भाषा

ENहिગુ
ग्रंथ पाठ

परिभाषेन्दुशेखर · श्लोक 61-80

61

तेनौष्ठादिषु पञ्चसु"असंयोगोपधात्"इति प्रतिषेध एव बाध्यते, न तु सहनञ्विद्यमानलक्षण इति
"नासिकोदर"इत्य्त्र भाष्ये स्पष्टम्। पूर्वोपस्थित बाधेन नैराकाङ्क्ष्यमस्या बीजम्॥
ननु"वा छन्दसि"इत्यनेन"सेर्ह्यपिच्च"इत्यनन्तरस्यापित्वस्येव हेरपि विकलपः स्यात्। तथा"नोट"इति निषेधो ऽनन्तरहलन्तलक्षणाया इव सिचिवृद्धिमृजिवृद्धयोरपि स्यात्, अत उक्तन्यायमूलकमेवाह :-
अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति

62

अत एव"संख्याव्ययादेः"इति ङीब्ग्रहणं चरितार्थम्। तद्ध्यनन्तस्यङीषोविध्यभावाय।"न क्तिचि"इति सूत्रे दीर्घग्रहणञ्च -- चरितार्थम्। तद्ध्यनन्तरस्यानुदात्तोपदेशेत्यस्यैव निषेधाभावाय।
मध्ये ऽपवादन्ययापेक्षयानन्तरस्येति न्यायः प्रबल इति"अष्टाभ्यः"इति सूत्रे कैयटः।
प्रत्यासत्तिमूलको ऽयम्। लक्ष्यानुरोधात्त व्यवस्थेत्यपि पक्षान्तरम्। तत्र तत्र क्वचित् स्वरितत्वप्रतिज्ञानात्, सामर्थ्येन वा बाध्यते ऽयं न्यायः। यथा"टिडिढा"इति सूत्रेण डापाव्यवहितस्यापि ङीपो विधिः।"न षट्"इत्यादिना द्वयोरपि टाब्ङीपोः प्रतिषेधः। इयञ्च"शि सर्वनामस्थानम्"इत्यादौ भाष्ये स्पष्टेत्यन्यत्र विस्तरः॥
ननु दधतीत्यादावन्तरङ्गत्वादन्तादेशे ऽल्विधौ, स्थानिवत्वाभावादादेशो न स्यादिति तद्वैयर्थ्यापत्तिः, अत आह :-
पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः

63

लक्षणैकचक्षुषको ह्यपवादविषयं पर्यालोच्य तद्विषयत्वाभावनिष्चय उत्सर्गेण तत्तल्लक्ष्यं संस्करोति। अन्यथा विकल्पापत्तिरित्यर्थः।
अभिनिविशन्त इत्यस्य बुद्ध्यारूढा भवन्तीत्यर्थः। ऽअपवादो यद्यन्यत्र चरितार्थःऽ इति न्यायस्य तु नात्र प्रप्तिः, अन्तादेशप्राप्तिविषये चारितार्थ्याभावात्॥
लक्ष्यैकचक्षुष्कस्तु तच्छास्त्र पर्यालोचनं विनाप्यपवादविषयं परित्यज्योत्सर्गेण लक्ष्यं संस्करोति,
तस्यापि शास्त्रप्रक्रियास्मरणपूर्वकप्रयोग एव धर्मोत्पत्तेः, तदाह :-
प्रकल्प्य चापवादविषयं तत उत्सर्गो ऽभिनिविशन्ते

64

तत इत्यस्यापवादशास्त्रपर्यालोचनात् प्रागपीत्यर्थः। प्रकल्प्येत्यस्य परित्यज्येत्यर्थः। अत एव प्रातिपदिकार्थ सूत्रे भाष्ये"इदं द्वयप्युक्त्वा न कदाचित्तावदुत्सर्गो भवति, अपवादं तावत्प्रतीक्षते"इत्यर्थकमुक्तम्॥
एतन्मूलकमेव नवीनाः पठन्ति :-
उपसञ्जनिष्यमाणनिमित्तोप्यपवाद उपसञ्जातनिमित्तमप्युत्सर्गं बाधत इति

65

यत्त्वभ्यस्तसंज्ञासूत्रे कैयटेन प्रकल्प्य चेति प्रतीकमुपादाय यथा ऽन सम्प्रसारण इति परस्य यणः पूर्वं सम्प्रसारणम्, पूर्वस्य तु तन्निमित्तकः प्रतिषेधःऽ इत्युक्तम्, तत्तु तत उत्सर्ग इत्याद्यक्षरार्थाननुगुणम्। यत्त्वपवादवाक्यार्थं विना नोत्सर्गवाक्यार्थ इति, तन्न, ऽअभिनिविशते ऽपवादविषयम्ऽ इत्यादिपदस्वारस्यभङ्गापत्तेः।
पदजन्यपदार्थोपस्थतौ वाक्यार्थबोधाभावे कारणभावाच्च।
यत्र त्वपवादो निषिद्धः, तत्रापवादविषये ऽप्युत्सर्गः प्रवर्तत एव। यथा ऽवृक्षौऽ इत्यत्र"नादिचि"इति पूर्वसवर्णदीर्घनिषेधादप्रवर्तमानस्य वृद्धिबाधकत्वाभावात् वृद्धिः प्रवर्तते। अत एव"तौ सत्ऽ इत्यादि सङ्गच्छते। अत एव निर्देशाद् भ्रष्टावसरन्यायस्यात्र शास्त्रेणानाश्रयणम्। ध्वनितं चेदम्"इकोगुण"इति सूत्रे भाष्य इति भाष्यप्रदीपोद्योते निरूपितम्।
अत्र ऽदेवदत्तस्य हन्तरि हते देवदत्तस्योन्मज्जनं नऽ इति न्यायस्य विषय एव नास्ति। हते
देवदत्त उन्मज्जनं न देवदत्तहननोद्यतस्य, हनने तु भवत्येवोन्मज्जनम्। प्रकृते ऽपि न पूर्वसवर्णदीर्घेण वृद्धेर्हननम्,
किन्तु हननोद्यमसजातीयं प्रसक्ति मात्रम्, प्रसक्तस्यैव निषेधात्।
प्रतिपदोक्तत्वमपि निरवकाशत्वे सत्येव बाधप्रयोजकम्। स्पष्टञ्चदम्"शेषाद्विभाषा"इति सूत्रे भाष्ये। तत्र हि ऽशेषग्रहणमनर्थकम्, ये प्रतिपदं विधीयन्ते ते बाधका भविष्यन्तिऽ इत्याशङ्क्य, ऽअनवकाशा हि विधयो बाधका भवन्ति समासान्ताश्च कबभावे सावकाशाःऽ इत्युक्तम्।
क्वचिदनवकाशत्वाभावे ऽपि परनित्यादिसमवधाने शीघ्रोपस्थितिकत्वेन पूर्वप्रवृत्तिप्रयजकं बलवत्वं प्रतिपदविधित्वेनापि, परनित्यान्तरङ्गप्रतिपदविधयो विरोधिसन्निपाते तेषां मिथः परबलीयस्त्वमिति"प्रत्ययोत्तरपदयोश्च"इति सूत्रे कैयटेन पाठात्।
अत एव ऽरमेऽ इत्यादौप्रतिपदोक्तत्वात् पूर्वमेत्व आकारप्रश्लेषाद्धल्ङ्यादिलोपो न प्राप्नोतीत्याशङ्क्य"एङ्ह्रस्वात्"इति लोपेन समाहितम्॥
ननु ऽअयजे इन्दिरम्ऽ इत्यादावन्तरङ्गस्यापि गुणस्यापवादेन सवर्ण दीर्घेम बाधः स्यात्, अत आह :-
अपवादो यद्यन्यत्र चरितार्थस्तर्ह्यन्तरङ्गेण बाध्यते

66

निरवकाशत्वरूपस्य बाधकत्वबीजस्याभावात्। एवञ्च प्रकृते ऽन्तरङ्गेण गुणेन सवर्णदीर्घः समानाश्रये चरितार्थो यण्गुणयोरपवादो ऽपि बाध्यते। पूर्वोपस्थितिनिमित्तत्वरूपान्तरङ्गत्वविषय इदम्।
यत्त्वागमादेशयोर्न बाध्यबाधकभावः, भिन्नफलत्वात्, अत एव ऽब्राम्हणेभ्यो दधि दीयताम्, कम्बलः कौण्डिन्यायऽ इत्यादौ कम्बलदानेन न दधिदानबाध इति"छ्वोः"इति सूत्रे कैयटः। तन्न, ऽअपवादो नुग्दीर्घत्वस्यऽ इति"दीर्धो ऽकितः"इति सूत्रभाष्यविरोधात्॥
ननु ऽअजीगणत्ऽ इत्यादौ गणेरीत्वं निरवकाशत्वाद्धलादिःशेषं बाधेत, तत्राह :-
अभ्यासविकारेषु बाध्यबाधकभावो नास्ति

67

"दीर्घो ऽकितः"इत्यकिद्ग्रहणमस्या ज्ञापकम्। अन्यथा ऽयंययम्यतेऽ इत्यत्र नुकि कृते ऽनजन्तत्वाद् दीर्घाप्राप्त्या तद्वैयर्थ्यं स्पष्टमेव।
इयं परान्तरङ्गादिबाधकानामप्यबाधकत्वबोधिका। तेन ऽअचीकरत्ऽ ऽमीमांसतेऽ इत्यादि सिद्धम्।
आद्ये सन्वद्भावस्य परत्वद्दीर्घेण बाधः प्राप्नोति। अन्त्ये"मान्बध"इति दीर्घेणान्तरङ्गत्वादित्यस्य बाधः प्राप्तः।
यत्तु यत्रैकैकप्रवृत्युत्तरमपि सर्वेषां प्रवृत्तिस्तत्रैवेदमित्यतः"एक"इति सूत्रे कैयटः, तन्न ; नुकि कृते इत्वाप्राप्त्या"गुणो यङ्लुकोः"इति सूत्रस्थभाष्योक्ततदुदाहरणासङ्गतेश्चेत्यन्यत्र विस्तरः॥
ननु तच्छोलादितृन्विषये ण्वुलपि स्यात्। न च तृन्नपवादः, असरूपापवादस्य विकल्पेन बाधकत्वात्। अत आह :-
ताच्छीलिकेषु वासरूपविधिर्नास्ति

68

ण्वुलि सिद्धे"निन्दहिंस"आदिसूत्रेणैकाज्भ्यो वुञ्विधानमत्र ज्ञापकम्। तत्र ण्वुल्वुञोः स्वरे विशेषाभावात्।
ताच्छीलिकेष्विति विषयसप्तमी। तेन ताच्छीलिकैरताच्छीलिकैश्च वासरूपविधिर्नेति बोध्यम्।
नन्वेवम् ऽकम्रा, कमनाऽ इत्याद्यसिद्धिः"नमिकम्पि"इति रेण"अनुदात्तेतश्च हलादेः"इति युचो बाधादिति चेत्, न ;"सूददीपदीक्षश्च"इत्यनेन दीपेर्युज्निषेधेनोक्तार्थस्यानित्यत्वात्॥
नन्वेवम् ऽहसितं छात्रस्य हसनम्ऽ इत्यादौ घञ्, ऽइच्छति भोक्तुम्ऽ इत्यत्र लिङ्लोटौ,
ऽईषत्पानः सोमो भवताऽ इत्यत्र खल् प्राप्नोतीत्यत आह :-
क्तल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्ति

69

इदञ्च वासरूपविधेरनित्यत्वात् सिद्धम्। तदनित्यत्वे ज्ञपकं च ऽअर्हे कृत्यतृचश्चऽ इति।
तत्र हि चकारसमुच्चितलिङा कृत्यतृचोर्बाधो मा भूदिति कृत्यतृज्ग्रहणं क्रियत इत्यन्यत्र विस्तरः। "वासरूप"सूत्रे भाष्ये स्पष्टा॥
ननु"श्वः पक्ता"इत्यत्र वासरूपविधिना लॄडपि प्राप्नोति, कृते आदेशे वैरूप्यादत आह :-
लादेशेषु वासरूपविधिर्नास्ति

70

आदेशकृतवैरूप्यवत्सु लकारेषु स नास्तीत्यर्थः। अत्र च"हशश्वतोर्लङ्च"इति लङ् विधानं ज्ञापकम्। अन्यथा"परोक्षे लिट्"इति लिटा लङः समावेशो ऽसारूप्यात् सिद्ध इति किं लङ्विधानेन? शत्रादिभिस्तिङां समावेशार्थं शतृविधायके विभाषाग्रहणानुवृत्तिः"लिटः कानज्वा"इति वाग्रहणं च कृतम्। तज्ज्ञपयति"वासरूप"सूत्रे ऽपवाद आदेशत्वानाक्रान्तः प्रत्यय एव गृह्यत इति कैयटादौ ध्वनितम्। तत्फलं तु सदादिभ्यो भूतसामान्ये लिटः क्वसुरेव, न तु पक्षे तिङिति बोध्यम्॥
ननु"ङमो ह्रस्वात्"इत्यादौ ङमः परस्याचो ऽचि परतो ङम इति वेति सन्देहः स्यात्, अत आह :-
उभयनिर्देशे पञ्चमी निर्देशो बलीयान्

71

अचीति सप्तमीनिर्देशस्य"मयौञो"इत्युत्तरत्र चारितार्थ्यात् पञ्चमीनिर्देशो ऽनवकाश इति"तस्मादित्युत्तरस्य"इत्यस्यैव प्रवृत्तिः। यत्र तु"डः सि धुट्"इत्यादावुभयोरप्यचारितार्थ्यम्, तत्र"तस्मिन्"इति सूत्रापेक्षया"तस्मादित्युत्तरस्य"इत्यस्य परत्वात् तेनैव व्यवस्था।
एवमुभयोश्चारितार्थ्ये ऽपि। यथा"आमि सर्वनाम्नः सुट्"इत्यादौ। तत्राऽमीति सप्तमी"त्रेस्त्रयः"इत्यत्र चरितार्था। आदिति पञचमी"आज्जसेरसुक्"इत्यत्र चरितार्थेति स्पष्टम्"तस्मिन्निति"इति सूत्रे भाष्ये कैयटे च॥
इति श्री नागेशभट्टविरचिते परिभाषेन्दुशेखरे
बाधबीजनामकं द्वितीयं प्रकरणम्॥
॥ अथ शास्त्रशेष नामकं तृतीयं प्रकरणम् ॥
ननु"अतः कृकमि"इति सत्वम् ऽअयस्कुम्भीऽ इत्यत्र न स्यात् कुम्भशब्दस्यैवोपादानात्, अत आह :-
प्रातिपदिकग्रहणे लिङ्ग विशिष्टस्यापि ग्रहणम्

72

सामान्यरूपेण विशेषरूपेण वा प्रातिपदिकबोधकशब्दग्रहणे सति लिङ्गबोधक प्रत्यय विशिष्टस्यापि तेन ग्रहणं बोध्यम्। अपिना केवलस्यापीत्यर्थः।
अस्याश्च ज्ञापकं सामानाधिकरणाधिकारस्थे"कुमार श्रमणादिभिः"इति सूत्रे स्त्रीलिङ्गश्रमणादिशब्दपाठः। स्त्रीप्रत्ययविशिष्टश्रमणादिभिश्च कुमारीशब्दस्यैव सामानाधिकरण्यम्, न तु कुमारशब्दस्येति तदेतज्ज्ञापकम्।
इयञ्च"द्विषत्परयोः"इत्याद्युपपदविधौ, समासान्तविधौ, महदात्वे, ञ्नित्स्वरे, राजस्वरे ब्राम्हणकुमारयोः"बहोर्नञ्वदुत्तरपदभूम्नि"इत्यादौ, समाससङ्घातग्रहणेषु च न प्रवर्तत इति ङ्याप् सूत्रे भाष्ये स्पष्टम्।
विभक्तिनिमित्तककार्ये च नेत्यपि तत्रैव।
तत्र समासान्तविधावयवग्रहण एव न, समाससङ्घातग्रहणे तु प्रवर्तत एव, स्वरविधावेव समाससङ्घातग्रहणे तत्र दोषोक्तेः,"बहुव्रीहेरूधसः"इति सूत्रस्थ भाष्याच्च, ऽएतावत्स्वेवानित्यत्वादप्रवृत्तिः, दोषाः खल्वपि साकल्येन परिगणिताःऽ इति भाष्योक्तेः।
नन्वेवम्"बहुव्रीहेरूधसोङीष्"इति सूत्रस्थ भाष्यासङ्गतिः। तत्र हि ऽकुण्डोध्नीऽ इत्यत्र"नद्यृतश्च"इति कबापादितो नद्यन्तबहुव्रीहेरित्यर्थात्, नद्यन्तस्य बहुव्रीहित्वाभावात् तदसङ्गतिः। नद्यन्तानां यः समास इत्यर्थेन च परिहृतम्।
नद्यन्तप्रकृतिकसुबन्तोत्तरपदकः समास इति चेत्, न ; अनया परिभाषया स्त्रीप्रत्यय समभिव्याहारे तद्रहिते दृष्टानां प्रातिपदिकत्व तद्व्याप्य धर्माणां विशिष्टे ऽपि पर्याप्तत्वमतिदिश्यत इत्याशयात्॥
नन्वेवम् ऽयूनः पश्यऽ इत्यत्रेव ऽयुवतिः पश्यऽ इत्यत्रापि"श्वयुवोनाम्"इति सम्प्रसारणं स्यात्,
अत आह --
विभक्तौ लिङ्गविशिष्टाग्रहणम्

73

स्पष्टा चेयम्"युवोरनाकौ"इत्यत्र भाष्ये। घटघटीग्रहणेन लिङ्गविशिष्टपरिभाषया अनित्यत्वात् तन्मूलैषेत्यन्ये॥
ननु"तस्यापत्यम्"इत्येकवचननपुंसकाभ्यां निर्देशात् ऽगार्गायो गार्ग्यौऽ इत्याद्युक्तम्, अत आह-
सूत्रे लिङ्गवचनमतन्त्रम्

74

"अर्द्धं नपुंसकम्"इति नपुंसकग्रहणम्स्या ज्ञापकम्। नित्यनपुंसकत्वार्थं तु न तदित्यन्यत्र निरूपितम्।
धान्यपलालन्यायेन नान्तरीयकतया तयोरुपादानमिति"तस्यापत्यम्"इत्यत्र भाष्ये स्पष्टम्। अत एव"आकडार"सूत्रे एकेति चरितार्थमित्यन्यत्र विस्तरः॥
ननु"भशादिभ्यो भुव्यच्वेः"इत्यादौ विधीयमानः क्यङ् ऽक्व दिवा भृशा भवन्तिऽ इत्यत्रापि स्यात्, अत आह --
नञिव युक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः

75

नञ्युक्तमिव युक्तं च यत् किञ्चिद् दृश्यते तत्र तस्माद् भिन्ने तत्सदृशे ऽधिकरणे द्रव्ये कार्यं विज्ञायते। हि यतः तथार्थगतिरस्ति। न हि ऽअब्रह्मणमानयऽ इत्युक्ते लोष्टमानीय कृती भवति। अतश्चव्यन्तभिन्ने च्व्यन्तसदृशे ऽभूततद्भावविषये क्यङिति नोक्त दोषः।
"ओषधेश्च विभक्तावप्रथमायाम्"इत्यादौ विभक्तिग्रहणमेतन्न्यायसिदिधार्थानुवाद एव। एतेन विभक्तावित्याद्यस्यानित्यत्वे ज्ञापकमिति वदन्तः परास्ताः, अनित्यत्वे भाष्यसम्मत फलाभावात्। अत एव ऽअकर्तरि चऽ इति सूत्रे कारक ग्रहणं भाष्ये प्रत्याख्यातमिति बोध्यम्। स्पष्टा चेयम्"भृशादिभ्यः"इति सूत्रे भाष्ये।
अत्रान्यसदृशेत्युक्त्वा सादृश्यस्य भेदाघटितत्वं सूचयति। निरूपितं चैतन्मञ्जूषायाम्॥
ननु ऽव्याघ्री, कच्चपीऽ इत्यादौ सुबन्तेन समासात् ततो ऽप्यन्तरङ्गत्वाट्टाप् अदन्तत्वाभावाज्जाति लक्षणो ङीष् न स्यात्, अत आह --
गतिकारकोपपदानां कृद्भिः सह समासवचनं
प्राक् सुबुत्पत्तेः

76

"उपपदम्"इति सूत्रे ऽतिङ्ग्रहणेन"कुगति"इत्यत्र तदपकर्षणेनातिङन्तश्च समास इत्यर्थात् तयोः सूत्रयोः सुप्सुपेत्यस्य निवृत्यैकदेशानुमत्या कारकांशे च सिद्धेयम्। तेन ऽअश्वक्रीतीऽ इति सिद्धा। अन्यथा पूर्वं टाप्यदन्तत्वाभावात्"क्रीतात्करणपूर्वात्"इति ङीष् न स्यात्।
अस्या अनित्यत्वात् क्वचित् सुबुत्पत्यनन्तरमपि समासः।
यथा सा हि तस्य धनक्रीतेति।
अन्ये त्वनित्यत्वे न मानम्, तत्राजादित्वाट्टाबित्याहुः। अत एव ऽकुम्भकारःऽ इत्यादौ षष्ठी समासो ऽपि सुबुत्पत्तेः पूर्वमेव। षष्ठीसमासाभावे चोपपदसमासकृत एकार्थीभाव इति न तत्र वाक्यमिति भाष्ये स्पष्टम्।
तत्र हि ऽषष्ठीसमासादुपपदसमासो विप्रतिषेधेनऽ इति वार्त्तिकम्। अथवा ऽविभाषा षष्ठी समासो यदा न षष्ठीसमासस्तदोपपदसमासःऽ इति तत्प्रत्याख्यानं च।
यद्यप्युपपदसमासस्यान्तरङ्गत्वाभिप्रायकम् ऽन वा षष्ठीसमासाभावादुपपदसमासःऽ इति वार्तिककृतोक्तम्, तथापि तदुभयप्रत्याख्यानपरम्, ऽअथवाऽ इत्यादि भाष्यं परिभाषायां सामान्यतः कारकोपादानेन कारकविभक्त्यन्तेन कृद्भिः समासमात्रस्य सुबुत्पत्तेः पूर्वमेव लाभात्।
एतेनैषा कारकतद्विशेषयोरुपादान एवेति परास्तम्। अस्या विध्येकवाक्यत्वाभावेन विप्रतिषेधादि
शास्त्रवत् कार्यव्यवस्थापकत्वेनोपादान एवेत्यर्थालाभाच्च॥
ननु"उगिदचाम्"इत्यत्र धातोश्चेदुगित्कार्यं तर्ह्यञ्चतेरेवेति नियमेनाधातोरेव नुमि सिद्धे ऽधातुग्रहणं व्यर्थम्, अत आह --
सम्प्रतिकाभावे भूतपूर्वगतिः

77

तत्तद् वचनसामर्थ्य न्यायसिद्धेयम्। तत्सामर्थ्यादधातुभूतपूर्वस्यापीत्यर्थेन गोमत्यतेः क्विपि ऽगोमान्ऽ इत्यादौ नुम् सिद्धिः।"नामि"इत्यादिसूत्रेषु भाष्ये स्पष्टा॥
बहुव्रीहौ तद्गुणसंविज्ञानमपि

78

अपिना अतद्गुणसंविज्ञानम्। तेषां गुणानामवयवपदार्थानां संविज्ञानं विशेषान्वयित्वमिति तदर्थः।
यत्र समवायसम्बन्धेन सम्बन्ध्यन्यपदार्थः, तत्र प्रायस्तद्गुणसंविज्ञानम्। अन्यत्र प्रायो ऽन्यत्। ऽलम्बकर्णचित्रगूऽ उदाहरणे।
ऽसर्वादीनि, जक्षत्यादयःऽ इति चोदाहरणे। सर्वनामसंज्ञा सूत्रे भाष्ये स्पष्टा॥
ननु"वदः सुपि क्यप् च"इति चेनानुकृष्टस्य यतः"भुवो भावे"इत्यत्राप्यनुवृत्तिः स्यात्, अत आह --
चानुकृष्टं नोत्तरत्र

79

णमुल्यनुवर्तमाने"अव्यये ऽयथाभिप्रेत"इति सूत्रे पुनर्णमुल्ग्रहणनस्या ज्ञापकम्। अन्यथा ऽक्त्वा चऽ इति वदेत्।
तद्धि उत्तरत्रोभयोः सम्बम्धार्थम्। उदाहरणानि स्फुटानि।
इदमनित्यम्। अत एव"तृतीया च होः"इत्यत्र चानुकृष्टाया अपि द्वितीयाया"अन्तरान्तरेण"इत्यत्र सम्बन्धः।
"लुटि च कृपः"इति सूत्रस्थेनानुवृत्त्यर्थकसकलचकारप्रत्याख्यानेन विरुद्धेयम्। व्याख्यानादेवानुवृत्ति निवृत्त्योर्निर्वाह इति तदाशयः।"कुलिजाल्लुक्खौ च"इति सूत्रस्थभाष्यविरुद्धा च। तत्र हि"द्विगोः ष्ठंश्च"इति सूत्रात् ष्ठनः, तत्र ऽचेनाप्यनुकृष्टस्य खो ऽन्यतरस्याम्ऽ इत्यस्य चानुवृत्तिं स्वीकृत्य लुक्खौ चेति भाष्ये प्रत्याख्यातम्॥
नन्वनुदात्तादेरन्तोदात्ताच्च यदुच्यते तद्व्यञ्जनादेर्व्यञ्जनान्ताच्च न प्राप्नोतीत्यत आह --
स्वरविधौ व्यञ्जनमविद्यमानवत्

80

स्वरोद्दश्यके विधावित्यर्थः।"नोत्तरपदे ऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु"इति सूत्रे पृथिव्यादिपर्युदासोस्याज्ञापकः। अन्यथा पृथिव्यादीनामनुदात्तादित्वाभावादप्राप्तौ तद्वैयर्थ्यं स्पष्टमेव।
धर्मिग्राहकमानादेव च स्वरोद्देश्यकविषयमिदम्। अत एव"शतुरनुमोनद्यजादी,"अचः कर्त्तुर्यकि"
इत्यादौ अच इत्यादेश्चारितार्थ्यम्। अत एव"राजवती"इत्यादौ नलोपस्यासिद्धत्वादन्वतीशब्दत्वात्,"अन्तो ऽवत्याः"इति स्वरो न, ऽउदश्वित्वान्ऽ इत्यत्र"ह्रस्वनुड्भ्याम्"इति मतुबुदात्तत्वं च नेत्याकरः। स्पष्टं चेदम्"समासस्य"इति
सूत्रे भाष्ये।
"उच्चैरुदात्तः"इति सूत्रे कैयटस्तु ऽइयमनावश्यकी, समिमव्याहृताजुपरागेण हलो ऽप्युदात्तादिवदवभासात्तदुपपत्तेःऽ इत्याह। तत्र भाष्ये ऽपि ध्वनितमेतत्॥
नन्वेवमपि ऽराजदृषत्ऽ इतियादौ"समासस्य"इत्यन्तोदात्तत्वं षकाराकारस्य न स्यात्, अत आह --
हल्स्वरप्राप्तै व्यञ्जनमविद्यमानवत्

मूल पाठ: Paribhāṣenduśekhara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc