भाषा

ENहिગુ
ग्रंथ पाठ

पारमितासमास · अध्याय 1

1.1

पारमितासमासः
1. दानपारमितासमासः
नमो बुद्धाय ॥
तथागतानां पदम् आरुरुक्षुराश्रित्य रत्नत्रयम् आदरेण ।
बोधौ निधायाविचलं मनश्च कुर्यात् परात्मव्यतिहारम् आदौ

1.2

ततः परं दानविधौ प्रयोगः कार्यस्तथा लोकहितोन्मुखेन ।
यथा स्वगात्राण्यपि याचितस्य न योगसंकोचविरूपता स्यात्

1.3

मात्सर्यदोषोपचयाय यत् स्यान् न त्यागचित्तं परिबृंहयेद् वा ।
तत्त्यक्तुमेवार्हति बोधिसत्त्वः परिग्रहच्छद्ममयं विघातम्

1.4

तद् बोधिसत्त्वः कथम् आददीत रत्नं धनं वा दिवि वापि राज्यम् ।
यत् त्यागचित्तप्रतिपक्षदक्षं संबोधिमार्गावरणं करोति

1.5

संस्मृत्य चर्यातिशयं मुनीनां तदुन्मुखीं स्वामपि च प्रतिज्ञाम् ।
परिग्रहस्नेहविनिग्रहार्थं कुर्याद् इमांश्चेतसि सद्वितर्कान्

1.6

यदा निसृष्टो जगते मयायं कायो ऽपी तत्त्यागकृतो ऽपि धर्मः ।
बाह्ये तदा वस्तुनि सङ्गचित्तं न मे गजस्नानम् इवानुरूपम्

1.7

मांसार्थिनो मांसमिदं हरन्तु मज्जानमप्युद्धरणात् तदर्थी ।
अहं हि लोकार्थमिदं बिभर्मि शरीरकं किं बत वस्तु बाह्यम्

1.8

यथैव भैषज्यमहीरुहस्य त्वक्पत्त्रपुष्पादि जना हरन्ति ।
मदीयमेते ऽपहरन्ति चेति नैवं विकल्पाः समुदाचरन्ति

1.9

तथैव लोकार्थसमुद्यतेन स्वल्पो ऽपि कार्यो न मया विकल्पः ।
दुःखे कृतघ्ने सतताशुचौ च देहे परस्मायुपयुज्यमाने

1.10

आध्यात्मिके चैव महीजलाद्ये बाह्ये महाभूतगणे च तुल्ये ।
इदं ममेदं न ममेति को ऽयम् अज्ञानपङ्काङ्कविधिर्मयापि

1.11

गृह्णीत गात्राण्यपि मे यथेष्टं मा कार्षुरस्मिन् परकीयबुद्धिम् ।
युष्माकमेव स्वमिदं किमर्थं नात्माभिमानो मम कश्चिदत्र

1.12

इत्यद्भुता यस्य भवन्त्यभीक्ष्णं संबुद्धभावानुगुणा वितर्काः ।
तं बोधिसत्त्वातिशयं वदन्ति बुद्धा महासत्त्वमचिन्त्यसत्त्वाः

1.13

एवं स दानप्रतिपत्तिशूरः करोति काये ऽपि न जात्वपेक्षाम् ।
तस्याप्रयत्नादुपयान्ति शुद्धिं कर्माणि वाक्कायमनोमयानि

1.14

विशुद्धकर्मा च हितं परेषाम् आयासदुःखेन विना करोति ।
इत्थं स सत्त्वार्थमभिप्रयत्नो नयानये कौशलमभ्युपैति

1.15

भूयस्तरं प्राप्य बलं स दानात् सद्धर्मदानेन ततः करोति ।
भवान्धकारे भ्रमतां जनानां सूर्योदयात् स्पष्टतरं प्रकाशम्

1.16

साधारणी लोकहितार्थसिद्धिः सर्वज्ञभावाभ्युदयप्रतिष्ठा ।
अतो ऽस्य पुण्याक्षयताभ्युदेति प्रभेव भानोरुदयस्थितस्य

1.17

इत्यद्भुता दानमया गुणौघा ये बोधिसत्त्वाभरणीभवन्ति ।
तस्मात् तदीयं परिकर्म चित्तं दानस्य कारुण्यपुरःसरस्य

1.18

आयुःप्रतीभानबलादि बौद्धं निष्पादयेयं जगतामनेन ।
सत्त्वा मया चामिषसंगृहीताः सद्धर्मपात्राण्यपि मे भवेयुः

1.19

इत्यन्नदानं प्रददाति विद्वान् न स्वर्गसंपत्तिपरिग्रहाय ।
पानान्यपि क्लेशतृषः शमाय लोकस्य लोकार्थचरो ददाति

1.20

बौद्धस्य चैवर्द्धिविचेष्टितस्य निर्वाणसौख्यस्य च सर्वलोकः ।
लाभी कथं स्यादिति लोकनाथो यानं महायानरतिर्ददाति

1.21

संबुद्धवर्णस्य च हेमभासो लज्जामयस्यैव च भूषणस्य ।
निष्पत्तये वस्त्रविधीनुदारान् सत्कृत्य कालानुगुणं ददाति

1.22

संबोधिमण्डासनम् आसनानि शय्याश्च शय्यात्रयम् ईक्षमाणः ।
सर्वज्ञचक्षुःप्रतिलब्धये च चैत्येषु रथ्यासु च दीपमालाम्

1.23

वाद्यानि दिव्यश्रुतिसंग्रहार्थं संबुद्धशीलाय च गन्धदानम् ।
सभाप्रपारामविहारगेहाञ् शरण्यभावाभिमुखो ददाति

1.24

दानं रसानां तु सुसंस्कृताणां रसारसाग्रत्वपरिग्रहाय ।
भैषज्यदानान्यजरामरत्वं लोकान् इमान् प्रापयितुं ददाति

1.25

भुजिष्यतामात्मसमं निनीषुर्दाशीकृतान् क्लेशगणेन लोकान् ।
स दासदास्यादि सदा ददाति दासानुदासानपराकरिष्यन्

1.26

ददाति पुत्रान् दुहितृः प्रियाश्च बोधिप्रियत्वादनवद्यदानम् ।
एकान्तसद्धर्मरतिप्रियश्च क्रीडाविशेषान् रतिहेतुभूतान्

1.27

सुवर्णमुक्तामणिविद्रुमादीन् ददाति सल्लक्षणसंपदर्थम् ।
रत्नप्रदीप्तानि च भूषणानि चित्राण्यनुव्यञ्जनसौष्ठवाय

1.28

ध्यानार्थमुद्यानतपोवनानि सद्धर्मकोषाय च वित्तकोषम् ।
मुनीन्द्रराज्याय ददात्यखिन्नो राज्यानि चाज्ञापनमण्डितानि

1.29

चक्राङ्किताभ्यां चरणोत्तमाभ्याम् संबोधिमण्डाक्रमणोत्सुकत्वात् ।
स निर्विकारश्चरणप्रदानं लोकार्थनिष्पत्तिकरो ददाति

1.30

दुःखापगायामतिशीघ्रगायां मग्नस्य लोकस्य कथं न दद्याम् ।
सद्धर्महस्तानिति संप्रदत्ते हस्तान्विकोषाम्बुरुहप्रकाशान्

1.31

श्रद्धेन्द्रियादिप्रतिपूरणार्थं स कर्णनासादि ददात्यखिन्नः ।
चक्षुश्च चक्षुर्विमलीकरिष्यंल्लोकस्य सर्वावरणप्रहाणात्

1.32

उत्कृत्य मांसानि सशोणितानि ददाति कारुण्यवशेन नाथः ।
भूम्यग्निवाय्वम्बुवदेव मे स्याल्लोकोपजीव्यः कथम् एष कायः

1.33

लोकोत्तमज्ञानसमापनार्थं स उत्तमाङ्गैरपि सत्करोति ।
अभ्यागतस्यार्थिजनस्य याच्ञां प्रागेव देहावयवैस्तदन्यैः

1.34

मज्जानमप्यद्भुतवीरचेष्टो ददाति लोकस्य कथं न कुर्याम् ।
तथागतं विग्रहमप्रधृष्यं वृष्ट्यापि वज्रोज्ज्वलया पतन्त्या

1.35

इत्येवमाद्यं सततानवद्यं तद्बोधिसत्त्वाम्बुधरप्रमुक्तम् ।
प्रह्लाद्य दानाम्बु जगत्समग्रं सर्वज्ञतासागरमभ्युपैति

1.36

अन्विष्य भोगान्विषमेण नासौ ददाति नोत्पीडनया परस्य ।
न त्रासलज्जाप्रतिकारहेतोर्न दक्षिनीयान् परिमार्गमाणः

1.37

न च प्रणीते सति रूक्षदानम् अदक्षिणीया इति वावमन्य ।
विपाककाङ्क्षाकृपणीकृतं वा सत्कारहीनं विजुगुप्सितं वा

1.38

नैवोन्नतिं शीलवते प्रयच्छन् विपर्ययं गच्छति नेतरस्मै ।
नात्मानमुत्कर्षति नैव निन्दां करोति सो ऽन्यस्य समप्रयोगः

1.39

न चास्य मिथ्याशयदानमस्ति नैवास्त्यनध्याशयदानमस्य ।
न क्रोधदोषोपहतं ददाति नैवानुतापं कुरुते स दत्त्वा

1.40

न श्लाघ्यमानो विपुलं ददाति नाश्लाघ्यमानो ऽन्यतरं ददाति ।
न याचकानामुपघातदानं यद् वा भवेद् विप्रतिपत्तिहेतुः

1.41

नाकालदानं स ददाति किंचिद् ददाति काले विषमे ऽपि नैव ।
न देवभावाय न राज्यहेतोर्न हीनयानस्पृहयालुभावात्

1.42

नासौ मुखोल्लोकनया ददाति न कीर्तिशब्दाय न हास्यहेतोः ।
पर्याप्तमेतच्च ममेति नैवं यद्वा विहिंसाहसितं परेषाम्

1.43

सर्वज्ञभावापरिणामितं वा सगर्हितं वा स ददाति नैव ।
ततो ऽस्य तत् पारमिताभिधानं परां विशुद्धिं समुपैति दानम्

1.44

दानोद्भवं तस्य च पुण्यराशिं लोकात् समग्रादपि पिण्डितानि ।
पुण्यानि नैवाभिभवन्ति यस्माल्लोकोत्तमत्त्वं स ततो ऽभ्युपैति

1.45

पञ्चस्वभिज्ञासु विनिश्चितात्मा लोकाय यद्वर्षति दानवर्षम् ।
समन्ततस्तस्य कुतः प्रमाणं परिक्षयो वा सततप्रवृत्तेः

1.46

यदक्षयाणां जगतां हिताय ज्ञानस्य हेतुश्च यदक्षयस्य ।
त्रैधातुकेन क्षयिणा न तच्च संलिप्यते व्योमवदम्बुदेन

1.47

तच्छून्यताकारसमाहितं च निमित्तदोषैः परिवर्जितं च ।
अकिंचनक्लेशवियोगसिद्धेस्तेनाक्षयं तत्कथितं मुनीन्द्रैः

1.48

अस्मिन् पुनः सत्पुरुषावदाने दाने निदाने सुखविस्ताराणाम् ।
चिकीर्षता योगमनित्यसंज्ञा भोगेषु कार्या करुणा च लोके

1.49

भोगाननित्यानभिवीक्षमानः सात्म्यं गतायां च ततः कृपायाम् ।
स निश्चयं गच्छति दीयते यद् एतान् मदीयां न तु यद्गृहे मे

1.50

यद्दत्तम् अस्मान् न भयं कदा चिद् गेहे यदस्माद्भयमभ्युपैति ।
साधारणं रक्ष्यमतर्पकं च दत्ते तु नैते प्रभवन्त्यनर्थाः

1.51

सुखं परत्रापि करोति दत्तम् इहैव दुःखं प्रकरोत्यदत्तम् ।
उल्कास्वभावं हि धनं नराणाम् अत्यज्यमानं व्यसनं ददाति

1.52

अदीयमानं निधनं प्रयाति निधानतां याति हि दीयमानम् ।
धनस्य निःसारलघोः स सारो यद्दीयते लोकहितोन्मुखेन

1.53

यद्दत्तमेतद्विदुषां प्रशस्यं बालो जनस्तन्निचयप्रशंसी ।
प्रायो वियोगो हि परिग्रहेभ्यो दानाद्भवत्यभ्युदयो यशश्च

1.54

दत्तं न तत्क्लेशपरिग्रहाय क्लेशाय मात्सर्यमनार्यधर्मः ।
यद्दीयते सत्पथ एष तस्माद् अतो ऽन्यथा कापथमाहुरार्याः

1.55

अभ्यागते याचनके च तेन संबोधिसंभारविवृद्धिहेतौ ।
तत्प्रेष्यसंज्ञात्मनि संनिवेश्या कल्याणमित्रप्रियता च तस्मिन्

1.56

महात्मनां यत्प्रतनूभवन्ति रागादयो याचनकान्निशम्य ।
तेनोत्सवाभ्यागममप्यतीत्य तेषां प्रियं याचनकोपयानम्

1.57

स चेत्पुनर्याचनके ऽपि लब्धे दातुं न शक्नोत्यतिदुर्बलत्वात् ।
तेनानुनेयो मधुरेण साम्ना स याचकः स्यान्न यथा समन्युः

1.58

कार्यश्च मात्सर्यविनिग्रहाय मोहप्रहाणाय च तेन यत्नः ।
तथा यथा याचनकः कदा चिद् वैमुख्यदीनो न ततो व्यापैति

1.59

संबोधिचित्तं कुत एव तस्य द्रव्ये ऽपि यो मत्सरमभ्युपैति ।
वासः सुचित्तस्य हि नास्ति दोषैरम्भोनिधानस्य शवैर्यथैव

1.60

तस्मात् त्यक्त्वा सर्वतः सर्वदोषान् बोधिप्रार्थी सर्वदा सर्वदः स्यात् ।
त्रातुं लोकानेकवीरः क्व चित्तं चेष्टा दैन्यानूर्जितेयं क्व चैव

1.61

मूलं दानस्यास्य संबोधिचित्तं तन्न त्याज्यं दित्सता दानमीदृक् ।
तं संबुद्धास्त्यागिनामग्रमाहुर्यो लोकेषु त्यागमाधित्सुरग्रम्

मूल पाठ: Pāramitāsamāsa · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc