परशुरामकल्पसूत्र · अध्याय 2
2. खण्ड: गणनायक-पद्धति
इत्थं सद्-गुरोर् आहित-दीक्षः महा-विद्या-ऽऽराधन-प्रत्यूह्âपोहाय गाणनायकीं पद्धतिम् आमृशेत्
ब्राह्मे मुहूर्त उत्थाय द्वादश्âन्ते सहस्र-दल-कमल-कर्णिका-मध्य-निविष्ट-गुरु-चरण-युगल-विगलद्-अमृत-रस-विसर-परिप्लुत्âखिल्âङ्गो हृदय-कमल-मध्ये ज्वलन्तम् उद्यद्-अरुण-कोटि-पाटलम् अशेष-दोष-निर्वेष-भूतम् अनेकप्âननं नियमित-पवन-मनोगतिर् ध्यात्वा तत्-प्रभा-पटल-पाटलीकृत-तनुः बहिर् निर्गत्य मुक्त-मल-मूत्रो दन्त-धावन-स्नान-वस्त्र-परिधान-सूर्य्âर्घ्य-दानानि विधाय उद्यद्-आदित्य-वर्तिने महा-गणपतये "तत्-पुरुषाय विद्महे, वक्र-तुण्डाय धीमहि ॥ तन् नो दन्ती प्रचोदयात्" इत्य् अर्घ्यं दत्वा नित्य-कृत्यं विधाय चतुर्-आवृत्ति-तर्पणं कुर्यात् । [69]
आयुर् आरोग्यम् ऐश्वर्यं बलं पुष्टिर् महद्-यशः ।
कवित्वं भुक्ति-मुक्ती च चतुर्-आवृत्ति-तर्पणात्
प्रथमं द्वादश-वारं मूल-मन्त्रेण तर्पयित्वा मन्त्र्âष्टाविंशति-वर्णान् स्वाहा-ऽन्तान् एकैकं चतुर्-वारं मूलं च चतुर्-वारं तर्पयित्वा पुनः श्री-श्रीपति-गिरिजा-गिरिजापति-रति-रतिपति-मही-महीपति-महालक्ष्मी-महालक्ष्मीपति-ऋद्ध्य्-आमोद-समृद्धि-प्रमोद-कान्ति-सुमुख-मदनावती-दुर्मुख-मदद्रवा-ऽविघ्नद्राविणी-विघ्नकर्तृ-वसुधारा-शङ्खनिधि-वसुमती-पद्मनिधि-त्रयोदश-मिथुनेष्व् एकैकां देवतां चतुर्-वारं मूलं चतुर्-वारं च तर्पयेत्, एवं चतुश्चत्वारिंशद्-अधिक-चतुश्शत-तर्पणानि भवन्ति
अथ याग-विधिः - गृहम् आगत्य स्थण्डिलम् उपलिप्य द्वार-देश उभय-पार्श्वयोर् भद्र-काल्यै भैरवाय - द्वारोर्ध्वे लम्बोदराय नमः इति अन्तःप्रविश्य आसन-मन्त्रेण आसने स्थित्वा प्राणान् आयम्य षड्-अङ्गानि विन्यस्य मूलेन व्यापकं कृत्वा स्व्âत्मनि देवं सिद्धलक्ष्मी-समाश्लिष्ट-पार्श्वम् अर्धेन्दु-शेखरम् आरक्त-वर्णं मातुलुङ्ग-गदा-पुण्ड्रेक्षु-कार्मुक-शूल-सुदर्शन-शङ्ख-पाशोत्पल-धान्य-मञ्जरी-निज-दन्त्âञ्चल-रत्न-कलश-परिष्कृत-पाण्य्-एकादशकं प्रभिन्न-कटम् आनन्द-पूर्णम् अशेष-विघ्न-ध्वंस-निघ्नं विघ्नेश्वरं ध्यात्वा
पुरतो मूल-सप्त्âभिमन्त्रितेन गन्ध्âक्षत-पुष्प-पूजितेन शुद्धेन वारिणा त्रि-कोण-षट्-कोण-वृत्त-चतुर्-अश्राणि विधाय तस्मिन् पुष्पाणि विकीर्य वह्न्îश्âसुर-वायुषु मध्ये दिक्षु च षड्-अङ्गानि विन्यस्य अग्नि-मण्डलाय दश-कला-ऽऽत्मने अर्घ्य-पात्र्âधाराय नमः सूर्य-मण्डलाय द्वादश-कला-ऽऽत्मने अर्घ्य-पात्राय नमः सोम-मण्डलाय षोडश-कला-ऽऽत्मने अर्घ्य्âमृताय नमः इति शुद्ध-जलम् आपूर्य अस्त्रेण संरक्ष्य कवचेन्âवकुण्ठ्य धेनु-योनि-मुद्रां प्रदर्शयेत्
सप्त-वारम् अभिमन्त्र्य तज्-जल-विप्रुड्भिर् आत्मानं पूजोपकरणानि च संप्रोक्ष्य तज्-जलेन पूर्वोक्तं मण्डलं परिकल्प्य तद्वद् आदिमं संयोज्य तत्रो- [79] पादिमं मध्यमं च निक्षिप्य वह्न्य्-अर्केन्दु-कलाः अभ्यर्च्य वक्र-तुण्ड-गायत्र्या गणानां त्वेत्य् अनया ऋचा च्âभिमन्त्र्य अस्त्र्âदि-रक्षणं कृत्वा तद्-बिन्दुभिस् त्रिशः शिरसि गुरु-पादुकाम् आराधयेत्
पुरतो रक्त-चन्दन-निर्मिते पीठे महा-गणपति-प्रतिमायां वा चतुर्-अस्र्âष्ट-दल-षट्-कोण-त्रि-कोण-मये चक्रे वा तीव्रायै ज्वालिन्यै नन्दायै भोगदायै कामरूपिण्यै उग्रायै तेजोवत्यै सत्यायै विघ्ननाशिन्यै ऋं धर्माय ॠं ज्ञानाय ऌं वैराग्याय ॡं ऐश्वर्याय ऋं अधर्माय ॠं अज्ञानाय ऌं अवैराग्याय ॡं अनैश्वर्याय नम इति पीठ-शक्तीर् धर्म्âद्य्-अष्टकं च्âभ्यर्च्य मूलम् उच्चार्य महा-गणपतिम् आवाहयाम्îत्य् आवाह्य पञ्चधोपचर्य दशधा संतर्प्य मूलेन मिथुन्âङ्ग-ब्राह्म्य्-आद्îन्द्र्âदि-रूप-पञ्च्âवरण-पूजां कुर्यात्
त्रि-कोणे देवः तस्य षड्-अस्रस्य्âन्तराले श्री-श्रीपत्य्-आदि-चतुर्-मिथुनानि अङ्गानि च ऋद्ध्य्-आमोद्âदि-षण्-मिथुनानि षड्-अस्रे मिथुन-द्वयं षड्-अस्रोभय-पार्श्वयोस् तत्-सन्धिष्व् अङ्गानि ब्राह्म्य्-आद्या अष्ट-दले चतुर्-अस्र्âष्ट-दिक्ष्व् इन्द्र्âद्याः पूज्याः सर्वत्र देवता-नामसु श्री-पूर्वं पादुकाम् उच्चार्य पूजयाम्îत्य् अष्ट्âक्षरीं योजयेत्
एवं पञ्च्âवरणीम् इष्ट्वा पुनर् देवं गणनाथं दशधोपतर्प्य षोडशोपचारैर् उपचर्य प्रणव-माया-ऽन्ते सर्व-विघ्न-कृद्भ्यः सर्व-भूतेभ्यो हुं स्वाहा - इति त्रिः पठित्वा बलिं दत्वा गणपति-बुद्ध्यैकं बटुकं सिद्धलक्ष्मी-बुद्ध्यैकां शक्तिं च्âहूय गन्ध-पुष्प्âक्षतैर् अभ्यर्च्य्âदिमोपादिम-मध्यमान् दत्वा मम निर्विघ्नं मन्त्र-सिद्धिर् भूयाद् इत्य् अनुग्रहं कारयित्वा नमस्कृत्य यथा-शक्ति जपेत्
यद्य् अग्नि-कार्य-संपत्तिः बलेः पूर्वं विधि-वत् संस्कृते ऽग्नौ स्वाहा-ऽन्तैः श्री-श्रीपत्य्-आदि-विघ्नकर्तृ-पर्यन्तैः मन्त्रैर् हुत्वा पुनर् आगत्य देवं त्रि-वारं संतर्प्य योग्यैस् सह म-पञ्चकम् उररी-कृत्य महा-गणपतिम् आत्मन्य् उद्वास्य सिद्ध-सङ्कल्पः सुखी विहरेत् इति शिवम्
मूल पाठ: Paraśurāmakalpasūtra (a digest of Śrīvidyā, as system of worship of the Divine Mother) · Edition: A. Mahadeva Sastri, Baroda : Central Library 1923 (Gaekwad's Oriental Series, 22) · Data entry Claudia Weber · GRETIL (Göttingen) · CC BY-NC-SA 4.0