भाषा

ENहिગુ
ग्रंथ पाठ

परशुरामकल्पसूत्र · अध्याय 5

5.1

5. खण्ड: ललिता-नव्âवरण-पूजा
अथ प्राथमिके चतुर्-अस्रे अणिमा-लघिमा-महिमेशित्व-वशित्व-प्राकाम्य-भुक्त्îच्छा-प्राप्ति-सर्वकाम-सिद्ध्य्-अन्ताः मध्यमे चतुर्-अस्रे ब्राह्म्य्-आद्या-महालक्ष्म्य्-अन्ताः तृतीये चतुर्-अस्रे संक्षोभण-द्रावण-कर्षण-वश्योन्मादन-मह्âङ्कुश-खेचरी-बीज-योनि-त्रिखण्डाः सर्व-पूर्वास् ताः सम्पूज्याः

5.2

एताः प्रकट-योगिन्यस् त्रैलोक्य-मोहन-चक्रे स-मुद्राः स-सिद्धयः स्âयुधाः स-शक्तयः स-वाहनाः स-परिवाराः सर्वोपचारैः सम्पूजिताः सन्त्व् इति तासाम् एव समष्ट्य्-अर्चनं कृत्वा

5.3

कर-शुद्धिम् उच्चार्य त्रिपुराचक्रेश्वरीम् अवमृश्य द्राम् इति सर्वसंक्षोभिणी-मुद्रां प्रदर्शयेत् । चक्र-योगिनी-चक्रेशीनां नामानि भिन्नानि । शिष्टं समानम्

5.4

षोडश-पत्रे काम्âकर्षिणी नित्या-कलेति नित्या-कला-ऽन्ताः बुद्ध्य्-आकर्षिणी-अहङ्कार्âकर्षिणी-शब्द्âकर्षिणी-स्पर्श्âकर्षिणी-रूप्âकर्षिणी-रस्âकर्षिणी-गन्ध्âकर्षिणी-चित्त्âकर्षिणी-धैर्य्âकर्षिणी-स्मृत्य्-आकर्षिणी-नाम्âकर्षिणी-बीज्âकर्षिणी-आत्म्âकर्षिणी-अमृत्âकर्षिणी-शरीर्âकर्षिणी एता गुप्त-योगिन्यः सर्व्âशा-परिपूरके चक्रे स-मुद्राः इत्य् आदि पूर्व-वत् आत्म-रक्षाम् उच्चार्य त्रिपुरेशीम् इष्ट्वा द्रीं - इति सर्वविद्राविणीं प्रदर्शयेत्

5.5

दिक्-पत्रे कुसुमा-मेखला-मदना-मदन्âतुरा-रेखा-वेगिन्य्-अङ्कुशा-मालिनीर् अनङ्ग-पूर्वाः संमृश्यैता गुप्ततर-योगिन्यः सर्व-संक्षोभण-चक्रे स-मुद्राः इत्य् आदि पूर्व-वद् आत्म्âसनम् उच्चार्य त्रिपुरसुन्दरीम् इष्ट्वा क्लीम् इति सर्व्âकर्षिणी-मुद्रां प्रदर्शयेत्

5.6

भुवन्âरे संक्षोभिणी-द्राविण्य्-आकर्षिण्य्-आह्लादिनी-संमोहिनी-स्तम्भिनी-जृम्भिणी-वशङ्करी-रञ्जन्य्-उन्मादिन्य्-अर्थसाधिनी-सम्पत्तिपूरणी-मन्त्रमयी-द्वन्द्व-क्षयङ्करीः सर्व्âदीर् अवमृश्यैताः सम्प्रदाय-योगिन्यः सर्वसौभाग्य- [158] दायक-चक्रे स-मुद्राः - इत्य् आदि मन्त्र-शेषः चक्र्âसनम् उच्चार्य त्रिपुरवासिनीं चक्रेश्वरीम् इष्ट्वा ब्लूं - इति सर्ववशङ्करी-मुद्राम् उद्घाटयेत्

5.7

बहिर्-दश्âरे सिद्धिप्रदा-सम्पत्प्रदा-प्रियङ्करी-मङ्गलकारिणी-कामप्रदा-दुःखविमोचिनी-मृत्युप्रशमनी-विघ्ननिवारिण्य्-अङ्गसुन्दरी-सौभाग्यदायिनीः सर्व-पूर्वाः सम्पूज्यैताः कुलोत्तीर्ण-योगिन्यः सर्व्âर्थसाधक-चक्रे मनु-शेषम् उक्त्वा मन्त्र्âसनम् उच्चार्य त्रिपुराश्रीचक्रेश्वरीं प्रत्यवमृश्य स इत्य् उन्मादिनी-मुद्रां दद्यात्

5.8

अन्तर्-दश्âरे ज्ञान-शक्त्य्-ऐश्वर्यप्रदा-ज्ञानमयी-व्याधिविनाशिन्य्-आधारस्वरूपा-पापहरा-ऽऽनन्दमयी-रक्षास्वरूपिणी-प्सितफलप्रदाः सर्वोपपदाः [159] यष्टव्या एतानि गर्भ-योगिन्यः सर्वरक्षाकर-चक्रे शिष्टं तद्-वत् साध्यसिद्ध्âसनम् उच्चार्य त्रिपुरमालिनी मान्या क्रोम् इति सर्वमह्âङ्कुशां दर्शयेत्

5.9

अष्ट्âरे वशिन्य्-आद्य्-अष्टकं नमः-स्थाने पूजा-मन्त्र-सन्नाम एता रहस्य-योगिन्यः सर्वरोगहर-चक्रे शिष्टं स्पष्टं मूर्ति-विद्याम् उच्चार्य त्रिपुरासिद्धाम् आराध्य शिव-भृगु-ऋद्धि-युक्-फ्रें - इति खेचरी देया

5.10

बाण-बीजान्य् उच्चार्य सर्व-जृम्भणेभ्यो बाणेभ्यो नमः धं थं सर्व-संमोहनाय धनुषे आं ह्रीं सर्व-वशीकरणाय पाशाय क्रों सर्व-स्थम्भनाय्âङ्कुशाय नमः इति महा-त्र्य्-अस्र-बाह्य-चतुर्-दिक्षु बाण्âद्य्-आयुध-पूजा

5.11

त्रि-कोणे वाक्-काम-शक्ति-समस्त-पूर्वाः कामेश्वरी-वज्रेश्वरी-भगमालिनी-महा-देव्यः बिन्दौ चतुर्थी

5.12

तिसृणाम् आसाम् अनन्तरम् अभेदाय मूल-देव्याः पूजा । कामेश्वर्य्-आदि-चतुर्थी नित्यानां षोडशी चक्र-देवीनां नवमी बिन्दु-चक्र-स्था चेत्य् एकैव । न तत्र मन्त्र-देवता-भेदः कार्यः । तन्-महा-देव्या एव । चतुर्षु स्थलेषु विशेष्âर्चनम् आवर्तते

5.13

एता अतिरहस्य-योगिन्यः सर्वसिद्धिप्रदे चक्रे । परिशिष्टं द्रष्टव्यम् । आवाहनीम् उच्चार्य त्रिपुर्âम्बां सम्भाव्य ह्सौं - इति बीज-मुद्रा-कृतिः

5.14

बिन्दु-चक्रे मूलेन देवीम् इष्ट्वा एषा पर्âपर-रहस्य-योगिनी सर्व्âनन्दमये चक्रे स-मुद्रा स-सिद्धिः स्âयुधा स-शक्तिः स-वाहना स-परिवारा सर्वोपचारैः संपूजिता ऽस्त्व् इति पुनर् मूलम् उच्चार्य, महाचक्रेश्वरीम् इष्ट्वा वाग्भवेन योनिं प्रदर्श्य

5.15

पूर्व-वद् धूप-दीप-मुद्रा-तर्पण-नैवेद्य्âदि दत्त्वा

5.16

बिन्दुना मुखं बिन्दु-द्वयेन कुचौ स-पर्âर्धेन योनिं कृत्वा काम-कलाम् इति ध्यात्वा

5.17

सौभाग्य-हृदयम् आमृश्य

5.18

वाम-भाग-विहित-त्रि-कोण-वृत्त-चतुर्-अस्रे गन्ध्âक्षत्âर्चिते वाग्भवम् उच्चार्य व्यापक-मण्डलाय नमः इत्य् अर्ध-भक्त-भरित्âम्भसा आदिमोपादिम-मध्यम-भाजनं तत्र न्यस्य

5.19

प्रणव-माया-ऽन्ते सर्व-विघ्न-कृद्भ्यः सर्व-भूतेभ्यो हुं स्वाहा - इति त्रिः पठित्वा बलिं दत्त्वा

5.20

प्रदक्षिण-नमस्कार-जप-स्तोत्रैः सन्तोष्य

5.21

तद्-रूपिणीम् एकां शक्तिं बालयोपचारैः सम्पूज्य तां म-पञ्चकेन सन्तर्प्य

5.22

शिष्टैः सार्धं चिद्-अग्नौ हविश्-शेषं हुत्वा

5.23

खेचरीं बद्ध्वा क्षमस्वेति विसृज्य ताम् आत्मनि संयोजयेत् इति शिवम्

मूल पाठ: Paraśurāmakalpasūtra (a digest of Śrīvidyā, as system of worship of the Divine Mother) · Edition: A. Mahadeva Sastri, Baroda : Central Library 1923 (Gaekwad's Oriental Series, 22) · Data entry Claudia Weber · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc