भाषा

ENहिગુ
ग्रंथ पाठ

परशुरामकल्पसूत्र · अध्याय 3

3.1

3. खण्ड: श्री-क्रम
एवं गणपतिम् इष्ट्वा विधूत-समस्त-विघ्न-व्यतिकरः शक्ति-चक्रैक-नायिकायाः श्री-ललितायाः क्रमम् आरभेत

3.2

ब्राह्मे मुहूर्ते ब्राह्मणो मुक्त-स्वापः पाप-विलापाय परम-शिव-रूपं गुरुम् अभिमृश्य

3.3

मूल्âदि-विधि-बिल-पर्यन्तं तडित्-कोटि-कडारां तरुण-दिवाकर-पिञ्जरां ज्वलन्तीं मूल-संविदं ध्यात्वा तद्-रश्मि-निहत-कश्मल-जालः क्âदिं ह्âदिं वा मूल-विद्यां मनसा दशवारम् आवर्त्य

3.4

स्नान-कर्मणि प्राप्ते मूलेन दत्वा त्रिः सलिल्âञ्जलीन् त्रिस् तद्-अभिमन्त्रिताः पीत्वा ऽपस् त्रिस् सन्तर्प्य त्रिः प्रोक्ष्य्âत्मानं परिधाय वाससी ह्रां ह्रीं ह्रूं सः इत्य् उक्त्वा मार्त्âण्ड-भैरवाय प्रकाश-शक्ति-सहिताय स्वाहेति त्रिस् सवित्रे दत्त्âर्घ्यः

3.5

तन्-मण्डल-मध्ये नव-योनि-चक्रम् अनुचिन्त्य वाचम् उच्चार्य त्रिपुर-सुन्दरि विद्महे कामम् उच्चार्य पीठ-कामिनि धीमहि - शक्तिम् उच्चार्य, तन् नः क्लिन्ना प्रचोदयाद् इति - त्रिर् महेश्यै दत्त्âर्घ्यः शतम् अष्टोत्तरम् आमृश्य मनुं मौनम् आलम्ब्य

3.6

याग-मन्दिरं गत्वा कॢप्त्âकल्पस् सङ्कल्प्âकल्पो वा पीठ-मनुना आसने समुपविष्टः

3.7

त्रितारीम् उच्चार्य रक्त-द्वादश-शक्ति-युक्ताय दीप-नाथाय नम इति भूमौ मुञ्चेत् पुष्प्âञ्जलिम्

3.8

सर्वेषां मन्त्राणाम् आदौ त्रितारी-संयोगः । त्रितारी वाङ्-माया-कमलाः

3.9

पुरतः पञ्च-शक्ति-चतुः-श्रीकण्ठ-मेलन-रूपं भू-सदन-त्रय-वलि-त्रय-भूप-पत्र-दिक्-पत्र-भुवन्âर-द्रुहिण्âर-विधि-कोण-दिक्-कोण-त्रिकोण-बिन्दु-चक्र-मयं महा-चक्र-राजं सिन्दूर-कुङ्कुम-लिखितं चामीकर-कल-धौत-पञ्च-लोह-रत्न-स्फटिक्âद्य्-उत्कीर्णं वा निवेश्य

3.10

तत्र महा-चक्रे अमृत्âम्भोनिधये रत्न-द्वीपाय नाना-वृक्ष-महोद्यानाय कल्प-वृक्ष-वाटिकायै सन्तान-वाटिकायै हरि-चन्दन-वाटिकायै मन्दार-वाटिकायै पारिजात-वाटिकायै कदम्ब-वाटिकायै पुष्प-राग-रत्न-प्राकाराय पद्म-राग-रत्न-प्राकाराय गो-मेध-रत्न-प्राकाराय वज्र-रत्न-प्राकाराय वैडूर्य-रत्न-प्राकाराय इन्द्र-नील-रत्न-प्राकाराय मुक्ता-रत्न-प्राकाराय मरकत-रत्न-प्राकाराय विद्रुम-रत्न-प्राकाराय माणिक्य-मण्डपाय सहस्र-स्तम्भ-मण्डपाय अमृत-वापिकायै आनन्द-वापिकायै विमर्श-वापिकायै बाल्âतपोद्गाराय चन्द्रिकोद्गाराय महा-शृङ्गार-परिघायै महा-पद्म्âटव्यै चिन्ता-मणि-गृह-राजाय पूर्व्âम्नाय-मय-पूर्व-द्वाराय दक्षिण्âम्नाय-मय-दक्षिण-द्वाराय पश्चिम्âम्नाय-मय-पश्चिम-द्वारायोत्तर्âम्नाय-मयोत्तर-द्वाराय रत्न-प्रदीप-वलयाय मणि-मय-महा-सिंह्âसनाय ब्रह्म-मयैक-मञ्च-पादाय विष्णु-मयैक-मञ्च-पादाय रुद्र-मयैक-मञ्च-पादाय ईश्वर-मयैक-मञ्च-पादाय सदाशिव-मयैक-मञ्च-फलकाय हंस-तूल-तल्पाय हंस-तूल-महोपधानाय कौसुम्भ्âस्तरणाय महा-वितानकाय महा-जवनिकायै नमः - इति चतुश्चत्वारिंशन्-मन्त्रैस् तत्-तद् अखिलं भावयित्वा अर्चयित्वा

3.11

गन्ध-पुष्प्âक्षत्âदींश् च दक्षिण-भागे दीपान् अभितो दत्त्वा मूलेन चक्रम् अभ्यर्च्य मूल-त्रि-खण्डैः प्रथम-त्र्य्-अस्रे

3.12

वाय्व्-अग्नि-सलिल-वर्ण-युक्-प्राण्âयामैः शोषणं संदहनम् आप्लावनं च विधाय

3.13

त्रिः प्राणान् आयम्य

3.14

अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः ।
ये भूता विघ्न-कर्तारस् ते नश्यन्तु शिव्âज्ञया ।
इति वाम-पाद-पार्ष्णि-घात-कर्âस्फोट-समुदञ्चित-वक्त्रस् ताल-त्रयं दत्वा देव्य्-अहम्-भाव-युक्तः स्व-शरीरे वज्र-कवच-न्यास-जालं विदधीत

3.15

बिन्दु-युक्-श्रीकण्ठ्âनन्त-तार्तीयैः मध्यम्âदि-तल-पर्यन्तं कृत-कर-शुद्धिः

3.16

कुमारीम् उच्चार्य महा-त्रिपुरसुन्दरी-पदम् आत्मानं रक्ष रक्षेति हृदये अञ्जलिं दत्त्वा

3.17

माया-काम-शक्तीर् उच्चार्य देव्य्-आत्म्âसनाय नमः - इति स्वस्य्âसनं दत्त्वा

3.18

शिव-युग्-बालाम् उच्चार्य श्री-चक्र्âसनाय नमः - शिव-भृगु-युग्-बालाम् उच्चार्य सर्व-मन्त्र्âसनाय - नमो भुवना-मदनौ ब्लेम् उच्चार्य साध्य-सिद्ध्âसनाय नमः - इति चक्र-मन्त्र-देवता-ऽऽसनं त्रिभिर् मन्त्रैश् चक्रे कृत्वा

3.19

बाला-द्विर्-आवृत्त्या त्रि-द्व्य्-एक-दश-त्रि-द्वि-सङ्ख्या-ऽङ्गुलि-विन्यासैः कॢप्त-षड्-अङ्गः

3.20

स-बिन्दून् अचो ब्लूम् उच्चार्य वशिनी-वाग्-देवतायै नमः - इति शिरसि । सर्वत्र वर्गाणां बिन्दु-योगः । क-वर्गं क-ल-ह्रीं च निगद्य कामेश्वरी-वाग्-देवतायै नमः - इति ललाटे । चुं गदित्वा न्व्लीं मोदिनी-वाग्-देवतायै नमः - इति भ्रू-मध्ये । टुं भणित्वा य्लूं विमला-वाग्-देवतायै नमः - इति कण्ठे । तुं च प्रोच्य ज्म्रीं अरुणा-वाग्-देवतायै नमः - इति हृदि । पुं च ह्स्ल्व्यूं उच्चार्य जयिनी-वाग्-देवतायै नमः - इति नाभौ । य्âदि-चतुष्कं झ्म्र्यूं उच्चार्य सर्वेश्वरी-वाग्-देवतायै नमः - इति लिङ्गे । श्âदि-षट्कं क्ष्म्रीं आख्याय कौलिनी-वाग्-देवतायै नमः - इति मूले

3.21

मूल-विद्या-पञ्चदश-वर्णान् मूर्ध्नि मूले हृदि चक्षुस्-त्रितये श्रुति-द्वय-मुख-भुज-युगल-पृष्ठ-जानु-युगल-नाभिषु विन्यस्य षोढा चक्रे न्यस्य्âन्यस्य वा

3.22

शुद्ध्âम्भसा वाम-भागे त्रि-कोण-षट्-कोण-वृत्त-चतुर्-अश्र-मण्डलं कृत्वा पुष्पैर् अभ्यर्च्य स्âधारं शङ्खं प्रतिष्ठाप्य शुद्ध-जलम् आपूर्य आदिम-बिन्दुं दत्त्वा षड्-अङ्गेन्âभ्यर्च्य विद्यया अभिमन्त्र्य तज्-जल-विप्रुड्भिः आत्मानं पूजोपकरणानि च संप्रोक्ष्य

3.23

तज्-जलेन त्रि-कोण-षट्-कोण-वृत्त-चतुर्-अस्र-मण्डलं कृत्वा मध्यं विद्यया विद्या-खण्डैस् त्रि-कोणं बीज्âवृत्त्या षड्-अश्रं संपूज्य वाचम् उच्चार्य अग्नि-मण्ड- [107] लाय दश-कला-ऽऽत्मने अर्घ्य-पात्र्âधाराय नमः - इति प्रतिष्ठाप्य आधारं प्रपूज्य पावकीः कलाः

3.24

मदनाद् उपरि सूर्य-मण्डलाय द्वादश-कला-ऽऽत्मने अर्घ्य-पात्राय नमः इति संविधाय पात्रं संस्पृश्य कलाः सौरीः सौः सोम-मण्डलाय षोडश-कला-ऽऽत्मने अर्घ्य्âमृताय नमः - इति पूरयित्वा आदिमं दत्त्वोपादिम-मध्यमौ पूजयित्वा विधोः कला-षोडशकम्

3.25

तत्र विलिख्य त्र्य्-अस्रम् अ-क-थ्âदि-मय-रेखं ह-ल-क्ष-युग्âन्त-स्थित-हंस-भास्वरं वाक्-काम-शक्ति-युक्त-कोणं हंसेन्âराध्य बहिर् वृत्त-षट्-कोणं कृत्वा षड्-अस्रं षड्-अङ्गेन पुरो-भाग्âद्य् अभ्यर्च्य मूलेन सप्तधा अभिमन्त्र्य दत्त-गन्ध्âक्षत-पुष्प-धूप-दीपः तद्-विप्रुड्भिः प्रोक्षित-पूजा-द्रव्यः सर्वं विद्यामयं कृत्वा तत् स्पृष्ट्वा चतुर्नवति-मन्त्रान् जपेत्

3.26

त्रितारी-नमस्-संपुटिताः तेजस्-त्रितय-कला अष्टत्रिंशत् ।
सृष्टि-ऋद्धि-स्मृति-मेधा-कान्ति-लक्ष्मी-द्युति-स्थिरा-स्थिति-सिद्धयो ब्रह्म-कला दश । जरा पालिनी शान्तिर् ईश्वरी रति-कामिके वरद्âह्लादिनी प्रीतिर् दीर्घा विष्णु-कला दश । तीक्ष्णा रौद्री भया निद्रा तन्द्री क्षुधा क्रोधिनी क्रियोद्गारी-मृत्यवो रुद्र-कला दश । पीता श्वेता-ऽरुणा-ऽसिताश् चतस्र ईश्वर-कलाः । निवृत्ति-प्रतिष्ठा-विद्या-शान्त्îन्धिका-दीपिका-रेचिका-मोचिका-परा-सूक्ष्मा-सूक्ष्म्âमृता-ज्ञाना-ज्ञान्âमृता-प्यायिनी-व्यापिनी-व्योमरूपाः षोडश सदाशिव-कलाः ॥
हंसश् शुचि-षद् वसुर् अन्तरिक्ष-सद् धोता व्वेदि-षद् अतिथिर् दुरोण-सत् ।
नृ-षद् वर-सद् ऋत-सद् वयोम-सद् अब्-जा गो-जा ऋत-जा अद्रि-जा ऋतं बृहत् ॥
प्र तद्-विष्णुः स्तवते वीर्येण मृगो न भीमः कु-चरो गिरि-ष्ठाः ।
यस्योरुषु त्रिषु विक्रमेष्व् अधिक्षियन्ति भुवनानि व्विश्वा ॥
त्र्यम्बकं यजामहे सु-गन्धिं पुष्टि-वर्धनम् ।
उर्वारुकम् इव बन्धनान् मृत्योर् मुक्षीय म्âमृतात् ॥
तद्-विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
दिव्îव चक्षुर् आततम् ॥
तद्-विप्रासो विपन्यवो जागृ-वांसः समिन्धते ।
विष्णोर् यत् परमं पदम् ॥
विष्णुर् योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।
आसिञ्चतु प्रजापतिर् धाता गर्भं दधातु ते ॥
गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।
गर्भं ते अश्विनौ देवाव् आधत्तां पुष्कर-स्रजा ॥
इत्य् एते पञ्च-मन्त्राः ॥
मूल-विद्या च्âहत्य चतुर्नवति-मन्त्राः

3.27

अथ हैके पञ्चभिर् अखण्ड्âद्यैर् अभिमन्त्रणम् आमनन्ति

3.28

अखण्डैक-रस्âनन्द-करे पर-सुधा-ऽऽत्मनि ।
स्व-च्छन्द-स्फुरणम् अत्र निधेह्य् अकुल-नायिके ॥
अकुल-स्थ्âमृत्âकारे शुद्ध-ज्ञान-करे परे ।
अमृतत्वं निधेह्य् अस्मिन् वस्तुनि क्लिन्न-रूपिणि ॥
तद्-रूपिण्य् ऐकरस्यत्वं कृत्वा ह्य् एतत् स्व-रूपिणि ।
भूत्वा पर्âमृत्âकारा मयि चित्-स्फुरणं कुरु ॥
इति तिस्रो ऽनुष्टुभो विद्याः

3.29

अथो वाचं ब्लूं झ्रौम् इति जूं सः - इति चोक्त्वा अमृते अमृतोद्भवे अमृतेश्वरि अमृत-वर्षिणि अमृतं स्रावय स्रावय स्वाहेति चतुर्थो मन्त्रः

3.30

वाग्भवो वद वद ततो वाग्-वादिनि वाङ्-मदन-क्लिन्ने क्लेदिनि क्लेदय महा-क्षोभं कुरु-युगलं मादनं शक्तिर् मोक्षं कुरु कुरु शब्दो ह-स-चतुर्दश-पञ्चदश-पिण्डः स-ह-चतुर्दश-षोडश-पिण्डश् चेति पञ्चम्îयं विद्यैताभिः अभिमन्त्र्य ज्योतिर्-मयं तद् अर्घ्यं विधाय

3.31

तद्-बिन्दुभिस् त्रिशः शिरसि गुरु-पादुकाम् इष्ट्वा आर्द्रं ज्वलति ज्योतिर् अहम् अस्मि ज्योतिर् ज्वलति ब्रह्म्âहम् अस्मि यो ऽहम् अस्मि ब्रह्म्âहम् अस्मि अहम् अस्मि ब्रह्म्âहम् अस्मि अहम् एव्âहं मां जुहोमि स्वाहेति तद् बिन्दुम् आत्मनः कुण्डलिन्यां जुहुयात्

3.32

एतद् अर्घ्य-शोधनम् इति शिवम्

मूल पाठ: Paraśurāmakalpasūtra (a digest of Śrīvidyā, as system of worship of the Divine Mother) · Edition: A. Mahadeva Sastri, Baroda : Central Library 1923 (Gaekwad's Oriental Series, 22) · Data entry Claudia Weber · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc