भाषा

ENहिગુ
ग्रंथ पाठ

पराशरधर्मसंहिता · अध्याय 10

10.1

चातुर्वर्ण्येषु सर्वेषु हितां वक्ष्यामि निष्कृतिम् ।
अगम्या गमने चैव शुद्ध्यै चान्द्रायणं चरेत् ॥

10.2

एकैकं ह्रासयेद् ग्रासं कृष्णे शुक्ले च वर्धयेत् ।
अमावास्यां न भुञ्जीत ह्य् एष चान्द्रायणो विधिः ॥

10.3

कुक्कुटाण्डप्रमाणं तु ग्रासं वै परिकल्पयेत् ।
अन्याथा भावदोषेण न धर्मो न च शुध्यति ॥

10.4

प्रायश्चित्ते ततश् चीर्णे कुर्याद् ब्रह्मणभोजनम् ।
गोद्वयं वस्त्रयुग्मं च दद्याद् विप्रेषु दक्षिणाम् ॥

10.5

चण्डालीं वा श्वपाकीं वा ह्य् अभिगच्छति यो द्विजः ।
त्रिरात्रम् उपवासित्वा विप्राणाम् अनुशासनम् ॥

10.6

सशिखं पवनं कृत्वा प्राजापत्यद्वयं चरेत् ।
गोद्वयं दक्षिणां दद्याच् छुद्धिं पाराशरो ऽब्रवीत् ॥

10.7

क्षत्रियो वाथ वैश्यो वा चण्डालीं गच्छतो यदि ।
प्राजापत्यद्वयं कुर्याद् दद्याद् गोमिथुनद्वयम् ॥

10.8

श्वपाकीं वाथ चण्डालीं शूद्रो वा यदि गच्छति ।
प्राजापत्यं चरेत् कृच्छ्रं चतुर् गोमिथुनं ददेत् ॥

10.9

मातरं यदि गच्छेत् तु भगिनीं स्वसुतां तथा ।
एतास् तु मोहितो गत्वा त्रीणि कृच्छ्राणि संचरेत् ॥

10.10

चान्द्रायणत्रयं कुर्याच् छिश्नच्छेदेन शुध्यति ।
मातृष्वसृगमे चैवम् आत्ममेढ्रनिकर्तनम् ॥

10.11

अज्ञानेन तु यो गच्छेत् कुर्याच् चान्द्रायणद्वयम् ।
दश गोमिथुनं दद्याच् छुद्धिं पारशरो ऽब्रवीत् ॥

10.12

पितृदारान् समारुह्य मातुर् आप्तां तु भ्रातृजाम् ।
गुरुपात्नीं स्नुषां चैव भ्रातृभार्यां तथैव च ॥

10.13

मातुलानीं सगोत्रां च प्राजापत्यत्रयं चरेत् ।
गोद्वयं दक्षिणां दद्याच् छुध्यते नात्र संशयः ॥

10.14

पशुवेष्यादिगमने महिष्युष्ट्रीकपीस् तथा ।
खरीं च सूकरीं गत्वा प्राजापत्यव्रतं चरेत् ॥

10.15

गोगामी च त्रिरात्रेण गाम् एकां ब्राह्मणे ददन् ।
महिष्युष्ट्रीखरीगामी त्व् अहोरात्रेण शुध्यति ॥

10.16

डामरे समरे वापि दुर्भिक्षे वा जनक्षये ।
बन्दिग्राहे भयार्ता वा सदा स्वस्त्रीं निरीक्षयेत् ॥

10.17

चण्डालैः सह संपर्कं या नारी कुरुते ततः ।
विप्रान् दश वरान् कृत्वा स्वकं दोषं प्रकाशयेत् ॥

10.18

आकण्ठसंमिते कूपे गोमयोदककर्दमे ।
तत्र स्थित्वा निराहारा त्व् अहोरात्रेण निष्क्रमेत् ॥

10.19

सशिखं वपनं कृत्वा भुञ्जीयाद् यावकौदनम् ।
त्रिरात्रम् उपवासित्वा त्व् एकरात्रं जले वसेत् ॥

10.20

शंखपुष्पीलतामूलं पत्रं वा कुसुमं फलम् ।
सुवर्णं पञ्चगव्यं च क्वाथयित्वा पिबेज् जलम् ॥

10.21

एकभक्तं चरेत् पश्चाद् यावत् पुष्पवती भवेत् ।
व्रतं चरति तद् यावत् तावत् संवसते बहिः ॥

10.22

प्रायश्चित्ते ततश् चीर्णे कुर्याद् ब्राह्मणभोजनम् ।
गोद्वयं दक्षिणां दद्यच् छुद्धिं पाराशरो ऽब्रवीत् ॥

10.23

चातुर्वर्ण्यस्य नारीणां कृच्छ्रं चान्द्रायणं व्रतम् ।
यथा भूमिस् तथा नारी तस्मात् तां न तु दूषयेत् ॥

10.24

बन्दिग्राहेण या भुक्ता हत्वा बद्ध्वा बलाद् भयात् ।
कृत्वा सांतपनं कृच्छ्रं शुध्येत् पाराशरो ऽब्रवीत् ॥

10.25

सकृद् भुक्ता तु या नारी नेच्छन्ती पापकर्मभिः ।
प्राजापत्येन शुध्येत ऋतुप्रस्रवणेन च ॥

10.26

पतत्य् अर्धं शरीरस्य यस्य भार्या सुरां पिबेत् ।
पतितार्धशरीरस्य निष्कृतिर् न विधीयते ॥

10.27

गायत्रीं जपमानस् तु कृच्छ्रं सांतपनं चरेत् ।
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥

10.28

एकरात्रोपवासश् च कृच्छ्रं सांतपनं स्मृतम् ।
जारेण जनयेद् गर्भं मृते ऽव्यक्ते गते पतौ ॥

10.29

तां त्यजेद् अपरे राष्ट्रे पतितां पापकारिणीम् ।
ब्राह्मणी तु यदा गच्छेत् परपुंसा समन्विता ॥

10.30

सा तु नष्टा विनिर्दिष्टा न तस्यागमनं पुनः ।
कामान् मोहात् तु या गच्छेत् त्यक्त्वा बन्धून् सुतान् पतिम् ॥

10.31

सा तु नष्टा परे लोके मानुषेषु विशेषतः ।
मदमोहगता नारी क्रोधाद् दण्डादिताडिता ॥

10.32

अद्वितीया गता चैव पुनरागमनं भवेत् ।
दशमे तु दिने प्राप्ते प्रायश्चित्तं न विद्यते ॥

10.33

दशाहं न त्यजेन् नारीं त्यजेन् नष्टश्रुतां तथा ।
भर्ता चैव चरेत् कृच्छ्रं कृच्छार्धं चैव बान्धवाः ॥

10.34

तेषां भुक्त्वा च पीत्वा च अहोरात्रेण शुध्यति ।
ब्राह्मणी तु यदा गच्छेत् परपुंसा विवर्जिता ॥

10.35

गत्वा पुंसां शतं याति त्यजेयुस् तां तु गोत्रिणः ।
पुंसो यदि गृहे गच्छेत् तद् अशुद्धं गृहं भवेत् ॥

10.36

पतिमातृगृहं यच् च जारस्यैव तु तद् गृहम् ।
उल्लिख्य तद् गृहं पश्चात् पञ्चगव्येन सेचयेत् ॥

10.37

त्यजेच् च मृण्मयं पात्रं वस्त्रं काष्ठं च शोधयेत् ।
संभारान् शोधयेत् सर्वान् गोबालैश् च फलोद्भवान् ॥

10.38

ताम्राणि पञ्चगव्येन कांस्यानि दश भस्मभिः ।
प्रायश्चित्तं चरेद् विप्रो ब्राह्मणैर् उपपादितम् ॥

10.39

गोद्वयं दक्षिणां दद्यात् प्राजापत्यद्वयं चरेत् ।
इतरेषाम् अहोरात्रं पञ्चगव्यं च शोधनम् ॥

10.40

उपवासैर् व्रतैः पुण्यैः स्नानसंध्यार्चनादिभिः ।
जपहोमदयादानैः शुध्यन्ते ब्राह्मणादयः ॥

10.41

आकाशं वायुर् अग्निश् च मेध्यं भूमिगतं जलम् ।
न प्रदुष्यन्ति दर्भाश् च यज्ञेषु चमसा यथा ॥

मूल पाठ: Parāśaradharmasaṃhitā (= Parāśarasmṛti) · Edition: Vāman Śāstri Islāmpurkar The Parâśara Dharma Saṃhitâ or Parâśara Smṛiti with the commentary of Sâyaṇa Mâdhavâchârya Bombay Government Central Book Depot I,1 Bombay Sanskrit Series 47 Vāman Śāstri Islāmpurkar The Parâśara Dharma Saṃhitâ or Parâśara Smṛiti with the commentary of Sâyaṇa Mâdhavâchârya Bombay Government Central Book Depot I,2 Bombay Sanskrit Series 48 Vāman Śāstri Islāmpurkar The Parâś · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc