पराशरधर्मसंहिता · अध्याय 11
अमेध्यरेतो गोमांसं चण्डालान्नम् अथापि वा ।
यदि भुक्तं तु विप्रेण कृच्छ्रं चान्द्रायणं चरेत् ॥
तथैव क्षत्रियो वैश्यो ऽप्य् अर्धं चान्द्रायणं चरेत् ।
शूद्रो ऽप्य् एवं यदा भुङ्क्ते प्राजापत्यं समाचरेत् ॥
पञ्चगव्यं पिबेच् छूद्रो ब्रह्मकूर्चं पिबेद् द्विजः ।
एकद्वित्रिचतुर् गा वा दद्याद् विप्राद्यनुक्रमात् ॥
शूद्रान्नं सूतकान्नं च अभोज्यस्यान्नम् एव च ।
शङ्कितं प्रतिषिद्धान्नं पूर्वोच्छिष्टं तथैव च ॥
यदि भुक्तं तु विप्रेण अज्ञानाद् आपदापि वा ।
ज्ञात्वा समाचरेत् कृच्छ्रं ब्रह्मकूर्चं तु पावनम् ॥
बालैर् नकुलमार्जारैर् अन्नम् उच्छिष्टितं यदा ।
तिलदर्भोदकैः प्रोक्ष्य शुध्यते नात्रसंशयः ॥
एकपङ्क्त्युपविष्टानां विप्राणां सह भोजने ।
यद्य् एको ऽपि त्यजेत् पात्रं शेषम् अन्नं न भोजयेत् ॥
मोहाद् भुञ्जीत यस् तत्र पङ्क्ताव् उच्छिष्टभोजने ।
प्रायश्चित्तं चरेद् विप्रः कृच्छ्रं सांतपनं तथा ॥
पीयूषं श्वेतलशुनं वृन्ताकफलगृञ्जने ।
पलाण्डुवृक्षनिर्यास देवस्वकवकानि च ॥
उष्ट्रीक्षीरम् अविक्षीरम् अज्ञानाद् भुञ्जते द्विजः ।
त्रिरात्रम् उपवासेन पञ्चगव्येन शुध्यति ॥
मण्डूकं भक्षयित्वा तु मूषिकामांसम् एव च ।
ज्ञात्वा विप्रस् त्व् अहोरात्रं यावकान्नेन शुध्यति ॥
क्षत्रियश् चापि वैश्यश् च क्रियावन्तौ शुचिव्रतौ ।
तद्गृहे तु द्विजैर् भोज्यं हव्यकव्येषु नित्यशः ॥
घृतं तैलं तथा क्षीरं भक्ष्यं स्नेहेन पाचितम् ।
गत्वा नदीतटे विप्रो भुञ्जीयाच् छूद्रभोजनम् ॥
मद्यमांसरतं नित्यं नीचकर्मप्रवर्तकम् ।
तं शूद्रं वर्जयेद् विप्रः श्वपाकम् इव दूरतः ॥
द्विजशुश्रूषणरतान् मद्यमांसविवर्जितान् ।
स्वकर्मणि रतान् नित्यं न तान् शूद्रान् त्यजेद् द्विजः ॥
अज्ञानाद् भुञ्जते विप्राः सूतके मृतके ऽपि वा ।
प्रायश्चित्तं कथं तेषां वर्णे वर्णे विनिर्दिशेत् ॥
गायत्र्यष्टसहस्रेण शुद्धिः स्याच् छूद्रसूतके ।
वैश्ये पञ्चसहस्रेण त्रिसहस्रेण क्षत्रिये ॥
ब्राह्मणस्य यदा भुङ्क्ते द्वे सहस्रे तु दापयेत् ।
अथवा वामदैव्येन साम्नैवैकेन शुध्यति ॥
शुष्कान्नं गोरसं स्नेहं शूद्रवेश्मन आगतम् ।
पक्वं विप्रगृहे भुक्तं भोज्यं तन् मनुर् अब्रवीत् ॥
आपत्कालेषु विप्रेण भुक्तं शूद्रगृहे यदि ।
मनस्तापेन शुध्येत द्रुपदां वा जपेच् छतम् ॥
दासनापितगोपाल कुलमित्रार्धसीलिणः ।
एते शूद्रेषु भोज्यान्ना यश् चात्मानं निवेदयेत् ॥
शूद्रकन्यासमुत्पन्नो ब्राह्मणेन तु संस्कृतः ।
संस्कारात् तु भवेद् दासः असंस्कारात् तु नापितः ॥
क्षत्रियाच् छूद्रकन्यायां समुत्पन्नस् तु यः सुतः ।
स गोपाल इति ज्ञेयो भोज्यो विप्रैर् न संशयः ॥
वैश्यकन्यासमुत्पन्नो ब्राह्मणेन तु संस्कृतः ।
स ह्य् आर्धिक इति ज्ञेयो भोज्यो विप्रैर् न संशयः ॥
भाण्डस्थितम् अभोज्येषु जलं दधि घृतं पयः ।
अकामतस् तु यो भुङ्क्ते प्रायश्चित्तं कथं भवेत् ॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा उपसर्पति ।
ब्रह्मकूर्चोपवासेन याज्यवर्णस्य निष्कृतिः ॥
शूद्राणां नोपवासः स्याच् छूद्रो दानेन शुध्यति ।
ब्रह्मकूर्चम् अहोरात्रं श्वपाकम् अपि शोधयेत् ॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
निर्दिष्टं पञ्चगव्यं तु पवित्रं पापशोधनम् ॥
गोमूत्रं कृष्णवर्णायाः श्वेतायाश् चैव गोमयम् ।
पयश् च ताम्रवर्णाया रक्ताया गृह्यते दधि ॥
कपिलाया घृतं ग्राह्यं सर्वं कापिलम् एव वा ।
मूत्रम् एकपलं दद्याद् अङ्गुष्ठार्धं तु गोमयम् ॥
क्षीरं सप्तपलं दद्याद् दधि त्रिपलम् उच्यते ।
घृतम् एकपलं दद्यात् पलम् एकं कुशोदकम् ॥
गायत्र्यादाय गोमूत्रं गन्धद्वारेति गोमयम् ।
आप्यायस्वेति च क्षीरं दधिक्राव्णस् तथा दधि ॥
तेजो ऽसि शुक्रम् इत्य् आज्यं देवस्य त्वा कुशोदकम् ।
पञ्चगव्यम् ऋचा पूतं स्थापयेद् अग्निसंनिधौ ॥
आपोहिष्ठेति चालोड्य मानस्तोकेति मन्त्रयेत् ।
सप्तावरास् तु ये दर्भा अछिन्नाग्राः शुकत्विषः ॥
एतैर् उद्धृत्य होतव्यं पञ्चगव्यं यथाविधि ।
इरावती इदं विष्णुर् मानस्तोकेति शंवती ॥
एताभिश् चैव होतव्यं हुतशेषं पिबेद् द्विजः ।
आलोड्य प्रणवेनैव निर्मन्थ्य प्रणवेन तु ॥
उद्धृत्य प्रणवेनैव पिबेच् च प्रणवेन तु ।
यत् त्व् अस्थिगतं पापं देहे तिष्ठति देहिनाम् ॥
ब्रह्मकूर्चो दहेत् सर्वं प्रदीप्ताग्निर् इवेन्धनम् ।
पवित्रं त्रिषु लोकेषु देवताभिर् अधिष्ठितम् ॥
वरुणश् चैव गोमूत्रे गोमये हव्यवाहनः ।
दध्नि वायुः समुद्दिष्टः सोमः क्षीरे घृते रविः ॥
पिबतः पतितं तोयं भाजने मुखनिःसृतम् ।
अपेयं तद् विजानीयात् पीत्वा चान्द्रायणं चरेत् ॥
कूपे च पतितं दृष्ट्वा श्वसृगालौ च मर्कटम् ।
अस्थिचर्मादि पतितं पीत्वामेध्या अपो द्विजः ॥
नारं तु कुणपं काकं विड्वराहखरोष्ट्रकम् ।
गावयं सौप्रतीकं च मायूरं खाड्गकं तथा ॥
वैयाघ्रम् आर्क्षं सैंहं वा कूपे यदि निमज्जति ।
तटाकस्याथ दुष्टस्य पीतं स्याद् उदकं यदि ॥
प्रायश्चित्तं भवेत् पुंसः क्रमेणैतेन सर्वशः ।
विप्रः शुध्येत् त्रिरात्रेण क्षत्रियस् तु दिनद्वयात् ॥
एकाहेन तु वैश्यस् तु शूद्रो नक्तेन शुध्यति ।
परपाकनिवृत्तस्य परपाकरतस्य च ॥
अपचस्य च भुक्त्वान्नं द्विजश् चान्द्रायणं चरेत् ।
अपचस्य च यद् दानं दातुश् चास्य कुतः फलम् ॥
दाता प्रतिग्रहीता च तौ द्वौ निरयगामिनौ ।
गृहीत्वाग्निं समारोप्य पञ्चयज्ञान् न निर्वपेत् ॥
परपाकनिवृत्तो ऽसौ मुनिभिः परिकीर्तितः ।
पञ्चयज्ञान् स्वयं कृत्वा परान्नेनोपजीवति ॥
सततं प्रातर् उत्थाय परपाकरतस् तु सः ।
गृहस्थधर्मा यो विप्रो ददाति परिवर्जितः ॥
ऋषिभिर् धर्मतत्त्वज्ञैर् अपचः परिकीर्तितः ।
युगे युगे तु ये धर्मास् तेषु तेषु च ये द्विजाः ॥
तेषां निन्दा न कर्तव्या युगरूपा हि ते द्विजाः ।
हुंकारं ब्राह्मणस्योक्त्वा त्वंकारं च गरीयसः ॥
स्नात्वा तिष्ठन्न् अहः शेषम् अभिवाद्य प्रसादयेत् ।
ताडयित्वा तृणेनापि कण्ठे बद्ध्वापि वाससा ॥
विवादेनापि निर्जित्य प्रणिपत्य प्रसादयेत् ।
अवगूर्य त्व् अहोरात्रं त्रिरात्रं क्षितिपातने ॥
अतिकृच्छ्रं च रुधिरे कृच्छ्रो ऽभ्यन्तरशोणिते ।
नवाहम् अतिकृच्छ्री स्यात् पाणिपूरान्नभोजनः ॥
त्रिरात्रम् उपवासी स्याद् अतिकृच्छ्रः स उच्यते ।
सर्वेषाम् एव पापानां संकरे समुपस्थिते ॥
दशसाहस्रम् अभ्यस्ता गायत्री शोधनं परं ॥
मूल पाठ: Parāśaradharmasaṃhitā (= Parāśarasmṛti) · Edition: Vāman Śāstri Islāmpurkar The Parâśara Dharma Saṃhitâ or Parâśara Smṛiti with the commentary of Sâyaṇa Mâdhavâchârya Bombay Government Central Book Depot I,1 Bombay Sanskrit Series 47 Vāman Śāstri Islāmpurkar The Parâśara Dharma Saṃhitâ or Parâśara Smṛiti with the commentary of Sâyaṇa Mâdhavâchârya Bombay Government Central Book Depot I,2 Bombay Sanskrit Series 48 Vāman Śāstri Islāmpurkar The Parâś · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0