भाषा

ENहिગુ
ग्रंथ पाठ

परिभाषेन्दुशेखर · श्लोक 121-132

121

अन्तरङ्गादुपजीव्यादपि बलीयांस इत्यर्थः।
ऽचतुर्भ्यःऽ इति तु स्पष्टार्थमेव। अत एव तत्प्रत्यख्यानं भाष्योक्तं सङ्गच्छते।
अत एव सवर्णसंज्ञादेर्निषेधविषये न विकल्पः। अन्यथा मीमांसकरीत्या विधेरुपजीव्यत्वेन प्रबल्यात् तस्य सर्वथा बाधानुपपत्या दुर्वारः स इति मञ्जूषायां विस्तरः। अत एव"द्वन्द्वे च" "विभाषा जसि"इति चरितार्थम्।
विध्युन्मूलनाय प्रवृत्तिरस्या बीजम्।"न लुमताऽ"कमेर्णिङ्"इत्यनयोर्भाष्ये स्पष्टैषा॥
नन्वत्यन्तस्वार्थिकानामर्थप्रत्यायकत्वरूपप्रत्ययत्वानुपपत्तिः, अत आह --
अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे

122

यस्यार्थः प्रकृत्या प्रत्याय्यते, सो ऽपि प्रत्यय इत्यस्याप्यङ्गीकारात् तस्य प्रत्ययत्वमिति न दोषः।
स्वार्थ इत्यस्य स्वीयप्रकृत्यर्थ इत्यर्थः। महासंज्ञाबलादर्थाकाङ्क्षायामन्यानुपस्थितिरस्या बीजम्।"सुपि स्थः"इत्यादि सूत्रेषु भाष्ये स्पष्टैषा॥
योगविभागादिष्ट सिद्धिः

123

इष्टसिद्धिरेव, न त्वनिषटापादनं कार्यमित्यर्थः। तत्तत्समानविधिकद्वितीययोगेन विभक्तस्यानित्यत्वज्ञापनमेतद्बीजम्॥
पर्यायशब्दानां लाघवगौरवचर्चा नाऽद्रियते

124

तत्र तत्रान्यतरस्याम्"विभाषा वा"इति सूत्रनिर्देशज्ञापितमिदम् ॥
ज्ञापकसिद्धं न सर्वत्र

125

स्पष्टमेव पठितव्ये ऽनुमानाद् बोधनमसार्वत्रिकत्वार्थमित्यर्थः। तेन ज्ञापकसिद्धपरिभाषायानिष्टं नापादनीयमिति तात्पर्यम्। भाष्ये ऽपि ध्वनितमेतत्"ङ्याप्"सूत्रादौ।
ज्ञापकेति न्यायस्याप्युपलक्षणम्। न्यायज्ञापकसिद्धानामपि केषाञ्चित् कथनमन्याषामनित्यत्वबोधनायेति भावः। यथा ऽतत्स्थानापन्ने तद्धर्नलाभःऽ इति न्यायसिद्धं स्थानिवत्सूत्रम्, ज्ञापकसिद्धं च तत्र"अनल्विधौ"इति॥
ननु ऽद्रोग्धा द्रोग्धा, द्रोढा द्रोढाऽ इत्यादौ घत्वादीनामसिद्धत्वात् पूर्वं द्वित्वे एकत्र घत्वम्, अपरत्र ढत्वमित्यस्याप्यापत्तिरत आग --
पूर्वत्रासिद्धमद्वित्वे

126

द्वित्वभिन्ने पूर्वत्र कर्तव्ये परमसिद्धमित्यर्थः।"पूरिवत्रासिद्धम्"इत्यधिकारभवं शास्त्रमस्या लिङ्गम्।
यत्र च सिद्धत्वासिद्धत्वयोः फले विशेषः, तत्रैवेयम्। ऽकृष्णर्द्धिःऽ इत्यादौ जश्त्वात्पूर्वमनन्तरं वा द्वित्वे रूपे विशेषाभावेन नास्याः प्रवृत्तिरित्यन्यत्र विस्तरः।"सर्वस्य द्वे"इति सूत्रे भाष्ये स्पष्टेयम्॥
ननु ऽगोष्वश्वेषु च स्वामीऽ इत्यादिवत् ऽगोष्वश्वानां च स्वामीऽ इत्यपि स्यात्"स्वामीश्वर"इति सूत्रेण षष्ठीसप्म्योर्विधानात्, अत आह --
एकस्या आकृतेश्चरितः प्रयोगे द्वितीयस्यास्तृतीयस्याश्च न भविष्यति

127

यत्रान्याकृतिकरणे भिन्नार्थत्वसम्भावना तद्विषयो ऽयं न्याय इत्यन्त्र विस्तरः।"कृञ्चानुप्रयुज्यते"इति सूत्रे भाष्ये स्पष्टेयम्॥
ननु ऽविव्याधऽ इत्यादौ परत्वाद्धलादिःशेषे वस्य सम्प्रसारणं स्यात्, अत आह --
सम्प्रसारणं तदाश्रयं च कार्यं बलवत्

128

तदाश्रयम्"सम्प्रसारणाच्च"इति पूर्वरूपम्। वस्तुतः"लिट्यभ्यासस्य"इति सूत्रे ऽउभयेषां ग्रहणस्योभयेषां सम्प्रसारणमेव यथा स्यादित्यर्थकत्वेनेदं सिद्धमित्येषा व्यर्था,"लिट्यभ्यासस्य"इति सूत्रे भाष्ये स्पष्टम्। फलान्तरान्यथासिद्धिरपि तत्रैव भाष्ये स्पष्टा।"णौ च संश्चङोः"इत्यादौ संश्चङोः इत्यादि विषयसप्तमीति तत्रापि न दोष इत्यन्यत्र विस्तरः॥
यत्तु --
क्वचिद् विकृतिः प्रकृतिं गृह्णाति

129

तेन"निसमुपविभ्यो ह्वः"इत्यत्र ह्वाग्रहणेन ह्वेञो ग्रहणसिद्धिः॥
तथा --
औपदेशिकप्रायोगिकयोरौपदेशिकस्य ग्रहणम्

130

तेन"दादेर्धातोः"इत्यत्रौपदेशिकधातोरेव ग्रहणमिति, तत्, न; तयोर्निर्मूलत्वात्, भाष्याव्यवहृतत्वाच्च, ऽन च विकृतिः प्रकृतिं गृह्णातिऽ इति"ग्रहिज्या"इति सूत्रस्थभाष्येणाद्यायास्तिरस्काराच्च।
"निसमुपविभ्यो ह्वः"इत्यादौ ह्वेञो।टनुकरणे सौत्रः प्रयोगः।
आत्वविषय एवात्मनेपदम्, प्रयोगस्थानामेवानुकरणस्य घुसंज्ञा सूत्रे भाष्ये स्पष्टमुक्तत्वादित्यन्ये। अन्त्यापि तत्र तत्रोपदेशग्रहणं कुर्वतः सूत्रकृतोवार्तिककृतश्चासम्मता।
ऽइह हि व्याकरणे सर्वेष्वेव सानुबन्धकग्रहणेषु रूपमाश्रीयते -- यत्रास्यैतद्रूपमिति, रूपनिर्ग्रहश्च शब्दस्य नान्तरेण लौकिकं प्रयोगम्, तस्मिंश्च लौकिके प्रयोगे सानुबन्धकानां प्रयोगो नास्तीति कृत्वा द्वितीयः प्रयोग उपास्यते, ऽक उपदेशो नामऽ इति घुसंज्ञासूत्रस्थ भाष्येण प्रायोगिकासम्भवे तद्ग्रहणमित्यर्थस्य लाभेन भाष्यासम्मता च ।
भाष्ये सानुबन्धकेत्यादि प्रकृताभिप्रयेण।"दादेः"इति सूत्रे दादिपदस्यौपदेशिकदादित्ववति लक्षणेति न दोष इत्यन्यत्र विस्तरः॥
यदपि ननु ऽअजर्घा बेभिदीतिऽ इत्यादौ तत्तदिगुणप्रयुक्ता विकरणा यङ्लुकि स्युः, तथा यङ्लुकि ऽबेभिदिताऽ इत्यादौ"एकाचः"इतोण् निषेधः स्यात्, अत आह --
श्तिपा शपानुबन्धेन निर्दिष्टं यद् गणेन च ।
यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि

131

अनुबन्धनिर्देशो द्विधा -- स्वरूपेण, ऽङितःऽइत्यादिपदेन च। ऽहन्ति, याति, वाति,"सनीवन्त"इति सूत्रे भरेति,"दीङो युडचि" "अनुदात्त ङितः" "दिवादिभ्यः श्यन्""एकाच उपदेशे"इत्युदाहरणानि।
द्वित्वम्"सनाद्यन्ताः"इति"भूवादयः"इति धातुत्वं च भवत्येव,"गुणोयङ्लुकोः"इतियीदिभिर्नुषेधानित्यत्वकल्पनात्। तेन भष्भावो ऽपि ऽअजर्घाःऽ इत्यादौ भवति। अत एव"श्वोदितः"इति सूत्रे कैयटे -- ऽयत्रैकाज् ग्रहणं किञ्चित्ऽ इति पाठः।"एकाच उपदेशे।टनुदात्तात्"इति सूत्र एकाज्ग्रहणेनैकदेशानुमत्यैषा ज्ञाप्यते। अन्यथोपदेशे ऽन्काचानुदात्तत्वस्यैव सत्वेन तद्वैयर्थ्यं स्पष्टमेवेति।
तदपि न, भाष्यानुक्तत्वात्। एकाज्ग्रहणस्य वधिव्यावृत्यर्थमावश्यकत्वाच्च।
न च वधिस्स्थान्युपदेश एकाजेवेति वाच्यम्, साक्षादुपदेशसम्भवेनैतद्विषये स्थान्युपदेशाग्रहणात्, उपदेशात्वावच्छेदेनैकाजित्यर्थाच्च।
किञ्च उत्तरार्थमेकाज्ग्रहणम्। अत एव ऽजागरितवान्ऽ इत्यादावुपदेश उगन्तत्वमादाय"श्रुयुकः किति"इतीण् निषेधो न। तत्रोपदेशे इत्यनुवृत्तिश्य ऽस्तीर्णम्ऽ इत्यादाविण् निषेधायेत्याकरे स्पष्टम्।
न च भाष्ये यङ् लोपो ऽबेभिदिताऽ इत्यादाविट्प्रवृत्यर्थमुपदेशे ऽनुदात्तादेकाचः श्रूयमाणादङ्गादित्यर्थे सनीट्प्रतिषेधो वक्तव्यः, ऽबिभित्सतिऽ इति दोषोपन्यासवद् यङ्लुकि दोषाणामुपन्यासेन तत्रेडिष्टः।
यङ्लोपेत्यादि भाष्यं तूपक्रमोपसंहारबलेन न यङ्लुग्विषयम्।
किञ्च, तस्य तद्विषयकत्वे यङ्लोपे स्थानिवत्वस्येवयङ्लुक्युपायाप्रदर्शनेन न्यूनत्पत्तिरिति वाच्यम्, इड्विषये यङ्लुको लोके ऽनभिधानेन छन्दसि सर्वविधीनां वैकल्पिकत्वेन च तत्र दोषानुपन्यासेनादोषात्। अन्यथा ऽएकाज्ग्रहणं किमर्थम्ऽ इति प्रश्नस्य ऽउत्तरत्र जागर्त्यर्थमिह वध्यर्थम्ऽ इत्युत्तरस्य च भाष्ये निरालम्भनत्वपत्तेः।
न चार्धधातुकाक्षिप्तधातोरेकाच इति विशेषणम्। एवं च ऽबिभित्सतिऽ इत्यादावुत्तरखण्डस्य धातोरेकाच्त्वमस्त्येव, उत्तरखण्डे ऽस्तित्ववत्। एतच्च ऽदयतेःऽ इति सूत्रे भाष्ये स्पष्टम्। एवं च प्रकृतभाष्यासङ्गतिरिति वाच्यम् ; आक्षेपे आक्षिप्तस्यान्वये च मानाभावात्।
अङ्गत्वं तु विशिष्ट एवेति"एकाचो द्वे"इति सूत्रे भाष्ये स्पष्टम्। निरूपितं च तनादिशेषे शब्देन्दुशेखरे। धातुत्वं तूत्तरखण्ड एव। अत एव"एकाचो बशो भष्"इति सूत्रे धातोरवयवस्यैकाच इति वैयधिकरण्येनान्वये गर्धप्सिद्धिः प्रयोजनमुक्तं भाष्ये, न तु प्रसिद्धम् ऽअजर्घाःऽ इति।
ऽअजर्घाः, बेभिदीतिऽ इत्यादौ श्नम् श्यनादयस्तु"चर्करीतं च"इत्यस्यादादौ पाठेन
यङ्लुगन्ते गणान्तरप्रयुक्तविकरणस्याप्राप्त्या न भवन्ति।
छान्दसत्वादेव कार्यान्तराणामपि छन्दसि दृष्टप्रयोगेष्वदृष्टानामभावो बोध्यः।
भाषायां तु तादृशानामभाव एव। श्तिप्शबादिनिर्देशास्तु ऽभवतेरःऽ इत्यादि सूत्रस्थतन्निर्देशवन्नार्थसाधका इत्यन्यत्र विस्तरः॥
ननु ऽजभो ऽचि, रधेश्च, नेट्यलिटिऽ इत्येव सूत्र्यताम्, किं द्वीरधिग्रहणेनेत्याह --
पदगौरवाद् योगविभागो गरीयान्

132

प्रतिवाक्यं भिन्नवाक्यार्थबोधकल्पनेन गौरवं स्पष्टमेव। परन्तु भाष्यासम्मतेयम्।"टाङसि"इति सूत्रस्थ भाष्य विरुद्धा च। तत्र च इनादेशे इकारप्रत्याख्यानं योगविभागेनैव कृतमिति बहवः॥
अर्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः

मूल पाठ: Paribhāṣenduśekhara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc