परिभाषेन्दुशेखर · श्लोक 41-60
अत्र"वृद्भ्यः स्यसनोः"इति सूत्रेण स्ये विभाषातङ्विधानं ज्ञापकम्। अन्यथा स्वव्यवधाने नियमाप्रवृत्तौ सामान्य शास्त्रेणोभयसिद्धौ विकल्पविधानं व्यर्थं स्यात्। अत्रार्थे ज्ञपिते तु ऽस्यऽ इति तत्र विषयसप्तमी बोद्येति"अनुदात्तङितः"इत्यत्र भाष्यकैयटयोः स्पष्टम्।
विकरणव्यवधाने ऽपि नियमप्रवृत्तेरिदं ज्ञपकमिति"शदेः शितः"इत्यत्र भाष्ये ध्वनितम्।
वस्तुतो ऽस्माज्ज्ञापकात्"अनुदात्तङितः"इत्यादिप्रकरणं तिबादिविध्येकवाक्यतया विधायकम्। तत्र"धातोः"इति विहित पञ्चमी, तत्सामानाधिकरणम्"अनुदात्तङित"इत्यादि विहितविशेषणमेव।
एवञ्च लावस्थायां स्ये ऽपि तद्व्यवधाने तङ्सिद्धिः। शबादिभ्यस्तु पूर्वमेव नियमः।
यद्वा लमात्रापेक्षत्वादन्तरङ्गा आदेशाः, लकारविशेषापेक्षत्वात् स्यादयो बहिरङ्गा इति दिग्योगलक्षणपञ्चम्यामपि न दोषः।
अत्र पक्षे"वृद्भ्यः स्यसनोः"इति सूत्रं स्यविषय इति व्याख्ययम्। आत्मने पद शब्दादौ भविसंज्ञाऽश्रयणीयेति तत्वम्।
भिन्नवाक्यतया सामान्य शास्त्रविहितानां नियमे तु लुगादिनेव नियमेन जातिनिवृत्तिरङ्गीकार्या।"भुक्तवन्तं प्रति मा भुक्था इति ब्रूयात्, किं तेन कृतं स्यात्"इति न्यायस्तु नात्र शास्त्र आश्रयितुं युक्तः, नियमादि शास्त्राणां वैयर्थ्यापत्तेः। ध्वनितं चेदम्"स्थने ऽन्तरतमः"इति सूत्रे भाष्ये।
शास्त्रानर्थक्यं तु वृद्धिसंज्ञा सूत्रे भाष्येतिरस्कृतम्। सामान्यशास्त्रेणोत्पत्तिस्तु सरूपसूत्रस्त्थ कैयट रीत्या प्रधानानुरोधेन गुणभेदकल्पना तावत्प्रकृति कल्पनया कार्या, प्रत्ययनिवृत्तौ च तत्कल्पितप्रकृतेरपि निवृत्तिः कल्प्येति गौरवमित्यन्यत्र विस्तरः॥
परान्नित्यं बलवत्
कृताकृतप्रसङ्गित्वात्। तत्राकॢप्ताभावकस्याभावकल्पनापेक्षया कॢप्ताभावकस्यैव तत्कल्पनमुचितमिति, नित्यस्य बलवत्वे बीजम्॥
तदाह :-
कृताकृतप्रसङ्गि नित्यम्, तद्विपरीतमनित्यम्
अत एव ऽतुदतिऽ इत्यादौ परादपि गुणान्नित्यत्वात् शप्रत्ययादिर्भवति॥
यद्व्यक्तिसम्भन्धितया पूर्वं प्रवृत्तिस्तद्व्यक्तिसम्भन्धितयैव पुनः प्रवृत्तौ
कृताकृतप्रसङ्गित्वमित्याशखयेनाह :-
शब्दान्तरस्य प्राप्नुवन्विधिरनित्यो भवति
इदं ऽशदेः शितःऽ इति सूत्रे भाष्ये स्पष्टम्। तत्र हि ऽन्यविशतऽ इत्यत्र विकरणे कृते तदन्तस्याड्, अकृते विकरणे धातुमात्रतस्येत्यडनित्य इत्युक्तम्॥
एतत्तुल्यन्यायेनाह :-
शब्दान्तरात् प्राप्नुवतः शब्दान्तरे प्राप्नुवतश्चानित्यत्वम्
एतन्मूलकमेवाह :-
लत्रणान्तरेण प्राप्नुवन् विधिरनित्यः
अतिदेशविषये इयम्"असिद्धवत्"सूत्रे कैयटेनोक्ता ॥
यदा तु शास्त्रव्यतिरेकेण तद्विधेयकार्ययोरेव नित्यत्वादि विचारो यदापि व्यक्तिविशेषाश्रयणाभावः, तदाह :-
क्वचित्कृताकृतप्रसङ्गमात्रेणापि नित्यता
कृते द्वितीये नित्यत्वेनाभिमतस्य पुनः प्रसङ्गमात्रं नित्यत्वव्यवहारे प्रयोजकम्, न तु बाधकाबाधित फलोपहित प्रसङ्गो ऽपि तथेति भावः॥
तदाह :-
यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम्
क्वचित्तु बाधकाबाधित फलोपहित प्रसङ्ग एव गृह्यते तदाह :-
यस्य च लक्षणान्तरेण निमित्तं विहन्यते तदप्यनित्यम्
.।
सप्तमे कैयटेनैतदुपष्टम्भकं लोकव्यवहारद्वयमुदाहृतम्। वालिसुग्रीवयोर्युध्यमानयोर्भगवता वालिनि हते ऽपि सुग्रीवस्य वालितः प्राबल्यं न व्यवहरन्ति, भगवत्सहायैः पाण्डवैर्जये लब्धेपि पाण्डवानां प्राबल्यं व्यवहरन्ति चेति
सर्वं चेदं लक्ष्यानुरोधाद् व्यवस्थितम्॥
"लुटः प्रथमस्य"इति सूत्रे भाष्ये -
स्वरिभन्नस्य प्राप्नुवन्विधिरनित्यो भवति
इति पठ्यते। यत्र त्वेकस्यैव कार्यस्य परत्वं नित्यत्वं च, तत्रेच्छयान्यतरत्तदुभयं वा तस्य बलवत्वे नियामकमुल्लेख्यम्। अत एव तत्र परत्वान्नित्यत्वाच्चेति भाष्ये उच्यते।
वस्तुतस्तत्र परत्वादित्युक्तिरेकदेशिनः। स्पष्टं चेदं विप्रतिषेध सूत्रे कैयटे।"णौचङि"इति ह्रस्वापेक्षया नित्यत्वान्तरङ्गत्वप्रयुक्तद्वित्वस्य प्रथमतः प्रवृत्तौ नित्यत्वादित्येव भाष्य उक्तम्। एवं नित्यान्तरङ्गयोर्बलवत्वमपि यौगपद्यासम्भव एवेति बोद्यम्॥
नित्यादप्यन्तरङ्गं बलीयः ; अन्तरङ्गे बहिरङ्गस्यासिद्धत्वात्। तदाह :-
असिद्धं बहिरङ्गमन्तरङ्गे
अन्तःउमध्ये, बहिरङ्ग शास्त्रीय निमित्तसमुदायमध्ये, अन्तर्भूतान्यङ्गानि निमित्तानि यस्य तदन्तरङ्गम्। एवं तदीयनिमित्तसमुदायाद् बहिर्भताङ्गकं बहिरङ्गम्। एतच्च"खरवसानोः"इति सूत्रे"असिद्धवत्
सूत्रे च भाष्यकैयटयोः स्पष्टम्। अत्राङ्ग शब्देन शब्दरूपं निमित्तमेव गृह्यते, शब्दशास्त्रे तस्यैव प्रधानत्वात्। तेन अर्थनिमित्तकस्य न बहिरङ्गत्वम्। अत एव"न तिसृचतसृ"इति निषेधश्चरितार्थः। अन्यथा
स्त्रीत्वरूपार्थनिमित्तकतिस्रापेक्षयान्तरङ्गत्वात् त्रयादेशे तदसङ्गतिः स्पष्टैव।
अत एव ऽत्रयादेशे स्रन्तस्य प्रतिषेधःऽ इति"स्थानिवत्"सूत्रस्थ भाष्यवार्तिकादि सङ्गच्छते।
एतेन ऽगौधेरः, ऽपचेरन्ऽ इत्यादावेयादीनामङ्गसंज्ञासापेक्षत्वेन बहिरङ्गतयासिद्धत्वाद् वलिलोपो न स्यादिति परास्तम्। एयादेशादेरपरनिमित्तकत्वेनान्तरङ्गत्वाच्च।
ननु"येनविधिस्तदन्तस्य"इति सूत्रे भाष्ये"इकोयणचि"इत्यादावपि तदन्तविधौ ऽस्योनःऽ इत्यत्र
अन्तरङ्गत्वाद् यणो गुणबाधकत्वमिष्यते, तन्न सिध्येत्, ऊनशब्दमाश्रित्य यणादेशः, न शब्धमाश्रित्य गुण इत्यन्तरङ्गत्वाद् गुण एव स्यादित्युक्तम्।
अत्र कैयटः। सिवेर्बाहुलकादौणादिके न प्रत्यये गुणवलोपोठां प्रसङ्गे ऊठपवादत्वाद् वलोपं बाधते, गुणं त्वन्तरङ्गत्वाद् बाधते। गुणोह्यङ्गसम्बन्धिनीमिग्लक्षणां लघ्वीमुपधामार्धधातुकं चाश्रयति। ऊठ् तु वकारान्तमङ्गमनुनासिकादिञ्च प्रत्ययमित्यल्पापेक्षत्वादन्तरङ्गः। तत्र कृते यण् गुणौ प्रप्नुत इति।
एवञ्च संज्ञापेक्षस्यापि बहिरङ्गत्वं स्पष्टमेवोक्तमितिचेत्, न ; तदन्तविधावपि बहुपदार्थापेक्षत्वरूप बहिरङ्गत्वस्य गुणे सत्वेन तत्र दोषकथनपरभाष्यासङ्गतेः।
बहिरङ्गन्तरङ्गशब्दाभ्यां बह्वपेक्षत्वाल्पापेक्षत्वयोः शब्दमर्यादयालाभाच्च। तथा सत्यसिद्धं बह्वपेक्षमल्पापेक्ष इत्येव वदेत्।
अत एव विप्रतिषेधसूत्रभाष्ये ऽगुणाद्यणादेशो ऽन्तरङ्गत्वात्ऽ इत्यस्य ऽस्योनःऽ इत्युदाहरणम्, न तु गुणादूठ् अन्तरङ्गत्वादित्युक्तम्।
त्वद्रीत्या तदपि वक्तुमुचितम्। प्रथम्यात् तदेव वा वक्तुमुचितम्। मम त्वन्तरङ्गपरिभाषया तद्वारणासम्भव्त् तन्नोक्तम्।
किञ्च सिद्धान्ते नित्यत्वाद् गुणात्पूर्वमूठ्, गुणस्तु यणा बाधितत्वादनित्यः। ऊनशब्दमाश्रित्येत्यादि भाष्यासङ्गत्या चिन्त्यम्।
वलि लोपे ऽन्तरङ्गपरिभाषा न प्रवर्तत इति तु न युक्तम्। तत्सूत्रे भाष्य एव व्रश्चादिषु लोपातिप्रसङ्गमाशङ्क्योपदेशसामर्थ्यान्न।
नच ऽवृश्चतिऽ इत्यादौ चारितार्थयम्, बहिरङ्गतया सम्प्रसारणस्यासिद्धत्वेन पूर्वमेव तत्प्राप्तेरिति भाष्योक्तेः।
यत्तु नलोपस्य षट्संज्ञायामसिद्धत्वात् ऽपञ्चऽ इत्यत्र"न षट्"इति निषेध इति, तच्चिन्च्यम्।
न लोपस्यहि पदसंज्ञासापेक्षत्वेन बहिरङ्गत्वं वाच्यम्, तच्च, न ; संज्ञाकृत बहिरङ्गत्वस्यानाश्रयणात्। ऽपञ्चऽ इत्यत्र
निषेधस्तु स्त्रियां यत्प्राप्नोति, तन्नेति व्याख्यानसामर्थ्येन भूतपूर्वषट्त्वमादायेति भोध्यम्।
अत एव कृतितुग्रहणं चरितार्थम्। ऽवृत्रहभ्याम्ऽ इत्यादौ पदत्वनिमित्तकत्वे ऽपि नलोपस्य बहिरङ्गत्वाभावात्। भ्यामः पदसंज्ञानिमित्तत्वे ऽपि नलोपस्य तन्निमित्तकत्वाभावात्। परम्परया निमित्तत्वमादाय बहिरङ्गत्वाश्रयणं तु न मानम्। ध्वनितं चेदम्"नलोपः सुप्"इतिसूत्रे भाष्य इति, तत्रैव भाष्यप्रदीपोद्योते निरूपितम्।
अन्तरङ्गे कर्तव्ये जातं तत्कालप्राप्तिकं च बहिरङ्गमसिद्धमित्यर्थः। व्रश्चादिषु पदसंस्कार पक्षे समानकालत्वमेव द्वयोरिति बोध्यम्।
एतेन ऽअन्तरङ्गं बहिरङ्गाद् बलीयःऽ इति परिभाषान्तरमित्यपास्तम्। एनामाश्रित्य ऽविप्रतिषेधऽ सूत्रे भाष्ये तस्याः प्रत्याख्यानाच्च।
अन्तरङ्ग शास्त्रत्वमस्यालिङ्गम्।
इये च त्रिपाद्यां न प्रवर्तते, त्रिपाद्या असिद्धत्वात्। अस्याञ्च"वाह ऊठ्"सूत्रस्थमूठ् ग्रहणं ज्ञापकमित्येषा सपादसप्ताद्यायीस्था। अन्यथा सम्प्रसारणमात्रविधानेन लघूपधगुणे"वृद्धि रेचि"इति वृद्धौ ऽविश्वौहःऽ इत्यादिसिद्धेस्तद्वैयर्थ्यं स्पष्टमेव। सत्यां ह्येतस्यां बहिरङ्गसम्प्रसारणस्यासिद्धत्वाल्लघूपधहुणो न स्यात्।
न च"पुगन्त"इति सूत्रे निमित्तमिको विशेषणम्, अत एव ऽभिनत्तिऽ इत्यादौ न गुणः। एवं
"नाजानन्तर्ये"इति निषेधात् कथं परिभाषाप्रवृत्तिरिति वाच्यम्, प्रत्ययस्याङ्गांश उत्थिताकाङ्क्षत्वेन तत्रवान्वयात्,"पुगन्त"इत्यादौ कर्मधारयाश्रयणेन प्रत्ययपराङ्गावयवलघूपधारूपेको गुण इति"इकोगुणवृद्धी"इति सूत्र भाष्य
सम्मतेर्ऽथे ऽभिनत्तिऽ इत्यादावदोषाच्च।
अकारान्तोपसर्गे ऽनकारान्ते चोपपदे वहेर्वाहेर्वा--ण्विविचावनभिधानान्नस्त एव।
वार्यूहेरित्यादि तु ऽऊहतेःऽ क्विपि बोध्यम्। धातूनामनेकार्थत्वान्नार्थासङ्गतिः। ऽप्रौहःऽ इत्याद्यसाध्वेव,
वृद्धेरप्राप्तेः। अस्योहस्यानर्थक्यान्न"प्रादूहोठ"इत्यस्यापि प्रवृत्तिः।
न च कार्यकालपक्षे त्रिपाद्यामेतत्प्रवृत्तिर्दुर्वारेति वाच्यम्, पूर्वं प्रति परस्यासिद्धत्वादन्तरङ्गाभावेन पूर्वस्य
तन्निरूपितबहिरङ्गत्वाभावात् तया तस्यासिद्धत्व प्रतिपादनासम्भवात्।
न चानया पूर्वस्यासिद्धत्वादभावेन तं प्रति परासिद्धत्वं पूर्वत्रेत्यनेन वक्तुमशक्यमिति वाच्यम्, एवं हि विनिगमनाविरहादुभयोरप्यप्रवृत्त्यापत्तेः।
किञ्च पूर्वत्रेत्यस्य प्रत्यक्षत्वेन तेनानुमानिक्या अस्या बाध एवोचितः। अतः कार्यकाल पक्षमेवोपक्रम्योक्तयुक्तीरुक्त्वा"अतो ऽयुक्तो ऽयं परिहारो न वा बहिरङ्गलक्षणत्वात्"इत्युक्तं विसर्जनीयसूत्रभाष्ये सिद्धान्तिना। त्रिपादीस्थे ऽन्तरङ्गे कर्तव्ये परिहारो न युक्त इति तदर्थः। किन्तु वचनमेवारब्धव्यमिति तदाशयः।
अत एव"निगाल्यते"इत्यादौ लत्वार्थम् ऽतस्य दोषःऽ इति वचनमेवारब्धम्। अन्यथान्तरङ्गत्वात्
णिलोपात् पूर्वं वैकल्पिकलत्वे तद्वैयर्थ्यं स्पष्टमेव।
ये ऽपि लक्ष्यानुरोधादानुमानिक्याप्यन्तरङ्गपरिभाषया प्रत्यक्षसिद्धस्य पूर्वत्रेत्यस्य बाधं वदन्ति, ते ऽपि लक्षणैकचक्षुर्भिर्नाऽदर्तव्येति दिक्। अत एव"ओमाङोश्च"इत्याङ्ग्रहणं चरितार्थम्। तद्धि"खट्वा आ ऊढः"इत्यत्र परमपि सवर्णदीर्घं बाधित्वान्तरङ्गत्वाद् गुणे कृते वृद्धिप्राप्तौ पररूपार्थम्। साधनबोधकप्रत्ययोत्पत्यनन्तरं पूर्वं धातोरुपसर्गयोगे पश्चात् ऽखट्वाऽ शब्दस्य समुदायेन योगात् गुणस्यान्तरङ्गत्वमिति"सम्प्रसारणाच्च"इति सूत्रे भाष्ये
स्पष्टम्।
ऽएहिऽ इत्यनुकरणस्य शिवादिशब्दसम्बन्धे तु नास्य प्रवृत्तिः, ज्ञापकपर"सम्प्रसारणाच्च"इति सूत्रस्थभाष्यप्रामाण्येनामित्यम्, ऽप्रकृतिवदनुकरणम्ऽ इत्यतिदेशमादाय लब्धाङ्गत्वे एतदप्रवृत्तेः।
यत्तु"पूर्वं धातुरुपसर्गेण युज्यते पश्चात् साधमेम। उपसर्गेण तत्संज्ञकशब्देन, साधनेन कारकेण तत्प्रयुक्तकार्येण च। अत एव ऽअनुभूयतेऽ इत्यादौ सकर्मकत्वात् कर्मणि लकार सिद्धिःऽ इति तन्न, क्रियायाः साध्यत्वेन
बोधात्, साध्यस्य च साधनाकाङ्क्षतया तत्सम्बन्धोत्तरमेव निश्चितक्रिया बोधेन साधनकार्यप्रवृत्युत्तरमेव क्रियायोगनिमित्तोपसर्गसंज्ञकस्य सम्बन्धौचित्यात्।
अत एव"सुट् कात्पूर्वः"इति सूत्रे"पूर्वं धातुरुपसर्गेण"इत्युक्त्वा ऽनैतत् सारम्,"पूर्वं धातुः साधनेन
युज्यते, पश्चादुपसर्गेण"इत्युक्त्वोक्तयुक्त्यास्यैव युक्तत्वमुक्तम्, ऽसाधनं हि क्रियां निर्वर्तयतिऽ इत्यादिना भाष्ये। उपसर्गद्योत्यार्थान्तर्भावेण धातुनैवार्थाभिधानादुक्तेषु कर्मणि लकारादि सिद्धिः। पश्चाच्छोतृबोधाय द्योतकोपसर्ग सम्बन्धः।
एवञ्चान्तरङ्गतरार्थतोपसर्गनिमित्तः सुट् सम् -- कृतीत्यवस्थायां द्वित्वादितः पूर्वं प्रवर्तते, ततो द्वित्वादि।
अत एव"प्रणिदापयति"इत्यादौ णत्वम् ऽयदागमाःऽ इति न्यायेन समाहितं भाष्ये। अत एव ऽप्रत्येति प्रत्ययःऽ इत्यादि सिद्धिः।
यदुपसर्गनिमित्तकं कार्यमुसर्गार्थाश्रितं विशिष्टोपसर्गनिमित्तत्वात् तदन्तरङ्गम्। यत्तु न तथा, तत्र पूर्वागतसाधननिमित्तकमेवान्तरङ्गम्। अत एव"न धातु"इति सूत्रे"प्रेद्धः"इत्यत्र"गुणो बहिरङ्गः"इति भाष्ये उक्तम्।
किञ्च"पूर्वमुपसर्गयोगे धातूपसर्गयोः समासे ऐकस्वर्याद्यापत्तिःऽ इति"उपपदमतिङ्"इति सूत्रे भाष्ये स्पष्टम्। भावार्थप्रत्ययस्यापि पूर्वमेवोत्पत्तिः। अत एव"णेरध्ययने"इति निर्देशः सङ्गच्छते। इदं च सामान्यापेक्षं ज्ञापकम्, भावतिङोऽपि पूर्वमुत्पत्तेः। अन्यथा तत्र समासापत्तिः। तिङि तु ऽअतिङ्ऽ इति निषेधान्न तत्र दोषः,
यदि भावतिङ्युपसर्गयोगो ऽस्तीत्यलम्।
यत्तु"विशेषापेक्षात् सामान्यापेक्षमन्तरङ्गम्"विशेषापेक्षे विशेषधर्मस्याधिकस्य निमित्तत्वात्। यथा"रुदादिभ्यः सार्वधातुके"इत्यत्र रुदादित्वं सार्वधातुकत्वं च। तत्र सार्वधातुकज्ञनाय प्रकृतेर्धातुत्वज्ञानं प्रत्ययस्य
प्रत्ययत्वज्ञानं चावश्यकमिति यासुडन्तरङ्गः। एतेन यत्"अनुदात्तङितः"इति सूत्रे कैयटेनोक्तम्
"लमात्रापेक्षयान्तरङ्गस्तिबादयो लकारविशेषापेक्षत्वाद्बहिरङ्गाः स्यादयः"इति, तत्परास्तम् ; विशेषापेक्षत्वे ऽपि तस्य सामान्यधर्मनिमित्तकत्वाभावेन तत्वस्य दुरुपपादत्वात्, परनिमित्तकत्वेन स्यादीनां बहिरङ्गत्वाच्चेति, तन्न ; विशेषस्य व्याप्यत्वेन व्यापकस्यानुमानेनोपस्थितावपि तस्य निमित्तत्वे मानाभावेनाधिकधर्मनिमित्तकत्वानुपपादनात्, भाष्ये एवंविध अन्तरङ्ग बहिरङ्गभावस्य, क्वाप्यनुल्लेखाच्च।
यत्तु मतुप्सूत्रे भाष्ये"पञ्च गावो यस्य सन्ति, स ऽपञ्चगुःऽ इत्यत्र मतुप्राप्तिमाशङ्क्य ऽप्रत्येकमसामर्थ्यात्, समुदायादप्रातिपदिकत्वात्, समासात्, समासेनोक्तत्वात्ऽ इति सिद्धान्तिनोक्ते ऽनैतत्सारम्, उक्ते ऽपि हि प्रत्ययार्थे उत्पद्यते द्विगोस्तद्धितो यथा ऽपाञ्चनापितिःऽ इति पूर्वपक्ष्युक्तिर्भाष्ये।"द्विगोर्लुगनपत्ये"इति लुग्विधानात् तद्धितार्थद्विगोस्तद्धितो भवति, पञ्चगुशब्दश्च द्विगुरिति तदाशयं कैयटः। ततः ऽद्वैमातुरःऽ ऽपाञ्चनापितिःऽ ऽपञ्चसु कपालेषु संस्कृतःऽ इत्यादौ सावकाशद्विगोर्बहुव्रीहिणा प्रकृते परत्वात् बाध इत्याशयेन"नैष द्विगुः, कस्तर्हि? बहुव्रीहिः"इति सिद्धान्तिनोक्ते तमवकाशमजानानो ऽपवादत्वाद् द्विगुः प्राप्नोति पूर्वपक्षी। अन्यपदार्थे सुबन्तमात्रस्य विधीयमान बहुव्रीहेः सङ्ख्यायास्तद्धितार्थे विधीयमानो द्विगुर्विशेषविहितत्वाद् बाधकः प्राप्नोतीति कैयटः।
ततः सिद्धान्त्येकदेशेयाह :-"अन्तरङ्गत्वाद् बहुव्रीहिः। कान्तरङ्गा? अन्यपदार्थे बहुव्रीहिः, विशिष्टे ऽन्यपदार्थे द्विगुः, तस्मिंश्चास्य तद्धिते ऽस्तिग्रहणं क्रियते"इति। अधिकास्त्यर्थापेक्षमत्वर्थनिमित्तो द्विगुर्बहिरङ्ग इति कैयट इति।
नैषा सिद्धान्त्युक्तिः, एतावताप्यपवादत्वहानेः। अच्सामान्यापेक्षयणो विशिष्टसवर्णाजपेक्षदीर्धेण बाध
दर्शनात्।
किञ्चोक्तरीत्या परत्वेन बाधसिद्धेः। किञ्चात्राधिकापेक्षत्वेनैव बहिरङ्गत्वम्, न केवलविशेषापेक्षत्वेनेति नतद्भाष्यारूढं विशेषापेक्षस्य बहिरङ्गत्वम्।
अत एव सुबन्तसामान्यापेक्षो बहुव्रीहिः, तद्विशेषापेक्षो द्विगुरिति नोक्तं भाष्ये।
न चार्थकृतबहिरङ्गत्वस्यानाश्रयणादिदमयुक्तम्, एकदेश्युक्तित्वेनादोषात्।
अत एवास्तिग्रहणं नोपाद्यर्थम्, किन्त्वस्तिशब्दान्मतुबर्थमिति त्वदभिमतं बहिरङ्गत्वमपि द्विगोर्नास्तीति प्रतिपाद्य सिद्धान्तिना"मत्वर्थे द्विगोः प्रतिषेधो वक्तव्यः"इति वचनेनैतत्सिद्धमित्युक्तम्।
अत एव"तदोः सः सावनन्त्ययोः"इति सूत्रे ऽनन्त्ययोरिति चरितार्थम्। अन्यथा प्रत्यय सामान्यापेक्षत्वेनान्तरङ्गत्वादन्त्यस्यात्वे ऽनन्त्यस्यैव सत्वे सिद्धे तद्वैय्यर्थ्यं स्पष्टमेव।"पादः पत्"इति सूत्रे
भाष्यकैयटयोरप्येतदन्तरङ्गत्वाभाव एव सूचित इति सुधियो विभावयन्तु।
नन्वेवं ऽअसुस्रवत्ऽ इत्यत्रलघूपधगुणादुवङोऽल्पनिमित्तत्वाभावादुवङ् न स्यदिति चेत्,न ;
तत्रान्तःकार्यत्वरूपान्तरङ्गत्वसत्वात्। अन्तःकार्यत्वं च पूर्वोपस्थितनिमित्तकत्वम्, अङ्गशब्दस्य निमित्तपरत्वात्।
इदमन्तरङ्गत्वं लोकन्यायसिद्धमिति"मनुष्यो ऽयं प्रातरुत्थाय शरीरकार्याणि करोति, ततः सुहृदां, ततः सम्बन्धिनाम्"। अर्थानामपि जातिव्यक्तिलिङ्गसंख्याकारकाणां बोधक्रमः शाश्त्रकृत्कल्पितः। तत्क्रमेणैव च तद्बोधकशब्धप्रदुर्भावः कल्पित इति तत्क्रमेणैव तत्कार्याणीति ऽपट्व्याऽ इत्यादावन्तरङ्गत्वात् पूर्वं पूर्वयणादेशः, परयणादेशस्य बहिरङ्गतयासिद्धत्वादित्यनेन"अचः परस्मिन्"इति सूत्रे भाष्ये स्पष्टम्।
तदपि युगपत्प्राप्तौ पूर्वप्रवृत्तिनियामकमेव। यथा ऽपट्व्याऽ इत्यत्र पदस्य विभज्यान्वाख्याने,
न तु जातस्य बहिरङ्गस्य तादृशे ऽन्तरङ्गे ऽसिद्धतानियामकम्,"प्रागुक्त लोकन्यायेन तथैव लाभात्"इति
"वाह ऊठ्"सूत्रे कैयटे स्पष्टम्।
अत एव वाय्वोरित्यादौ वलिलोपो यणः स्थानिवत्वेन वारितः,"अचः परस्मिन्"इत्यत्र भाष्यकृता। क्रमेणान्वाख्याने तूक्तोदाहरणे पूर्वप्रवृत्तिकत्वमन्तरङ्गत्वं बहिरङ्गस्यासिद्धत्वमपि निमित्तभावादप्राप्तिरूपं बोध्यम्।
यत्तु एवं रीत्या पूर्वस्थानिकमप्यन्तरङ्गमिति, तच्चिन्त्यम्, ऽस्रजिष्ठःऽ इत्यादौ विन्मतोर्लुकि
टिलोपस्यापवादविन्मतोर्लुक्प्रवृत्या जातिपक्षाश्रयणेन वारणप्रयासस्य"प्रकृत्यैकाच्"इति सूत्र प्रयोजनखण्डनावसरे
भाष्यकृत्कृतस्य नैष्फल्यापत्तेः। त्वदुक्त रीत्या विन्मतोर्लुको बहिरङ्गासिद्धत्वेनानायासतस्तद्वारणात्, भाष्य
ईदृशरीत्या बहिरङ्गासिद्धत्वस्य क्वाप्यनाश्रयणाच्च, परिभाषायामङ्गशब्दस्य निमित्तपरत्वाच्च।
इयं चोत्तरपदाधिकारस्थबहिरङ्गस्य नासिद्धत्वबोधिकेति"इच एकाचो ऽम्"इति सूत्रे भाष्ये
पूर्वपक्ष्युक्तिरिति सा नादर्तव्या।"परन्तपः"इत्यादावनुस्वारे नासिद्धत्वं मुमस्त्रिपाद्यां तदप्रवृत्तेः।
नव्य मते ऽपि यथोद्देशपक्षाश्रयणेनान्यथासिद्धोदाहरणदानेन तस्य तदुक्तित्वमावश्यकमित्याहुः। आभीये ऽन्तरङ्गे आभीयस्य बहिरङ्गस्य समानाश्रयस्य नानेनासिद्धत्वम्, अन्तरङ्गस्यासिद्धत्वादित्यसिद्धवत् सूत्रे भाष्ये स्पष्टम्।
एवम् सिचि वृद्धेः"येन नाप्रप्ति"न्यायेनान्तरङ्गबाधकत्वमूलकम्"न सिच्यन्तरङ्गमस्ति"
इति"इकोगुण"इति सूत्रे भाष्ये स्पष्टम्॥
नन्वेवम् ऽअक्षद्यूःऽ इत्यादौ बहिरङ्गस्योठो ऽसिद्धत्वादन्तरङ्गो यण् न स्यात्, अत आह :-
नाजानन्तर्ये बहिष्ट्वप्रकॢप्तिः
अत्र"षत्वतुकोः"इति सूत्रस्थं तुग्ग्रहणं ज्ञापकम्। अन्यथा ऽअधीत्य ऽप्रेत्यऽ इत्यादौ समासोत्तरं ल्यप्प्रवृत्या पूर्वं समासे जाते तत्र संहिताया नित्यत्वाद् ल्यबुत्पत्तिपर्यन्तमप्यसंहितयऽवस्थानासम्भवेन एकादेशे ल्यपि तुगपेक्षया पदद्वयसम्बन्धिवर्णद्वयापेक्षैकादेशस्य बहिरङ्गतयासिद्धत्वेन तद्वैयर्थ्यं स्पष्टमेव।
"पदद्वयसम्बन्धिवर्णद्वयापेक्षं बहिरङ्गम्"इति ऽप्रेद्धःऽ इत्यादौ गुणो बहिरङ्ग इति ग्रन्थेन"न धातु लोप"इति सूत्रे"संयोगान्तस्य लोपः"इति सूत्रे च भाष्ये स्पष्टम्।
यत्तु षत्वग्रहणमपि ज्ञापकम्, अन्यथा"को ऽसिचत्"इत्यादौ पदद्वयसम्बन्धिवर्णद्वयापेक्षत्वेन
बहिरङ्गस्यैकादेशस्यासिद्धत्वेन षत्व प्रवृत्तौ किं तेनेति। तन्न, इणः पूर्वपदसम्बन्धित्वेन षत्वस्यापि पदद्वय सम्बन्धिवर्णद्वयापेक्षत्वेनोभयोः समत्वात्।
एकादेशस्यपरादित्वेन ऽओसिचत्ऽ इत्यस्य पदत्वेन पदादित्वाभावान्न"सात्पदाद्योः"इत्यनेन निषेधः। त्रैपादिके ऽन्तरङ्गे कार्यकालपक्षेपि बहिरङ्गपरिभाषाया अप्रवृत्तेः पूर्वमुपपादितत्वाच्च।
परिभाषार्थस्तु -- अचो ऽन्यानन्तर्यनिमित्तके ऽन्तरङ्गे कर्तव्ये जातस्य बहिरङ्गस्य बहिष्ट्व प्रकॢप्तिः। बहिष्पदेन बहिरङ्गम्, तस्य भावो बहिरङ्गत्वम्। तत्प्रयुक्तासिद्धत्वस्य न प्रकॢप्तिः, न प्राप्तिरिति।
ऽअसिद्धं बहिरङ्गम्ऽ इत्युक्त्वा ऽनाजानन्तर्य इति वक्ष्यामिऽ इति भाष्याक्त्या तत्रत्यस्य अन्तरङ्ग इत्यस्यानुवृत्तिसूचनात्। तेन ऽपचावेदम्ऽ इत्यादौ न दोषः। अन्तरङ्गस्याच्स्थानिक कार्यस्यैत्वस्य अन्यनन्तर्य निमित्तकत्वाभावात्।
ऽजातस्य बहिरङ्गस्यऽ इत्युक्त्या ऽअजये इन्द्रम्ऽ ऽधियतिऽ इत्यादौ बहिरङ्गदीर्घ गुणादेरसिद्धत्वं सिद्धम्।
अत एव"इण्ङिशीनामाद् गुणः, सवर्णदीर्घत्वाच्छचङन्तस्यान्तरङ्गलक्षणत्वात्"इत्यादि सङ्गच्छते। अत एव"ओमाङोश्च"इत्याङ्ग्रहणं चरितार्थम्। तद्धि ऽशिवअआऐहऽ इति स्थिते परमपि सवर्णदीर्घं बाधित्वा धातूपसर्गकार्यत्वेनान्तरङ्गत्वाद् गुणे वृद्धिबाधनार्थम्।
ननु"अक्षद्यूः"इत्यत्र यणि कृते ऊठो ऽसिद्धत्वाद् वलिलोपापत्तिरिति वाच्यम्, अचो ऽन्यानन्तर्यनिमित्तके ऽन्तरङ्गे कर्तव्ये कृते च तस्मिन्यदन्तरङ्गं प्रप्नोति, तत्र च कर्तव्ये नासिद्धत्वमिति तदर्थात्। असिद्धपरिभाषाया अनित्यत्वेन तद्वारणे त्वस्या वैयर्थ्यं तेनैव सिद्धेः।
अत एव"न लोपः सुप्"इति सूत्रे कृति तुग्ग्रहणं चरितार्थम्। अन्यथा ऽवृत्रहभ्याम्ऽ इत्यादौ बहिर्भूतभ्याम्निमित्तकपदत्वाश्रयत्वेन बहिरङ्गतया नलोपस्यासिद्धत्वेन सिद्धेस्तद्वैयर्थ्यं स्पष्टमेव। मम तु
क्यजानन्तर्यसत्वान्न दोषः।
न चैवं सति"ह्रस्वस्यपिति"इति सूत्रस्य भाष्यविरोधः। तत्र हि ऽग्रामणि पुत्रःऽ इत्यत्र
"इकोह्रस्वो ऽङ्यः"इति ह्रस्वे कृते तुकमाशङ्क्य ह्रस्वस्यबहिरङ्गासिद्धत्वेन समाहितम्।"नाजानन्तर्या"इत्यस्य
सत्वे तत्र तदप्रप्तेरसङ्गतिः स्पष्टमेवेति वाच्यम् ; तेन भाष्येणास्या अनवकाशत्वबोधनात्। एतज्ज्ञापकेन अन्तरङ्गपरिभाषाया अनित्यत्वबोधनस्यैव न्याय्यत्वात्।
अत एव"अचः परस्मिन्"इति सूत्रे भाष्ये ऽपटु ई आऽ इत्यत्र परयणादेशस्य अनयासिद्धत्वात् पूर्वयणादेशः साधितः। अत एवैषा भाष्ये पुनः क्वापि नोल्लिखिता। अत एव अन्तरङ्गपरिभाषामुपक्रम्य विप्रतिषेधसूत्रे ऽस्या बहूनि प्रयोजनानि सन्ति, तदर्थमेषा परिभाषाकर्तव्या, प्रतिविधेयं
च दोषेषुऽ इत्युक्तम्,"सम्प्रसारणाच्च"इति सूत्रे भाष्ये। प्रतिविधानं च परिभाषाविषये ऽनित्यत्वाश्रयणमेवेति
ध्वनितमित्यलम्॥
नन्वेवम् ऽगोमत्प्रियःऽ इत्यादौ पदद्वयनिमित्तकसमाश्रितत्वेन बहिरङ्गं लुकं बाधित्वान्तरङ्गत्वाद्धल्ङ्यादिलोपे नुमादयः स्युः, अत आह :-
अन्तरङ्गानपि विधीन् बहिरङ्गो लुग् बाधते
अत्र च"प्रत्ययोत्तरपदयोश्च"इति सूत्रं ज्ञापकम्। ऽत्वत्कृतम्ऽ इत्यादौ लुगपेक्षया अन्तरङ्गत्वाद् विभक्तिनिमित्तकेन"त्वमावेकवचने"इत्यनेन सिद्ध इदं व्यर्थं सत्तज्ज्ञापकम्।
ननु ऽतव पुत्रः, त्वत्पुत्रःऽ इत्यादौ तवममादिबाधमार्थं तदावश्यकमिति चेत्, एवं तर्ह्यत्रत्य
मपर्यन्तग्रहणानुवृत्तिस्तज्ज्ञापिकेति भाष्यकृतः। युष्मदादिभ्य आचारक्विप् तु न, सम्पूर्ण सूत्रस्य ज्ञपकतापरभाष्यप्रामाणयात्,"ह्रस्वनद्यापः"इति नुड्विधायकसूत्रस्थप्रमाण्येन हलन्तेभ्यः आचारक्विपभावाच्च।
एवमेवैकार्थकाभ्यां प्रतिपादिकाभ्यां प्रातिपदिकणिचो ऽप्यनभिधानं बोध्यम्। एतेन तत्राऽदेशार्थं प्रत्ययग्रहणं चरितार्थमित्यपास्तम्।
ननु मपर्यन्तानुवृत्तिरपि सर्वादेशत्ववारणाय चरित्र्था। ऽन चोत्सर्गसमानादेशा अपवादाःऽ
इति न्यायेनासिद्धवत्सूत्रस्थभाष्यसम्मतेन मपर्यन्तस्यैवादेशे सिद्धे तदनुवृत्तिर्व्यत्थेति वाच्यम्, तस्य श्नमकजादौ व्यभितारादिति चेत्, न; श्नमि मित्वेन, बहुचि पुरस्ताद्ग्रहणेन, अकचि प्राक् टेग्रहणेन तस्य बाधे ऽप्यत्रोत्सर्गस्य
त्यागे मानाभावात्।
अत एव"तस्मिन्नणि च"इत्यनेन युष्माकाद्यादेशविधानं चरितार्थम्, अन्यथाऽकङादेशमेव
विदद्यात्। आकङि तवकाद्यादेशयोरेतदपवादयोरुक्तन्यायेनान्त्यादेशत्वापत्तिः, अतस्तद्विधानम्, इदमेवच तज्ज्ञपकम्।
यद्यपि विरोधे बाधकत्वमिति वार्तिकमते ऽयं न्यायः, भाष्यकारस्तु विनापि विरोधं सत्यपि सम्भवे बाधकत्वमिच्छति, इत्यनभिहितसूत्रस्थकैयटरीत्या नायं नियमः, तथापि युष्मकाद्याऽदेशविधानज्ञापित उत्सर्गः स्वीक्रियत एवेति प्रकृते न दोषः। एतद् भाष्यमपि तत्स्वीकारे मानम्।
एवञ्च मपर्यन्तानुवृत्तिः ऽत्वत्कृतम्ऽ इत्यादौ मपर्यन्तस्याऽदेशविधानार्था। तत्र च अन्तरङ्गत्वात् त्वमावित्येव सिद्धे व्यर्था संतज्ज्ञपिका। ज्ञापिते त्वस्मिन्नेतद्विषये तवादीनामप्राप्त्या तदपवादत्वाभावेन मपर्यन्तस्यवाऽदेशार्थं सा चरितार्थेति तदाशयः।
यत्तु हरदत्तेनान्तरङ्गप्रवृत्तौ प्रत्यय उत्तरपदे च मपर्यन्तासम्भवेन तदनुवृत्तिर्व्यर्था सती ज्ञपिकेत्युक्तम्, तत्, न; अन्तरङ्गाणामप्यपवादबाध्यत्वेन तद्विषये तदप्रवृत्तेः।
वस्तुत इदं ज्ञापकं वार्तिकरीत्यैव, भाष्यरीत्या तु वाचनिक एवायमर्थ इत्याहुः।
इयम्"सुपो धातु"इति लुग्विषयैवेति केचित्।"एङ्ह्रस्वात्सम्बुद्धेः" "न यासयोः"इति सूत्रस्थाकरप्रामाण्येन लुग्मात्र विषया। आद्ये ऽहे त्रपुऽ इत्यादावनेन न्यायेन लोपं बाधित्वा लुग् भवतीति भाष्ये
उक्तम्। अन्त्ये ऽन्तरङ्गांश्च विधीन् सर्वो ऽपि लुग्बाधते, न तु सुब्लुगेव। अत एव"सनीस्रंसः"इत्यादौ नलोपो न भवति। ऽपञ्चभिः खट्वाभिः क्रीतः, पञ्चखट्वःऽ इत्यादावेकादेशात् प्रागेव टापो लुक्। अन्यथा
कृतैकादेशस्य लुक्यकारश्रवणं न स्यादिति कैयटे उक्तम्।
एतद्विरोधाद् यत्"तद्राजस्य"इति सूत्रे कैयटेनोक्तम् ऽ अङ्गानतिक्रान्तो ऽत्यङ्गःऽ इत्यत्र
सुपोलुकि बहुवचन परत्वाभावात् "तद्राजस्य"इति लुग् न स्यादिति शङ्कापरभाष्यव्याख्यावसरे अन्तरङ्गानपीति न्यायेनायं लुक् सुब्लुको बाधकः स्यादित्याशङ्क्य सुब्लुक एवानेन बलवत्वं बोध्यत इति तत्प्रौढ्येति द्रष्टव्यम्। लुगपेक्षया लुको बलवत्वस्य वक्तुमशक्यत्वादिति तदा शङ्का समाधानं वक्तुं युक्तम्।
अनेन न्यायेनान्तरङ्गनिमित्तविनाशकलुकस्तत्प्रयोजकसमासादीनां च प्राबल्यं बोध्यत इत्यन्यत्र विस्तरः॥
नन्वेवम् सौमेन्द्रे ऽन्तरङ्गत्वादाद्गुणे पूर्वपदात्परेन्द्रशब्दाभावेन"नेन्द्रस्यपपरस्य"इति वृद्धिनिषेधो व्यर्थः। अन्तादिवद्भावस्तूभयत आश्रयणे निषिद्धः।
किञ्च वृद्धिरप्यत्र न प्राप्नोति, अन्तादिवत्वोभयाभावे ऽपि पूर्वान्तवत्वेनैकादेशविशिष्टे पूर्वपदत्वेनेन्द्रशब्दस्य ऽएकदेशविकृतऽ न्यायेन ऽउभयत आश्रयणे नान्तादिवत्ऽ इत्यस्याभावेन तदाश्रयणेन वोत्तरपदत्वे ऽपि तस्यानच्कत्वादेकस्यैकादेशेन परस्य नित्येन"यस्येति"लोपेनापहारात्।
न च परादिवद्भावेनैकादेशविशिष्टस्योत्तरपदत्वमेवास्त्विति तत्सम्भव इति वाच्यम्; उत्तरपदाद्यच्स्थानिकत्वाद् वृद्धेस्तदभावेनाप्राप्तेस्ताद्रूप्यानतिदेशात्।
अन्यथा ऽखट्वाभिःऽ इत्यादावपि पूर्वान्तवत्वेनादन्तत्वे भिस ऐसापत्तिरिति भाष्ये स्पष्टम्।
अत एव ऽपूर्वेषुकामशमःऽ इत्यादावन्तरङ्गत्वाद् गुणे वृद्धिर्नस्यादित्याशङ्कितम्। तदेकदेशमात्रस्य विकाराभावाच्च। तदुक्तं भाष्ये ऽइन्द्रेद्ववचौ, एकः"यस्येति"लोपेनापहृतो ऽपर एकादेशेन, ततो ऽनच्क इन्द्र शब्दः
सम्पन्नस्तत्र कः प्रसङ्गो वृद्धेरिति।
मरुदादिभिरिन्द्रस्य द्वन्द्वे इन्द्रस्यैव पूर्व निपातः, अत आह :-
पूर्वोत्तरपदनिमित्तकार्यात् पूर्वमन्तरङ्गे ऽप्येकादेशो न
अत्र च"नेन्द्रस्य"इति निषेध एव ज्ञापक इति"अन्तादिवच्च" "विप्रतिषेधे परम्"इति
सूत्रयोर्भाष्ये स्पष्टम्॥
नन्वेवमपि ऽप्रधाय, प्रस्थायऽ इत्यादावन्तरङ्गत्वाद्वित्वादिषु कृतेषु ल्यप् स्यादत आह :-
अन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब्बाधते
"अदो जग्धिः"इति सूत्रे ति कितीत्येव सिद्धे ल्यब्ग्रहणमस्या ज्ञपकमिति"अदो जग्धिः"इत्यत्र भाष्ये स्पष्टम्॥
नन्वेवमपि"इयाय"इत्यादौ द्वित्वे कृते ऽन्तरङ्गत्वात् सवर्णदीर्घत्वे तदसिद्धिरत आह :-
वार्णादाङ्गं बलीयो भवति
तेनान्तरङ्गमपि सवत्णदीर्घं बाधित्वा वृद्धिरिति तत्सिद्धिः।"अभ्यासस्यासवर्णे"इतीयङ्
विधायक सूत्रस्थमसवर्णग्रहणमस्या ज्ञापकम्। तद्धि ऽईषतुःऽ इत्यादावियङादिव्यावृत्यर्थम्। एतत्परिभाषाभावे तु ऽईषतुःऽ इत्यादावन्तरङ्गेण सवर्णदीर्घेण बाधात्तद्व्यर्थम्। इयङुवङौ ह्यभ्याससम्बन्धनिमित्तकत्वाद् बहिरङ्गौ।
न चेयङादिरपवादः, ऽयेननाप्राप्तिऽ न्यायेन ऽइयतिऽ इत्यादिसकललक्ष्य प्राप्त यणपवादत्वस्यैव निर्णयादिति प्राञ्चः।
परे तु - एतत्परिभाषाभावे"अभ्यासस्य"इति सूत्रमेव व्यर्थम्।
न च ऽइयायऽ ऽइयेषऽ इत्यादौ चरितार्थम्, तयोरपि पूर्वप्रवृत्तगुणस्य पूर्वप्रवृत्तवृद्धेश्च
"द्विर्वचनेचि"इति रूपातिदेशेनापहारे द्वित्वे कृते पुनः प्राप्ते गुणवृद्धी बाधित्वान्तरङ्गत्वात् सवर्णदीर्धापत्तेः। न च ऽइयतिऽ इत्यादौ तच्चरितार्थम्, तावन्मात्रप्रयोजकत्वे ऽउःऽ इत्येव ब्रूयात्। य्वोरित्यनुवर्तते,"इणो यण्"इति
साहचर्याद् व्याख्यानाच्च ऋधातोरेव ग्रहणम्। अतः इवर्णस्येयङित्यर्थः। "अभ्यासस्यातौ"इति
"अभ्यासस्यार्तेः"इति वा गुरुत्वान्न युक्तम्।
न च"ए,ऐ,ओ,औ"शब्देभ्य आचारक्विबन्तेभ्यो लिटीयङाद्यर्थं तत्सूत्रनावश्यकम्, तथा"उवोणकीयिषति"इत्याद्यर्थमावश्यकमिति वाच्यम्, षाष्ठप्रथमान्हिकान्तस्थ भाष्य प्रामाण्येन तेषामनभिधानात्।
अन्त्ये द्वितीयद्विर्वचनस्यैव सत्वेन त्वदुक्त प्रयोगस्यैव दुर्लभत्वात्। एवञ्च सम्पूर्ण सूत्रस्य ज्ञापकता युक्ता।
यद्यपि भाष्ये ऽयदयमभ्यासस्यासवर्ण इत्यसवर्णग्रहणं करोतिऽ इति ग्रन्थेनासवर्णग्रहणस्यैव
ज्ञापकता लभ्यते, तथापि ऽन ह्यन्तरेण गुणवृद्धी असवर्णपराभ्यासो भवतिऽ इति तदुपपादन ग्रन्थेन सम्पूर्ण सूत्रस्यैव ज्ञापकता लभ्यते।
अग्रे ऽपि ऽनैतदस्ति ज्ञापकम्, अत्यर्थमेतत् स्यात्ऽ इत्यनेन सूत्र सार्थक्यमेव दर्शितम्। असवर्णग्रहणस्यैव ज्ञापकत्वे तु तद्व्यावर्त्यप्रदर्शनेन तत् सार्थक्यमेव दर्शितं स्यात्।
न च ऽअकृतव्यूहऽ परिभाषया ऽइयेषऽ इत्यादौ सवर्णदीर्धाप्राप्तिः, यदि दीर्धोनस्यात्, तर्हि
गुणः स्यादिति सम्भावनायाः सत्वेन परिभाषाप्रवृत्तेः सूपपादत्वादिति कथं सम्पूर्ण सूत्रस्य ज्ञापकतेति वाच्यम्, तस्या असत्वात्। सत्वे वैतद्भाष्यप्रामाण्येन यत्रान्तरङ्गकार्यप्रवृत्तियोग्यकालोत्तरमेव तन्निमित्तविनाशक बहिरङ्गविधेः प्रप्तिः, तत्रैव तत्परिभाषाप्रवृत्तिस्वीकाराच्च।
न चान्तरङ्गत्वाद् दीर्धोपि ऽइयायऽ इत्यादौ पूर्वान्तवत्वेनाभ्यासत्वादिवर्णत्वाच्च णल्यसवर्ण इयङ्विधानेन सूत्रं चरितार्थम्।
न च"अचि श्नु"इत्यनेन सिद्धिः, वृद्धिबाधनार्थत्वादिति वाच्यम्। प्रत्यासत्यासवर्ण पदेन अभ्यासोत्तरखण्डसम्बन्ध्यसवर्णाच एव ग्रहणात्, शास्त्रबाधकल्पनापेक्षया परिभाषाज्ञापकत्वस्यैवौचित्याच्चेत्याहुः।
सा चेयं धर्मिग्राहकमानादाङ्गवार्णयोः समानकार्यित्व एव।
यत्तु समाननिमित्तकत्वरूपसमानाश्रयत्व एवैषेति, तत्, न ; ज्ञापिते ऽपि"इयाय""इयेष"इत्याद्यसिद्धेः, सूत्रवैयर्थ्यस्य तदवस्थात्वाच्च।
"स्योनः"इत्यत्र तु वक्ष्यमाणरीत्यास्या अनित्यत्वादप्रवृत्तौ गुणादन्तरङ्गत्वाद् यणादेशः।
न चैवमपि ऽइयायऽ इत्यादावियङ् दुर्लभः, तत्र कर्तव्ये वृद्ध्यादेः स्थानिवत्वेन ऽअसवर्णेऽ इति प्रतिषेधादिति वाच्यम्, सूत्रारम्भसामर्थ्यादेव स्त्थानिवत्वाप्रवृत्तेः। तच्च सामान्यापेक्षम्। अभ्यासकार्ये तदुत्तरखण्डादेशस्य तत्कार्यप्रतिबन्धकीभूतं स्थानिवत्वं नेति।
अत एव ऽआरतिऽ इत्यादौ यणादेशस्य स्थानिवत्वादभ्यासस्य"ढ्रलोपे"इति दीर्धो दुर्लभ इत्यपास्तम्। दीर्घविधौ तन्निषेधाच्च।
"अरियियात्"इत्यत्र स्थानिवत्वेनेयङ् भवत्येव, तस्य स्थानिवत्वस्याभ्यासकार्य प्रतिबन्धकत्वाभावात्।
ऽइयञ्चाङ्गसम्बन्धिन्याङ्ग एवऽ इति"स्वरितो वा"इति सूत्रे भाष्ये। तत्र हि ऽकुमार्यैऽ इत्यादो यणुत्तरमाडुक्तः।
इयञ्चानित्या ऽछ्वोःऽ इति सतुग्निर्देशात्। अन्यथान्तरङ्गत्वात् पूर्वं तुकः शादेशे तुको ऽप्राप्त्या तद्वैयर्थ्यं स्पष्टमेवेत्यन्यत्र विस्तरः॥
नन्वेवम् ऽसेदुषःऽ इत्यादौ क्वसोन्तरङ्गत्वादिटि, ततः सम्प्रसारणे ऽपीटः श्रवणापत्तिरिति चेत्, अत्र केचित्--
अकृतव्यूहाः पाणिनीयाः
न कृतो विशिष्ट ऊहः -- निश्चयः, शास्त्रप्रवृत्तिविषयो यैरित्यर्थः। भावि निमित्तविनाश इत्यद्याहारः। बहिरङ्गेणान्तरङ्गस्य निमित्तविनाशे पश्चात् सम्भाविते ऽन्तरङ्गं नेति यावत्।
अत्र च - ज्ञापकम्,"समर्थानां प्रथमात्"इति सूत्रे समर्थानामिति। तद्धि सूत्थितादिभ्यः
कृतदीर्घेभ्यः प्रत्ययोत्पत्यर्थम्। अन्यथान्तरङ्गत्वाद् दीर्धे कृत एव प्रत्ययप्राप्त्या तद्व्यर्थता स्पष्ट एव।
न चात्रैकादेशप्रवृत्ति समये वृद्ध्यप्राप्त्यैकादेशे कृत आदेशे वृद्धेः प्रप्तावपि तन्निमित्तविनाशाभाव इति वाच्यम्, तद्दवारैव तन्निमित्तविनाशसत्वेनाक्षतेः।
न च सौत्थितौ बहिरङ्गतया वृद्धेरसिद्धत्वान्न तन्निमित्तविनाश इति वाच्यम्, समर्थग्रहणेनैतद्
विषये तस्या अप्रवृत्तेरपि ज्ञापनात्।
यत्तु समर्थग्रहणेनान्तरङ्गपरिभाषाया अनित्यत्वमेव ज्ञाप्यत इति। तन्न, असिद्ध परिभाषाया समकालप्राप्त बहिरङ्गस्य पूर्वं जातबहिरङ्गस्य चान्तरङ्गे कर्तव्ये ऽसिद्धत्वं बोध्यते, न तु जाते ऽन्तरङ्गे तस्य तत्व बोध्यते, मानाभावात्, फलाभावाच्च।
एवञ्च सूत्थितावेकादेशस्य परिभाषासाध्यत्वाभावेन तदनित्यत्वज्ञापनासम्भवात्।"अन्तरङ्गानपि विधीन्"इत्यादेरप्यस्यामेवान्तर्भावः।
एतत् प्रवृत्तौ च निमित्तविनाशसम्भावनापि निमित्तम्। अत एव ऽगोमद्दण्डीऽ इत्यादौ हल्ङ्यादि लोपो न।
अन्यथा हल्ङ्यादि लोप काले सामासिक लुको ऽप्राप्त्या तदुत्तरं चापहार्याभावादप्राप्त्या लोपस्यैवापत्तेः। अस्ति चात्रापि ऽयदि लोपो न स्यात्, तर्हि लुक् स्यात्ऽ इति सम्भावना।
"अल्लोपोनः"इति सूत्रस्थ तपरकरणं तु परिभानित्यत्वज्ञापनेनचरितार्थम्। तद्धि ऽआनऽ इत्यादो लोपवारणाय। अन्यथा दीरीघाभावे लोपसम्भावनयैतत्परिभाषाबलात् दीर्घाप्राप्तौ तद्वैयर्थ्यं स्पष्टमेवेत्याहुः।
"समर्थानाम्"इति सूत्रे कैयटस्तु समर्थवचनेनेयं परिभाषा ज्ञाप्यते"अकृतव्यूहाः पाणिनीयाः"इति। तेन ऽपपुषःऽ इतियादावन्तरङ्गात्पूर्वं कृतो ऽपीडागमो निवर्तत इति वदन् ऽन कृतो व्यूहः विशिष्टस्तर्को निमित्तकारणविनाशे ऽपि कार्यस्थितिरूपो यैःऽ इत्यर्थमभिप्रैति। ऽनिमित्तापाये नैमित्तिकस्याप्यपायःऽ इति यावत्। सूत्थितादिञि वृद्धौ दीर्घनिवृत्तौ सावुत्त्थितिर्माभूदिति समर्थानामिति।
लोकन्याय सिद्धश्चायमर्थः। तथा हि लोके निमित्तं द्विविधं दृष्टम्--कार्यस्थितो नियामकं तदनियामकं च।
आद्यं यथा न्यायनये ऽपेक्षा बुद्धिः, तन्नाशे द्वित्वनाशाभ्युपगमात्। वेदान्ति नये प्रारब्धस्य विक्षेपस्थिति नियामकत्वं च प्रसिद्धमेव।
द्वितीयं यथा दण्डादि, तन्नाशे ऽपि घटनाशदर्शनात्। शास्त्रे लक्ष्यानुरोधाद् व्यवस्था।
भाविनिमित्तविनाशे पूर्वमनुत्पत्तौ तु न कश्चिन्न्यायःनापि सम्प्रतिपन्नो दृष्टान्तः। समर्थानामित्यस्यापि लोकसिद्धार्थज्ञापनेन चर्तार्थ्यसम्भवे लोकसिद्धापूर्वतादृशार्थज्ञपकत्वे मानाभाव इति तदाशय इति बोध्यम्।
परे तु ऽसेदुषःऽ इत्यादौ पदावधिके ऽन्वाख्याने ऽसेद् वस् अस्ऽ इति स्थिते इट् सम्प्रसारणयोः प्रप्तौ प्रतिपदविधित्वात् पूर्वं सम्प्रसारणे वलादित्वाभादिटः प्राप्तिरेव नेति तत्सिद्धिरिति स्पष्टम्"समर्थानाम्"इति सूत्रे कैयटे,"असिद्धवत्"सूत्रे कैयटे च स्पष्टमेतत्।
यद्यपि प्रतिपदविधित्वमनवकाशत्वे सत्येव बाधकत्वे बीजम्, तथापि पूर्वप्रवृत्तौ सावकाशत्वे ऽपि नियामकं भवत्येवेति तदाशयः। निरूपितं चैतद् बहुशः शब्देन्दुशेखरादौ।
"समर्थानाम्"इति सूत्रस्थसमर्थग्रहणं तु ऽविषुणःऽ इत्यादावकृतसन्धेः प्रत्ययदर्शनेन सर्वत्र तथा भ्रमवारणाय न्यायसिद्धार्थानुवाद एव।
ध्वनितं चेदम्"विप्रतिषेध"सूत्रे भाष्ये। तत्र हि ऽवैक्षमणिःऽ इत्यन्तरङ्ग
परिभाषोदाहरणमुक्तम्।
किञ्च विभज्यान्वाख्याने ऽसु उत्थित अस् इऽ इत् स्थिते ऽवार्णादाङ्गं बलीयःऽ इति प्राप्त वृद्धि
वारणाय समर्थग्रहणमित्यत्रैव कैयटे स्पष्टम्।
अत एव"असिद्धवत्"सूत्रे ऽवसुसम्प्रसारणमज्विधौ सिद्धं वक्तव्यम्ऽ ऽपपुषःऽ इत्यादौ वसोः
सम्प्रसारणे कृते आतो लोपो यथा स्यात्ऽ इति भाष्ये उक्तम्। पदस्य विभज्यान्वाख्याने पूर्वोक्तकैयटरीत्या पूर्वं सम्प्रसारणे इटोप्राप्तावुस्निमित्तक एवाऽतो लोप इति तदसङ्गतिः।
अत एव ऽचौप्रत्यङ्गस्तप्रतिषेधःऽ इति वचनं वार्तिककृताऽरब्धम्, भाष्यकृता च न प्रत्याख्यातम्। प्रत्यङ्गं अन्तरङ्गम्। अस्यां परिभाषायां सत्यां तु तद्वैयर्थ्यं स्पष्टमेव।
अत एव"छ्वोः"इति सूत्रे ऽअवश्यमत्र तुगभावार्थो यत्नः कार्यःऽ अन्तरङ्गत्वाद्धि तुक् प्राप्नोतिऽ इति भाष्ये उक्तम्। एतत्सत्वे तु तुको ऽप्राप्त्या यत्नावश्यकत्वकथनमसङ्गतमिति स्पष्टमेव।
न चैतदनित्यत्वज्ञापनार्थमेव तदिति तदाशयः, अवश्यमत्रेत्यक्षरस्वारस्यभङ्गापत्तेः।
किञ्चानयैव"प्रत्ययोत्तरपदयोश्च" "अदो जग्धिर्ल्यप्ति किति"इतियनयोश्चारितार्थ्येन तज्ज्ञापकवशाल्लुग्ल्यपोरन्तरङ्गबाधकता भाष्योक्ता भज्येत।
किञ्चैषा भाष्ये न दृश्यते। तदुक्तम्"असिद्धवत्"सूत्रे कैयटेन ऽनिमित्तापाये नैमित्तिकस्याप्यपायःऽ इति परिभाषायाः ऽभष्यकृतानाश्रयणात्ऽ इति। पदसंस्कार पक्षे ऽहरिःऽ इत्यादौ विसर्गे कृते
ततो गच्छतीत्यादि सम्बन्धे ऽहरिः गच्छतिऽ इत्याद्येव साधु। तद्विषये पदसंस्कारपक्षानाश्रयणं वेति दिक्॥
"अन्तरङ्गादप्यपवादो बलीयान्"।--- तत्र अपवाद पदार्थमाह ---
येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति
प्राप्त इति भावे क्तः, येन नाप्राप्त इत्यस्य यत्कर्तृकावश्यप्राप्तावित्यर्थः। नञ् द्वयस्य प्रकृतार्थदार्ढ्यबोधकत्वात्।
एवञ्च विशेषशास्त्रोद्देश्यविशेषधर्मावच्छिन्नवृत्तिसामान्यधर्मावच्छिन्नोद्देश्यकशास्त्रस्य विशेषशास्त्रेण
बाधः।
तदप्राप्तियोग्ये ऽचारितार्थ्यं ह्येतस्य बाधकत्वे भीजम्। अत एव"आयादयः"इति सूत्रे ऽगोपायिष्यतिऽ इत्यादावायादीन् बाधित्वा परत्वात् स्यादयः प्राप्नुवन्तीत्याशङ्क्य"अनवकाशाः आयादयः"ऽगोपायतिऽ इत्यादावपि शप् स्यादिः प्रप्नोति।
न च सति शप्यसति वा न विशेषः। अन्यादिदानीमिदमुच्यते--नास्ति विशेष इति। यदुक्तम्"आयादीनां स्यादिभिरव्याप्तो ऽवकाश इति स नास्त्यवकाश"इति भाष्ये उक्तम्।
एवमत्र तत्प्रवृत्युत्तरं चारितार्थ्ये ऽपि तदव्याप्तो ऽवक्शो नास्तीति सममेव।
किञ्च तत्प्रवृत्युत्तरमपि चारितार्थ्ये तद्बाधबोधनम्। अन्यथानवकाशत्वेनैव बाधे सिद्धे एतत्कथनवैयर्थ्यापत्तेः,"तक्रकौण्डिन्य"न्यायप्रदर्शनस्यापि वैयर्थ्यापत्तेश्च। तथा प्रथमद्विर्वचनस्य तदुत्तरं सावकाशेनापि
द्वितीयद्विर्वचनेन बाधः। यथा वाऽदेरपि प्रवृत्या चरितार्थेन ऽआदेः परस्यऽ इत्यनेन ऽअलो ऽन्त्यस्यऽ इत्यस्य बाधः।
तदुक्तम्"मिदचो ऽन्त्यात्"इति सूत्रे भाष्ये"सत्यपि सम्भवे बाधनं भवति"इति। अन्यथा"ब्राम्हणेभ्यो दधि दीयताम्, तक्रं कौण्डिन्याय"इत्यत्र तक्रदानेन दधिदानस्य बाधो न स्यात्। तद्दनोत्तरं तत्पूर्वं वा तद्दनस्य चारितार्थ्यसम्भवात्। अत एव विषयभेदे ऽप्यपवादत्वम्।
अत एवाचिरादेशेन नुटो ऽप्यपवादत्वात् बाधमाशङ्क्य ऽन तिसृऽ इति ज्ञापकेन समाहितम्"तृज्वत्" सूत्रे भाष्ये। तेन विषयभेदे ऽपवादत्वाभाव एव बोध्यत इति कश्चित्, तन्न ; विन्मतोर्लुका टिलोपमात्रस्य बाधानापत्तेः।
।कतिपयसंस्करणे यद्यपि"अन्तरङ्गादप्यपवादो बलीयान्"इत्यपि परिभाषारूपेणाङ्गीकृतम्, किन्तु ऽपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयःऽ इत्यनेन गतार्थत्वात्, नागेशलेखनस्वरसात्, परिभाषापाठे पठितत्वात्,
चन्द्रिकाकारेण धृतत्वात्, सिद्धान्त कौनुद्यां भट्टोजि दीक्षितेनापि स्वीकृतत्वात्, येननाप्राप्ते योविधिरारभ्यते स
तस्य बाधको भवति इत्येवात्र परिभाषारूपेण पठ्यते॥
यत्तु ऽदयतेर्दिगिऽ इति सूत्रे द्वित्वोत्तरं दिग्यादेशस्य चारितार्थ्यं कैयटेनोक्तम्, तत् प्रौढ्या।
ध्वनितञ्च तेनापि तस्य तथात्वं तदुत्तरग्रन्थेन।
"असम्भव एव बाधकत्वम्, विरोधस्य तद्बीजत्वात्"इति वार्तिकमतं तु भाष्यकृता दूषितत्वान्न लक्ष्यसिद्ध्युपयोगि।
"तक्रकौण्डिन्य"न्यायोपि तदप्राप्तियोग्ये ऽचरितार्थविषयो विधेयविषय एव चेति"तद्धितेष्वचामादेः" "धातोरेकाचः"इत्यादि सूत्रेषु भाष्ये स्पष्टम्।
क्वचित्तु सर्वथानवकाशत्वादेव बाधकत्वम्। यथा ङेरामो याडादिबाधकत्वम्। न हि याडादिषु कृतेषु ङेराम् प्रप्नोति, निर्दिश्यमानस्य व्यवधानात्। तत्र स्वस्य पूर्वं प्रवृत्तिरित्येव तेषां बाधः। तत्र बाधके प्रवृत्ते यद्युत्सर्गप्राप्तिर्भवति तदा भवत्येव। यथा तत्रैव याडागमः। अप्राप्तौ तु न, यथा ऽपचेयुःऽ इत्यादौ दीर्घवाधके निरवकाश इयादेशे दीर्घाभावः॥
तदेतत् पठ्यते --
क्वचिदपवादविषये ऽप्युत्सर्गो ऽभिनिविशत इति
अपवादशब्दो ऽत्र बाधकपरः। तदुक्तम्"गुणो यङ्लुकोः"इत्यत्र भाष्ये। अभ्यासविकारेष्वपवादा उत्सर्गान्न बाधन्ते। ऽअजीगणत्ऽ। अत्र गणेरीत्वमपवादत्वाद्धलादिःशेषं बाधते। नगणेरीत्वमपवादत्वाद्धलादिःशेषं बाधते। किं तर्ह? अनवकाशत्वादिति ग्रन्थेन गणरूपाभ्यासान्त्यणस्येत्वमित्यर्थे हलादिःशेष तन्निवृत्तौ तदनवकाशम्, ईत्वे तु कृते तस्य प्रप्तिः, अन्त्य हलो ऽभावात्। अभ्यासविकारेषु बाध्यबाधकभावाभावेन च साधितम्। तस्मिंश्च सति लोपे कृते सामर्थ्याच्छिष्टस्यान्त्यस्येत्वमिति न दोषः।
न च ऽयेन नाप्राप्तिऽ न्यायेनापवादत्वमप्यस्य सुवचम्, तस्य चरितार्थविषयताया उक्तत्वात्।
"इको झल्"इत्यत्र भाष्येपि ध्वनितमेतत्। तत्र हि ऽअज्झनऽ इति दीर्धेण गुणोत्तरं फलाभावेनानवकाशत्वाद् गुणो बाधिते दीर्घोत्तरं गुणः स्यात्, दीर्घविधानं तु मिनोतेर्दीर्धे कृते"सनि मीमा"इत्यत्र मीग्रहणेन ग्रहणेर्ऽथवत्तत्र पश्चात् प्रप्तगुणबाधनार्थम्,"इको झल्"इति कित्वमित्युक्तम्। अन्यथापवादत्वेन बाधे तद्विषये उत्सर्गाप्रवृत्तेर्भाष्यस्य सूत्रस्य चासङ्गतिरिति स्पष्टमेव।
यत्तु काञ्चनीत्यादावपवादमयड्विषये ऽयण् भवति, ऽक्वचिदपवादविषये ऽपिऽ इति न्यायादिति तन्न ;"अणः कर्मणिच"इति सूत्रस्थभाष्यविरोधात्। तत्र हि ऽअणः पुनर्वचनमपवादविषये ऽनिवृत्यर्थम्ऽ ऽगोदायो व्रजतिऽ इत्याद्युक्तम्।
ऽकाञ्चनीऽ इत्यादौ काञ्चनेननिर्मितेत्यर्थे शैषिको ऽण् बोध्यः।
अत्रेदं बोध्यम् -- ऽयेननाप्रप्तेऽ इत्यत्र येनेत्यस्य यदि स्वेतरेणेत्यर्थः, तदा स्व विषये स्वतरद्यद्यत् प्राप्नोति तद् बाध्यम्, विध्यन्तराप्राप्तविषयाभावात्।
इयमेव बाध्यसामान्यचिन्तेति व्यवह्रियते। अनवकाशत्वेन बाधे ऽप्येषा वक्तुं शक्या यद्युदाहरणमस्ति, विनिगमनाविरहात्।
यदि तु येनेत्यस्य लक्षणेनेत्यर्थः, कार्येणेत्यर्थो वा तदा बाध्यविशेषचिन्ता। अनवकाशत्वेन बाधे ऽप्येतद्बाधेन सार्थक्यम्, उत तद्बाधेनेत्येवं विशेषचिन्ता सम्भवति, यद्युदाहरणमस्ति॥
तत्र कार्येणेत्यर्थे पररूपत्ववच्छिन्ने कात्य आरभ्यमाणाया वृद्धेस्तद्बाधकत्वे न निर्णीते किं शास्त्रविहितस्येत्येवं तद्विशेषचिन्तायामाह --
पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते, नोत्तरान्
अवश्यं स्वपरस्मिन् बाधनीये प्रथमोपस्थितानन्तरबाधेन चारितार्थ्ये पश्चादुपस्थितस्य ततः परस्य बाधे मानाभाव आकाङ्क्षाया निवृत्तेर्विप्रतिषेधशास्त्रबाधे मानाभावाच्चेत्येतस्य बीजम्॥
"नासिकोदरौष्ठजङ्घादन्ते"इत्यौष्ठाद्यंशे ङीष्निषेधत्वावच्छिन्नहाधकत्वे निर्णीते किं
निहितस्येत्याकाङ्क्षायामाह :--
मद्ये ऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्
मूल पाठ: Paribhāṣenduśekhara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0