद्धः ॥ प्स्भ्_1.24:3
* कामो ऽस्येच्छा ॥ प्स्भ्_1.24:4
* काम्यानि रूपाणि ॥ प्स्भ्_1.24:5
* कथम् ॥ प्स्भ्_1.24:6
* कमु इच्छायां भवति ॥ प्स्भ्_1.24:7
* रूपाणि यावन्ति यादृशानि चेच्छति तावन्ति तादृशानि च करोति ॥ प्स्भ्_1.24:8
* आत्मायत्तानि चास्य रूपकरणानि पृथिव्यादीनि ॥ प्स्भ्_1.24:9
* विभुत्वाच् च करणानां यत्र यत्र रूपाण्य् अभिनिर्वर्तयति तत्र तत्र चास्य बुद्ध्यादीनां करणानां वृत्तिलाभो भवति ॥ प्स्भ्_1.24:10
* चक्षुरादिवद् दृष्टान्तात् ॥ प्स्भ्_1.24:11
* नाधिष्ठाता इति चेत् ॥ प्स्भ्_1.24:12
* तच् च न ॥ प्स्भ्_1.24:13
* कस्मात् ॥ प्स्भ्_1.24:14
* यस्माद् आह रूपीति ॥ प्स्भ्_1.24:15
* अत्र रूपाण्य् अधितिष्ठतीति रूपी ॥ प्स्भ्_1.24:16
* दण्डिवत् ॥ प्स्भ्_1.24:17
* रूपिवचनाच् च सर्वेषाम् एव रूपाणां युगपद् एवाधिष्ठाता भवति ॥ प्स्भ्_1.24:18
* विभुत्वाद् अभिन्नो महेश्वरात् ॥ प्स्भ्_1.24:19
* इदं च रुद्रसायुज्यनिर्देशाद् गम्यते ॥ प्स्भ्_1.24:20
* त्वम् इति भावनिर्देशाद् गम्यते वित्तम् अस्य शक्तिः सामर्थ्यम् ॥ प्स्भ्_1.24:21
* ऐश्वर्यम् ईदृशम् इत्य् अर्थः ॥ प्स्भ्_1.24:22
* आह परिमितेषु कृत्येषु अशक्तिदर्शनात् संदेहः ॥ प्स्भ्_1.24:23
* अथ किम् अयं सिद्धस् तेषां स्वकृतानां रूपाणां संहारे शक्तः उत विश्वामित्रवद् अशक्तः इति ॥ प्स्भ्_1.24:24
* उच्यते ॥ प्स्भ्_1.24:25
* यस्माद् आह ॥ प्स्भ्_1.24:26
विकरणः

1.26

* अत्र विः विनाशे विनाकरणे ॥ प्स्भ्_1.25:1
* विकरणो भवति ॥ प्स्भ्_1.25:2
* विशिखविरथवत् ॥ प्स्भ्_1.25:3
* करणप्रतिषेधात् कार्यप्रतिषेधः कृतो भवति ॥ प्स्भ्_1.25:4
* कस्मात् ॥ प्स्भ्_1.25:5
* विशिष्टत्वाद् ग्राहकत्वात् सूक्ष्मत्वाच् च करणानाम् ॥ प्स्भ्_1.25:6
* तस्माद् विकरण इति कैवल्यम् ॥ प्स्भ्_1.25:7
* आह अविशेषाद् इह सांख्ययोगादीनाम् अपि सहैश्वर्येण कार्यकरणत्यागं कृत्वा कैवल्यनिष्ठा ॥ प्स्भ्_1.25:8
* इहापि च शास्त्रे ॥ प्स्भ्_1.25:9
* कथं तस्माद् अविशेषः ॥ प्स्भ्_1.25:10
* अथ मतिः निरतिशये मोक्षे नास्ति वैषम्यं तथाप्य् अतिदानादिभिः साध्यसाधननिष्ठातो ऽथ विशेषः उच्यते ॥ प्स्भ्_1.25:11
* नाविशेषः ॥ प्स्भ्_1.25:12
* यस्माद् आह ॥ प्स्भ्_1.25:13
धर्मित्वं च

1.27

* अत्र गुणधर्मेणायं धर्मी भवति ॥ प्स्भ्_1.26:1
* यद् एतद् दर्शनाद्यं विकरणान्तं माहेश्वरम् ऐश्वर्यम् अस्येशप्रसादात् स्वगुणसंवृत्तं तेनायं गुणधर्मेण धर्मी भवति ॥ प्स्भ्_1.26:2
* कुतः ॥ प्स्भ्_1.26:3
* त्वम् इति भावनिर्देशाद् गम्यते ॥ प्स्भ्_1.26:4
* ऋते ऽपि कार्यकरणे ज्ञाता कर्ता च भवति ॥ प्स्भ्_1.26:5
* ततश् च कैवल्याद्याः सर्वनिष्ठा विशेषिता भवन्ति ॥ प्स्भ्_1.26:6
* चशब्दो ऽत्र ज्ञानक्रियाशक्तिसमारोपणार्थः ॥ प्स्भ्_1.26:7
* एवम् अत्रास्य सिद्धस्य कामरूपिविकरणवचनात् स्वकृतेषु रूपेषु प्रभुत्वं विभुत्वं गुणधर्मित्वं च व्याख्यातम् ॥ प्स्भ्_1.26:8
* एतद् युक्तोत्तरे प्रसादाद् गुणाः प्रवर्तन्त इत्य् अर्थः ॥ प्स्भ्_1.26:9
* अत्रेदम् आधिकारिकम् ऐश्वर्यप्रकरणं परिसमाप्तम् इति ॥ प्स्भ्_1.26:10
* आह किं परकृतेष्व् अपि देवमनुष्यतिर्यग्योनिरूपेष्व् अस्य सिद्धस्य प्रभुत्वं विभुत्वं चास्ति नेति ॥ प्स्भ्_1.26:11
* उच्यते अस्ति ॥ प्स्भ्_1.26:12
* यस्माद् आह ॥ प्स्भ्_1.26:13
सर्वे चास्य वश्या भवन्ति

1.28

* अत्र सर्वे निरवशेषाः पशुधर्माण इत्य् अर्थः ॥ प्स्भ्_1.27:1
* चशब्दः स्वकृतपरकृतरूपसमुच्चयार्थः ॥ प्स्भ्_1.27:2
* परकृतेष्व् अपि देवादिरूपेषु प्रभुत्वं विभुत्वं चास्तीति ॥ प्स्भ्_1.27:3
* अस्य इति सिद्धस्येत्य् अर्थः ॥ प्स्भ्_1.27:4
* वश्याः विधेयाः ॥ प्स्भ्_1.27:5
* वशवर्तिनश् च भवन्तीत्य् अर्थः ॥ प्स्भ्_1.27:6
* भवन्ति इति भूतार्थवादो निःसंशयम् ॥ प्स्भ्_1.27:7
* आह किम् अयं सिद्धस् तेषां कदाचिद् वश्यो भवति नेति ॥ प्स्भ्_1.27:8
* उच्यते न ॥ प्स्भ्_1.27:9
* यस्माद् आह ॥ प्स्भ्_1.27:10
सर्वेषां चावश्यो भवति

1.29

* अत्रापि सर्वशब्दः पशुष्व् एव ॥ प्स्भ्_1.28:1
* सर्वेषाम् इति न्यूनपरिग्रहे ॥ प्स्भ्_1.28:2
* चशब्दो ऽभ्यधिकत्वे ॥ प्स्भ्_1.28:3
* अभ्यधिक उत्कृष्टो व्यतिरिक्तश् च भवतीत्य् अर्थः ॥ प्स्भ्_1.28:4
* अवश्य इति ॥ प्स्भ्_1.28:5
* अकारो भूतपूर्वं वश्यत्वं प्रतिषेधयति ॥ प्स्भ्_1.28:6
* भवति इति भूतार्थवादो निःसंशयम् ॥ प्स्भ्_1.28:7
* यदा गुणैर् युक्तः प्राप्तैश्वर्यः सिद्धस् तदा सर्वेषां शक्तेर् अवश्यो भवतीत्य् अर्थः ॥ प्स्भ्_1.28:8
* आह किं स्वशक्त्याध्याक्रान्ता वश्या भवन्ति आहोस्विद् धर्ममर्यादां रक्षन्ति गुरुशिष्यवत् ॥ प्स्भ्_1.28:9
* गुरोः शक्तः शिष्यो नाध्याक्रान्तः ॥ प्स्भ्_1.28:10
* यस्माद् आह ॥ प्स्भ्_1.28:11
सर्वांश् चाविशति

1.30

* अत्रापि सर्वशब्दः पशुष्व् एव निरवशेषवाची द्रष्टव्यः ॥ प्स्भ्_1.29:1
* चशब्दः पूर्वोक्तसमुच्चये ॥ प्स्भ्_1.29:2
* न केवलम् अस्य ते वश्याः किं त्व् आवेश्याश् चेति ॥ प्स्भ्_1.29:3
* अत्र आङ् इति आवेशनमर्यादाम् अधिकुरुते ॥ प्स्भ्_1.29:4
* विश प्रवेशने ॥ प्स्भ्_1.29:5
* स तस्य ज्ञानक्रिययोर् विभुत्वे ऽपि शक्तिसंयोगाद् आविश्य प्रत्ययलोपं कर्तुं समर्थो भवतीत्यर्थः ॥ प्स्भ्_1.29:6
* आह किम् अयं सिद्धस् तेषां कदाचिद् आवेश्यो भवति नेति ॥ प्स्भ्_1.29:7
* उच्यते न ॥ प्स्भ्_1.29:8
* यस्माद् आह ॥ प्स्भ्_1.29:9
सर्वेषां चानावेश्यो भवति

1.31

* अत्रापि सर्वशब्दः पशुष्व् एव ॥ प्स्भ्_1.30:1
* सर्वेषाम् इति न्यूनपरिग्रहे ॥ प्स्भ्_1.30:2
* चशब्दो ऽभ्यधिकत्वे ॥ प्स्भ्_1.30:3
* अभ्यधिक उत्कृष्टो व्यतिरिक्तश् च भवतीत्यर्थः ॥ प्स्भ्_1.30:4
* अनावेश्य इति ॥ प्स्भ्_1.30:5
* अकारा भूतपूर्वम् आवेश्यत्वं प्रतिषेधयति ॥ प्स्भ्_1.30:6
* अनावेश्यधर्मा भवति ॥ प्स्भ्_1.30:7
* न व्याधिशेषवद् अवस्थानम् भवति इति भूतार्थवादो निःसंशयम् ॥ प्स्भ्_1.30:8
* यदा गुणैर् युक्तः प्राप्तैश्वर्यः सिद्धस् तदा सर्वेषां चानावेश्यो भवतीत्य् अर्थः ॥ प्स्भ्_1.30:9
* आह किम् आवेशनमात्र एव शक्तो यक्षरक्षःपिशाचादिवद् उत प्राणैर् अपि विप्रयोगं यातनाभिश् च संयोगं कर्तुं शक्तो भवतीति ॥ प्स्भ्_1.30:10
* उच्यते शक्तः ॥ प्स्भ्_1.30:11
* यस्माद् आह ॥ प्स्भ्_1.30:12
सर्वे चास्य वध्या भवन्ति

1.32

* अत्रापि सर्वशब्दः पशुष्व् एव निरवशेषवाची द्रष्टव्यः ॥ प्स्भ्_1.31:1
* चशब्दः समुच्चये ॥ प्स्भ्_1.31:2
* न केवलम् अस्य ते वश्याः आवेश्याश् च किंतु वध्याश् चेति ॥ प्स्भ्_1.31:3
* अस्य इति सिद्धापदेशे ॥ प्स्भ्_1.31:4
* वध्या इति ॥ प्स्भ्_1.31:5
* वध प्राणविप्रयोगे यातनायां च ॥ प्स्भ्_1.31:6
* प्राणैर् अपि विप्रयोगं यातनाभिश् च संयोगं कर्तुं समर्थो भवतीत्यर्थः ॥ प्स्भ्_1.31:7
* भवन्ति इति भूतार्थवादो निःसंशये ॥ प्स्भ्_1.31:8
* यदा गुणैर् युक्तः प्राप्तैश्वर्यः सिद्धस् तदा सर्वे चास्य वध्या भवन्तीत्यर्थः ॥ प्स्भ्_1.31:9
* आह किम् अयं सिद्धस् तेषां कदाचिद् वध्यो भवति नेति ॥ प्स्भ्_1.31:10
* उच्यते न ॥ प्स्भ्_1.31:11
* यस्माद् आह ॥ प्स्भ्_1.31:12
सर्वेषां चावध्यो भवति

1.33

* अत्रापि सर्वशब्दः पशुष्व् एव ॥ प्स्भ्_1.32:1
* सर्वेषाम् इति न्यूनपरिग्रहे ॥ प्स्भ्_1.32:2
* चशब्दो ऽभ्यधिकत्वे ॥ प्स्भ्_1.32:3
* अभ्यधिकः उत्कृष्टो व्यतिरिक्तश् च भवतीत्यर्थः ॥ प्स्भ्_1.32:4
* अवध्य इति ॥ प्स्भ्_1.32:5
* अकारो भूतपूर्वं वध्यत्वं प्रतिषेधयति ॥ प्स्भ्_1.32:6
* यदा गुणैर् युक्तः प्राप्तैश्वर्यः सिद्धस् तदा सर्वेषां चावध्यो भवतीत्यर्थः ॥ प्स्भ्_1.32:7
* एवं परकृतेष्वपि देवादिशरीरेषु रूपेषु प्रभुत्वं विभुत्वं च व्याख्यातम् ॥ प्स्भ्_1.32:8
* अत्रेदं षट्सूत्रीप्रकरणं परिसमाप्तम् ॥ प्स्भ्_1.32:9
* आह किम् अस्य सिद्धस्यैतदैश्वर्यं नित्यम् आहोस्वित् पार्थिवाप्यतैजसवायव्यव्योममानसाहंकारिकमहदात्मकादिवद् अनित्यम् इति ॥ प्स्भ्_1.32:10
* उच्यते नित्यम् ॥ प्स्भ्_1.32:11
* यस्माद् आह ॥ प्स्भ्_1.32:12
अभीतः

1.34

* अत्र अक्षयादिवचनविरोधाद् अधीतश् चरतीति पाठानुपपत्तिः ॥ प्स्भ्_1.33:1
* तस्माद् अतीतानागतवर्तमानकालभयं न विद्यत इत्य् अतो ऽभीतः ॥ प्स्भ्_1.33:2
* आह अभीतानाम् अपि ब्रह्मादीनां संहारे क्षयः श्रूयते ॥ प्स्भ्_1.33:3
* तस्मान् नाभीतत्वात् नित्यम् ॥ प्स्भ्_1.33:4
* अभीतस्य वा किं लक्षणम् ॥ प्स्भ्_1.33:5
* तद् उच्यते ॥ प्स्भ्_1.33:6
अक्षयः

1.35

* अत्र अकारः क्षयप्रतिषेधे ॥ प्स्भ्_1.34:1
* अत्र क्षयो नाम सति पुरुषनित्यत्वे पूर्वम् अस्य ब्राह्मणस्य तैस् तैर् ऐश्वर्यैर् अपकर्षः ॥ प्स्भ्_1.34:2
* आहंकारिकमहदात्मकादिभिर् अनित्यो योगः ॥ प्स्भ्_1.34:3
* अयं तु अनेन नित्येन माहेश्वरेणैश्वर्येण योगात् पुरुषः अक्षयः इत्य् उपचर्यते ॥ प्स्भ्_1.34:4
* राजकोशवत् कुटुम्बिद्रव्यवत् ॥ प्स्भ्_1.34:5
* आह ईश्वराणाम् अपि ययातिप्रभृतीनां जराभिभवनाद् अथ किम् अयं जीर्यते नेति ॥ प्स्भ्_1.34:6
* अक्षयस्य वा किं लक्षणम् ॥ प्स्भ्_1.34:7
* तद् उच्यते ॥ प्स्भ्_1.34:8
अजरः

1.36

* अत्र अकारो जरां प्रतिषेधति ॥ प्स्भ्_1.35:1
* अत्र जरा नाम पलितस्खलित्यादिलक्षणा कार्यस्य दृक्क्रियाशक्तिहानिश् च करणानाम् ॥ प्स्भ्_1.35:2
* कस्मात् ॥ प्स्भ्_1.35:3
* तत्फलभोक्तृत्वाद् अयं जीर्यत इत्य् उपचर्यते ॥ प्स्भ्_1.35:4
* इदानीं तु कामित्वाद् विकरणधर्मित्वाच् च नास्तीत्यतः अजर इत्युच्यते ॥ प्स्भ्_1.35:5
* आह अजराणाम् अपि देवादीनां संहाराद् अर्वाङ् मृत्युर् दृश्यते ॥ प्स्भ्_1.35:6
* अथ किम् अस्य मृत्युर् विद्यते नेति ॥ प्स्भ्_1.35:7
* अजरस्य वा किं लक्षणम् ॥ प्स्भ्_1.35:8
* तद् उच्यते ॥ प्स्भ्_1.35:9
अमरः

1.37

* अत्र अकारो मृत्युप्रतिषेधे ॥ प्स्भ्_1.36:1
* मृङ् प्राणत्यागे ॥ प्स्भ्_1.36:2
* अत्र प्राणादिवृत्तिनिरोधो मृत्युरित्युच्यते ॥ प्स्भ्_1.36:3
* कस्मात् ॥ प्स्भ्_1.36:4
* तत्फलभोक्तृत्वात् ॥ प्स्भ्_1.36:5
* सो ऽस्य कामित्वाद् विकरणधर्मित्वाच् च नास्तीत्यतः ॥ प्स्भ्_1.36:6
* अमर इत्युच्यते ॥ प्स्भ्_1.36:7
* तस्मादभीताक्षयादिवचनान् नित्यमैश्वर्यम् इति सिद्धम् ॥ प्स्भ्_1.36:8
* आह ॥ प्स्भ्_1.36:9
सर्वत्र चाप्रतिहतगतिर् भवति

1.38

* सर्वत्र अभिप्रेतार्थेषु प्रवर्तमानस्य महेश्वरेणापि अप्रतिबन्धधर्मित्वम् अप्रतीघातः ॥ प्स्भ्_1.37:1
इत्य् एतैर् गुणैर् युक्तो भगवतो महादेवस्य महागणपतिर् भवति

1.39

* इत्य् एतैः पूर्वोक्तैः अवश्यत्वानावेश्यत्वावध्यत्वाभीतत्वाक्षयत्वाजरत्वामरत्वाप्रतीघातत्वाख्यैः अष्टभिर् गुणैः सिद्धिलक्षणैर् युक्तो भगवतो महादेवस्य महागणपतिर् भवति ॥ प्स्भ्_1.38:1
* सर्वपशुभ्यो ऽभ्यधिकत्वम् ऐश्वर्यातिशयान् महत्त्वम् ॥ प्स्भ्_1.38:2
* गणाः नन्दिमहाकालादयः ॥ प्स्भ्_1.38:3
* सर्वपश्वादिकार्यस्वामित्वं पतित्वम् ॥ प्स्भ्_1.38:4
* एवम् अध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम् ॥ प्स्भ्_1.38:5
अत्रेदं ब्रह्म जपेत्

1.40

* बृहच् च तेभ्यः सर्वब्रह्मभ्यः स्वयं भवति ॥ प्स्भ्_1.39:1
* जपेद् इति च मानसक्रिया ॥ प्स्भ्_1.39:2
* जप्यं प्रत्यवगन्तव्यम् ॥ प्स्भ्_1.39:3
* उक्तम् आह जपयज्ञस्तु यज्ञानां विशिष्टो दशभिर्गुणैः ॥ प्स्भ्_1.39:4
* उपांशु स्याच्छतगुणः साहस्रो मानसः स्मृतः ॥ प्स्भ्_1.39:5
* अतो मनसैव जप्तव्यम् ॥ प्स्भ्_1.39:6
* किम् अर्थमिति चेत् ॥ प्स्भ्_1.39:7
* तदुच्यते अधर्मव्युच्छित्त्यर्थं धर्मस्य चाभिवृद्ध्यर्थं तस्य चाकुशलेभ्यो व्यावर्तनार्थं ब्रह्मण्यनवरतपदपङ्क्त्याम् उपनिबन्धनार्थं चेत्यर्थः ॥ प्स्भ्_1.39:8
* आह किं पुनस्तद् ब्रह्मेति ॥ प्स्भ्_1.39:9
* अत्रोच्यते सद्योजाताद्यम् ॥ प्स्भ्_1.39:10
* अथवात्र ब्रह्माध्याययोर् दूरस्थः सम्बन्धः ॥ प्स्भ्_1.39:11
* कथम् ॥ प्स्भ्_1.39:12
* पशुपतेर् इत्युक्ते संदेहः ॥ प्स्भ्_1.39:13
* किंनरपतिसुरपतिप्रजापतिप्रभृतिवद् अस्यैश्वर्यं कृतम् अनित्यम् आगन्तुकं वा ॥ प्स्भ्_1.39:14
* किं चास्य जन्म मृत्युर् वा विद्यते नेति ॥ प्स्भ्_1.39:15
* उच्यते न ॥ प्स्भ्_1.39:16
* यस्माद् आह ॥ प्स्भ्_1.39:17
सद्योऽजातं प्रपद्यामि

1.41

* अत्र सद्यः इत्य् अस्मिन् पदे ऽर्थद्वयं चिन्त्यते ॥ प्स्भ्_1.40:1
* संश् च आद्यश् च ॥ प्स्भ्_1.40:2
* आप्तिपालनवत् ॥ प्स्भ्_1.40:3
* अत्र सद् इति नित्यत्वे ॥ प्स्भ्_1.40:4
* कस्मात् ॥ प्स्भ्_1.40:5
* विनाशहेत्वभावात् ॥ प्स्भ्_1.40:6
* नित्यं ध्रुवम् अविनाशि पत्युः पतित्वं नान्येषाम् इत्य् अतोऽभिधीयते सद् इति ॥ प्स्भ्_1.40:7
* आह किम् अयम् आदिमत्त्वे सति नित्यो मोक्षवत् ॥ प्स्भ्_1.40:8
* उच्यते न ॥ प्स्भ्_1.40:9
* यस्माद् आह आद्यः ॥ प्स्भ्_1.40:10
* तद्व्यतिरिक्तस्य ॥ प्स्भ्_1.40:11
* हेतोर् असंभवाद् आद्यमन् आगन्तुकं पत्युः पतित्वं नान्येषाम् इत्यर्थः ॥ प्स्भ्_1.40:12
* आह किं नित्यानादित्वे सति पुरुषवज् जायते ॥ प्स्भ्_1.40:13
* उच्यते न ॥ प्स्भ्_1.40:14
* यस्माद् आह अजातः ॥ प्स्भ्_1.40:15
* अत्र अकारो जन्ममृत्युप्रतिषेधे ॥ प्स्भ्_1.40:16
* जन्ममृत्युरहितो भगवान् निरञ्जनः ॥ प्स्भ्_1.40:17
* कस्मात् ॥ प्स्भ्_1.40:18
* साञ्जनवृत्त्यलाभात् ॥ प्स्भ्_1.40:19
* निरभिमानित्वं नान्येषाम् इत्यतः ॥ प्स्भ्_1.40:20
* अजातम् इति कर्म ॥ प्स्भ्_1.40:21
* आह अथैतत् सत्त्वम् आद्यत्वम् अजातत्वं च गुणं कारणे ज्ञात्वा साधकेन किं कर्तव्यम् ॥ प्स्भ्_1.40:22
* तद् उच्यते प्रपत्तव्यम् ॥ प्स्भ्_1.40:23
* यस्माद् आह प्रपद्यामि ॥ प्स्भ्_1.40:24
* इति साधकापदेशः ॥ प्स्भ्_1.40:25
* यथा अग्ने व्रतपते व्रतं चरिष्यामि इति ॥ प्स्भ्_1.40:26
* अत्र प्रशब्दः कारणान्तरेषु सत्त्वाद्यत्वाजातत्वप्रतिषेधार्थो भृशार्थश् च ॥ प्स्भ्_1.40:27
* तस्मात् सर्वभावानभिष्वङ्गेण तद् एव कारणं प्रपत्तव्यम् ॥ प्स्भ्_1.40:28
* शरणम् अभ्युपगन्तव्यम् इत्य् अर्थः ॥ प्स्भ्_1.40:29
* आह अत्र प्रपन्नः किं करिष्यति ॥ प्स्भ्_1.40:30
* किं वा दास्यति ॥ प्स्भ्_1.40:31
* तद् उच्यते पूजां करिष्यत्य् आत्मानं च दास्यति ॥ प्स्भ्_1.40:32
* यथाह ॥ प्स्भ्_1.40:33
सद्योऽजाताय वै नमः

1.42

* आह सत्त्वम् आद्यत्वम् अजातत्वं च पूर्वोक्तम् ॥ प्स्भ्_1.41:1
* सद्योऽजाताय इति चतुर्थी ॥ प्स्भ्_1.41:2
* वैशब्दः सम्भावने ॥ प्स्भ्_1.41:3
* सत्त्वम् आद्यत्वम् अजातत्वं च धर्मान् संभाव्य ब्रवीति सद्योऽजाताय वै नमः ॥ प्स्भ्_1.41:4
* नम इत्य् आत्मप्रदाने पूजायां च ॥ प्स्भ्_1.41:5
* नमस्कारेणात्मानं प्रयच्छति पूजां च प्रयुङ्क्त इत्य् अर्थः ॥ प्स्भ्_1.41:6
* आह किं प्रयोजनम् आत्मानं महेश्वराय प्रयच्छति ॥ प्स्भ्_1.41:7
* किम् अस्य दुःखं वा ॥ प्स्भ्_1.41:8
* किं वा महेश्वरान् मृगयते ॥ प्स्भ्_1.41:9
* किं वा स्वयम् उत्पादितानुगृहीततिरोभावितानां पशूनां पतिः उत परैरिति ॥ प्स्भ्_1.41:10
* उच्यते स्वयम् ॥ प्स्भ्_1.41:11
* यस्माद् आह ॥ प्स्भ्_1.41:12
भवे भवे नातिभवे

1.43

* अत्र भवे भवे इति वीप्सा ॥ प्स्भ्_1.42:1
* भव इति विद्याकलापशूनां समस्तानां ग्रहणम् ॥ प्स्भ्_1.42:2
* भवः कस्मात् ॥ प्स्भ्_1.42:3
* भवनभावनकृतत्वात् ॥ प्स्भ्_1.42:4
* यस्माद् देवमनुष्यतिर्यक्त्वेन भावयति च तानीश्वरः ॥ प्स्भ्_1.42:5
* धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्याणां भवनभावनत्वाद् भवः ॥ प्स्भ्_1.42:6
* तस्य भूयोभूय उत्पत्त्यनुग्रहतिरोभावं च दृष्ट्वा ॥ प्स्भ्_1.42:7
* वीप्सायाः उत्पत्ताव् उत्पत्ताव् अनुग्रहेऽनुग्रहे तिरोभावे तिरोभावे चेत्य् अर्थः ॥ प्स्भ्_1.42:8
* नातिभवे इति ॥ प्स्भ्_1.42:9
* नकारः कार्यत्वं प्रतिषेधयति ॥ प्स्भ्_1.42:10
* अतिशयितभवेषु मा भवामीत्यर्थः ॥ प्स्भ्_1.42:11
* आह किं भवाद् वियोगमात्रम् एवैकं मृगयते ॥ प्स्भ्_1.42:12
* तद् उच्यते न ॥ प्स्भ्_1.42:13
* यस्माद् आह ॥ प्स्भ्_1.42:14
भजस्व माम्

1.44

* अत्र भज इत्यनुग्रहे ॥ प्स्भ्_1.43:1
* स्व इति कारणापदेशे ॥ प्स्भ्_1.43:2
* माम् इत्यात्मापदेशे ॥ प्स्भ्_1.43:3
* भजस्व मां त्रायस्व माम् अनुगृह्णीष्व मामित्यर्थः ॥ प्स्भ्_1.43:4
* आह कम् आमन्त्रयते ॥ प्स्भ्_1.43:5
* कं प्रपद्यते ॥ प्स्भ्_1.43:6
* कस्मै नमस्कारं करोति ॥ प्स्भ्_1.43:7
* कस् तं पुरुषं भवान् मोक्षयति ॥ प्स्भ्_1.43:8
* कं वा ब्रवीति भजस्व मामिति ॥ प्स्भ्_1.43:9
* तद् उच्यते यस्माद् आह ॥ प्स्भ्_1.43:10
भवोद्भवः

मूल पाठ: Pāśupatasūtra with Kauṇḍinya's Pañcārthabhāṣya · Edition: R. Anantakrishna Shastri Trivandrum: The Oriental Manuscripts Library of the University of Travancore, 1940 (Trivandrum Sanskrit Series ; 143) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc