भाषा

ENहिગુ
ग्रंथ पाठ

परशुरामकल्पसूत्र · अध्याय 7

7.1

7. खण्ड: वाराही-क्रम
इत्थं स्âङ्गां सङ्गीत-मातृकाम् इष्ट्वा संवित्-साम्राज्ञी-सिंह्âसन्âधिरूढाया ललिताया महा-राज्ञ्या दण्ड-नायिका-स्थानीयां दुष्ट-निग्रह-शिष्ट्âनुग्रह-निरर्गल्âज्ञा-चक्रां समय-सङ्केतां कोल-मुखीं विधिवद् वरिवस्येत्

7.2

तत्र्âयं क्रमो महारात्रे बुद्ध्वा स्व-हृदय-परम्âकाशे ध्वनन्तम् अनाहत-ध्वनिम् ऊर्जित्âनन्द-दायकम् अवमृश्य

7.3

शिव्âदि-श्री-गुरुभ्यो नमः - इति मूर्ध्नि बध्नीयाद् अञ्जलिम्

7.4

वाचम् उच्चार्य ग्लौम् - इति च पद्धताव् अस्यां सर्वे मनवो जप्याः

7.5

मूल्âदि-षण्-मन्त्रैः यथा-मन्त्रं लिङ्ग-देहं शोधयेत्

7.6

मूल-शृङ्गाटकात् सुषुम्ना-पथेन जीव-शिवं पर-शिवे योजयामि स्वाहा - यं सङ्कोच-शरीरं शोषय शोषय स्वाहा - रं सङ्कोच-शरीरं [209] दह दह पच पच स्वाहा - वं परम-शिव्âमृतं वर्षय वर्षय स्वाहा - लं शाम्भव-शरीरम् उत्पादयोत्पादय स्वाहा - हंसः सो ऽहम् अवतर्âवतर शिव-पदात् जीव सुषुम्ना-पथेन प्रविश मूल-शृङ्गाटकम् उल्लसोल्लस ज्वल ज्वल प्रज्वल प्रज्वल हंसः सो ऽहं स्वाहा - इति भूत-शुद्धिं विधाय

7.7

मातृका-सम्पुटितां द्वितारीं क्âननवृत्त-द्व्य्-अक्षि-श्रुति-नासा-गण्डोष्ठ-दन्त-मूर्ध्âस्य-दोः-पत्सन्ध्यग्र-पार्श्व-द्वय-पृष्ठ-नाभि-जठर-हृद्-दोर्मूल्âपरगल-कक्ष-हृद्-आदि-पाणि-पाद-युगल-जठर्âननेषु - विन्यस्य

7.8

अन्धे-प्रभृति सप्त्âर्ण-पञ्चकम् अङ्गुष्ठ्âदि-कनिष्ठ्âन्तम्

7.9

वाङ् नमो भगवत्îत्य् आरभ्य त्रयोदशभिर् हृदयं, षड्भिः शिरः, दशभिः शिखां, सप्तभिः सप्तभिः सप्तभिः कवच-नेत्र्âस्त्राणि, विन्यस्य

7.10

गन्ध्âदिभिर् अलङ्कृत्य अर्घ्यं शोधयेत्

7.11

आत्मनो ऽग्र-भागे गो-मयेन विलिप्ते, हेतु-मिश्रित-जलेन चतुर्-अस्रं वर्तुलं षट्-कोणं त्रि-कोणं अन्तर्âन्तरं - विलिख्य, अर्घ्य-शोधन-मनुभिः श्यामा-क्रमोक्तैः आधार्âर्घ्य-पात्राणि संशोध्य, सामान्येन्âभ्यर्च्य, तद् अर्घ्यं वषड् इत्य् उद्धृत्य, स्वाहेति संस्थाप्य, हुं - इत्य् अवकुण्ठ्य, वौषट् इत्य् अमृतीकृत्य, फड् इति संरक्ष्य, नमः - इति पुष्पं निक्षिप्य, मूलेन निरीक्ष्य, तत्-पृषतैः पावयित्वा सपर्या-वस्तूनि

7.12

(1) शिरो-वदन-हृद्-गुह्य-पादेषु पूर्वोक्त-सप्तक-पञ्चकं विन्यस्य (2) विद्याम् अष्टधा खण्डयित्वा, पाद्âदि-जानु-जान्व्-आदि-कटि-कट्य्-आदि-नाभि-नाभ्य्-आदि-हृदय-हृदय्âदि-कण्ठ-कण्ठ्âदि-भ्रूमध्य-भ्रूमध्य्âदि-ललाट-ललाट्âदि-मौलिषु एकत्रिंशत् सप्त सप्त सप्त सप्त सप्त पञ्चत्रिंशद् एकादश्âर्ण-खण्डान् (3) मातृका-स्थानेषु मूल-मनु-पदानि च न्यस्य

7.13

पूर्वोक्तान् अष्ट-खण्डान् एकैकश उच्चार्य पूर्वोक्तेषु स्थानेषु ह्लां शर्वाय क्षिति-तत्त्व्âधिपतये, ह्लीं भवाय अम्बु-तत्त्व्âधिपतये, ह्लूं रुद्राय वह्नि-तत्त्व्âधिपतये, ह्लैं उग्राय वायु-तत्त्व्âधिपतये, ह्लौं ईशानाय भानु-तत्त्व्âधिपतये, सों महादेवाय सोम-तत्त्व्âधिपतये, हं महादेवाय यजमान-तत्त्व्âधिपतये, औं भीमाय आकाश-तत्त्व्âधिपतये नमः - इति तत्त्व-न्यासः

7.14

मूलेन सर्वेण व्यापकं कृत्वा देवीं ध्यात्वा

7.15

पुरतः पट-पट्ट-सुवर्ण-रजत-ताम्र-चन्दन-पीठ्âदि-निर्मितं दृष्टि-मनोहरं चतुर्-अस्र-त्रय-सहस्र-पत्र-शत-पत्र्âष्ट-पत्र-षड्-अस्र-पञ्च्âस्र-त्र्य्-अस्र-बिन्दु-लक्षणं कोल-मुखी-चक्रं विरच्य

7.16

तत्र कुसुम्âञ्जलिं विकीर्य स्वर्ण-प्राकाराय सुधा-ऽब्धये वराह-द्वीपाय वराह-पीठाय नमः इति । आं - आधार-शक्तये, कुं कूर्माय, कं कन्दाय, अं - अनन्त-नालाय नमः - इति च धर्म्âदिभिः सह षोडश-मन्त्रैः पीठे अभ्यर्च्य

7.17

त्रि-पञ्च-षड्-अर-दल्âष्टक-शत-सहस्र्âर-पद्म्âसनाय नमः - इति चक्र-मनुना चक्रम् इष्ट्वा

7.18

वह्नि-मण्डलाय सूर्य-मण्डलाय सोम-मण्डलाय नमः - इति त्रयो गुण-मन्त्राः - आत्म-मन्त्राः चत्वारः - इति सप्तविंशतिकम् इदं पीठे वरिवसनीयम्

7.19

हौं प्रेत-पद्म्âसनाय सदाशिवाय नमः - इति चक्रोपरि देव्य्-आसन-विमृष्टिः

7.20

ॡ षा ई वाराही-मूर्तये ठः ठः ठः ठः हुं फट् - इति, वाग्-ग्लौम्-आदि-ग्लौं-वाग्-अन्ता, मूर्ति-करणी, विद्या

7.21

मूल-विद्यया आवाहन-संस्थापन-संनिधापन-संनिरोधन-सम्मुखीकरण्âवकुण्ठन-वन्दन-धेनु-योनीर् बद्ध्वा

7.22

देव्य्-अङ्ग-न्यस्त-षड्-अङ्ग-पञ्च्âङ्गः

7.23

पाद्य्âर्घ्य्âचमनीय-स्नान-वासो-गन्ध-पुष्प-धूप-दीप-नीराजन-छत्र-चामर-दर्पण-रक्ष्âचमनीय-नैवेद्य-पानीय-ताम्बूल्âख्य-षोडशोपचार-कॢप्त्य्-अन्ते

7.24

ध्यानं देव्याः - मेघ-मेचका कुटिल-दंष्ट्रा कपिल-नयना, घन-स्तन-मण्डला चक्र-खड्ग-मुसल्âभय-शङ्ख-खेट-हल-वर-पाणिः पद्म्âसीना वार्ताली ध्येया

7.25

दशधा तस्यास् तर्पणं कुर्यात्

7.26

त्र्य्-अस्रे जम्भिनी-मोहिनी-स्तम्भिन्यः

7.27

पञ्च्âरे अन्धिनी-रुन्धिन्यौ ताश् च

7.28

षट्-कोणे आ क्षा ई ब्रह्माणी, ई ला ई माहेश्वरी, ऊ हा ई कौमारी, ॠ सा ई वैष्णवी, ऐ शा ई इन्द्राणी, औ वा ई चामुण्डा तस्यैव्âग्रेषु मध्ये च य-म-र-यूं यां यीं यूं यैं यौं यः याकिनि जम्भय जम्भय मम सर्व-शत्रूणां त्वग्-धातुं गृह्ण गृह्ण अणिमा-ऽऽदि-वशं कुरु कुरु स्वाहेति । अन्यासां धातु-नाथानाम् अप्य् एवं बीजे नामनि धातौ त्व् आराधन-कर्मणि मन्त्र-सन्नामः । र-म-र-यूं राकिणि रक्त-धातुं पिब पिब ल-म-र-यूं लाकिनि मांस-धातुं भक्षय भक्षय ड-म-र-यूं डाकिनि मेदो-धातुं ग्रस ग्रस क-म-र-यूं काकिनि अस्थि-धातुं जम्भय जम्भय स-म-र-यूं साकिनि मज्जा-धातुं गृह्ण गृह्ण ह-म-र-यूं हाकिनि शुक्र-धातुं पिब पिब अणिमा-ऽऽदि-वशं कुरु कुरु स्वाहा - इति धातु-नाथ-यजनम्

7.29

अनन्तरं षड्-अस्रोभय-पार्श्वयोः क्रोधिनी-स्तम्भिन्यौ चामर-ग्राहिण्यौ तत्रैव स्तम्भन-मुसल्âयुधाय आकर्षण-हल्âयुधाय नमः षड्-अराद् बहिः पुरतो देव्याः क्ष्रौं क्रौं चण्डोच्चण्डाय नमः - इति तद्-यजनम्

7.30

अष्ट-दले वार्ताली-वाराही-वराहमुख्य्-अन्धिन्य्-आदयः पञ्च तद्-बहिः महा-महिषाय देवी-वाहनाय नमः

7.31

(1) शत्âरे देवी-पुरतो दल-सन्धौ जम्भिन्या इन्द्राय्âप्सरोभ्यः सिद्धेभ्यो द्वादश्âदित्येभ्यो ऽग्नये साध्येभ्यो विश्वेभ्यो देवेभ्यो विश्वकर्मणे यमाय मातृभ्यो रुद्र-परिचारकेभ्यो रुद्रेभ्यो मोहिन्यै निरृतये राक्षसेभ्यो मित्रेभ्यो गन्धर्वेभ्यो भूत-गणेभ्यो वरुणाय वसुभ्यो विद्या-धरेभ्यः [221] किन्नरेभ्यो वायवे स्तम्भिन्यै चित्र-रथाय तुम्बुरवे नारदाय यक्षेभ्यः सोमाय कुबेराय देवेभ्यो विष्णवे ईशानाय ब्रह्मणे अश्विभ्यां धन्वन्तरये विनायकेभ्यो नमः - इति देवता-मण्डलम् इष्ट्वा (2) तद्-बहिः औं क्षौं क्षेत्र-पालाय नमः, सिंह-वराय देवी-वाहनाय नमः - इति च तद् उभयं वरिवस्येत् । तद्-बहिः महा-कृष्णाय मृग-राजाय देवी-वाहनाय नमः - इति तत्-पूजा

7.32

(1) सहस्र्âरे अष्टधा विभक्ते ऐरावताय पुण्डरीकाय वामनाय कुमुदाय्âञ्जनाय पुष्प-दन्ताय सार्वभौमाय सुप्रतीकाय नमः - इति तत्-पूजा बहिः सुधा-ऽब्धेर् वा । (2) बाह्य-प्राकार्âष्ट-दिक्षु अध उपरि च हेतुक्âदयः, भैरव-क्षेत्र-पाल-शब्द-युक्ताः प्रत्येकं क्षौम्-आदयश् च यष्टव्याः । हेतुक-त्रिपुर्âन्तक्âग्नि-यमजिह्वैकपाद-काल-कराल-भीमरूप-हाटकेश्âचलाः दश भैरवाः

7.33

एवं षड्-आवरणीम् इष्ट्वा पुनर् देवीं त्रिधा सन्तर्प्य सर्वैर् उपचारैर् उपचर्य

7.34

पुरतो वाम-भागे हस्त-मात्रं जलेनोपलिप्य रुधिर्âन्न-हरिद्रा-ऽन्न-महिष-पल-सक्तु-शर्करा-हेतु-फल-त्रय-माक्षिक-मुद्ग-त्रय-माष-चूर्ण-दधि-क्षीर-घृतैः शुद्धोदनं सम्मर्द्य चरण्âयुध्âण्ड-प्रमाणान् दश-पिण्डान् विधाय तत्र निधाय कपित्थ-फल-मानम् एकं पिण्डं च तत्-समीपे स्âदिमोपादिम-मध्यमं चषकं च निक्षिप्य दश-पिण्डान् हेतुक्âदिभ्यो मध्यम-पिण्डं चषकं च चण्डोच्चण्डाय तत्-तन्-मन्त्रैः दत्वा वृन्दम् आराध्य

7.35

यथा-विभवं श्री-गुरुं संतोष्य

7.36

सम्पूर्ण-यौवनाः स-लक्षणा-मदनोन्मादिनीस् तिस्रः शक्तीर् आहूय बटुकं चैकम् अभ्यर्च्य स्नपयित्वा गन्ध्âदिभिर् अलङ्कृत्य वार्ताली-बुद्ध्या एकां शक्तिं मध्ये क्रोधिनी-स्तम्भिनी-बुद्ध्या द्वे इतरे पार्श्वयोश् चण्डोच्चण्ड-धिया बटुकम् अग्रे स्थापयित्वा सर्वैर् द्रव्यैः संतोष्य मम श्री-वार्ताली-मन्त्र-सिद्धिर् भूयाद् इति ताः प्रतिवदेत् ताश् च प्रसीदन्त्व् अधिदेवताः - इति ब्रूयुः

7.37

एवं स-परिवाराम् उदारां भूदार-वदनाम् उपतोष्य लक्षं पुरश्चरणं कृत्वा यद्-दश्âंशं तापिच्छ-कुसुमैर् हुत्वा मन्त्रं साधयेत्

7.38

ततश् च पूजितां देवीम् आत्मनि योजयित्वा स्वैरं विहरन्न् आज्ञा-सिद्धः सुखी विहरेत् - इति शिवम्

मूल पाठ: Paraśurāmakalpasūtra (a digest of Śrīvidyā, as system of worship of the Divine Mother) · Edition: A. Mahadeva Sastri, Baroda : Central Library 1923 (Gaekwad's Oriental Series, 22) · Data entry Claudia Weber · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc