परिभाषेन्दुशेखर · श्लोक 101-120
षाष्टद्वित्वस्य द्विःप्रयोगसिद्धान्तेन प्रयोगद्वयरूपे समुदाये प्रकृतिरूपत्वबोधनेनेदं न्यायसिद्धम्।
अत एव जुहुधीत्यदौ द्वित्वे कृते धित्वसिद्धिरिति। तदपि न, भाष्ये ऽदर्शनात्। किञ्च तेन सिद्धन्तेन प्रत्येकं द्वयोस्तत्वबोधने ऽपि समुदायस्य तत्वबोधने मानाभावः।
अत एव"दयदेर्दिगि"इति सूत्रे ऽस्तेः परत्वाद् द्वित्वे कृते परस्यास्तेर्भूभावे पूर्वस्य श्रवणं प्राप्नोतीत्याशङ्क्य विषयसप्म्याश्रयणेन परिहृतं भाष्ये।
अन्यथा त्वदुक्तरीत्या ऽएकाज्द्विर्वचनऽ न्यायेन समुदायस्यैवादेशापत्तौ तदसङ्गतिः स्पष्टैव।
तस्मादुत्तरखण्डमादायैव यथायोगं तत्तत्कार्यप्रवृत्तिर्बोध्या।
"भूसुवोः"इत्यस्य तदन्ताङ्गस्येत्यर्थात् प्राप्तस्य गुणनिषेधस्य बोभूत्विति नियम इति न तद्विरोधः। तस्माद्धन्तेर्यङ्लुकि ऽवध्यात्ऽ इत्यादि माधवाद्युदाहृतं चिन्त्यमेवेत्यन्यत्र विस्तरः॥
यदपि ननु"वृद्धिर्यस्याचामादिः"इत्यत्रेक्परिभाषोपस्थितौ शालीयाद्यसिद्धिः, अत आह --
विधौ परिभाषोपतिष्टते नानुवादे
अनूद्यमान विशेषणेषु तन्नियामिका परिभाषा नोपतिष्टत अति तदर्थः।
विध्यङ्गभूतानां परिभाषाणां विधेयेनासिद्धतया सम्बन्धासम्भवे ऽपि तद्विशेषेणव्यवस्थापकत्वेन
चरितार्थानां तद्विशेषेणव्यवस्थापकत्वे मानाभाव इति तर्कमूलेयम्।
किञ्च"उदीचामातः स्थाने"इति सूत्रे स्थाने ग्रहणमस्या लिङ्गम्। अन्यथा"षष्टी स्थाने"
इति परिभाषयैव तल्लाभे तद्वैयर्थ्यं स्पष्टमेवेति, तत्, न;"उदात्तस्वरितयोर्यणः"इत्यादौ"ष्यङः सम्प्रसारणम्"इति सूत्रभाष्योक्तरीत्या"अल्लोपो ऽनः"इत्यादौ चैतस्या व्यभिचरितत्वात्, भाष्यानुक्तत्वाच्च। स्थान सम्बन्धो न
परिभाषालभ्य इत्यर्थस्य"षष्टी स्थाने"इति सूत्रे भाष्ये स्पष्टमुक्तत्वेन त्वदुक्तज्ञपकावम्भवाच्च। तत्र स्थानेग्रहणं तु स्पष्टार्थमेव।
किञ्च"विधौपरिभाषा"इति प्रवादः"इकोगुणवृद्धी""अचश्च"इत्यनयोर्विधीयत इत्यध्याहारमूलकः, अन्यत्र तु नास्या फलमित्यन्यत्र विस्तरः॥
ननु ऽनमस्करोति देवान्ऽ ऽनमस्यति देवान्ऽ इत्यादौ"नमः स्वस्ति"इत् चतुर्थी दुर्वारा, इत्यत आह --
उपपदविभक्तेः कारकविभक्तिर्बलीयसी
कारकविभक्तित्वञ्च क्रियाजनकार्थकविभक्तित्वम्। तच्च प्रथमाया अप्यस्तीति सापि कारकविभक्तिरिति"सहयुक्ते"इत्यादिसूत्रेषु भाष्ये ध्वनितम्।
इयं च वाचनिक्येव। अत एव"यस्यच भावेन"इति सप्तम्यपेक्षयाधिकरणसप्तम्या बलवत्वमनेन न्यायेन,"तत्र च दीयते"इति सूत्रे भाष्ये ध्वनितम्, कैयटेन च स्पष्टमुक्तम्। एतेन ऽक्रियान्वयित्वं कारकत्वम्ऽ इत्यपास्तम्, "यस्यच भावेन"इति सप्तम्या अपि क्रियान्वयित्वात्।
ये तु प्रधानीभूतक्रियासम्बन्धनिमित्तकार्यत्वेन कारकविभक्तीनां बलवत्वं वदन्ति; तेषामुभयोरपि क्रियासम्बन्धनिमित्तकत्वेन तदसङ्गतिः स्पष्टैव।"नमो वरिव"इतिसूत्रे ऽनमस्यति देवान्ऽ इत्यादौ चतुर्थी वारणाय भाष्ये उपन्यासस्यासङ्गतेश्च॥
एतेन ऽक्रियाकारकसम्बन्धोन्तरङ्गःऽ इति तन्निमित्ता विभक्तिरन्तरङ्गा, उपपदार्थेन तु यत्किञ्चित् क्तियाकारकमूलकः सम्बन्ध इति तन्निमित्ता विभक्तिर्बहिरङ्गेत्यपास्तम्, ऽनमस्यतिऽ इत्यत्र नमः पदार्थे ऽपि क्रियाकारकाभावे नैवान्वयात्। अत्र च नमः पदार्थस्यापि क्रियात्वं मुण्डयतौ मुण्डस्येव।
"सहयुक्ते"इत्यादौ च प्रधाने प्रथमा साधनार्थमियं भाष्य उपन्यस्तेत्यन्यत्र विस्तरः॥
ननु ऽअदमुयङ्ऽ इत्यादौ पूर्वस्यापि मुक्त्वापत्तिः, अत आह --
अनन्त्यविकारो ऽन्त्यसदेशस्य
अनन्त्यसदेशानन्यसदेशयोरेकप्रयोगे युगपत्प्राप्तवन्त्यसदेशस्यवेति तदर्थः। अन्यथा धात्वादेर्नत्वसत्वेऽनेताऽ ऽसोताऽ इत्यादावेव स्याताम्, न तु ऽनमतिऽ ऽसिञ्चतिऽ इत्यादौ।
अन्त्यविकार इति च लिङ्गम्।
अन्त्येन समानो देशो यस्य सो ऽन्त्यसदेशः। तत्वं चान्त्यवर्णतद्वर्णयोरितराव्यवधानेन बोध्यम्।
अत एव विध्ध इत्याद्यर्थम्"न सम्प्रसारणे"इति चरितार्थम्।
"अल्लोपो ऽनः"इत्यादेः ऽअनस्तक्ष्णाऽइत्यादावादकारादावप्रवृत्तिरप्यस्याः फलम्, यजादि स्वादिपरान्नन्ताङ्गस्याकारस्य लोप इत्यर्थस्यैवाङ्गांशे प्रत्ययस्योत्त्थिताकाङ्क्षतयौचित्यादङ्गावयव यजादिस्वादिपरस्यान् इत्यादिक्रमेणानेकत्रानेकक्लिष्टकल्पनापेक्षयास्या उचितत्वात्।
न चैषा"ष्यङः सम्प्रसारणम्"इति सूत्रे भाष्ये प्रत्याख्यातेति भ्रमितव्यम्, वार्तिकोक्तफलानामनेकक्लिष्टकल्पनाभिरन्यथासिद्धिं प्रदर्श्यापि यान्येतस्याः परिभाषायाः प्रयोजनानि, तदर्थमेषा कर्तव्या प्रतिविधेयं दोषेषु, प्रतिविधानं चोदत्तनिर्देशात् सिद्धमित्युपसंहारात्। ऽमिमार्जिषतिऽ इत्यर्थं चैषा। तत्र वृद्धेः पूर्वमन्तरङ्गत्वात् द्वित्वे परत्वादभ्यासकार्ये ततो ऽभ्यासेकारस्य वृद्धिवारणायावश्यकी। न च वृद्धौ पुनरभ्यासह्रस्वत्वेन
सिद्धिः, ऽलक्ष्ये लक्षणस्यऽ इति न्यायेन पुनरप्रवृत्तेः।
यत्तु"न सम्प्रसारणे"इति सूत्रे भाष्ये ऽनैतस्याः परिभाषायाः प्रयोजनानिऽ इत्युक्तम्। तस्यायमर्थः --
एतत्सूत्रे प्रयोजनान्येतस्याः परिभाषाया न भवन्ति, व्यधादावनत्यसमानादेशयणो ऽभावादिति। ऽनैतानि
एतस्याः प्रयोजनानिऽ इति पाठो ऽपि क्वचिद् दृश्यते।
वाचनिक्येवैषा। स्पष्टा च"ष्यङः"इति सूत्रे"अदसो ऽसेः"इति सूत्रे च ऽकेचिदन्त्यसदेशस्यऽ इत्यनेन भाष्य इत्यन्यत्र विस्तरः॥
ननु"अव्यक्तानुकरणस्यातः"इति पररूपम्, ऽपटत्ऽ इति ऽपटितिऽ इत्यदौ"अलोन्त्यस्य"
इत्यन्त्यस्य प्राप्नोतीत्यत आह --
नानर्थके ऽलो ऽन्त्यविधिरनभ्यासविकारे
अनभ्यासेत्युक्ते ऽविभर्तिऽ इत्यादौ"भृञामित्"इत्याद्यन्त्यस्यैव। अभ्यासो ऽनर्थकः, अर्थवृत्यभावात्, किन्तूत्तरखण्ड एवार्थवानित्यन्यत्र निरूपितम्।
एषा"अलोन्त्यात्"सूत्रे भाष्ये स्पष्टा। फलानामन्यथासिद्धिकरणेप्रत्याख्याता चेति तत एवावधार्यताम्॥
ननु ऽब्राह्मणवत्सा च ब्राह्नणीवत्सश्चऽ इत्यादौ"पुमान् स्त्रिया"इत्येकशेषापत्तिः, स्त्रीत्वपुंस्त्वातिरिक्तकृतविशेषाभावात्, अत आह --
प्रधानाप्रधानयोः प्रधाने कार्यसम्प्रत्ययः
तेन प्रधानस्त्रीत्वपुंस्त्वातिरिक्ताप्रधानस्त्रीत्वपुंस्त्वकृतविशेषस्यापि सत्वेन न दोषः। स्पष्टा चेयम्"नपुंसकमनपुंसकेन"इत्यनयोर्भाष्ये।
"अन्तरङ्गोपजीव्यादपि प्रधानं प्रबलम्ऽ इति"हेतुमति च"इत्यत्र भाष्यकैयटयोः॥
ननु स्वस्रादित्वप्रयुक्तो मातृ शब्दस्य ङीब्निषेधः परिच्छेत्तृवाचकमातृशब्दे ऽपि स्यात्,
अत आह --
अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसी
तेन शुद्ध रूढस्य जननीवाचकस्यैव ग्रहणम्, न परिच्छत्तृवाचकस्य। ऽयोगजबोधे तदनालिङ्गितशुद्धरूढजोपस्थितिः प्रतिबन्धिकाऽ इति व्युत्पत्तिरेव तद्बीजम्। रथकाराधिकरणन्यायसिद्धो ऽयमर्थः।
कश्चित्तु"दीधीवेवीटाम्"इत्यत्रानया परिभाषया दीधीवेवीङोरेव ग्रहणम्, न दीङ्धीङ्वेञ्
वीनामिति, तत्, न; तथा सति ऽदीवेधीवीटाम्ऽ इत्येव वदेदितेयन्ये॥
ननु वातायनार्थे गवाक्षे ऽवङो वैकल्पिकत्वात् ऽगोक्षःऽ इत्याद्यपि स्यात्, अत आह --
व्यवस्थितविभाषयापि कार्याणि क्रियन्ते
लक्ष्यानुसाराद् व्यवस्था बोध्या।"शाच्छोः"इति सूत्रे"लटः शतृ"इत्यादि सूत्रेषु च भाष्ये स्पष्टा॥
विधिनियमसम्भवे विधिरेव ज्यायान्
नियमे ह्यश्रुताया अन्यनिवृत्तेः सामर्थ्यात् परिकल्पनमुक्तानुवाददोषश्चेति लाघवाद् विधिरेवेति बोध्यम्।"यस्य हलः"इत्यत्र"इजादेः सनुमः"इत्यादौ च भाष्ये स्पष्टेयम्॥
ननु"आशंसायां भूतवच्च"इत्यनेन लुङ इव लङ्लिटोरप्यतिदेशः स्यात्, अत आह --
सामान्यातिदेशे विशेषानतिदेशः
सामान्योपस्थितिकाले नियमेन विशेषोपस्थापकसामग्र्यभावो ऽस्या बीजम्। तेनानद्यतनभूतरूपे विशेषे विहितयोस्तयोर्नातिदेशः। इयमनित्या,"न ल्यपि"इति लिङ्गात्। तेन स्थानिवत्सूत्रेण विशेषातिदेशो ऽपि। स्पष्टं चैतत्सर्वं"स्थानिवत्"सूत्रे भाष्ये॥
ननु"तित्स्वरितम्"इति स्वरितत्वम् ऽचिकीर्षतिऽ इत्यादौ स्यात्, अत आह --
प्रत्ययाप्रत्यययोः प्रत्ययस्य ग्रहणम्
इयं च"अङ्गस्य"इति सूत्र् भाष्ये पठिता। वर्णग्रहणे च न प्रवर्तत इति तत्रैव
कैयटे स्पष्टम्। अत एव"सनांशभिक्ष उः""वले"इत्यत्र सन्वलयोः प्रत्यययोर्ग्रहणम्।
परे तु"तित्स्वरितम्"इति सूत्र एषा परिभाषा लक्ष्यसंस्काराय भाष्ये क्वापि नाश्रितेति कैयटेनोक्तम्।"अङ्गस्य"इति सूत्रे तत्प्रत्याख्यानायैषा भाष्य एकदेशिनोक्ता। अत एव"तिति प्रत्ययग्रहणं
कर्तव्यम्"इति वार्तिककृतोक्तम् उक्तसूत्रयोर्व्याख्यानात् प्रत्ययोरेव ग्रहणमित्याहुः॥
ननु"विपराभ्यां जेः"इत्यात्मनेपदं ऽपरासेना जयतिऽ इत्यर्थके ऽपराजयति सेनाऽ इत्यत्र
प्रप्नोतीत्यत आह --
सहचरितासहचरितयोः सहचरितस्यैव ग्रहणम्
तेन विशब्दसाहचर्यादुपसर्गस्यैव पराशब्दस्य ग्रहणमिति तत्रैव भाष्ये स्पष्टम्। सहचरणं सदृशयोरेवेति सहचरितशब्देन सादृश्यवानुच्यते। ऽरामलक्ष्मणौऽ इत्यादावपि सादृश्यमेव नियामकम्। सदृशयोरेव सहविवक्षा, तयोरेव सहप्रयोग इत्युत्सर्गाच्च। ध्वनितं चेदम्"कर्मप्रवचनीययुक्तेर्द्वितीया"इति सूत्रे भाष्ये।
तत्र हि"पञ्चम्यपाङ्परिभिः"इति सूत्रेण लक्षणादिद्योतकपरियोगे पञ्चमीमाशङ्क्य ऽयद्यप्ययं परिर्दृष्टापचारो वर्जने चावर्जने च, अयं खल्वपशब्दो ऽदृष्टापचारो वर्जनार्थ एव कर्मप्रवचनीयः, तस्य को ऽन्यः सहायो भवितुमर्हत्यन्यो वर्जनार्थात्, यथास्य गोः सहायेनार्थ इति गौरेवानीयते, नाश्वः, न गर्दभःऽ इत्युक्तम्। तेन हि सदृशानामेव प्रयोगे सहायभावो बाधितः।
"द्विस्त्रिश्चतुः"इति सूत्रे साहचर्येणैव कृत्वोर्ऽथस्य ग्रहणे सिद्धे कृत्वोर्थग्रहणादेषानित्या। तेन"दीधीवेवीटाम्"इत्यत्र धातुसाहचर्ये ऽप्यागमस्येटो ग्रहणमित्यन्यत्र विस्तरः॥
ननु"अस्थि"इत्यनङ् ऽप्रियसक्थना ब्राह्मणेनऽ इत्यत्र न स्यात्, अङ्गस्य नपुंसकत्वाभावात्, अत आह --
श्रुतानुमितयोः श्रुतसम्बन्धो बलवान्
श्रुतेनैव सम्बन्धः, नानुमितेन प्रकरणादिप्राप्तेनेत्यर्थः। प्रकरणादितः श्रुतेर्बलवत्वादिति भावः।
एवं च तत्र लिङ्गमस्थ्यादीनामेव विशेषणम्, नाङ्गस्य शिशीलुग्नुम्विधिषु तु गृह्यमाणस्याभावात् प्रकरणप्राप्तङ्गस्यैव विशेषणम्।
अत एव"वा नपुंसकस्य"इति सूत्रे"वा शौ"इति न कृतम्। तत्र नपुंसकग्रहणं हि गृह्यमाणस्य शत्रन्तस्यैव नपुंसकत्वे यथा स्यात्, ऽबहवो ददतो येषु तानि कुलानि बहुददतिऽ इत्यत्र मा भूत्; ऽबहूनि ददन्ति येषु ते बहुददन्तःऽ इत्यत्र यथा स्यादित्येवमर्थम्। स्पष्टं चेदम्"स्वमोर्नपुंसकात्"इत्यत्र भाष्ये।
केचित्तु"अचो रहाभ्यं द्वे"इत्यत्र श्रुतेन रेफस्य निमित्तत्वेन यरन्तर्भावादनुमितेन कार्यित्वं बाध्यत इत्येतदुदाहरणमाहुः, तत्, न; तक्रकौण्डिन्यन्यायेन सिद्धेरित्यन्यत्र विस्तरः॥
ननु"तत्पुरुषे तुल्यार्थः"इति स्वरः ऽपरमेण, कारकेण, परमकारकेणऽ इत्यादौ स्यात्, तथा"गातिस्थाघुपाभूभ्यः"इति लुक् ऽपै ओवै शेषणेऽ इत्यतः कृतात्वात् परस्यापि स्यात्, अत आह --
लक्षण प्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्
तत्तद्विभक्तिविशेषाद्यनुवादेन विहितो हि समासादिः प्रतिपदोक्तः, तस्यैव ग्रहणम्, शीग्रोपस्थितिकत्वात्। द्वितीयो हि विलम्बोपस्थितिकः। ऽपैऽ इत्यस्य ऽपाऽ इति रूपं लक्षणानुसन्धानपूर्वकं
विलम्बोपस्थितिकम्। पिबतेस्तु तच्छीघ्रोपस्थितिकम्। इदमेव ह्येतत् परिभाषाबीजम्। इयं वर्णग्रहणे ऽपि"ओत्"सूत्रे भाष्ये सञ्चारितत्वात्।
यत्तु वर्णग्रहणे नैषा"आदेचः"इत्यत्रोपदेशग्रहणादिति, तत्तु तस्मिन्नेव सूत्रे शब्देन्दुशेखरे दूषितमिति तत एव द्रष्टव्यम्।
अनित्या चेयम्"भुवश्च महाव्याहृतेः"इति महाव्यहृतिग्रहणादित्यन्यत्र विस्तरः॥
नन्वेवं देङो दोधातोश्च कृतात्वस्य घुसंज्ञा न स्यात्, तथा मेङ आत्वे ऽप्रणिमाताऽ इत्यादौ"नेर्गदनद"इति णत्वं न स्यात्, तथा ऽगैऽ इत्यस्यात्वे"घुमास्था"इतीत्वं न स्यात्, अत आह --
गामादाग्रहणेष्वविशेषः
अत्र च ज्ञापकं दैपः पित्वम्। तद्धि ऽअदाप्ऽ इति सामान्यग्रहणार्थम्। अन्यथा लाक्षणिकत्वादेव विधौ तद्ग्रहणे सिद्धे किं निषेधे सामान्यग्रहणार्थेन पित्वेन? तेन चैकदेशानुमतिद्वारा सम्पूर्णा परिभाषा ज्ञाप्यते। इयं च लक्षणप्रतिपदोक्तपरिभाषानिरनुबन्धकपरिभाषालुग्विकरणपरिभाषाणां बाधिका।"दाधा घु"इति सूत्रे भाष्ये स्पष्टा।
"गातिस्था"इति सूत्रे इणादेशगाग्रहणमेवेष्यत इति न दोष इत्यन्यत्र विस्तरः॥
प्रत्येकं वाक्यपरिसमाप्तिः
ऽदेवदत्तादयो भोज्यन्ताम्ऽ इत्यत्र भुजिवत्॥
नन्वेवं संयोगसंज्ञासमाससंज्ञाभ्यस्तसंज्ञा अपि प्रत्येकं स्युः, आ आह --
क्वचित्समुदाये ऽपि
ऽगर्गाः शतं दण्ड्यन्ताम्, अर्थिनश्च राजानो हिरण्यान भवन्तिऽ इत्यादौ दण्डनवत्। लक्ष्यानुरोधेन च व्यवस्था॥
ननु"यूस्त्रियाख्यौ"इत्यत्र व्यक्तिपक्षे दीर्घनिर्देशादनण्त्वेन ग्राहकसूत्राप्राप्त्योदात्ताद्यन्यतमोच्चारणे ऽन्यस्वरकस्य संज्ञा न स्यात्, अत आह --
अभेदकाः गुणाः
असति यत्ने स्वरूपेणोच्चारितो गुणो न भेदकः, न विवक्षित इत्यर्थः।
जातिपक्षे तु नास्योपयोग इति बोध्यम्। ऽयूऽ इत्यादौ दीर्घमात्रवृत्तिजातिनिर्देशान्न क्षतिरित्यन्यत्र विस्तरः॥
ननु ऽसर्वनामानिऽ इत्यत्र णत्वाभावनिपातने ऽपि लोके सणत्वप्रयोगस्य साधुत्वं स्यात्, अत आह --
बाधकान्येव निपातनानि
तत्तत्कार्ये नाप्राप्ते निपातनारम्भात्।"पुराणप्रोक्तेषु"इति निपातितपुराणशब्देन पुरातन शब्दस्य बाधः प्राप्तो ऽपि पृषोदरादित्वान्नेति बोध्यम्।
पुराणेति पृषोतरादिः पुरातनेति चेत्यन्ये। इयम्"सर्वादि"सूत्र भाष्ये स्पष्टा।
न चैवमस्थयादीनां"नब्विषयस्य"इत्याद्युदात्ततयान्त्यादेशस्यानङः स्थान्यनुरूपे ऽनुदात्त एवोच्चारणीय उदात्तोच्चारणं विवक्षार्थं भविष्यतीति कथमस्य ज्ञापत्वमिति वाच्यम्, परमास्थिशब्दादाबन्तोदात्त उदात्तगुणकस्यापि स्थानिवत्वेन विवक्षायां मानाभावात्।
"चतसर्याद्युदात्तनिपातनं करिषयते, वधादेशे आद्युदात्तनिपातनं करिषयते, पदादयो ऽन्तादात्ता निपात्यन्ते, सहस्य स उदात्तो निपात्यते"इत्यादि भाष्यं त्वेकश्रुत्याष्टाध्यायीपाठे क्वचिदुदात्ताद्यु
च्चारणं विवक्षार्थमित्याशयेन।
"त्रैस्वर्येण पाठः"इति पक्षे तु ज्ञापकपरं भाष्यामिति कैयटादयः।
परे तु, निपातनं नामान्यादृशे प्रयोगे प्राप्ते ऽन्यादृशप्रयोगकरणम्, तत्तद्रूपाद् यत्नात् तत्र तत्रोदात्तादिविवक्षा।"तिसृचतसृ"इत्यत्र द्वन्द्वप्रयुक्ते ऽन्तोदात्ते उच्चारणीये आद्युदात्तोच्चारणम् - अन्यत्र
स्थान्यरूपे स्वर उच्चारणीये तत्तदुच्चारणं विवक्षार्थम्।
अत्र विकारकृतो लक्ष्यभेदो नेति"सिचि वृद्धिः"इति भाष्यात् प्रतीयते।
अत्र च"अस्थिदधि"इत्यादावनङादेरुदात्तस्यैवोच्चारणेन सिद्धे उदात्तग्रहणं ज्ञापकम्। स्वरूपेणोच्चारित इत्युक्तेरनुदात्तादेरन्तोदात्तादित्युदात्तादिशब्दोच्चारणे विवक्षैव।
"उञ ओं"इत्यत्राननुनासिक एवोच्चारणीये यत्नाध्क्येनानुनासिकोच्चारणाद् विवक्षा बोध्या।"पथिमथ्यृभुक्षाम्"इत्यादौ स्थान्यनुरूपतयानुनासिक एवोच्चारणीये निरनुनासिकोच्चारणात् तद्विवक्षा। एतदर्थमेवासति यत्न इत्युक्तम्।
ऽअबाधकान्यपि निपातनानिऽ इति तु भाष्यविरुद्धम्॥
ननूखधातोर्द्वित्वे स्वत एव ह्रस्वत्वात् पूर्वमभ्यासह्रस्वाप्राप्तौ हलादिः शेषे सवर्ण दीर्घे ह्रस्वापत्तिः, अत आह --
पर्जन्यवल्लक्षणप्रवृत्तिः
एवं च ह्रस्वस्यापि ह्रस्वे कृते ऽलक्ष्ये लक्षणस्यऽ इति न्यायेन न पुनर्ह्रस्वः। तदुक्तम्
"इको झल्"इति सूत्रे भाष्ये -- ऽकृतकारि खल्वपि शास्त्रं पर्जन्यवत्ऽ इति। सिद्धे ऽपि ह्रस्वाधिकारीत्यर्थः।
न च ऽलक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिःऽ इत्यत्र न मानमिति वाच्यम्,"समोवालोपमेके"इति लोपेनैकसकारस्य द्वित्वेन द्विसकारस्य पुनर्द्वित्वेन च त्रिसकारस्य सिद्धौ"समः सुटि"इति सूत्रस्यैव मानत्वात्,"सम्प्रसारणाच्च" "सिचि वृद्धिः"इत्यदौ भाष्ये स्पष्टमुक्तत्वाच्च।
सम्पूर्णाष्टाध्याय्याचार्येणैकश्रुत्या पठितेत्यत्र न मानम्। क्वचित्पदस्यैकश्रुत्यापि पाठः, यथा दाण्डिनायनादिसूत्रे ऐक्ष्वाकेति। यद्यप्यध्येतार एकश्रुत्यैवाङ्गानि पठन्ति ब्रह्मणवत्, तथापि व्याख्यानतो ऽनुनासिकत्वादिवदुदात्तनिपातनादिज्ञानमित्याहुः।
विधेयाण् विषये तु"अप्रत्ययः"इति निषेधान्न गुणाभेदकत्वेन सवर्णग्रहणम्, अत एव ऽघटवत्ऽ इत्यादौ मतोर्मस्य नानुनासिको वकारः। अत एव"तद्वानासाम्"इति सूत्रनिर्देशः। अन्यथा"प्रत्यये भाषायाम्"इति नित्यमनुनासिकः स्यात्, इत्यन्यत्र विस्तरः॥
ननु स्यन्दूधातोः ऽस्यन्त्स्यतिऽ इत्यादावात्मनेपदनिमित्तत्वाभावनिमित्तत्वात्"न वृद्भ्यश्चतुर्भ्यः"इति निषेधस्य बहिरङ्गत्वेनान्तरङ्गत्वादूदिल्लक्षणस्येड्विकल्पस्यापत्तिः, अत आह --
निषेधाश्च बलीयांसः
मूल पाठ: Paribhāṣenduśekhara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0