पराशरधर्मसंहिता · अध्याय 9
गवां संरक्षणार्थाय न दुष्येद् रोधबन्धयोः ।
तद् वधं तु न तं विद्यात् कामाकामकृतं तथा ॥
दण्डाद् ऊर्ध्वं यद् अन्येन प्रहाराद् यदि पातयेत् ।
प्रायश्चित्तं तदा प्रोक्तं द्विगुणं गोवधे चरेत् ॥
रोधबन्धनयोक्त्राणि घातश् चेति चतुर्विधम् ।
एकपादं चरेद् रोधे द्वौ पादौ बन्धने चरेत् ॥
योक्त्रेषु पादहीनं स्याच् चरेत् सर्वं निपातने ।
गोवाटे वा गृहे वापि दुर्गे वाप्य् असमस्थले ॥
नदीष्व् अथ समुद्रेषु त्व् अन्येषु न नदीमुखे ।
दग्धदेशे मृता गावः स्तम्भनाद् रोध उच्यते ॥
योक्त्रदामकदोरैश् च कण्ठाभरणभूषणैः ।
गृहे वापि वने वापि बद्धा स्याद् गौर् मृता यदि ॥
तद् एव बन्धनं विद्यात् कामाकामकृतं च यत् ।
हले वा शकटे पङ्क्तौ पृष्ठे वा पीडितो नरैः ॥
गोपतिर् मृत्युम् आप्नोति योक्त्रो भवति तद्वधः ।
मत्तः प्रमत्त उन्मत्तश् चेतनो वाप्य् अचेतनः ॥
कामाकामकृतक्रोधो दण्डैर् हन्याद् अथोपलैः ।
प्रहृता वा मृता वापि तद् धि हेतुर् निपातने ॥
अङ्गुष्ठमात्रस्थूलस् तु बाहुमात्रः प्रमाणतः ।
आद्रस् तु सपलाशश् च दण्ड इत्य् अभिधीयते ॥
मूर्छितः पतितो वापि दण्डेनाभिहितः स तु ।
उत्थितस् तु यदा गच्छेत् पञ्च सप्त दशैव वा ॥
ग्रासं वा यदि गृह्णीयात् तोयं वापि पिबेद् यदि ।
पूर्वं व्याध्युपसृष्टश् चेत् प्रायश्चित्तं न विद्यते ॥
पिण्डस्थे पादम् एकं तु द्वौ पादौ गर्भसंमिते ।
पादोनं व्रतम् उद्दिष्टं हत्वा गर्भम् अचेतनम् ॥
पादे ऽङ्गरोमवपनं द्विपादे श्मश्रुणो ऽपि च ।
त्रिपादे तु शिखा वर्जं सशिखं तु निपातने ॥
पादे वस्त्रयुगं चैव द्विपादे कांस्यभाजनम् ।
त्रिपादे गोवृषं दद्याच् चतुर्थे गोद्वयं स्मृतम् ॥
निष्पन्नसर्वगात्रस् तु दृश्यते वा सचेतनः ।
अङ्गप्रत्यङ्गसंपूर्णो द्विगुणं गोव्रतं चरेत् ॥
पाषाणेनाथ दण्डेन गावो येनाभिघातिताः ।
शृङ्गभङ्गे चरेत् पादं द्वौ पादौ नेत्रघातने ॥
लाङ्गूले पादकृच्छ्रं तु द्वौ पादाव् अस्थिभञ्जने ।
त्रिपादं चैव कर्णे तु चरेत् सर्वं निपातने ॥
शृङ्गभङ्गे ऽस्थिभङ्गे च कटिभङ्गे तथैव च ।
यदि जीवति षण्मासान् प्रायश्चित्त्तं न विद्यते ॥
व्रणभङ्गे च कर्तव्यः स्नेहाभ्यङ्गस् तु पाणिना ।
यवसश् चोपहर्तव्यो यावद् दृढबलो भवेत् ॥
यावत् संपूर्णसर्वाङ्गस् तावत् तं पोषयेन् नरः ।
गोरूपं ब्राह्मणस्याग्रे नमस्कृत्वा विसर्जयेत् ॥
यद्य् असंपूर्णसर्गाङ्गो हीनदेहो भवेत् तदा ।
गोघातकस्य तस्यार्थं प्रायश्चित्तं विनिर्दिशेत् ॥
काष्ठलोष्टकपाषाणैः शस्त्रेणैवोद्धतो बलात् ।
व्यापादयति यो गां तु तस्य शुद्धिं विनिर्दिशेत् ॥
चरेत् सांतपनं काष्ठे प्राजापत्यं तु लोष्टके ।
तप्तकृच्छ्रं तु पाषाणे सस्त्रे चैवातिकृच्छ्रकम् ॥
पञ्च संतपने गावः प्राजापत्ये तथा त्रयः ।
तप्तकृच्छ्रे भवन्त्य् अष्टाव् अतिकृच्छ्रे त्रयोदश ॥
प्रमापणे प्राणभृतां दद्यात् तत् प्रतिरूपकम् ।
तस्यानुरूपं मूल्यं वा दद्याद् इत्य् अब्रवीन् मनुः ॥
अन्यत्राङ्कनलक्ष्मभ्यां वाहने मोचने तथा ।
सायं संगोपनार्थं च न दुष्येद् रोधबन्धयोः ॥
अतिदाहे ऽतिवाहे च नासिकाभेदने तथा ।
नदीपर्वतसंचारे प्रायश्चित्तं विनिर्दिशेत् ॥
अतिदाहे चरेत् पादं द्वौ पादौ वाहने चरेत् ।
नासिक्ये पदहीनं तु चरेत् सर्वं निपातने ॥
दहानात् तु विपद्यते अनड्वान् योक्त्रयन्त्रितः ।
उक्तं पराशरेणैव ह्य् एकपादं यथाविधि ॥
रोधनं बन्धनं चैव भारः प्रहरणं तथा ।
दुर्गप्रेरणयोक्त्रं च निमित्तानि वधस्य षट् ॥
बन्धपाशसुगुप्ताङ्गो म्रियते यदि गोपशुः ।
भवने तस्य पापी स्यात् प्रायश्चित्तार्धम् अर्हति ॥
न नारिकेलैर् न च शाणवालैः न वापि मौञ्जैर् न च वल्कशृङ्खलैः ।
एतैस् तु गावो न निबन्धनीया बद्ध्वापि तिष्ठेत् परशुं गृहीत्वा ॥
कुशैः काशैश् च बध्नीयाद् गोपशुं दक्षिणामुखम् ।
पाशलग्नाग्निदग्धासु प्रायश्चित्तं न विद्यते ॥
यदि तत्र भवेत् काष्ठं प्रायश्चित्तं कथं भवेत् ।
जपित्वा पावनीं देवीं मुच्यते तत्र किल्बिषात् ॥
प्रेरयन् कूपवापीषु वृक्षच्छेदेषु पातयन् ।
गवाशनेषु विक्रीणंस् ततः प्राप्नोति गोवधम् ॥
आराधितस् तु यः कश्चिद् भिन्नकक्षो यदा भवेत् ।
श्रवणं हृदयं भिन्नं मग्नो वा कूपसंकटे ॥
कूपाद् उत्क्रमणे चैव भग्नो वा ग्रीवपादयोः ।
स एव म्रियते तत्र त्रीन् पादांस् तु समाचरेत् ॥
कूपखाटे तटाबन्धे नदीबन्धे प्रपासु च ।
पानीयेषु विपन्नानां प्रायश्चित्तं न विद्यते ॥
कूपखाते तटाखाते दीर्घखाते तथैव च ।
अन्येषु धर्मखातेषु प्रायश्चित्तं न विद्यते ॥
वेश्मद्वारे निवासेषु यो नरः खातम् इच्छति ।
स्वकार्यगृहखतेषु प्रायश्चित्तं विनिर्दिशेत् ॥
निशि बन्धनिरुद्धेषु सर्पव्याघ्रहतेषु च ।
अग्निविद्युद्विपन्नानां प्रायश्चित्तं न विद्यते ॥
ग्रामघाते शरौघेण वेश्मभङ्गान् निपातने ।
अतिवृष्टिहतानां च प्रायश्चित्तं न विद्यते ॥
संग्रामे प्रहतानां च ये दग्धा वेश्मकेषु च ।
दावाग्निग्रामघातेषु प्रायश्चित्तं न विद्याते ॥
यन्त्रिता गौश् चिकित्सार्थं मूढगर्भविमोचने ।
यत्ने कृते विपद्येत प्रायश्चित्तं न विद्यते ॥
व्यापन्नानां बहूनां च बन्धने रोधने ऽपि वा ।
भिषङ्मिथ्योपचारे च प्रायश्चित्तं विनिर्दिशेत् ॥
गोवृषाणां विपत्तौ च यावन्तः प्रेक्षका जनाः ।
अनिवारयतां तेषां सर्वेषां पातकं भवेत् ॥
एको हतो यैर् बहुभिः समेतैर् न ज्ञायते यस्य हतो ऽभिघातात् ।
दिव्येन तेषाम् उपलभ्य हन्ता निवर्तनीयो नृपसंनियुक्तैः ॥
एका चेद् बहुभिः काचिद् दैवाद् व्यापादिता यदि ।
पादं पादं तु हत्यायाश् चरेयुस् ते पृथक् पृथक् ॥
हते तु रुधिरं दृश्यं व्याधिग्रस्तः कृशो भवेत् ।
लाला भवति दष्टेषु एवम् अन्वेषणं भवेत् ॥
ग्रासार्थं चोदितो वापि अध्वानं नैव गच्छति ।
मनुना चैवम् एकेन सर्वशास्त्राणि जानता ॥
प्रायश्चित्तं तु तेनोक्तं गोघ्नश् चान्द्रायणं चरेत् ।
केशानां रक्षणार्थाय द्विगुणं व्रतम् आचरेत् ॥
द्विगुणे व्रत आदिष्टे द्विगुणा दक्षिणा भवेत् ।
राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः ॥
अकृत्वा वपनं तस्य प्रायश्चित्तं विनिर्दिशेत् ।
सर्वान् केशान् समुद्धृत्य च्छेदयेद् अङ्गुलद्वयम् ॥
एवं नारीकुमारीणां शिरसो मुण्डनं स्मृतम् ।
न स्त्रियाः केशवपनं न दूरे शयनाशनम् ॥
न च गोष्ठे वसेद् रात्रौ न दिवा गा अनुव्रजेत् ।
नदीषु संगमे चैव अरण्येषु विशेषतः ॥
न स्त्रीणाम् अजिनं वासो व्रतम् एव समाचरेत् ।
त्रिसंध्यं स्नानम् इत्य् उक्तं सुराणाम् अर्चनं तथा ॥
बन्धुमध्ये व्रतं तासां कृच्छ्रचान्द्रायणादिकम् ।
गृहेषु सततं तिष्ठेच् छुचिर् नियमम् आचरेत् ॥
इह यो गोवधं कृत्वा प्रच्छादयितुम् इच्छति ।
स याति नरकं घोरं कालसूत्रम् असंशयम् ॥
विमुक्तो नरकात् तस्मान् मर्त्यलोके प्रजायते ।
क्लीबो दुःखी च कुष्ठी च सप्त जन्मानि वै नरः ॥
तस्मात् प्रकाशयेत् पापं स्वधर्मं सततं चरेत् ।
स्त्रीबालभृत्यगोविप्रेष्व् अतिकोपं विवर्जयेत् ॥
मूल पाठ: Parāśaradharmasaṃhitā (= Parāśarasmṛti) · Edition: Vāman Śāstri Islāmpurkar The Parâśara Dharma Saṃhitâ or Parâśara Smṛiti with the commentary of Sâyaṇa Mâdhavâchârya Bombay Government Central Book Depot I,1 Bombay Sanskrit Series 47 Vāman Śāstri Islāmpurkar The Parâśara Dharma Saṃhitâ or Parâśara Smṛiti with the commentary of Sâyaṇa Mâdhavâchârya Bombay Government Central Book Depot I,2 Bombay Sanskrit Series 48 Vāman Śāstri Islāmpurkar The Parâś · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0