भाषा

ENहिગુ
ग्रंथ पाठ

पराशरधर्मसंहिता · अध्याय 5

5.1

वृकश्वानसृगालाद्यैर् दष्टो यस् तु द्विजोत्तमः ।
स्नात्वा जपेत् स गायत्रीं पवित्रां वेदमातरम् ॥

5.2

गवां शृङ्गोदकैः स्नानं महानद्योस् तु संगमे ।
समुद्रदर्शनाद् वापि शुना दष्टः शुचिर् भवेत् ॥

5.3

वेदविद्याव्रतस्नातः शुना दष्टो द्विजो यदि ।
स हिरण्योदकैः स्नात्वा घृतं प्राश्य विशुध्यति ॥

5.4

सव्रतस् तु शुना दष्टो यस् त्रिरात्रम् उपावसेत् ।
घृतं कुशोदकं पीत्वा व्रतशेषं समापयेत् ॥

5.5

अव्रतः सव्रतो वापि शुना दष्टो भवेद् द्विजः ।
प्रणिपत्य भवेत् पूतो विप्रैश् चक्षुर्निरीक्षितः ॥

5.6

शुना घ्रातावलीढस्य नखैर् विलिखितस्य च ।
अद्भिः प्रक्षालनं प्रोक्तम् अग्निना चोपचूलनम् ॥

5.7

शुना तु ब्राह्मणी दष्टा जम्बुकेन वृकेण वा ।
उदितं ग्रहनक्षत्रं दृष्ट्वा सद्यः शुचिर् भवेत् ॥

5.8

कृष्णपक्षे यदा सोमो न दृश्येत कदाचन ।
यां दिशं व्रजते सोमस् तां दिशं वावलोकयेत् ॥

5.9

असद्ब्राह्मणके ग्रामे शुना दष्टो द्विजोत्तमः ।
वृषं प्रदक्षिणीकृत्य सद्यः स्नात्वा शुचिर् भवेत् ॥

5.10

चण्डालेन श्वपाकेन गोभिर् विप्रैर् हतो यदि ।
आहिताग्निर् मृतो विप्रो विषेणात्महतो यदि ॥

5.11

दहेत् तं ब्राह्मणं विप्रो लोकाग्नौ मन्त्रवर्जितम् ।
स्पृष्ट्वा वोढ्वा च दग्ध्वा च सपिण्डेषु च सर्वथा ॥

5.12

प्राजापत्यं चरेत् पश्चाद् विप्राणाम् अनुशासनात् ।
दग्धास्थीनि पुनर् गृह्य क्षीरैः प्रक्षालयेद् द्विजः ॥

5.13

पुनर् दहेत् स्वाग्निना तु स्वतन्त्रेण पृथक् पृथक् ।
आहिताग्निर् द्विजः कश्चित् प्रवसन् कालचोदितः ॥

5.14

देहनाशम् अनुप्राप्तस् तस्याग्निर् वसते गृहे ।
प्रेताग्निहोत्रसंस्कारः श्रूयताम् ऋषिपुङ्गवाः ॥

5.15

कृष्णाजिनं समास्तीर्य कुशैस् तु पुरुषाकृतिम् ।
षट्शतानि शतं चैव पलाशानां च वृन्ततः ॥

5.16

चत्वारिंशच् छिरे दद्याच् छतं कण्ठे तु विन्यसेत् ।
बाहुभ्यां शतकं दद्याद् अङ्गुलीषु दशैव तु ॥

5.17

शतं तु जघने दद्याद् द्विशतं तूदरे तथा ।
दद्याद् अष्टौ वृषणयोः पञ्च मेध्रे तु विन्यसेत् ॥

5.18

एकविंशतिम् ऊरुभ्यां द्विशतं जानुजङ्घयोः ।
पादाङ्गुलीषु षड् दद्याद् यज्ञपात्रं ततो न्यसेत् ॥

5.19

शम्यं शिश्ने विनिःक्षिप्य अरणीं मुष्कयोर् अपि ।
जुहूं च दक्षिणे हस्ते वामे तूपभृतं न्यसेत् ॥

5.20

कर्णे चोलूखलं दद्यात् पृष्ठे च मुसलं न्यसेत् ।
उरसि क्षिप्य दृषदं तण्डुलाज्यतिलान् मुखे ॥

5.21

श्रोत्रे च प्रोक्षणीं दद्याद् आज्यस्थलीं तु चक्षुषोः ।
कर्णे नेत्रे मुखे घ्राणे हिरण्यशकलं न्यसेत् ॥

5.22

अग्निहोत्रोपकरणम् अशेषं तत्र निक्षिपेत् ।
असौ स्वर्गाय लोकाय स्वाहेत्य् एकाहुतिं सकृत् ॥

5.23

दद्यात् पुत्रो ऽथवा भ्राताप्य् अन्यो वापि च बान्धवः ।
यथा दहनसंस्कारस् तथा कार्यं विचक्षणैः ॥

5.24

ईदृशं तु विधिं कुर्याद् ब्रह्मलोकगतिः स्मृता ।
दहन्ति ये द्विजास् तं तु ते यान्ति परमां गतिम् ॥

5.25

अन्यथा कुर्वते कर्म त्व् आत्मबुद्ध्या प्रचोदिताः ।
भवन्त्य् अल्पायुषस् ते वै पतन्ति नरके ऽशुचौ ॥

मूल पाठ: Parāśaradharmasaṃhitā (= Parāśarasmṛti) · Edition: Vāman Śāstri Islāmpurkar The Parâśara Dharma Saṃhitâ or Parâśara Smṛiti with the commentary of Sâyaṇa Mâdhavâchârya Bombay Government Central Book Depot I,1 Bombay Sanskrit Series 47 Vāman Śāstri Islāmpurkar The Parâśara Dharma Saṃhitâ or Parâśara Smṛiti with the commentary of Sâyaṇa Mâdhavâchârya Bombay Government Central Book Depot I,2 Bombay Sanskrit Series 48 Vāman Śāstri Islāmpurkar The Parâś · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc