भाषा

ENहिગુ
ग्रंथ पाठ

पारमितासमास · अध्याय 3

3.1

॥ शीलपारमितासमासः ॥
3. क्षान्तिपारमितासमासः
संमोहनीं मन्मथपक्षमायां प्राहुः सुखां चैव विमोक्षमायाम् ।
तस्यां न कुर्यात् कैव क्षमायां प्रयत्नमेकान्तहितक्षमायाम्

3.2

परापराधेषु सदानभिज्ञा व्यवस्थितिः सत्त्ववतां मनोज्ञा ।
गुणाभिनिर्वर्तितचारुसंज्ञा क्षमेति लोकार्थचरी कृपाज्ञा

3.3

परार्थमभ्युद्यतमानसानां दीक्षां तितिक्षां प्रथमां वदन्ति ।
सेतुर्जलानीव हि रोषदोषः श्रेयांसि लोकस्य समावृणोति

3.4

अलंक्रिया शक्तिसमन्वितानां तपोधनानां बलसंपदग्रा ।
व्यापाददावानलवारिधारा प्रेत्येह च क्षान्तिरनर्थशान्तिः

3.5

क्षमामये वर्मणि सज्जनानां विकुण्ठिता दुर्जनवाक्यबाणाः ।
प्रायः प्रशंसाकुसुमत्वमेत्य तत्कीर्तिमालावयवा भवन्ति

3.6

प्रतिक्रिया दुर्जनवाग्विषाणां प्रह्लादनी ज्ञाननिशाकराभा ।
धीरप्रकारा प्रकृतिर्यतीनां क्षान्तिर्गुणानाम् अधिवासभूमिः

3.7

सत्त्वस्य गाम्भीर्यमयस्य सारो घनागमः क्रोधनिदाघशान्त्यै ।
व्यतीतवेलस्य गुणार्णवस्य व्यापी स्वनः क्षान्तिमयो ऽभ्युदेति

3.8

आ ब्रह्मलोकादधिरोहाणार्था सोपानपङ्क्तिर्गतखेददोषा ।
कर्मान्तशाला गुणशीभरस्य रूपस्य सल्लक्षणभूषणस्य

3.9

उन्मूलनी वैरफलाचितानां क्षमासरिद्दोषमहाद्रुमाणाम् ।
संबोधिचित्तस्य विवर्धितस्य गुणाम्बुरशेः सततानुकूला

3.10

शुभा परत्रापि हिते समृद्धिर्जगद्धितार्थस्य परा विवृद्धिः ।
शुभस्वभावातिशयप्रसिद्धिः क्षान्तिर्मनःकायवचोविशुद्धिः

3.11

संसारदोषैर्न च च्छेदमेति सत्त्वान् कृपास्निग्धमवेक्षमाणः ।
सत्कर्मभिर्लोकहितैः समन्ताद् यशोमयत्वं व्रजतीव लोके

3.12

न स्पृश्यते विस्मयवाच्यदोषैर्ज्ञानावदानेन तितिक्षुरेव ।
अनित्यताक्षान्तिबलोदयाच्च प्रहर्षमायाति सुखे ऽपि नैव

3.13

संकोचमायाति न चायशोभिर्विसारिणा क्षान्तिबलश्रयेण ।
अतश्च शेषैरपि लोकधर्मैरनिश्रितत्वान्न स चापलीति

3.14

तीव्रप्रकारैरपि विप्रकारैर्न विक्रियां यान्ति सतां मनांसि ।
दृढाभिलाषाणि मुनीन्द्रभावे क्षान्त्या बलाधानसुसंस्कृतानि

3.15

स क्षान्तिधीरेण च मानसेन कष्टानि संदर्शयते तपांसि ।
दर्पोन्नतिं तीर्थकृतां मनःसु नीचैः करिष्यन् हितकाम्ययैव

3.16

लोको ऽयमात्माभिनिवेशसमूढः शेषान् परानित्यभिमन्यमानः ।
तद्विप्रकारैरभिभूतचेता<;ः>; क्षमावियोगात् परिखेदमेति

3.17

कृपासनाथानि सतां मनांसि क्षान्त्या कृतस्वस्त्ययनक्रियाणि ।
नष्टात्मदृष्टिणि परापकारान् न विक्रियां यान्ति गुणानुरागात्

3.18

मिथ्याविकल्पो हृदयज्वरस्य क्रोधस्य हेतुर्धृतिदुर्बलानाम् ।
सम्यग्विकल्पस्तु समादधाति क्षान्तिप्रकारां मनसः प्रशान्तिम्

3.19

विकल्पसन्निश्रयसंश्रितायां क्षान्त्यां न तु स्याच्चलितावकाशः ।
प्रत्यूषवातस्फुरिते ऽम्भसीव संपूर्णचन्द्रप्रतिबिम्बलक्षयाः

3.20

विकल्पशान्तिं परमार्थतस्तु क्षान्तिं क्षमातत्त्वविदो वदन्ति ।
तस्माद्विकल्पोपशमे यतेत स्वप्नोपमं लोकमवेक्षमाणः

3.21

चक्षुः किम् आक्रोशति चक्षुरेतच्छ्रोत्रादि वाक्रोशति किं तदादि ।
यैवं क्षमा सायतनान्ववेक्षा न क्षान्तिरेषा परमार्थतस्तु

3.22

वक्ता वचश्चैतदनित्यमेव श्रुतिर्विकल्पो ऽपि च यो ममायम् ।
अनित्यभावप्रविकल्पनैषा न क्षान्तिमेताम् परमां वदन्ति

3.23

कर्तापकारस्य न कश्चिदस्ति नैवास्ति कश्चित्क्रियाते च यस्य ।
नैरात्मसंदर्शनसिद्धिरेषा न क्षान्तिरेषापि गतप्रकर्षा

3.24

तत्तत्प्रतीत्य प्रभवन्ति भावा निन्दाप्रशंसासुखदुःखसंज्ञाः ।
प्रतीत्यसिद्धेरवतारभूमिर्न क्षान्तिरत्यन्तसमाहितैषा

3.25

यद्येसा संमोहमहाग्रहेण पर्यस्तचेता ननु नाहमेवम् ।
इत्युन्नते चावनते च चित्ते क्षान्तिप्रकर्षस्य कुतो ऽवकाशः

3.26

प्रध्वंसिनी वर्णलवप्रतिश्रुद्यन्त्रादिवैकैकश उच्चरन्ती ।
कुर्यां कथं कस्य च कां च पीडाम् एषापि न क्षान्तिरतिप्रकृष्टा

3.27

यद्येसा मत्पापपरिक्षयार्थं न वीक्षते स्वामपि धर्मपीडाम् ।
अस्मान् न कल्याणतरं हि मित्रम् असावपि क्षान्त्युपचारा एव

3.28

कर्मस्वतां एव हि वीक्षमाणस्तितिक्षते तद्गुणदर्शनाच्च ।
नैवंप्रकारापि हि नैष्ठिकत्वं क्षान्तिर्विकल्पोपहता प्रयाति

3.29

अनित्यदुःखाशुचिनिःस्वभावता मम क्षमन्ते न तु तद्विपर्ययाः ।
इयं विपक्षप्रशमक्षमा क्षमा द्वयप्रवृत्तेर्न तु पारमार्थिकी

3.30

अयत्नतत्त्वार्थविचक्षणो जनः परोपकारेषु यतः प्रवर्तते ।
क्षमा न चैवं समतां समेति या यतः क्षमैवं न विकल्पनक्षया

3.31

निरोधम् आयान्ति यदा त्वशेषताः समाधिकन्यूनविकल्पनक्रमाः ।
अनुत्तरां क्षान्तिममानगोचरां वदन्ति तामद्वायमार्गचारिणाः

3.32

स्वतः परस्मादुभयादहेतुतो यथा न भावाः प्रभवन्ति के चन ।
स्वतः परस्माद् उभयाद् अहेतुतस्तथा न भावा विभवन्ति के चन

3.33

नष्टाद् अनष्टाद् उभयाच् न नोभयान् न जातु कार्यं खलु विद्यते क्व चित् ।
तथापि कार्यं समुदेति वस्तुनो येत्थं क्षमा सा द्वयवर्जिता क्षमा

3.34

सतो ऽसतो वास्ति न जन्म जन्मना विना निरोधो ऽपि न कस्य चित् क्व चित् ।
स्वभावशून्यामिति भावकल्पनां विपश्यतः क्षान्तिरुदेति नैष्ठिकी

3.35

अवाप्य यां व्याक्रियते सहस्रशो जिनैरसौ नाम जिनो भविष्यति ।
प्रवर्तते लोकहितक्रियाविधिः समाहितस्यैव च तस्य सर्वदा

3.36

यावच्च भावाभिनिविष्टबुद्धिरत्र द्वयं तावदुपैति मोहात् ।
तथानिमित्तं च विमोक्षहेतुर्दुरे भवत्यस्य यथा क्षितेः खम्

3.37

उपैति धर्मप्रणिधानकर्मसु प्रभुत्वमृद्धावधिमुक्तिजन्मसु ।
तथा परिष्कारविधौ स्वचेतसि प्रकर्षिणि ज्ञानबले तथायुषि

3.38

अवाप्य चैतद्वशितामयं धनं प्रकृष्टं अक्षिष्णु परार्थसाधनम् ।
जनस्य कृच्छ्रेषु पतिष्यतः सतः स जायते धारणकारणं विभुः

3.39

तस्मात् परार्थमहतीं धुरमुद्वहद्भिः क्षान्तेरुपायविधिरेष सदानुगम्यः ।
अत्र स्थितस्य हि भवन्ति परार्थचित्ताः सर्वा<;ः>; क्रिया गुणफलाभरणाभिरामाः

3.40

अस्यां हि भक्तिरपि या प्रविरूढमूला तामभ्यसन्ति मुनयो मुनिराजभावे ।
श्रद्धानुविद्धमनसां न हि धर्ममार्गे दृष्टो मनोरथरथस्य यतो ऽक्षभङ्गः

मूल पाठ: Pāramitāsamāsa · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc