परशुरामकल्पसूत्र · अध्याय 10
10. खण्ड: सर्व-साधारण-क्रम
अथ्âतः सर्वेषां मन्त्राणां सामान्य-पद्धतिं व्याख्यास्यामः
श्यामा-वत् सन्ध्या-ऽऽद्य्-अर्घ्य-शोधन-पर्यन्तं न्यास-वर्जम्
अनुक्त-षड्-अङ्गस्य षड्-जाति-युक्त-मायया षड्-अङ्गम्
बिन्दु-त्रि-षड्-अर-नाग-दल-चतुष्-पत्र-चतुर्-अस्र-मयं चक्रम्
बिन्दौ मुख्य-देवतेच्छा-ज्ञान-क्रिया-शक्तयस् त्र्य्-अस्रे, षड्-अरे तत्-तत्-षड्-अङ्गान्य् अष्ट-दले ब्राह्म्य्-आद्याः, चतुर्-दले गणपति-दुर्गा-बटुक-क्षेत्रेशाश्, चतुर्-अस्रे दिक्-पालाः
त्रितारी-कुमारीभ्यां सर्वे क्रम-मन्त्राः प्रयोक्तव्याः
तत्-तन्-मूलेन्âवाहनं कला-मनुना बलिर् अनेन क्रमेण्âहुतिः
अथ रश्मि-माला
सुप्तोत्थितेनैषा मनसैकवारम् आवर्त्या
(1) प्रणवो भूर् भुवस् सुवः -
तत्-सवितुर् वरेणियं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ॥
इति त्रिंशद्-वर्णा गायत्री ॥
(2) यत इन्द्र भयामहे ततो नो अभयं कुरु ।
मघवञ् छग्धि तव तन् न ऊतये विद्विषो विमृधो जहि ॥
स्वस्ति-दा विशस्-पतिर् वृत्र-हा विमृधो वशी ।
[258] वृषेन्द्रः पुर एतु नः स्वस्ति-दा अभयङ्करः ॥
इत्य् ऐन्द्री सप्तषष्ट्य्-अर्णा सङ्कटे भय-नाशिनी ॥
(3) प्रणवो घृणिस् सूर्य आदित्य इत्य् अष्ट्âर्णा सौरी तेजो-दा ॥
(4) प्रणवः केवलो ब्रह्म-विद्या मुक्ति-दा ॥
(5) तारः परो-रजसे (ऽ)सावद् ओम् इति नव्âर्णा तुर्य-गायत्री स्वैक्य-विमर्शिनी ॥
रश्मि-पञ्चकम् एतन्-मूल-हृत्-फाल-विधिबिल-द्वादश्âन्त-बीजतया विमृष्टव्यम्
(1) सूर्य्âक्षि-तेजसे नमः । (2) खेचराय नमः । (3) असतो मा सद् गमय । (4) तमसो मा ज्योतिर् गमय । (5) मृत्योर् मा ऽमृतं गमय । (6) उष्णो भगवान् शुचि-रूपः । (7) हंसो भगवान् शुचिर् अप्रतिरूपः ॥
(8) विश्व-रूपं घृणिनं जात-वेदसं
हिरण्-मयं ज्योतिर् एकं तपन्तम् ।
सहस्र-रश्मिः शतधा वर्तमानः
प्राणः प्रजानाम् उदयत्य् एष सूर्यः ॥
[259] (9) ओं नमो भगवते सूर्याय अहो वाहिनि वाहिन्य् अहो वाहिनि वाहिनि स्वाहा ॥
(10) वयस् सुपर्णा उपसेदुर् इन्द्रं
प्रियमेधा ऋषयो नाथ-मानाः ।
अपध्वान्तम् ऊर्णुहि पूर्धि चक्षुर्
मुमुग्ध्य् अस्मान् निधयेव बद्धान् ॥
(11) पुण्डरीक्âक्षाय नमः । (12) पुष्करेक्षणाय नमः । (13) अमलेक्षणाय नमः । (14) कमलेक्षणाय नमः । (15) विश्व-रूपाय नमः । (16) श्री-महा-विष्णवे नमः ॥
इति षोडश-मन्त्र-समष्टि-रूपिणी दूर-दृष्टि-प्रदा चाक्षुष्मती विद्या
प्रणवो गन्धर्व-राज विश्वा-वसो मम अभिलषित्âमुकां कन्यां प्रयच्छ ततो ऽग्नि-वल्लभेत्य् उत्तम-कन्या-विवाह-दायिनी विद्या
तारो नमो रुद्राय पथि-षदे स्वस्ति मा सम्पारय - इति मार्ग-सङ्कट-हारिणी विद्या
तारस् तारे पदम् उक्त्वा तुत्तारे तुरे शब्दं च दहन-दयितेति जल्âपच्-छमनी विद्या
अच्युताय नमः, अनन्ताय नमः, गोविन्दाय नमः - इति महा-व्याधि-विनाशिनी नाम-त्रयी विद्या
पञ्चेमा रश्मयो मूल्âदि-परिकरतया प्रपञ्च्याः
प्रणवः कमला भुवना मदनो ग्लाच् चतुर्दश-पञ्चदशौ गं गणपतये वर-युगलं द सर्व-जनं मे शब्दो वशम् आनय्âग्नि-वाम-लोचनेति महा-गणपति-विद्या प्रत्यूह-शमनी
प्रणवो नमः शिवायै, प्रणवो नमः शिवायेति द्वादश्âर्णा, शिव-तत्त्व-विमर्शिनी विद्या
प्रणवः क्âष्टम-दक्ष-श्रुति-बिन्दु-पिण्डो भृगु-षोडशो मां पालय-द्वन्द्वम् इति दश्âर्णा मृत्योर् अपि मृत्युर् एषा विद्या
तारः नमो ब्रह्मणे धारणं मे अस्त्व् अनिरा-करणं धारयिता भूयासं कर्णयोः श्रुतं म्âच्योढ्वं मम्âमुष्य ओं - इति श्रुत-धारिणी विद्या
श्रीकण्ट्âदि-क्ष्âन्ताः सर्वे वर्णाः बिन्दु-सहिताः मातृका सर्व-ज्ञता-करी विद्या
रश्मयः पञ्च मूल्âदि-रक्षा-ऽऽत्मकतया यष्टव्याः
शिव-शक्ति-काम-क्षिति-माया-रव्îन्दु-स्मर-हंस-पुरन्दर-भुवना-परा-मन्मथ-वासव-भौवनाश् च शिव्âदि-विद्या स्व-स्वरूप-विमर्शिनी
क्ल-शब्दाद् वामेक्षण-बिन्दुर् एको ऽनन्त-योनि-बिन्दवो ऽन्यः शङ्कर-परा-त्रिशूल-विसृष्टयो ऽपरश् चैत एव खण्डाः प्रतिलोमाः षट्-कूटा सम्पत्-करी विद्या
सम् उच्चार्य सृष्टि-नित्ये स्वाहेति हम् इत्य् उक्त्वा स्थिति-पूर्णे नमः - इत्य् अनल-बिन्दु-महा-संहारिणी कृशे पदाच् चण्ड-शब्दः कालि फट् - इत्य् अग्नि-बिन्दु-सप्तम-मुद्रा-बीजं महा-नाख्ये अनन्त-भास्करि महा-चण्ड-पदात् कालि फट् - इति सृष्टि-स्थिति-संहार्âख्यानां प्रातिलोम्यं खेचरी-बीजं महा-चण्ड-वाणी च योग्îश्वर्îति विद्या-पञ्चक-रूपिणी काल-सङ्कर्षिणी परम्âयुः-प्रदायिनी
त्रितारी सप्तम-मुद्रा शिव-युक्-शक्तिर् अहं-युगलम् एतत्-पञ्चैव लोम्यम् इति शुद्ध-ज्ञान-मयी शाम्भवी विद्या
भृगु-त्रिशूल-विसृष्टयः परा-विद्या
पञ्चेमा रश्मयो मूल्âद्य्-अधिष्ठानतया परिकल्पनीयाः
वाक्-काम-शक्तयो ऽनुलोम-विलोमाः पुनर् अनुलोमाः - इति श्रियो ऽङ्ग-बाला
भुवना कमला सुभगा तारो नमो भगवति पूर्णे शेखरम् अन्न मम्âभिलषितम् उक्त्वा ऽन्नं देहि दहन-जायेति श्रिय उप्âङ्गम् अन्न-पूर्णा
प्रणवः पाश्âदि-त्र्य्-अर्णा एहि परमेश्वर्îत्य् उक्त्वा वह्नि-वाम्âक्ष्य्-उक्तिर् इति श्री-प्रत्यङ्गम् अश्व्âरूढा
तारि-त्रिकं सप्तम-मुद्रा शिव-शक्ति-संवर्त-पु-पञ्चम-पुरन्दर-व-र-यूं शक्ति-शिव-क्ष-म्âन्ते व्âदि-व-र-यीं शिव-भृगु-त्रिशूल-बिन्दु-भृगु-शिव-त्रिशूल-विसृष्टयः श्री-पूर्वं स्व-गुरु-नामतो ऽष्ट्âक्षरी चेति श्री-पादुका च
एताभिश् चतसृभिर् युक्ता मूल-विद्या साम्राज्ञी मूल्âधारे विलोचनीया
मादन-शक्ति-बिन्दु-मालिनी-वासव-माय्âघोष-दोषाकर-कन्दर्प-गगन-मघवद्-भुवन-भृगु-पुष्पबाण-भू-मायेति सेयं तस्या महा-विद्या
वाङ्-नतिर् उच्छिष्ट-चाण्डलि मातम् उक्त्वा गि सर्व-पदाद् वशङ्करि वह्नि-वाम-लोचनेति श्यामा-ऽङ्गं लघु-श्यामा
कुमारीम् उच्चार्य वद-द्वन्द्वं वाक्-पदं वादिनि वह्नि-प्रियेति श्यामोपाङ्गं वाग्-वादिनी
प्रणव ओ-पि-ना-कु-दं-प-वृ-प-स-स्यै-च-शा-चा-मा-ह-द-शब्दाः, ष्ठा-धा-न-ली-तैः-रि-ता-विः-र्व-वा-ई-ना-रु-मि-वा-येच्-छेखरा, नकुली श्यामा-प्रत्यङ्गम्
ललिता-पादुक्âदि-त्रिक-स्थाने कुमारी योज्या शिष्टं तद्-वत् - इति श्यामा-पादुका च
चतसृभिर् युक्ता हृच्-चक्रे श्यामा यष्टव्या
तद्-विद्या तु त्रितारी कुमारी न-भ-व-श्री-तं-श्व-स-ज-म-हा-स-मु-रं-नि-माया-स-रा-व-क-स-स्त्री-रु-व-क-स-दु-मृ-व-क-स-स-व-क-स-लो-व-क-अ-कं-व-मा-य-हा-वर्णा ओं-मो-ग-ति-मा-गी-रि-र्व-न-नो-रि-र्व-ख-जि-मदन-श्रीं-र्व-ज-शं-रि-र्व-पु-ष-शं-रि-र्व-ष्ट-ग-शं-रि-र्व-त्व-शं-रि-र्व-क-शं-रि-मु-मे-श-न-स्वा-ऽन्त मन्त्र्âदि बीज-षट्कं प्रातिलोम्यम् इति अष्टनवति-वर्णाः
हरः स-बिन्दुर् वा-पूर्व-राहि स्थाणुः स-बिन्दुर् उन्मत्त-पदं भै-शब्दो रवि-पादुकाभ्यां नम इति वार्ताल्य्-अङ्गं लघु-वार्ताली
वेद्âदि-भुवनं नमो वाराहि घोरे स्वप्नं ठ-द्वितयं अग्नि-दारा - इति वार्ताल्य्-उपाङ्गं स्वप्न-वार्ताली स्वप्ने शुभ्âशुभ-फल-वक्त्री
वाग् घृदयं भगवति तिरस्करिणि महा-माये पशु-पदाज् जन-मनश्-चक्षुस्-तिरस्करणं कुरु-द्वितयं वर्म फट् पावक-परिग्रह इति वार्ताली-प्रत्यङ्गं, तिरस्करिणी
श्यामा-पादुका-मन्त्र्âदि-त्रि-बीजम् अपहाय वाग् ग्लौम् - इति योज्यम् । एषा वार्ताली-पादुका
विद्याभिर् एताभिर् युक्ता फाल-चक्रे परिपूज्या भगवत्îयं भूदार-मुखी
मनुर् इदम् ईयो ऽयं वाक्-पुटितं ग्लौं न-भ-व-वा-लि-र्ता-वा-हि-रा-व-ह-खि-रा-मु-अं-अं-नि-मः-धे-धि-न-जं-जं-नि-मः-हे-हि-न-स्तं-स्तं-नि-मः-र्व-ष्ट-दु-नां-र्वे-स-वाक्-त्त-क्षु-ख-ति-ह्वा-भ-कु-कु-शी-व-शब्दा यथा-क्रमं मो-ग-ति-र्ता-वा-लि-रा-वा-हि-रा-मु-व-ह-खि-धे-धि-न-रुं-रुं-नि-मः-भे-भि-न-मो-मो-नि-मः-भे-भि-न-स-दु-प्र-ष्टा-स-षां-र्व-चि-च-र्मु-ग-जि-स्तं-नं-रु-रु-घ्रं-श्यं-शब्दोपेता वाक् ग्लौं विसृष्ट्य्-अन्ताश् च सप्तमाश् चत्वारो वर्म्âस्त्राय फड् इति द्वादशोत्तरशत्âक्षरा
पञ्चमैकादश-बीज-वर्जा श्रीर् एव श्री-पूर्ति-विद्या ब्रह्म-कोटरे यष्टव्या
श्यामा-पादुका-प्रथम-त्रिक-स्थाने तार-त्रयं कुमारी वाक् ग्लौं - इति योज्यम् । ततः परस्ताच् छेषं समानम्
इयं महा-पादुका सर्व-मन्त्र-समष्टि-रूपिणी स्वैक्य-विमर्शिनी महा-सिद्धि-प्रदायिनी द्वादश्âन्ते यष्टव्या
एवं रश्मि-माला सम्पूर्णा । सर्व-गात्रः शुद्ध-विद्या-मय-तनुः स एव परम-शिवः
अथ विघ्न-देवताः । इरि-मिलि-किरि-किलि-पदात् परिमिरोम् इत्य् एकः । प्रणवो माया नमो भगवति महा-त्रिपुराद् भै-वर्णाद् रवि-पदम् अनु मम त्रैपुररक्षां कुरु कुरु - इति द्वितीयः । संहर संहर विघ्न-रक्षो-विभीषकान् कालय हुं फट् स्वाहा - इति तृतीयः । ब्लूं रक्ताभ्यो योगिनीभ्यो नमः - इति चतुर्थः । सां सारसाय बह्व्-आशनाय नमः - इति पञ्चमः । दुमुलुषु मुलुषु माया चामुण्डायै नमः - इति षष्ठः । एते मनवो ललिता-जप-विघ्न-देवताः
हसन्ति हसित्âलापे पदं मातम् उक्त्वा गी-परिचारिके मम भय-विघ्न-नाशं कुरु-द्वितयं स-विसर्ग-ठ-त्रितयम् इति श्यामा-विघ्न-देवी
स्तं स्तम्भिन्यै नमः - इति कोल-मुखी-विघ्न-देवी
एते तत्-तज्-जप्âरम्भे जप्तव्याः
ललिता प्राह्णे । अपर्âह्णे श्यामा । वार्ताली रात्रौ । ब्राह्मे मुहूर्ते परा
व्यवहार-देश-स्व्âत्म्य-प्राणोद्वेग-सहाय्âमय-वयांसि प्रविचार्यैव तद्-अनुकूलः पञ्च-म्âदि-परामर्शः
सर्व-भूतैर् अविरोधः
परिपन्थिषु निग्रहः
अनुग्रहः संश्रितेषु
गुरु-वत् गुरु-पुत्र-कलत्र्âदिषु वृत्तिः
आदिमस्य स्वयं सेवनम् आगम-दृष्ट्या दोष-दं त्याज्यम्
स्âनन्दस्य रुचिरस्य्âमोदिनो लघुनो वार्क्षस्य गौडस्य पिष्ट-प्रकृतिनः अन्धसो वाल्कलस्य कौसुमस्य वा यथा-देश-सिद्धस्य वा तस्य परिग्रहः
तद्-अनन्तरं मध्यमयोर् अस्वयम् असु-विमोचनम् । उपादिमे न्âयं नियमः । मध्यमे तु स्वयं संज्ञपने तत्र्âयं मन्त्रः -
उद्बुध्यस्व पशो त्वं हि न्âशिवस् त्वं शिवो ह्य् असि ।
शिवोत्कृत्तम् इदं पिण्डं मत्तस् त्वं शिवतां व्रज ॥
इति
सर्वत्र वचन-पूर्वं प्रवृत्तिः
दश-कुल-वृक्ष्âनुपप्लवः
स्त्री-वृन्द्âदिम-कलश-सिद्ध-लिङ्गि-क्रीडा-ऽऽकुल-कुमारी-कुल-सहकार्âशोकैक-तरु-परेत्âवनि-मत्त-वेश्या-श्यामा-रक्त-वसना-मत्तेभानां दर्शने वन्दनम्
पञ्च-पर्वसु विशेष्âर्चा
आरम्भ-तरुण-यौवन-प्रौढ-तदन्तोन्मन्âनवस्थोल्लासेषु प्रौढ्âन्ताः समय्âचाराः । ततः परं यथा-कामी । स्वैर-व्यवहारेषु वीर्âवीरेष्व् अयथा-मननाद् अधः पातः
रक्ता-त्याग-विरक्ता-ऽऽक्रमणोदासीना-प्रलोभन-वर्जनम्
घृणा-शङ्का-भय-लज्जा-जुगुप्सा-कुल-जाति-शीलानां क्रमेण्âवसादनम्
गुरु-प्रगुरु-सन्निपाते प्रगुरोः प्रथमं प्रणतिः तद्-अग्रे तद्-अनुरोधेन तन्-नति-वर्जनम्
अभ्यर्हितेष्व् अपराङ्मुख्यम्
मुख्यतया प्रकाश-विभावना
अधिजिगमिषा शरीर्âर्थ्âसूनां गुरवे धारणम्
एतद्-उक्त-करणम्
अपरीक्षणं तद्-वचने व्यवस्था
सर्वथा सत्य-वचनम्
पर-दार-धनेष्व् अनासक्तिः
स्व-स्तुति-पर-निन्दा-मर्म-विरुद्ध-वचन-परिहास-धिक्कार्âक्रोश-त्रासन-वर्जनम्
प्रयत्नेन विद्या-ऽऽराधन-द्वारा पूर्ण-ख्याति-समावेशनेच्छा चेत्य् एते सामायिक्âचाराः
परे च शास्त्र्âनुशिष्टाः
इत्थं विदित्वा विधि-वद् अनुष्ठितवतः कुल-निष्ठस्य सर्वतः कृत-कृत्यता शरीर-त्यागे श्वपच-गृह-काश्योर् न्âन्तरं जीवन्-मुक्तः
य इमां दश-खण्डीं महोपनिषदं महा-त्रैपुर-सिद्धान्त-सर्वस्व-भूताम् अधीते सः - सर्वेषु यज्ञेषु यष्टा भवति यं यं क्रतुम् अधीते तेन तेन्âस्येष्टं भवति इति हि श्रूयते इत्य् उपनिषत् - इति शिवम्
अथ्âतः सर्वेषां मन्त्राणां, अथ स्वेष्ट-मन्त्रस्य, इति विधि-वत्, इत्थं स्âङ्गां, इयम् एव महती विद्या, अथ प्राथमिके चतुरस्रे, अथ हृच्-चक्र-स्थितां, एवं गणपतिम् इष्ट्वा, इत्थं सद्-गुरोः, अथ्âतो दीक्षां व्याख्यास्यामः । अथ, एवम्, अथ, इत्थम्, अथ स्वेष्टेति पञ्च
इति श्री-दुष्ट-क्षत्रिय-कुल-काल्âन्तक-रेणुका-गर्भ-सम्भूत-महादेव-प्रधान-शिष्य-जामदग्न्य-श्री-परशुराम-भार्गव-महोपाध्याय-महा-कुल्âचार्य-निर्मितं कल्प-सूत्रं संपूर्णम्
मूल पाठ: Paraśurāmakalpasūtra (a digest of Śrīvidyā, as system of worship of the Divine Mother) · Edition: A. Mahadeva Sastri, Baroda : Central Library 1923 (Gaekwad's Oriental Series, 22) · Data entry Claudia Weber · GRETIL (Göttingen) · CC BY-NC-SA 4.0