भाषा

ENहिગુ
ग्रंथ पाठ

परशुरामकल्पसूत्र · अध्याय 6

6.1

6. खण्ड: श्यामा-क्रम
इयम् एव महती विद्या सिंह्âसनेश्वरी साम्राज्ञी, तस्याः प्रधान-सचिव-पदं श्यामा, तत्-क्रम-विमृष्टिः सदा कार्या

6.2

प्रधान-द्वारा राज-प्रसादनं हि न्याय्यम्

6.3

ब्राह्मे मुहूर्ते चोत्थाय शयने स्थित्वैव श्री-पादुकां प्रणम्य प्राणान् आयम्य मूल्âदि-द्वादश्âन्त-पर्यन्तं ज्वलन्तीं पर-संविदं विचिन्त्य मनसा मूलं त्रिशो जप्त्वा बहिर् निर्गत्य विमुक्त-मल-मूत्रो दन्त-धावन-जिह्वा-घर्षण-कफ-विमोचन-नास-शोधन-विंशति-गण्डूषान् विधाय

6.4

मन्त्र-भस्म-जल-स्नानेष्व् इष्टं विधाय वस्त्रं परिधाय

6.5

सन्ध्याम् उपास्य सवितृ-मण्डले देवीं स्âवरणं विचिन्त्य मूलेन त्रिर् अर्घ्यं दत्त्वा यथा-शक्ति सन्तर्प्य

6.6

याग-गृहं प्रविश्य्âसने आधार-शक्ति-कमल्âसनाय नम - इत्य् उपविश्य

6.7

समस्त-प्रकट-गुप्त-सिद्ध-योगिनी-चक्र-श्री-पादुकाभ्यो नम इति शिरस्य् अञ्जलिम् आधाय स्व-गुरु-पादुका-पूजां च विधाय

6.8

ऐं ह्रः अस्त्राय फट् इत्य् अस्त्र-मन्त्रेण अङ्गुष्ठ्âदि-कनिष्ठ्âन्तं कर-तलयोः कूर्परयोः देहे च व्यापकत्वेन विन्यस्य

6.9

यं - इति वायुं पिङ्गलया ऽऽकृष्य देहम् उपविशोष्य, रं - इति वायुम् आकृष्य देहं दग्ध्वा, वं - इति वायुम् आकृष्य्âमृतेन दग्ध-देह-भस्म सिक्त्वा, लं - इति वायुम् आकृष्य दृढं विधाय, हंस - इति वायुम् आकृष्य शिव-चैतन्यम् उत्पाद्य

6.10

मूलम् एकश उच्चार्य वायुम् आकृष्य त्रिशः उच्चार्य कुम्भयित्वा सकृद् उच्चार्य रेचयेत् । एवं रेचक-पूरक-कुम्भकं त्रिधा सप्तधा दशधा षोडशधा वा विरच्य तेजो-मय-तनुः

6.11

षड्-अङ्गं बाला-सहितां मातृकां मूल-हृन्-मुखेषु रति-प्रीति-मनोभवान् विन्यस्य

6.12

मूलं सप्तदशधा खण्डयित्वा षट् ब्रह्म-बिले त्रीणि ललाटे चत्वारि भ्रू-मध्ये दक्ष-वामेक्षणयोः षट् च्âष्टौ सप्त्âस्ये दक्ष-वाम-श्रुति-कण्ठेष्व् एकैकं दक्ष-वाम्âंसयोर् अष्टौ च दश हृदि दश दक्ष-वाम-स्तनयोर् अष्टाव् अष्टौ नव नाभौ द्विः स्वाधिष्ठाने षड् आधार एवं विन्यस्य

6.13

पुनर् आधार्âदि-ब्रह्म-बिल-पर्यन्तं सप्तदश-खण्डान् उक्त-स्थानेषु विन्यस्य

6.14

अमृतोदधि-मध्य-रत्न-द्वीपे मुक्ता-माल्âद्य्-अलङ्कृतं चतुर्-द्वार-सहितं मण्डपं विचिन्त्य तस्य प्राग्-आदि-चतुर्-द्वारेषु - सां सरस्वत्यै, लां लक्ष्म्यै, शं शङ्ख-निधये, पं पद्म-निधये नमः - लां इन्द्राय वज्र-हस्ताय सुर्âधिपतये ऐरावत-वाहनाय स-परिवाराय नमः - रां अग्नये शक्ति-हस्ताय तेजो-ऽधिपतये अज-वाहनाय स-परिवाराय नमः - टां यमाय दण्ड-हस्ताय प्रेत्âधिपतये महिष-वाहनाय स-परिवाराय नमः - क्षां निरृतये खड्ग-हस्ताय रक्षो-ऽधिपतये नर-वाहनाय स-परिवाराय नमः - वां वरुणाय पाश-हस्ताय जल्âधिपतये मकर-वाहनाय स-परिवाराय नमः - यां वायवे ध्वज-हस्ताय प्राण्âधिपतये रुरु-वाहनाय स-परिवाराय नमः - सां सोमाय शङ्ख-हस्ताय नक्षत्र्âधिपतये अश्व-वाहनाय स-परिवाराय नमः - हां ईशानाय त्रिशूल-हस्ताय विद्या-ऽधिपतये वृषभ-वाहनाय स-परिवाराय नमः - ओं ब्रह्मणे पद्म-हस्ताय सत्य-लोक्âधिपतये हंस-वाहनाय स-परिवाराय नमः - श्रीं विष्णवे चक्र-हस्ताय नाग्âधिपतये गरुड-वाहनाय स-परिवाराय नमः - ओं वास्तु-पतये ब्रह्मणे नमः - इत्य् एकादश-दिक्षु एकादश-देवान् अर्चयेत्

6.15

श्यामा-क्रम-मन्त्राणाम् आदौ त्रितारी-कुमारी-योगः कुमारी-योगो वा, त्रितारी पूर्वोक्ता कुमारी बाला शेषम् उत्तानम्

6.16

गन्ध-द्रव्येण लिप्त्âङ्गस् ताम्बूल्âमोदित-वदनः प्रसन्न-मना भूत्वा

6.17

सुवर्ण-रजत-ताम्र-चन्दन-मण्डलेषु बिन्दु-त्रि-कोण-पञ्च-कोण्âष्ट-दल-षोडश-दल्âष्ट-दल-चतुर्-दल-चतुर्-अस्र्âत्मकं चक्र-राजं विलिख्य

6.18

मूलेन त्रिवार-जप्तेन शुद्ध-जलेन चतुर्-अस्र-वृत्त-षट्-कोण-त्रि-कोण-बिन्दून् प्रवेशेन मत्स्य-मुद्रया विधाय - अं आत्म-तत्त्वाय आधार-शक्तये वौषट् - इत्य् आधारं प्रतिष्ठाप्य धूम्र्âर्चिर् ऊष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी सु-श्रीः सु-रूपा कपिला हव्य-वाहा कव्य-वाहेत्य् अग्नि-कला अभ्यर्च्य - उं विद्या-तत्त्वाय पद्म्âननाय वौषट् - इति पात्रं प्रतिष्ठाप्य - तपिनी तापिनी धूम्रा मरीचिर् ज्वालिनी रुचिः सुषुम्ना भोग-दा विश्वा बोधिनी धारिणी क्षमा - इति पात्रे सूर्य-कला अभ्यर्च्य - मं शिव-तत्त्वाय सोम-मण्डलाय नमः - इति शुद्ध-जलम् आपूर्य - अमृता मान-दा पूषा तुष्टिः पुष्टी रतिः धृतिः शशिनी चन्द्रिका कान्तिर् ज्योत्स्ना श्रीः प्रीतिर् अङ्ग-दा पूर्णा पूर्ण्âमृता - चेति चन्द्र-कला अभ्यर्च्य अग्न्îश्âसुर-वायुषु मध्ये दिक्षु च षड्-अङ्गानि विन्यस्य अस्त्रेण संरक्ष्य कवचेन्âवकुण्ठ्य धेनु-योनी प्रदर्श्य - मूल-मन्त्रेण सप्तशो ऽभिमन्त्र्य तज्-जल-विप्रुड्भिः याग-गृहं पूजोपकरणानि च्âवोक्ष्य

6.19

ताभिर् ई-कार्âङ्कित-त्रि-कोण-वृत्त-चतुर्-अस्रं मण्डलं विधाय तस्मिन् पुष्पाणि विकीर्य पूर्व-वद् आधारं प्रतिष्ठाप्य अग्नि-कला अभ्यर्च्य पात्रं प्रतिष्ठाप्य तस्मिन् पात्रे ह्रीं ऐं महा-लक्ष्म्îश्वरि परम-स्वामिनि ऊर्ध्व- [199] शून्य-प्रवाहिनि सोम-सूर्य्âग्नि-भक्षिणि परम्âकाश-भासुरे आगच्छ्âगच्छ विश विश पात्रं प्रतिगृह्ण प्रतिगृह्ण हुं फट् स्वाहेति पुष्प्âञ्जलिं विकीर्य सूर्य-कला अभ्यर्च्य
ब्रह्माण्ड्âखण्ड-सम्भूतम् अशेष-रस-सम्भृतम् ।
आपूरितं महा-पात्रं पीयूष-रसम् आवह ॥
इत्य् आदिमम् आपूर्य द्वितीयं निक्षिप्य अ-क-थ्âदि-त्रि-रेखा-ऽङ्कित-कोण-त्रये ह-ल-क्षान् मध्ये हंसं च विलिख्य - मूलेन दशधा अभिमन्त्र्य - चन्द्र-कलाः अभ्यर्च्य - अग्न्îश्âसुर-वायुषु मध्ये दिक्षु, षड्-अङ्गानि विन्यस्य - अस्त्रेण संरक्ष्य - कवचेन्âवकुण्ठ्य, धेनु-योनी प्रदर्शयेत्

6.20

चक्र-मध्ये श्री-मातम् उक्त्वा ग्îश्वरी-मूर्तये नमः - इति मूर्तिं कल्पयित्वा भूयः श्री-मातम् उक्त्वा ग्îश्वर्य्-अमृत-चैतन्यम् आवाहयामि - इत्य् आवाह्य, षोडशभिर् उपचर्य आशुशुक्षणि-त्र्यक्ष-रक्षः-प्रभञ्जन-दिक्षु देव्या मौलौ परितश् च पूज्या अङ्ग-देव्यः । तन्-मन्त्राः सर्व-जन्âदयः अष्टौ सप्तैकादश दश पुनर् दश्âष्टाविंशति-खण्डाः त्रितारी-कुमारी-वाग्-आदयः स-जातयः सामान्य-मनु-युक्ताः

6.21

पश्चाद् आवरण-पूजां कुर्यात्

6.22

सर्व-चक्र-देवता-ऽर्चनानि वाम-कर्âङ्गुष्ठ्âनामिका-सन्दष्ट-द्वितीय-शकल-गृहीत-श्री-पात्र-प्रथम-बिन्दु-सहपतितैः दक्ष-कर्âक्षत-पुष्प-क्षेपैः कुर्यात्

6.23

त्रि-कोणे रति-प्रीति-मनोभवान्

6.24

पञ्च्âर-मूले पुर आदि-क्रमेण द्रां द्रावण-बाणाय - द्रीं शोषण-बाणाय - क्लीं बन्धन-बाणाय - ब्लूं मोहन-बाणाय - सः उन्मादन-बाणाय नमः - इति तद्-अग्रे माया-काम-वाग्-ब्लूं स्त्रीम् उपजुष्टाः काम-मन्मथ-कन्दर्प-मकर-केतन-मनोभवाः

6.25

अष्ट-दल-मूले ब्राह्मी-महेश्वरी-कौमारी-वैष्णवी-वाराही-माहेन्द्री-चामुण्डा-चण्डिकाः, सेन्दु-स्वर-युग्म्âन्त्य्âदयः पूज्याः । तद्-अग्रे लक्ष्मी-सरस्वती-रति-प्रीति-कीर्ति-शान्ति-पुष्टि-तुष्टयः

6.26

षोडश-दले वामा-ज्येष्ठा-रौद्री-शान्ति-श्रद्धा-सरस्वती-क्रियाशक्ति-लक्ष्मी-सृष्टि-मोहिनी-प्रमथिनी-आश्वासिनी-वीची-विद्युन्मालिनी-सुर्âनन्दा-नागबुद्धिकाः

6.27

अष्ट-दले असित्âङ्ग-रुरु-चण्ड-क्रोधन-उन्मत्त-कपाल-भीषण-संहाराः स-दण्डि-स्वर-युग्म्âदि-संयुक्ता भैरव्âन्ताश् च भावनीयाः

6.28

चतुर्-दलं मा-युक्त-तङ्गी सिद्ध-लक्ष्मीश् च महा-मा-युक्त-तङ्गी महा-सिद्ध-लक्ष्मीश् च

6.29

गं गणपति - दुं दुर्गा - बं बटुक - क्षं क्षेत्र-पालाः, चतुर्-अस्रे सम्पूज्याः

6.30

सां सरस्वत्यै नमः, इति-प्रभृति, वास्तु-पतये ब्रह्मणे नमः इति-पर्यन्तं पुनस् तत्रैव्âभ्यर्च्य

6.31

हंसमूर्ति-परप्रकाश-पूर्ण-नित्य-करुण-सम्प्रदाय-गुरूंश् चतुर्-अस्र-पूर्व-रेखायाम् अभ्यर्च्य

6.32

स्व-शिरसि सामान्य-विशेष-पादुके अभ्यर्चयेत्

6.33

पुनर् देवीम् अभ्यर्च्य बालया षोडशोपचारान् विधाय

6.34

शुद्ध-जलेन त्रि-कोण-वृत्त-चतुर्-अस्रं विधाय्âर्ध्âन्न-पूर्ण-सलिलं स्âदिमोपादिम-मध्यमं सु-[स]-गन्ध-पुष्पं स्âधारं पात्रं निधाय

6.35

श्री-मातम् उक्त्वा ग्îश्वर्îमं बलिं गृह्ण गृह्ण हुं फट् स्वाहा श्री-मातम् उक्त्वा ग्îश्वरि शरण्âगतं मां त्राहि त्राहि हुं फट् स्वाहा क्षेत्र-पाल-नाथेमं बलिं गृह्ण गृह्ण फट् स्वाहा - इति मन्त्र-त्रयेण वाम-पार्ष्णि-घात-कर्âस्फोट-समुदञ्चित-वक्त्र-नाराच-मुद्राभिः बलिं प्रदाय

6.36

श्यामलां शक्तिम् आहूय बालया ताम् अभ्यर्च्य तस्या हस्त आदिमोपादिमौ दत्त्वा तत्त्वं शोधयित्वा तच्-छेषम् उररीकृत्य योग्यैः सह हविश्-शेषं स्वीकुर्यात्

6.37

एवं नित्य-सपर्यां कुर्वन् लक्ष-जपं जप्त्वा तद्-दश्âंश-क्रमेण च होम-तर्पण-ब्राह्मण-भोजनानि विदध्यात्

6.38

एतन्-मनु-जापी न कदम्बं छिन्द्यात् गिरा काल्îति न वदेत् वीणा-वेणु-नर्तन-गायन-गाथा-गोष्ठीषु न पराङ्-मुखो गच्छेत् गायकं न निन्द्यात्

6.39

ललितोपासको नेक्षु-खण्डं भक्षयेत् - न दिवा स्मरेद् वार्तालीं - न जुगुप्सेत सिद्ध-द्रव्याणि - न कुर्यात् स्त्रीषु निष्ठुरतां - वीर-स्त्रियं न गच्छेत् - न तं हन्यात् - न तद्-द्रव्यम् अपहरेत् - न्âत्मेच्छया म-पञ्चकम् उररीकुर्यात् - कुल-भ्रष्टैः सह न्âसीत - न बहु प्रलपेत् - योषितं सम्भाषमाणाम् अप्रतिसम्भाषमाणो न गच्छेत् - कुल-पुस्तकानि गोपायेत् - इति शिवम्

मूल पाठ: Paraśurāmakalpasūtra (a digest of Śrīvidyā, as system of worship of the Divine Mother) · Edition: A. Mahadeva Sastri, Baroda : Central Library 1923 (Gaekwad's Oriental Series, 22) · Data entry Claudia Weber · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc