भाषा

ENहिગુ
ग्रंथ पाठ

पराशरधर्मसंहिता · अध्याय 8

8.1

गवां बन्धनयोक्त्रेषु भवेन् मृत्युर् अकामतः ।
अकामकृतपापस्य प्रायश्चित्तं कथं भवेत् ॥

8.2

वेदवेदाङ्गविदुषां धर्मशास्त्रं विजानताम् ।
स्वकर्मरतविप्राणां स्वकं पापं निवेदयेत् ॥

8.3

सावित्र्याश् चापि गायत्र्याः संध्योपास्त्यग्निकार्ययोः ।
अज्ञानात् कृषिकर्तारो ब्राह्मणा नामधारकाः ॥

8.4

अव्रतानाम् अमन्त्राणां जातिमात्रोपजीविनाम् ।
सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥

8.5

यद् वदन्ति तमोमूढा मूर्खा धर्मम् अतद्विदः ।
तत् पापं शतधा भूत्वा तद्वक्तॄन् अधिगच्छति ॥

8.6

अज्ञात्वा धर्मशास्त्राणि प्रायश्चित्तं ददाति यः ।
प्रायश्चित्ती भवेत् पूतः किल्बिषं पर्षदि व्रजेत् ॥

8.7

चत्वारो वा त्रयो वापि यं ब्रूयुर् वेदपारगाः ।
स धर्मेति विज्ञेयो नेतरैस् तु सहस्रशः ॥

8.8

प्रमाणमार्गं मार्गन्तो ये धर्मं प्रवदन्ति वै ।
तेषाम् उद्विजते पापं सद्भूतगुणवादिनाम् ॥

8.9

यथाश्मनि स्थितं तोयं मारुतार्केण शुध्यति ।
एवं परिषदादेशान् नाशयेत् तस्य दुष्कृतम् ॥

8.10

नैव गच्छति कर्तारं नैव गच्छति पर्षदम् ।
मारुतार्कादिसम्योगात् पापं नश्यति तोयवत् ॥

8.11

चत्वारो वा त्रयो वापि वेदवन्तो ऽग्निहोत्रिणः ।
ब्राह्मणानां समर्था ये परिषत् साभिधीयते ॥

8.12

अनाहिताग्नयो ये ऽन्ये वेदवेदाङ्गपारगाः ।
पञ्च त्रयो वा धर्मज्ञाः परिषत् सा प्रकीर्तिता ॥

8.13

मुनीनाम् आत्मविद्यानां द्विजानां यज्ञयाजिनाम् ।
वेदव्रतेषु स्नातानाम् एको ऽपि परिषद् भवेत् ॥

8.14

पञ्च पूर्वं मया प्रोक्तास् तेषां चासंभवे त्रयः ।
स्ववृत्तिपरितुष्टो ये परिषत् सा प्रकीर्तिता ॥

8.15

अत ऊर्ध्वं तु ये विप्राः केवलं नामधारकाः ।
परिषत्त्वं न तेष्व् अस्ति सहस्रगुणितेष्व् अपि ॥

8.16

यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः ।
ब्राह्मणस् त्व् अनधीयानस् त्रयस् ते नामधारकाः ॥

8.17

ग्रामस्थानं यथा शून्यं यथा कूपस् तु निर्जलः ।
यथा हुतम् अनग्नौ च अमन्त्रो ब्राह्मणस् तथा ॥

8.18

यथा षण्ढो ऽफलः स्त्रीषु यथा गौर् ऊषराफला ।
यथा चाज्ञे ऽफलं दानं तथा विप्रो ऽनृचो ऽफलः ॥

8.19

चित्रकर्म यथानेकैर् अङ्गैर् उन्मील्यते शनैः ।
ब्राह्मण्यम् अपि तद्वद् धि संस्कारैर् मन्त्रपुर्वकैः ॥

8.20

प्रायश्चित्तं प्रयच्छन्ति ये द्विजा नामधारकाः ।
ते द्विजा पापकर्माणः समेता नरकं ययुः ॥

8.21

ये पठन्ति द्विजा वेदं पञ्चयज्ञरताश् च ये ।
त्रैलोक्यं तारयन्त्य् एते पञ्चेन्द्रियरता अपि ॥

8.22

संप्रणीतः श्मशानेषु दीप्तो ऽग्निः सर्वभक्षकः ।
एवं च वेदविद् विप्रः सर्वभक्षो ऽपि दैवतम् ॥

8.23

अमेध्यानि तु सर्वाणि प्रक्षिप्यन्ते यथोदके ।
तथैव किल्बिषं सर्वं प्रक्षिपेच् च द्विजानले ॥

8.24

गायत्रीरहितो विप्रः शूद्राद् अप्य् अशुचिर् भवेत् ।
गायत्रीब्रह्मतत्त्वज्ञाः संपूज्यन्ते जनैर् द्विजाः ॥

8.25

दुःशीलो ऽपि द्विजः पूज्यो न तु शूद्रो जितेन्द्रियः ।
कः परित्यज्य गां दुष्टां दुहेच् छीलवतीं खरीम् ॥

8.26

धर्मशास्त्ररथारूढा वेदखड्गधरा द्विजाः ।
क्रीडार्थम् अपि यद् ब्रूयुः स धर्मः परमः स्मृतः ॥

8.27

चातुर्वेद्यो विकल्पी च अङ्गविद् धर्मपाठकः ।
त्रयश् च आश्रमो मुख्याः पर्षद् एषा दशावरा ॥

8.28

राज्ञश् चानुमते स्थित्वा प्रायश्चित्तम् विनिर्दिशेत् ।
स्वयम् एव न कर्तव्यं कर्तव्या स्वल्पनिष्कृतिः ॥

8.29

ब्राह्मणांस् तान् अतिक्रम्य राजा कर्तुं यद् इच्छति ।
तत् पापं शतधा भूत्वा राजानम् अनुगच्छति ॥

8.30

प्रायश्चित्तं सदा दद्याद् देवतायतनाग्रतः ।
आत्मकृच्छ्रं ततः कृत्वा जपेद् वै वेदमातरम् ॥

8.31

सशिखं वपनं कृत्वा त्रिसंध्यम् अवगाहनम् ।
गवां मध्ये वसेद् रात्रौ दिवा गाश् चाप्य् अनुव्रजेत् ॥

8.32

उष्णे वर्षति शीते वा मारुते वाति वा भृशम् ।
न कुर्वीतात्मनस् त्राणं गोर् अकृत्वा तु शक्तितः ॥

8.33

आत्मनो यदि वान्येषां गृहे क्षेत्रे खले ऽथ वा ।
भक्षयन्तीं न कथयेत् पिबन्तं चैव वत्सकम् ॥

8.34

पिबन्तीषु पिबेत् तोयं संविशन्तीषु संविशेत् ।
पतितां पङ्कमग्नां वा सर्वप्राणैः समुद्धरेत् ॥

8.35

ब्राह्मणार्थे गवार्थे वा यस् तु प्राणान् परित्यजेत् ।
मुच्यते ब्रह्महत्याया गोप्ता गोर् ब्राह्मणस्य च ॥

8.36

गोवधस्यानुरूपेण प्राजापत्यं विनिर्दिशेत् ।
प्राजापत्यं ततः कृच्छ्रं विभजेत् तच् चतुर्विधम् ॥

8.37

एकाहम् एकभक्ताशी एकाहं नक्तभोजनः ।
अयाचिताश्य् एकम् अहर् एकाहं मारुताशनः ॥

8.38

दिनद्वयं चैकभक्तो द्विदिनं चैकभोजनः ।
दिनद्वयम् अयाची स्याद् द्विदिनं मारुताशनः ॥

8.39

त्रिदिनं चैकभक्ताशी त्रिदिनं नक्तभोजनः ।
दिनत्रयम् अयाची स्यात् त्रिदिनं मारुताशनः ॥

8.40

चतुरहं चैकभक्ताशी चतुरहं नक्तभोजनः ।
चतुर्दिनम् अयाची स्याच् चतुरहं मारुताशनः ॥

8.41

प्रायश्चित्ते ततश् चीर्णे कुर्याद् ब्राह्मणभोजनम् ।
विप्राणां दक्षिणां दद्यात् पवित्राणि जपेद् द्विजः ॥

8.41

ब्राह्मणान् भोजयित्वा तु गोघ्नः शुद्धो न संशयः ॥

मूल पाठ: Parāśaradharmasaṃhitā (= Parāśarasmṛti) · Edition: Vāman Śāstri Islāmpurkar The Parâśara Dharma Saṃhitâ or Parâśara Smṛiti with the commentary of Sâyaṇa Mâdhavâchârya Bombay Government Central Book Depot I,1 Bombay Sanskrit Series 47 Vāman Śāstri Islāmpurkar The Parâśara Dharma Saṃhitâ or Parâśara Smṛiti with the commentary of Sâyaṇa Mâdhavâchârya Bombay Government Central Book Depot I,2 Bombay Sanskrit Series 48 Vāman Śāstri Islāmpurkar The Parâś · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc