भाषा

ENहिગુ
ग्रंथ पाठ

परशुरामकल्पसूत्र · अध्याय 8

8.1

8. खण्ड: परा-क्रम
इति विधिवत् कृत-वार्ताली-वरिवस्यः सिंह्âसन-विद्या-हृदयम् अनुत्तरं परा-बीज-रूपं धाम तत्-क्रम-पूर्वं विमृशेत्

8.2

प्रभु-हृदय-ज्ञातुः पदे पदे सुखानि भवन्ति

8.3

अथो ऽनुत्तर-पद्धतिं व्याख्यास्यामाः

8.4

कल्ये समुत्थाय ब्रह्म-कोटर-वर्तिनि सहस्र-दल-कमले सन्निविष्टायाः सौवर्ण-रूपायाः परायाश् चरण-युगल-विगलद्-अमृत-रस-विसर-परिप्लुतं वपुः ध्यात्वा

8.5

स्नातः शुचि-वासो-वसानः, सौः-वर्णेन त्रिर् आचम्य, द्विः परिमृज्य, सकृद् उपस्पृश्य, चक्षुषी, नासिके, श्रोत्रे, अंसे, नाभिं, हृदयं, शिरश् च्âवमृश्य, एवं त्रिर् आचम्य

8.6

ऊर्णा-मृदु-शुचितमम् आसनं सौ-वर्ण-सूर्य-जप्âभिमन्त्रितं मूल-मन्त्रोक्षितम् अधिष्ठाय

8.7

उदग्-वदनो मौनी भूषित-विग्रहो मूल-पूर्वेण देशिक-मनुना मस्तके देशिकम् इष्ट्वा

8.8

वाम-पार्ष्णि-घातैः छोटिका-त्रयेण पाताल्âदि-गतान् भेद्âवभासिनः विघ्नान् उत्सार्य

8.9

शिरो-मुख-हृन्-मूल-सर्व्âङ्गेषु मूलं विन्यस्य

8.10

काक-चञ्चूपुट्âकृतिना मुखेन संचोष्य्âनिलं सप्तविंशतिशो मूलं जप्त्वा वेद्यं नाभौ संमुद्र्य पुनः सप्तविंशतिशो जप्त्वा अङ्गुष्ठेन शिखां बध्वा पुनर् अनिलम् आपूर्य तेन मूले चिद्-अग्निम् उत्थाप्य तत्र वेद्यस्य विलयं विभाव्य

8.11

गोमयेनोपलिप्त-चतुर्-अस्र-भू-तले प्रवहत्-पार्श्व-कर-कृतया मत्स्य-मुद्रया दिव्य-गन्ध्âम्बु-युतया भू-व्योम-वायु-वह्नि-मण्डलानि कृत्वा

8.12

श्यामा-वत् सामान्य-विशेष्âर्घ्ये सादयेत्

8.13

सर्वे ऽपि परा-क्रम-मनवः सौः वर्ण-पूर्वाः कार्याः

8.14

भृगु-चतुर्दश-षोडश-द्विर्-आवृत्या, वर्ण-षड्-अङ्गं सर्व-मूल-षड्-आवृत्या, मन्त्र-षड्-अङ्गं च, कृत्वा

8.15

उभाभ्याम् अर्चयित्वा

8.16

मूलम् उच्चार्य, तां चिन्मयीम् आनन्द-लक्षणाम् अमृत-कलश-पिशित-हस्त-द्वयां, प्रसन्नां, देवीं, पूजयामि नमः स्वाहा - इति सुधा-देवीम् अभ्यर्च्य तया सम्प्रोक्ष्य वरिवस्या--वस्तूनि

8.17

पूर्वं नाभौ सम्मुद्रितं चिद्-अग्नि-विलीनं तप्त्âयो-द्रव-वत् षट्त्रिंशत्-तत्त्व-कदम्बकं हृत्-सरोजे समानीय

8.18

मूल-जप्तैः कुसुम-क्षेपैः वक्ष्यमाणैश् च मन्त्रैर् आसन-कॢप्तिं कुर्यात् - मूल्âदि-योग-पीठाय नमः - इत्य् अन्तानि तानि च पृथिव्य्-अप्-तेजो-वाय्व्-आकाश-गन्ध-रस-रूप-स्पर्श-शब्दोपस्थ-पायु-पाद-पाणि-वाग्-घ्राण-जिह्वा-चक्षुस्-त्वक्-श्रोत्र्â- [243] हङ्कार-बुद्धि-मनः-प्रकृति-पुरुष-नियति-काल-राग-कल्âविद्या-माया-शुद्धविद्येश्वर-सदाशिव-शक्ति-शिवाः । एवं परा-चक्रं कृत्वा

8.19

तत्रैतद्-ऐक्य-विमर्श-रूपिणीं षोडश-कलां परां देवीम् आवाह्य

8.20

अकलङ्क-शश्âङ्क्âभा त्र्य्-अक्षा चन्द्र-कला-वती ।
मुद्रा-पुस्त-लसद्-बाहुः पातु मां, परमा कला ॥
इति ध्यात्वा

8.21

मूल्âदिम् उच्चार्य प्रकाश-रूपिणी परा-भट्टारिका, मूल-मध्यम् उच्चार्य विमर्श-रूपिणी परा-भट्टारिका, मूल्âन्त्यम् उच्चार्य प्रकाश-विमर्श-रूपिणी परा-भट्टारिकेति त्रिभिः देव्या मूल-हृन्-मुखेष्व् अभ्यर्च्य समस्तम् उच्चार्य, महा-प्रकाश-विमर्श-रूपिणी परा-भट्टारिकेति, दशवारम् अवमृश्य ताम् एव देवीं, काल्âग्नि-कोटि-दीप्तां ध्यात्वा

8.22

तस्यां क्रिया-समभिव्याहारेण वेद्यम् अखिलं हुत्वा

8.23

मूलम् उच्चार्य, सामान्य-पादुकया स्व-मस्तक-स्थाय गुरवे अर्घ्यं निवेद्य

8.24

पुनश् चिद्-अग्निम् उद्दीप्तं विभाव्य

8.25

दिव्यौघं तिस्रः पादुकाः सिद्धौघं तिस्रः मानवौघम् अष्टाव् अभ्यर्च्य

8.26

पराभट्टारिका-ऽघोर-श्रीकण्ठ-शक्तिधर-क्रोध-त्र्यम्बक्âनन्द-प्रतिभादेव्यम्बा, वीरसंविदानन्द-मधुरादेव्यम्बा, ज्ञान-श्रीराम-योगाः - इति, परा-क्रम-पादुकाः

8.27

ततः कला-मनुना बलिं निवेद्य

8.28

हविश्-शेषम् आत्म-सात्कुर्यात् । इति शिवम्

मूल पाठ: Paraśurāmakalpasūtra (a digest of Śrīvidyā, as system of worship of the Divine Mother) · Edition: A. Mahadeva Sastri, Baroda : Central Library 1923 (Gaekwad's Oriental Series, 22) · Data entry Claudia Weber · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc