पराशरधर्मसंहिता · अध्याय 7
अथातो द्रव्यशुद्धिस् तु पराशरवचो यथा ।
दारवाणां पात्राणां तक्षणाच् छुद्धिर् इष्यते ॥
भस्मना शुध्यते कांस्यं ताम्रमम्लेन शुध्यति ।
रजसा शुध्यते नारी विकलं या न गच्छति ॥
नदी वेगेन शुध्येत लोपो यदि न दृश्यते ।
वापीकूपतडागेषु दूषितेषु कथंचन ॥
उद्धृत्य वै घटशतं पञ्चगव्येन शुध्यति ।
अष्टवर्षा भवेद् गौरी नववर्षा तु रोहिणी ॥
दशवर्षा भवेत् कन्या अत ऊर्ध्वं रजस्वला ।
प्राप्ते तु द्वादशे वर्षे यः कन्यां न प्रयच्छति ॥
मासि मासि रजस् तस्याः पिबन्ति पितरः स्वयम् ।
माता चैव पिता चैव ज्येष्ठो भ्राता तथैव च ॥
त्रयस् ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ।
यस् तां समुद्वहेत् कन्यां ब्राह्मणो मदमोहितः ॥
असंभाष्यो ह्य् अपाङ्क्तेयः स विप्रो वृषलीपतिः ।
यः करोत्य् एकरात्रेण वृषलीसेवनं द्विजः ॥
स भैक्षभुज् जपन् नित्यं त्रिभिर् वर्षैर् विशुध्यति ।
अस्तंगते यदा सूर्ये चण्डालं पतितं स्त्रियम् ॥
सूतिकां स्पृशतश् चैव कथं शुद्धिर् विधीयते ।
जातवेदः सुवर्णं च सोममार्गं विलोक्य च ॥
ब्राह्मणानुमतश् चैव स्नानं कृत्वा विशुध्यति ।
स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी ब्राह्मणी तथा ॥
तावत् तिष्ठेन् निराहारा त्रिरात्रेणैव शुध्यति ।
स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी क्षत्रिया तथा ॥
अर्धकृच्छ्रं चरेत् पूर्वा पादम् एकम् अनन्तरा ।
स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी वैश्यजा तथा ॥
पादहीनं चरेत् पूर्वा पादम् एकम् अनन्तरा ।
स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी शूद्रजा तथा ॥
कृच्छ्रेण शुध्यते पूर्वा शूद्रा दानेन शुध्यति ।
स्नाता रजस्वला या तु चतुर्थे ऽहनि शुध्यति ॥
कुर्याद् रजो निवृत्तौ तु दैवपित्र्यादि कर्म च ।
रोगेण यद् रजः स्त्रीणाम् अन्वहं तु प्रवर्तते ॥
नाशुचिः सा ततस् तेन तत् स्याद् वैकालिकं मतम् ।
साध्वाचारा न तावत् स्याद् रजो यावत् प्रवर्तते ॥
रजोनिवृत्तौ गम्या स्त्री गृहकर्मणि चैव हि ।
प्रथमे ऽहनि चण्डाली द्वितीये ब्रह्मघातिनी ॥
तृतीये रजकी प्रोक्ता चतुर्थे ऽहनि शुध्यति ।
आतुरे स्नानोत्पन्ने दशकृत्वो ह्य् अनातुरः ॥
स्नात्वा स्नात्वा स्पृशेद् एनं ततः शुध्येत् स आतुरः ।
उच्छिष्टोच्छिष्टसंस्पृष्टः शुना शूद्रेण वा द्विजः ॥
उपोष्य रजनीम् एकां पञ्चगव्येन शुध्यति ।
अनुच्छिष्टेन शूद्रेण स्पर्शे स्नानं विधीयते ॥
तेनोच्छिष्टेन संस्पृष्टः प्राजापत्यं समाचरेत् ।
भस्मना शुध्यते कांस्यं सुरया यन् न लिप्यते ॥
सुरामात्रेण संस्पृष्टं शुध्यते ऽग्न्युपलेखनैः ।
गवाघ्रातानि कांस्यानि श्वकाकोपहतानि च ॥
शुध्यन्ति दशभिः क्षारैः शूद्रोच्छिष्टानि यानि च ।
गण्डूषं पादशौचं च कृत्वा वै कांस्यभाजने ॥
षण्मासान् भुवि निःक्षिप्य उद्धृत्य पुनर् आहरेत् ।
आयसेष्व् आयसानां च सीसस्याग्नौ विशोधनम् ॥
दन्तम् अस्थि तथा भृङ्गं रूप्यं सौवर्णभाजनम् ।
मणिपाषाणपात्राणीत्य् एतान् प्रक्षालयेज् जलैः ॥
पाषाणे तु पुनर् घर्षः शुद्धिर् एवम् उदाहृता ।
मृण्मये दहनाच् छुद्धिर् धान्यानां मार्जनाद् अपि ॥
वेणुवल्कलचीराणां क्षौमकार्पासवाससाम् ।
और्णनेत्रपटानां च प्रोक्षणाच् छुद्धिर् इष्यते ॥
मुञ्जोपस्करशूर्पाणां शणस्य फलचर्मणाम् ।
तृणकाष्ठस्य रज्जूणाम् उदकाभ्युक्षणं मतम् ॥
तूलिकाद्युपधानानि रक्तवस्त्रादिकानि च ।
शोषयित्वातपेनैव प्रोक्षणाच् छुद्धिताम् इयुः ॥
मार्जारमक्षिकाकीट पतङ्गकृमिदर्दुराः ।
मेध्यामेध्यं स्पृशन्तो ऽपि नोच्छिष्टं मनुर् अब्रवीत् ॥
महीं स्पृष्ट्वागतं तोयं याश् चाप्य् अन्योन्यविप्रुषः ।
भुक्तोच्छिष्टं तथा स्नेहं नोच्छिष्टं मनुर् अब्रवीत् ॥
ताम्बूलेक्षुफले चैव भुक्तस्नेहानुलेपने ।
मधुपर्के च सोमे च नोच्छिष्टं धर्मतो विदुः ॥
रथ्याकर्दमतोयानि नावः पन्थास् तृणानि च ।
मारुतार्केण शुध्यन्ति पक्वेष्टकचितानि च ॥
अदुष्टा संतता धारा वातोद्धूताश् च रेणवः ।
स्त्रियो वृद्धाश् च बालाश् च न दुष्यन्ति कदाचन ॥
देशभङ्गे प्रवासे वा व्याधिषु व्यसनेष्व् अपि ।
रक्षेद् एव स्वदेहादि पश्चाद् धर्मं समाचरेत् ॥
येन केन च धर्मेण मृदुना दारुणेन वा ।
उद्धरेद् दीनम् आत्मानं समर्थो धर्मम् आचरेत् ॥
आपत्काले तु निस्तीर्णे शौचाचारं तु चिन्तयेत् ।
शुद्धिं समुद्धरेत् पश्चात् स्वस्थो धर्मं समाचरेत् ॥
मूल पाठ: Parāśaradharmasaṃhitā (= Parāśarasmṛti) · Edition: Vāman Śāstri Islāmpurkar The Parâśara Dharma Saṃhitâ or Parâśara Smṛiti with the commentary of Sâyaṇa Mâdhavâchârya Bombay Government Central Book Depot I,1 Bombay Sanskrit Series 47 Vāman Śāstri Islāmpurkar The Parâśara Dharma Saṃhitâ or Parâśara Smṛiti with the commentary of Sâyaṇa Mâdhavâchârya Bombay Government Central Book Depot I,2 Bombay Sanskrit Series 48 Vāman Śāstri Islāmpurkar The Parâś · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0