भाषा

ENहिગુ
ग्रंथ पाठ

पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता · भाग 6180

13101 नाभिज्ञासु स्थातव्यम्। तत् कस्य हेतोः। अभिज्ञा एव शून्या अभिज्ञा-
13102 स्वभावेन या च भगवन्न् अभिज्ञाशून्यता न ता अभिज्ञा न चान्यत्र शून्यताया
13103 अभिज्ञा अभिज्ञा एव शून्यता शून्यतैवाभिज्ञा। तद् अनेन भगवन् पर्यायेण
13104 {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} नाभिज्ञासु स्थातव्यम्।
13105 पुनर् अपरं {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न रूपम् अनित्यम् इति {स्थातव्यं}। न वेदना न संज्ञा न
13106 संस्कारा न विज्ञानम् अनित्यम् इति {स्थातव्यं}। तत् कस्य हेतोः। तथा हि रूपानित्यता
13107 अनित्यतास्वभावेन शून्या या च भगवन् रूपानित्यता शून्यता न सा
13108 अनित्यता न चान्यत्र शून्यताया अनित्यता अनित्यतैव शून्यता शून्यतैव
13109 अनित्यता। तद् अनेनापि भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} रूपम् अनित्यम् इति न
13110 स्थातव्यं {{वेदनानित्येति न स्थातव्यं संज्ञानित्येति न स्थातव्यं संस्कारा अनित्या इति न स्थातव्यं विज्ञानम् अनित्यम् इति न स्थातव्यम्}}।
13111 एवं न रूपं दुःखम् इति {स्थातव्यं}। न वेदना न संज्ञा न संस्कारा न विज्ञानं
13112 दुःखम् इति स्थातव्यं। तत् कस्य हेतोः। तथा हि रूपदुःखता दुःखतास्वभावेन
13113 शून्या। या च भगवन् रूपदुःखताशून्यता न सा दुःखता न चान्यत्र शून्यताया
13114 दुःखता दुःखतैव शून्यता शून्यतैव दुःखता। तद् अनेनापि भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता}
13115 न रूपं दुःखम् इति स्थातव्यम्। न वेदना न संज्ञा न संस्कारा न विज्ञानम्। तत्
13116 कस्य हेतोः। तथा हि विज्ञानदुःखता दुःखतास्वभावेन शून्या। या च भगवन्
13117 विज्ञानदुःखताशून्यता न सा दुःखता न चान्यत्र शून्यताया दुःखता दुःखतैव
13118 शून्यता शून्यतैव दुःखता। तद् अनेनापि भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न विज्ञानम्
13119 दुःखम् इति स्थातव्यम्। {{एवं न रूपम् अनात्मम् इति स्थातव्यं। न वेदना न संज्ञा न संस्कारा न विज्ञानं अनात्मम् इति स्थातव्यं। तत् कस्य हेतोः। तथा हि रूपानात्मतानात्मतास्वभावेन शून्या। या च भगवन् रूपानात्मताशून्यता न सानात्मता न चान्यत्र शून्यताया अनात्मतानात्मतैव शून्यता शून्यतैवानात्मता। तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपम् अनात्मम् इति स्थातव्यम्। न वेदना न संज्ञा न संस्कारा न विज्ञानम्। तत् कस्य हेतोः। तथा हि विज्ञानानात्मतानात्मतास्वभावेन शून्या। या च भगवन् विज्ञानानात्मताशून्यता न सानात्मता न चान्यत्र शून्यताया अनात्मतानात्मतैव शून्यता शून्यतैवानात्मता। तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न विज्ञानम् अनात्मम् इति स्थातव्यम्। एवं न रूपं शान्तम् इति स्थातव्यं। न वेदना न संज्ञा न संस्कारा न विज्ञानं शान्तम् इति स्थातव्यं। तत् कस्य हेतोः। तथा हि रूपशान्तता शान्ततास्वभावेन शून्या। या च भगवन् रूपशान्तताशून्यता न सा शान्तता न चान्यत्र शून्यताया शान्तता शान्ततैव शून्यता शून्यतैव शान्तता। तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपं शान्तम् इति स्थातव्यम्। न वेदना न संज्ञा न संस्कारा न विज्ञानम्। तत् कस्य हेतोः। तथा हि विज्ञानशान्तता शान्ततास्वभावेन शून्या। या च भगवन् विज्ञानशान्तताशून्यता न सा शान्तता न चान्यत्र शून्यताया शान्तता शान्ततैव शून्यता शून्यतैव शान्तता।}}
13120 तद् अनेनापि
13201 भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न विज्ञानं शान्तम् इति {स्थातव्यं}। एवं हेतु-
13202 समुदयप्रभवप्रत्ययतायां न {स्थातव्यं}।
13203 पुनर् अपरं भगवन् {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} तथतायां न {स्थातव्यं}। तत् कस्य हेतोः। तथा हि
13204 तथता तथतास्वभावेन शून्या। या च भगवंस् तथतायाः शून्यता न सा तथता
13205 न चान्यत्र तथतायाः शून्यता तथतैव शून्यता शून्यतैव तथता। तद् अनेनापि
13206 भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} तथतायां न स्थातव्यम् एव धर्मतायाम् न स्थातव्यम्।
13207 तत् कस्य हेतोः। तथा हि धर्मता धर्मतास्वभावेन शून्या
13208 {{या च भगवंस् धर्मतायाः शून्यता न सा धर्मता न चान्यत्र धर्मतायाः शून्यता धर्मतैव शून्यता शून्यतैव धर्मता। तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मतायां न स्थातव्यम्। धर्मधातौ न स्थातव्यम्। तत् कस्य हेतोः। तथा हि धर्मधातुर् धर्मधातुस्वभावेन शून्यो या च भगवंस् धर्मधातोः शून्यता न स धर्मधातुर् न चान्यत्र धर्मधाओः शून्यता धर्मधातुर् एव शून्यता शून्यतैव धर्मधातुः। तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मधातौ न स्थातव्यम्। धर्मनियामतायां न स्थातव्यम्। तत् कस्य हेतोः। तथा हि धर्मनियामता धर्मनियामतास्वभावेन शून्या या च भगवंस् धर्मनियामतायाः शून्यता न सा धर्मनियामता न चान्यत्र धर्मनियामतायाः शून्यता धर्मनियामतैव शून्यता शून्यतैव धर्मनियामता। तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मनियामतायां न स्थातव्यम्। भूतकोट्यां न स्थातव्यम्। तत् कस्य हेतोः। तथा हि भूतकोटिर् भूतकोटिस्वभावेन शून्या या च भगवंस् भूतकोट्याः शून्यता न सा भूतकोटिर् न चान्यत्र भूतकोट्याः शून्यता भूतकोटिर् एव शून्यता शून्यतैव भूतकोटिः। तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता भूतकोट्यां न स्थातव्यम्}}।
13209 पुनर् अपरं भगवन् {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} सर्वधारणीमुखेषु न स्थातव्यम्। तत् कस्य
13210 हेतोः। तथा हि धारणीमुखानि धारणीमुखैः शून्यानि {{या च भगवंस् धारणीमुखानां शून्यता न तानि धारणीमुखानि न चान्यत्र धारणीमुखेभ्यः शून्यता धारणीमुखान्य् एव शून्यता शून्यतैव धारणीमुखानि। तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता}}
13211 धारणीमुखेषु न स्थातव्यम्।
13212 पुनर् अपरं भगवन् {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् अनुपायकुशलो
13213 ऽहङ्कारममकारपतितेन मानसेन सचेद् रूपे तिष्ठति रूपाभिसंस्कारे चरति
13214 न चरति प्रज्ञापारमितायाम्। सचेद् वेदनायां संज्ञायां संस्कारेषु सचेद्
13215 विज्ञाने तिष्ठति विज्ञानाभिसंस्कारे चरति न चरति प्रज्ञापारमितायाम्। तत्

13216 कस्य हेतोः। न ह्य् अभिसंस्कारे चरन् प्रज्ञापारमितायां परिगृह्णाति न प्रज्ञापार-
13217 मितायां योगम् आपद्यते न प्रज्ञापारमितां परिपूरयति, अपरिपूरयन् प्रज्ञापार-
13218 मितां न निर्यास्यति सर्वाकारज्ञतायाम्। तत् कस्य हेतोः। तथा हि भगवन्
13219 रूपम् अपरिगृहीतं वेदनासंज्ञासंस्काराविज्ञानम् अपरिगृहीतम्। तत् कस्य हेतोः। यश् च
13220 रूपस्यापरिग्रहो न तद् रूपम् प्रकृतिशून्यताम् उपादाय वेदनासंज्ञासंस्कारा यश् च

13221 विज्ञानस्यापरिग्रहो न तद् विज्ञानं प्रकृतिशून्यताम् उपादाय एवं यावद्
13222 भूतकोटिर् अपरिगृहीता। तत् कस्य हेतोः। यश् च भाउतकोट्या अपरिग्रहो न सा
13223 भूतकोटिः प्रकृतिशून्यताम् उपादाय एवं {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} प्रकृतिशून्याः सर्वधर्माः
13301 प्रत्यवेक्षितव्याः। तथा च प्रत्यवेक्षितव्या यथा न क्वचिद् धर्मे मनसो
13302 व्युपचारो भवेत्। इदं {बोधिसत्त्वस्य} महासत्त्वस्य सर्वधर्मापरिगृहीतं नाम
13303 समाधिमण्डलं विपुलं पुरस्कृतम् अप्रमाणं नियतम् असंहार्यं सर्वश्रावक-
13304 प्रत्येकबुद्धैः। सापि सर्वाकारज्ञता अपरिगृहीता अध्यात्म{शून्यताम् उपादाय} बहिर्धा{शून्यताम् उपादाय}
13305 अध्यात्मबहिर्धा{शून्यताम् उपादाय} महा{शून्यताम् उपादाय} शून्यता{शून्यताम् उपादाय} परमार्थ{शून्यताम् उपादाय} संस्कृत{शून्यताम् उपादाय}
13306 असंस्कृत{शून्यताम् उपादाय} अत्यन्त{शून्यताम् उपादाय} अनवराग्र{शून्यताम् उपादाय} अनवकार{शून्यताम् उपादाय} प्रकृति{शून्यताम् उपादाय} सर्वधर्म{शून्यताम् उपादाय}
13307 स्वलक्षण{शून्यताम् उपादाय} अनुपलम्भ{शून्यताम् उपादाय} अभावस्वभाव{शून्यताम् उपादाय} भाव{शून्यताम् उपादाय} अभाव{शून्यताम् उपादाय}
13308 स्वभाव{शून्यताम् उपादाय} परभावशून्यताम् उपादायेति [मृदुमूर्द्धगतस्यालम्बनाकारविशेषः॥]
13309 तत् कस्य हेतोः। तथा हि न भगवन् सर्वाकारज्ञता निमित्ततः उद्ग्रहीतव्या,
13310 निमित्तम् हि क्लेशः। कतमत् पुनर् निमित्त। रूपं निमित्तं {{वेदना निमित्तं संज्ञा निमित्तं संस्कारा निमित्तं}} विज्ञानं
13311 निमित्तम्। चक्षुर् निमित्तम् {{श्रोत्रं निमित्तम् घ्राणं निमित्तम् जिह्वा निमित्तम् कायो निमित्तम्}} मनो निमित्तं, रूपं निमित्तं {{शब्दो निमित्तं गन्धो निमित्तं रसो निमित्तं स्प्रष्टव्यं निमित्तं}} धर्मो
13312 निमित्तं, स्मृत्युपस्थान{{सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गबलवैशारद्यप्रतिसंविदावेणिक}}बुद्धधर्मशून्यतानिमित्ताप्रणिहितानभि-
13313 संस्कारधर्मधातुधर्मताधर्मनियामताभूतकोटि निमित्तम् अयम् उच्यते क्लेशः, स-
13314 चेत् पुनः प्रज्ञापारमिता निमित्तत उद्ग्रहीतव्या अभविष्यन् नैवेह श्रेणिकः
13315 परिव्राजकः शासने श्रद्धाम् अलप्स्यत। अत्र सर्वज्ञज्ञाने कतमा च श्रद्धा येयं
13316 प्रज्ञापारमितायाम् अभिश्रद्दधानता अवकल्पनता अधिमुख्तिश् चिन्तना तुलना
13317 व्युपपरीक्षणा तच् चानिमित्तयोगेन। एवम् अनिमित्तत उद्ग्रहीतव्या अत्र पुनः
13401 श्रेणिकः परिव्राजकः अधिमुच्य श्रद्धानुसारी प्रादेशिकेन ज्ञानेनावतीर्णः।
13402 सो ऽवतीर्य न रूपं परिगृहीतवान् न वेदनां न संज्ञां न संस्कारान् न विज्ञानं परी-
13403 गृहीतवान्। तत् कस्य हेतोः। तथा हि स तेन स्वलक्षणशून्येषु धर्मेषु न कश्चिद् धर्मः
13404 परिगृहीतो निमित्तामनसिकारताम् उपादाय। तत् कस्य हेतोः। तथा हि स
13405 नाध्यात्मप्राप्त्यभिसमयतस् तज्ज्ञानं समनुपश्यति। न बहिर्धाप्राप्त्यभि-
13406 समयतस् तज्ज्ञानं समनुपश्यति, नाध्यात्मबहिर्धाप्राप्त्यभिसमयतस् {तज्ज्ञानं समनुपश्यति।}
13407 नाप्य् अन्यत्र प्राप्त्यभिसमयतस् {तज्ज्ञानं समनुपश्यति}। तत् कस्य हेतोः। तथा हि स तम् धर्मं न
13408 समनुपश्यति, यो वा प्रजानीयाद् येन वा प्रजानीयात्। तत् कस्य
13409 हेतोः। नाध्यत्मं रूपस्य {तज्ज्ञानं समनुपश्यति}, नाध्यात्मं वेदनायास् {तज्ज्ञानं समनुपश्यति}, नाध्यात्मं
13410 संज्ञायास् {तज्ज्ञानं समनुपश्यति}, नाध्यात्मं संस्काराणां {तज्ज्ञानं समनुपश्यति}, नाध्यत्मं विज्ञानस्य {तज्ज्ञानं समनुपश्यति},
13411 न बहिर्धारूपस्य {तज्ज्ञानं समनुपश्यति} न बहिर्धावेदनाया न बहिर्धासंज्ञानां न बहिर्धा-
13412 संस्काराणां न बहिर्धाविज्ञानस्य {तज्ज्ञानं समनुपश्यति}, नाध्यात्मबहिर्धारूपस्य {तज्ज्ञानं समनुपश्यति}
13413 {{नाध्यात्मबहिर्धावेदनायाः तज्ज्ञानं समनुपश्यति नाध्यात्मबहिर्धासंज्ञायाः तज्ज्ञानं समनुपश्यति नाध्यात्मबहिर्धासंस्काराणां तज्ज्ञानं समनुपश्यति}} नाध्यात्मबहिर्धाविज्ञानस्य {तज्ज्ञानं समनुपश्यति}, नाप्य् अन्यत्र रूपात् {तज्ज्ञानं समनुपश्यति}
13414 नाप्य् अन्यत्र वेदनायाः {{तज्ज्ञानं समनुपश्यति नाप्य् अन्यत्र संज्ञायाः तज्ज्ञानं समनुपश्यति नाप्य् अन्यत्र संस्कारेभ्यः तज्ज्ञानं समनुपश्यति}} नाप्य् अन्यत्र विज्ञानात् {तज्ज्ञानं समनुपश्यति}अध्यात्म-
13415 बहिर्धाशून्यताम् उपादाय। अत्र पदपर्याये श्रेणिकः परिव्राजको ऽधिमुक्तः
13416 सो ऽत्राधिमुच्य श्रद्धानुसारी प्रादेशिकेन ज्ञानेनावतीर्णः सर्वज्ञज्ञानधर्मतां
13417 प्रमाणीकृत्य सर्वधर्मानुपलब्धिताम् उपादाय, एवम् अधिमुक्तस् तेन न कश्चिद्
13418 धर्मः परीगृहीतो निमित्तामनसिकारताम् उपादाय, नाप्य् अनेन कश्चिद् धर्म
13419 उपलब्धो ऽयं परिगृह्णीयाद् वा मुञ्चेद् वा सर्वधर्मानुद्ग्रहानुत्सर्गताम् उपादाय,
13501 स निर्वाणेनापि न मन्यते सर्वधर्मानुद्ग्रहानुत्सर्गताम् उपादाय। तत् कस्य

13502 हेतोः। यः सर्वधर्माणाम् अपरिग्रहो ऽनुत्सर्गः सा प्रज्ञापारमिता। इयम् अपि भगवन्
13503 {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमिता अपारपारगताम् उपादाय, यद् रूपं न
13504 परिगृह्णाति {{यां वेदनां न परिगृह्णाति यां संज्ञां न परिगृह्णाति यान् संस्कारान् न परिगृह्णाति}} यद् विज्ञानं न परिगृह्णाति सर्वधर्मापरिगृहीतताम् उपादाय
13505 यावद् व्यस्तसमस्तां स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्मृत्युपस्थान-
13506 {{सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गबलवैशारद्यप्रतिसंविदावेणिक}}बुद्धधर्मशून्यतानिमित्ताप्रणिहितानभिसंस्कारधर्मधातुधर्मताधर्म-
13507 नियामतासमाधिमुखधारणीमुखानि यावत् समाधिं न परिगृह्णाति सर्वधर्मा-
13508 परिगृहीतताम् उपादाय, न चान्तरापरिनिर्वाणापरिपूर्णैः प्रणिह्दानै-
13509 र् यावद् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादश-
13510 भिर् आवेणिकैर् बुद्धधर्मैः। तत् कस्य हेतोः। तथा हि सर्वधर्मा अधर्मा यावत्
13511 स्मृत्युपस्थान{{सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गबलवैशारद्यप्रतिसंविदावेणिक}}बुद्धधर्मा अधर्मा नापि ते धर्मा नाधर्माः, इयं
13512 {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमिता सर्वधर्मापरिगृहीतताम् उपादाय॥ [इति मध्य-
13513 मूर्ध्वगतालम्बनाकारविशेषः॥]
13514 पुनर् अपरं भगवन् {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां चरता एवं
13515 व्युपपरीक्षितव्यं, कतमैषा प्रज्ञापारमिता, कस्य वैषा प्रज्ञापारमिता, किम् एषा
13516 प्रज्ञापारमिता, केनैषा प्रज्ञापारमिता, सचेत् पुनः {बोधिसत्त्वो} महासत्त्वः
13517 प्रज्ञापारमितायां चरन्न् एवम् उपनिध्यायति तत् किं यो धर्मो न विद्यते
13518 नोपलभ्यते सा प्रज्ञापारमितेति न चरति प्रज्ञापारमितायां। अथ खलु
13519 आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्। कतमे ते आयुष्मन्
13520 सुभूते धर्मा न विद्यन्ते नोपलभ्यन्ते। सुभूतिर् आह। प्रज्ञापारमिता आयुष्मन्
13601 शारिपुत्र न विद्यते नोपलभ्यते, ध्यान{पारमिता न विद्यते नोपलभ्यते} वीर्य{पारमिता न विद्यते नोपलभ्यते} क्षान्ति{पारमिता न विद्यते नोपलभ्यते} शील{पारमिता न विद्यते नोपलभ्यते}
13602 दान{पारमिता न विद्यते नोपलभ्यते} अध्यात्मशून्यताम् उपादाय बहिर्धाशून्यताम् उपादाय {{अध्यात्मबहिर्धाशून्यताम् उपादाय महाशून्यताम् उपादाय शून्यताशून्यताम् उपादाय परमार्थशून्यताम् उपादाय संस्कृतशून्यताम् उपादाय असंस्कृतशून्यताम् उपादाय अत्यन्तशून्यताम् उपादाय अनवराग्रशून्यताम् उपादाय अनवकारशून्यताम् उपादाय प्रकृतिशून्यताम् उपादाय सर्वधर्मशून्यताम् उपादाय स्वलक्षणशून्यताम् उपादाय अनुपलम्भशून्यताम् उपादाय अभावस्वभावशून्यताम् उपादाय भावशून्यताम् उपादाय अभावशून्यताम् उपादाय स्वभावशून्यताम् उपादाय}}
13603 परभावशून्यताम् उपादाय रूपम् आयुष्मन् शारिपुत्र {न विद्यते नोपलभ्यते} {{वेदनायुष्मन् शारिपुत्र न विद्यते नोपलभ्यते संज्ञायुष्मन् शारिपुत्र न विद्यते नोपलभ्यते संस्कारा आयुष्मन् शारिपुत्र न विद्यन्ते नोपलभ्यन्ते }} विज्ञानम् आयुष्मन्
13604 शारिपुत्र {न विद्यते नोपलभ्यते} अध्यात्मशून्यता आयुष्मन् शारिप्तुर {न विद्यते नोपलभ्यते} बहिर्धाशून्यता {न विद्यते नोपलभ्यते}
13605 {{अध्यात्मबहिर्धाशून्यता न विद्यते नोपलभ्यते महाशून्यता न विद्यते नोपलभ्यते शून्यताशून्यता न विद्यते नोपलभ्यते परमार्थशून्यता न विद्यते नोपलभ्यते संस्कृतशून्यता न विद्यते नोपलभ्यते असंस्कृतशून्यता न विद्यते नोपलभ्यते अत्यन्तशून्यता न विद्यते नोपलभ्यते अनवराग्रशून्यता न विद्यते नोपलभ्यते अनवकारशून्यता न विद्यते नोपलभ्यते प्रकृतिशून्यता न विद्यते नोपलभ्यते सर्वधर्मशून्यता न विद्यते नोपलभ्यते स्वलक्षणशून्यता न विद्यते नोपलभ्यते अनुपलम्भशून्यता न विद्यते नोपलभ्यते अभावस्वभावशून्यता न विद्यते नोपलभ्यते भावशून्यता न विद्यते नोपलभ्यते अभावशून्यता न विद्यते नोपलभ्यते स्वभावशून्यता न विद्यते नोपलभ्यते}} परभावशून्यता {न विद्यते नोपलभ्यते} यावत् सप्तत्रिंशद् बोधिसपक्षा धर्मा {न विद्यन्ते नोपलभ्यन्ते}
13606 अभिज्ञा {न विद्यते नोपलभ्यते} दशबलवैशारद्यप्रतिसंविदष्टादशावेणिका बुद्धधर्मा {न विद्यन्ते नोपलभ्यन्ते}, तथता
13607 {न विद्यते नोपलभ्यते}, धर्मता {न विद्यते नोपलभ्यते}, धर्मस्थितिता {न विद्यते नोपलभ्यते}, धर्मनियामता {न विद्यते नोपलभ्यते}, भुतकोटिर् {न विद्यते नोपलभ्यते}
13608 बुद्धो ऽप्य् आयुष्मन् शारिपुत्र {न विद्यते नोपलभ्यते}, सर्वाकारज्ञताप्य् आयुष्मन् शारिपुत्र {न विद्यते नोपलभ्यते}
13609 अध्यात्मशून्यताम् उपादाय यावत् परभावशून्यताम् उपादाय सचेत् पुनः
13610 शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्न् एवम् उपपरीक्षते एवम् उपनि-
13611 ध्यायति तस्यैवम् उपपरीक्षमाणस्यैवम् उपनिध्यायतश् चित्तं नावलीयते न संलीयते
13612 नोत्रस्यति न संत्रस्यति न संत्रासम् आपद्यते अविरहितो {बोधिसत्त्वो} महासत्त्वः
13613 प्रज्ञापारमिताया वेदितव्यः॥ [इत्य् अधिमात्रमूर्ध्वगतालम्बनाकारविशेषः॥]
13614 अथ खलु आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्। केन
13615 कारणेनायुषमन् सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितया अविरहितो
13616 वेदितव्यः। सुभूतिर् आह। रूपम् आयुष्मन् शारिपुत्र विरहितम् रूपस्वभावेन एवं
13617 वेदनासंज्ञासंस्काराः, विज्ञानम् आयुष्मन् शारिपुत्र विरहितं विज्ञानस्वभावेन
13618 दानपारमिताप्य् आयुष्मन् शारिपुत्र विरहिता दानपारमितास्वभावेन

13619 {{शीलपारमिताप्य् आयुष्मन् शारिपुत्र विरहिता शीलपारमितास्वभावेन क्षान्तिपारमिताप्य् आयुष्मन् शारिपुत्र विरहिता क्षान्तिपारमितास्वभावेन वीर्यपारमिताप्य् आयुष्मन् शारिपुत्र विरहिता वीर्यपारमितास्वभावेन ध्यानपारमिताप्य् आयुष्मन् शारिपुत्र विरहिता ध्यानपारमितास्वभावेन प्रज्ञापारमिताप्य् आयुष्मन् शारिपुत्र विरहिता प्रज्ञापारमितास्वभावेन}} {{स्मृत्युपस्थानान्य् अप्य् आयुष्मन् शारिपुत्र विरहितानि स्मृत्युपस्थानस्वभावेन सम्यक्प्रहाणान्य् अप्य् आयुष्मन् शारिपुत्र विरहितानि सम्यक्प्रहाणस्वभावेन ऋद्धिपादा अप्य् आयुष्मन् शारिपुत्र विरहिताः ऋद्धिपादस्वभावेन इन्द्रियान्य् अप्य् आयुष्मन् शारिपुत्र विरहितानि इन्द्रियस्वभावेन बलान्य् अप्य् आयुष्मन् शारिपुत्र विरहितानि बलस्वभावेन बोध्यङ्गान्य् अप्य् आयुष्मन् शारिपुत्र विरहितानि बोध्यङ्गस्वभावेन मार्गा अप्य् आयुष्मन् शारिपुत्र विरहिता मार्गस्वभावेन अप्रमाणध्यानान्य् अप्य् आयुष्मन् शारिपुत्र विरहितानि अप्रमाणध्यानस्वभावेन आरूप्यसमापत्तयो ऽप्य् आयुष्मन् शारिपुत्र विरहिता आरूप्यसमापत्तिस्वभावेन दशबलान्य् अप्य् आयुष्मन् शारिपुत्र विरहितानि दशबलस्वभावेन वैशारद्यान्य् अप्य् आयुष्मन् शारिपुत्र विरहितानि वैशारद्यस्वभावेन प्रतिसंविदा अप्य् आयुष्मन् शारिपुत्र विरहिताः प्रतिसंवित्स्वभावेन अष्टादशावेणिका}} बुद्धधर्मा विरहिता बुद्ध्धर्म-
13620 स्वभावेन, भूतकोटिर् अप्य् आयुष्मन् शारिपुत्र विरहिता भूतकोटिस्वभावेन।
13621 शारिपुत्र आह। कथं पुनर् आयुष्मन् सुभूते रूपस्य स्वभावः, कथं वेदनायाः

13622 संज्ञायाः संस्काराणाम्। कथं विज्ञानस्य स्वभावः कथं व्यस्तसमस्तानां
13701 स्कन्धधात्वायतनप्रतीत्यसमुत्पादानां स्वभावः। एवं विस्तरेण यावत् कथं
13702 भूतकोट्याः स्वभावः। सुभूतिर् आह। अभाव आयुष्मन् शारिपुत्र रूपस्य
13703 स्वभावः। अभावो वेदनायाः {{स्वभावः। अभावो संज्ञायाः स्वभावः। अभावो संस्काराणां स्वभावः।}} अभावो विज्ञानस्य स्वभावः।
13704 अभावो व्यस्तसमस्तानां स्कन्धधात्वायतनप्रतीत्यसमुत्पादानां स्वभावः,
13705 अभावः शून्यतानिमित्ताप्रणिहितानाभिसंस्काराणां जातः स्वभावः,
13706 अभावः तथताधर्मधातुधर्मस्थितिताधर्मनियामतानां स्वभावः, एवं
13707 विस्तरेण यावद् अभावो भूतकोट्याः स्वभावः। तद् अनेन आयुष्मन् शारिपुत्र
13708 पर्यायेणैवं वेदितव्यम्। यथा रूपं विरहितं रूपस्वभावेन वेदना विरहिता
13709 वेदनास्वभावेन {{संज्ञा विरहिता संज्ञास्वभावेन संस्कारा विरहिताः संस्कारस्वभावेन विज्ञानं विरहितं विज्ञानस्वभावेन}}। एवं विस्तरेण
13710 व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु कर्तव्यं यावद् भूतकोटि-
13711 र् विरहिता भूतकोटिस्वभावेन।
13712 पुनर् अपरं शारिपुत्र रूपं विरहितं रूपलक्षणेन, {{वेदना विरहिता वेदनालक्षणेन संज्ञा विरहिता संज्ञालक्षणेन संस्कारा विरहिताः संस्कारलक्षणेन विज्ञानं विरहितं विज्ञानलक्षणेन। एवं विस्तरेण व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु कर्तव्यं}}
13713 यावद् भूतकोटिर् विरहिता
13714 भूतकोटिलक्षणेन। लक्षणस्वभावेनापि लक्षणं विरहितं, स्वभाव-
13715 लक्षणेनापि स्वभावो विरहितः।
13716 शारिपुत्र आह। य आयुष्मन् सुभूते {बोधिसत्त्वो} महासत्त्वो ऽत्र शिक्षिष्यते स
13717 निर्यास्यति सर्वाकारज्ञतायाम्। सुभूतिर् आह। एवम् एतद् आयुष्मन् शारिपुत्र
13718 यो ह्य् एवम् अत्र शिक्षिष्यते स निर्यास्यति सर्वाकारज्ञतायाम्। [इति मृदु-
13719 क्षान्तेर् आलम्बनाकारविशेषः]। तत् कस्य हेतोः। तथा ह्य् आयुष्मन् {शरिपुत्र} अजाता
13801 अनिर्याताः सर्वधर्माः। {शारिपुत्र} आह। केन कारणेनायुष्मन् सुभूते अजाता अनि-
13802 र्याताः सर्वधर्माः। सुभूतिर् आह। रूपम् आयुष्मन् {शारिपुत्र} शून्यं रूपस्वभावेन, तस्य
13803 नापि जातिर् नापि निर्याणम् उपलभ्यते, {{वेदनायुष्मन् शारिपुत्र शून्या वेदनास्वभावेन, तस्या नापि जातिर् नापि निर्याणम् उपलभ्यते, संज्ञायुष्मन् शारिपुत्र शून्या संज्ञास्वभावेन, तस्या नापि जातिर् नापि निर्याणम् उपलभ्यते, संस्कारा आयुष्मन् शारिपुत्र शून्या संस्कारस्वभावेन, तेषां नापि जातिर् नापि निर्याणम् उपलभ्यते, विज्ञानम् आयुष्मन् शारिपुत्र शून्या विज्ञानस्वभावेन, तस्य नापि जातिर् नापि निर्याणम् उपलभ्यते}}।
13804 एवं विस्तरेण व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु
13805 कर्तव्यं यावद् भूतकोटिः शून्या भूतकोटिस्वभावेन, तस्या नापि जातिर् नापि
13806 निर्याणम् उपलभ्यते। एवं हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायाञ् चरन्
13807 सर्वाकारज्ञताया आसन्नीभवति यथा यथा च सर्वाकारज्ञताया आसन्नी-
13808 भवति तथा तथा कायपरिशुद्धिञ् च चित्तपरिशुद्धिञ् च लक्षणपरिशुद्धिञ् चाधिगच्छति।
13809 यथा यथा च कायपरिशुद्धिञ् च चित्तपरिशुद्धिञ् च लक्षणपरिशुद्धिञ् चाधिगच्छति
13810 तथा तथा {बोधिसत्त्वस्य} महासत्त्वस्य रूपसहगतं चित्तं नोत्पद्यते, दोष{सहगतं चित्तं नोत्पद्यते} मोह{सहगतं चित्तं नोत्पद्यते}
13811 मान{सहगतं चित्तं नोत्पद्यते}, लोभ{सहगतं चित्तं नोत्पद्यते} कुदृष्टि{सहगतं चित्तं नोत्पद्यते}, स रागचित्तानुत्पादाद् दोषचित्तानुत्पादात्
13812 मोह{चित्तानुत्पादाद्} मान{चित्तानुत्पादात्} कुदृष्टि{चित्तानुत्पादाद्} न जातु मातुः कुक्षाव् उपपद्यते, सततसमितम् औप-
13813 पादुको भवति, बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति, बुद्धांश् च भगवतः पर्युपास्ते,
13814 सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति। न तैर् बुद्धैर् भगवद्भिर् विरहितो
13815 भवति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः। एवं हि शारिपुत्र {बोधिसत्त्वो}
13816 महासत्त्व आसन्नीभवत्य् अनुत्तरायाः सम्यक्संबोधेः। [इति मध्यक्षान्तेर् आल-
13817 म्बनाकारविशेषः।]
13818 अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्। सचेद् भगवन् {बोदिसत्त्वो}
13819 महासत्त्वो ऽनुपायकुशलः प्रज्ञापारमितायां चरन् रूपे चरति निमित्ते चरति न
13901 चरति प्रज्ञापारमितायाम्। सचेद् वेदनायाञ् चरति निमित्ते चरति न चरति

13902 प्रज्ञापारमितायां, {{सचेद् संज्ञायाञ् चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संस्कारेषु चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञाने चरति निमित्ते चरति न चरति प्रज्ञापारमितायां}}। स-
13903 चेद् रूपं नित्यं {वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां} {{सचेद् वेदना नित्या वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् सज्ञा नित्या वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संस्कारा नित्या वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञानं नित्यं वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां}}
13904 सचेद् रूपं सुखं दुखं {वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां} {{सचेद् वेदना सुखा दुखा वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संज्ञा सुखा दुखा वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संस्काराः सुखा दुखा वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञानं सुखं दुखं वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां}} स-
13905 चेद् रूपम् आत्मानात्म {वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां} {{सचेद् वेदनात्मानात्मा वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संज्ञात्मानात्मा वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संस्कारा आत्मान अनात्मान वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञानम् आत्मानात्म वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां}}
13906 सचेद् रूपं शान्तम् अशान्तम् {वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां} {{सचेद् वेदना शान्ताशान्ता वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संज्ञा शान्ताशान्ता वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संस्काराः शान्ता अशान्ता वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञानं शान्तम् अशान्तं वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां}}
13907 सचेद् रुपं विविक्तम् अविविक्तं {वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां} {{सचेद् वेदना विविक्ताविविक्ता वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संज्ञा विविक्ताविविक्ता वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संस्कारा विविक्ता अविविक्ता वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञानं विविक्तम् अविविक्तं वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां}}
13908 सचेद् भगवन् {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशलः सप्तत्रिंशत्-
13909 बोधिपक्षेषु धर्मेषु चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्। एवं
13910 यावद् अभिज्ञासु पारमितासु अप्रमाणध्यानारूप्यसमापत्तिषु पञ्चसु चक्षुःषु
13911 दशसु तथागतबलेषु चतसृषु प्रतिसंवित्सु चतुर्षु वैशारद्येषु यावद् अष्टादश-
13912 स्व् आवेणिकेषु बुद्धधर्मेषु चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्।
13913 सचेद् भगवन् {बोधिसत्त्वस्य} महासत्त्वस्यानुपायकौशलेन प्रज्ञापारमितायां चरत
13914 एवं भवति। अहं प्रज्ञापारमितायां चरामीति उपलम्भे चरति, अहं चरामीति
13915 चरति निमित्ते चरति, सचेद् {बोधिसत्त्वस्य} महासत्त्वस्यैवं भवति य एवञ् चरति स
13916 प्रज्ञापारमितायाञ् चरति स प्रज्ञापारमितां भावयतीति। अथ खल्व् आयुष्मान्
13917 शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्। केन कारणेनायुष्मन् सुभूते इदं
13918 {बोधिसत्त्वस्य} महासत्त्वस्यानुपायकौशलं वेदितव्यम्। सुभूतिर् आह। तथा ह्य् आयुष्मन्
13919 शारिपुत्र यो {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् रूपम् अधितिष्ठति
13920 संजानीते ऽधिमुच्यते, वेदनाम् {अधितिष्ठति संजानीते ऽधिमुच्यते।} संज्ञाम् {अधितिष्ठति संजाईते ऽधिमुच्यते।} संस्कारान् {अधितिष्ठति संजानीते ऽधिमुच्यते।} विज्ञानम् {अधितिष्ठति संजानीते ऽधिमुच्यते।}
13921 स रूपम् अधितिष्ठन् संजानानो ऽधिमुच्यमानः, वेदनाम् {अधितिष्ठन् संजानानो ऽधिमुच्यमानः}, संज्ञाम् {अधितिष्ठन् संजानानो ऽधिमुच्यमानः},
13922 संस्कारान् {अधितिष्ठन् संजानानो ऽधिमुच्यमानः}, विज्ञानम् {अधितिष्ठन् संजानानो ऽधिमुच्यमानः}, रूपस्याभिसंस्कारे चरति तत्। तस्य
13923 जातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासकरम् इति वदामि।
13924 पुनर् अपरं शारिपुत्र सचेद् {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपाय-
14001 कुशलः, चक्षुर् {अधितिष्ठति न संजानीते नाधिमुच्यते} श्रोत्रं घ्राणं जिह्वां कायं मनो {ऽधितिष्ठति न संजानीते नाधिमुच्यते} रूपम् {अधितिष्ठति न संजानीते नाधिमुच्यते} शब्दान्
14002 गन्धान् रसान् स्प्रष्टव्यम् धर्मान् {अधितिष्ठति न संजानीते नाधिमुच्यते} {{चक्षुर्विज्ञानम् अधितिष्ठति न संजानीते नाधिमुच्यते श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानम् अधितिष्ठति न संजानीते नाधिमुच्यते, चक्षुःसंस्पर्शम् अधितिष्ठति न संजानीते नाधिमुच्यते श्रोत्रसंस्पर्शं घ्राणसंस्पर्शं जिह्वासंस्पर्शं कायसंस्पर्शं मनःसंस्पर्शम् अधितिष्ठति न संजानीते नाधिमुच्यते, चक्षुःसंस्पर्शप्रत्ययवेदयितम् अधितिष्ठति न संजानीते नाधिमुच्यते श्रोत्रसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितम् अधितिष्ठति न संजानीते नाधिमुच्यते}}
14003 {{सुकह्ं वा दुःखं वा अदुःखं वा असुखं वाधितिष्ठति न संजानीते नाधिमुच्यते}} सचेत्
14004 सप्तत्रिंशद्बोधिपक्षान् धर्मान् {अधितिष्ठति न संजानीते नाधिमुच्यते}। एवं पञ्चचक्षूंषि षडभिज्ञाः षट्पारमिताश् चत्वा-
14005 रि वैशारद्यानि चरस्रः प्रतिसंविदश् चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चरस्र
14006 आरूप्यसमापत्तीर् दश तथागतबलान्य् अष्टादशावेणिकान् बुद्धधर्मान् अर्हत्त्वं प्रत्येक-
14007 बुद्धत्वं बोध्सिअत्त्वत्वं बुद्धधर्मान् {अधितिष्ठति न संजानीते नाधिमुच्यते}। सर्वान् बुद्धधर्मान् {अधितिष्ठन् संजानानो ऽधिमुच्यमानो} बुद्ध-
14008 धर्माणाम् अभिसंस्कारे चरति, अभिसंस्कारे चरन्न् अपरिमुच्यते जात्या जरामरणेन
14009 च शोकपरिदेवदुःखदौर्मनस्योपायासैर् न परिमुच्यते दुःखेनेति वदामि। स खलु
14010 पुनः शारिपुत्र {बोधिसत्त्वो} महासत्त्वो ऽभव्यः श्रावकभूमिं प्रत्येकबुद्धभूमिं वा
14011 पतितुं कुतः सो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते नेदं स्थानं विद्यते। एवं
14012 हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशलो वेदितव्यः।

14013 शारिपुत्र आह। कथम् आयुष्मन् सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां
14014 चरन् उपायकुशलो वेदितव्यः। सुभूतिर् आह। य आयुष्मन् शारिपुत्र {बोधिसत्त्वो}
14015 महासत्त्वः प्रज्ञापारमितायां चरन् न रूपम् अधितिष्ठति न संजानीते नाधिमुच्यते,
14016 वेदनासंज्ञासंस्कारान् विज्ञानं न{अधितिष्ठति न संजानीते नाधिमुच्यते} एवं यावद् बुद्धधर्मान् ना{धितिष्ठति न संजानीते नाधिमुच्यते}, स न रूपे
14017 चरति {{न वेदनायां चरति न संज्ञायां चरति न संस्कारेषु चरति}} न विज्ञाने चरति, न रूपस्य निमित्ते चरति {{न वेदनाया निमित्ते चरति न संज्ञाया निमित्ते चरति न संस्काराणां निमित्ते चरति}} न विज्ञानस्य

14018 निमित्ते चरति, न रूपं नित्यम् इति नानित्यम् {इति चरति}, न वेदना स संज्ञा न संस्कारा
14019 न विज्ञानं नित्यम् इति नानित्यम् {इति चरति}, न रूपं सुखम् इति न दुःखम् इति नात्मेति
14020 नानात्मेति न शान्तम् इति नाशान्तम् {इति चरति}, न वेदना न संज्ञा स संस्कारा न
14021 विज्ञानं सुखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् {इति चरति}, न रूपं
14022 शून्यम् इति नाशून्यम् इति चरति न निमित्तम् इति नानिमित्तम् {इति चरति} न प्रणिहितम् इति
14023 नाप्रणिहितम् {इति चरति} न विविक्तम् इति नाविविक्तम् {इति चरति}, एवं न वेदना न संज्ञा न
14024 संस्कारा न विज्ञानं न शून्यम् इति नाशून्यम् {इति चरति}, न निमित्तम् इति नानिमित्तम् {इति चरति},
14101 न प्रणिहितम् इति नाप्रणिहितम् {इति चरति}, न विविक्तम् इति नाविविक्तम् {इति चरति}। तत् कस्य
14102 हेतोः। तथा हि आयुष्मन् शारिपुत्र या रूपस्य शून्यता न तद् रूपं चान्यत्र
14103 शून्यतायाः रूपं नान्यत्र रूपाच् छून्यता रूपम् एव शून्यता शून्यतैवं रूपम्। या
14104 वेदनायाः शून्यता संज्ञायाः शून्यता संस्काराणां शून्यता या विज्ञानस्य
14105 शून्यता तद् विज्ञानं न चान्यत्र शून्यताया विज्ञानं नान्यत्र विज्ञानाच् छून्यता
14106 शून्यतैव विज्ञानं विज्ञानम् एव शून्यता। एवं व्यस्तसमस्तेषु स्कन्ध{{धात्वायतनप्रतीत्यसमुत्पादेषु स्मृत्युपस्थानेषु सम्यक्प्रहाणेष्व् ऋद्धिपादेष्व् इन्द्रियेषु बलेषु बोध्यङ्गेषु मार्गेषु बलेषु वैशारद्येषु प्रतिसंवित्स्व् आवेणिक-}}
14107 बुद्धधर्मेसु यावद् या बुद्धधर्माणां शून्यता न ते बुद्धधर्मा न चान्यत्र शून्यताया
14108 बुद्धधर्माः नान्यत्र बुद्धधर्मेभ्यः शून्यता, शून्यतैव बुद्धधर्मा बुद्धधर्मा एव
14109 शून्यता, एवम् आयुष्मन् शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्न् उपाय-
14110 कुशलो वेदितव्यः। एवम् आयुष्मन् शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापार-
14111 मितायाञ् चरन् भव्यो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुम्।
14112 पुनः प्रज्ञापारमितायाञ् चरन् सचेत् कञ्चिद् धर्मम् उपैति न चरति प्रज्ञापार-
14113 मितायां, नोपैति न चरति, उपैति नोपैति च न चरति, नैवोपैति न नोपैति च
14114 न चरति प्रज्ञापारमितायाम्। शारिपुत्र आह। केन कारणेनाउष्मन् सुभूते
14115 नोपैति {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायाञ् चरन्। सुभूतिर् आह। तथा हि आयुष्मन्
14116 शारिप्तुत्र प्रज्ञापारमितायाः स्वभावो नोपलभ्यते। तत् कस्य हेतोः। तथा
14117 ह्य् अभावस्वभावा प्रज्ञापारमिता, अनेनायुष्मन् शारिपुत्र पर्यायेण {बोधिसत्त्वो} महासत्त्वः
14118 प्रज्ञापारमितायां चरामीति नोपैति, न चरामीति नोपैति, चरामि च न
14119 चरामि चेति नोपैति, नैव चरामि न न चरामीति नोपैति। तत् कस्य
14120 हेतोः। तथा हि तेन सर्वधर्मा अभावस्वभावा इति अनुगता अनुप्राप्ताः।
14121 सचेद् एवं प्रज्ञापारमितायां चरतो {बोधिसत्त्वस्य} महासत्त्वस्य चित्तं नावलीयते न संलीयते
14122 नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते वेदितव्यम् आयुष्मन् शारिपुत्रासन्नी-
14123 भवत्य् अयं {बोधिसत्त्वो} महासत्त्वः सर्वाकारज्ञतायाः। [इत्य् अधिमात्रक्षान्तेर् आलम्बनाकार-
14124 विशेषः॥]
14201 सो ऽपि खल्व् आयुष्मन् शारिपुत्र सर्वाकारज्ञता अद्वया अद्वैधीकारा
14202 सर्वधर्माभाअवस्वभावताम् उपादाय, अयं सर्वधर्मस्वभावानुत्पत्तिर् नाम समाधि-
14203 र् {बोधिसत्त्वानां} महासत्त्वानां विपुलः पुरस्कृतो ऽप्रमाणो नियतो ऽसंहार्यः
14204 सर्वश्रावकप्रत्येकबुद्धैः अनेनायुष्मन् शारिपुत्र समाधिना विहरन् {बोधिसत्त्वो} महा-
14205 सत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते।
14206 शारिपुत्र आह। कतमैर् आयुष्मन् सुभूते समाधिभिर् विहरन् {बोधिसत्त्वो}
14207 महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते। सुभूतिर् आह।
14208 अस्त्य् आयुष्मन् शारिपुत्र {बोधिसत्त्वानां} महासत्त्वानां शूरङ्गमो नाम समाधिर् यत्समाधिना
14209 विहरन् {बोधिसत्त्वो} महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते। अस्ति

14210 रत्नमुद्रो नाम समाधिः। {अस्ति} सुचन्द्रो {नाम समाधिः}। {अस्ति} चन्द्रध्वजकेतुः {नाम समाधिः}। {अस्ति}
14211 सर्वधर्ममुद्रो {नाम समाधिः}। {अस्ति} अवलोकितमूर्द्धा {नाम समाधिः}।{अस्ति} धर्मधातुनियतो {नाम समाधिः}। {अस्ति}
14212 नियतध्वजकेतुः {नाम समाधिः}। {अस्ति} वज्रोपमो {नाम समाधिः}। {अस्ति} सर्वधर्मप्रवेशमुद्रो {नाम समाधिः}। {अस्ति} समाहिताव-
14213 स्थाप्रतिष्ठानो {नाम समाधिः}। {अस्ति} राजमुद्रो {नाम समाधिः}। {अस्ति} बलवीर्यो {नाम समाधिः}। {अस्ति} सर्वधर्मसमुद्गतो {नाम समाधिः}।
14214 {अस्ति} निरुक्तिनियतप्रवेशो {नाम समाधिः}। {अस्ति} आसेचनकप्रवेशो {नाम समाधिः}। {अस्ति} दिगवलोकनो {नाम समाधिः}। {अस्ति}
14215 धारणीमुद्रो {नाम समाधिः}। {अस्ति} असंप्रमुषितो {नाम समाधिः}। {अस्ति} समवसरणो {नाम समाधिः}। {अस्ति} आकाशस्फारणो {नाम समाधिः}।
14216 {अस्ति} वज्रमण्डलो {नाम समाधिः}। {अस्ति} ध्वजाग्रकेतुराजो {नाम समाधिः}। {अस्ति} इन्द्रकेतुः {नाम समाधिः}। {अस्ति}
14217 स्रोतोऽनुगतो {नाम समाधिः}। {अस्ति} सिंहविजृम्भितो {नाम समाधिः}। {अस्ति} व्यत्यस्तसमापत्तिः {नाम समाधिः}। {अस्ति}
14218 रणंजहो {नाम समाधिः}। {अस्ति} वैरोचनो {नाम समाधिः}। {अस्ति} निमिषो {नाम समाधिः}। {अस्ति} निकेतस्थितो {नाम समाधिः}। {अस्ति}
14219 निश्चितो {नाम समाधिः}। {अस्ति} विपुलप्रतिपन्नो {नाम समाधिः}। {अस्ति} अनन्तप्रभो {नाम समाधिः}। {अस्ति} प्रभाकरो {नाम समाधिः}। {अस्ति}
14220 वरधर्ममुद्रो {नाम समाधिः}। {अस्ति} समन्तावभासो {नाम समाधिः}। {अस्ति} शुद्धावासो {नाम समाधिः}। {अस्ति} विमलप्रभो {नाम समाधिः}।
14301 {अस्ति} अरतिकरो {नाम समाधिः}। {अस्ति} अजयो {नाम समाधिः}। {अस्ति} तेजोवती {नाम समाधिः}। {अस्ति} क्षयापगतो {नाम समाधिः}।
14302 {अस्ति} अनिर्जितो {नाम समाधिः}। {अस्ति} विवृतो {नाम समाधिः}। {अस्ति} सूर्यप्रदीपो {नाम समाधिः}। {अस्ति} चन्द्रविमलो {नाम समाधिः}।
14303 {अस्ति} शुद्धप्रतिभासो {नाम समाधिः}। {अस्ति} आलोककरो {नाम समाधिः}। {अस्ति} काराकारो {नाम समाधिः}। {अस्ति} ज्ञानकेतुः {नाम समाधिः}।
14304 {अस्ति} चित्तस्थितो {नाम समाधिः}। {अस्ति} समन्तावलोको {नाम समाधिः}। {अस्ति} सुप्रतिष्ठितो {नाम समाधिः}। {अस्ति}
14305 रत्नकोटिः {नाम समाधिः}। {अस्ति} सर्वधर्मसमता {नाम समाधिः}। {अस्ति} रतिजहो {नाम समाधिः}। {अस्ति} धर्मङ्गतो {नाम समाधिः}।
14306 {अस्ति} विकिरणो {नाम समाधिः}। {अस्ति} सर्वधर्मपदप्रभेदो {नाम समाधिः}। {अस्ति} समाक्षरावतारो {नाम समाधिः}। {अस्ति}
14307 अनिगरो {नाम समाधिः}। {अस्ति} प्रभाकरो {नाम समाधिः}। {अस्ति} नामनियतप्रवेशो {नाम समाधिः}। {अस्ति} अनिकेतचारी {नाम समाधिः}।
14308 {अस्ति} वितिमिरापगतो {नाम समाधिः}। {अस्ति} चारित्रवती {नाम समाधिः}। {अस्ति} अचलो {नाम समाधिः}। {अस्ति} विषम-
14309 शान्तिः {नाम समाधिः}। {अस्ति} सर्वगुणसंचयो {नाम समाधिः}। {अस्ति} निश्चितो {नाम समाधिः}। {अस्ति} शुभपुष्पितशुद्धो {नाम समाधिः}। {अस्ति}
14310 बोध्यङ्गवती {नाम समाधिः}। {अस्ति} अनन्तप्रभा {नाम समाधिः}। {अस्ति} आगमसमो {नाम समाधिः}। {अस्ति} विमतिविकिरणो {नाम समाधिः}।
14311 {अस्ति} प्रतिच्छेदकरो {नाम समाधिः}। {अस्ति} आकारानभिनिवेशनिर्हारो {नाम समाधिः}। {अस्ति} आकारानवकारो {नाम समाधिः}।
14312 {अस्ति} निरतिशयसर्वभवतलविकिरणो {नाम समाधिः}। {अस्ति} संकेतरुतप्रवेशो {नाम समाधिः}। {अस्ति} घोष-
14313 वती {नाम समाधिः}। {अस्ति} निरक्षरविमुक्तिः {नाम समाधिः}। {अस्ति} तेजोवती {नाम समाधिः}। {अस्ति} ज्वलनोल्का {नाम समाधिः}।
14314 {अस्ति} रक्षानुपरिशोषणो {नाम समाधिः}। {अस्ति} अनाविलक्षान्तिः {नाम समाधिः}। {अस्ति} सर्वाकारावतारो {नाम समाधिः}। {अस्ति}
14315 सर्वसुखदुःखनिरभिनन्दी {नाम समाधिः}। {अस्ति} अक्षयाकारो {नाम समाधिः}। {अस्ति} धारणीमतिः {नाम समाधिः}। {अस्ति}
14316 सम्यकमिथ्यात्वसंग्रहो {नाम समाधिः}। {अस्ति} रोषविरोषप्रतिरोषो {नाम समाधिः}। {अस्ति} विमलप्रभो {नाम समाधिः}। {अस्ति}
14317 शारवती {नाम समाधिः}। {अस्ति} परिपूर्णविमलचन्द्रप्रभो {नाम समाधिः}। {अस्ति} विद्युत्प्रभो {नाम समाधिः}। {अस्ति}
14401 महाव्यूहो {नाम समाधिः}। {अस्ति} सर्वलोकप्रभाकरो {नाम समाधिः}। {अस्ति} समाधिसरता {नाम समाधिः}। {अस्ति} अनय-
14402 विनयनयविमुक्तो {नाम समाधिः}। {अस्ति} अनुसरणसर्वसमवसरणो {नाम समाधिः}। {अस्ति} अनिलनियतो {नाम समाधिः}।
14403 {अस्ति} तथतास्थितनिश्चितो {नाम समाधिः}। {अस्ति} कायकलिसंप्रमथनो {नाम समाधिः}। {अस्ति} वाक्कलिविध्वंसनो {नाम समाधिः}।
14404 {अस्ति} गगनकल्पो {नाम समाधिः}। {अस्ति} आकाशसङ्गविमुक्तिनिरुपलेपो {नाम समाधिः}। इमे आयुष्मन् शारिपुत्र
14405 समाधयो यैः समाधिभिर् विहरन् {बोधिसत्त्वो} महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधि-
14406 म् अभिसंबुध्यते। अन्यानि चासंख्येयाप्रमेयाणि समाधिमुखानि येषु
14407 शिक्ष्यमाणा {बोधिसत्त्वाः} महासत्त्वाः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते।
14408 तत्र कतमः शूरङ्गमो नाम समाधिः। येन समाधिना सर्वसमाधीनां
14409 गोचरम् अनुभवत्य् अयम् उच्यते शूरङ्गमो नाम समाधिः। तत्र कतमो रत्नमुद्रो नाम
14410 समाधिः। येन समाधिना सर्वसमाधयो मुद्रिता भवत्य् अयम् उच्यते रत्नमुद्रो नाम
14411 समाधिः। एवं यावत् तत्र कतम आकाशसङ्गविमुक्तिनिरुपलेपो नाम समाधिः।
14412 यत्र समाधौ स्थित्वा सर्वधर्माणाम् आकाशसङ्गविमुक्तिनिरुपलेपताम् अनुप्राप्नोत्य् अय-

14413 म् उच्यते आकाशसङ्गविमुक्तिनिरुपलेपो नाम समाधिः। [इति मृद्वग्रधर्मस्या-
14414 लम्बनाकारविशेषः।]
14415 अथ खल्व् आयुष्मन् सुभूतिर् बुद्धानुभावेन आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्।
14416 व्याकृतो ऽयम् आयुष्मन् शारिपुत्र {बोधिसत्त्वो} महासत्त्वः पूर्वकैस् तथागतैर् अर्हद्भिः सम्यक्-
14417 संबुद्धैः। ये ऽप्य् एतर्हि दशदिशि लोके तिष्ठन्ति ध्रियन्ते यापयन्ति। ते ऽपि तथागता
14418 अर्हन्तः सम्यक्संबुद्धस् तं {बोधिसत्त्वं} महासत्त्वं व्याकुर्वन्ति। य एतैः समाधिभि-
14419 र् विहरति स समाधिम् अपि न समनुपश्यति। स न च तेन समाधिना मन्यते
14420 अहं समाहित इति। अहं समाधिं समापत्स्ये। अहं समाधिं समापन्नः।
14421 अहं समाधिं समापद्ये। सर्वे एते विकल्पा {बोधिसत्त्वस्य} महासत्त्वस्य न विद्यन्ते
14422 नोपलभ्यन्ते। [इति मध्याग्रधर्मस्यालंबनाकारारविशेषः।]
14501 {शारिपुत्र} आह। किं पुनर् आयुष्मन् {सुभूते} एषु समाधिषु स्थितो {बोधिसत्त्वो} महासत्त्वो
14502 व्याक्रियते तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः।
14503 सुभूतिर् आह। नो हीदम् आयुष्मन् {शारिपुत्र}। तत् कस्य हेतोः। तथा ह्य् आयुष्मन्
14504 {शारिपुत्र} नान्या प्रज्ञापारमिता अन्यः समाधिः अन्यो बोधिसत्त्वो बोधिसत्त्व
14505 एव समाधिः समाधिर् एव बोधिसत्त्वः।
14506 {शारिपुत्र} आह। यद्य् आयुष्मन् {सुभूते} नान्यः समाधिः नान्यो बोधिसत्त्वः
14507 समाधिर् एव बोधिसत्त्वो बोधिसत्त्व एव समाधिः सर्वधर्मसमताम् उपादाय।
14508 तत् किं शक्यः स समाधिर् दर्शयितुम्।
14509 {सुभूतिर्} आह। न ह्य् एतद् आयुष्मन् {शारिपुत्र}।
14510 {शारिपुत्र} आह। किं पुनर् आयुष्मन् स कुलपुत्रस् तं समाधिं संजानीते।
14511 {सुभूतिर्} आह। नायुष्मन् {शारिपुत्र} स कुलपुत्रस् तं समाधिम् संजानीते।
14512 {शारिपुत्र} आह। कथं न संजानीते।
14513 {सुभूतिर्} आह। यथा न विकल्पयति।
14514 {शारिपुत्र} आह। कथं न विकल्पयति।
14515 {सुभूतिर्} आह। अविद्यमानत्वेन सर्वधर्माणाम् एव समाधिं न विकल्पयति।
14516 अनेनायुष्मन् {शारिपुत्र} पर्यायेण {बोधिसत्त्वो} महासत्त्वो न संजानीते।
14517 {शारिपुत्र} आह। कथं न संजानीते।
14518 {सुभूतिर्} आह। अविकल्पत्वेन तस्य समाधेर् {बोधिसत्त्वो} महासत्त्वो न संजानीते।
14519 [इति अधिमात्राग्रधर्मस्यालम्बनाकारविशेषः।]
14520 अथ खलु भगवान् आयुष्मते सुभूतये साधुकारम् अदात्। साधु
14521 साधु {सुभूते} यथापि नाम ते मया अरणविहारिणाम् अग्रतायां निर्दिष्टस्य
14522 निर्देशः। एवं {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। एवं
14601 ध्यान{{पारमितायां शिक्षितव्यम् वीर्यपारमितायां शिक्षितव्यम् क्षान्तिपारमितायां शिक्षितव्यम् शीलपारमितायां शिक्षितव्यम्}} दानपारमितायां शिक्षितव्यम्। एवं सप्तत्रिंशद्बोधिपक्षेषु
14602 धर्मेषु यावद् अष्टादशावेणिकेषु बुद्धधर्मेषु शिक्षितव्यम्।
14603 अथ खल्व् आयुष्मन् {शारिपुत्र} भगवन्तम् एतद् अवोचत्। एवं शिक्षमाणो भगवन्
14604 {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां शिक्षते। भगवान् आह। एवं शिक्षमाणः {शारिपुत्र}
14605 {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां शिक्षते अनुपलम्भयोगेन। एवं ध्यान{{पारमितायां शिक्षते अनुपलम्भयोगेन वीर्यपारमितायां शिक्षते अनुपलम्भयोगेन क्षान्तिपारमितायां शिक्षते अनुपलम्भयोगेन शीलपारमितायां शिक्षते अनुपलम्भयोगेन दानपारमितायां शिक्षते अनुपलम्भयोगेन}}
14606 यावद् विस्तरेण सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु {शिक्षते अनुपलम्भयोगेन} यावद् अप्रमाणध्याना-
14607 रूप्यसमापत्तिषु {शिक्षते अनुपलम्भयोगेन}। दशबलचतुर्वैशारद्याष्टादशावेणिकेषु बुद्धधर्मेषु {शिक्षते अनुपलम्भयोगेन}।
14608 {शारिपुत्र} आह। किम् इति भगवन् नोपलभते।

14609 भगवान् आह। आत्मानं शारिपुत्र नोपलभते यावत् सत्त्वजीवपोष-
14610 पुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकान् नोपलभते अत्यन्तविशुद्धिता-
14611 म् उपादाय यावद् व्यस्तसमस्तान् स्कन्धधात्वायतनप्रतीत्यसमुत्पादान्
14612 नोपलभते अत्यन्तविशुद्धिताम् उपादाय। दुःखं {नोपलभते अत्यन्तविशुद्धिताम् उपादाय।} समुदयं {नोपलभते अत्यन्तविशुद्धिताम् उपादाय।} निरोधं {नोपलभते अत्यन्तविशुद्धिताम् उपादाय}।
14613 मार्गं {नोपलभते अत्यन्तविशुद्धिताम् उपादाय}। रूपधातुं {नोपलभते अत्यन्तविशुद्धिताम् उपादाय}। आरूप्यधातु {नोपलभते अत्यन्तविशुद्धिताम् उपादाय}। अप्रमाणध्यानारूप्य-
14614 समापत्तीर् {नोपलभते अत्यन्तविशुद्धिताम् उपादाय}। स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् {नोपलभते अत्यन्तविशुद्धिताम् उपादाय}।
14615 पारमिता {नोपलभते अत्यन्तविशुद्धिताम् उपादाय}। दशबलचतुर्वैशारद्याष्टादशावेणिकान् बुद्धधर्मान् {नोपलभते अत्यन्तविशुद्धिताम् उपादाय}। स्रोतआपन्नं
14616 {नोपलभते अत्यन्तविशुद्धिताम् उपादाय}। सकृदागामिनं {नोपलभते अत्यन्तविशुद्धिताम् उपादाय}। अनागामिनं {नोपलभते अत्यन्तविशुद्धिताम् उपादाय}। अर्हन्तं {नोपलभते अत्यन्तविशुद्धिताम् उपादाय}। प्रत्येकबुद्धं {नोपलभते अत्यन्तविशुद्धिताम् उपादाय}।
14617 बोधिसत्त्वं {नोपलभते अत्यन्तविशुद्धिताम् उपादाय}। बुद्धं {नोपलभते अत्यन्तविशुद्धिताम् उपादाय}।
14618 {शारिपुत्र} आह। का पुनर् भगवन् विशुद्धिः।
14619 भगवान् आह। अनुत्पादः शारिपुत्र अप्रादुर्भावो ऽनुपलम्भो ऽनभिसंस्कारो
14620 विशुद्धिर् इत्य् उच्यते। [इति सामान्येन विकल्पसंप्रयोगाधिकारः।]
14621 {शारिपुत्र} आह। एवं शिक्षमाणो भगवन् {बोधिसत्त्वो} महासत्त्वः कतमेषु धर्मेषु
14622 शिक्षते।
14623 भगवान् आह। एवं शिक्षमाणः शारिपुत्र {बोधिसत्त्वो} महासत्त्वो न कस्मिंश्चिद्
14701 धर्मेषु शिक्षते। तत् कस्य हेतोः। नैते शारिपुत्र धर्मास् तथा संविद्यन्ते यथा
14702 बालपृथग्जनानाम् अभिनिवेशः।
14703 {शारिपुत्र} आह। कथं भगवन् नैते धर्माः संविद्यन्ते।
14704 भगवान् आह। तथा न संविद्यन्ते यथा बालपृथग्जनानाम् अभिनिवेशः।
14705 {शारिपुत्र} आह। कथं भगवन् नैते धर्माः संविद्यन्ते।
14706 भगवान् आह। यथा न संविद्यन्ते तथा संविद्यन्ते। एवम् असंविद्यमानाः
14707 तेनोच्यते ऽविद्येति॥ [इति उष्मगतविकल्पसंप्रयोगे प्रथमो ऽविद्याविकल्पः॥]
14708 {शाइपुत्र} आह। केन कारणेनोच्यते असंविद्यमाना अविद्येति।
14709 भगवान् आह। रूपं {शारिपुत्र} न संविद्यते अध्यात्मशून्यताम् उपादाय बहिर्धा{शून्यताम् उपादाय}
14710 अध्यात्मबहिर्धा{शून्यताम् उपादाय} यावद् भावस्वभाव{शून्यताम् उपादाय}। वेदना संज्ञा संस्कारा विज्ञानं {शारिपुत्र}
14711 न संविद्यते {अध्यात्मशून्यताम् उपादाय। बहिर्धाशून्यताम् उपादाय। अध्यात्मबहिर्धाशून्यताम् उपादाय}। यावत् सप्तत्रिंशद्बोधिपक्षा धर्मा न संविद्यन्ते यावद् अष्टा-
14712 दशावेणिकबुद्धधर्मा न संविद्यन्ते {अध्यात्मशून्यताम् उपादाय। बहिर्धाशून्यताम् उपादाय। अध्यात्मबहिर्धाशून्यताम् उपादाय}।] [इति तत्रैव द्वितीयो रूपादिस्कन्ध-
14713 विकल्पः॥] तत्र बाला अविद्यायां तृष्णायाञ् चाभिनिविष्टाः। तैर् अविद्यां
14714 तृष्णां च कल्पितां कल्पयित्वा अविद्यातृष्णाभ्याम् अभिनिविश्य उभाभ्यां
14715 अन्ताभ्यां सक्तास् ते उभाव् अन्तौ न जानन्ति न पश्यन्ति यथा धर्मा न सं-
14716 विद्यन्ते। ते तान् धर्माण् कल्पयित्वा नामरूपे अभिनिविष्टाः। यावद्
14717 बुद्धधर्मेष्व् अभिनिविष्टाः॥ [इति तत्रैव तृतीयो नामरूपाभिनिवेशविकल्पः॥] ते
14718 धर्मेष्व् अभिनिविष्टा असंविद्यमानाव् उभाव् अन्तौ कल्पयन्ति कल्पयित्वा न जानन्ति
14719 न पश्यन्ति। किं न जानन्ति न पश्यन्ति। रूपं न जानन्ति न पश्यन्ति। वेदनां
14720 संज्ञां संस्कारान् विज्ञानं न {जानन्ति न पश्यन्ति}। यावत् स्कन्धधात्वायतनप्रतीत्यसमुत्पादं न {जानन्ति न पश्यन्ति}
14801 यावद् अष्टादशावेणिकान् बुद्धधर्मान् {न जानन्ति न पश्यन्ति}। तेन ते बाला इति संख्यां गच्छन्ति॥ [इति
14802 तत्रैव चतुर्थो ऽन्तद्वयासक्तिविकल्पः॥] ते अविद्यातृष्णाप्रत्ययं न {जानन्ति न पश्यन्ति}। रूपं
14803 संक्लिष्टम् इति न {जानन्ति न पश्यन्ति}। एवं रूपं व्यवदानम् इति न {जानन्ति न पश्यन्ति}। वेदनां संज्ञां विज्ञानं संक्लिष्ट-
14804 म् इति न {जानन्ति न पश्यन्ति}। एवं विज्ञानं व्यवदानम् इति न {जानन्ति न पश्यन्ति}। ते न निर्यास्यन्ति। कुतो न
14805 निर्यास्यन्ति। कामधातोर् न {निर्यास्यन्ति}। रूपधातोर् न {निर्यास्यन्ति}। आरूप्यधातोर् न {निर्यास्यन्ति}।

14806 श्रावकप्रत्येकबुद्धधर्मेभ्यो न {निर्यास्यन्ति}॥ [इति तत्रैव पञ्चमः संक्लेशव्यवदानज्ञान-
14807 विकल्पः॥] ते न श्रद्दधति। किम् इति न श्रद्दधति। रूपं रूपेण शून्यम् इति न
14808 श्रद्दधति। यावद् बोधि बोध्यात्मना शून्यम् इति न श्रद्दधति। ते न प्रतिष्ठन्ते।
14809 किम् इइत् न प्रतिष्ठन्ते। दानपारमितायां न {प्रतिष्ठन्ते} {{शीलपारमितायां न प्रतिष्ठन्ते क्षान्तिपारमितायां न प्रतिष्ठन्ते वीर्यपारमितायां न प्रतिष्ठन्ते ध्यानपारमितायां न प्रतिष्ठन्ते}} प्रज्ञापारमितायां
14810 न {प्रतिष्ठन्ते}। अविनिवर्तनीयभूमौ न {प्रतिष्ठन्ते} यावत् बुद्धधर्मेषू न {प्रतिष्ठन्ते}।
14811 अनेन कारणेन बाला इत्य् उच्यन्ते। ते अभिनिविष्टाः। किम् इति अभिनिविष्टाः।
14812 रूप{{वेदनासंज्ञासंस्कार}}विज्ञानेष्व् {अभिनिविष्टाः}। रागद्वेषमोहेष्व् {अभिनिविष्टाः}। दृष्टिकृतेष्व् {अभिनिविष्टाः} यावद्
14813 बोधाव् {अभिनिविष्टाः}। शारिपुत्र आह। एवं शिक्षमाणो भगवन् {बोधिसत्त्वो} महासत्त्वः
14814 प्रज्ञापारमितायां शिक्षते सर्वाकारज्ञतायां निर्यास्यति। भगवान् आह। एवं
14815 शिक्षमाणः शारिपुत्र {बोधिसत्त्वो} महासत्त्वः {प्रज्ञापारमितायां न शिक्षते। सर्वाकारज्ञतायां न निर्यास्यति}। भगवान् आह। इह शाइपुत्र {बोधिसत्त्वो}
14816 महासत्त्वः प्रज्ञापारमिताम् अनुपायकुशलः कल्पयत्य् अभिनिविशते। ध्यानपारमितां
14817 {कल्पयत्य् अभिनिविशते} {{वीर्यपारमितां कल्पयत्य् अभिनिविशते क्षान्तिपारमितां कल्पयत्य् अभिनिविशते शीलपारमितां कल्पयत्य् अभिनिविशते}} दानपारमितां {कल्पयत्य् अभिनिविशते}। एवम् अप्रमाणध्यानारूप्यसमापत्तीः {कल्पयत्य् अभिनिविशते}।
14818 स्मृत्युपस्थानं सम्य्कप्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् {कल्पयत्य् अभिनिविशते}। दशबल-
14819 वैशारद्यप्रतिसंविदष्टादशावेणिकान् बुद्धधर्मान् {कल्पयत्य् अभिनिविशते} यावत् सर्वधर्मान् सर्वाकार-
14820 ज्ञातां {कल्पयत्य् अभिनिविशते}। अनेन शारिपुत्र पर्यायेण {बोधिसत्त्वो} महासत्त्वः {प्रज्ञापारमितायां न शिक्षते। सर्वाकारज्ञतायां न निर्यास्यति}। शारिप्तुर आह।
14821 एवं शिक्षमाणो भगवन् {बोधिसत्त्वो} महासत्तः {प्रज्ञापारमितायां न शिक्षते। सर्वाकारज्ञतायां न निर्यास्यति}। भगवान् आह। एवं शिक्षमाणः
14822 शारिपुत्र {बोधिसत्त्वो} महासत्त्वः {प्रज्ञापारमितायां न शिक्षते। सर्वाकारज्ञतायां न निर्यास्यति}॥ [इति तत्रैव षष्ट आर्यमार्गप्रतिष्ठानविकल्पः॥]
14901 शारिपुत्र आह। कह्तं पुनर् भगवन् {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां शिक्षते
14902 यथा शिकाअमाणः सर्वाकारज्ञतायां निर्यास्यति। भगवान् आह। यदा शारिपुत्र
14903 {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायाञ् चरन् प्रज्ञापारमितां नोपलभते न समनुपश्यति।
14904 एवं खलु शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायाञ् चरन् प्रज्ञापारमितायां
14905 शिक्षमाणः सर्वाकारज्ञतायां निर्यास्यति अनुपलम्भयोगेन। एवं ध्यानपारमितां
14906 {{नोपलभते न समनुपश्यति वीर्यपारमितां नोपलभते न समनुपश्यति क्षानिपारमितां नोपलभते न समनुपश्यति शीलपारमितां नोपलभते न समनुपश्यति}} दानपारमितां {नोपलभते न समनुपश्यति} यावद् बोधिं सर्वाकारज्ञतां {नोपलभते न समनुपश्यति}। एवं खलु
14907 शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायाञ् चरन् प्रज्ञापारमितायां शिक्षमाणः
14908 सर्वाकारज्ञतायां निर्यास्यत्य् अनुपलम्भयोगेन॥ [इति तत्रैव सप्तम उपलम्भविकल्पः॥]
14909 शारिपुत्र आह। कस्यानुपलम्भयोगेन। भगवान् आह। आत्मानं शारिपुत्र
14910 {नोपलभते न समनुपश्यति} अत्यन्तविशुद्धिताम् उपादाय॥ [इति तत्रैवाष्टम आत्मादिविकल्पः॥]
14911 अनुत्पादः शारिपुत्राप्रादुर्भावो ऽनभिसंस्कारो विशुद्धिः॥ [इति तत्रैव
14912 नवमो विशुद्द्युत्पादादिविकल्पः॥] [इति प्रथमो ग्राह्यविकल्पः॥]
14913 सो ऽनुपायकुशलो रूपं {कल्पयत्य् अभिनिविशते} यावद् विज्ञानं {कल्पयत्य् अभिनिविशते}॥ [इति मूर्धगतविकल्पसंप्रयोगे
14914 प्रथमो राश्यर्थविकल्पः॥] चक्षुः {कल्पयत्य् अभिनिविशते} एवं यावन् मन। रूपं {कल्पयत्य् अभिनिविशते} एवं यावद् धर्मान्॥
14915 [इति तत्रैव द्वितीय आयद्वारार्थविकल्पः॥] चक्षूरूपचक्षुर्विज्ञानधातून् {कल्पयत्य् अभिनिविशते}। एवं
14916 यावन् मनोधर्ममनोविज्ञानधातून् {कल्पयत्य् अभिनिविशते}॥ [इति तत्रैव तृतीयो गोत्रार्थविकल्पः॥]
14917 अविद्यां {कल्पयत्य् अभिनिविशते} एवं यावज् जरामरणं {कल्पयत्य् अभिनिविशते}॥ [इति तत्रैव चतुर्थ उत्पादार्थविकल्पः॥]
14918 सो ऽध्यात्मशून्यतां बहिर्धा{शून्यतां} अध्यात्मबहिर्धा{शून्यतां} यावद् अभावस्वभाव{शून्यतां}
14919 {कल्पयत्य् अभिनिविशते}॥ [इति तत्रैव पञ्चमः शून्यतार्थविकल्पः॥] षट्पारमिताः {कल्पयत्य् अभिनिविशते}॥ [इति तत्रैव
14920 षष्ठः पारमितार्थविकल्पः॥] सप्तत्रिंशद् बोधिपक्षान् धर्मान् {कल्पयत्य् अभिनिविशते}॥ [इति तत्रैव
14921 सप्तमो दर्शनमार्गविकल्पः॥] स ध्यानाभिज्ञाप्रमाणारूप्यसमापत्तीः {कल्पयत्य् अभिनिविशते}॥
14922 [इति तत्रैवाष्टमो भावनामार्गविकल्पः॥] स दशतथागतबलानि यावत् सर्वा-
15001 कारज्ञतां {कल्पयत्य् अभिनिविशते}॥ [इति तत्रैव नवमो शैक्षमार्गविकल्पः॥] [इति द्वितीयो ग्राह्य-

15002 विकल्पः॥]
15003 आत्मानं शारिपुत्र {नोपलभते}। एवं सत्त्वं जीवं पोषं पुरुषं पुद्गलं मनुजं
15004 मानवं कारकाम् वेदकं जानकं पश्यकन् {नोपलभते}। तत् कस्य हेतोः। अत्यन्ततया
15005 ह्य् आत्मा न विद्यते {नोपलभते}॥ [इति क्षान्तिसहगतविकल्पसम्प्रयोगे प्रथमः
15006 स्वतन्त्रात्मविकल्पः॥] रूपं शारिपुत्र नोपलभते यावद् विज्ञानं {नोपलभते}॥ [इति
15007 तत्रैव द्वितीय एकात्मविकल्पः॥] चक्षुः शारिपुत्र {नोपलभते} एवं यावन् मनः। रूपं
15008 {नोपलभते} एवं यावद् बुद्धधर्मान् {नोपलभते}॥ [इति तत्रैव तृतीयः कारणात्मविकल्पः॥]
15009 चक्षूरूपविज्ञानानि शारिपुत्र {नोपलभते} यावत् मनोधर्ममनोविज्ञानानि {नोपलभते}॥ [इति
15010 तत्रैव चतुर्थो द्रष्टाद्यात्मविकल्पः॥] प्रतीत्यसमुत्पादं शारिपुत्र {नोपलभते} यावद् आ-
15011 रूप्यसमापत्तीर् {नोपलभते}॥ [इति तत्रैव षष्ठो वैराग्याधारात्मविकल्पः॥] आर्यसत्यानि
15012 {नोपलभते}॥ [इति तत्रैव सप्तमो दर्शनाधारात्मविकल्पः॥] अष्टौ विमोक्षान् नवानुपूर्व-
15013 विहारसमापत्तीर् {नोपलभते}॥ [इति तत्रैवाष्टमो भावनाधारत्मविकल्पः॥] दशबलानि
15014 {नोपलभते} यावत् सर्वाकारज्ञतां {नोपलभते}। कथं {नोपलभते}। आत्मत्वेन। तत् कस्य
15015 हेतोः। आत्मनो ऽत्यन्तविशुद्धिताम् उपादाय॥ [इति तत्रैव नवमः कृतार्थता-
15016 धारात्मविकल्पः॥] [इति प्रथमो ग्राहकविकल्पः॥]
15017 अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्। यो भगवन् पृच्छेत्
15018 किम् अयं मायापुरुषः प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञातायां निर्यास्य-
15101 तीति। तस्यैवं पृच्छतः कथं निर्देष्टव्यं स्यात्। एवं ध्यानपारमितायां
15102 {{शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यतीति। एवं वीर्यपारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यतीति। एवं क्षान्तिपारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यतीति। एवं शीलपारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यतीति।}} दानपारमितायां {शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यतीति}। तस्यैवं {पृच्छतः कथं निर्देष्टव्यं स्यात्} यावत् सप्तत्रिंशद्बोधिपक्षेषु
15103 धर्मेषु यावत् सर्वाकारज्ञातायां {शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यतीति} सर्वाकारज्ञतां प्राप्स्यतीति। तस्यैवं {पृच्छतः कथं निर्देष्टव्यं स्यात्}
15104 भगवान् आह। तेन हि सुभूते त्वाम् एवात्र प्रतिप्रक्ष्यामि। यथा ते क्षमते
15105 तथा व्याकुर्याः। तत् किं मन्यसे सुभूते। अन्यद् रूपम् अन्या माया अन्या
15106 वेदना अन्या संज्ञा अन्ये संस्काराः अन्यत् विज्ञानम् अन्या माया। सुभूतिर् आह।
15107 नो भगवान्॥ [इत्य् अग्रधर्मगतविकल्पसंप्रयोगे प्रथमः स्कन्धप्रज्ञप्तिविकल्पः॥]
15108 भगवान् आह। तत् किं मन्यसे सुभूते। अन्या माया अन्यच् चक्षुः।
15109 अन्या माया अन्यच् छ्रोत्रं घ्राणं जिह्वा कायो ऽन्या माया अन्यन्
15110 मनः अन्या माया अन्यद् रूपं अन्या माया अन्यः शब्दो गन्धो रसः स्प्रष्टव्यम्।
15111 अन्या माया अन्ये धर्माः। सुभूतिर् आह। नो भगवन्॥ [इति तत्रैव द्वितीय आयतन-
15112 प्रज्ञप्तिविकल्पः॥]
15113 भगवान् आह। तत् किं मन्यसे सुभूते अन्या माया अन्यच् चक्षु-
15114 र्विज्ञानं {{अन्या माया अन्यच् छ्रोत्रविज्ञानं अन्या माया अन्यद् घ्राणविज्ञानं अन्या माया अन्यज् जिह्वाविज्ञानं अन्या माया अन्यत् कायविज्ञानं अन्या माया अन्यद् मनोविज्ञानं अन्या माया अन्यच् चक्षूरूपचज्षुर्विज्ञानं अन्या माया अन्यच् छ्रोत्रशब्दश्रोत्रविज्ञानं अन्या माया अन्यद् घ्राणगन्धघ्राणविज्ञानं अन्या माया अन्यज् जिह्वारसजिह्वाविज्ञानं अन्या माया अन्यत् कायस्प्रष्टव्यकायविज्ञानं}} अन्या माया अन्यत् मनोधर्ममनोविज्ञानम्
15115 अन्या माया अन्यः चक्षुःसंस्पर्शः {अन्या माया अन्यः श्रोत्रसंस्पर्शः अन्या माया अन्यो घ्राणसंस्पर्शः अन्या माया अन्यो जिह्वासंस्पर्शः अन्या माया अन्यः कायसंस्पर्शः} अन्या माया
15116 अन्यो मनःसंस्पर्शः। सुभूतिर् आह। नो भगवन्। भगवान् आह। तत् किं मन्यसे सुभूते। अन्या माया
15117 अन्यच् छ्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शप्रत्ययवेदनाद् उत्पद्यते वेदयितं सुखं वा दुखं
15118 वा अदुःखासुखं वा। सुभूतिर् आह। नो भगवन्।
15119 भगवान् आह। तत् किं मन्यसे सुभूते। अन्या माया अन्यः पृथिवीधातुर् अन्या माया अन्यो ऽब्धातुर्
15120 {{अन्या माया अन्यः तेजोधातुर् अन्या माया अन्यो वायुधातुर् अन्या माया अन्य आकाशधातुर् अन्या माया}} अन्यो विज्ञानधातुः। सुभूतिर् आह नो भगवन् अन्यः
15121 पृथिवीधातुर् अन्या माया। पृथिवीधातुर् एव माया मायैव पृथिवीधातुः।
15201 {{नो भगवन् अन्यो अब्धातुर् अन्या माया। अब्धातुर् एव माया मायैवाब्धातुः। नो भगवन् अन्यः तेजोधातुर् अन्या माया। तेजोधातुर् एव माया मायैव तेजोधातुः। नो भगवन् अन्यो वायुधातुर् अन्या माया। वायुधातुर् एव माया मायैव वायुधातुः। नो भगवन् अन्य आकाशधातुर् अन्या माया। आकाशधातुर् एव माया मायैवाकाशधातुः।}} नो भगवन्न् अन्यो विज्ञानधातुर् अन्या माया। विज्ञानधातुर् एव
15202 माया मायैव विज्ञानधातुः॥ [इति तत्रैव तृतीयो धातुप्रज्ञप्तिविकल्पः॥]

15203 {भगवान् आह। तत् किं मन्यसे सुभूते}। अन्या माया अन्यः प्रतीत्यसमुत्पादः। {सुभूतिर् आह}। नो भगवन्न् अन्या
15204 अविद्या अन्या माया। अविद्यैव माया मायैवाविद्या। {{नो भगवन्न् अन्ये संस्कारा अन्या माया। संस्कारा एव माया मायैव संस्काराः। नो भगवन्न् अन्यद् विज्ञानम् अन्या माया। विज्ञानम् एव माया मायैव विज्ञानं। नो भगवन्न् अन्यद् नामरूपम् अन्या माया। नामरूपम् एव माया मायैव नामरूपं। नो भगवन्न् अन्यानि षडायतनान्य् अन्या माया। षडायतनान्य् एव माया मायैव षडायतनानि। नो भगवन्न् अन्यः स्पर्शो अन्या माया। स्पर्श एव माया मायैव स्पर्शो। नो भगवन्न् अन्या वेदनान्या माया। वेदनैव माया मायैव वेदना। नो भगवन्न् अन्या तृष्णान्या माया। तृष्णैव माया मायैव तृष्णा। नो भगवन्न् अन्यद् उपादानम् अन्या माया। उपादानम् एव माया मायैव उपादानं। नो भगवन्न् अन्यो भवो अन्या माया। भव एव माया मायैव भवो। नो भगवन्न् अन्या जातिर् अन्या माया। जातिर् एव माया मायैव जातिः}} नो
15205 भगवन्न् अन्यज् जरामरणम् अन्या माया। जरामरणम् एव माया मायैव जरामरणम्॥
15206 [इति तत्रैव चतुर्थः प्रतीत्यसमुत्पादप्रज्ञप्तिविकल्पः।]
15207 {भगवान् आह। तत् किं मन्यसे सुभूते}। अन्या माया अन्ये सप्तत्रिंशद्बोधिपक्षा धर्माः। {सुभूतिर् आह।
15208 नो भगवन्}॥ [इति तत्रैव पञ्चमो व्यवदानप्रज्ञप्तिविकल्पः॥]
15209 {भगवान् आह। तत् किं मन्यसे सुभूते}। अन्या माया अन्या शून्यता। अन्या माया अन्यत् निमित्तम् अन्या
15210 माया अन्यत् प्रणिहितम्। {सुभूतिर् आह। नो भगवन्}॥ [इति तत्रैव षष्ठो दर्शनमार्गप्रज्ञप्तिविकल्पः॥]
15211 {भगवान् आह। तत् किं मन्यसे सुभूते}। अन्या माया अन्या ध्यानारूप्यसमापत्तयः। {सुभूतिर् आह। नो भगवन्}॥
15212 [इति तत्रैव सप्तमो भावनामार्गप्रज्ञप्तिविकल्पः॥]
15213 {भगवान् आह। तत् किं मन्यसे सुभूते}। अन्या माया अन्या सर्वशून्यता। {सुभूतिर् आह। नो भगवन्}। [इति
15214 तत्रैवाष्टमो विशेषमार्गप्रज्ञप्तिविकल्पः।]
15215 {भगवान् आह। तत् किं मन्यसे सुभूते}। अन्या माया अन्यानि दशबलानि। अन्या माया
15216 अन्ये ऽष्टादशावेणिकाबुद्धधर्माः। {सुभूतिर् आह। नो भगवन्}।
15217 {भगवान् आह। तत् किं मन्यसे सुभूते}। अन्या माया अन्यो बोधिः। {सुभूतिर् आह}। नो भगवन् अन्या
15218 माया अन्यद् रूपं रूपम् एव भगवन् माया मायैव भगवन् रूपम्
15219 {{नो भगवन् अन्या माया अन्या वेदना वेदनैव भगवन् माया मायैव भगवन् वेदना नो भगवन् अन्या माया अन्या संज्ञा संज्ञैव भगवन् माया मायैव भगवन् संज्ञा नो भगवन् अन्या माया अन्ये संस्काराः संस्कारा एव भगवन् माया मायैव भगवन् संस्कारा}} नो भगवन् अन्या माया अन्यद् विज्ञानं विज्ञानम् एव भगवन् माया
15220 मायैव भगवन् विज्ञानम्।
15221 न बह्गवन् अन्यच् चक्षुर् अन्या माया न भगवन् अन्यद् रूपम् अन्या माया
15222 {{न भगवन् अन्यत् श्रोत्रम् अन्या माया न भगवन् अन्यः शब्दो अन्या माया न भगवन् अन्यद् घ्राणम् अन्या माया न भगवन् अन्यो गन्धो ऽन्या माया न भगवन् अन्या जिह्वा अन्या माया न भगवन् अन्यो रसो ऽन्या माया न भगवन् अन्यः कायो अन्या माया न भगवन् अन्यत् स्प्रष्टव्यम् अन्या माया न भगवन् अन्यद् मनो ऽन्या माया न भगवन् अन्यो धर्मो ऽन्या माया न भगवन् अन्यच् छ्रोत्रविज्ञानम् अन्या माया न भगवन् अन्यच् छ्रोत्रविज्ञानं अन्या माया न भगवन् अन्यद् घ्राणविज्ञानं अन्या माया न भगवन् अन्यज् जिह्वाविज्ञानं अन्या माया न भगवन् अन्यत् कायविज्ञानं अन्या माया न भगवन् अन्यद् मनोविज्ञानं अन्या माया न भगवन् अन्यच् चक्षूरूपचज्षुर्विज्ञानं अन्या माया न भगवन् अन्यच् छ्रोत्रशब्दश्रोत्रविज्ञानं अन्या माया न भगवन् अन्यद् घ्राणगन्धघ्राणविज्ञानं अन्या माया न भगवन् अन्यज् जिह्वारसजिह्वाविज्ञानं अन्या माया न भगवन् अन्यत् कायस्प्रष्टव्यकायविज्ञानं अन्या माया न भगवन् अन्यत् मनोधर्ममनोविज्ञानम् अन्या माया न भगवन् अन्यः चक्षुःसंस्पर्शो ऽन्या माया न भगवन् अन्यः श्रोत्रसंस्पर्शो ऽन्या माया न भगवन् अन्यो घ्राणसंस्पर्शो ऽन्या माया न भगवन् अन्यो जिह्वासंस्पर्शो ऽन्या माया न भगवन् अन्यः कायसंस्पर्शो ऽन्या माया न भगवन् अन्यो मनःसंस्पर्शो ऽन्या माया। न भगवन् अन्यच् छ्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शप्रत्ययवेदनाद् उत्पद्यते वेदयितं सुखं वा दुखं वा}} अदुःखं वा असुखं वा।
15223 न भगवन् अन्या माया अन्ये बोधिपक्षा धर्माः। बोधिपक्षा धर्मा एव
15224 भगवन् माया। मायैव भगवन् बोधिपक्षा धर्माः। न भगवन्
15301 अन्या माया अन्ये ऽष्टादशावेणिका बुद्धधर्माः। अष्टादशावेणिका बुद्धधर्मा
15302 एव भगवन् माया मायैव भगवन्न् अष्टादशावेणिका बुद्धधर्माः। न भगवन् अन्या
15303 माया अन्यो बोधिः बोधिर् एव माया मायैव भगवन् बोधिः।
15304 {भगवान् आह। तत् किं मन्यसे सुभूते}। अपि नु मायाया उत्पादो वा निरोधो वा। {सुभूतिर् आह। नो भगवन्}। {भगवान् आह।
15305 तत् किं मन्यसे सुभूते}। मायायाः संक्लेशो वा व्यवदानं वा। {सुभूतिर् आह। नो भगवन्}। {भगवान् आह। तत् किं मन्यसे सुभूते}। यस्य नोत्पादो
15306 न निरोधो न संक्लेशो न व्यवदानं स प्रज्ञापारमितायां शिक्षते ध्यान-
15307 पारमितयां {{शिक्षते वीर्यपारमितायां शिक्षते क्षान्तिपारमितायां शिक्षते शीलपारमितायां शिक्षते}} दानपारमितायां शिक्षते। अप्रमाणध्यानारूप्यसमापत्तिषु
15308 शिक्षते सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिक-
15309 बुद्धधर्मेषु शिक्षते। सर्वज्ञतायां निर्यास्यति यावत् सर्वाकारज्ञताम् अनु-
15310 प्राप्स्यति। {सुभूतिर् आह। नो भगवन्}।
15311 {भगवान् आह। तत् किं मन्यसे सुभूते।} अत्रैषा संज्ञा समज्ञा प्रज्ञप्तिर् व्यवहारो बोधिसत्त्व इति पञ्च-
15312 सूपादानस्कन्धेषु। {सुभूतिर् आह। नो भगवन्}। {भगवान् आह। तत् किं मन्यसे सुभूते}। संज्ञा समज्ञा प्रज्ञप्तिर् व्यवहारमात्रेण
15313 पञ्चानाम् उपादानस्कन्धानाम् उत्पादो वा निरोधो वा संक्लेशो वा व्यवदानं वा
15314 उपलभ्यते। {सुभूतिर् आह। नो भगवन्}। {भगवान् आह। तत् किं मन्यसे सुभूते}। यस्य न संज्ञा न समज्ञा न प्रज्ञप्तिर् न
15315 व्यवहारो न नाम न नामप्रज्ञप्तिर् न कायो न कायकर्म न वाक् न वाक्कर्म न
15316 मनो न मनःकर्म नोत्पादो न निरोधो न संक्लेशो न व्यवदानम् अपि न स
15317 प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यति। {सुभूतिर् आह। नो भगवन्}। {भगवान् आह}।
15318 एवं खलु सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां

15319 निर्यास्यति अनुपलम्भयोगेन। {सुभूतिर् आह}। एवं भगवन् {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापार-
15320 मितायां शिक्षमाणेन मायापुरुषेणैव शिक्षितव्यं भगवत्य् अनुत्तरायां सम्यक्-
15321 संबोधौ। तत् कस्य हेतोः। तथा हि भगवन् स एव मायापुरुषो वेदितव्यः।
15322 यद् उत पञ्चोपादानस्कन्धाः। {भगवान् आह। तत् किं मन्यसे सुभूते}। अपि त्व् इमे पञ्चोपादानस्कन्धाः
15323 प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यति। {सुभूतिर् आह। नो भगवन्}। तत्
15401 कस्य हेतोः। तथा हि भगवन्न् अभावस्वभावाः पञ्चोपादानस्कन्धाः। एवं स्वप्नोपमाः
15402 पञ्चस्कन्धाः स्वप्नश् चाभावस्वभावो नोपलभ्यते तथैव पञ्चस्कन्धा अभाव-
15403 स्वभावतया नोपलभ्यन्ते। {भगवान् आह। तत् किं मन्यसे सुभूते}। प्रतिश्रुत्कोपमाः पञ्चस्कन्धाः प्रतिभासो-
15404 पमाः निर्मितकोपमाः प्रतिबिम्बोपमाः पञ्चस्कन्धाः प्रज्ञापारमितायां शिक्षित्वा
15405 सर्वाकारज्ञतायां निर्यास्यति। {सुभूतिर् आह। नो भगवन्}। तत् कस्य हेतोः। तथा हि
15406 भगवन्न् अभावस्वभावो प्रतिश्रुत्क एव प्रतिभासो निर्मितकं प्रतिबिम्बस् तथैव
15407 पञ्चस्कन्धा अभावस्वभावतया नोपलभ्यन्ते। तथा हि भगवन् मायोपमं रूपं
15408 मायोपमा वेदना {{मायोपमा संज्ञा मायोपमाः संस्कारा मायोपमं}} विज्ञानं। यच् च विज्ञानं तत् षडिन्द्रियं ते पञ्चस्कन्धास् ते
15409 च अध्यात्मशून्यतया नोपलभ्यन्ते। बहिर्धाशून्यतया {नोपलभ्यन्ते}। अध्यात्म-
15410 बहिर्धाशून्यतया {नोपलभ्यन्ते}। यावद् अभावस्वभावशून्यतया {नोपलभ्यन्ते}। सचेद् एवं बह्गवन्
15411 भाष्यमाणो यो {बोधिसत्त्वो} महासत्त्वो नावलीयते न संलीयते न विप्रतिसारी भवति
15412 नोत्रस्यति न सन्त्रस्यति न सन्त्रासम् आपद्यते, वेदितव्यम् अयम् भगवन् निर्यास्यति
15413 सर्वज्ञतायां सर्वाकारज्ञताम् अनुप्राप्स्यति॥ [इति तत्रैव नवमोऽशैक्समार्गप्रज्ञप्ति-
15414 विकल्पः॥] [इति द्वितीयो ग्राहकविकल्पः॥]
15415 अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्। मा खलु भगवन्
15416 नवयानसंप्रस्थितो {बोधिसत्त्वो} महासत्त्व इमं निर्देशं श्रुत्वा अवलीयते संलीयते
15417 विप्रतिसारी भवेत्। उत्त्रस्येत् सन्त्रस्येत् सन्त्रासम् आपद्येत। भगवान् आह।
15418 सचेत् सुभूते नवयानसंप्रस्थितो {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् अनुपाय-
15419 कुशलो भवेन् न च कल्याणमित्रहस्तगतो भवेत् उत्त्रस्येत् संत्रस्येत् सन्त्रासम् आपद्येत।
15420 सुभूतिर् आह। कतमद् भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायाञ् चरत
15421 उपायकौशल्यं यत्र चरन् {बोधिसत्त्वो} महासत्त्वो {नोत्त्रस्यति न सन्त्रस्यति न सन्त्रासम् आपद्यते}।
15422 भगवान् आह। इह सुभूते {बोधिसत्त्वो} महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन
15423 रूपम् अनित्यम् इति प्रत्यवेक्षते न चोपलभते। वेदनां {सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानित्येति प्रत्यवेक्षते न चोपलभते}। संज्ञां {सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानित्येति प्रत्यवेक्षते न चोपलभते}। संस्कारान्
15501 {सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानित्या इति प्रत्यवेक्षते न चोपलभते}। विज्ञानं {सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानित्येति प्रत्यवेक्षते न चोपलभते}। इदं सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरत
15502 उपायकौशल्यं वेदितव्यम्।
15503 पुनर् अपरं सुभूते {बोधिसत्त्वो} महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन
15504 रूपं दुःखम् इति प्रत्यवेक्षते न चोपलभते
15505 {{वेदनां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन दुःखेति प्रत्यवेक्षते न चोपलभते। संज्ञां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन दुःखेति प्रत्यवेक्षते न चोपलभते। संस्कारान् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन दुःखा इति प्रत्यवेक्षते न चोपलभते। विज्ञानं सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन दुःखम् इति प्रत्यवेक्षते न चोपलभते। इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं वेदितव्यम्। पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपं शून्यम् इति प्रत्यवेक्षते न चोपलभते वेदनां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन शून्येति प्रत्यवेक्षते न चोपलभते। संज्ञां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन शून्येति प्रत्यवेक्षते न चोपलभते। संस्कारान् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन शून्या इति प्रत्यवेक्षते न चोपलभते। विज्ञानं सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन शून्यम् इति प्रत्यवेक्षते न चोपलभते। इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं वेदितव्यम्। पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपम् अनात्मेति प्रत्यवेक्षते न चोपलभते वेदनां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानात्मेति प्रत्यवेक्षते न चोपलभते। संज्ञां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानात्मेति प्रत्यवेक्षते न चोपलभते। संस्कारान् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानात्मा इति प्रत्यवेक्षते न चोपलभते। विज्ञानं सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानात्मम् इति प्रत्यवेक्षते न चोपलभते। इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं वेदितव्यम्। पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपं शान्तम् इति प्रत्यवेक्षते न चोपलभते वेदनां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन शान्तेति प्रत्यवेक्षते न चोपलभते। संज्ञां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन शान्तेति प्रत्यवेक्षते न चोपलभते। संस्कारान् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन शान्ता इति प्रत्यवेक्षते न चोपलभते। विज्ञानं सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन शान्तम् इति प्रत्यवेक्षते न चोपलभते। इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं वेदितव्यम्।}}

15506 {{पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपं विविक्तम् इति प्रत्यवेक्षते न चोपलभते वेदनां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन विविक्तेति प्रत्यवेक्षते न चोपलभते। संज्ञां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन विविक्तेति प्रत्यवेक्षते न चोपलभते। संस्कारान् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन विविक्ता इति प्रत्यवेक्षते न चोपलभते। विज्ञानं सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन विविक्तम् इति प्रत्यवेक्षते न चोपलभते। इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं वेदितव्यम्। पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपम् अनिमित्तम् इति प्रत्यवेक्षते न चोपलभते वेदनां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानिमित्तेति प्रत्यवेक्षते न चोपलभते। संज्ञां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानिमित्तेति प्रत्यवेक्षते न चोपलभते। संस्कारान् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानिमित्ता इति प्रत्यवेक्षते न चोपलभते। विज्ञानं सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानिमित्तम् इति प्रत्यवेक्षते न चोपलभते। इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं वेदितव्यम्। पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपम् अप्रणिहितम् इति प्रत्यवेक्षते न चोपलभते वेदनां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनाप्रणिहितेति प्रत्यवेक्षते न चोपलभते। संज्ञां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनाप्रणिहितेति प्रत्यवेक्षते न चोपलभते। संस्कारान् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनाप्रणिहिता इति प्रत्यवेक्षते न चोपलभते। विज्ञानं सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनाप्रणिहितम् इति प्रत्यवेक्षते न चोपलभते। इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत}} उपायकौशल्यं वेदितव्यम्।
15507 पुनर् अपरं सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रति-
15508 संयुक्तैर् मनसिकारैर् यां धर्मदेशनाङ् करोत्य् अनुपलम्भयोगेन इयं {बोधिसत्त्वस्य} महासत्त्वस्य
15509 दानपारमिता। तेषाम् एव सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणाम् अ-
15510 परामर्षणता {इयं बोधिसत्त्वस्य महासत्त्वस्य} शील{पारमिता}। {या तेषाम् एव सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणाम्} क्षमणारोचनप्रत्यवेक्षणता {इयं बोधिसत्त्वस्य महासत्त्वस्य}
15511 क्षान्ति{पारमिता}। {या तेषाम् एव सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणाम्} अनुत्सृष्टिर् {इयं बोधिसत्त्वस्य महासत्त्वस्य} वीर्य{पारमिता}। {या तेषाम् एव सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणाम्} च श्रावकप्रत्येक-
15512 बुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अनवकाशदानता अन्येषाम् अपि वाकुशलानां

15513 धर्माणाम् {इयं बोधिसत्त्वस्य महासत्त्वस्य} ध्यान{पारमिता}। एवं हि सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमिता-
15514 याञ् चरन् {नोत्त्रस्यति न सन्त्रस्यति न सन्त्रासम् आपद्यते}।
15515 पुनर् अपरं सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं प्रत्यवेक्षते न रूप-
15516 शून्यतया रूपं शून्यं, रूपम् एव शून्यता, शून्यतैव रूपम्। न वेदनाशून्यतया
15517 वेदना शून्या, वेदनैव शून्यता, शून्यतैव वेदना,
15518 {{न संज्ञाशून्यतया संज्ञा सून्या, संज्ञैव शून्यता, शून्यतैव संज्ञा। न संस्कारशून्यतया संस्काराः शून्याः, संस्कारा एव शून्यता, शून्यतैव संस्काराः। न विज्ञानशून्यतया विज्ञानं शून्यम्, विज्ञानम् एव शून्यता, शून्यतैव विज्ञानम्। न चक्षुःशून्यतया चक्षुः शून्यम्, चक्षुर् एव शून्यता, शून्यतैव चक्षुः। न श्रोत्रशून्यतया श्रोत्रं शून्यम्, श्रोत्रम् एव शून्यता, शून्यतैव श्रोत्रम्। न घ्राणशून्यतया घ्राणं शून्यम्, घ्राणम् एव शून्यता, शून्यतैव घ्राणम्। न जिह्वाशून्यतया जिह्वा शून्या, जिह्वैव शून्यता, शून्यतैव जिह्वा। न कायशून्यतया कायः शून्यः, काय एव शून्यता, शून्यतैव कायः। न मनःशून्यतया मनः शून्यम्, मन एव शून्यता, शून्यतैव मनः। न रूपशून्यतया रूपं शून्यम्, रूपम् एव शून्यता, शून्यतैव रूपम्। न शब्दशून्यतया शब्दः शून्यः, शब्द एव शून्यता, शून्यतैव शब्दः। न गन्धशून्यतया गन्धो शून्यः, गन्ध एव शून्यता, शून्यतैव गन्धः। न रसशून्यतया रसः शून्यः, रस एव शून्यता, शून्यतैव रसः। न स्प्रष्टव्यशून्यतया स्प्रष्टव्यं शून्यम्, स्प्रष्टव्यम् एव शून्यता, शून्यतैव स्प्रष्टव्यम्। न धर्मशून्यतया धर्मः शून्यः, धर्म एव शून्यता, शून्यतैव धर्मः। न चक्षुर्विज्ञानशून्यतया चक्षुर्विज्ञानं शून्यम्, चक्षुर्विज्ञानम् एव शून्यता, शून्यतैव चक्षुर्विज्ञानम्। न श्रोत्रविज्ञानशून्यतया श्रोत्रविज्ञानं शून्यम्, श्रोत्रविज्ञानम् एव शून्यता, शून्यतैव श्रोत्रविज्ञानम्। न घ्राणविज्ञानशून्यतया घ्राणविज्ञानं शून्यम्, घ्राणविज्ञानम् एव शून्यता, शून्यतैव घ्राणविज्ञानम्। न जिह्वाविज्ञानशून्यतया जिह्वाविज्ञानं शून्यम्, जिह्वाविज्ञानम् एव शून्यता, शून्यतैव जिह्वाविज्ञानम्। न कायविज्ञानशून्यतया कायविज्ञानं शून्यम्, कायविज्ञानम् एव शून्यता, शून्यतैव कायविज्ञानम्। न मनोविज्ञानशून्यतया मनोविज्ञानं शून्यम्, मनोविज्ञानम् एव शून्यता, शून्यतैव मनोविज्ञानम्। न चक्षुःसंस्पर्शशून्यतया चक्षुःसंस्पर्शः शून्यः, चक्षुःसंस्पर्श एव शून्यता, शून्यतैव चक्षुःसंस्पर्शः। न श्रोत्रसंस्पर्शशून्यतया श्रोत्रसंस्पर्शः शून्यः, श्रोत्रसंस्पर्श एव शून्यता, शून्यतैव श्रोत्रसंस्पर्शः। न घ्राणसंस्पर्शशून्यतया घ्राणसंस्पर्शः शून्यः, घ्राणसंस्पर्श एव शून्यता, शून्यतैव घ्राणसंस्पर्शः। न जिह्वासंस्पर्शशून्यतया जिह्वासंस्पर्शः शून्यः, जिह्वासंस्पर्श एव शून्यता, शून्यतैव जिह्वासंस्पर्शः। न कायसंस्पर्शशून्यतया कायसंस्पर्शः शून्यः, कायसंस्पर्श एव शून्यता, शून्यतैव कायसंस्पर्शः। न मनःसंस्पर्शशून्यतया मनःसंस्पर्शः शून्यः, मनःसंस्पर्श एव शून्यता, शून्यतैव मनःसंस्पर्शः। न चक्षुःप्रत्ययवेदयितशून्यतया चक्षुःप्रत्ययवेदयितं शून्यम्, चक्षुःप्रत्ययवेदयितम् एव शून्यता, शून्यतैव चक्षुःप्रत्ययवेदयितम्। न श्रोत्रप्रत्ययवेदयितशून्यतया श्रोत्रप्रत्ययवेदयितं शून्यम्, श्रोत्रप्रत्ययवेदयितम् एव शून्यता, शून्यतैव श्रोत्रप्रत्ययवेदयितम्। न घ्राणप्रत्ययवेदयितशून्यतया घ्राणप्रत्ययवेदयितं शून्यम्, घ्राणप्रत्ययवेदयितम् एव शून्यता, शून्यतैव घ्राणप्रत्ययवेदयितम्। न जिह्वाप्रत्ययवेदयितशून्यतया जिह्वाप्रत्ययवेदयितं शून्यम्, जिह्वाप्रत्ययवेदयितम् एव शून्यता, शून्यतैव जिह्वाप्रत्ययवेदयितम्। न कायप्रत्ययवेदयितशून्यतया कायप्रत्ययवेदयितं शून्यम्, कायप्रत्ययवेदयितम् एव शून्यता, शून्यतैव कायप्रत्ययवेदयितम्। न मनःप्रत्ययवेदयितशून्यतया मनःप्रत्ययवेदयितं शून्यम्, मनःप्रत्ययवेदयितम् एव शून्यता, शून्यतैव मनःप्रत्ययवेदयितम्। न स्मृत्युपस्थानशून्यतया स्मृत्युपस्थानानि शून्यानि, स्मृत्युपस्थानान्य् एव शून्यता, शून्यतैव स्मृत्युपस्थानानि।}}
15519 एवं सम्यक्प्रहाणर्द्धि-
15520 पादेन्द्रियबलबोध्यङ्गानि। न मार्गशून्यतया मार्गः शून्यो, मार्ग एव शून्यता,
15521 शून्यतैव मार्गः। न बलवैशारद्यावेणिकबुद्धधर्मशून्यतया बुद्धधर्माः शून्याः,
15522 बुद्धधर्मा एव शून्यता शून्यतैव बुद्धधर्माः। इयं सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य
15601 प्रज्ञापारमिता, एवं हि सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायाञ् चरन् {नोत्त्रस्यति न सन्त्रस्यति न सन्त्रासम् आपद्यते}
15602 । [इत्य् उपायकौशल्यं प्रथमः सपरिग्रहः।]
15603 सुभूतिर् आह। कतमानि भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य कल्याणमित्राणि
15604 यैः परिगृहीत इमं प्रज्ञापारमितानिर्देशं श्रुत्वा {नोत्त्रस्यति न सन्त्रस्यति न सन्त्रासम् आपद्यते}
15605 भगवान् आह। इह सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य कल्याणमित्रानि यान्य् अस्य
15606 रूपम् अनित्यम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन। तानि च कुशल-
15607 मूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति अन्यत्र सर्वाकारज्ञतायाः।
15608 वेदना संज्ञा संस्कारा विज्ञानम् अनित्यम् इति {{धर्मं देशयन्ति तच् चानुपलम्भयोगेन। तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र}}
15609 सर्वाकारज्ञतायाः। अमूनि सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य कल्याणमित्राणि याण्य् अस्य
15610 रूपं दुःखम् इति धर्मं देशयन्ति। रूपम् अनात्मेति शान्तम् इति विविक्तम् इति
15611 शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भ{{योगेन। तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र}}
15612 सर्वाकारज्ञतायाः। वेदना संज्ञा संस्काराः यान्य् अस्य
15613 विज्ञानं दुःखम् इति {{धर्मं देशयन्ति। विज्ञानम् अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन। तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र}} सर्वाकारज्ञतायाः। अमूनि
15614 सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य कल्याणमित्राणि। पुनर् अपरं सुभूते {बोधिसत्त्वस्य} महा-
15615 सत्त्वस्य कल्याणमित्रानि यान्य् अस्य चक्षुर् अनित्यम् इति धर्मं देशयन्ति

15616 {{तच् चानुपलम्भयोगेन। तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। श्रोत्रं घ्राणं जिह्वा कायो मन अनित्यम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन। तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि याण्य् अस्य चक्षुर् दुःखम् इति धर्मं देशयन्ति। चक्षुर् अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन। तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। श्रोत्रं घ्राणं जिह्वा कायो मनो दुःखम् इति धर्मं देशयन्ति। मन अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन। तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि। पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रानि यान्य् अस्य चक्षुर्विज्ञानम् अनित्यम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन। तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानम् अनित्यम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन। तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि याण्य् अस्य चक्षुर्विज्ञानं दुःखम् इति धर्मं देशयन्ति। चक्षुर्विज्ञानम् अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन। तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं दुःखम् इति धर्मं देशयन्ति। मनोविज्ञानम् अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन। तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि।}}
15617 {{पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रानि यान्य् अस्य चक्षुःसंस्पर्शो ऽनित्य इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन। तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शो कायविज्ञानसंस्पर्शो मनःसंस्पर्शो ऽनित्य इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन। तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि याण्य् अस्य चक्षुःसंस्पर्शो दुःख इति धर्मं देशयन्ति। चक्षुःसंस्पर्शो अनात्मेति शान्त इति विविक्त इति शून्य इति अनिमित्त इति अप्रणिहित इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन। तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शो कायसंस्पर्शो मनःसंस्पर्शो दुःख इति धर्मं देशयन्ति। मनःसंस्पर्शो ऽनात्मेति शान्त इति विविक्त इति शून्य इति अनिमित्त इति अप्रणिहित इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन। तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि। पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रानि यान्य् अस्य चक्षुःसंस्पर्शप्रत्ययवेदयितम् अनित्यम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन। तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। श्रोत्रसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितम् अनित्यम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन। तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि याण्य् अस्य चक्षुःसंस्पर्शप्रत्ययवेदयितं दुःखम् इति धर्मं देशयन्ति। चक्षुःसंस्पर्शप्रत्ययवेदयितम् अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन। तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। श्रोत्रसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितं दुःखम् इति धर्मं देशयन्ति। मनःसंस्पर्शप्रत्ययवेदयितम् अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन। तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि। पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रानि यान्य् अस्य स्मृत्युपस्थानान्य् अनित्यान्य् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन। तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि याण्य् अस्य स्मृत्युपस्थानानि दुःखान्य् इति धर्मं देशयन्ति। स्मृत्युपस्थानान्य् अनात्मान्य् इति शान्तान्य् इति विविक्तान्य् इति शून्यान्य् इति अनिमित्तान्य् इति अप्रणिहितान्य् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन। तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि। पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रानि यान्य् अस्य सम्यक्प्रहाणान्य् अनित्यान्य् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन। तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः। अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि याण्य् अस्य सम्यक्प्रहाणानि दुःखान्य् इति धर्मं देशयन्ति। सम्यक्प्रहाणान्य् अनात्मान्य् इति शान्तान्य् इति विविक्तान्य् इति शून्यान्य् इति अनिमित्तान्य् इति अप्रणिहितान्य् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन। तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र}}

15618 सर्वाकारज्ञतायाः। एवं सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियानि बलानि
15619 बोध्यङ्गानि आर्याष्टाङ्गमार्गो ऽनित्य इति {{धर्मं देशयन्ति तच् चानुपलम्भयोगेन। तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः।}}
15620 एवम् अप्रमाणध्यानारूप्यसमापत्तयो ऽभिज्ञा अनित्या {{इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन। तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः।}}
15621 एवं वैशारद्यानि प्रतिसंविदो दश तथागतबलानि अष्टादशावेणिका बुद्धधर्मा
15622 अप्य् अनित्या इति धर्मं देशयन्ति दुःखा {{इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन। तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः।}} इमानि
15623 सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य कल्याणमित्राणि यैः परिगृहीत इमं प्रज्ञापारमिता-
15624 निर्देशं श्रुत्वा {नोत्त्रस्यति न सन्त्रस्यति न सन्त्रासम् आपद्यते}
15701 सुभूतिर् आह। कथं भगवन् {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायाम् अनुपायकुशलो
15702 भविष्यति पापमित्रहस्तगतश् च भविष्यति। य इमं प्रज्ञापारमितानिर्देशं श्रुत्वा
15703 उत्त्रसिष्यति संत्रसिष्यति सन्त्रासम् आपत्स्यते।
15704 भगवान् आह। इह सुभूते {बोधिसत्त्वो} महासत्त्वो ऽपगतसर्वाकारज्ञताप्रतियुक्तैः
15705 मनसिकारैः प्रज्ञापारमितां भावयति उपलभते। तथा च प्रज्ञापारमितया
15706 मन्यते।

15707 {{ध्यानपारमितां भावयति उपलभते। तथा च ध्यानपारमितया मन्यते। वीर्यपारमितां भावयति उपलभते। तथा च वीर्यपारमितया मन्यते। क्षान्तिपारमितां भावयति उपलभते। तथा च क्षान्तिपारमितया मन्यते। शीलपारमितां भावयति उपलभते। तथा च शीलपारमितया मन्यते।}}
15708 पुनर् अपरं सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् {अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारै} रूपम् अध्यात्म-
15709 शून्यम् इति मनसिकरोति। रूपं बहिर्धा{शून्यम् इति मनसिकरोति} यावद् रूपम् अभावस्वभाव{शून्यम् इति मनसिकरोति}
15710 {{वेदनाध्यात्मशून्येति मनसिकरोति। वेदना बहिर्धाशून्येति मनसिकरोति यावद् वेदनाभावस्वभावशून्येति मनसिकरोति। संज्ञाध्यात्मशून्येति मनसिकरोति। संज्ञा बहिर्धाशून्येति मनसिकरोति यावद् संज्ञाभावस्वभावशून्येति मनसिकरोति। संस्कारा अध्यात्मशून्या इति मनसिकरोति। संस्कारा बहिर्धाशून्या इति मनसिकरोति यावद् संस्कारा अभावस्वभावशून्या इति मनसिकरोति। विज्ञानम् अध्यात्मशून्यम् इति मनसिकरोति। विज्ञानं बहिर्धाशून्यम् इति मनसिकरोति यावद् विज्ञानम् अभावस्वभावशून्यम् इति मनसिकरोति}}। {अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः} तां चाध्यात्मशून्यतां बहिर्धाशून्यतां
15711 अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यताम् उपलभते ताभिश् च शून्यताभि-
15712 र् मन्यते उपलम्भयोगेन। चक्षुर् अध्यात्म{शून्यम् इति मनसिकरोति} बहिर्धा{शून्यम् इति मनसिकरोति} अध्यात्मबहिर्धा{शून्यम् इति मनसिकरोति}
15713 यावद् अभावस्वभावस्वभाव{शून्यम् इति मनसिकरोति}। ताश् च शून्यता उपलभते तथा च मन्यते उपलम्भयोगेन।
15714 एवं श्रोत्रं घ्राणं जिह्वा कायो मनो ऽध्यात्म{शून्यम् इति मनसिकरोति।}
15715 {{श्रोत्रं घ्राणं जिह्वा कायो मनो बहिर्धाशून्यम् इति मनसिकरोति। यावत् श्रोत्रं घ्राणं जिह्वा कायो मनो ऽभावस्वभावशून्यम् इति मनसिकरोति। रूपम् अध्यात्मशून्यम् इति मनसिकरोति बहिर्धाशून्यम् इति मनसिकरोति अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति यावद् अभावस्वभावस्वभावशून्यम् इति मनसिकरोति। ताश् च शून्यता उपलभते तथा च मन्यते उपलम्भयोगेन। एवं शब्दो गन्धो रसः स्प्रष्टव्यं धर्मो ऽध्यात्मशून्य इति मनसिकरोति। शब्दो गन्धो रसः स्प्रष्टव्यं धर्मो बहिर्धाशून्य इति मनसिकरोति। यावत् शब्दो गन्धो रसः स्प्रष्टव्यं धर्मो ऽभावस्वभावशून्यम् इति मनसिकरोति। चक्षुर्विज्ञानम् अध्यात्मशून्यम् इति मनसिकरोति बहिर्धाशून्यम् इति मनसिकरोति अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति यावद् अभावस्वभावस्वभावशून्यम् इति मनसिकरोति। ताश् च शून्यता उपलभते तथा च मन्यते उपलम्भयोगेन। एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानम् अध्यात्मशून्यम् इति मनसिकरोति। श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं बहिर्धाशून्यम् इति मनसिकरोति। यावत् श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं अभावस्वभावशून्यम् इति मनसिकरोति। चक्षुःसंस्पर्शो ऽध्यात्मशून्य इति मनसिकरोति बहिर्धाशून्य इति मनसिकरोति अध्यात्मबहिर्धाशून्य इति मनसिकरोति यावद् अभावस्वभावस्वभावशून्य इति मनसिकरोति। ताश् च शून्यता उपलभते तथा च मन्यते उपलम्भयोगेन। एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्शो ऽध्यात्मशून्य इति मनसिकरोति। श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्शो बहिर्धाशून्य इति मनसिकरोति। यावत् श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्शो ऽभावस्वभावशून्यम् इति मनसिकरोति। चक्षुःसंस्पर्शप्रत्ययवेदयितम् अध्यात्मशून्यम् इति मनसिकरोति बहिर्धाशून्यम् इति मनसिकरोति अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति यावद् अभावस्वभावस्वभावशून्यम् इति मनसिकरोति। ताश् च शून्यता उपलभते तथा च मन्यते उपलम्भयोगेन। एवं श्रोत्रसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितम् अध्यात्मशून्यम् इति मनसिकरोति। श्रोत्रसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितम् बहिर्धाशून्यम् इति मनसिकरोति। यावत् श्रोत्रसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितम् अभावस्वभावशून्यम् इति मनसिकरोति।}}
15716 एवम् अविद्यायां यावज् जरामरणम् अध्यात्म{शून्यम् इति मनसिकरोति} {{जरामरणं बहिर्धाशून्यम् इति मनसिकरोति यावद् जरामरणम् अभावस्वभावशून्यम् इति मनसिकरोति}}
15717 पुनर् अपरं {सुभूति} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् {अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः} स्मृत्युपस्थानानि
15718 भावयति तानि च स्मृत्युपस्थानानि उपलभते तैश् च मन्यते उपलम्भयोगेन।
15719 एवं सम्यक्प्रहाणानि {{ऋद्धिपादान् इन्द्रियाणि बलानि बोध्यङ्गानि मार्गान् प्रतिसंविदश् वैशारद्यानि अभिज्ञाः तथागतबलानि}} बुद्धधर्मान् भावयति। तांञ् च बुद्धधर्मान् उपलभते
15720 तैश् च मन्यते उपलम्भयोगेन। एवं खलु सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां
15721 चरन्न् अनुपायकुशल इमं प्रज्ञापारमितानिर्देशं श्रुत्वा उत्त्रस्यति {सन्त्रस्यति सन्त्रासम् आपद्यते}
15722 सुभूतिर् आह। कथं भगवन् {बोधिसत्त्वो} महासत्त्वः पापमित्रपरिगृहीतो भवति।
15801 येन पापमित्रपरिग्रहणेनेमं प्रज्ञापारमितानिर्देशं श्रुत्वा उत्त्रस्यति {सन्त्रस्यति सन्त्रासम् आपद्यते}
15802 भगवान् आह। इह सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमिताया विवेचयति
15803 ध्यानपारमिताया {{विवेचयति वीर्यपारमिताया विवेचयति क्षान्तिपारमिताया विवेचयति शीलपारमिताया विवेचयति}} दानपारमिताया विवेचयति। नात्र शिक्षितव्यम् इति
15804 नैतत् तथागतेनार्हता सम्यक्संबुद्धेन भाषितम् इति कविकृतान्य् एतानि
15805 काव्यानि नैतानि श्रोतव्यानि नोद्ग्रहीतव्यानि न पर्यवाप्तव्यानि न
15806 धारयितव्यानि न वाचयितव्यानि न मनसिकर्तव्यानि नापि परस्या-
15807 देशयितव्यानि। इदं {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यम्।}
15808 पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं यो ऽस्य न मारकर्मा-
15809 ण्य् उपदिशति। न मारदोषान् आचष्ट इति हि मारः पापीयान् बुद्धवेषेण विवेचयति

15810 {बोधिसत्त्वं} महासत्त्वम् उपसंक्रम्यैवं ब्रवीति। किं ते कुलपुत्र प्रज्ञापारमितया भावितया
15811 {{किं ते ध्यानपारमितया भावितया। किं ते वीर्यपारमितया भावितया। किं ते क्षान्तिपारमितया भावितया। किं ते शीलपारमितया भावितया।}} किं ते दानपारमितया भावितया। इदं {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यम्।}
15812 पुनर् अपरं सुभूते मारः पापीयान् बुद्धवेषेण श्रावकभूमिप्रतिसंयुक्तानि सूत्राणि गेयं
15813 व्याकरणं गाथोदानं निदानम् इतिवृत्तकं जातकानि वैपुल्यम् अद्भुतधर्मावदानोपदेश-
15814 म् उपदेक्ष्यति प्रकाशयिष्यति विभजिष्यति उत्तानीकरिष्यति संप्रकाशयिष्यति।
15815 इमान्य् एवंरूपाणि मारकर्माणि चाख्यातानि नावबोधयति। इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यम्।}
15816 {पुनर् अपरं} {सुभूते} {मारः पापीयान्} {बोधिसत्त्वम्} महासत्त्वम् उपसंक्राम्यैवं वक्ष्यति। न ते कुलपुत्र किंचिद् बो-
15817 धिचित्तं नापि त्वम् अविनिवर्तनीयो नापि त्वं शक्ष्यस्य् अनुत्तरां सम्यक्संबोधिम् अभि-
15818 संबोद्धुम्। य इमान्य् एवंरूपाणि मारकर्माण्य् आख्यातानि नावबोधयति। इदम् अपि
15819 {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यम्।}
15820 {पुनर् अपरं} {सुभूते} {मारः पापीयान्} {बोधिसत्त्वस्य} महासत्त्वस्य बुद्धवेषेणोपसंक्रम्यैवं वक्ष्यति चक्षुः कुल-
15901 पुत्र शून्यम् आत्मना चात्मीयेन च। एवं श्रोत्रं {{शून्यम् आत्मना चात्मीयेन च घ्राणं शून्यम् आत्मना चात्मीयेन च जिह्वा शून्यात्मना चात्मीयेन च कायः शून्य आत्मना चात्मीयेन च}} मनः शून्यम् आत्मना चात्मी-
15902 येन च {{रूपं शून्यम् आत्मना चात्मीयेन च शब्दः शून्य आत्मना चात्मीयेन च गन्धः शून्य आत्मना चात्मीयेन च रसः शून्य आत्मना चात्मीयेन च स्प्रष्टव्यं शून्यम् आत्मना चात्मीयेन च धर्मः शून्य आत्मना चात्मीयेन च चक्षुर्विज्ञानं शून्यम् आत्मना चात्मीयेन च श्रोत्रविज्ञानं शून्यम् आत्मना चात्मीयेन च घ्राणविज्ञानं शून्यम् आत्मना चात्मीयेन च जिह्वाविज्ञानं शून्यम् आत्मना चात्मीयेन च कायविज्ञानं शून्यम् आत्मना चात्मीयेन च मनोविज्ञानं शून्यम् आत्मना चात्मीयेन च चक्षुःसंस्पर्शः शून्य आत्मना चात्मीयेन च श्रोत्रसंस्पर्शः शून्य आत्मना चात्मीयेन च घ्राणसंस्पर्शः शून्य आत्मना चात्मीयेन च जिह्वासंस्पर्शः शून्य आत्मना चात्मीयेन च कायसंस्पर्शः शून्य आत्मना चात्मीयेन च मनःसंस्पर्शः शून्य आत्मना चात्मीयेन च चक्षुःसंस्पर्शप्रत्ययवेदयितं शून्यम् आत्मना चात्मीयेन च श्रोत्रसंस्पर्शप्रत्ययवेदयितं शून्यम् आत्मना चात्मीयेन च घ्राणसंस्पर्शप्रत्ययवेदयितं शून्यम् आत्मना चात्मीयेन च जिह्वासंस्पर्शप्रत्ययवेदयितं शून्यम् आत्मना चात्मीयेन च कायसंस्पर्शप्रत्ययवेदयितं शून्यम् आत्मना चात्मीयेन च मनःसंस्पर्शप्रत्ययवेदयितं शून्यम् आत्मना चात्मीयेन च}}
15903 {{दानपारमिता शून्यात्मना चात्मीयेन च शीलपारमिता शून्यात्मना चात्मीयेन च क्षान्तिपारमिता शून्यात्मना चात्मीयेन च वीर्यपारमिता शून्यात्मना चात्मीयेन च ध्यानपारमिता शून्यात्मना चात्मीयेन च प्रज्ञापारमिता शून्यात्मना चात्मीयेन च}} स्मृत्युपस्थानानि शून्यानि आत्मना
15904 चात्मीयेन च एवं सम्यक्प्रहाणानि ऋद्धिपादाः इन्द्रियाणि बलानि बोध्य-

15905 ङ्गानि मार्गा यावद् आवेणिका बुद्धधर्माः शून्या आत्मना चात्मीयेन च। किं
15906 करिष्यत्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य य इमान्य् एवंरूपाणि मारकर्माणि
15907 नाचष्टे नोपदिशति। इदं {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यम्।}
15908 {पुनर् अपरं} {सुभूते} {मारः पापीयान्} {बोधिसत्त्वं} महासत्त्वं प्रत्येकबुद्धवेषेणोपसंक्रम्यैवं वक्ष्यति।
15909 शून्यता कुलपुत्र पूर्वदिग् बुद्धैर् भगवद्भिर् बोधिसत्त्वैः श्रावकैश् च नात्र बुद्धो न बोधि-
15910 र् न बोधिसत्त्वो न श्रावकः। एवं समन्ताद् दशदिशः शून्या बुद्धैर् भगवद्भिः
15911 बोधिसत्त्वैः श्रावकैश् च नात्र बुद्धो न बोधिर् न बोधिसत्त्वो न श्रावकः। य
15912 इमान्य् एवंरूपाणि मारकर्माणि नोपदेक्ष्यति। इमानि {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्राणि वेदितव्यानि।}
15913 {पुनर् अपरं} {सुभूते} {मारः पापीयान्} श्रमणवेषेणोपसंक्रम्य {बोधिसत्त्वं} महासत्त्वं सर्वाकारज्ञता-
15914 प्रतिसंयुक्तेभ्यो मनसिकारेभ्यो विवेच्य श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारै-
15915 र् अनुशासिष्यति अववदिष्यति। य इदम् एवंरूपं मारकर्म नोपदेक्ष्यति। इदं
15916 {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यम्।}
15917 {पुनर् अपरं} {सुभूते} {मारः पापीयान्} उपाध्यायाचार्यवेषेणोपसंक्रम्य {बोधिसत्त्वं} महासत्त्वं बोधि-
15918 सत्त्वचर्याया विवेचयिष्यति सर्वाकारज्ञताप्रतिसंयुक्तेभ्यो मनसिकारेभ्यो विवे-
15919 चयिष्यति। स्मृत्युपस्थानेषु नियोजयिष्यति सम्यक्प्रहाणेषु ऋद्धिपादेषु
15920 इन्द्रियेषु बलेषु बोध्यङ्गेषु मार्गेषु नियोजयिष्यति शून्यतायाम् अनिमित्ते अप्रणिहिते
15921 नियोजयिष्यति। इमान्य् एवंरूपान् धर्मान् साक्षत्कृत्य श्रावकभूमिं साक्षात्-
15922 कुरुष्व, किं ते करिष्यत्य् अनुत्तरया सम्यक्संबोध्यभिसंबुद्धया य इमान्य् एवं-
15923 रूपाणि मारकर्माणि नाचष्टे नोपदिशति। इदं {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यम्।}
16001 {पुनर् अपरं} {सुभूते} {मारः पापीयान्} मातापितृवेषेणोपसंक्रम्य {बोधिसत्त्वं} महासत्त्वम् एवं वक्ष्यति।
16002 एहि त्वं कुलपुत्र स्रोतआपत्तिफलसाक्षात्क्रियायै योगम् आपद्यस्व {सकृदागामिफलसाक्षात्क्रियायै योगम् आपद्यस्व, अनागामिफलसाक्षात्क्रियायै योगम् आपद्यस्व} अर्हत्त्व-
16003 फलसाक्षात्क्रियायै योगम् आपद्यस्व। किं ते ऽनुत्तरया सम्यक्संबोध्याभि-
16004 संबुद्धया यस्याः कृतशो ऽसंख्येयान् अप्रमेयान् कल्पान् संसारे संसरतो हस्त-
16005 च्छेदाः पादच्छेदाश् चानुभवितव्याः। य इमान्य् एवंरूपाणि मारकर्माणि
16006 नोपदेक्ष्यति नाख्यास्यति। इदं {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यम्।}
16007 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} महासत्त्वस्य {मारः पापीयान्} भिक्षुवेषेणोपसंक्रम्य रूपम् अनित्य-
16008 म् इति देशयिष्याति उपलम्भयोगेन। रूपं दुःखम् अनात्मकं शान्तं विविक्तं
16009 शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन।
16010 {{वेदनानित्येति देशयिष्याति उपलम्भयोगेन। वेदना दुःखानात्मका शान्ता विविक्ता शून्यानिमित्ताप्रणिहितेति देशयिश्यति उपलम्भयोगेन। संज्ञानित्येति देशयिष्याति उपलम्भयोगेन। संज्ञा दुःखानात्मका शान्ता विविक्ता शून्यानिमित्ताप्रणिहितेति देशयिश्यति उपलम्भयोगेन। संस्कारा अनित्या इति देशयिष्याति उपलम्भयोगेन। संस्कारा दुःखा अनात्मकाः शान्ता विविक्ताः शून्या अनिमित्ता अप्रणिहिता इति देशयिश्यति उपलम्भयोगेन। विज्ञानम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन। विज्ञानं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन। चक्षुर् अनित्यम् इति देशयिष्याति उपलम्भयोगेन। चक्षुर् दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन। श्रोत्रम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन। श्रोत्रं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन। घ्राणम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन। घ्राणं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन। जिह्वानित्येति देशयिष्याति उपलम्भयोगेन। जिह्वा दुःखानात्मका शान्ता विविक्ता शून्यानिमित्ताप्रणिहितेति देशयिश्यति उपलम्भयोगेन। कायो ऽनित्य इति देशयिष्याति उपलम्भयोगेन। कायो दुःखो ऽनात्मकः शान्त विविक्तः शून्यो ऽनिमित्तो ऽप्रणिहित इति देशयिश्यति उपलम्भयोगेन। मनो अनित्यम् इति देशयिष्याति उपलम्भयोगेन। मनो दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन। रूपम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन। रूपं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन। शब्दो ऽनित्य इति देशयिष्याति उपलम्भयोगेन। शब्दो दुःखो ऽनात्मकः शान्त विविक्तः शून्यो ऽनिमित्तो ऽप्रणिहित इति देशयिश्यति उपलम्भयोगेन। गन्धो ऽनित्य इति देशयिष्याति उपलम्भयोगेन। गन्धो दुःखो ऽनात्मकः शान्त विविक्तः शून्यो ऽनिमित्तो ऽप्रणिहित इति देशयिश्यति उपलम्भयोगेन। रसो ऽनित्य इति देशयिष्याति उपलम्भयोगेन। रसो दुःखो ऽनात्मकः शान्त विविक्तः शून्यो ऽनिमित्तो ऽप्रणिहित इति देशयिश्यति उपलम्भयोगेन। स्प्रष्टव्यम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन। स्प्रष्टव्यं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन। धर्मो ऽनित्य इति देशयिष्याति उपलम्भयोगेन। धर्मो दुःखो ऽनात्मकः शान्त विविक्तः शून्यो ऽनिमित्तो ऽप्रणिहित इति देशयिश्यति उपलम्भयोगेन। चक्षुर्विज्ञानम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन। चक्षुर्विज्ञानं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन। श्रोत्रविज्ञानम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन। श्रोत्रविज्ञानं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन। घ्राणविज्ञानम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन। घ्राणविज्ञानं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन। जिह्वाविज्ञानम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन। जिह्वाविज्ञानं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन। कायविज्ञानम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन। कायविज्ञानं दुःखम् अनात्मकं शान्तं

विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन। मनोविज्ञानम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन। मनोविज्ञानं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन}}। एवं यावत् स्मृत्युपस्थानान्य् अ-
16011 नित्यानि {{इति देशयिष्याति उपलम्भयोगेन। स्मृत्युपस्थानानि दुःखान्य् अनात्मकानि शान्तानि विविक्तानि शून्यान्य् अनिमित्तान्य् अप्रणिहितान्य् इति देशयिश्यति उपलम्भयोगेन}}। एवं सम्यक्प्रहाणान्य् {{अनित्यान्य् इति देशयिष्याति उपलम्भयोगेन। स्मृत्युपस्थानानि दुःखान्य् अनात्मकानि शान्तानि विविक्तानि शून्यान्य् अनिमित्तान्य् अप्रणिहितान्य् इति देशयिश्यति उपलम्भयोगेन। ऋद्धिपादा अनित्या इति देशयिष्याति उपलम्भयोगेन। संस्कारा दुःखा अनात्मकाः शान्ता विविक्ताः शून्या अनिमित्ता अप्रणिहिता इति देशयिश्यति उपलम्भयोगेन। इन्द्रियाण्य् अनित्यान्य् इति देशयिष्याति उपलम्भयोगेन। स्मृत्युपस्थानानि दुःखान्य् अनात्मकानि शान्तानि विविक्तानि शून्यान्य् अनिमित्तान्य् अप्रणिहितान्य् इति देशयिश्यति उपलम्भयोगेन। बलान्य् अनित्यान्य् इति देशयिष्याति उपलम्भयोगेन। स्मृत्युपस्थानानि दुःखान्य् अनात्मकानि शान्तानि विविक्तानि शून्यान्य् अनिमित्तान्य् अप्रणिहितान्य् इति देशयिश्यति उपलम्भयोगेन। बोध्यङ्गान्य् अनित्यान्य् इति देशयिष्याति उपलम्भयोगेन। स्मृत्युपस्थानानि दुःखान्य् अनात्मकानि शान्तानि विविक्तानि शून्यान्य् अनिमित्तान्य् अप्रणिहितान्य् इति देशयिश्यति उपलम्भयोगेन।}} मार्गो ऽ-
16012 नित्यो {{ऽनित्य इति देशयिष्याति उपलम्भयोगेन। मार्गो दुःखो ऽनात्मकः शान्त विविक्तः शून्यो ऽनिमित्तो ऽप्रणिहित इति देशयिश्यति उपलम्भयोगेन।}} यावद् बुद्धधर्मा अपि अनित्या {{इति देशयिष्याति उपलम्भयोगेन। संस्कारा दुःखा अनात्मकाः शान्ता विविक्ताः शून्या अनिमित्ता अप्रणिहिता इति देशयिश्यति उपलम्भयोगेन}}
16013 । य इमान्य् एवंरूपाणि मारकर्माणि नोपदेक्ष्यति नाख्यास्यति इद-
16014 म् अपि {{सुभूते बोधिसत्त्वस्य महासत्त्स्य}} पापमित्रं वेदितव्यं विदित्वा च परिवर्जयितव्यम्॥ [इति कल्याण-
16015 मित्रद्वितीयसंपरिग्रहः।] [इत्य् उक्तं निर्वेधाङ्गं चतुर्विधम्॥]
16016 सुभूतिर् आह। बोधिसत्त्वो बोधिसत्त्व इति भगवन्न् उच्यते। बोधिसत्त्व
16017 इति भगवन् कः पदार्थः। भगवान् आह। अपदार्थः सुभूते बोधिसत्त्वपदार्थः।
16018 तत् कस्य हेतोः। न हि सुभूते बोधिर् उत्पादास्तिता वा नास्तिता वा विद्यते वोप-
16019 लभ्यते। तस्माद् अपदार्थः सुभूते बोधिसत्त्वपदार्थः॥ [इति गोत्रस्वरूपम्।] तद्
16020 यथापि नाम सुभूते आकाशे शकुनेः पदं न {विद्यते नोपलभ्यते} एवम् एव सुभूते

16021 बोधिसत्त्वपदार्थो न {विद्यते नोपलभ्यते}।
16022 {{स्वप्नस्य पदं न विद्यते नोपलभ्यते एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते। मायायाः पदं न विद्यते नोपलभ्यते एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते। मरीच्याः पदं न विद्यते नोपलभ्यते एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते।}}
16023 {{प्रतिश्रुत्कायाः पदं न विद्यते नोपलभ्यते एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते। प्रतिभासस्य पदं न विद्यते नोपलभ्यते एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते। प्रतिबिम्बस्य पदं न विद्यते नोपलभ्यते एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते। गन्धर्वनगरस्य पदं न विद्यते नोपलभ्यते एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते। निर्मितस्य पदं न विद्यते नोपलभ्यते एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते }}॥
16101 [इत्य् उष्मगताधारः॥] {तद् यथापि नाम सुभूते} भूतकोट्याः पदं {न विद्यते नोपलभ्यते। एवम् एव बोधिसत्त्वस्य पदार्थो न विद्यते नोपलभ्यते}। {तद् यथापि नाम सुभूते} तथतायाः पदं {न विद्यते नोपलभ्यते। एवम् एव बोधिसत्त्वस्य पदार्थो न विद्यते नोपलभ्यते}।
16102 एवम् अवितथताया अनन्यतथताया धर्मताया धर्मधातोर् धर्मस्थितिताया धर्म-
16103 नियामतायाः सत्यतायाः पदं {न विद्यते नोपलभ्यते। एवम् एव बोधिसत्त्वस्य पदार्थो न विद्यते नोपलभ्यते}॥ [इति मूर्धगताधारः॥]
16104 {तद् यथापि नाम सुभूते} मायापुरुषस्य रूपस्य पदं न {विद्यते नोपलभ्यते}। एवम् एव सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य
16105 प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न {विद्यते नोपलभ्यते}। एवं वेदना संज्ञा संस्काराः।
16106 {तद् यथापि नाम सुभूते} मायापुरुषस्य विज्ञानस्य पदं न {विद्यते नोपलभ्यते}। एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते।}
16107 {{तद् यथापि नाम सुभूते मायापुरुषस्य चक्षुषः पदं न विद्यते नोपलभ्यते। एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते। एवं श्रोत्रं घ्राणं जिह्वा कायः। तद् यथापि नाम सुभूते मायापुरुषस्य मनसः पदं न विद्यते नोपलभ्यते। एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते। तद् यथापि नाम सुभूते मायापुरुषस्य रूपस्य पदं न विद्यते नोपलभ्यते। एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते। एवं शब्दो गन्धो रसः स्प्रष्टव्यं। तद् यथापि नाम सुभूते मायापुरुषस्य धर्मस्य पदं न विद्यते नोपलभ्यते। एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते। तद् यथापि नाम सुभूते मायापुरुषस्य चक्षुर्विज्ञानस्य पदं न विद्यते नोपलभ्यते। एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते। एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्व्विज्ञानं कायविज्ञानम्। तद् यथापि नाम सुभूते मायापुरुषस्य मनोविज्ञानस्य पदं न विद्यते नोपलभ्यते। एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}}॥ [इति
16108 क्षान्तिगताधारः॥]
16109 {तद् यथापि नाम सुभूते} मायापुरुषस्य अध्यात्मशून्यतायां चरतो बोधिसत्त्वपदार्थो न
16110 {विद्यते नोपलभ्यते}। एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते।} {{तद् यथापि नाम सुभूते मायापुरुषस्य बहिर्धाशून्यतायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते। एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}}। अध्यात्मबहिर्धाशून्यता-
16111 यां चरतो बोधिसत्त्वपदार्थो न {विद्यते नोपलभ्यते}। एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}। यावद् विस्तरेण। {तद् यथापि नाम सुभूते}
16112 मायापुरुषस्य अभावस्वभावशून्यतायां चरतो {{बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते। एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते।}} {तद् यथापि नाम सुभूते} माया-
16113 पुरुषस्य पारमितासु स्मृत्युपस्थान्{{एषु सम्यक्प्रहाणेषु ऋद्धिपादेषु इन्द्रियेषु बलेषु बोध्यङ्गेषु मार्गेषु प्रतिसंवित्सु वैशारद्येषु अभिज्ञासु तथागतबलेषु}} बुद्धधर्मेषु स्कन्धेषु धातुषु आयत-
16114 नेषु प्रतीत्यसमुत्पादेषु ध्यानारूप्यसमापत्त्यभिज्ञासु चरतो बोधिसत्त्वपदार्थो
16115 न {विद्यते नोपलभ्यते}। एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}॥ [इत्य् अग्रधर्मगताधारः॥]
16116 {तद् यथापि नाम सुभूते} तथागतस्यार्हतः सम्यक्संबुद्धस्य रूपपदार्थो न {विद्यते नोपलभ्यते}। एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}
16117

16201 {{एवं वेदना संज्ञा संस्काराः। तद् यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य विज्ञानपदार्थो न विद्यते नोपलभ्यते। एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते। तद् यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य चक्षुःपदार्थो न विद्यते नोपलभ्यते। एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते। एवं श्रोत्रं घ्राणं जिह्वा कायः। तद् यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य मनःपदार्थो न विद्यते नोपलभ्यते। एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते। तद् यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य रूपपदार्थो न विद्यते नोपलभ्यते। एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते। एवं शब्दो गन्धो रसः स्प्रष्टव्यं। तद् यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य धर्मपदार्थो न विद्यते नोपलभ्यते। एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते। तद् यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य चक्षुर्विज्ञानपदार्थो न विद्यते नोपलभ्यते। एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते। एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्व्विज्ञानं कायविज्ञानम्। तद् यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य मनोविज्ञानपदार्थो न विद्यते नोपलभ्यते। एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}}। {तद् यथापि नाम सुभूते} तथागतस्यार्हतः सम्यक्संबुद्धस्य
16202 अध्यात्मशून्यतायां यावद् अभावस्वभावशून्यतायां चरतो बोधिसत्त्वपदार्थो न
16203 {विद्यते नोपलभ्यते}। एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}। {तद् यथापि नाम सुभूते} तथागतस्यार्हतः सम्यक्संबुद्धस्य सर्वबोधिपक्षधर्म-
16204 बलवैशारद्यावेणिकबुद्धधर्मे चरतो बोधिसत्त्वपदार्थो न {विद्यते नोपलभ्यते}। एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}। {तद् यथापि नाम सुभूते}
16205 असंस्कृतधातौ संस्कृतध्तुपदं न {विद्यते नोपलभ्यते}। संस्कृतधातौ असंस्कृतधातुपदं न
16206 {विद्यते नोपलभ्यते}। एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}॥ [इति दर्शनमार्गाधारः॥]
16207 {तद् यथापि नाम सुभूते} अनुत्पादपदार्थो न {विद्यते नोपलभ्यते}। एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}। {तद् यथापि नाम सुभूते} अनिरोधानभिसंस्कारा-
16208 प्रादुर्भावानुपलम्भासंक्लेशपदार्थो न {विद्यते नोपलभ्यते}। एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}। {तद् यथापि नाम सुभूते} अव्यवदान-
16209 पदार्थो न {विद्यते नोपलभ्यते}। एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}। तत् कस्य हेतोः। रूपस्य सुभूते उत्पाद-
16210 पदार्थो न {विद्यते नोपलभ्यते।} {{वेदनायाः सुभूते उत्पादपदार्थो न विद्यते नोपलभ्यते। संज्ञायाः सुभूते उत्पादपदार्थो न विद्यते नोपलभ्यते। संस्काराणां सुभूते उत्पादपदार्थो न विद्यते नोपलभ्यते। विज्ञानस्य सुभूते उत्पादपदार्थो न विद्यते नोपलभ्यते}}। तत् कस्य हेतोः।
16211 रूपस्य सुभूते निरोधाभिसंस्कारप्रादुर्भावोपलम्भसंक्लेश{पदार्थो न विद्यते नोपलभ्यते}।
16212 {{वेदनायाः सुभूते निरोधाभिसंस्कारप्रादुर्भावोपलम्भसंक्लेशपदार्थो न विद्यते नोपलभ्यते। संज्ञायाः सुभूते निरोधाभिसंस्कारप्रादुर्भावोपलम्भसंक्लेशपदार्थो न विद्यते नोपलभ्यते। संस्काराणां सुभूते निरोधाभिसंस्कारप्रादुर्भावोपलम्भसंक्लेशपदार्थो न विद्यते नोपलभ्यते। विज्ञानस्य सुभूते निरोधाभिसंस्कारप्रादुर्भावोपलम्भसंक्लेशपदार्थो न विद्यते नोपलभ्यते}}। [तत् कस्य हेतोः। रूपस्य सुभूते अव्यवदान{पदार्थो न विद्यते नोपलभ्यते}]।
16213 {{वेदनायाः सुभूते अव्यवदानपदार्थो न विद्यते नोपलभ्यते। संज्ञायाः सुभूते अव्यवदानपदार्थो न विद्यते नोपलभ्यते। संस्काराणां सुभूते अव्यवदान{पदार्थो न विद्यते नोपलभ्यते। विज्ञानस्य सुभूते अव्यवदानपदार्थो न विद्यते नोपलभ्यते}}। {तद् यथापि नाम सुभूते} व्यस्तसमस्तानां स्कन्धानां धातू-
16214 नाम् आयतनानां प्रतीत्यसमुत्पादस्य उत्पाद{पदार्थो न विद्यते नोपलभ्यते}। यावत् स्कन्धधात्वायतनप्रतीत्य-
16215 समुत्पादेषु व्यवदान{पदार्थो न विद्यते नोपलभ्यते}। एवं सप्तत्रिंशद्बोधिपक्षधर्माप्रमाणध्यानारूप्य-
16216 समापत्त्यभिज्ञाप्रतिसंविद्दशबलवैशारद्यावेणिकबुद्धधर्माणाम् उत्पाद{पदार्थो न विद्यते नोपलभ्यते}। एवं
16217 यावद् व्यवदान{पदार्थो न विद्यते नोपलभ्यते}। एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}। {तद् यथापि नाम सुभूते} आवेणिकानां बुद्धधर्माणां यावत्
16218 संक्लेशव्यवदान{पदार्थो न विद्यते नोपलभ्यते}। एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}।
16219 {तद् यथापि नाम सुभूते} रूपस्यात्यन्तविविक्तत्वान् निमित्तपदं न {विद्यते नोपलभ्यते}। एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते।}

16301 {{वेदनाया अत्यन्तविविक्तत्वान् निमित्तपदं न विद्यते नोपलभ्यते। एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते। संज्ञाया अत्यन्तविविक्तत्वान् निमित्तपदं न विद्यते नोपलभ्यते। एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते। संस्काराणाम् अत्यन्तविविक्तत्वान् निमित्तपदं न विद्यते नोपलभ्यते। एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते। विज्ञानस्यात्यन्तविविक्तत्वान् निमित्तपदं न विद्यते नोपलभ्यते। एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}}। {तद् यथापि नाम सुभूते} व्यस्तसमस्तानां स्कन्धधात्वायतन-

16302 प्रतीत्यसमुत्पादानाम् अत्यन्तविविक्तत्वान् निमित्तपदं न {विद्यते नोपलभ्यते}। एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}।
16303 {तद् यथापि नाम सुभूते} स्मृत्युपस्थानानाम् अत्यन्तविशुद्धत्वान् निमित्तपदं न {विद्यते नोपलभ्यते}। एवम् एव
16304 {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}। एवं सम्यक्प्रहाण{{र्द्धिपादेन्द्रियबलबोध्यङ्गमार्गबलवैशारद्यप्रतिसंविदावेणिक}}बुद्धधर्माणाम् अत्यन्तविशुद्धत्वान् निमित्तपदं
16305 न {विद्यते नोपलभ्यते}। एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}। {तद् यथापि नाम सुभूते} आत्मसत्त्वजीव{{पोषपुरुषपुद्गलमनुजमानवकारकवेदकजानक}}पश्यकानां विशुद्धौ
16306 पदं न {विद्यते नोपलभ्यते} आत्मसत्त्वजीव{{पोषपुरुषपुद्गलमनुजमानवकारकवेदकजानक}}पश्यकासत्त्वाम् उपादाय। एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}
16307 [इति भावनामार्गाधारः॥]
16308 {तद् यथापि नाम सुभूते} आदित्यस्योदागच्छतः प्रभायाः पदं न {विद्यते नोपलभ्यते}। एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}॥ [इति
16309 प्रतिपक्षाधारः॥]
16310 {तद् यथापि नाम सुभूते} कल्पोद्वाहे वर्तमाने सर्वसंस्कारे पदं न {विद्यते नोपलभ्यते}। एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}
16311 ॥ [इति विपक्षप्रहाणाधारः॥]
16312 {तद् यथापि नाम सुभूते} तथागतस्यार्हतः सम्यक्संबुद्धस्य शीले दौःशील्यपदं न {विद्यते नोपलभ्यते}।
16313 एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}। {तद् यथापि नाम सुभूते} तथागतस्यार्हतः सम्यक्संबुद्धस्य समाधौ विक्षेपपदं न {विद्यते नोपलभ्यते}।
16314 तथागतप्रज्ञायां दौष्प्रज्ञपदं न {विद्यते नोपलभ्यते}। तथागतविमुक्ताव् अविमुक्तिपदं न {विद्यते नोपलभ्यते}।
16315 एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}। {तद् यथापि नाम सुभूते} तथागतस्यार्हतः सम्यक्संबुद्धस्य विमुक्तिज्ञानदर्शनपदं न
16316 {विद्यते नोपलभ्यते}। एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}॥ [इति प्रतिपक्षविपक्षविकल्पप्रहाणाधारः॥]
16317 {तद् यथापि नाम सुभूते} सूर्याचन्द्रमसोः प्रभायाः पदं न {विद्यते नोपलभ्यते}। एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}॥ [इति प्रज्ञा-
16318 करुणाधारः॥]
16401 {तद् यथापि नाम सुभूते} श्रावकप्रत्येकबुद्धग्रहनक्षत्रमणिरत्नज्योतिषां प्रभायाः पदं न {विद्यते नोपलभ्यते}।
16402 एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}॥ [इत्य् असाधारणगुणाधारः॥]
16403 {तद् यथापि नाम सुभूते} चातुर्महाराजकायिकानां देवानां {{त्रयस्त्रिंशानां देवानां यामानां देवानां तुषितानां देवानां निर्माणरतयानां देवानां परनिर्मितवशवर्तिनां देवानां ब्रह्मपार्षद्यानां देवानां ब्रह्मपुरोहितानां देवानां}}
16404 महाब्रह्माणां देवानां यावद् अकनिष्ठानां देवानां प्रभायाः पदं न {विद्यते नोपलभ्यते}। एवम् एव
16405 {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}॥ [इति परार्थानुक्रमाधारः।]
16406 {तद् यथापि नाम सुभूते} तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रभायाः पदं न {विद्यते नोपलभ्यते}। एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}।
16407 तत् कस्य हेतोः। तथा हि सुभूते यया बोध्या बोधिसत्त्वपदार्थः यश् च बोधिसत्त्व-
16408 पदार्थः सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिनो ऽनिदर्शना अप्रतिघा एक-
16409 लक्षणा यद् उतालक्षणाः। सर्वधर्माणां हि सुभूते {बोधिसत्त्वेन} महासत्त्वेन असक्तताया-
16410 म् असद्भूततायां शिक्षितव्यम्। अकल्पनताम् अकल्पनतां चोपादाय सर्वधर्माश् च सुभ्ते
16411 {बोधिसत्त्वेन} महासत्त्वेनावबोद्धव्याः॥ [इत्य् अनाभासे प्रवृत्तज्ञानाधारः॥] [इत्य् उक्तः प्रति-
16412 पत्त्याधारः॥]
16413 सुभूतिर् आह। कतमे भगवन् सर्वधर्माः। कथं भगवन् {बोधिसत्त्वेन} महासत्त्वेन सर्व-
16414 धर्माणाम् असद्भूततायां शिक्षितव्यम्। कथं भगवन् {बोधिसत्त्वेन} महासत्त्वेन सर्वधर्मा
16415 अवबोद्धव्याः। भगवान् आह। सर्वधर्मा उच्यन्ते कुशलाश् चाकुशलाश् च व्याकृता-
16416 श् चाव्याकृताश् च लौकिकाश् च लोकोत्तराश् च सास्रवाश् चानास्रवाश् च संस्कृताश् चासंस्कृताश् च
16417 साधारणाश् चासाधारणाश् च। इम उच्यन्ते सुभूते सर्वधर्मा यत्र {बोधिसत्त्वेन} महासत्त्वेना-
16501 सद्भूततायां शिक्षितव्यम्। इमे सुभूते {बोधिसत्त्वेन} महासत्त्वेन सर्वधर्मा अवबोद्धव्याः॥
16502 [इत्य् आलम्बनस्वरूपम्॥]
16503 सुभूतिर् आह। कतमे भगवन् कुशला लोकिका धर्माः। भगवान् आह।
16504 कुशला लौकिका धर्मा उच्यन्ते, मात्रेयता प्त्रेयता श्रामण्यता ब्रह्मण्यता
16505 कुले ज्येष्ठापचायिता। दानमयं पुण्यक्रियावस्तु शीलमयं {पुण्यक्रियावस्तु}। भावनामयं {पुण्यक्रियावस्तु}।
16506 वैयावृत्यसहगतम् उपायकौशलम्। दशकुशलाः कर्मपथाः। लौकिका नवसंज्ञा।

16507 आध्मातकसंज्ञा विपटुमकसंज्ञा {{विपूयकसंज्ञा विलोहितकसंज्ञा विनीलकसंज्ञा विखादितकसंज्ञा विक्षिप्तकसंज्ञास्थिसंज्ञा}} विदग्धकसंज्ञा।
16508 लौकिकानि चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः।
16509 लौकिक्यः पञ्चाभिज्ञाः लौकिक्यो दशानुस्मृतयः। यद् उत बुद्धानुस्मृतिः
16510 धर्मानुस्मृतिः {{संघानुस्मृतिः शीलानुस्मृतिः त्यागानुस्मृतिर् देवतानुस्मृतिर् आनापानानुस्मृतिर् मरणानुस्मृतिर्}} उद्वेगानुस्मृतिः कायगतानुस्मृतिः॥
16511 [इम उच्यन्ते कुशला लौकिका धर्माः॥]
16512 सुभूतिर् आह। कतमे भगवन् लौकिका अकुशला धर्माः। भगवान् आह।
16513 प्राणातिपातो ऽदत्तादानं काममिथ्याचारो मृषावादः पैशुन्यं पारुष्यं सम्भिन्नप्रला-
16514 पो ऽभिध्या व्यापादो मिथ्यादर्शनं दश अकुशलकर्मपथाः क्रोधोपनाहौ
16515 म्रक्षः प्रदाशो विहिंसा ईर्ष्या मात्सर्यं मानो मिथ्यामानः॥ [इम उच्यन्ते
16516 लौकिका अकुशला धर्माः॥]
16601 सुभूतिर् आह। कतमे भगवन् अव्याकृता धर्माः। भगवान् आह। अव्याकृतं
16602 कायकर्म। {अव्याकृतं} वाक्कर्म। {अव्याकृतं} मनःकर्म। {अव्याकृतानि} चत्वारि महाभूआनि।
16603 {अव्याकृतानि} पञ्चेन्द्रियानि। {अव्याकृतानि} षडायतनानि। {अव्याकृतान्य्} अरूप्याणि स्कन्ध-
16604 धात्वायतनानि। {अव्याकृताः} विआकाः॥ [सर्व इम उच्यन्ते अव्याकृता धर्माः।]
16605 सुभूतिर् आह। कतमे भगवन् लौकिकाः कुशला धर्माः। भगवान् आह।
16606 पञ्च स्कन्धा द्वादशायतनानि अष्टादश धातवो दश कुशलाः कर्मपथाश् चत्वारि
16607 ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः पञ्चाभिज्ञाः ये चान्ये
16608 लौकिका धर्माः॥ [इम उच्यन्ते लौकिकाः कुशलधर्माः॥]
16609 सुभूतिर् आह। कतमे भगवन् लोकोत्तराः कुशला धर्माः। भगवान् आह।
16610 चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः
16611 पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गानि आर्याष्ठाङ्गो मार्गः। शून्यता-
16612 विमोक्षमुखम् अनिमित्तविमोक्षमुखम् अप्रणिहितविमोक्षमुखं अनाज्ञातम् आज्ञा-
16613 स्यामीन्द्रियम् आज्ञेन्द्रियम् आज्ञातावीन्द्रियम्। सवितर्कः सविचारः समाधिः।
16614 अवितर्को ऽविचारः समाधिः। विद्या विमुक्तिः स्मृतिः सम्प्रजन्यं योनिशो
16615 मनस्कारः। अष्टौ विमोक्षाः कतमे अष्टौ रूपी रूपाणि पश्यति। अयं
16616 प्रथमो विमोक्षः। अध्यात्मम् अरूपसंज्ञी बहिर्धारूपाणि पश्यति। अयं द्वितीयो
16617 विमोक्षः। शून्यतायाम् अधिमुक्तो भवति। अयं तृतीयो विमोक्षः। सर्वशो
16618 रूपसंज्ञानां समतिक्रमातु प्रतिघसंज्ञानाम् अस्तङ्गमात् नानात्वसंज्ञानाम् अमनसि-
16619 काराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति। अयं चतुर्थो
16620 विमोक्षः। सर्वश आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति
16621 विज्ञानानन्त्यायतनम् उपसंपद्य विहरति। अयं पञ्चमो विमोक्षः। सर्वशो
16622 विज्ञानानन्त्यायतनसमतिक्रमात् नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपसंपद्य
16623 विहरति। अयं षष्ठो विमोषः। सर्वश आकिञ्चन्यायतनसमतिक्रमात् नैव
16701 संज्ञानासंज्ञायतनम् उपसंपद्य विहरति। अयं सप्तमो विमोक्षः। सर्वशो नैव
16702 संज्ञानासंज्ञायतनसमतिक्रमात् संज्ञावेदयितनिरोधम् उपसंपद्य विहरति। अयम्
16703 अष्टमो विमोक्षः। इम अष्टौ विमोक्षाः। नवानुपूर्वविहारसमापत्तयः।
16704 चत्वारि ध्यानानि विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं
16705 सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् {उपसंपद्य विहरति}। वितर्कविचाराणां
16706 व्युपशमाद् अध्यात्मं सम्प्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं समाधिजं
16707 प्रीतिसुखं द्वितीयं ध्यानम् {उपसंपद्य विहरति}। प्रीतेर् विरागाद् उपेक्षकश् च विहरति स्मृतिमान्

16708 संप्रजानन् सुखञ् च कायेन प्रतिसंवेदयति यत् तद् आर्या आचक्षते उपेक्षकः स्मृतिमांश् च
16709 सुखविहारीति तृतीयं ध्यानम् {उपसंपद्य विहरति}। सुखस्य च प्रहाणाद् दुःखस्य च प्रहाणात्
16710 पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अस्तङ्गमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं
16711 ध्यानम् {उपसंपद्य विहरति}। स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तङ्गमात्
16712 नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इति आकाशानन्त्यायतनम् {उपसंपद्य विहरति}।
16713 स सर्वश आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्याय-
16714 तनम् {उपसंपद्य विहरति}। स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किञ्चिद् इत्य् आ-
16715 किञ्चन्यायतनम् {उपसंपद्य विहरति}। स सर्वश आकिञ्चन्यायतनसमतिक्रमान् नैव संज्ञा-
16716 नासंज्ञायतनम् {उपसंपद्य विहरति}। स सर्वशो नैवसंज्ञानासंज्ञायतनसमतिक्रमात् संज्ञावेदयित-
16717 निरोधम् {उपसंपद्य विहरति}। एता नवानुपूर्वविहारसमापत्तयः। अध्यात्मशून्यता बहिर्धाशून्यता
16718 अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता। दशबलानि चत्वारि
16801 वैशारद्यानि चतस्रः प्रतिसंविदः। अष्टादशावेणिका बुद्धधर्माः॥ [इम उच्यन्ते
16802 लोकोत्तराः कुशलधर्माः॥]
16803 सुभूतिर् आह। कतमे भगवन् सास्रवा धर्माः। भगवान् आह। पञ्चस्कन्धा
16804 द्वादशायतनानि अष्टादश धातवश् चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र
16805 आरूप्यसमापत्तयः। [इम उच्यन्ते सास्रवा धर्माः॥]
16806 सुभूतिर् आह। कतमे भगवन् अनास्रवा धर्माः। भगवान् आह। चत्वारि
16807 स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि
16808 पञ्चबलानि सप्त बोध्यङ्गानि आर्याष्टाङ्गमार्गः दशःतथागतबलानि चत्वारि
16809 वैशारद्यानि चतस्रः प्रतिसंविदो यावद् अष्टादशावेणिका बुद्धधर्माः। [इम उच्यन्ते
16810 अनास्रवा धर्माः॥]
16811 सुभूतिर् आह। कतमे भगवन् संस्कृता धर्माः। भगवान् आह। कामधातू
16812 रूपधातुर् आरूप्यधातुर् ये ऽप्य् अन्ये केचित् त्रैधातुकपर्यापन्ना धर्माः। सप्तत्रिंशद्
16813 बोधिपक्षादयो धर्माः। [इम उच्यन्ते संस्कृता धर्माः॥]
16814 सुभूतिर् आह। कतमे भगवन्न् असंस्कृता धर्माः। भगवान् आह। येषां
16815 धर्माणान् नोत्पादो न निरोधो नान्यथात्वं प्रज्ञायते रागक्षयो दोषक्षयो मोहक्षयश् च।
16816 तथता अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता
16817 भूतकोटिः। [इम उच्यन्ते असंस्कृता धर्माः॥]
16818 सुभूतिर् आह। कतमे भगवन् साधारणा धर्माः। भगवान् आह। चत्वारि
16819 ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः पञ्चाभिज्ञाः॥ [इम
16820 उच्यन्ते साधारणा धर्माः॥]
16821 सुभूतिर् आह। कतमे भगवन्न् असाधारणा धर्माः। भगवान् आह। सप्तत्रिंशद्
16822 बोधिपक्षधर्मा दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः त्रीणि
16823 विमोक्षमुखानि अष्टादशावेणिका बुद्धधर्माः॥ [इम उच्यन्ते असाधारणा धर्माः॥]
16901 तत्र {बोधिसत्त्वेन} महासत्त्वेन स्वलक्षणशून्येषु धर्मेषु न सक्तिः कार्या अद्वययोगेन
16902 च सर्वधर्मा अवबोद्धव्याः। अवकल्पनताम् अनवकल्पनतां चोपादाय। [इत्य् उक्तं
16903 प्रतिपत्त्यालम्बनम्।]
16904 सुभूतिर् आह। यद् उच्यते भगवन् बोधिसत्त्वो महासत्त्व इति। केन
16905 कारणेन भगवन् {बोधिसत्त्वो} महासत्त्व इत्य् उच्यते। भगवान् आह। इह सुभूते महतः
16906 सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रतां कारयिष्यति। तेन कारणेन सुभूते {बोधिसत्त्वो}

मूल पाठ: Pañcaviṃśatisāhasrikā Prajñāpāramitā, 1 · Edition: Nalinaksha Dutt: Pañcaviṃśatisāhasrikā Prajñāpāramitā, Calcutta 1934 (Calcutta Oriental Series, 28). = PSP1 · Data entry Kenta Suzuki Koichi Takahashi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc