परशुरामकल्पसूत्र · अध्याय 9
9. खण्ड: होम--विधि
अथ स्वेष्ट-मन्त्रस्य होम-विधानं व्याख्यास्यामः
चतुर्-अस्रं कुण्डम् अथवा हस्त्âयामम् अङ्गुष्ठोन्नतं स्थण्डिलं कृत्वा
सामान्य्âर्घ्यम् उपशोध्य तेन्âवोक्ष्य
प्राचीर् उदीचीस् तिस्रस् तिस्रो रेखा लिखित्वा
तासु रेखासु ब्रह्म-यम-सोम-रुद्र-विष्ण्व्-इन्द्रान्, षट्तारी-नमस्-सम्पुटितान् अभ्यर्च्य
सहस्र्âर्चिषे हृदयाय नमः, स्वस्ति-पूर्णाय शिरसे स्वाहा, उत्तिष्ठ पुरुषाय शिखायै वषट्, धूम-व्यापिने कवचाय हुं, सप्त-जिह्वाय नेत्र-त्रयाय वौषट्, धनुर्-धराय अस्त्राय फट् - इति षड्-अङ्गं विधाय तेन षड्-अङ्गेन कुण्डम् अभ्यर्च्य
तत्र्âष्ट-कोण-षट्-कोण-त्रि-कोण्âत्मकं अग्नि-चक्रं विलिख्य पीतायै श्वेतायै अरुणायै कृष्णायै धूम्रायै तीव्रायै स्फुलिङ्गिन्यै रुचिरायै ज्वालिन्यै नम इति त्रि-कोण-मध्ये वह्नेः पीठ-शक्तीः सम्पूज्य - तं तमसे, रं रजसे, सं सत्त्वाय, आम् आत्मने, अम् अन्तरात्मने, पं परम्âत्मने, ह्रीं ज्ञान्âत्मने नमः - इति तत्रैव्âभ्यर्चयेत्
ततो जनिष्यमाण-वह्नेः पितरौ वागीश्वरी-वगीश्वरौ पीठे ऽभ्यर्च्य तयोर् मिथुनीभावं भावयित्वा ह्रीं वागीश्वरी-वागीश्वराभ्यां नमः - इति ध्यात्वा
अरणेः सूर्य-कान्तात् द्विज-गृहाद् वा वह्निम् उत्पाद्य मृत्-पात्रे ताम्र-पात्रे वा आग्नेय्याम् ऐशान्यां नैरृत्यां वा निधाय, अग्नि-शकलं क्राव्याद्âंशं नैरृत्यां विसार्य निरीक्षण-प्रोक्षण-ताडन्âवकुण्ठन्âदिभिः विशोध्य [248] ओं वैश्वानर जातवेद इह्âवह लोहित्âक्ष सर्व-कर्माणि साधय स्वाहा - इति मूल्âधारोद्गत-संविदं ललाट-नेत्र-द्वारा निर्गमय्य तं बाह्य्âग्नि-युक्तं पातयेत्
कवच-मन्त्रेण इन्धनैर् आच्छाद्य
अग्निं प्रज्वलितं वन्दे जातवेदं हुत्âशनम् ।
सुवर्ण-वर्णम् अनलं समिद्धं विश्वतो-मुखम् ॥
इत्य् उपस्थाय
उत्तिष्ठ हरित-पिङ्गल लोहित्âक्ष सर्व-कर्माणि साधय मे देहि दापय स्वाहा - इति वह्निम् उत्थाप्य
चित्-पिङ्गल हन हन दह दह पच पच सर्व-ज्ञ्âज्ञापय स्वाहा, इति प्रज्वाल्य
षट्तार-वाचो नमो-मन्त्रेण पुंसवन-सीमन्त-जातकर्म-नामकरण्âन्नप्राशन-चौलोपनयन-गोदान-विवाह-कर्माण्य् अमुक्âग्नेर् अमुकं कर्म कल्पयामि नमः - इति विधाय
परिषिच्य परिस्तीर्य परिधाय
त्रि-णयनम् अरुण्âभं बद्ध-मौलिं सुशुक्ल्âं-
शुकम् अरुणम् अनेक्âकल्पम् अम्भोज-संस्थम् ।
अभिमत-वर-शक्ति-स्वस्तिक्âभीति-हस्तं
नमत कनक-माल्âलङ्कृत्âंसं कृश्âनुम् ॥
इति ध्यात्वा
(1) अष्ट-कोणे जातवेदसे सप्त-जिह्वाय हव्य-वाहाय अश्वोदराय वैश्वानराय कौमार-तेजसे विश्व-मुखाय देव-मुखाय नमः - इति (2) षट्-कोणे षड्-अङ्गं (3) त्रि-कोणे अग्नि-मन्त्रेण अग्निं पूजयित्वा
हिरण्यायै कनकायै रक्तायै कृष्णायै सुप्रभायै अतिरक्तायै बहु-रूपायै नमः - इत्य् अग्नेः सप्त-जिह्वासु मूल-शुद्धेन्âज्येन सप्त्âहुतीः कुर्यात्
वैश्वानरोत्तिष्ठ-चित्-पिङ्गलैर् अग्नेस् त्रिधा ऽऽहुतिं विधाय
बहु-रूप-जिह्वायाम् इष्टां देवताम् आवाह्य पञ्चोपचारैर् उपचर्य
सर्वासां चक्र-देवीनाम् एक्âहुतिं हुत्वा, नमो-ऽन्तान् पादुका-ऽन्तान् शेषान् मन्त्रान् स्वाहा-ऽन्तान् विधाय जुहुयात्
अथ प्रधान-देवतायै दश्âहुतीर् जुहुयात्
यदि काम्यम् ईप्सेद् अभीष्ट-देवतायै विज्ञाप्य सङ्कल्पं कृत्वैतावत्-कर्म-सिद्ध्य्-अर्थम् एतावद्-आहुतीः करिष्याम्îति
तिल्âज्यैः शान्त्या - अन्नेन्âन्नाय्âमृताय - समिच्-चूत-पल्लवैर् ज्वर-शमाय - दूर्वाभिर् आयुषे - कृत-मालैर् धनायोत्पलैर् भागाय - बिल्व-दलै राज्याय - पद्मैः [252] साम्राज्याय - शुद्ध-लाजैः कन्यायै - नन्द्य्-आवर्तैः कवित्वाय - वञ्जुलैः पुष्टयै - मल्लिका-जाती-पुन्नागैर् भाग्याय - बन्धूक-जपा-किंशुक-बकुल-मधुकरैर् ऐश्वर्याय - लवणैर् आकर्षणाय - कदम्बैः सर्व-वश्याय - शालि-तण्डुलैर् धान्याय - कुङ्कुम-गोरोचन्âदि-सुगन्धैः सौभाग्याय - पलाश-पुष्पैः कपिला-घृतैर् वा तेजसे - धत्तूर-कुसुमैर् उन्मादाय - विष-वृक्षैः निम्ब-श्लेष्मातक-विभीतक-समिद्भिः शत्रु-नाशाय - निम्ब-तैल्âक्त-लवणैर् मारणाय - काकोलूक-पक्षैर् विद्वेषणाय - तिल-तैल्âक्त-मरीचैः कास-श्वास-नाशाय - जुहुयात्
बलिं प्रदाय
ओं भूर् अग्नये च पृथिव्यै च महते च स्वाहा ।
ओं भुवो वायवे च्âन्तरिक्षाय च महते च स्वाहा ।
ओं सुवर् आदित्याय च दिवे च महते च स्वाहा ।
ओं भूर् भुवस् सुवश् चन्द्रमसे च नक्षत्रेभ्यश् च दिग्भ्यश् च महते च स्वाहा ।
इति चतुर्भिर् मन्त्रैः महा-व्याहृति-होमं कृत्वा
इतः पूर्वं प्राण-बुद्धि-देह-धर्म्âधिकारतो जाग्रत्-स्वप्न-सुषुप्त्य्-अवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्याम् उदरेण शिश्ना यत् स्मृतं यद् उक्तं [254] यत् कृतं तत् सर्वं ब्रह्म्âर्पणं भवतु स्वाहा, इति ब्रह्म्âर्पण्âहुतिं कृत्वा
चिद्-अग्निं देवतां च्âत्मन्य् उद्वासयामि नमः - इत्य् उद्वास्य
तद्-भस्म-तिलक-धरो लोक-सम्मोहन-कारः सुखी विहरेत् । इति शिवम्
मूल पाठ: Paraśurāmakalpasūtra (a digest of Śrīvidyā, as system of worship of the Divine Mother) · Edition: A. Mahadeva Sastri, Baroda : Central Library 1923 (Gaekwad's Oriental Series, 22) · Data entry Claudia Weber · GRETIL (Göttingen) · CC BY-NC-SA 4.0