भाषा

ENहिગુ
ग्रंथ पाठ

परिभाषेन्दुशेखर · श्लोक 1-20

1

श्रीरामजयम्
परिभाषेन्दु शेखरः॥
। अनुबन्द चतुष्टय निरूपणम्।
नत्वासाम्बं शिवं ब्रम्ह नागेशः कुरुते सुधीः।
बालानां सुखबोधाय परिभषेन्दु शेखरम्॥
प्राचीन व्यकरण तन्त्रे वाचनिकान्यत्र पाणिनीयतन्त्रे ज्ञपकन्यायसिद्दानि भष्यवार्तिकयोरुपनिबद्दानि यानि परिभषारूपणि तानि व्याख्यास्यन्ते।
। शास्त्रत्व सम्पादनोद्देशप्रकरण् ।
ननु लण्-ऐउण् सूत्रयोर्णकारद्वयस्यैवोपादानेनाणिण्ग्रहणेषु सन्देहादनिर्णयो ऽत आह -
व्याख्यानतो विशेषप्रतिपत्तिर्नहि सन्देहादलक्षणम्

2

विशेषस्यान्यतराद्यर्थरूपस्य व्याख्यानात् शिष्टकृतात् प्रतिपत्तिः निश्छयो यतः सन्देहाच्छास्त्रमलक्षणमननुष्टापकं लक्षणमलक्षणं तथा न, शास्त्रस्य निर्णयजनकत्वौचित्यादित्यर्थः। असन्दिग्धानुष्ठानसिद्यर्थे ऽत्र शास्त्रे सन्दिग्धोच्चारणरूपाचार्यव्यवहारेणसन्देहनिवृत्तेर्व्याख्यानातिरिक्तनिमित्तानपेक्षत्वं बोद्यत इति यावत् ॥ . तेनाणुदित्सवर्णस्येतत्परिहाराय पूर्वेणाण् ग्रहणम्, परेणेण् ग्रहणमिति लण् सूत्रे भाष्ये स्पष्टम् ॥ .1 ॥
तत्र संज्ञा परिभाषा विषये पक्षद्वयमाह -
यथोद्देशं संज्ञा परिभाषम् । कार्य कालं संज्ञा परिभाषम्

3

उद्देसमनतिक्रम्य यतोद्देशम् । उद्देश उपदेश देशः । अधिकरण साधनश्चायम् । यत्र देशे उपदिश्यते तद्देश एव वाक्यार्तबोधेन गृहीत शक्त्या गृहीतपरिभाषार्थेन च सर्वत्र शास्त्रे व्यवहारः। देशश्चोच्चारणकाल एवात्र व्यवह्रियते। तत्तद्वाक्यार्थबोधे जाते ऽ भविष्यति किञ्चिदनेन प्रयोजनम् ऽ इति ज्ञानमात्रेण सन्तुष्यद् यथाश्रुतग्राहिप्रतिपत्रपेक्षो ऽयं पक्ष ईदूदेत्सूत्रे कैयटः।
केचित्तु - परिभषाविषये तस्मिन्नित्यादि वाक्यार्थबोधे सप्तमीनिर्देशादिक्वेति पर्यालोचनायां सकलतत्तद्विद्युपस्थितौ सकलतत्तसंस्काराय गुणभेदं परिकल्प्यैकवाक्यतयैव नियमः। कार्यकालपक्षेतु त्रिपाद्यमप्युपस्थिरिति विशेषः। एतदेवाभिप्रेत्य ऽअधिकारोनाम त्रिप्रकारः, कश्चिदेकदेशस्थः सर्वं शास्रमभिज्वलयति, यथा - ऽप्रदीपः सुप्रज्वलितः सर्वं वेश्माभिज्वलयतिऽ इति ऽषष्टीस्थनेऽ इति सूत्रे भाष्य उक्तम्। अधिकारशब्देन पारार्थ्यात्परिभाषाप्युच्यते। कश्चित्परिभाषारूप इति कैयटः। दीपो यथा - प्रभाद्वारा सर्वगृहप्रकाशक एवमेतत्स्वबुद्धिजननद्वारा सर्वशास्त्रोपकारकमिति तत्तात्पर्यम्। एतच्च पक्षद्वय साधारणं भाष्यम्, पक्षद्वये ऽपि प्रदेशैकवाक्यतया इतः प्रतीतेः॥
तत्रैतावान् विशेषः - यतोद्देशे पर्भाषादेशे सर्वविधिसूत्रबुद्धावात्मभेदं परिकल्प्य तैरेकवाक्यतया परिभाषाणाम्। तदुक्तम् - ऽकिङिति चऽ इति सूत्रे कैयटे। ऽयतोद्देशे प्रधानान्यात्मसंस्काराय सन्निधीयमानानि गुणभेदं प्रयुञ्जतऽइति। कार्यकाले तु तत्तद्विधिप्रदेशे परिभाषाबुद्ध्यैकवाक्यतेति। अत्र एकदेशस्थ इत्यनेन तत्र तत्र बुद्धावपि तद्देशस्थत्वं वारयति, यथा - व्यवहर्त्तॄणां कार्यार्थमनेकदेशगमने ऽपि न तत्तद्देशीयत्वव्यवहारः, किन्त्वभिजनदेशीयत्व व्यवहार एव, तद्वन्निषेधवाक्यानामपि निषेध्यविशेषाकाङ्क्षत्वाद्विध्येकवाक्यतयैवान्वय इति परिभाषासादृश्यात्परिभाषात्वेन व्यवहारः ऽकिङिति चऽ इत्यत्र भाष्ये। तत्रैकवाक्यता पर्युदासेन प्रसज्य प्रतिषेधे ऽपि तेन सह वाक्यार्थबोधमात्रेणैकवाक्यता व्यवहारः॥
संज्ञाशास्त्रस्य तु कार्यकालपक्षे न पृथक्वाक्यार्थबोधः, किन्तु प्रदेशवाक्येन सहैव। अत एवाणो ऽप्रगृह्यस्येत्येतदेकवाक्यतापन्नादसोमादित्येतत्प्रति न मुत्वाद्यसिद्धम्, असिद्धत्वस्य कार्यार्थतया कार्यज्ञानोत्तरमेव तत्प्रवृत्तिः, कार्यज्ञानं च प्रदेश एवेति तद्देशस्थासिद्धत्वात्पूर्वग्रहणेनाग्रहात्। एवं तद्बोधोत्तरमेव विरोधप्रतिसन्धानञ्चेति तत्रत्यपरत्वेन विप्रतिषेधसूत्रप्रवृत्तौ बीजम्। अत एव कार्यकालपक्षे"अयादिभ्यः परैव प्रगृह्य संज्ञा"इति ऽअदसोमात्ऽ
इति सूत्रे भाष्य उक्तम्॥
आकडाराधिकारस्थभपदसंज्ञाविशये तु यथोद्देशपक्ष एवेति तत्रत्यपरत्वेनैव बाध्यभाधकभावः। पदादिसंज्ञनां तत्र
जातशक्तिग्रहणेव त्रिपाद्यमपि व्यवहारः। अत एव पूर्वत्रासिद्धमिति सूत्रे परिभाषाणामेवत्रिपाद्यामप्रवृत्तिमाशङ्क्य, कार्यकालपक्षाश्रयेण समाहितमित्याहुः। यथोद्देशपक्षः प्रगृह्यसंज्ञाप्रकरणे भाष्ये॥
कार्यकालमित्यस्य च कार्येण काल्यते स्वसन्निधिं प्राप्यत इत्यर्थः। कार्येण स्वसंस्काराय स्ववृत्तिलिङ्गचिन्हितपरिभाषाणामाक्षेप इति यावत्।
अत एव ऽपूर्वत्रासिद्धम्ऽ इति सूत्रे भाष्ये त्रिपाद्या असिद्धत्वात्तत्र सपादसप्ताद्यायीस्थ परिभाषाणां अप्रवृत्तिमाशङ्क्य यद्यपीदं तत्रासिद्धं तत्विह सिद्धमित्युक्त्वा, तावताप्यसिद्धिरित्यभिप्रायके कथमिति प्रश्ने-ऽकार्यकालं संज्ञापरिभाषम्ऽ यत्र कार्यं तत्रोपस्थितं द्रष्टव्यमित्युक्तम्।
न च कार्यकाल पक्षे ऽङमो ह्रस्वात्ऽ इत्यदौ ऽ तस्मादित्युत्तरस्यऽ ऽतस्मिन्नितिनिर्दिष्टे पूर्वस्यऽ इति परिभाषाद्वयोपस्थितौ परत्वात् ऽउभयनिर्देशे पञ्चमीनिर्देशो बलीयान्ऽ इति तस्मिन्निति सूत्रस्थभाष्यासङ्गतिः, उभयोरेकदेशस्थत्वेन परत्वादित्यस्यासङ्गत्यारत्तेः, स्पष्टं चेदम् ऽइकोगुणऽ इत्यत्र कैयट इति वाच्यम् ;
विप्रतिषेधसूत्रे ऽष्टाध्यायीस्थपाठकृतपरत्वस्यऽऽश्रयणेनादोषात्। नहि कार्यकालपक्ष इत्येतावता तदपैति। पक्षद्वये ऽपि प्रदेशेषु स्वबुद्धिजननेनाविशेषात्। नहि तत्पक्षे ऽप्यचेतनस्य शास्त्रस्य स्वदेशं विहाय तद्देशगमनं सम्भवति। नाप्यस्मदादिबुद्धिजननेन स्वदेशत्यागो भवति। अत एव भाष्ये तस्मिन्निति सूत्रे कैयटः - सूत्र पाठापेक्षया परत्वस्य व्यवसथापकत्वमिति। इकोगुणेति सूत्रस्थ कैयटस्तु तिन्त्य एव ; अन्यथा सर्वशास्त्राणां प्रयोगार्थत्वेन प्रयोगरूपैकदेशस्त्वेन क्वापि परत्वं नस्यात्। किञ्च किङिति चेति सूत्रस्थ कैयटरीत्या विधिसूत्राणां यथोद्देश पक्षे परिभाषादेशे सन्निधानेन तेषां परत्वं व्याहन्येत। एवञ्च वृक्षेभ्य इत्यत्र सुपिचेत्यतः परत्वात् ऽबहुवचने झल्येत्ऽ इत्येत्वमित्याद्युच्छिद्येत, इत्यलम्॥
इत्संज्ञका अनुबन्धाः, तेष्ववयवानवयवत्वसन्देह आह-
अनेकान्ताः अनुबन्धाः

4

अनेकान्ता अनवयवाः इत्यर्थः। यो ह्यनवयव स कदाचित्तत्रोपलभ्यत एव, अयं तु न तथा, तदर्थभूते विधेये कदाप्यदर्शनात्। शित्किदित्यादौ समीपे ऽवयवत्वारोपेण समासो बोध्यः। ऽवुण्छण्कठ्ऽ इत्यादौ णित्वप्रयुक्तं कार्यं पूर्वसयैवेत्यादि तु व्याख्यानते निर्णेयम्। ऽहलन्त्यम्ऽ इत्यत्रान्त्य शब्दः परसमीप बोधकः॥
वस्तुतस्त्तु-
एकान्ताः

5

इत्येव न्याय्यम्, शास्त्रे तत्रोपलम्भादन्यत्रानुपलम्भाच्च। अनवयवो हि काकादिरेकजातीयसम्बन्धेन गृहवृक्षादिषूपलभ्यते। नैवमयम्। एवं हि बहुव्रीहिरपि न्यायत एवोपपन्नः, अन्त्यादि शब्दे लक्षणा च न॥
किञ्च अनवयवत्वे णशकप्रत्यादौ णादेरित्वानापत्तिः, प्रत्ययादित्वाभावात्, दध्नचश्चकारस्य वैय्यर्थ्यापत्तिश्च। इदञ्च ऽतस्यलोपःऽ इत्यत्र भाष्ये स्पष्टम्। तत्र ह्युक्तम्,"एकान्ताः अनुबन्धाः"इत्येव न्याय्यमिति दिक्॥
नन्वेकान्तत्वे ऽनेकाल्त्वादेव औशादीनां सर्वादेशत्व सिद्ध्या ऽअनेकाल्ऽ सूत्रे शिद्ग्रहणं व्यर्थमत आह -
नानुबन्धकृतमनेकाल्त्वम्

6

शिद्ग्रहणमेवैतद्ज्ञापकम्, तेन ऽअर्वणस्तृऽ इत्यादेर्न सर्वादेशत्वम्। डादि विषये तु सर्वादेशत्वं विनानुबन्धत्वस्यैवाभावेनऽऽनुपूर्व्यात्सिद्धम्॥
नन्वेवमपि ऽअवदातं मुखम्ऽ इत्यत्र पलोपोत्तरमात्वे कृते ऽदाबिति घुसंज्ञाप्रतिषेधो न स्यात्, दैपः पकारसत्वे ऽनेजन्तत्वाप्राप्त्या पलोपोत्तरं पकाराभावेनास्य दाप्त्वाभावादत आह -
नानुबन्धकृतमनेजम्तत्वम्

7

ऽउदीचामाङःऽ इति निर्देशो ऽस्या ज्ञापकः। ऽआदेच उपजेशेऽ इति सूत्रेणोपदिश्यमानस्यैजन्तस्यात्वं क्रियते, ङकारसत्वेत्वेजन्तत्वाभावादात्वाप्राप्तेस्तस्यासङ्गतिः॥
न चास्यामवस्थायां तस्य धातुत्वाभावात्कथमात्वम्, तत्र धातोरित्यस्य निवृत्तेरित्यन्यत्र विस्तरः। स्पष्टञ्चेदम्"दाधाघ्वदाप्"इति सूत्रे भाष्ये॥
नन्वेवमपि ऽवासरूपऽ सूत्रेण कविषये ऽणोप्यापत्तिरित्यत आह-
नानुबन्धकृतमसारूप्यम्

8

ऽददातिदधात्योर्विभाषाऽ इति णबाधकशस्य विकल्पविधायकमस्यां ज्ञापकम्, तेन ऽगोदःऽ इत्यादौ नाणिति ऽवासरूपऽ सूत्रे भाष्ये स्पष्टम्॥
ननु संख्याग्रहणे बह्वादीनामेव ग्रहणं स्यात्, प्रकरणस्याभिधानियामकत्वसिद्धात् ऽकृत्रिमाकृत्रिमयोः कृत्रिमे
कार्यसम्प्रत्ययःऽ इति न्यायात्। अस्ति च प्रकृते बह्वादीनां सङ्ख्यासंज्ञाकृतेति ज्ञानरूपं प्रकरणम्, नतु लोकप्रसिद्धैकद्व्यादीनामित्यत आह -
उभयगतिरिह भवति

9

इहौशास्त्रे। ऽसङ्ख्यायाः अतिशदन्तायाःऽ इति निषेधो ऽस्या ज्ञापकः। न हि कृत्रिमा सङ्ख्या त्यन्ता शदन्ता वास्ति, तेन ऽकर्तरि कर्तरिकर्मव्यतिहारेऽ ऽकण्वमेघेभ्यः करणेऽ ऽविप्रतिषिद्धं चानधिकरणेऽ इत्यादौ लौकिकक्रियाद्रव्याद्यवगतिः। तत्र क्वोभय गतिः, क्वाकृत्रिमस्यैव, क्व कृत्रिमस्यैवेत्यत्र लक्ष्यानुसारि व्याख्यानमेव शरणम्। अत एव आम्रेडित शब्देन कृत्रिमस्यैव ग्रहणं न तु द्विस्त्रिर्घुष्टमात्रस्य। स्पष्टञ्चेदं सङ्ख्या संज्ञा सूत्रे भाष्ये।
यत्तु - संज्ञाशास्त्राणां मच्छास्त्रे ऽनेन शब्देनैत एवेति नियमार्थत्वं कृत्रिमाकृत्रिम न्यायबीजमिति। तन्न ; तेषामगृहीतशक्तिग्राहकत्वेन विधित्वे सम्भवति, नियमत्वायोगात्। ऽसर्वे सर्वार्थ वाचकाःऽ इत्यभ्युपगमो ऽपि योगिदृष्ट्या, नत्वस्मद्दृष्ट्या, विशिष्य सर्वशब्दार्थज्ञनस्याशक्यत्वात्। सामाम्यज्ञानं तुभोधोपयोगीत्यन्यत्र निरूपितम्॥
ननु ऽअध्येताऽ ऽशयिताऽ इत्यादाविङ्शीङोर्ङित्वाद् गुणनिषेधः स्यादत आह -
कार्यमनुभवन्हि कार्यी निमित्ततया नाश्रीयते

10

ऽस्थण्डिलाच्छयितरिऽ इति निर्देशश्चास्यां ज्ञापकः। ऽऊर्णुनविषतिऽ इत्यादि सिद्धये कार्यमनुभवन्निति। अत्र हि ऽद्विर्वचने ऽचिऽ इति नु शब्दस्य द्वित्वम्, अन्यथा ऽसन्यङोःऽ इत्यस्य षष्ट्यन्तत्वात्सन्नन्तस्य कार्यित्वेन इसो द्वित्वनिमित्तत्वाभावात्तत्प्रवृत्तिर्न स्यात्।
वस्तुतः - समवायिकारण निमित्तकारणयोर्भदस्य सकललोकतन्त्रप्रसिद्धतया तस्य तत्वेनाऽश्रयणाभावेन नैषा ज्ञापकसाध्या। अत एव हः प्रयुक्तः। स हि तत्वेनानाश्रयणे हेतोः प्रसिद्धत्वं द्योतयतीति तत्वम्। ऽद्विर्वचने ऽचिऽ इत्यत्र भाष्ये ध्वनितैषा॥
ननु ऽप्रणिदापयतिऽ इत्यादौ दारूपस्य विधीयमाना घुसंज्ञा दापेर्नस्यादत आह -
यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते

11

यमुद्दिश्याऽगमो विहितः, स तद्गुणीभूतः शास्त्रेण तदवयवत्वेन बोधितो ऽतस्तद्ग्रहणेन तद्ग्राहकेन तद्बोधकेन शब्धेन गृह्यते बोध्यत इत्यर्थः। तत्र तद्गुणीभूता इत्यंशो बीजकथनम्। लोके ऽपि देवदत्तस्याङ्गाधिक्ये तद्विशिष्टस्यैव देवदत्तग्रहणेन ग्रहणं दृश्यते।
यमुद्दिश्य विहित इत्युक्तेः ऽप्रनिदारयतिऽ इत्यादौ न दारित्यस्य घुत्वम्।
ऽआनेमुक्ऽ इति मुग्विधानसामर्थ्यादेषानित्या। अन्यथा ऽपचमानःऽ इत्यादावकारस्य मुकि-अनया परिभाषया विशिष्टस्य सवर्णदीर्गे तद्वैयर्थ्यं स्पष्टमेव। तेन ऽदिदीयेऽ इत्यादौ यणादि न, ऽजहारऽ इत्यादौ ऽआत औ णलःऽ इति च न।
न चाकारादेर्वर्णस्य वर्णान्तरमवयवः कथमित् वाच्यम्, वचनेनावयवत्वबोधनात्। तस्य चावयवत्वसादृश्ये पर्यवसानं बोध्यम्।
न चोक्तज्ञापकाद्वर्णग्रहणे ऽस्या अप्रवृत्तिरिति वाच्यम् ; ऽआने मुक्ऽ इति सूत्र भाष्ये ऽकारस्याङ्गावयवस्य मुगित्यर्थे ऽपचमानःऽ इत्यत्र ऽतास्यनुदात्तेत्ऽ इति स्वरो म स्यादित्याशङ्ख्यादुपदेशभक्तस्तद्ग्रहणेन ग्राहिष्यत इत्युक्तेरसङ्गत्यापत्तेः।
किञ्च ङमन्तपदावयवस्य ह्रस्वात्परस्य ङमो ङमुडित्यर्थे ऽकुर्वन्नास्तेऽ इत्यादौ ङमो ङमुडागमे णत्वप्राप्तिमाशङ्क्य ऽयदागमाःऽ इति न्यायेनाद्यनस्यापि पदान्तग्रहणेन ग्रहणात् ऽपदान्तस्यऽ इति निषेध इत्यनया
परिभषया ऽआगमानामागमिधर्मवैशिष्ट्यमपि होध्यतेऽ इत्याशयक ऽङमुट्ऽ सूत्रस्थभाष्यासङ्गतेः।
किञ्च-गुणादे रपरत्वे रेफविशिष्ट गुणत्वाद्येष्टव्यम्। अन्यथा ऽऋकारस्य गुणवृद्धी अरारावेवऽ इति नियमो न स्यात्। तच्च ऽवर्णग्रहणेऽ एतदप्रवृत्तौ न सङ्गच्चते। अत एव ऽरदाभ्यांऽ इति सूत्रे भाष्यम् -"गुणो भवति, वृद्धिर्भवति,
रेफशिरा गुणवृदधिसंज्ञको ऽभिनिर्वर्तते"इति। अत एव ऽनेटिऽ ऽणेरनिटिऽ इत्यदि चरितार्थम्।
ऽअनागमकानां सागमकाः आदेशाःऽ इत्यस्य त्वयमर्थः - आर्धधातुकस्येडागम इत्यर्थे ज्ञाते, नित्येषु शब्देष्वागमविधानानुपत्या अर्थापत्तिमूलकवाक्यान्तरकल्पनेनेड्रहितबुद्धिप्रसङ्गे सेड्बुद्धिः कर्तव्येति। एवञ्चादेशेष्विवात्रापि बुद्धिविपरिणाम इति न नित्यत्वहानिः।
स्थानिवत्सूत्रे च नेदृशादेशग्रहणम्। साक्षादष्टाद्यायीबोधितस्थान्यादेशभावे चारितार्थ्यात्। किञ्चेवं सति स्थानिबुद्ध्यैव कार्यप्रवृत्या ऽलावस्थायामडितिऽ सिद्धन्तासङ्गतिः। स्थानिवद्भावविषये ऽनिर्दिश्यमानस्यऽ इति परिभाषायाः प्रवृत्तौ ऽतिसृणाम्ऽ इतियतिर परत्वात्तिस्रादेशे स्थानिवद्भावेन त्रयादेशमाशङ्ख्य, ऽसकृद्गतिऽ न्यायेन समाधानपरभाष्यासङ्गतिः।
ऽएरुःऽ इत्यादौ स्थानषष्टीनार्देशात्तदन्तपरतया पठितवाक्यस्यैव समुदायादेशपरत्वेनाऽदेशग्रहणसामर्थ्यात्तस्य स्थानिवत्सूत्रे ग्रहणेन न दोषः। आनुमानिक सथान्यादेशभावकल्पने ऽपि श्रौतस्थान्यादेशभावस्य न त्याग इति ऽअचः परस्मिन्ऽ इत्यादेर्नासङ्गतिः।
एतेन - ऽयदागमाःऽ इति परिभाषा स्थानिवत्सूत्रेण गतार्थेत्यपास्थम्। एतत्सर्वम् ऽदाधाघ्वदाप्ऽ इति सूत्रे भाष्ये स्पष्टम्॥
नन्वेवम् उदस्थादित्यादौ ऽउदःस्थास्तम्भोः पूर्वस्यऽ इति पूर्वसवर्णापत्तिरत आह -
निर्दश्यमानस्याऽदेशा भवन्ति

12

ऽषष्टीस्थाने योगाऽ इति सूत्रमावर्तते। तत्र द्वितीयस्यायमर्थः - षष्ठ्यन्तं निर्दिश्यमानमुच्चार्यमाणमुच्चार्यमाणसजातीयमेव, निर्दिश्यमानावयवरूपमेव वा स्थनेन स्थाननिरूपितसम्बन्धेन युज्यते, न तु प्रतीयमानमित्यर्थः। तेनेदं सिद्धम्। न च ऽअस्यच्वौऽ इत्यादौ दीर्गाणामादेशानापत्तिः, तेषां निर्दिश्यमानत्वाभावादिति वाच्यम्, जातिपक्षे दोषाभावात्। किङ्च ऽन भूसुधियोःऽ इति निषेधेन ग्रहणकशास्त्रगृहीतानां निर्दिश्यमाकार्यबोधान्न दोषः।
इयङुवङोर्ङित्वं तु इवर्णोवर्णान्तश्नुधातुभ्रुवामित्यर्थेन धात्वादीनामपि निर्दिष्टत्वादन्त्यादेशत्वाय। रीरिङोर्ङित्वं तु स्पष्टार्थमेव॥ एतेनेदं ङित्वं वर्णग्रहणे निर्दिश्यमान परिभाषाया अप्रवृत्तिज्ञापकमित्यपास्तम्। ऽहयवरट्ऽ सूत्रस्थेन ऽअयोगवहानामुपदेशे ऽलोन्त्यविधिः प्रयोजनम्, वृक्षस्त्तत्र। नैतदस्ति प्रयोजनम्, निर्दिश्यमानस्येत्येव सिद्धम्ऽ - इति भाष्येण विरोधात्।
अनया परिभाषया ऽयेनविधिःऽ इति सूत्रबोधिततदन्तस्य सथानिवत्वाभाव बोधनम्, यदागमा इति लब्धस्य च।
तेन ऽसुपदःऽ ऽउदस्थात्ऽ इत्यादि सिद्धिः। अनया च स्वस्वनिमित्तसन्निधापितानाम् ऽअलो ऽन्त्यस्यऽ इत्यादीनां समावेश एव, न बाध्यबाधक भावः, विरोधाभावात्। नाप्येतयोरङ्गाङ्गिभवः, उभयोरपि परार्थत्वेन तदयोघात्। ऽअनेकाल् शित्ऽ इति सूत्रे सर्वश्चैतत्परिभाषाबोधित एव गृह्यते।
यत्तु ऽआदेः परस्यऽ ऽअलोन्त्यस्यऽ इत्येतावेव तद्बाधकाविति तन्न ; ऽउदःस्थात्ऽ इति सूत्रविषये ऽस्याः ऽपादः पत्ऽ इति सूत्रे भाष्ये सञ्चारितत्वात्। नाप्येतयोरियं बाधिका, एतयोर्निविषयत्वप्रसङ्गादिति ऽति विंशतेःऽ इति सूत्रे कैयटः। अकज्विषये नायं न्यायः, स्थानिवद्भावेन तन्मध्यपत्तन्यायेन तद्बुधायैव कार्यजनकत्वात्। इयञ्च अवयवषष्टीविषये ऽपि। अत एव ऽतदोः सः सावितिऽ सत्वम्, ऽअतिस्यःऽ इत्यत्रोपसर्गतकारस्य न। निर्दिश्यमानयुष्मदाद्यवयवमपर्यम्तस्यैव यूयादयः, न तु ऽअतियूयम्ऽ इत्यादौ सोपसर्गावयवमपर्यन्तस्येति बोध्यम्। ऽपादः पत्ऽ इति सूत्रे ऽषष्टी स्थानेऽ इति सूत्रे च भाष्ये च स्पष्टैषा॥
ननु ऽचेताऽ इत्यादौ ह्रस्वस्येकारस्य प्रमाणत आन्तर्यादकारो ऽपि स्यादत आह-
यत्रानेकविधमान्तर्यं तत्र स्थनत आन्तर्यं बलीयः

13

अनेकविधमुस्थानगुणप्रमाणकृतम्। अत्र मानम् ऽषष्टी स्थानेऽ इत्यत एकदेशानुवृत्या स्थाने ग्रहणे ऽनुवर्तमाने पुनः ऽस्थानेन्तरतमःऽ इति सूत्रे स्थाने ग्रहणमेव। तद्धि तृतीयया विपरिणम्य वाक्यभेदेन स्थानिनः प्रसङ्गे जायमानः सति सम्भवे स्थानत एवान्तरतम इत्यर्थकम्।
तमब्ग्रहणमेवानेकविधान्तर्य सत्तागमकम्। स्थानतःउस्थानेनेत्यर्थः। तत्र स्थानत आन्तर्यम् ऽइको यणचिऽ
इत्यादौ प्रसिद्धमेव। अर्थतः ऽपद्दन्नोऽ इत्यादौ स्थान्यर्थाभिधान समर्थस्यैवाऽदेशतेति सिद्धान्ताद्यदर्थाभिधानसमर्थो यः, स तस्यादेश इति तत्समानार्थतत्समानवर्णपदादीनां ते, तृज्वत्क्रोष्टुरिति च। गुणतो ऽवाग्घरिःऽ इत्यादौ। प्रमाणतः ऽअदसो ऽसेःऽ इत्यादौ। ऽस्थाने ऽन्तरतमःऽ सूत्रे भाष्ये स्पष्टैषा॥
ननु ऽप्रोढवान्ऽ इत्यत्र ऽप्रादूहोढेतिऽ वृद्धिः स्यादत आह-
अर्थवद्ग्रहणे नानर्थकस्य

14

विशिष्टरूपोपादाने। उपस्थितार्थस्य शब्दं प्रति विशेषणतयान्वयसम्भवे त्यागे मानाभावो ऽस्या मूलम्। अत्रार्थः कल्पितान्वयव्यतिरेककल्पितः शास्त्रीयो ऽपि गृह्यते इति ऽसङ्ख्यायाःऽ इति सूत्रे भाष्ये स्पष्टम्। इयं वर्ण ग्रहणेषु नेति ऽलस्यऽ इत्यत्र भाष्ये स्पष्टम्। अत एव एषा विशिष्टरूपोपादान विषयेति-वृद्धाः। एतन्मूलकमेव ऽयेन विधिःऽ इत्यत्र भाष्ये पठ्यते ऽअलैवानर्थकेन तदन्तविधिःऽ इति।
किञ्च ऽस्वं रूपम्ऽ इति शास्त्रे स्वशब्देनाऽत्मीयवाचिनार्ऽथो गृह्यते, रूप शब्देन स्वरूपम्, एवञ्च तदुभयं शब्दस्य संज्ञीति तदर्थः। तत्रार्थो न विशेष्यस्तत्र शस्त्रीयोपकार्यासम्भवात्, किन्तु शब्दविशेषणम्। एवञ्चार्थविशिष्टः शब्दः संज्ञीति फलितम्। तेनैषा परिभाषा सिद्धेति भाष्ये स्पष्टम्॥
नन्वेवमपि ऽमहद्भतश्चन्द्रमाःऽ इत्यत्र ऽआन्महतःऽ इत्यात्वापत्तिरत आह-
गौणमुख्ययोर्मुख्ये कार्य सम्प्रत्ययः

15

गुणादागतो गौणः। यथा-गोशब्दस्य जाड्यादिगुणनिमित्तोर्ऽथो वाहीकः। अप्रसिद्धश्च संज्ञादिरपि तद्गुणारोपादेव बुद्ध्यते। मुखमिव प्रधानत्वात् मुख्यःउप्रथम इत्यर्थः। गौणे ह्यर्थे शब्दः प्रयुज्यमानो मुखार्थारोपेण प्रवर्थते। एवं चाप्रसिद्धत्वं गौणलाक्षणिकत्वं चात्र गौणत्वम्। तेन ऽप्रियत्रयाणाम्ऽ इत्यादौ त्रयादेशो भवत्येव, तत्र त्रिशब्दार्थस्येतरविशेषणत्वे ऽप्युक्तगौणत्वाभावात्। किञ्चायं न्यायो न प्रातिपदिककार्ये, किन्तूपात्तं विशिष्यार्थोपस्थापकं विशिष्टरूपं यत्र तादृशपदकार्य एव। परिनिष्टितस्य पदान्तरसम्बन्धे हि ऽगौर्वाहीकःऽ इत्यादौ गौणत्वप्रतीतिर्नतु प्रातिपदिकसम्स्कारवेलायामित्यन्तरङ्गत्वाज्जातसंस्कारबाधायोगः प्रातिपदिककार्ये प्रवृत्यभावे बीजम्।
श्वशुरसदृशस्यापत्यमित्यर्थके ऽश्वाशुरिःऽ इत्यादावत इञः सिद्धये - उपात्तमित्यादि। न च प्रातिपतिकपदं तादृशमिति वाच्यम्, तेन हि प्रातिपदिकपदवत्वेनोपस्थितिरिति तस्य विशिष्यार्थोपस्थापकत्वाभावात्। निपातपदं तु चादित्वेनैव चादीनामुपस्थापकमिति तदुद्देश्यककार्यनिधायके ऽओत्ऽ इत्यादावेतत्प्रवृत् ऽगोभवत्त्याऽ इत्यादौ दोषो न।
ऽअग्नीषोमौ माणवकौऽ इत्यत्र प्रसिद्धदेवताद्वन्द्ववाच्यग्नीषोमपदस्य तत्सदृशपरत्वे ऽप्यन्तरङ्गत्वादीत्वषत्वे भवत एव। सदृशलाक्षणिकाग्निसोमपदयोर्द्वन्द्वे तन्नामकावित्यर्थके च नेत्वषत्वे, आद्ये गौणलाक्षणिकत्वात्, अन्त्ये ऽप्रसिद्धत्वात्। अत एव ऽअग्निसोमौ माणवकोऽ इत्यत्र गौणमुख्यन्यायेन शत्ववारणपरम्,"अग्नेः स्तुत्स्तोमसोमाः"इति सूत्रस्थं भाष्यं सङ्गच्छते।
ऽगां पाठयऽ इत्यादौ मुख्य गोपदार्थस्य पाठनकर्मत्वासम्भवेन निभक्त्युत्पत्तिवेलायां प्रयोक्तृभिर्गौणार्थत्वस्य प्रतीतावप्यपदस्याप्रयोगेण बोद्धृभिः सर्वत्र पदस्यैव गौणार्थकत्वस्य ग्रहेण ऽअत्वं त्वं सम्पद्यते, ऽअमहान् महान्भूतः, ऽत्वद्भवतिठ इत्यादि भाश्यप्रयोगे त्वाद्यादेशदीर्गादीनां करणेन चास्य न्यायस्य पदकार्यविषयत्वमेवोचितम्। अन्यथा वाक्यसंस्कार पक्षे तेषु तदनापत्तिः।
किञ्च"शुक्लाम्ऽ इत्युक्ते कर्म निर्दिष्टम् कर्ता क्रियाचानिर्दिष्टे"इत्याद्युक्त्या ऽइहेदानीं गामभ्याज कृष्णां देवदत्तेत्यादौ सर्वं निर्दिष्टम्, गामेव कर्म, देवदत्त एव कर्त्ता, अभ्याजैव क्रियाऽ इत्यर्थकेनार्थवत्सूत्रस्थभाष्येण कारकादिमात्रप्रयोगे योग्यसर्वक्रियाध्यहारे प्रसक्ते नियमार्थः क्रियावाचकादिप्रयोग इत्येतत्तात्पर्यकेण सामान्यतः क्रियाजन्यफलाश्रयत्वमात्रविवक्षायां द्वितीयादीनां साधुत्वान्वाख्यानमित्यर्थलाभेन पाठनक्रियान्वयकाले पदस्यैव गौणर्थत्वप्रतीतिः प्रयोक्तुरपि।
एतन्मूलकः"अभिव्यक्तपदार्थाः येऽ इति श्लोकोपि पदकार्यविषयकः। ध्वनितं चेदम् ऽसर्वादीनिऽ इति सूत्रे संज्ञाभूतानां प्रतिषेधमारभता वार्त्तिककृता,"पूर्वपरा"इति सूत्रे ऽअसंज्ञायाम्ऽ इति वदता सूत्रकृता, अन्वर्थसंज्ञया तत्प्रत्याख्यानं कुर्वता भाष्यकृता च।
अर्थाश्रय एतदेवं भवति, शब्दाश्रये च वृद्ध्यात्वे-इति ऽओत्ऽ सूत्रस्थ भाष्यस्य लौकिकार्थवत्वयोग्यपदाश्रय
एष न्यायः, तद्रहितशब्दाश्रये च ते इत्यर्थः। ऽगोतःऽ इति यथाश्रुतसूत्रे विशिष्टरूपोपादानसत्वेनोक्तरीत्यैवतस्य
भाष्यस्य व्याख्येयत्वादित्यलम्॥
अर्थवद्ग्रहणे-इत्यस्यापवादमाह :-
अनिनस्मिन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति

16

ऽयेन विधिःऽ इत्यत्र भाष्ये वचन रूपेण पठितैषा। तेन ऽराज्ञाऽ ऽसाम्नाऽ इत्याद्वल्लोपः, ऽदण्डीऽ ऽवाग्मीऽ इत्यादौ ऽइन्हन्ऽ इति नियमः, ऽसुपयाःऽ ऽसुस्रोताःऽ इत्यादौ ऽअत्वसन्तस्यऽ इति दीर्गः, ऽसुशर्माऽ ऽसुप्रथिमाऽ इत्यादौ ऽमनःऽ इति ङीब्निषेधश्च सिद्धः। अन्ये तु ऽपरिवीविषीध्वम्ऽ इत्यत्र ढत्वव्यावृत्तये क्रियमाणात् ऽइणः षीध्वम्ऽ इत्यत्राङ्गग्रहणादर्थवत्परिभाषानित्या, तन्मूलकमिदमित्याहुः। ऽविभाषेटःऽ इत्यत्रानर्थकस्यैव षीध्वमः सम्भवादत्रापि तस्यैव ग्रहणमिति भ्रमवारणाय ऽअङ्गात्ऽ इति परे॥
ननु ऽउश्चऽ इत्यत्र ऽलिङ्सिचौऽ इत्यतः ऽआत्मनेपदेषुऽ इत्येव सम्बध्येत, अनन्तरत्वादत आह :-
एकयोगनिर्दिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः

17

वा-शब्द एवार्थे। परस्परान्वितार्थकपदानाम्-सहैवानुवृत्तिनिवृत्ती इत्यर्थः। एककार्य नियुक्तानां बहूनां लोके तथैव दर्शनादिति भावः। यत्तु-अत्र ज्ञापकम् ऽनेड्वशिऽ इत्यत इडित्यनुवर्तमाने ऽआर्धधातुकस्येड्ऽ इत्यत्र पुनरिड्ग्रहणम्। तद्धि नेत्यस्यासम्बम्धार्थमिति। तन्न ; ऽदीधीवेवीटाम्ऽ इति सूत्रे भाष्ये तत्रत्येड्ग्रहणप्रत्याख्यानायेड् ग्रहणे ऽनुवर्तमाने पुनरिड्ग्रहणस्येटो गुणरूपविकारार्थकत्वस्योक्तत्वेन तद्विरोधात्। नञो निवृत्तिस्तु ऽक्वचिदेकदेशो ऽपि अनुवर्ततेऽ इति न्यायेन सिद्धा। वस्तु तस्तु ऽदीधीवेवीटाम्ऽ इति सूत्रस्थ भाष्यमेकदेश्युक्तिः, ऽआर्धधातुकस्यऽ इति सूत्रस्थेड्ग्रहणस्य ऽनेड्वशिऽ इति सूत्रे भाष्ये प्रत्याख्यानात्, तत्करणेन गुरुतरयत्नमाश्रित्यैतत्प्रत्याख्यानस्यायुक्तत्वात्॥
ननु-अलुगधिक्रः प्रागनङः, उत्तरपदाधिकारः प्रागङ्गाधिकारादित्यनुपपन्नम्, एकयोगनिर्दिष्टत्वात्। तथा ऽदामहायनान्ताच्चऽ इत्यादौ ऽसङ्ख्याव्ययादेःऽ इत्यतः सङ्ख्यादेरित्यनुवर्तते ऽव्ययादेरिति निवृत्तमिति चानुपपन्नमत आह-
एकयोगनिर्दिष्टानामेदेशो ऽप्यनुवर्तते

18

एकार्थे योगःउसम्बन्धस्तेन निर्दिष्टयोः समुदायाभिधायिद्वन्द्वनिर्दिष्टयोरित्यर्थ इति ऽपक्षात्तिःऽ इति सूत्रे कैयटः। तावन्मात्रांषे स्वरितत्वप्रतिज्ञाबलाल्लभ्यमिदम्। स्पष्टा चेयम् ऽदामहायनान्ताच्चऽ इति सूत्रे ऽऔतो ऽम्शसोःऽ इति सूत्रे च भाष्ये पूर्वा च॥
ननु ऽत्यदादीनामःऽ इतियादिना ऽइमम्ऽ इत्यादावनुनासिकः स्यादत आह-
भाव्यमानेन सवर्णानां ग्रहणं न

19

अणुदित्सूत्रे ऽअप्रत्ययःऽ इत्यनेन सामर्त्यात्सूत्रप्राप्तम्, जातिपक्षेणप्राप्तम्,गुणाभेदकत्वेनच प्राप्तम्, नेत्यर्थः। अत एवाणुदित्सूत्रे प्रत्ययाऽदेशाऽगमेषु सवर्णग्रहणाभावं प्रकारान्तरेणोक्त्वा, ऽएवं तर्हि सिद्धे यदप्रत्यय इति प्रतिषेधं शास्ति, तज्ज्ञापयति भवत्येषापरिभाषा ऽभाव्यमानेन सवर्णानां ग्रहणं नऽ इति। किञ्च, ऽज्याद ईयसःऽ इत्येवान्तर्यतो दीर्घे सिद्धे ऽज्यादात्ऽ इति दीर्गोच्चारणमस्या ज्ञापकम्। अणुदित्सूत्रे ऽज्यादात्ऽ इति सूत्रे च भाष्ये स्पष्टैषा।
ऽचोः कुःऽ इत्यादौ भाव्यमानेनापि सवर्णग्रहणम्, विधेये उदिदुच्चारणसामर्थ्यात्। एतदेवाभिप्रेत्य ऽभाव्यमानाण् सवर्णान्न
गृण्हातिऽ इति नव्याः पठन्ति॥
नन्वेवम् ऽअदसो ऽसेःऽ इत्यादिना ऽअमूऽ इत्यादौ दीर्गविधानं न स्यादत आह :-
भाव्यमानो ऽप्युकारः सवर्णान् गृणहाति

20

ऽदिव उत्ऽ ऽऋत उत्ऽ इति तपरकरणमस्या ज्ञपकम्। ऽतित्स्वरितम्ऽ इति सूत्रे भाष्ये स्पष्टैषा॥
ननु ऽगवे हितं गोहितम्ऽ इत्यादौ प्रत्ययलक्षणेनावाद्यादेशापत्तिरत आह :-
वर्णाश्रये नास्ति प्रत्ययलक्षणम्

मूल पाठ: Paribhāṣenduśekhara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc