पराशरधर्मसंहिता · अध्याय 12
दुःस्वप्नं यदि पश्येत् तु वान्ते तु क्षुरकर्मणि ।
मैथुने प्रेतधूमे च स्नानम् एव विधीयते ॥
अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टम् एव च ।
पुनः संस्कारम् अर्हन्ति त्रयो वर्णा द्विजातयः ॥
अजिनं मेखला दण्डो भैक्ष्यचर्या व्रतानि च ।
निवर्तन्ते द्विजातीनां पुनः संस्कारकर्मणि ॥
विण्मूत्रभोजी शुध्यर्थं प्राजापत्यं समाचरेत् ।
पञ्चगव्यं च कुर्वीत स्नात्वा पीत्वा शुचिर् भवेत् ॥
जलाग्निपतने चैव प्रव्रज्यानाशकेषु च ।
प्रत्यावसितवर्णानां कथं शुद्धिर् विधीयते ॥
प्राजापत्यद्वयेनैव तीर्थाभिगमनेन च ।
वृषैकादशदानेन वर्णाः शुध्यन्ति ते त्रयः ॥
ब्राह्मणस्य प्रवक्ष्यामि वनं गत्वा चतुष्पथे ।
सशिखं वपनं कृत्वा प्राजापत्यद्वयं चरेत् ॥
गोद्वयं दक्षिणां दद्याच् छुद्धिं स्वायंभुवो ऽब्रवीत् ।
मुच्यते तेन पापेन ब्राह्मणत्वं च गच्छति ॥
स्नानानि पञ्च पुण्यानि कीर्तितानि मनीषिभिः ।
आग्नेयं वारुणं ब्राह्मं वायव्यं दिव्यम् एव च ॥
आग्नेयं भस्मना स्नानम् अवगाह्य तु वारुणम् ।
आपो हि ष्ठेति च ब्राह्मं वायव्यं गोरजः स्मृतम् ॥
यत् तु सातपवर्षेण तत् स्नानं दिव्यम् उच्यते ।
तत्र स्नात्वा तु गङ्गायां स्नातो भवति मानवः ॥
स्नातुं यान्तं द्विजं सर्वे देवाः पितृगणैः सह ।
वायुभूतास् तु गच्छन्ति तृषार्ताः सलिलार्थिनः ॥
निराशास् ते निवर्तन्ते वस्त्रनिष्पीडने कृते ।
तस्मान् न पीडयेद् वस्त्रं अकृत्वा पितृतर्पणम् ॥
रोमकूपेष्व् अवस्थाप्य यस् तिलैर् तर्पयेत् पितॄन् ।
पितरस् तर्पितास् तेन रुधिरेण मलेन च ॥
अवधूनोति यः केशान् स्नात्वा यस् तूत्सृजेन् मलम् ।
आचामेद् वा जलस्थे ऽपि स बाह्यः पितृदैवतैः ॥
शिरः प्रावृत्त्य कण्ठं वा मुक्तकच्छशिखो ऽपि वा ।
विना यज्ञोपवीतेन आचान्तो ऽप्य् अशुचिर् भवेत् ॥
जले स्थलस्थो नाचामेज् जलस्थश् च बहिःस्थले ।
उभे स्पृष्ट्वा समाचान्त उभयत्र शुचिर् भवेत् ॥
स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे ।
आचान्तः पुनर् आचामेद् वासो विपरिधाय च ॥
क्षुते निष्ठीवने चैव दन्तोच्छिष्टे तथानृते ।
पतितानां च संभाषे दक्षिणं श्रवणं स्पृशेत् ॥
प्रभासादीनि तीर्थानि गङ्गाद्याः सरितस् तथा ।
विप्रस्य दक्षिणे कर्णे सन्तीति मनुर् अब्रवीत् ॥
अग्निर् आपश् च वेदाश् च सोमसूर्यानिलास् तथा ।
सर्व एव तु विप्रस्य श्रोत्रे तिष्ठन्ति दक्षिणे ॥
भास्करस्य करैः पूतं दिवा स्नानं प्रशस्याते ।
अप्रशस्तं निशि स्नानं राहोर् अन्यत्र दर्शनात् ॥
स्नानं दानं जपो होमः कर्तव्यो राहुदर्शने ।
अन्यदा त्व् अशुची रात्रिस् तस्मात् तां परिवर्जयेत् ॥
मरुतो वसवो रुद्रा आदित्याश् चैव देवताः ।
सर्वे सोमे प्रलीयन्ते तस्माद् दानं तु तद्ग्रहे ॥
खलयज्ञे विवाहे च संक्रान्तौ ग्रहणे तथा ।
शर्वर्यां दानम् अस्त्य् एव नान्यत्रैव विधीयते ॥
पुत्रजन्मनि यज्ञे च तथा चात्ययकर्मणि ।
राहोश् च दर्शने दानं प्रशस्तं नान्यदा निशि ॥
महानिशा तु विज्ञेया मध्यस्थं प्रहरद्वयम् ।
प्रदोषपश्चिमौ यामौ दिनवत् स्नानम् आचरेत् ॥
चैत्यवृक्षश् चितिर् यूपश् चण्डालः सोमविक्रयी ।
एतांस् तु ब्राह्मणः स्पृष्ट्वा सवासा जलम् आविशेत् ॥
अस्थिसंचयनात् पूर्वं रुदित्वा स्नानम् आचरेत् ।
अन्तर्दशाहे विप्रस्य ह्य् ऊर्ध्वम् आचमनं भवेत् ॥
सर्वं गङ्गासमं तोयं राहुग्रस्ते दिवाकरे ।
सोमग्रहे तथैवोक्तं स्नानदानादिकर्मसु ॥
कुशैः पूतं तु यत् स्नानं कुशेनोपस्पृशेद् द्विजः ।
कुशेन चोद्धृतं तोयं सोमपानसमं भवेत् ॥
अग्निकार्यात् परिभ्रष्टाः संध्योपासनवर्जिताः ।
वेदं चऐवानधीयानाः सर्वे ते वृषलाः स्मृताः ॥
तस्माद् वृषलभीतेन ब्राह्मणेन विशेषतः ।
अध्येतव्यो ऽप्य् एकदेशो यदि सर्वं न शक्यते ॥
शूद्रान्नरसपुष्टस्याप्य् अधीयानस्य नित्यशः ।
जपतो जुह्वतो वापि गतिर् ऊर्ध्वा न विद्यते ॥
शूद्रान्नं शूद्रसंपर्कः शूद्रेण तु सहासनम् ।
शूद्राज् ज्ञानागमश् चैव ज्वलन्तम् अपि पातयेत् ॥
यः शूद्र्या पाचयेन् नित्यं शूद्री च गृहमेधिनी ।
वर्जितः पितृदेवेभ्यो रौरवं याति स द्विजः ॥
मृतसूतकपुष्टाङ्गो द्विजः शूद्रान्नभोजनः ।
अहं तन् न विजानामि कां कां योनिं गमिष्यति ॥
गृध्रो द्वादशजन्मानि दशजन्मानि सूकरः ।
श्वयोनौ सप्तजन्मा स्याद् इत्य् एवं मनुर् अब्रवीत् ॥
दक्षिणार्थम् तु यो विप्रः शूद्रस्य जुहुयाद् धविः ।
ब्राह्मणस् तु भवेच् छूद्रः शूद्रस् तु ब्राह्मणो भवेत् ॥
मौनव्रतं समाश्रित्य आसीनो न वदेद् द्विजः ।
भुञ्जानो हि वदेद् यस् तु तद् अन्नं परिवर्जयेत् ॥
अर्धे भुक्ते तु यो विप्रस् तस्मिन् पात्रे जलं पिबेत् ।
हतं दैवं च पित्र्यं च आत्मानं चोपघातयेत् ॥
भुञ्जानेषु तु विप्रेषु यो ऽग्रे पात्रं विमुञ्चति ।
स मूढः स च पापिष्ठो ब्रह्मघ्नः स खलूच्यते ॥
भाजनेषु च तिष्ठत्सु स्वस्तिकुर्वन्ति ये द्विजाः ।
न देवास् तृप्तिम् आयान्ति निराशाः पितरस् तथा ॥
अस्नात्वा नैव भुञ्जीता अजप्त्वाग्निम् अहूय च ।
पर्णपृष्ठे न भुञ्जीत रात्रौ दीपं विना तथा ॥
गृहस्थस् तु दयायुक्तो धर्मम् एवानुचिन्तयेत् ।
पोष्यवर्गार्थसिद्ध्यर्थं न्यायवर्ती सुबुद्धिमान् ॥
न्यायोपार्जितवित्तेन कर्तव्यं ह्य् आत्मरक्षणम् ।
अन्यायेन तु यो जीवेत् सर्वकर्मबहिष्कृतः ॥
अग्निचित् कपिला सत्री राजा भिक्षुर् महोदधिः ।
दृष्टमात्राः पुनन्त्य् एते तस्मात् पश्येत् तु नित्यशः ॥
अरणिं कृष्णमार्जारं चन्दनं सुमणिं घृतम् ।
तिलान् कृष्णाजिनं छागं गृहे चैतानि रक्षयेत् ॥
गवां शतं सैकवृषं यत्र तिष्ठत्य् अयन्त्रितम् ।
तत् क्षेत्रं दशगणितं गोचर्मपरिकीर्तितम् ॥
ब्रह्महत्यादिभिर् मर्त्यो मनोवाक्कायकर्मजैः ।
एतद् गोचर्मदानेन मुच्यते सर्वकिल्बिषैः ॥
कुटुम्बिने दरिद्राय श्रोत्रियाय विशेषतः ।
यद् दानं दीयते तस्मै तद् दानं शुभकारकम् ॥
वापीकूपतडागाद्यैर् वाजपेयशतैर् मुखैः ।
गवां कोटिप्रदानेन भूमिहर्ता न शुध्यति ॥
अष्टादशदिनाद् अर्वाक् स्नानम् एव रजस्वला ।
अत ऊर्ध्वं त्रिरात्रं स्याद् उशना मुनिर् अब्रवीत् ॥
युगं युगद्वयं चैव त्रियुगं च चतुर्युगम् ।
चाण्डालसूतिकोदक्या पतितानाम् अधः क्रमात् ॥
ततः संनिधिमात्रेण सचैलं स्नानम् आचरेत् ।
स्नात्वावलोकयेत् सूर्यम् अज्ञानात् स्पृशते यदि ॥
विद्यमानेषु हस्तेषु ब्राह्मणो ज्ञानदुर्बलः ।
तोयं पिबति वक्त्रेण श्वयोनौ जायते ध्रुवम् ॥
यस् तु क्रुद्धः पुमान् ब्रूयाज् जायायास् तु अगम्यताम् ।
पुनर् इच्छति चेद् एनां विप्रमध्ये तु श्रावयेत् ॥
श्रान्तः क्रुद्धस् तमोऽन्धो वा क्षुत्पिपासाभयार्दितः ।
दानं पुण्यम् अकृत्वा तु प्रायश्चित्तं दिनत्रयम् ॥
उपस्पृशेत् त्रिषवणं महानद्युपसंगमे ।
चीर्णान्ते चैव गां दद्याद् ब्राह्मणान् भोजयेद् दश ॥
दुराचारस्य विप्रस्य निषिद्धाचरणस्य च ।
अन्नं भुक्त्वा द्विजः कुर्याद् दिनम् एकम् अभोजनम् ॥
सदाचारस्य विप्रस्य तथा वेदान्तवेदिनः ।
भुक्त्वान्नं मुच्यते पापाद् अहोरात्रान्तरान् नरः ॥
ऊर्ध्वोच्छिष्टम् अधोच्छिष्टम् अन्तरिक्षम् ऋतौ तथा ।
कृच्छ्रत्रयं प्रकुर्वीत अशौचमरणे तथा ॥
कृच्छ्रं देव्य् अयुतं चैव प्राणायामशतद्वयम् ।
पुण्यतीर्थे ऽनार्द्रशिरः स्नानं द्वादशसंख्यया ॥
द्वियोजने तीर्थयात्रा कृच्छ्रम् एकं प्रकल्पितम् ।
गृहस्थः कामतः कुर्याद् रेतसः स्खलनं भुवि ॥
सहस्रं तु जपेद् देव्याः प्राणायामैस् त्रिभिः सह ।
चतुर्विद्योपपन्नस् तु विधिवद् ब्रह्मघातके ॥
समुद्रसेतुगमनं प्रायश्चित्तं विनिर्दिशेत् ।
सेतुबन्धपथे भिक्षां चातुर्वर्ण्यात् समाचरेत् ॥
वर्जयित्वा विकर्मस्थांश् छत्रोपानद्विवर्जितः ।
अहं दुष्कृतकर्मा वै महापातककारकः ॥
गृहद्वारेषु तिष्ठामि भिक्षार्थी ब्रह्मघातकः ।
गोकुलेषु वसेच् चैव ग्रामेषु नगरेषु वा ॥
तपो वनेषु तीर्थेषु नदीप्रस्रवणेषु वा ।
एतेषु ख्यापयन्न् एनः पुण्यं गत्वा तु सागरम् ॥
दशयोजनविस्तीर्णं शतयोजनम् आयतम् ।
रामचन्द्रसमादिष्ट नलसंचयसंचितम् ॥
सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहति ।
सेतुं दृष्ट्वा विशुद्धात्मा त्व् अवगाहेत सागरम् ॥
यजेत वाश्वमेधेन राजा तु पृथिवीपतिः ।
पुनः प्रत्यागते वेश्म वासार्थम् उपसर्पति ॥
सपुत्रः सह भृत्यैश् च कुर्याद् ब्राह्मणभोजनम् ।
गाश् चैवैकशतं दद्याच् चतुर्विध्येषु दक्षिणाम् ॥
ब्राह्मणानां प्रसादेन ब्रह्महा तु विमुच्यते ।
सवनस्थां स्त्रियं हत्वा ब्रह्महत्याव्रतं चरेत् ॥
मद्यपश् च द्विजः कुर्यान् नदीं गत्वा समुद्रगाम् ।
चान्द्रायणे ततश् चीर्णे कुर्याद् ब्राह्मणभोजनम् ॥
अनडुत्सहितां गां च दद्याद् विप्रेषु दक्षिणाम् ।
सुरापानं सकृत् कृत्वा अग्निवर्णं सुरां पिबेत् ॥
स पावयेद् अथात्मानम् इहलोके परत्र च ।
अपहृत्य सुवर्णं तु ब्राह्मणस्य ततः स्वयम् ॥
गच्छेन् मुसलम् आदाय राजाभ्याशं वधाय तु ।
ततः शुद्धिम् अवाप्नोति राज्ञासौ मुक्त एव च ॥
कामतस् तु कृतं यत् स्यान् नान्यथा वधम् अर्हति ।
आसनाच् छयनाद् यानात् संभाषात् सह भोजनात् ॥
संक्रामन्ति हि पापानि तैलबिन्दुर् इवाम्भसि ।
चान्द्रायणं यावकं तु तुलापुरुष एव च ॥
गवां चैवानुगमनं सर्वपापप्रणाशनम् ।
एतत् पाराशरं शास्त्रं श्लोकानां शतपञ्चकं ।
द्विनवत्या समायुक्तं धर्मशास्त्रस्य संग्रहः ॥
यथाध्ययनकर्माणि धर्मशास्त्रम् इदं तथा ।
अध्येतव्यं प्रयत्नेन नियतं स्वर्गगामिना ॥
मूल पाठ: Parāśaradharmasaṃhitā (= Parāśarasmṛti) · Edition: Vāman Śāstri Islāmpurkar The Parâśara Dharma Saṃhitâ or Parâśara Smṛiti with the commentary of Sâyaṇa Mâdhavâchârya Bombay Government Central Book Depot I,1 Bombay Sanskrit Series 47 Vāman Śāstri Islāmpurkar The Parâśara Dharma Saṃhitâ or Parâśara Smṛiti with the commentary of Sâyaṇa Mâdhavâchârya Bombay Government Central Book Depot I,2 Bombay Sanskrit Series 48 Vāman Śāstri Islāmpurkar The Parâś · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0