भाषा

ENहिગુ
ग्रंथ पाठ

परिभाषेन्दुशेखर · श्लोक 81-100

81

अस्याश्च"यतोनावः"इति सूत्रे ऽनौप्रतिषेधो ज्ञापकः। ऽनाव्यम्ऽ इत्यत्रादिर्नकारो न स्वरयोग्यः, यश्चाकारस्तद्योग्यो नासावादिरिति स प्रतिषेधो ऽनर्थकः।
न चादिरेव मकार उदात्तगुणविशिष्टान्तरतमाज्रूपो ऽस्त्विति वाच्यम्, तथा सति निमित्तभूतद्वयच्कत्वस्यविनाशादुपजीव्यविरोधेनाद्युदात्तत्वाप्राप्तेः, इत्यन्यत्र विस्तरः। स्पष्टा चेयम्"समासस्य"इति सूत्रे भाष्ये॥
ननु"पूरण गुण"इति निषेधस्तव्यत्यपि स्यात्"दिव औत्"इतियौत्वं दिवेः क्विप्यपि स्यात्, तथा"यतो ऽनावः"इति स्वरो ण्यत्यपि स्यात्"ऋदृशो ऽङि गुणः"इति चङ्यपि स्यात्; अत आह --
निरनुबन्धक ग्रहणे न सानुबन्धकस्य

82

तदनुबन्धक ग्रहणे नातदनुबन्धकस्य

83

"वामदेवाड्डयड्ड्यौ"इति सूत्रे ड्यड्ड्तोर्डित्वमनयोरज्ञापकम्। तद्धि"ययतोश्चातदर्थे"
इत्यत्र तयोरग्रहणार्थम्। नञः परस्य ययदन्तस्योत्तरपदस्यान्त उदात्त इति तदर्थः। एवं चावामदेव्ये ऽव्यय
पूर्वपदप्रकृतिस्वर एव भवति।
तन्मात्रानुबन्धकग्रहणे स चान्यश्चानुबन्धो यस्य तद्ग्रहणं नेत्यन्त्यार्थः। एते च प्रत्ययाप्रत्ययसाधारणे, दिव औत्"इत्यादौ सञ्चारितत्वात्।
वर्णग्पहणे चानयोरप्रवृत्तिरिति स्पष्टम्"औङ आपः"इत्यत्र भाष्ये। येनानुबन्धेन सानुबन्धकत्वं द्व्यनुबन्धकत्वादि वा तदनुच्चारणे एवैषा, धर्मिग्राहकमानात्। तेन"जश्शसोः"इत्यत्र नैषेति निरनुबन्धकत्वात् तद्धितशत एवात्र ग्रहणं स्यादिति न शङ्क्यम्।
एवमन्त्यान्यतरानुबन्धोच्चारणे एव। तेन"वनो रच"इत्यादौ ङ्वनिप्क्वनिपोरग्रहणसिद्धिः।
एकानुबन्धकग्रहणे सम्भवतीति त्वर्थो न भाष्यादिसम्मत इत्यन्यत्र विस्तरः॥
ननु ऽकुटीरःऽ इत्यादौ स्वार्थिकत्वात् स्वार्थिकानां प्रकृतितो लिङ्गवतनानुवृत्तेर्न्यायप्राप्तत्वात् पुंस्त्वानुपपत्तिः, ऽअप्कल्पम्ऽ इत्यत्र नपंसकैकवचनयोरनुपपत्तिश्चेत्यत आह --
क्वचित् स्वार्थिकाः प्रकृतितो लिङ्गवतनान्यतिवर्तन्ते

84

"णचः स्त्रियाम्"इति सूत्रे स्त्रियामित्युक्तिरस्या ज्ञापिका। अन्यथा"कर्मव्यतिहारे णच् स्त्रियाम्"इति स्त्रियामेव विधानात् किं तेन? स्पष्टा चेयं बहुज्विधायके भाष्ये॥
ननु ऽसुपथी नगरीऽ इति"युवोरनाकौ"इति सूत्रभाष्योदाहृते"इनः स्त्रियाम्"इति कप् स्यात् अत आह --
समासान्तविधिरनित्यः

85

"प्रतेरंश्वादयस्तत्पुरुषे"इत्यन्तोदात्तत्वायांश्वादिषु राजमे शब्दपाठो ऽस्या ज्ञापकः। अन्यथा टचंवान्तोदात्तत्वे सिद्धे किं तेन?"द्वित्रिभ्यां पाद्दन्मूर्द्धसु"इति स्वर विधायके भाष्ये स्पष्टम्॥
ननु ऽशतानिऽ इत्यादौ नुमि कृते षट्संज्ञा प्राप्नोति, ततश्च लुक् स्यात्, तथा ऽउपादास्तऽ
इत्यत्रात्वे कृते"स्थघ्वोरिच्च"इतीत्वं प्राप्नोतीत्यत आह --
सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य

86

सन्निपातःउद्वयोः सम्बन्धः, तन्निमित्तो विधिस्तं सन्निपातं यो विहन्ति, तस्यानिमित्तम्।
उपजीव्यविरोधस्यायुक्तत्वमिति न्यायमूलैषा।
अत एवात्र सन्निपातशब्देन न पूर्वपरयोः सम्बन्ध एव, किन्तु विशेष्यविशेषण सन्निपातो ऽपि गृह्यते। अत एव ऽग्रामणि कुलम्ऽ इत्यादौ नपुंसकह्रस्वत्वे ऽपि"पिति कृति"इति तुक् न। प्रातिपदिकाजन्तत्वसन्निपातेन जातस्य ह्रस्वस्य तदविधायकत्वात्। तुक्यजन्तत्वविघातः स्पष्ट एव।
न चार्थाश्रयत्वेन ह्रस्वस्य बहिरङ्गतयासिद्धत्वम्, अर्थकृतबहिरङ्गत्वानाश्रयणस्योक्तत्वात्। किञ्च"षत्वतुकोरसिद्धः"इत्येतद्बलात् कृतितुग्ग्रहणाच्च तुग्विधौ बहिरङ्गपरिभाषाया अप्रवृत्तेः।
सर्वविधसन्निपातग्रहणादेव ऽवर्णाश्रयः प्रत्ययो वर्णविचालस्यानिमित्तं स्यात्ऽ इत्येतत्परिभाषा
दोषनिरूपणावसरे वार्तिककृतोक्तम्, -- ऽन हि प्रत्ययः पूर्व पर सन्निपात निमित्तकः, स एव च सन्निपात शब्देन गृह्यत इति मत्वा न प्रत्ययः सन्निपातनिमित्तकः इति शङ्कायां तदभ्युपेत्यैवाङ्गसंज्ञा तर्ह्यनिमित्तं स्यादित्येकदेशिनोक्तम्ऽ इति न तद्भाष्यविरोधः।
किञ्चैवं ऽशैवः, गार्गायः, वैनतेयःऽ इत्यादावप्यङ्गसंज्ञाया लोपनिमित्तत्वानापत्या वर्णाश्रय इत्यस्य वैयर्थयम्।
ऽग्रामणि कुलम्ऽ ऽग्रामणिपुत्रःऽ इत्यादावुत्तरपदनिमित्तके ह्रस्वत्वे यथाकथञ्चिद् बहिरङ्गपरिभाषयापि वारणं सम्भवतीति"कृन्मेजन्तः"इत्यत्र"ह्रस्वस्य पिति"इति सूत्रेचैकदेशिना तया परिभाषाया तुग्
वारितो भाष्ये।
अत एव परिभाषाफलत्वेनेदमुक्तम्"कृन्मेजन्तः"इति सूत्रे वार्तिककृतेति केचित्।
सन्निपातलक्षणविधित्वमस्या लिङ्गम्। स्वप्रवृत्तेः प्राक् स्वनिमित्तभूतो यः सन्निपातः, तद्विघातस्य स्वातिरिक्तशास्त्रस्य स्वयमनिमित्तमिति फलति।
नन्वेवम् ऽरामायऽ इत्यादौ"सुपि च"इति दीर्घानापत्तिः, अदन्ताङ्गसन्निपातेन जातस्य यादेशस्य तद्विघातकत्वात्।
न च यञादित्वसापेक्षदीर्घस्य बहिरङ्गतयासिद्धत्वान्नात्र सन्निपातविघात इति वाच्यम्, आरोपितासिद्धत्वे ऽपि वस्तुतस्तद्विघातस्य जायमानत्वेनैतत्प्रवृत्तेः।
किञ्चान्तरङ्गे कर्तव्ये बहिरङ्गस्यासिद्धत्वे ऽपि तत्र कृते तस्यासिद्धत्वे मानाभाः।
किञ्चातिदेशिकसन्निपातविघाताभावमादायैतदप्रवृत्तौ ऽगौरिऽ इत्यादौ सम्बुद्धिलोपे ऽपि स्थानिवत्वेन ह्रस्वनिमित्तसन्निपातविघाताभावात्, तत्रैतस्यातिव्याप्तिपर"कृन्मेजन्तः"इति सूत्रस्थभाष्यासङ्गतिः।
सन्निपातस्याशास्त्रीयत्वान्नात्र स्थानिवत्वमिति चेत्, तर्ह्यत्रासिद्धत्वमपि कथमिति विभाव्य, ऽअशास्त्रीये ऽसिद्धत्वाप्रवृत्तेःऽ"ईदूदेत्"इति सूत्रे कैयटेन स्पष्टमुक्तत्वात्।
एवञ्च पूर्वत्रासिद्धीये ऽपि कार्य एतत्परिभाषाप्रवृत्तिर्भवत्येवेति चेत्, न; ऽकष्टायऽ इति निर्देशेनैतस्या अनित्यत्वात्।
ययोः सन्निपातस्य विघातकं शास्त्रम्, तयोः सन्निपातनिमित्तकविधावुपादानमपेक्षितमिति तु नाग्रहः। अत एव ऽदाक्षिःऽ इत्यत्राकारान्तप्रकृतीञ्सन्निपातनिमित्ताङ्गसंज्ञानया परिभाषयाल्लोपस्य निमित्तं न स्यादित्याशङ्क्यानित्यत्वेन समाहितम्,"कृन्मेजन्तः"इति सूत्रे भाष्ये; ऽन ह्यङ्गसंज्ञायामदन्तस्याङ्गसंज्ञाऽ इत्युक्तमस्ति।
न च ऽकुम्भकारेभ्यः, आधयेऽ इत्यादावव्ययसंज्ञाया अनया परिभाषया वारणपरभाष्यासङ्ग
तिः। अनया परिभाषया लुग् माभूत्, अव्ययत्वं तु स्यादेव। लुका हि तदीयसन्निपातस्य विघातः, नाव्ययसंज्ञया। संज्ञाफलं त्वकच् स्यादिति वाच्यम्, एतदुदाहरणपरभाष्यप्रामाण्येन साक्षात्परम्परया वा स्वनिमित्तसन्निपातविघातकस्य स्वयमनिमित्यमित्यर्थेनादोषात्। एतेनात्राकच् स्यादित्यपास्तम्।
न च कार्यकालपक्षे लुगेकवाक्यतापन्नसंज्ञाबाधे ऽप्यकजेकवाक्यतापन्नास्यादिति वाच्यम्, अन्तरङ्गायां तदेकवाक्यतापन्नसंज्ञायां बहिरङ्गगुणादेरसिद्धत्वात्, लुगेकवाक्यतापन्ना तु न गुणादितो ऽन्तरङ्गा, उभयोरपि शब्दतः सुबाश्रयत्वात्।
"नयासयोः"इति निर्देशाश्चैषानित्या। तेन नातिप्रसङ्गः। स्पष्टा चेयं"कृन्मेजन्तः"इति सूत्रे भाष्ये। अस्या अनित्यत्वे फलानि भाष्ये परिगणितानि - वर्णाश्रयः, प्रत्ययः वर्णविचालस्यानिमित्तम्,
ऽदाक्षिःऽ। आत्वं पुग्विधेः - क्रापयति। पुघ्रस्वस्य - अदीतपत्। त्यदाद्यकारष्टाब्विधेः - या सेति। इड्विधिराकारलोपस्य - पपिवान्।"ह्रस्वनुड्भ्यां मतुप्" "अन्तोदात्तादुत्तरपदात्"इति मतुब्विभक्त्युदात्तत्वं पूर्वनिघातस्य - अग्निमान्, परमवाचा। नदीह्रस्वत्वं सम्बुद्धिलोपस्य - ऽनदि, कुमारिऽ इत्यादि। यादेशो दीर्घत्वस्य -
कष्टाय। इतो ऽन्यत्र प्रवृत्तिरेव, ऽदोषाः खल्वपि साकल्येन परिगण्ताःऽ इति भाष्योक्तेरन्यत्रविस्तरः॥
ननु ऽपञ्चेन्द्राण्यो देवता अस्य पञ्चेन्द्रःऽ इत्यादौ"द्विगोर्लुक्"इत्यणो लुकि"लुक्स्तद्धित" इति स्त्रीप्रत्ययलुक्यानुकः श्रवणापत्तिः, अत आह -
सन्नियोगशिष्टानामन्यतरापाय उभयोरप्यपायः

87

अत्र च"बिल्वकादिभ्यश्छस्य लुक्"इति सूत्रस्थं छग्रहणं ज्ञापकम्। तद्धि छमात्रस्य लुग्बोधन द्वारा कुको ऽनिवृत्तिर्यथा स्यादित्यर्थम्। कृत कुगागमानडाद्यन्तर्गता बिल्वादय एव तत्र निर्दिष्टा बिल्वकादिशब्देन।
नचैवमपि छग्रहणं व्यर्थम्, कृत कुगागमानुवादसामर्थ्यादेव तदनिवृत्तिसिद्धेः, अन्यथा"बिल्वादिभ्यः"इत्येव वदेत्। लक्षणप्रतिपदोक्तपरिभाषया बिल्वादिपुरस्कारेण विहितप्रत्ययस्यैव लुग्विधानान्नातिप्रसङ्ग इति वाच्यम्, ततो ऽपि प्रतिपदोक्तत्वेन"बिल्वादिभ्योण्"इति विकाराद्यर्थस्य लुगापत्तिवारणार्थं कुगनुवादचारितार्थ्यात्। समुच्चयार्थकचशब्दयोगे तु विधेययोरेककालिकत्वैकदेशत्वनियमान्न्यायसिद्धपीयम्।
यत्तु"णाविष्टवत्"इत्यनेन पुंवत्वविधानमेतदनित्यत्वज्ञापनार्थम्। अन्यथा ऽएतयतिऽ इत्यादौ
टिलोपेनैव ङीपि निवृत्ते ऽसन्नियोगशिष्टऽ परिभाषया तस्यापि निवृत्या ऽएतयतिऽ इत्यादिसिद्धौ पुंवत्ववैयर्थ्यं स्पष्टमेवेति"टेः"इति सूत्रे कैयटः, तत्, न; ऽइडबिडमाचष्ट ऐडबिडयतिऽ इत्यादौ पुंवत्वस्यावश्यकत्वात्। ऽऐनेयः श्यैनेयःऽ इत्यादि तु स्थानिवत्वेन सिद्धमित्यन्यत्र विस्तरः॥
ननु ऽचुरा शीलमस्याः सा चौरीऽइत्यादौ शीलम्"छत्रादिभ्यो णः"इति णे ङीप् न प्राप्नोतीत्यत
आह --
ताच्छीलिके णे ऽण्कृतानि भवन्ति

88

"अन्"इत्यणि विहितप्रकृतिभावबाधनार्थम्"कार्मस्ताच्छील्ये"इति निपातनमस्या ज्ञापकम्।
ताच्छीलिकणान्तात्"अणोद्व्यचः"इति फिञ्सिद्धिरप्यस्याः प्रयोजनमिति नव्याः। ताच्छीलिक इत्युक्तेः"तदस्यां
प्रहरणम्"इति णे ऽदाण्डाऽ इत्येव।"कार्मः"इति सूत्रे भाष्ये स्पष्टा॥
ननु"कसपरिमृड्भ्याम्"इत्यादौ"मृजेर्वृद्धिः"दुरिवारा, इत्यत आह --
धातोः कार्यमुच्यमानं तत्प्रत्यये भवति

89

भ्रौणहत्ये तत्वनिपातनमस्या ज्ञापकम्।
ऽधातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम्ऽ इति पाठस्तु ऽप्रसृड्भिःऽ इत्यादौ"अनुदात्तस्य चर्दुपधस्य"इत्यामापादनेन भाष्ये दूषितः।
यत्कार्यं प्रत्ययनिमित्तं तत्रेयं व्यवस्थापिका। तेन पदान्तत्वनिबन्धनम्"नशेर्वा"इति कुत्वम् ऽप्रणग्भ्याम्ऽ इत्यादौ भवत्येव। इयङादिविधौ तु नैषा,"न भूसुधियोः"इति निषेधेनानित्यत्वात्। "मृजेर्वृद्धिः"इत्यत्र भाष्ये स्पष्टा॥
ननु ऽसर्वके, इच्चकैःऽ इत्यादौ सर्वनाव्ययसंज्ञे न स्याताम्, अत आह --
तन्मध्यपतितस्तद्ग्रहणेन गृह्यते

90

"नेदमदसोरकोः"इति सूत्रे ऽअकोःऽ इति निषेधो ऽस्या ज्ञापकः। ऽतदेकदेशभूतं तद्ग्रहणेन गृह्यतेऽ इति"येन विधिः"इति सूत्रे भाष्ये पाठः॥
ननु"गातिस्थाघुपाभूभ्यः"इति सिचो लुक् ऽअपासीतऽ इत्यादौ पातेरपि स्यात्, अत आह --
लुग्विकरणालुग्विकरणयोरलुग्विकरणस्य

91

अस्याञ्च ज्ञापकः"स्वरति सूति"इति सूत्रे सूङिति वक्तव्ये सूतिसूयत्योः पृथङ्निर्देश इति
कैयटः। तन्न, साहचर्यादलुग्विकरणस्यैव ग्रहणे प्राप्ते पृथङ्निर्देशस्य तज्ज्ञापकत्वासम्भवात्।
ध्वनिता चेयं परिभाषा"यस्य विभाषा"इत्यत्र भाष्ये। तत्र हि ऽविदितःऽ इति प्रयोगे निषेधमाशङ्क्य ऽयदुपादेर्विभाषा, तदुपादेर्निषेधः"विभाषा गमहनविदविशाम्"इति सूत्रे ऽशविकरणस्य ग्पहणं लुग्विकरणश्चायम्ऽ इत्युक्तम्। तत्र चो हेतौ, यतो ऽयंलुग्विकरणः, अतो विशिसाहचर्याच्छविकरणस्य ग्रहणम्, न तु हनिसाहचर्यादस्यापि, एतत्परिभाषाविरोधादिति तदाशयः।
अत एव परिभाषायां लुग्विकरणस्यैवेति नोक्तम्। कण्ठतस्तु भाष्ये एषा क्वापि न पठिता। ऽगातिस्थाऽ इति सूत्रे ऽपिबतेर्ग्रहणम् कर्तव्यम्ऽ इति वार्तिककृता ऽसर्वत्रैव पाग्रहणे ऽलुग्विकरणस्य ग्पहणम्ऽ इति भाष्यकृता चोक्तम्। "स्वरति सूति"इति सूत्रे कैयटेन च स्पष्टमुक्ता॥
ननु ऽप्रजिघाययिषतिऽ इत्यादौ"हेरचङि"इति विधीयमानं कुत्वं न स्यात् अत आह --
प्रकृतिग्रहणे ण्यधिकस्यापि ग्रहणम्

92

अचङीति प्रतिषेध एवास्या ज्ञापकः। इयं च कुत्व विषयैव।"हेरचङि"इति सूत्रे भाष्ये
स्पष्टेयम्॥
ननु ऽयुष्मभ्यम्ऽ इत्यादौ ऽभ्यसःऽ इत्यत्र भ्यमिति च्छेदे भ्यसो भ्यमि कृते ऽन्त्यलोपे एत्वं स्यात्, अत आह --
अङ्ग वृत्ते पुनर्वृत्तावविधिः

93

अङ्गे ऽङ्गाधिकारे वृत्तमुनिष्पन्नं यत्कार्यम्, तस्मिन् सति पुनरन्यस्याङ्गकार्यस्य वृत्तौ प्रवृत्तावविधानं भवतीत्यर्थः।
एषा च"ज्यादादीयसः"इत्याद्विधानेन ज्ञापिता। अन्यथेकारलोपेन"अकृसार्व"इति दीर्घेण च सिद्धे तद्वैयर्थ्यं स्पष्टमेव। अत एव"ज्ञाजनोर्जा" "ज्यादादीयसः"इति सूत्रयोरेनां ज्ञापयित्वा किं प्रयोजनमिति प्रश्ने पिबतेर्गुणप्रतिषेध उक्तः, स न वक्तव्यः, इत्येव प्रयोजनमुक्तम्, न तु लक्ष्यसिद्धिरूपम्। तदुक्तम्"भ्यसो भ्यम्"इत्यत्र ऽअभ्यम्ऽ इति च्छेदः,"शेषे लोपः"चान्त्यलोप एव"अतो गुणे"इति पररूपेण सिद्धम् ऽयुष्मभ्यम्ऽ इत्यन्यत्र निरूपितम्।
एवञ्च सूत्रद्वयस्थमेतज्ज्ञापनपरं भाष्यम्"भ्यसो भ्यम्"इति सूत्रस्थं च भाष्यमेकदेश्युक्तिरित्याहुः॥
यत्तु ऽओरोत्ऽ इति वाच्ये"ओर्गुणः"इति गुणग्रहणात् --
संज्ञापूर्वकविधेरनित्यत्वम्

94

इदञ्च विधेयकोटौ संज्ञापूर्वकत्व एव। ऽतेन स्वायम्भुवम्ऽ इत्यादि सिद्धम्॥
तथा निलोडित्येव सिद्धे आनिग्रहणात् --
आगमशास्त्रमनित्यम्

95

तेन सागरं तर्त्तुकामस्येत्यादि सिद्धम्॥
तथा तनादिपाठादेव सिद्धे"तनादिकृञ्भ्यः"इति सूत्रे कृञ् ग्रहणात् --
गणकार्यमनित्यम्

96

तेन ऽन विश्वसेदविश्वस्तम्ऽ इत्यादि सिद्धम्॥
तथा चक्षिङो ङित्करणात् --
अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्

97

तेन ऽस्फायन्निर्मोकःऽ इत्यादि सिद्धम्॥
तथा विनार्थ नञा समासेन"अनुदात्तम् पदमनेकम्"इत्येव सिद्धे वर्जग्रहणात् --
नञ्घटितमनित्यम्

98

तेन"नेयङुवङ्"इत्यस्यानित्यत्वात् ऽहे सुभ्रुऽ इति सिद्धमिति, तत्, न; भाष्ये ऽदर्शनात्, भाष्यानुक्तज्ञापितार्थस्य साधुतानियामकत्वे मानाभावात्, भाष्याविचारितप्रयोजनानां सौत्राक्षराणां पारायणादावदृष्टमात्रार्थकत्वकल्पनाया एवौचित्यात्।
किञ्च ज्ञापिते ऽप्यानीत्यस्य न सार्थक्यम्, आडागमशून्यप्रयोगस्याप्रसिद्धेः।
आड्ग्रहणं तु लोड्ग्रहणवदिति बोध्यम्। अत एव"घोर्लोपो लिटि वा"इत् सूत्रे वेति प्रत्याख्यातम्। लोपे ऽप्याट्पक्षे आटः श्रवणं भविष्यति -- ऽदधात्ऽ इति, अटि ऽदधत्ऽ इति। आगमशास्त्रस्यानित्यत्वे त्वाट्यसति ऽदधात्ऽ इत्यसिद्ध्या वाग्रहणस्यावश्यकत्वेन तत्प्रत्याख्यानासङ्गतिः स्पष्टैव।
एतेन यत्कैयटेन केचिदित्यादिनास्यैव वाग्रहणस्य तदनित्यत्वत्रापकतोक्ता, सापि चिन्त्या,प्रत्याख्यानपरभाष्यविरोधात्, तनादि सूत्रे कृञ्ग्रहणस्य भाष्ये प्रत्याख्यानाच्च। चक्षिङो ङकारस्यान्तेदित्वाभावसम्पादनेन चारितार्थ्याच्च॥
एवमेव --
आतिदेशिकमनित्यम्

99

सर्वविधिभ्यो लोपविधिरिड्विधिश्च बलवान्

100

इत्यादि भाष्यानुक्तं बोध्यम्। ऽस्वायमभुवम्ऽ इत्यादि लोके ऽसाध्वेव, इत्यन्यत्र विस्तरः॥
यदपि -- ननु हन्तेरयङ्लुक्याशीर्लिङि वधादेशो न स्यात्, अत आह --
प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम्

मूल पाठ: Paribhāṣenduśekhara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc