पारमितासमास · अध्याय 2
॥ दानपारमितासमासः ॥
2. शीलपारमितासमासः
संबुद्धशीलाभरणाभिरामान् कर्तुं जनानुत्पतितादरेण ।
स्वमेव शीलं परिशोध्यमादौ शीलं हि शक्तेर्बलमादधाति
लोके तथा प्रेम निवेशयेत स्वप्ने ऽपि न द्रोहरुचिर्यथा स्यात् ।
परोपकारैकरसः परेषां भोगानहीनामिव न स्पृशेच्च
द्वन्द्वप्रवृत्तेर्विनिवृत्तबुद्धिः प्रागेव दारप्रणयात् परस्य ।
कुर्वीत लोकस्य हितार्थकर्ता कायेन चेष्टाः सुजनस्य चेष्टाः
माधुर्यरम्यामपि कालयुक्तां सत्यानुकूलामविभेदिनीं च ।
सद्धर्मतत्त्वाधिगमाय वाणीं ब्रूयाद्विपक्षादुपरम्य तस्याः
कार्यं प्रयत्नेन मया यदस्मै तत्साधनेन स्वयमेव लब्धम् ।
परस्य सौख्येष्विति तुष्टचित्तः कुर्यान् मनोनिर्विषयामभिध्याम्
ममैव दौरबल्यमिदं यदेष क्लेशास्वतन्त्रः स्वहितं न वेत्ति ।
परापराधेष्वपि कार्य एवं व्यापादवह्निप्रशमाय यत्नः
कुदृष्टिसंज्ञं च तमःप्रतानं ज्ञानप्रकाशैर्मनसो निरस्य ।
कुर्यादहार्यां नरदेववर्ये भक्तिं गुणाभ्यासविरूढमूलाम्
स्वर्गस्य मोक्षस्य च सत्पथेभ्यो नैवोच्चलेत् कर्मपथेभ्य एभ्यः ।
अत्र स्थितानां हि जगद्धितार्थाश्चिन्ताविशेषाः सफलीभवन्ति
समासतः शीलमिदं वदन्ति यः संवरः कायवचोमनस्तः ।
कार्त्स्न्येन चात्रैव यतः स तस्माद् एतान्ययत्नेन विशोधयेच्च
हिंसानिवृत्तप्रणयो ददाति सौम्यस्वभावादभ्यं जनानाम् ।
या वासना दोषकृतास्य चित्ते तां चाप्रयत्नेन समुच्छिनत्ति
मैत्रीविशेषानुगते च चित्ते वैरानुबन्धेषु शमम् गतेषु ।
सुखप्रबोधः सुखमेव शेते क्षीणाशुभस्वप्नविकारदोषः
कुर्वन्ति रक्षांस्यपि चास्य रक्षां न दुर्गतिभ्यो भयमभ्युपैति ।
प्राप्नोति चारोग्यगुणाभिराममायुः प्रकृष्टं सुगतिप्रतिष्ठम्
अतश्च संबोधिमुपागतानां तथागतानाममितप्रयामम् ।
निर्वर्तते चित्तवशानुवर्ति लोकस्य सौख्योपचयाय वायुः
अनाददानस्तु परस्य भोगान् आप्नोति भोगान्महतः परत्र ।
नरेन्द्रदायादगणैरहार्यान् गिरीनिव श्वासनवैरहार्यान्
आचारशुद्ध्यानुगतप्रियत्वं विश्वासपात्रत्वमिहैव याति ।
अतः परोपक्रमनिर्विशङ्को गतिप्रतीघातमुपैति नैव
असारबुद्धिर्धनविस्तरेषु भवत्ययत्नेन विशुद्धशीलः ।
तस्मादुपक्लेशविशुद्धबुद्धिरनुत्तरां च स्वयमेति बोधिम्
कामेषु मिथ्याचरणान्निवृत्तो जितेन्द्रियत्वात् प्रशमाभिरामः ।
प्राप्नोति लोकस्तुतिभिः समन्तात् कीर्तिं दिगन्तेषु विकीर्यमाणम्
न चापि कं चित्प्रमदासु रागं करोति मातृरिव वीक्षमाणः ।
अस्माच्च पुण्योपचयान् मुनीन्द्रः संजायते वारणवस्तिकोषः
वाचो ऽनृतायास्तु निवर्तमानः प्रामोद्यवाञ्छाठ्यविमुक्तचित्तः ।
आदेयसिद्ध्या वचनस्य सत्त्वान् करोति धर्माभिमुखान् अयत्नात्
दिवौकसां च प्रियतां यदेति सत्यप्रियश्चित्रमिदं न तादृक् ।
देवस्वभावो गुणपक्षपाती प्रत्यक्षिणस्तच्चरितेषु ते च
प्रमाणभूतो भवति प्रियश्च यल्लौकिकानामिदमत्र चित्रम् ।
प्रायेण लोको हि गुणैर्दरिद्रः स्वेनानुमानेन परान्मिनोति
त्यक्त्वेव नीलोत्पलिनीवनानि विशेषदर्शी कमलायमाने ।
तस्यानने संश्रयमभ्युपैति प्रह्लादनो गन्धविधिर्मनोज्ञः
भ्राजिष्णुना दुर्गतितारकेण ज्ञानेन पश्यंश्च समासमानि ।
स आत्मसाक्षी समुपैति लज्जां यादृच्छिकैरप्यशुभैर्वितर्कैः
एवं स शुद्धप्रकृतिः क्रमेण न शङ्क्यते ऽन्यैर्न च शङ्कते ऽन्यान् ।
ततो ऽस्य सत्याभ्यनुवर्तनी वागरक्षतां याति तथागतत्वे
कायः परोपक्रमणैरभेद्याः परैरहार्या परिवारसंपत् ।
पैशून्यमुक्तस्य भवत्यभेद्या श्रद्धा च धर्मे प्रतिपत्तिसारा
मैत्रीमभेद्यामविसंवदन्तीं कृपां च लोकार्थमसंत्यजन्तीम् ।
प्राप्नोति चाभेद्यतमान् मुनित्वे जन्मान्तरस्थानपि शिष्यसंघान्
क्रोधस्य सैन्याग्ररजःप्रतानं संकल्पचण्डानिलविप्रकीर्णम् ।
यशोवपुर्ध्वंसनमित्यपास्यं मैत्र्यम्बुवाहैः परुषाभिधानम्
अस्मान्निवृत्तो मधुरैर्वचोभिर्लोकस्य चेतांसि वशीकरोति ।
लोकस्य च प्रेम्णि विरूढमूले सैवास्य वाग्ग्राह्यतरत्वमेति
अतश्च लोकाञ्छतशो विनीय तेषां समावृत्य च दुःखमार्गम् ।
न दुर्गतिं गच्छति पुण्यकर्मा धर्मो हि रक्षेह परत्र चैव
दूरादपि व्यक्तपदानुनादः श्रीमान् अदूरे ऽपि सुखस्वभावः ।
मेघस्वनोदग्रतरस्ततो ऽस्य ब्रह्मस्वरो वक्त्रम् अलंकरोति
अबद्धवाक्याद्विरतः प्रियत्वम् एकान्ततो याति विचक्षणानाम् ।
सत्याभिधाने क्रमते सबुद्धिः प्राप्नोति माहात्म्यम् अकृत्रिमं च
अस्माच्च पुण्यान् मुनिराजभावे गाम्भीर्यगूढान् परिपृच्छमानः ।
प्रश्नाननेकानपि चैककाले निःसंशयं व्याकुरुते स वाचा
प्रेत्येह चानर्थफलैरवन्ध्यां वन्ध्यामभिध्यां समपास्य बुद्ध्या ।
अनीर्ष्यभावादतिकाङ्क्षितां स प्राप्नोति विस्तीर्णतरां समृद्धिम्
चित्ते विशुद्धे च तदाश्रयाणि वाक्कायकर्माणि शुचीभवन्ति ।
नभस्तले कालगुणाभिरामे तारागणानामिव मण्डलानि
पुण्याधिपत्यात्क्रमते च बुद्धिस्तस्योपभोगेषु सदोत्तमेषु ।
प्रयाति राज्ञामपि संमतत्वम् अधृष्यतां च प्रतिगर्वितानाम्
वैकल्यमायान्ति न चेन्द्रियाणि सत्कर्मनिर्वृत्तबलानि तस्य ।
अतश्च लोकत्रयपूज्य एकः शास्ता भवत्यप्रतिवर्त्यचक्रः
व्यापाददाहज्वरविप्रमुक्तः साधुस्वभावाभिनयो नयेन ।
व्यक्तीकरोतीव मनःप्रसादं स्वस्थप्रशान्तेन विचेष्टितेन
हिंसात्मके विग्रहसंहिते वा कर्मण्यनार्याचरिते शठे वा ।
न चास्य बुद्धिः क्रमते कदाचिन् मैत्रीसुखास्वादविशेषलाभात्
लोके व्रजत्यार्यजनेन साम्यं संमान्यते दैवतवज्जनेन ।
न ब्रह्मलोको ऽपि च दुर्लभो ऽस्य प्रस्निग्धकर्मण्यमनःपथस्य
हिताभिनन्दी जगतामयत्नात् प्रसादयत्येव च मानसानि ।
रम्यः शरत्काल इवापगानां तोयानि मेघागमदूषितानि
रूपेण सर्वप्रियदर्शनेन ज्ञानास्पदेनाद्भुतचेष्टितेन ।
एकीकरोतीव ततो मुनित्वे लोकस्य विज्ञानपृथक्त्वसिद्धिम्
कुदृष्टिपङ्कक्रमणं लसंस्तु प्राप्नोति कल्याणहृदः सहायान् ।
कर्मस्वको ऽस्तीति च कर्म पापं विशस्यमानो ऽपि करोति नैव
भवत्यकम्प्या च जिणे ऽस्य भक्तिर्नायस्यते कौतुकमङ्गलैश्च ।
आर्ये च मार्गे लभते प्रतिष्ठां विशेषगामित्वमतो ऽभ्युपैति
सत्कायदृष्ट्युच्चलितः स याति न दुर्गतिं हेतुपरिक्षयेण ।
ज्ञानेन चानावरणेन युक्तो दिवःपृथिव्योर्विचरत्यसङ्गः
प्रत्येकबुद्धैरपि चानवाप्ताः सर्वे ततो ऽस्याभिमुखीभवन्ति ।
जगद्धितार्थेषु विजृम्भमाणाः सर्वज्ञभावाय मुनीन्द्रधर्माः
इमां विभूतिं गुणरत्नचित्रां श्लाघ्यां स्वयंग्राहगुणाभिरामाम् ।
को नाम विद्वान् न समाददीत विशेषतः सत्त्वहिताभिलाषी
दिव्याभिरामा मनुजेषु संपत् प्रकृष्टसौख्यैकरसा च दिव्या ।
शीलाद्यदि स्यात् किमिवात्र चित्रं यस्मात् प्ररोहन्त्यपि बुद्धधर्माः
शीलच्युतस्त्वात्महिते ऽप्यशक्तः कस्मिन् परस्यार्थविधौ समर्थः ।
तस्माद् विशेषेण परार्थसाधोर्न न्याय्यमस्मिञ्छीथिलादरत्वम्
विवर्जयेदण्वपि वर्जनीयं तस्माद्भयं तीव्रमवेक्षमाणः ।
न बोधिसत्त्वाभ्युचितं च शीलं विखण्डयेदात्मसुखोदयेन
न च्छिद्रदोषैः परिजर्जरं वा स्त्रीकेलिसंवाहनवीक्षणाद्यैः ।
न दुर्जनक्लेशपरिग्रहाद् वा कुर्वीत शीलं शबलप्रकारम्
कल्माषदोषापगतं निषेव्यम् एकान्तशुक्लोपचयेन शीलम् ।
स्वेच्छागतित्वाच्च भुजिष्यवृत्तं विद्वत्प्रशंसाभरणानवद्यम्
समग्रशिक्षापदपूरणाच्च संपूर्णमामर्षविवर्जितं च ।
चेतोविशुद्धिप्रतिबिम्बभूतैस्तीव्रैः परार्थैकरसैः प्रयोगैः
स्मृत्याश्रयाच्चेन्द्रियसंवरेण शीलस्य संरक्षणतत्परः स्यात् ।
लोकस्य दौःशील्यमभिप्रवृद्धं तमः सहस्रांशुरिवापनेष्यन्
दुःखप्रतीकारनिमित्तसेव्यैः कायव्रणालेपनवेष्टनाद्यैः ।
न्यायोपलब्धैः परितुष्टचित्तो ऽपराननोल्लोकनकातरः स्यात्
श्लाघ्येषु सर्वेष्वपि वर्तमानः शीलानुकूलेषु गुणोदयेषु ।
अविस्मितत्वादपराधमानी कीर्तेर्बिभीयाच्च तदुद्भवायाः
लाभप्रकारो हि गुणप्रकाशाच्छत्रुत्वमभ्येति सुहृन्मुखेन ।
सरोरुहाणामिव शीतरश्मिः श्रेयः प्रमाथी शिथिलव्रतानाम्
शीलं गुणाभ्यासविधिं वदन्ति संबोधिचित्ते च गुणाः समग्राः ।
अभ्यस्यते तच्च कृपागुणेन कारुण्यशीलः सततं ततः स्यात्
यन्निश्रितं कामभवे ऽपि नैव संतिष्ठते नैव च रूपधातौ ।
आरूप्यधातौ यदसंस्थितं च तत्तत्त्वतः शीलमुदाहरन्ति
यो लोकधातुष्वमितेषु सत्त्वाञ्छीले प्रतिष्ठापयिषुः समग्रान् ।
निषेवते लोकहिताय शीलं तदुच्यते पारमितेति तज्ज्ञैः
शीलं विशेषाधिगमस्य मार्गो दायाद्यभूतं करुणात्मकानाम् ।
ज्ञानप्रकर्षस्य शुचिस्वभावो नष्टोद्धवा मण्डनजातिरग्रा
लोकत्रयव्यापि मनोज्ञागन्धं विलेपनं प्रव्रजिताविरोधि ।
तुल्याकृतिभ्यो ऽपि पृथग्जनेभ्यः शीलं विशेषं कुरुते नराणाम्
अकत्थनानामपि धीरभावाद् विनापि वाग्भेदपरिश्रमेण ।
अत्रासनाभ्यानतसर्वलोकं त्यक्तावलेपोद्धवमीश्वरत्वम्
अप्यप्रकाशान्वयसंस्तवानाम् अकुर्वतामप्युपकारसारम् ।
निष्केवले शीलविधौ स्थितानाम् असंस्तुतानामपि यन्नराणाम्
रजांसि पादाश्रयपावितानि प्रणामलब्धानि समुद्वहन्ति ।
चूडाग्रलग्नानि मनुष्यदेवाः श्रीमत्तरं शीलमतः कुलेभ्यः
तस्मान् न दुर्गतिभयेन न राज्यहेतोर्न स्वर्गसंपदभिलाषसमुद्भवेन ।
सेवेत शीलममलं न हि तत्तथा स्याल्लोकार्थसिद्धिपरमस्तु भजेत शीलम्
मूल पाठ: Pāramitāsamāsa · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0