पराशरधर्मसंहिता · अध्याय 6
अतः परं प्रवक्ष्यामि प्राणिहत्यासु निष्कृतिम् ।
पराशरेन पूर्वोक्ता मन्वर्थे ऽपि च विस्तृताम् ॥
क्रौञ्चसारसहंसांश् च चक्रवाकं च कुक्कुटम् ।
जालपादं च शरभम् अहोरात्रेण शुध्यति ॥
बलाकाटिट्टिभौ वापि शुकपारावताव् अपि ।
अहिनक्रविघाती च शुध्यते नक्तभोजनात् ॥
वृककाककपोतानां शारितित्तिरिघातकः ।
अन्तर्जल उभे संध्ये प्राणायामेन शुध्यति ॥
गृध्रश्येनशशादानाम् उलूकस्य च घातकः ।
अपक्वाशी दिनं तिष्ठेत् त्रिकालं मारुताशनः ॥
वल्गुणीटिट्टिभानां च कोकिलाखञ्जरीटके ।
लाविकारक्तपक्षेषु शुध्यते नक्तभोजनात् ॥
कारण्डवचकोराणां पिङ्गलाकुररस्य च ।
भारद्वाजादिकं हत्वा शिवं पूज्य विशुध्यति ॥
भेरुण्डचाषभासांश् च पारावतकपिञ्जलौ ।
पक्षिणां चैव सर्वेषाम् अहोरात्रम् अभोजनम् ॥
हत्वा मूषकमार्जार सर्पाजगरडुण्डुभान् ।
कृसरं भोजयेद् विप्रान् लोहदण्डश् च दक्षिणा ॥
शिशुमारं तथा गोधां हत्वा कूर्मं च शल्यकम् ।
वृन्ताकफलभक्षी चाप्य् अहोरात्रेण शुध्यति ॥
वृकजम्बूकऋक्षाणां तरक्षुश्वानघातकः ।
तिलप्रस्थं द्विजे दद्याद् वायुभक्षो दिनत्रयम् ॥
गजस्य च तुरङ्गस्य महिषोष्ट्रनिपातने ।
प्रायश्चित्तम् अहोरात्रं त्रिसंध्यम् अवगाहनम् ॥
कुरङ्गं वानरं सिंहं चित्रं व्याघ्रं तु घातयन् ।
शुध्यते स त्रिरात्रेण विप्राणां तर्पणेन च ॥
मृगरोहिद्वराहाणाम् अवेर् बस्तस्य घातकः ।
अफालकृष्टम् अश्नीयाद् अहोरात्रम् उपोष्य सः ॥
एवं चतुष्पदानां च सर्वेषां वनचारिणाम् ।
अहोरात्रोषितस् तिष्ठेज् जपेद् वै जातवेदसम् ॥
शिल्पिनं कारुकं शूद्रं स्त्रियं वा यस् तु घातयेत् ।
प्राजापत्यद्वयं कृत्वा वृषैकादशदक्षिणा ॥
वैश्यं वा क्षत्रियं वापि निर्दोषं यो ऽभिघातयेत् ।
सो ऽपि कृच्छ्रद्वयं कुर्याद् गोविंशद् दक्षिणां ददेत् ॥
वैश्यं शूद्रं क्रियासक्तं विकर्मस्थं द्विजोत्तमम् ।
हत्वा चान्द्रायणं तस्य त्रिंशद् गोश् चैव दक्षिणाम् ॥
चण्डालं हतवान् कश्चिद् ब्राह्मणे यदि कंचन ।
प्राजापत्यं चरेत् कृच्छ्रं गोद्वयं दक्षिणां ददत् ॥
क्षत्रियेणापि वैश्येन शूद्रेणैवेतरेण वा ।
चण्डालस्य वधे प्राप्ते कृच्छ्रार्धेन विशुध्यति ॥
चोरौ श्वपाकचण्डालौ विप्रेणाभिहतौ यदि ।
अहोरात्रोषितः स्नात्वा पञ्चगव्येन शुध्यति ॥
श्वपाकं वापि चण्डालं विप्रः संभाषते यदि ।
दिव्जसंभाषणं कुर्यात् सावित्रीं तु सकृज् जपेत् ॥
चण्डालैः सह सुप्तं तु त्रिरात्रम् उपवासयेत् ।
चण्डालैकपथं गत्वा गायत्रीस्मरणाच् छुचिः ॥
चण्डालदर्शने सद्य आदित्यम् अवलोकयेत् ।
चण्डालस्पर्शने चैव सचैलं स्नानम् आचरेत् ॥
चण्डालखातवापीषु पीत्वा सलिलम् अग्रजः ।
अज्ञानाच् चैकभक्तेन त्व् अहोरात्रेण शुध्यति ॥
चण्डालभाण्डसंस्पृष्टं पीत्वा कूपगतं जलम् ।
गोमूत्रयावकाहारस् त्रिरात्राच् छुद्धिम् आप्नुयात् ॥
चण्डालघटसंस्थं तु यत् तोयं पिबति द्विजः ।
तत्क्षणात् क्षिपते यस् तु प्राजापत्यं समाचरेत् ॥
यदि न क्षिपते तोयं शरीरे यस्य जीर्यति ।
प्राजापत्यं न दातव्यं कृच्छ्रं सांतपनं चरेत् ॥
चरेत् सांतपनं विप्रः प्राजापत्यम् अनन्तरः ।
तदर्धं तु चरेद् वैश्यः पादं शूद्रस् तद् आचरेत् ॥
भाण्डस्थम् अन्त्यजानां तु जलं दधि पयः पिबेत् ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश् चैव प्रमादतः ॥
ब्रह्मकूर्चोपवासेन द्विजातीनां तु निष्कृतिः ।
शूद्रस्य चोपवासेन तथा दानेन शक्तितः ॥
भुङ्क्ते ऽज्ञानाद् द्विजश्रेष्ठश् चण्डालान्नं कथंचन ।
गोमूत्रयावकाहारो दशरात्रेण शुध्यति ॥
एकैकं ग्रासम् अश्नीयाद् गोमूत्रयावकस्य च ।
दशाहं नियमस्थस्य व्रतं तत् तु विनिर्दिशेत् ॥
अविज्ञातस् तु चण्डालो यत्र वेश्मनि तिष्ठति ।
विज्ञाते तुपसन्नस्य द्विजाः कुर्वन्त्य् अनुग्रहम् ॥
मुनिवक्त्रोद्गतान् धर्मान् गायन्तो वेदपारगाः ।
पतन्तम् उद्धरेयुस् तं धर्मज्ञाः पापसंकरात् ॥
दध्ना च सर्पिषा चैव क्षीरगोमूत्रयावकम् ।
भुञ्जीत सह सर्वैश् च त्रिसंध्यम् अवगाहनम् ॥
त्र्यहं भुञ्जीत दध्ना च त्र्यहं भुञ्जीत सर्पिषा ।
त्र्यहं क्षीरेण भुञ्जीत एकैकेन दिनत्रयम् ॥
भावदुष्टं न भुञ्जीत नोच्छिष्टं कृमिदूषितम् ।
दधिक्षीरस्य त्रिपलं पलं एकं घृतस्य तु ॥
भस्मना तु भवेच् छुद्धिर् उभयोस् ताम्रकांस्ययोः ।
जलशौचेन वस्त्राणां परित्यागेन मृण्मयम् ॥
कुसुम्भगुडकार्पास लवणं तैलसर्पिषी ।
द्वारे कृत्वा तु धान्यानि दद्याद् वेश्मनि पावकम् ॥
एवं शुद्धस् ततः पश्चात् कुर्याद् ब्राह्मणतर्पणम् ।
त्रिंशतं गोवृषं चैकं दद्याद् विप्रेषु दक्षिणाम् ॥
पुनर् लेपनखातेन होमजप्येन शुध्यति ।
आधारेण च विप्राणां भूमिदोषो न विद्यते ॥
चण्डालैः सह संपर्कं मासं मासार्धम् एव वा ।
गोमूत्रयावकाहारो मासार्धेन विशुध्यति ॥
रजकी चर्मकारी च लुब्धकी वेणुजीविनी ।
चातुर्वर्ण्यस्य च गृहे त्व् अविज्ञाता तु तिष्ठति ॥
ज्ञात्वा तु निष्कृतिं कुर्यात् पूर्वोक्तस्यार्धम् एव च ।
गृहदाहं न कुर्वीत शेषं सर्वं च कारयेत् ॥
गृहस्याभ्यन्तरं गच्छेच् चण्डालो यदि कस्यचित् ।
तम् अगाराद् विनिर्वास्य मृद्भाण्डं तु विसर्जयेत् ॥
रसपूर्णं तु यद् भाण्डं न त्यजेत् तु कदाचन ।
गोमयेन तु संमिश्रैर् जलैः प्रोक्षेद् गृहं तथा ॥
ब्राह्मणस्य व्रणद्वारे पूयशोणितसंभवे ।
कृमिर् उत्पद्यते यस्य प्रायश्चित्तं कथं भवेत् ॥
गवां मूत्रपुरीषेण दध्ना क्षीरेण सर्पिषा ।
त्र्यहं स्नात्वा च पीत्वा च कृमिदुष्टः शुचिर् भवेत् ॥
क्षत्रियो ऽपि सुवर्णस्य पञ्चमाषान् प्रदाय तु ।
गोदक्षिणां तु वैश्यस्याप्य् उपवासं विनिर्दिशेत् ॥
शूद्राणां नोपवासः स्याच् छूद्रो दानेन शुध्यति ।
अच्छिद्रम् इति यद् वाक्यं वदन्ति क्षितिदेवताः ॥
प्रणम्य शिरसा ग्राह्यम् अग्निष्टोमफलं हि तत् ।
जपच् छिद्रं तपच् छिद्रं यच् छिद्रं यज्ञकर्मणि ॥
सर्वं भवति निश्छिद्रं ब्राह्मणैर् उपपादितम् ।
व्याधिव्यसनिनि.श्रान्ते दुर्भिक्षे डामरे तथा ॥
उपवासो व्रतं होमो द्विजसंपादितानि वै ।
अथवा ब्राह्मणास् तुष्टाः सर्वं कुर्वन्त्य् अनुग्रहम् ॥
सर्वान् कामान् अवाप्नोति द्विजसंपादितैर् इह ।
दुर्बले ऽनुग्रहः प्रोक्तस् तथा वै बालवृद्धयोः ॥
अतो ऽन्यथा भवेद् दोषस् तस्मान् नानुग्रहः स्मृतः ।
स्नेहाद् वा यदि वा लोभाद् भयाद् अज्ञानतो ऽपि वा ॥
कुर्वन्त्य् अनुग्रहं ये तु तत् पापं तेषु गच्छति ।
शरीरस्यात्यये प्राप्ते वदन्ति नियमं तु ये ॥
महत् कार्योपरोधेन न स्वस्थस्य कदाचन ।
स्वस्थस्य मूढाः कुर्वन्ति वदन्त्य् अनियमं तु ये ॥
ते तस्य विघ्नकर्तारः पतन्ति नरके ऽशुचौ ।
स्वयम् एव व्रतं कृत्वा ब्राह्मणं यो ऽवमन्यते ॥
वृथा तस्योपवासः स्यान् न स पुण्येन युज्यते ।
स एव नियमो ग्राह्यो यद्य् एको ऽपि वदेद् द्विजः ॥
कुर्याद् वाक्यं द्विजानां तु अन्यथा भ्रूणहा भवेत् ।
ब्राह्मणा जङ्गमं तीर्थं तीर्थभूता हि साधवः ॥
तेदां वाक्योदकेनैव शुध्यन्ति मलिना जनाः ।
ब्राह्मणा यानि भाषन्ते मन्यन्ते तानि देवताः ॥
सर्वदेवमयो विप्रो न तद्वचनम् अन्यथा ।
उपवासो व्रतं चैव स्नानं तीर्थं जपस् तपः ॥
विप्रसंपादितं यस्य संपूर्णं तस्य तत् फलम् ।
अन्नाद्ये कीटसम्युक्ते मक्षिकाकेशदूषिते ॥
तदन्तरा स्पृशेच् चापस् तद् अन्नं भस्मना स्पृशेत् ।
भुञ्जानश् चैव यो विप्रः पादं हस्तेन संस्पृशेत् ॥
स्वम् उच्छिष्टम् असौ भुङ्क्ते पाणिना मुक्तभाजने ।
पादुकास्थो न भुञ्जीत पर्यङ्के संस्थितो ऽपि वा ॥
श्वानचण्डालदृष्टौ च भोजनं परिवर्जयेत् ।
यद् अन्नं प्रतिषिद्धं स्याद् अन्नशुद्धिस् तथैव च ॥
यथा पराशरेणोक्तं तथैवाहं वदामि वः ।
शृतं द्रोणाढकस्यान्नं काकश्वानोपघातितम् ॥
केनेदं शुध्यते चेति ब्राह्मणेभ्यो निवेदयेत् ।
काकश्वानावलीढं तु द्रोणान्नं न परित्यजेत् ॥
वेदवेदाङ्गविद्विप्रैर् धर्मशास्त्रानुपालकैः ।
प्रस्था द्वात्रिंशतिर् द्रोणः स्मृतो द्विप्रस्थ आढकः ॥
ततो द्रोणाढकस्यान्नं श्रुतिस्मृतिविदो विदुः ।
काकश्वानावलीढं तु गवाघ्रातं खरेण वा ॥
स्वल्पम् अन्नं त्यजेद् विप्रः शुद्धिर् द्रोणाढके भवेत् ।
अन्नस्योद्धृत्य तन्.मात्रं यच् च लालाहतं भवेत् ॥
सुवर्णोदकम् अभ्युक्ष्य हुताशेनैव तापयेत् ।
हुताशनेन संस्पृष्टं सुवर्णसलिलेन च ॥
विप्राणां ब्रह्मघोषेण भोज्यं भवति तत्क्षणात् ।
स्नेहो वा गोरसो वापि तत्रशुद्धिः कथं भवेत् ॥
अल्पं परित्यजेत् तत्र स्नेहस्योत्पवनेन च ।
अनलज्वालया शुद्धिर् गोरसस्य विधीयते ॥
मूल पाठ: Parāśaradharmasaṃhitā (= Parāśarasmṛti) · Edition: Vāman Śāstri Islāmpurkar The Parâśara Dharma Saṃhitâ or Parâśara Smṛiti with the commentary of Sâyaṇa Mâdhavâchârya Bombay Government Central Book Depot I,1 Bombay Sanskrit Series 47 Vāman Śāstri Islāmpurkar The Parâśara Dharma Saṃhitâ or Parâśara Smṛiti with the commentary of Sâyaṇa Mâdhavâchârya Bombay Government Central Book Depot I,2 Bombay Sanskrit Series 48 Vāman Śāstri Islāmpurkar The Parâś · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0