भाषा

ENहिગુ
ग्रंथ पाठ

परिभाषेन्दुशेखर · श्लोक 21-40

21

वर्णप्राधान्यविषयमेतत्। तत्वं च ऽप्रत्ययलोपेऽ इति सूत्रे स्थानिवदित्यनुवृत्यैव सिद्धे प्रत्ययलक्षणग्रहणं प्रत्ययेतराविशेषणत्वरूपं यत्र प्राधान्यं तत्रैव प्रवृत्यर्थमेतत्सिद्धम्। वर्णपराधान्यं च वर्णस्येतराविशेषणत्वरूपं प्रत्ययनिरूपितनिशेष्यतारूपं च। तेन ऽगोहितम्ऽ इत्यादौ अवादि न, ऽचित्रायां जाता चित्राऽ इत्यादावण्यो ऽकारस्तदन्तान् ङीप् च न। इयमल्विधौ स्थानिवत्वाप्राप्तावपि प्राप्तप्रत्ययलक्षणविधेर्निषेधिकेति स्पष्टं भाष्ये॥
ननु ऽअतः कृकमिऽ इत्यत्र कमि ग्रहणे सिद्धे, कंसग्रहणं व्यर्थम्, अत आह :-
उणादयो ऽव्युत्पन्नानि प्रातिपदिकानि

22

इदमेवास्या ज्ञापकमिति कैयटादयः। कंसेस्तु न, कंसो ऽनभिधानात्।"प्रत्ययस्य लुक्"इत्यादौ भाष्ये स्पष्टा।"ण्वुल्तृचौ"इत्यादौ भाष्ये व्युत्पन्नानीत्यपि। इदं शाकटायनरीत्या। पाणिनेस्त्वव्युत्पत्तिपक्ष एवेति शब्देन्दु शेखरे निरूपितम्।"आयनेयी"इति सूत्रे भाष्ये स्पुटमेतत्॥
ननु ऽदेवदत्तच्चिकीर्षतिऽ इत्यादौ देवादेः सन्नन्तत्वप्रयुक्तधातुत्वाद्यापत्तिरत आह :-
प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्

23

"यस्मात्प्रत्ययविधिः"इति सूत्रे यस्मात्प्रत्ययविधिस्तदादिप्रत्यय इति योगो विभज्यते। गृह्यमाण उपतिष्टत इति शेषः। तेन तदाद्यन्तांशः सिद्धः। तदन्तांशस्तु"येनविधिः"इत्यनेन सिद्धः। स च शब्दरूपं विशेष्यमादाय विशेष्यान्तरासत्वे। यत्तु प्रत्ययेन स्वप्रकृत्यवयवकसमुदायाक्षेपात् तद्विशेषणत्वेन तदन्तविधिरिति। तत्, न ; ऽइयान्ऽ इत्यादौ तस्य तादृशसमुदायेन व्यभिचारेणाक्षेपसम्भवात्। यत्र प्रत्ययो निमित्तत्वेनाश्रीयते, तत्र तदादीत्यन्तांशमात्रोपसथितिरिति"अङ्गस्य"इति सूत्रे भाष्यकैयटयोः॥
एवं यत्रापि पञ्चम्यन्तात्परः प्रत्यय आत्रीयते, रत्रापि तदादीत्यन्तांशोपस्थितिः, परन्तु तत्र पञ्चम्यन्तता। अत एव"एङ्ह्रस्वात्"इति सूत्रे एङन्तादित्यर्थलाभः। अस्याः परिभाषायाः प्रयोजनान्तरम्, ऽयेनविधिःऽ इत्यत्र, भाष्य उक्तम्, ऽपरमगार्ग्यायणःऽ इति। परमगार्ग्यायणस्यापत्यमिति विग्रहे ऽपि गार्ग्यायणशब्दादेव प्रत्ययः, न विशिष्टात्। निष्कृष्य तावन्मात्रेणैकार्थीभावाभावे ऽपि वृत्तिर्भवत्येव। अत्र चेदं भाष्यमेव मानमित्यन्यत्र विस्तरः। प्रत्ययमात्रग्रहणे एषा, न तु, प्रत्ययाप्रत्ययग्रहण इति"उगितश्च"इति सूत्रे भाष्ये। इयमङ्गसंज्ञा सूत्रे भाष्ये स्पष्टा॥
येन विधिरिति सूत्रे भाष्य एतद्घटकतदन्तांशस्यापवादः पठ्यते :-
प्रत्ययग्रहणे चापञ्चम्याः

24

यत्र पञ्चम्यन्तात्परः प्रत्ययः कार्यान्तरविधानाय परिगृह्यते, तत्र तदन्तविधिर्नेत्यर्थः। यथा"रदाभ्यां निष्टातोनः"इत्यत्र। तेन दृषत्तीर्णेत्यादौ धातुतकारस्य न नत्वम्। तदन्तेत्यंशानुपस्थितावपि तदादीत्यंशस्योपस्थितौ रेफ-दान्तात्परस्य निष्टातस्येत्यर्थ इति न दोषः, तदंशानुपस्थितौ मानाभावात्। तदन्तांशोपस्थितौ तूभयोरेकनिषयत्वमेव स्यादिति ऽदृषत्तीर्णःऽ इत्यादौ दोषः स्यादेव।"स्यतासी ऌलुटोः"इत्यादौ ऌलुटोः परयोरित्यर्थे नियमेनावधिसाकाङ्क्षत्वेनोपस्थितधातोरित्यस्यावधित्वेन
अन्वयान्न तदन्तविझिः। ऽङ्याभ्यःऽ इत्यादौ तु न दोषः, तत्र कस्मादिति नियतावध्याकाङ्क्षाया अभावेन पञ्चम्यन्तस्य प्रत्ययविशेषणत्वाभावात्। अङ्ग संज्ञा सूत्रे तु तदादेः प्रत्यये पर इत्यर्थे पञ्चम्यन्तस्य विशेषणत्वं स्पष्टमेव। अत एव"उत्तमैकाभ्याम्" इत्यादि निर्देशाः सङ्गच्छन्ते॥
नन्वेवम् ऽकुमारी ब्राम्हणीरूपाऽ इत्यादौ ऽघरूपऽ इति ह्रस्वापत्तिरत आह:-
उत्तरपदाधिकारे प्रत्ययग्रहणे न तदन्तग्रहणम्

25

"हृदयस्य हृल्लेखयण्लादेशेषु"इत्यत्र लेखग्रहणात्। तत्र लेखेति न घञन्तम्, अनभिघानात्। इयं च ऽहृदयस्यऽ इति सूत्र एव भाष्ये स्पष्टा॥
नन्वेवम् ऽपरमकारीषगन्धीपुत्रःऽ इत्यत्रेव ऽअतिकारीषगन्ध्यापुत्रःऽ इत्यत्र"ष्यङः सम्प्रसारणं पुत्रपत्योः"
इति स्यादत आह:-
स्त्रीप्रत्यये चानुपसर्जने न

26

विषयसप्तमीयम्। यः स्त्रीप्रत्ययः स्त्रियं प्राधान्येनाऽह तत्र तदादिनियमो न, यस्त्वप्राधान्येनाऽह तत्र तदादिनियमो ऽस्त्येवेत्यर्थः। प्रत्यासत्या यस्य समुदायस्त्रीप्रत्ययान्तत्वमानेयं तदर्थं प्रत्यनुपसर्जनत्वमेवैतत्परिभाषाप्रवृत्तौ निमित्तम्। तेन ऽअतिराजकुमारिःऽ इत्यादौ राजकुमारीशब्दार्थस्यातिशब्दार्थं प्रत्युपसर्जनत्वे ऽपि तदर्थं प्रत्यनुपसर्जनत्वात् तदादानियमाभावेन ह्रस्व सिद्धिः। अत एवात्र परिभाषायां न शास्त्रीयमुपसर्जनत्वम्, असम्भवात्। अस्याः ऽप्रत्ययग्रहणेऽ इत्यस्यापवादत्वात् तदेकवाक्यत्वापन्नत्वाच्चात्रापि ग्रहणपद
सम्बन्धेन स्त्रीप्रत्ययसामान्यग्रहणे तद्विशेषग्रहणे च प्रवृत्तिः, न तु स्त्रीप्रत्ययास्त्रीप्रत्ययग्रहणे। ध्वनितञ्चेदम् ऽअर्थवत्ऽ
सूत्रे भाष्ये। इयं च वाचनिक्येव। ऽष्यङःऽ इति सूत्रे भाष्ये स्पष्टा॥
नन्वेवम्"तरप्तमपौ घः"इत्यादिना तरबन्तादेः संज्ञा स्यादत आह:-
संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति

27

"सूप्तिङन्तम्"इत्यन्तग्रहणमस्यां ज्ञापकम्। न च प्रत्यययोः पदसंज्ञायामपि प्रत्ययग्रहणपरिभाषया तदन्तग्रहणाभावात् ज्ञापिते ऽपि फलाभाव इति वाच्यम्, पदसंज्ञायाः ऽस्वादिषुऽ इति विषये प्रकृति निष्टतया पदग्रहणस्य प्रत्ययमात्रग्रहणत्वाभावात्।"सुप्तिङन्तम्"इति सूत्रे भाष्ये स्पष्टा ॥
ननु ऽअवतप्ते नकुलस्थितम्ऽ इत्यादौ नकुलस्थित शब्दस्य क्तान्तत्वाभावात् समासो न स्यादत आह:-
कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्

28

अस्याश्च कर्मणि क्तान्त उत्तरपदे ऽनन्तरो गतिः प्रकृतिस्वर इत्यर्थके ऽगतिरनन्तरःऽ इति सूत्रे अनन्तर ग्रहणं ज्ञापकम्। तद्धि ऽअभ्युद्धृतम्ऽ इत्यादावतिव्याप्ति वारणार्थम्। ऽप्रत्ययग्रहणऽ परिभाषयोद्धृतस्य क्तान्तत्वाभावादेव
अप्राप्तौ तद्व्यर्थं सदस्या ज्ञापकम्। न च ऽअभ्युद्धृतम्ऽ इत्यादौ परत्वात् ऽगतिर्गतौऽ इत्यनेनाभेर्निघात एवेति वाच्यम्, पादादिस्थत्वेन, पदात्परत्वाभावेन च तदप्राप्तेः। अनन्तरग्रहणे कृतेतु तत्सामर्त्याद् गत्याक्षिप्तधातुनिरूपितमेवेनन्तर्यं गृह्यत इति न दोषः। न च ऽअभ्युद्धृतम्ऽ इत्यादावभिना समासे ऽनन्तरस्योदः पूर्वपदत्वाभावे ऽपि स्वरार्थं तदिति वाच्यम्। ऽकारकाद् दत्तऽ इति सूत्रे ऽकारकात्ऽ इति योगं विभज्य तत्र गति ग्रहणमनुवर्त्य कारकादेव परं गतिपूर्वपदं
क्तान्तमन्तोदात्तमिति नियमेन थाथादिस्वराप्राप्त्या कृत्स्वरेणोद उदात्तत्वसिद्धेः। तस्मादनन्तरग्रहणं व्यवहितनिवृत्यर्थमेवेति ज्ञापकमेव। यत्र गतिकारकसमभिव्याहृतं कृदन्तं तत्र कृद्ग्रहणे तद्विशिष्टस्यैव ग्रहणम्। ऽअपिऽ
शब्दात् तदसमभिव्याहृतस्य केवलस्यापीति तदर्थः। अन्यथानया कृद्ग्रहणविषये परत्वात् ऽप्रत्ययग्रहणऽ परिभाषाया बाध एव स्यादित्यपि ग्रहणम्। अत एव ऽसाङ्कूटिनम्ऽ इति ऽगतिकारकोपपदानाम्ऽ इति ऽकृद्ग्रहणऽ इति च परिभाषाभ्यां कृदन्तेन समासे कृते विशिष्टादेवाणि सिद्ध्यति, न तु ऽसङ्कौटिनम्ऽ इति ऽपुंयोगात्ऽ इति सूत्रे भाष्योक्तं सङ्गच्छते अन्यथा तत्र केवलकूटिन्नित्येतस्यापीनुणन्तत्वात्ततो ऽणि पाक्षिकदोषो दुर्वार एव स्यात्। स्पष्टं चेदं सर्वम्"समासे ऽनञ्पूर्वे"इति सूत्रे भाष्यकैयटयोः। ऽगतिरनन्तरःऽ इत्यत्र तु गतेः पूर्वपदस्य क्तान्त उत्तरपदे परे कार्यविधानात्तत्समवधाने ऽपि केवलस्य क्तान्तत्वेन ग्रहणं बोध्यम्। इयं च कृद्विशेषग्रहणे कृत्सामान्यग्रहणे च, न तु कृदकृद्ग्रहण इति। ऽअनुपसर्जनात्ऽ इति सूत्रे भाष्ये स्पष्टम्॥
पदाङ्गाधिकारे तस्य च तदन्तस्य च

29

पदमङ्गं च विशेष्यं विशेषणेन च तदन्त विधिः। तेन ऽइष्टकचितम्, पक्वेष्टकचितम्ऽ इत्यादौ
"इष्टकेषीकामालानां चित"इति ह्रस्वः, ऽमहान्, परममहान्, परमातिमहान्ऽ इत्यादौ"सान्तमहतः"इति दीर्गश्च सिद्धः।
अत एव ऽतदुत्तरपदस्यऽ इति पाठो ऽयुक्त इति भाष्ये स्पष्टम्। अत्र पदशब्देनोत्तरपदाधिकारः, केवलपदाधिकारश्च।
"पादस्य पदाज्याति"इत्यत्र न तदन्तग्रहणम्, लक्ष्यानुरोधादिति सर्वम्,"येन विधिः"इत्यत्र भाष्ये स्पष्टम्॥
नन्वेवम् ऽअस्यापत्यमिःऽ इत्यादावदन्तप्रातिपदिकाभावादिञ् न स्यात्, अत आह :-
व्यपदेशिवदेकस्मिन्

30

निमित्तसद्भावात् विशिष्टो ऽपदेशो मुख्यो व्यवहारो यस्यास्ति स व्यपदेशी। यस्तु व्यपदेशहेत्वभावादविद्यमानव्यपदेशो ऽसहायः, स तेन तुल्यं वर्तते, कार्यं प्रतीत्येकस्मिन्नसहाये ऽपि तत्कार्यं कर्तव्यमित्यर्थः। तेनाकारस्याप्यदन्तत्वान्न क्षतिः। एकस्मिन्नित्युक्तेः ऽसभासन्नयनेऽ आकारस्य नादित्वम्, दरिद्राघाताविकारस्य नान्तत्वम्। अन्यथा ऽसभासन्नयने भवःऽ इत्यर्थे"वृद्धाच्छः"दरिद्राघातेरिवर्णान्तलक्षणो ऽत्त स्यात्। अत एव ऽहरिषुऽ इत्यादौ सोः पदत्वं न। लोके ऽपि बहुपुत्रसत्वे नैकस्मिन् ज्येष्ठकनिष्ठत्वादिव्यवहारो ऽयं मे ज्येष्ठः, कनिष्ठः, मध्यम इति, किन्त्वेकपुत्रसत्व एव। अनेन अशास्त्रीयस्याप्यतिदेशः। अत एव ऽइयायऽ इत्यादावेकाच्त्वनिबन्धन द्वित्व सिद्धिः। अत एव ऽभवतिऽ इत्यादौ ऽभूऽ इत्यस्याङ्गत्वम्, ऽइयान्ऽ इत्यादौ कार्यकालपक्षे तद्धितान्तत्वनिबन्धनप्रातिपदिकत्वञ्च सिद्ध्यति। अन्यथा यस्माद्विहितस्तदादित्वाभावान्न स्यात्।
यस्तु योर्ऽथवांस्तत्रार्थस्य त्यागोपादानाभ्यामेकाज्व्यपदेशः, यथा ऽइयायऽ इत्यादावर्थवतो धातोरयं वर्णरूप एको ऽजिति
कैयटः, तन्न ; तस्य ऽएकपदा ऋक्ऽ इत्यत्र भाष्योक्तरीत्या मुख्यव्यवहार सत्वात्।"एकपदा ऋक्ऽ इत्यत्रार्थेन युक्तो
व्यपदेशः"इति भाष्ये उक्तम्। ऋक्त्वादेरर्थशब्दोभयवृत्तित्वेन तस्याः शब्दमात्ररूपं पदमेको ऽवयव इत्यर्थ इति तदाशयः।
तस्मादेकस्मिन्स्तत्तद्धर्मारोपेण युगपत् यथा ज्येष्टत्वादिव्यवहारः, यथा च ऽशिलापुत्रकस्य शरूरम्ऽ इत्यादेवेकस्मिन्नरोपितानेककावस्थाभिः समुदायरूपत्वाद्यारोपेणैतस्य शरूरमित्यादिव्यवहारः, तथात्रैकाच्त्वादि व्यवहारोपपत्तिरिति लोकन्यायसिद्धेयम्।
न चासहाय एवैतत्प्रवृत्तौ भवतीत्यत्र ऽभूऽ इत्यस्याङ्गत्वानापत्तिः, ससहायत्वादिति वाच्यम्, शपमादायाङ्गत्वे कार्ये यस्माद्विहितस्तदादित्वेतस्य ससहायत्वाभावाल्लोके विजातीयकन्यादिसत्वे ऽप्येकपुत्रस्य तस्मिन्नेवयमेव ज्येष्ठ इत्यादिव्यवहारवत्।
न चैवम् ऽनिजौ चत्वार एकाचःऽ इति भाष्यासङ्गतिः, इकारस्यासहायत्वाभावेन तत्रैकाच्त्वानुपपादनादिति वाच्यम्, ऽएकस्मिन्ऽ इत्यस्यापर्यालोचनया तत्प्रवृत्तेः।
अर्थवता व्यपदेशिवद्भाव इत्यत्रार्थवत्पदेनाप्यसहायत्वमुपलक्ष्यते। अर्थबोधकेन शब्देन व्यपदेशिसदृशो भावः कार्यं लभ्यत इति तदर्थः, प्रायो ऽसहाय एवार्थवत्वात्। ऽकुरुतेऽ इत्यादौ तशब्दाकारो ऽचामन्त्य इति व्यवहारे स
आदिर्यस्येति व्यवहारे चासहाय एवेति तत्र व्यपदेशिवद्भावेन टिसंज्ञासिद्धिरित्यन्यत्र विस्तरः॥
ननु गर्गादिभ्यो विहित यञ् तदन्त विधिना परमगर्गादिभ्यो ऽपि स्यात्, अत आह:-
ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति

31

इयं च ऽसमासप्रत्ययविधौ प्रतिषेध उगिद्वर्णग्रहणवर्जम्ऽ इति वार्तिकस्थप्रत्ययांशानुवादः। अत एव
ऽयेन विधिःऽ इति सूत्र भाष्ये प्रत्ययविधिभिन्ने"अप्तृन्"इत्यादौ गृह्यमाणप्रातिपदिकेनापि तदन्त विधिप्रतिपादनम् ऽस्वसा, परमस्वसाऽ इत्याद्युदाहरणञ्च सङ्गच्छते। अत एव च तदन्तविधिसूत्रे भाष्ये समासेत्यादिनिषेधस्य कथनवदस्य न कथनम्। सो ऽपि निषेधो विशिष्य तत्तद्रूपेण गृहीतप्रातिपदिकसूत्र एव। ध्वनितं चेदम्,"असमासे निष्कादिभ्यः"इति सूत्रे भाष्ये।
अत्र च ज्ञापकम्"सपूर्वाच्च"इति सूत्रम्। अन्यथा"पूर्वादिनिः"इत्यत्र तदन्तविधिनैव सिद्धे किं तेन॥
नन्वेवम्"सूत्रान्ताट्ठक्" "दशान्ताड्डः" "एकगोपूर्वात्"इत्यादेः केवल सूत्रशब्द दशन्शब्दैकशब्दादिष्वपि प्रवृत्तिर्व्यपदेशिवद्भावात् स्यात्, अत आह :-
व्यपदेशिवद्भावो ऽप्रातिपदिकेन

32

"पूर्वात्सपूर्वादिनिः"इत्येकयोग एव कर्तव्ये पृथग् योगकरणमस्या ज्ञापकम्। न च"इष्टादिभ्यः"इति सूत्रे ऽनुवृत्यर्थं तथा पाठः, अत एवानिष्टीत्यादिसिद्धिरिति वाच्यम्, ज्ञापकपरभाष्यप्रामाण्येनानिष्टीत्यादिप्ररयोगाणां
अनिष्टत्वात्, एकयोगे ऽपि तावत उत्तरत्रनुवृत्तौ बाधकाभवाच्च।
अत एव"नान्तादसङ्ख्यादेः"इति चरितार्थम्। अन्यथा ऽपञ्चमःऽ इत्यादावपि व्यपदेशिवद्भावेन
सङ्ख्यादित्वात् तद्वैयर्थ्यं स्पष्टमेव।
इयं च प्रातिपदिक ग्रहणे एव, न तु प्रातिपदिकाप्रातिपदिकग्रहणे। तेन"उगितश्च"इत्यत्र न दोष इति तत्रैव भाष्ये स्पष्टम्। इयम् ऽग्रहणवताऽ इति च परिभाषा प्रात्ययविधिविषयैवेति ऽअसमासे निष्कादिभ्यःऽइति सूत्र भाष्यकैयटयोः।
तेन ऽअहन्ऽ इत्यादेः परमाहन्शब्दे केवलाहन्शब्दे च प्रवृत्तिरित्यन्यत्र विस्तरः॥
ननु ऽवान्तो यिऽ इत्यादौ यादौ प्रत्यय इत्यर्थः कथम्? अत आह :-
यस्मिन्विधिस्तदादावल्ग्रहणे

33

तदन्तविधेरपवाद इयम्। वाचनिक्येषा"येन विधिः"इत्यत्र भाष्ये पठिता। अस्याश्च स्वरूपसती सप्तमी निमित्तम्। अत एव"नेड्वशि कृति"इत्यादौ वशादेः कृत इत्याद्यर्थलाभः।
इयं च"आर्धधातुकस्येड्"इति सूत्रे वलादेरित्यादिग्रहणसामर्थ्याद् विशेष्यविशेषणयोरुभयोः सप्तम्यन्तत्व एव प्रवर्तते। तेन"डः सि धुट्"इत्यादौ सादेः परस्येति नार्थः।"तीषसह" "से ऽसिची"इत्यादौ यथा तादेरित्याद्यर्थलाभः, तथा शब्देन्दुशखरे निरूपितम्॥
"घटपटम्, घटपटौ"इत्यादि सिद्धय आह :-
सर्वो द्वन्द्वो विभाषयैकवद्भवति

34

"द्वन्द्वश्च प्राणि"इत्यादिप्रकरणविषयः सर्वो द्वन्द्व इत्यर्थः।"चार्थे द्वन्द्वः"इति सूत्रेण समाहारेतरयोगयोरविशेषेण द्वन्द्व विधानात् न्यायसिद्धेयम्।"तिष्यपुनर्वस्वोः"इति सूत्रस्थं बहुवचनस्येति ग्रहणमस्या ज्ञापकम्। तद्धीदम्"तिष्यपुनर्वसु"इत्यत्र तद्व्यावृत्यर्थम्।
न चैवमप्यत्र"जातिरप्राणिनाम्"इति नित्यैकवद्भावेन बहुवचनाभावादिदं सूत्रं व्यर्थमिति वाच्यम्, तद्वैकल्पिकत्वस्याप्यनेन ज्ञापनात्। न चैते प्राणिन इति वाच्यम्,"आपोमयः प्राणः"इति श्रुतेरद्भिर्विना ग्लायमानप्राणानामेव प्राणित्वात। स्पष्टम् चेदम्"तिष्यपुनर्वस्वोः"इति सूत्रे भाष्ये।
अत एव"द्वन्द्वश्च प्राणी"इत्यादेः प्राण्यङ्गादीनामेव समाहार इति विपरीतनियमो न ॥
सर्वे विधयश्छन्दसि विकल्प्यन्ते

35

"व्यत्ययो बहुलम्"इति सूत्रे भाष्ये बहुलमिति योगविभागेन"षष्ठीयुक्तश्छन्दसि"इति सूत्रे वेति योगविभागेन चैषा साधिता। तेन"प्रतीपमन्य ऊर्मिर्युध्यति"इत्यादि सिद्धम्। युद्धयत इति प्राप्नोति॥
ननु क्षिय इत्यादावियङ् कथम्? अत आह :-
प्रकृतिवदनुकरणं भवति

36

क्षिय इतीयङ् निर्देशो ऽस्या ज्ञापकः। तत्रेव प्रातिपदिकत्व निबन्धन विभक्तिकरणादनित्या चेयमिति"क्षियो दीर्घात्"इत सूत्रे भाष्ये स्पष्टम्॥
ननु"रामौ"इत्यादौ वृद्धौ कृतायां कार्यकाल पक्षे कथं पदत्वम्? उभयत आश्रयणे ऽन्तादित्वाभावात् यस्माद्वहितस्तदादितदन्तत्वाभावादत आह :-
एकदेशविकृतमनन्यवत्

37

अनन्यवदित्यस्यान्यवन्नेत्यर्थः। तत्रान्यसादृश्यनिषेधे ऽन्यत्वाभावः सुतराम्। अत एव तादृशादर्थबोधः, अन्यथा शक्ततावच्छेदकैमुपूर्व्यज्ञानात् ततो बोधो न स्यात्।
एवञ्च रानिति मान्तस्य यस्माद् विहितस्तत्वम्, औ इत्यस्य परादिवत्वेन सुप्त्वमिति तदादितदन्तत्वम्
आर्थसमाजग्रस्थम्।
छिन्नपुच्छे शुनि श्वत्वव्यवचहारवन्मान्ते तत्वं लोकन्याय सिद्धम्। अत एव"प्राग्दीव्यत"इति सूत्रे भाष्ये
दीव्यतिशब्दैकदेशदीव्यच्शब्दानुकरणमिदमित्युक्त्वा, किमर्थं विकृतनिर्देशः? एतदेव ज्ञापयत्याचार्यो भवत्येषा परिभाषा"एकदेशविकृतमनन्यवत्"इत्युक्तम्।
एतेनायं न्यायः शास्त्रीयकार्य एव शास्त्रीविकार एवेत्यपास्तम्। विकृतावयव निबन्धन कार्ये तु नायम्,
छिन्नेपुच्छे शुनि पुच्छवत्वव्यवहारवत् विकृतावयवव्यवहारस्य दुरुपपादत्वात्।
एवमक्तपरिमाणग्रहणे ऽपि नायम्, उक्तयुक्तेः।
एतत्"येनविधिः"इत्यत्र भाष्यकैयटयोर्ध्वनितम्।
यत्र त्वर्धं तदधिकं वा विकृतम्, तत्र जातिव्यञ्जकभूयो ऽवयवदर्शनाभावेन तत्वाप्रतीतौ कार्यसिध्यर्थं विकृतानल्रूपावयवत्वप्रतीत्यर्थं च"सथानिवत्"सूत्रम्। क्वचित्तु लक्ष्यानुरोधान्न्यायानाश्रयणम्। तेन ऽआभीयात् इत्यादि सिद्धिः। स्पष्टं च क्वचिन्न्यायाप्रवृत्तिः"प्रथमयोः पूर्वसवर्णः"इत्यत्र कैयटेन दर्शितेत्यन्यत्र विस्तरः॥
इति श्रीनागेशभट्टविरचिते परिभाषेन्दुशेखरे शास्त्रत्वसम्पादनोद्देशनामकं
प्रथमं प्रकरणम्॥
अथ बाधबीजनामकं द्वितीयं प्रकरणम्॥
पूर्वपरनित्यान्तरज्ङ्गापवादानामुत्तरोत्तरं बलीयः

38

पूर्वात्परं बलवत्, विप्रतिषेध शास्त्रात्, पूर्वस्यपरं बाधकमिति यावत्॥
नन्वेवम् ऽभिन्धिऽ इत्यत्र परत्वात् तातङा बाधितो धिर्न स्यादत आह :-
पुनः प्रसङ्ग विज्ञानात् सिद्धम्

39

नन्वेवम् ऽतिसृणाम्ऽ इत्यत्र परत्वात् तिस्रादेशे पुनस्त्रयादेशः स्यादत आह :-
सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेव

40

तत्र क्वचिच्चरितार्थयोरेकस्मिन् युगपदुभयोः कार्ययोरसम्भवेन बाधकाभावात् पर्यायेण तृजादिवच्छास्त्र
द्वयप्रसङ्गे नियमार्थम्"विप्रतिषेध"सूत्रमिति सकृद्गतिन्यायसिद्धिः।
यथा तुल्यबलयोरेकः प्रेष्यो भवति। स तयोः पर्यायेण कार्यं करोति, यदा तमुभौ युगपत् प्रेषयतो नानादिक्षु च कार्ये तदोभयोर्न करोति, यौगपद्यासम्भवात्। तथा शास्त्रयोर्लक्ष्यार्थयोः क्वचिल्लक्ष्ये यौगपद्येन प्रवृत्यसम्भवादप्रतिपत्तौ प्रप्तायामिदं परविध्यर्थम्। तत्र कृते यदि पूर्वप्राप्तिरस्ति, तर्हि तदपि भवत्येवेति ऽपुनः प्रसङ्गविज्ञानऽ सिद्धिरिति"विप्रतिषेध"सूत्रे भाष्ये स्पष्टम्।
यत्तु कैयटादयो व्यक्तौ पदार्थे प्रतिलक्ष्यं लक्षणोपप्लवादुभयोरपि शास्त्रयोस्तत्तल्लक्ष्ययोरचरितार्थ्येन पर्यायेण द्वयोरपि प्राप्तौ परमेवेति नियमार्थमिदमिति ऽसकृद्गतिऽ न्यायसिद्धिः। अत्र पक्षे एतन्नियमवशादेतल्लक्ष्यविषयक पूर्वशास्त्रानुपप्लव एव।
जातिपक्षे तूद्देश्यतावच्छेदकाक्रान्ते क्वचिल्लक्ष्ये चरितार्थयोर्द्वयोः शास्त्रयोः सत्प्रतिपक्षन्यायेन युगदुभयासम्भवरूपविरोधस्थल उभयोरप्यप्राप्तौ परविध्यर्थमिदमिति पुनः प्रसङ्गविज्ञानसिद्धिरित्याहुः, तन्न ; व्यक्तिपक्षे सर्वं लक्ष्यं शास्त्रं व्याप्नोति न जातिपक्ष इत्यत्र मानाभावात्।
ऽन ब्राह्मणं हन्यात्ऽ इत्यादौ जात्याश्रयसकलव्यक्तिविषयत्वार्थमेव जातिपक्षाश्रयणस्य भाष्ये दर्शनात्। अत एव"सरूप"सूत्रे भष्ये जातौ पदार्थे ऽनवयवेन साकल्येन विधिप्रवृत्तेः"गौरनुबन्ध्यः"इत्यादौ सकल गवानुबन्धनासम्भवात् कर्मणो वैगुण्यमुक्तम्। द्रव्यवादे चासर्वद्रव्यावगतेः ऽगौरनुबन्ध्यःऽ इत्यादावेकः शास्त्रोक्तो ऽपरो ऽशास्त्रोक्त इत्युक्तम्।
किञ्च नहि भाष्योक्त तृजादिदृष्टान्तस्य व्यक्तिवक्ष एव सर्व विषयत्वम् न दातिपक्ष इत्यत्र मानमस्ति।
अपि च व्यक्तिपक्षे ऽप्यन्यव्यक्तिरूप विषयलाभेन चरितार्थयोरियं व्यक्तिविरोधात् स्वविषयकत्वं न
कल्पयतीति वक्तुं शक्यम्। जातिपक्षे ऽपि तज्जात्याश्रयतद्व्यक्तिविषयकत्वमेव ; नैतद्व्यक्तिविषयकत्वमित्यत्र
नियामकाभावः।
तत्र लक्ष्यानुसारात् क्वचिच्छास्त्रीयदृषटान्ताश्रयणम्, क्वचिल्लौकिकदृष्टान्ताश्रयणमिति भाष्यसम्मत मार्ग एव युक्त इति बोध्यम्।
द्वयोः कार्ययोर्यौगपद्येनासम्भव एव विप्रतिषेध शास्त्रोपयोगी। इदम्"इको गुण"इति सूत्रे कैयटे
स्पष्टम्।
यथा ऽशिष्टात्ऽ इत्यादौ तातङ्शीभावयोर्युगपत्प्रवृत्तौ स्वस्वनिमित्तनन्तर्यासम्भवः। यद्यपि तातङादेः स्थानिवद्भवेनास्थ्येव तत्, तथाप्यादेशप्रवृत्युत्तरमेव सः, न तु तत्प्रवृत्तिकाले।
एवं नुम्तृज्वत्वयोः ऽप्रियक्रोष्टूनिऽ इत्यादौ युगपदसम्भवः, यदागमा इत्यस्य नुम्प्रवृत्युत्तरं प्रवृत्तः। एवम् ऽभिन्धिऽ इत्यत्र तातङ्धिभावयोर्युगपदेकस्थानिसम्बन्धस्याङ्गरूपनिमित्तानन्तर्यस्य चासम्भवो बोध्यः। नुम्नुटोरपि नुट्यजादिविभक्त्यानन्तर्यबाधः, नुमि ह्रस्वन्ताङ्गबाध इत्यसम्भवात् विप्रतिषेधः।
क्वचिदिष्टानुरोधेन पूर्वशास्त्रे स्वरितत्वप्रतिज्ञाबलात् स्वरितेनाधिकं कार्यमित्यर्थात् पूर्वमेव भवति। तेन सर्वे पूर्व विप्रतिषेधाः सङ्गृहीता इति"स्वरितेन"इति सूत्रे भाष्ये। विप्रतिषेधसूत्रस्थपरशब्धस्येष्टवाचित्वात् तत्सङ्ग्रह इति"विप्रतिषेध" सूत्रे भाष्ये॥
नन्वेवम् ऽएधतेऽ इत्यादौ परत्वात् विकरणे"अनुदात्तङितः"इत्यादि नियमानुपपत्तिः, तेन व्यवधानात्,
अत आह :-
विकरणेभ्यो नियमो बलीयान्

मूल पाठ: Paribhāṣenduśekhara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc