भाषा

ENहिગુ
ग्रंथ पाठ

परशुरामकल्पसूत्र · अध्याय 4

4.1

4. खण्ड: ललिता-क्रम
अथ हृच्-चक्र-स्थिताम् अन्तस्-सुषुम्णा-पद्म्âटवी-निर्भेदन-कुशलां निरस्त-मोह-तिमिरां शिव-दीप-दीप्तिम् आद्यां संविदं वहन्-नास-पुटेन निर्गमय्य लीला-ऽऽकलित-वपुषं तां त्रिखण्ड-मुद्रा-शिखण्डे कुसुम्âञ्जलौ हस्ते समानीय

4.2

माया-लक्ष्मी परा उच्चार्य देवी-नाम च्âमृत-चैतन्य-मूर्तिं कल्पयामि नमः - इति कल्पयित्वा

4.3

ह-स-र-युजं वाचं ह-स-युक्तां क-ल-रीं ह-स-र-चतुर्दश-षोडशान् अप्य् उच्चार्य,
महा-पद्म-वन्âन्तःस्थे कारण्âनन्द-विग्रहे ।
सर्व-भूत-हिते मातर् एह्य् एहि परमेश्वरि ॥
इति बैन्दव-चक्रे पर-चितिम् आवाह्य

4.4

चतुष्षष्ट्य्-उपचारान् कुर्यात् । सर्वे उपचार-मन्त्राः त्रितारी-पूर्वाः कल्पयामि नमः - इत्य् अन्ताः कर्तव्याः

4.5

त्रितारीम् उच्चार्य पाद्यं कल्पयामि नमः इति क्रमेण आभरण्âवरोपणं सुगन्धि-तैल्âभ्यङ्गं मज्जन-शाला-प्रवेशनं मज्जन-मण्डप-मणि-पीठोपवेशनं दिव्य-स्नानीयोद्वर्तनम् उष्णोदक-स्नानम् कनक-कलश-च्युत-सकल-तीर्थ्âभि- [139] षेकं धौत-वस्त्र-परिमार्जनम् अरुण-दुकूल-परिधानम् अरुण-कुचोत्तरीयम् आलेप-मण्डप-प्रवेशनम् आलेप-मण्डप-मणि-पीठोपवेशनं चन्दन्âगरु-कुङ्कुम-सङ्कु-मृगमद-कर्पूर-कस्तूरी-गोरोचन्âदि-दिव्य-गन्ध-सर्व्âङ्गीण-विलेपनं केश-भरस्य काल्âगरु-धूपं मल्लिका-मालती-जाती-चम्पक्âशोक-शतपत्र-पूग-कुड्मली-पुन्नाग-कल्हार-मुख्य-सर्व-र्तु-कुसुम-मालां भूषण-मण्डप-प्रवेशनं भूषण-मण्डप-मणि-पीठोपवेशनं नव-मणि-मकुटं चन्द्र-शकलं सीमन्त-सिन्दूरं तिलक-रत्नं काल्âञ्जनं पाली-युगलं मणि-कुण्डल-युगलं नास्âभरणम् अधर-यावकं प्रथम-भूषणं कनक-चिन्ताकं पदकं महापदकं मुक्त्âवलिम् एक्âवलिं छन्न-वीरं केयूर-युगल-चतुष्टयं वलय्âवलिम् ऊर्मिक्âवलिं काञ्ची-दाम-कटि-सूत्रं सौभाग्य्âभरणं पाद-कटकं रत्न-नूपुरं पाद्âङ्गुलीयकम् एक-करे पाशम् अन्य-करे अङ्कुशम् इतर-करे पुण्ड्रेक्षु-चापम् अपर-करे पुष्प-बाणान् श्रीमन्-माणिक्य-पादुके स्वसमान-वेषाभिर् आवरण-देवताभिः सह महा-चक्र्âधिरोहणं कामेश्वर्âङ्क-पर्यङ्कोपवेशनम् अमृत्âसव-चषकम् आचमनीयं कर्पूर-वीटिकाम् आनन्दोल्लास-विलास-हासं मङ्गल्âरार्तिकं छत्रं चामर-युगलं दर्पणं ताल-वृन्तं गन्धं पुष्पं धूपं दीपं नैवेद्यं कल्पयामि नमः - इति चतुष्षष्ट्य्-उपचारान् विधाय

4.6

नव-मुद्राश् च प्रदर्श्य

4.7

मूलेन त्रिधा सन्तर्प्य

4.8

देव्या अग्न्îश्âसुर-वायुषु मध्ये दिक्षु च षड्-अङ्गानि पूजयित्वा

4.9

वाक्-स-क-ल-ह्रीं नित्य-क्लिन्ने मद-द्रवे सौः - इति कामेश्वरी । सर्वत्र नित्या-श्री-पादुकेति योज्यम् । वाग्-भग-भुगे भगिनि भगोदरि भग-माले भग्âवहे भग-गुह्ये भग-योनि भग-निपातिनि सर्व-भग-वशङ्करि भग-रूपे नित्य-क्लिन्ने भग-स्वरूपे सर्वाणि भगानि मे ह्य् आनय वर-दे रेते सुरेते भग-क्लिन्ने क्लिन्न-द्रवे क्लेदय द्रावय अमोघे भग-विच्चे क्षुभ क्षोभय सर्व-स- [147] त्त्वान् भगेश्वरि ऐं ब्लूं जें ब्लूं भें ब्लूं मों ब्लूं हें ब्लूं हें क्लिन्ने सर्वाणि भगानि मे वशम् आनय स्त्रीं हर ब्लें ह्रीं भग-मालिनी । तारो माया नित्य-क्लिन्ने मद-द्रवे स्वाहा - इति नित्य-क्लिन्ना । प्रणवः क्रों भ्रों क्रौं झ्रौं छ्रौं ज्रौं स्वाहा - इति भेरुण्डा । प्रणवो माया वह्नि-वासिन्यै नमः - इति वह्नि-वासिनी । माया-क्लिन्ने वाक् क्रों नित्य-मद-द्रवे ह्रीं - इति महा-वज्रेश्वरी । माया शिव-दूत्यै नमः - इति शिव-दूती । प्रणवो माया हुं खे च छे क्षः स्त्रीं हुं क्षें ह्रीं फट् - इति त्वरिता । कुमारी कुल-सुन्दरी । ह-स-क-ल-र-ड-वाग्भव-ह-स-क-ल-र-ड-बिन्दु-मालिनी-ह-स-क-ल-र-ड-चतुर्दश-षोडशा - इति नित्या । माया फ्रें स्रूं अङ्कुश-पाश-स्मर-वाग्भव-ब्लूं-पद-नित्य-मद-द्रवे वर्म फ्रें मायेति नील-पताका । भ-म-र-य-ऊम् इति विजया । स्वौम् इति सर्व-मङ्गला । तारो नमो भगवति ज्वाला-मालिनि देव-देवि सर्व-भूत-संहार-कारिके जात-वेदसि ज्वलन्ति ज्वल ज्वल प्रज्वल प्रज्वल त्रि-जाति-युक्त-माया-रेफ-सप्तक-ज्वाला-मालिनि वर्म-फड्-अग्नि-जायेति ज्वाला-मालिनी । (अं) च्कौं - इति चित्रेति पञ्चदश नित्याः प्रथम-त्र्य्-अस्र-रेखा-स्थित-पञ्चदश-स्वरेषु पूज्यः । विसृष्टौ षोडशीं मूल-विद्यया च्âभ्यर्च्य

4.10

मध्ये प्राक्-त्र्यस्रम् अध्यान्तः मुनि-वेद-नाग-सङ्ख्यान् यथा-सम्प्रदायं पादुकान् दिव्य-सिद्ध-मानवौघ-सिद्धान् इष्ट्वा पश्चात् स्व-शिरसि नाथं यजेत् । एतल्-लय्âङ्ग-पूजनम् - इति शिवम्

मूल पाठ: Paraśurāmakalpasūtra (a digest of Śrīvidyā, as system of worship of the Divine Mother) · Edition: A. Mahadeva Sastri, Baroda : Central Library 1923 (Gaekwad's Oriental Series, 22) · Data entry Claudia Weber · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc