पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता · भाग 81100
16907 महासत्त्व इत्य् उच्यते।
16908 सुभूतिर् आह। कतमो भगवन् महासत्त्वराशिर् महासत्त्वनिकायः यस्य
16909 {बोधिसत्त्वो} महासत्त्वो ऽग्रतां कारयिष्यति। भगवान् आह। महासत्त्वराशि-
16910 र् महासत्त्वनिकाय इति सुभूते उच्यते यद् उत गोत्रभूमिर् अष्टमकभूमिः
16911 स्रोतआपन्नः सकृदागामी अनागामी अर्हत् प्रत्येकबुद्धः प्रथमचित्तोत्पादम् उपादाय
16912 यावद् अविनिवर्तनीय इति। अयं महान् सत्त्वराशिः महासत्त्वनिकायः। अस्य
16913 {बोधिसत्त्वो} महासत्त्वो ऽग्रतां कारयिष्यति। अत्र सुभूते {बोधिसत्त्वेन} महासत्त्वेन वज्रोपमं
16914 चित्तम् उत्पाद्य महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रताः कारयितव्याः।
16915 सुभूतिर् आह। कतमो भगवन् वज्रोपमश् चित्तोत्पादः। भगवान् आह इह
16916 सुभूते {बोधिसत्त्वो} महासत्त्व एवं चित्तम् उत्पादयति। अपरिमिते मया संसारे सन्नाहं
16917 सन्नह्य सर्वसत्त्वापरित्यागिना भवितव्यम्। सर्वसत्त्वानाम् अन्तिके मया
16918 समचित्तता उत्पादयितव्या। सर्वसत्त्वा मया त्रिभिर् यानैः परिनिर्वापयितव्याः।
17001 सर्वसत्त्वान् अपि मया परिनिर्वाप्य न कश्चित् सत्त्वः परिनिर्वापितो भवति।
17002 तत् कस्य हेतोः। अनुत्पादो मया सर्वधर्माणाम् अवबोद्धव्यः। अव्यवकीर्णेन मया
17003 सर्वाकारज्ञताचित्तेन षाट्सु पारमितासु चरितव्यम्। सर्वत्रानुगतायां सर्वधर्म-
17004 प्रतिवेधपरिनिष्पत्त्यां मया शिक्षितव्यम्। एकतयाभिनिर्हारो मया सर्वधर्माणां
17005 प्रतिबोद्धव्यः यावत् पारमिताभिनिर्हार{प्रतिवेधाय मया सर्वधर्माणां शिक्षितव्यम्।} सप्तत्रिंशद् बोधिपक्षधर्माभिनिर्हार-
17006 {प्रतिवेधाय मया सर्वधर्माणां शिक्षितव्यम्}। अप्रमाणध्यानारूप्याभिज्ञाज्ञानाभिनिर्हार{प्रतिवेधाय मया सर्वधर्माणां शिक्षितव्यम्}। दशबलवैशारद्यावेणिक-
17007 बुद्धधर्माभिनिर्हार{प्रतिवेधाय मया सर्वधर्माणां शिक्षितव्यम्}। अयं सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य वज्रोपमश् चित्तोत्पादः।
17008 यत्र प्रतिष्ठितो {बोधिसत्त्वो} महासत्त्वो महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रतां
17009 कारयिष्यति। तच् चानुपलम्भयोगेन।
17010 पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व एवं चित्तम् उत्पादयति। यावन्तः
17011 सत्त्वा नैरयिका वा तैर्यग्योनिका वा यमलौकिका वा दुःखां वेदनां वेदयन्ति
17012 तां दुःखां वेदनां वेदयेयं। तत्र {बोधिसत्त्वेन} महासत्त्वेन एवं चित्त-
17013 म् उत्पादयितव्यम्। एकैकस्याप्य् अहं सत्त्वस्यार्थाय कल्पकोटीनियुतशतसहस्राणि
17014 नैरयिकं वा तैर्यग्योनिकं वा यमलौकिकं वा दुःखम् अनुभवेयं यावन् न ते सत्त्वा
17015 निरूपधिशेषनिर्वाणधातौ परिनिर्वृता भवेयुर् इति। एतेनोपायेन सर्वसत्तानां
17016 कृतशस् तन् नैरयिकादिकं दुःखम् अनुभवेयं यावन् न ते सत्त्वा {{निरूपधिशेषनिर्वाणधातौ परिनिर्वृता भवेयुर्}}
17017 इति। पश्चाद् अहम् आत्मनः कृतकुशलम् अवरोप्य कल्पकोटी-
17018 नियुतशतसहस्रैर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धेयं। अयं सुभूते {बोधिसत्त्वस्य}
17019 महासत्त्वस्य वज्रोपमश् चित्तोत्पादः {{यत्र प्रतिष्ठितो बोधिसत्त्वो महासत्त्वो महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रतां कारयिष्यति। तच् चानुपलम्भयोगेन। पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व एवं चित्तम् उत्पादयति। यावन्तः सत्त्वा नैरयिका वा तैर्यग्योनिका वा यमलौकिका वा दुःखां वेदनां वेदयन्ति तां दुःखां वेदनां वेदयेयं। तत्र बोधिसत्त्वेन महासत्त्वेन एवं चित्तम् उत्पादयितव्यम्। एकैकस्याप्य् अहं सत्त्वस्यार्थाय कल्पकोटीनियुतशतसहस्राणि नैरयिकं वा तैर्यग्योनिकं वा यमलौकिकं वा दुःखम् अनुभवेयं यावन् न ते सत्त्वा निरूपधिशेषनिर्वाणधातौ परिनिर्वृता भवेयुर् इति}}।
17020 पुनर् अपरं सुभूते {बोधिसत्त्वेन} महासत्त्वेन उदारचित्तेन भवितव्यं येन चित्तेन सर्व-
17021 सत्त्वानाम् अग्रता कारयितव्या। तत्रेयं {बोधिसत्त्वस्य} महासत्त्वस्योदारचित्तता यत् प्रथम-
17022 चित्तोत्पादम् उपादाय न रागचित्तम् उत्पादयति। न दोष{चित्तम् उत्पादयति}। न मोह{चित्तम् उत्पादयति}।
17023 न विहिंसा{चित्तम् उत्पादयति}। न श्रावक{चित्तम् उत्पादयति}। न प्रत्येकबुद्ध{चित्तम् उत्पादयति}। इयं सुभूते {बोधिसत्त्वस्य}
17101 महासत्त्वस्योदारचित्तता यया सर्वसत्त्वानाम् अग्रतां कारयिस्यति। तेन च
17102 चित्तेन न मन्यते।
17103 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन अकम्प्यचित्तेन भवितव्यम्। तत्रेयं
17104 {बोधिसत्त्वस्य} महासत्त्वस्याकम्प्यचित्तता यत् सर्वाकारज्ञताप्रतिसंयुक्तम् अपि मनसिकारन् न
17105 मन्यते। इयं सुभूते {बोधिसत्त्वस्य} महासत्त्वस्याकम्प्यचित्तता।
17106 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन सर्वसत्त्वानाम् अन्तिके हितसुखचित्तेन भवितव्यम्।
17107 तत्रेयं {बोधिसत्त्वस्य} महासत्त्वस्य हितसुखचित्तता या सर्वसत्त्वानां परित्राणना यः
17108 सर्वसत्त्वानाम् अपरित्यागः तेन च न मन्यते। इयं सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य
17109 हितसुखचित्तता। एवं हि सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्
17110 सर्वसत्त्वानाम् अग्रतां कारयिष्यति।
17111 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन धर्मरागेण भवितव्यम्। धर्मस् तेन धर्मारागता-
17112 योगम् अनुयुक्तेन भवितव्यम्। तत्र कतमो धर्मो यद् उत सर्वधर्माणाम् असम्भेदः
17113 अयम् उच्यते धर्मः। तत्र कतमो धर्मरतिर् या धर्मे ऽभिरतिर् इयम् उच्यते धर्मरतिः।
17114 तत्र कतमा धर्मारामता या तस्य धर्मस्य भावना बहुलीकरणता इयम् उच्यते
17115 धर्मारामता। एवं हि सुभूते {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां चरता महतः
17116 {{सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रता}} कारयितव्या अनुपलम्भयोगेन। पुनर् अपरं सुभूते
17117 {बोधिसत्त्वेन} महासत्त्वेन {प्रज्ञापारमितायां चरता} अध्यात्मशून्यतायां स्थित्वा बहिर्धाशून्यतायां स्थित्वा
17118 अध्यात्मबहिर्धाशून्यतायां स्थित्वा यावद् अभावस्वभावशून्यतायां स्थित्वा महतः
17119 {{सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रता कारयितव्या अनुपलम्भयोगेन}}। {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन {प्रज्ञापारमितायां चरता} सप्तत्रिंशद्-
17120 बोधिपक्षेषु धर्मेषु स्थित्वा बलेषु वैशारद्येषु प्रतिसंवित्स्व् अष्टादशावेणिकेषु
17121 बुद्धधर्मेषु स्थित्वा महतः {{सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रता कारयितव्या अनुपलम्भयोगेन}}। {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन}
17201 महासत्त्वेन {प्रज्ञापारमितायां चरता} वज्रोपमसमाधौ स्थित्वा यावद् आकाशासङ्गैमुक्तिनिरुपलेप-
17202 समाधौ स्थित्वा महतः {{सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रतां कारयितव्या अनुपलम्भयोगेन}}। एतेषु सुभूते
17203 धर्मेषु स्थित्वा {बोधिसत्त्वेन} महासत्त्वेन {प्रज्ञापारमितायां चरता} महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रता
17204 कारयितव्या। तेनोच्यते बोधिसत्त्वो महासत्त्वः॥ [इति सर्वसत्त्वाग्रताचित्त-
17205 महत्त्वम्॥]
17206 अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्। ममापि भगवन्
17207 प्रतिभाति येनार्थेन {बोधिसत्त्वो} महासत्त्व इत्य् उच्यते। भगवान् आह। प्रतिभातु ते
17208 शारिपुत्र येनार्थेन {बोधिसत्त्वो} महासत्त्वः। शारिपुत्र आह। आत्मदृष्टेर् भगवन्
17209 सत्त्वदृष्टेर् जन्तुजीवपोष{{पुरुषपुद्गलमनुजमानवकारकवेदकजानक}}पश्यकदृष्टेर् उच्छेददृष्टेः शाश्वतदृष्टेर् अस्तिदृष्टे-
17210 र् नास्तिदृष्टेः स्कन्धदृष्टेर् धातुदृष्टेर् आयतनदृष्टेः प्रतीत्यसमुत्पाददृष्टेर् बोधिपक्ष-
17211 धर्मदृष्टेर् बलवैशारद्यदृष्टेर् आवेणिकबुद्धधर्मदृष्टेः सत्त्वपरिपाचनदृष्टेर् बुद्धक्षेत्रपरि-
17212 शोधनदृष्टेर् बोधिसत्त्वदृष्टेर् बुद्धदृष्टेर् धर्मचक्रप्रवर्त्तनदृष्टेर् इति। आसां सर्वासां
17213 दृष्टीनां प्रहाणाय धर्म देशयति अनुपलम्भयोगेन। तेनार्थेन {बोधिसत्त्वो} महासत्त्व
17214 इत्य् उच्यते।
17215 सुभूतिर् आह। केन कारणेनायुष्मन् शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य रूपदृष्टि-
17216 र् भवति {{वेदनादृष्टिर् भवति संज्ञादृष्टिर् भवति संस्कारदृष्टिर् भवति}} विज्ञानदृष्टिर् भवति। शारिपुत्र आह। इहायुष्मन् सुभूते {बोधिसत्त्वो}
17217 महासत्त्वः प्रज्ञापारमितायाञ् चरन् अनुपायकुशलो भवति। स रूपम् उपलभ्य
17218 दृष्टिम् उत्पादयति उपलम्भयोगेन। एवं विस्तरेण व्यस्तसमस्तस्कन्धधात्वाय-
17219 तनप्रतीत्यसमुत्पादं यावज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाम् उपलभ्य
17220 दृष्टिम् {उत्पादयति उपलम्भयोगेन}। एवं स्मृत्युपस्थान{{प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्ग-
13008 पारमिताऽ}}भिज्ञाऽक्षराप्रमाणध्यानारूप्यसमापत्ती-
17221 र् उपलभ्य दृष्टिम् {उत्पादयति उपलम्भयोगेन}। एवं दशबलवैशारद्य{{प्रतिसंविदष्टादशावेणिक}}बुद्धधर्मान् उपलभ्य दृष्टिम् {उत्पादयति उपलम्भयोगेन}॥
17222 [इति प्रहाणमहत्त्वम्॥]
17223 अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्। ममापि भगवन् प्रतिभाति
17224 येनार्थेन {बोधिसत्त्वो} महासत्त्व इत्य् उच्यते। भगवान् आह। प्रतिभातु ते सुभूते।
17225 सुभूतिर् आह। यद् अपि भगवन् बोधिचित्तम् असमसमचित्तम् असाधारणचित्तं सर्व-
17301 श्रावकप्रत्येकबुद्धैः तत्रापि चित्ते ऽसक्तः। तत् कस्य हेतोः। तथा हि तत् सर्वज्ञता-
17302 चित्तम् अनास्रवम् अपर्यापन्नं त्रैधातुके तत्रापि चित्ते ऽसक्तस् तेन {बोधिसत्त्वो} महासत्त्व इति
17303 संख्यां गच्छति।
17304 शारिपुत्र आह। कतमद् आयुष्मन् सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य असमसम-
17305 चित्तम् असाधारणचित्तं सर्वश्रावकप्रत्येकबुद्धैः।
17306 सुभूतिर् आह। इहायुष्मन् शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रथमचित्तोत्पाद-
17307 म् उपादाय न कस्यचिद् धर्मस्य उत्पादं वा निरोधं वा समनुपश्यति
17308 न हानिं न वृद्धिं नागतिं न गतिम्। न संक्लेशं न व्यवदानं यत्र
17309 चायुष्मन् शारिपुत्र न संक्लेशो न व्यवदानं न गतिर् नागतिर् न हानिर् न
17310 वृद्धिर् नोत्पादो न निरोधः। तच् च न श्रावकचित्तं न प्रत्येकबुद्ध-
17311 चित्तम्। इदं शारिउत्र {बोधिसत्त्वस्य} महासत्त्वस्य असमसमचित्तम् असाधारण-
17312 चित्तं सर्वश्रावकप्रत्येकबुद्धैः॥
17313 {शारिपुत्र} आह। यदायुष्मन् सुभूतिर् एवम् आह तत्रापि श्रावकप्रत्येकबुद्ध-
17314 चित्ते ऽसक्त इति। नन्व् आयुष्मन् सुभूते रूपम् अप्य् असक्तं प्रकृतिशून्यता-
17315 म् उपादाय {{वेदनाप्य् असक्ता संज्ञाप्य् असक्ता संस्कारा अप्य् असक्ता}} विज्ञानम् अप्य् असक्तम्।
17316 {सुभूतिर्} आह। एवम् एतद् आयुष्मन् शारिपुत्र रूपम् अप्य् असक्तं {{वेदनाप्य् असक्ता संज्ञाप्य् असक्ता संस्कारा अप्य् असक्ता}} विज्ञानम् अप्य् अ-
17317 सक्तं यावद् व्यस्तसमस्ताः स्कन्धधात्वायतनप्रतीत्यसमुत्पादा
17318 यावज् जरामरणम् अप्य् असक्तम्। एवम् अप्रमाणध्यानारूप्यसमापत्तयो ऽ-
17319 प्य् असक्ताः। यावत् सप्तत्रिंशद् बोधिपक्षा धर्मा बलानि {{वैशारद्यानि प्रतिसंविदः आवेणिकेषु बुद्धधर्मेषु आवेणिका}}
17320 बुद्धधर्मा अप्य् असक्ताः।
17321 {शारिपुत्र} आह। यद्य् अप्य् आयुष्मान् सुभूतिर् इदम् आह। यद् अपि तत् सर्वज्ञता-
17322 चित्तम् अनास्रवम् अपर्यापन्न इति। नन्व् आयुष्मन् सुभूते बालपृथग्जना-
17401 नाम् अपि चित्तम् अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय। ननु सर्व-
17402 श्रावकप्रत्येकबुद्धसम्यक्संबुद्धानाम् अपि चित्तम् {अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय}।
17403 {सुभूतिर्} आह। एवम् एतद् आयुष्मन् शारिपुत्र।
17404 {शारिउत्र} आह। रूपम् अपि सुभूते {अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय।} {{वेदनापि सुभूते अनास्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय। संज्ञापि सुभूते अनास्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय। संस्कारा अपि सुभूते अनास्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय।}} विज्ञानम् अप्य् आयुष्मन्
17405 सुभूते {अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय}। नन्व् आयुष्मन् सुभूते सप्तत्रिंशद् बोधिपक्षा धर्मा दश
17406 तथागतबलानि {{चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः त्रीणि विमोक्षमुखानि अष्टादशावेणिका}} बुद्धधर्मा {अनास्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय}।
17407 {सुभूतिर्} आह। एवम् एतद् आयुष्मन् शारिपुत्र यथा वदसि बालपृथग्जनानाम् अपि
17408 चित्तम् {अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय}। यावत् सर्वश्रावकप्रत्येकबुद्धसम्यक्संबुद्धानाम् अपि
17409 चित्तम् {अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय}। यावत् सप्तत्रिंशद् बोधिपक्षा धर्मा दश तथागतबलानि
17410 {{चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः त्रीणि विमोक्षमुखानि अष्टादशावेणिका}} बुद्धधर्मा {अनास्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय}।
17411 {शारिपुत्र} आह। यद् अपि तद् आयुष्मान् सुभूतिर् एवम् आह। अचित्तत्वात् तत्रापि
17412 चित्ते असक्त इति। नन्व् आयुष्मन् सुभूते अरूपे ऽपि रूपम् असक्तम्
17413 {{अवेदनायाम् अपि वेदनासक्ता असंज्ञायाम् अपि संज्ञासक्ता असंस्कारेष्व् अपि संस्कारा असक्ता}} अविज्ञाने ऽपि विज्ञानम् असक्तम्।
17414 {सुभूतिर्} आह। एवम् एतद् आयुष्मन् {शारिपुत्र}।
17415 {शारिपुत्र} आह। नन्व् आयुष्मन् सुभूते अस्मृत्युपस्थानेष्व् अपि स्मृत्युपस्थानान्य् अ-
17416 सक्तानि। एवम् {{असम्यक्प्रहाणेष्व् अपि असम्यक्प्रहाणान्य् असक्तान्य् अर्द्धिपादेष्व् अपि ऋद्धिपादा असक्ता ऐन्द्रियाणेष्व् अपि इन्द्रियाण्य् असक्तानिय् अबलानेष्व् अपि बलान्य् असक्तानि अबोध्यङ्गानेष्व् अपि बोध्यङ्गान्य् असक्तान्य् अमार्गेष्व् अपि मार्गा असक्ता अवैशारद्येष्व् अपि वैशारद्यान्य् असक्तान्य् अप्रतिसंवित्स्व् अपि प्रतिसंविदो ऽसक्ता अपारमितास्व् अपि पारमिता असक्ता अतथागतबलानेष्व् अपि तथागतबलान्य् असक्तान्य् अनावेणिकबुद्ध}}धर्मेष्व् अपि आवेणिका
17417 बुद्धधर्मा असक्ताः।
17418 {सुभूतिर्} आह। एवम् एतद् आयुष्मन् शारिप्त्र यथा वदसि रूपे ऽप्य् आयुष्मन्
17419 रूपम् असक्तं वेदनासंज्ञासंस्काराः विज्ञाने ऽपि विज्ञानम् असक्तम्। एवं व्यस्तसमस्ता
17420 अपि स्कन्धधातव आयतनानि सत्यानि प्रतीत्यसमुत्पादा ऽप्रमाणध्यानारूप्य-
17421 समापत्तयः। पारमिता अभिज्ञा बोधिपक्षा धर्मा बलानि वैशारद्यानि प्रति-
17422 संविदः आवेणिकेषु बुद्धधर्मेषु आवेणिका बुद्धधर्मा असक्ताः। एवं ह्य् आयुष्मन्
17423 {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरंस् तेनापि बोधिचित्तेन असमसम-
17501 चित्तेन सर्वश्रावकप्रत्येकबुद्धैर् असाधारणचित्तेन न मन्यते नाभिनिविशते सर्व-
17502 धर्मान् उपलम्भयोगेन। [इत्य् अधिगममहत्त्वम्॥] [इत्य् उक्तः प्रतिपत्त्युद्देशः।]
17503 पूर्णो मैत्रायणीपुत्र आह। ममापि भगवन् प्रतिभाति येनार्थेन {बोधिसत्त्वो}
17504 महासत्त्वः इत्य् उच्यते।
17505 भगवान् आह। रतिभातु ते पूर्ण।
17506 पूर्ण आह। महासन्नाहसन्नद्धः स भगवन् सत्त्वो महायानसंप्रस्थितः
17507 स सत्त्वो महायानसमारुढः स सत्त्वस् तेन भगवन् {बोधिसत्त्वो} महासत्त्व
17508 इत्य् उच्यते।
17509 {शारिपुत्र} आह। कियता आयुष्मन् पूर्ण {बोधिसत्त्वो} महासत्त्वो महासन्नाहसन्नद्ध
17510 इत्य् उच्यते।
17511 पूर्ण आह। इहायुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो न प्रादेशिकानां सत्त्वानां
17512 कृतेन बोधाय चरन् दानपारमितायां स्थित्वा दानं ददाति। अपि तु सर्वसत्त्वानां
17513 कृतेन दानपारमितायां स्थित्वा दानं ददाति। एवं शील{पारमितायां} क्षान्तिपा{रमितायां}
17514 वीर्य{पारमितायां} ध्यान{पारमितायां}। न प्रादेशिकानां सत्त्वानां कृतेन बोधाय चरन् प्रज्ञा{पारमितायां}
17515 स्थित्वा प्रज्ञापारमितां भावयति। अपि तु सर्वसत्त्वानां कृतेन प्रज्ञापारमितां
17516 भावयति। न सत्त्वपरिच्छेदेन {बोधिसत्त्वो} महासत्त्वो महासन्नाहः सन्नह्यते। इयतः
17517 सत्त्वान् परिनिर्वापयिष्यामि इयतः सत्त्वान् न परिनिर्वापयिष्यामीति इयतः
17518 सत्त्वान् बोधाय प्रतिष्ठापयिष्यामि इयतः सत्त्वान् बोधाय न प्रतिष्ठापयिष्या-
17519 मीति। अपि तु खलु पुनः सर्वसत्त्वानां कृतेन सन्नाहः सन्नह्यते एवं चास्य
17520 भवति आत्मना च दानपारमितां परिपूरयिष्यामि सर्वसत्त्वांश् च दानपार-
17601 मितायां नियोजयिष्यामीति {{एवं चास्य भवति आत्मना च शीलपारमितां परिपूरयिष्यामि सर्वसत्त्वांश् च शीलपारमितायां नियोजयिष्यामीति। एवं चास्य भवति आत्मना च क्षान्तिपारमितां परिपूरयिष्यामि सर्वसत्त्वांश् च क्षान्तिपारमितायां नियोजयिष्यामीति। एवं चास्य भवति आत्मना च ध्यानपारमितां परिपूरयिष्यामि सर्वसत्त्वांश् च ध्यानपारमितायां नियोजयिष्यामीति। एवं चास्य भवति आत्मना च प्रज्ञापारमितां परिपूरयिष्यामि सर्वसत्त्वांश् च प्रज्ञापारमितायां नियोजयिष्यामीति}}।
17602 एवम् अप्रमाणध्यानारूप्यसमापत्तीः। आत्मना च भावयिष्यामि सर्वसत्त्वांश् च
17603 तासु प्रतिष्ठापयिष्यामीति। यावत् सप्तत्रिंशद् बोधिपक्षेषु धर्मेषु दशबलवैशा-
17604 रद्याष्टादशावेणिकेषु बुद्धधर्मेष्व् आत्मना च स्थास्यामि सर्वसत्त्वांश् च तेषु प्रतिष्ठा-
17605 पयिष्यामीति। इयतायुष्मन् शारिपुत्र {बोधिसत्त्वो} महासत्त्वो महासन्नाहसन्नद्ध
17606 इत्य् उच्यते॥ [इति प्रतिपत्तिस्वरूपम्॥]
17607 पुनर् अपरं शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो दानं ददतः
17608 सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः या दानस्य सर्वसत्त्वसाधारणं कृत्वा ऽनु-
17609 त्तरायै सम्यक्संबोधये निर्यातना। अयं {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां
17610 चरतो दानं ददतो दानपारमितासन्नाहः। पुनर् अपरं
17611 {{शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः}} या श्रावकप्रत्येकबुद्धमनसिकाराणां परिवर्जनता। अयं {बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो}
17612 शीलपारमितासन्नाहः। पुनर् अपरं
17613 {{शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः}} या तेषां क्षमणा रोचना व्युपपरीक्षणा। अयं {बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो} क्षान्तिपारमिता-
17614 सन्नाहः। पुनर् अपरं {{शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः}} या वीर्यस्रंसनता तत्
17615 कुशलमूलं {सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये} परिणामयति। अयं {बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो} वीर्यपारमिता-
17616 सन्नाहः। पुनर् अपरं {{शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो दानं}} ददतः
17617 यच् चित्तस्यैकाग्रता सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः श्रावकप्रत्येकबुद्धचित्त-
17618 म् अनवकाशं दानता तत् कुशलमूलं {सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये} परिणामयति। अयं दानं
17619 ददतः ध्यानपारमितासन्नाहः। पुनर् अपरं
17701 {{शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः}} या मायाकृतसंज्ञोपस्थिता च नैव दायकम् उपलभते न प्रतिग्राहकं न देयम्।
17702 अयं {बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो} प्रज्ञापारमितासन्नाहः। यद् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः सर्वाकार-
17703 ज्ञताप्रतिसंयुक्तेन चित्तेन ताः षट् पारमिता न निमित्तीकरोति नोपलभते।
17704 एवं ह्य् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् महासन्नाहसन्नद्धो
17705 भवति॥ [इति दानपारमित्सन्नाहषट्कं प्रथमम्॥]
17706 पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वस्य} महासत्त्वस्य शीलपारमितायां चरतो {सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः}
17707 दानं ददाति {सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये} परिणामयति अनुपलम्भयोगेन। इयं सुभूते {बोधिसत्त्वस्य}
17708 महासत्त्वस्य शीलपारमितायां चरतो दानपारमिता। पुनर् अपरं
17709 {{शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः}} या श्रावकप्रत्येकबुद्धभूम्यस्पृहणता प्राग् एव पृथग्जनभूमे-
17710 र् इयं {बोधिसत्त्वस्य} महासत्त्वस्य शीलपारमितायां चरतः शीलपारमिता
17711 {{पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः या तेषां क्षमणा रोचना व्युपपरीक्षणा। इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः क्षान्तिपारमिता।}}
17712 {{पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः या वीर्यस्रंसनतानवलीनता तत् कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति। इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो वीर्यपारमिता।}}
17713 {{पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो यच् श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां चित्तोत्पादानाम् अनवकाशदानं तस्य कृतशः कुशलमूलस्य चित्तस्यैकाग्रता सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः श्रावकप्रत्येकबुद्धचित्तम् अनवकाशं दानता तत् कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति। इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो ध्यानपारमिता।}}
17714 {{पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः या}}
17715 मायाकृतसंज्ञा प्रत्युपस्ह्तिता भवति। तच् च शीलं न मन्यते नोपलभते। इयम् आयुष्मन्
17716 {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः शीलपारमितायाञ् चरतः प्रज्ञापारमिता। एवं हि {शारिपुत्र}
17717 {बोधिसत्त्वो} महासत्त्वः शीलपारमितायां चरन् षट् पारमिताः परिगृह्णाति। तेन
17718 महासन्नाहसन्नद्ध इति संख्यां गच्छति॥ [इति शीलपारमितासन्नाहषट्कं
17718 द्वितीयम्॥]
17719 पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः क्षान्तिपारमितायां चरन् दानं ददाति {सर्वाकारज्ञताप्रतिसंयुक्तैर्}
17720 {मनसिकारैर्} न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं {सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये}
17801 परिणामयति। इयं {बोधिसत्त्वस्य} महासत्त्वस्य क्षान्तिपारमितायां चरतो दानपारमिता।
17802 एवं क्षान्तिपारमितायां चरतः शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता}। पुनर् अपर-
17803 म् आयुष्मन् शारिपुत्र {बोधिसत्त्वो} महासत्त्वः क्षान्तिपारमितायां चरन् सर्वबुद्धधर्मसमु-
17804 दानयनतायै सर्वसत्त्वपरिपाकाय च प्रयुज्यते प्रज्ञया सर्वाकारज्ञता{{प्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति। इयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां}}
17805 चरतः प्रज्ञापारमिता। एवं हि शारिपुत्र
17806 {बोधिसत्त्वो} महासत्त्वः क्षान्तिपारमितायां चरन् षट् पारमिताः परिगृह्णाति। तेन महा-
17807 सन्नाहसन्नद्ध इति संख्यां गच्छति॥ [इति क्षान्तिपारमितासन्नाहषट्कं तृतीयम्॥]
17808 पुनर् अपरम् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो वीर्यपारमितायां चरन् दानं ददाति
17809 सर्वाकारज्ञता{{प्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये}} परिणामयति। इयं {बोधिसत्त्वस्य} महासत्त्वस्य
17810 वीर्यपारमितायां चरतो दानपारमिता। एवं वीर्यपारमितायां चरतः शील{पारमिता}
17811 क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता}। पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो वीर्यपार-
17812 मितायां चरन् प्रज्ञापारमितां भावयन् सर्वधर्मेषु मायाकृतसंज्ञाम् उपस्थापयति।
17813 सर्वाकारज्ञता{{प्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति। इयं बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितायां चरतः प्रज्ञापारमिता। एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः वीर्यपारमितायां चरन् षट् पारमिताः परिगृह्णाति। तेन महासन्नाहसन्नद्ध इति}} संख्यां गच्छति
17814 ॥ [इति वीर्यपारमितासन्नाहषट्कं चतुर्थम्॥]
17815 पुनर् अपरम् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो ध्यानपारमितायां चरन् दानं ददाति
17816 सर्वाकारज्ञता{{प्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये}} परिणामयति। इयं {बोधिसत्त्वस्य} महासत्त्वस्य
17817 ध्यानपारमितायां चरतो दानपारमिता। एवं ध्यानपारमितायां चरतः
17818 शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता}। पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो
17819 ध्यानपारमितायां चरन् प्रज्ञापारमितां भावयन् सर्वधर्मेषु मायाकृतसंज्ञाम् उप-
17820 स्थापयति। सर्वाकारज्ञता{{प्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति। इयं बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमितायां चरतः प्रज्ञापारमिता। एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः ध्यानपारमितायां चरन् षट् पारमिताः परिगृह्णाति। तेन महासन्नाहसन्नद्ध इति}}
17821 संख्यां गच्छति॥ [इति ध्यानपारमिता-
17822 सन्नाहषट्कं पञ्चमम्॥]
17823 पुनर् अपरम् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरंस् त्रिमण्डल-
17824 परिशुद्धं दानं ददाति सर्वाकारज्ञता{{प्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये}}
17825 परिणामयति। इयं {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरतो दान{पारमिता}।
17826 एवं प्रज्ञापारमितायां चरतः शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता}।
17901 पुनर् अपरम् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितां
17902 भावयति। तस्य सर्वपारमितासु सर्वधर्मेषु च मायास्वप्नप्रतिभासप्रतिश्रुत्क-
17903 प्रतिबिम्बनिर्माणसंज्ञा प्रत्युपस्थिता भवति सर्वाकारज्ञता{{प्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये}}
17904 परिणामयति। एवं हि {शारिपुत्र} {बोधिसत्त्वो} महास्त्त्वः
17905 प्रज्ञापारमितायां चरन् प्रज्ञापारमितां परिपूरयति। यद् आयुष्मन् {शारिपुत्र}
17906 {बोधिसत्त्वो} {{प्रज्ञापारमितायां चरन् महासन्नाह}}सन्नद्धो भवति। एवं च
17907 पुनर् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः एकैकस्यां पारमितायां स्थित्वा षट्-
17908 पारमिताः परिपूरयति॥ [इति प्रज्ञापारमितासन्नाहषट्कं षष्ठम्॥]
17909 पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो ध्यानानि च समापद्यते नैव ध्यानान्य् आ-
17910 स्वादयति न च तैः संह्रियते न च तेषां वशेनोपपद्यते। एवम् अप्रमाणानि
17911 चारूप्यसमापत्तीश् च समापद्यते न च ता आस्वादयति न च ताभिः संह्रियते
17912 न च तासां वशेनोपपद्यते। [इयं {बोधिसत्त्वस्य} महासत्त्वस्योपायकौशल्यगता प्रज्ञापारमिता]
17913 वेदितव्या॥
17914 पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो ध्यानारूप्यसमापत्तिषु विवेकदर्शनेन च
17915 विहरति शून्यतानिमित्ताप्रणिहितदर्शनेन च विहरति न च भूतकोटिं साक्षात्-
17916 करोति॥ [अयं {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यसन्नाहः॥]
17917 एवम् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो महासन्नाहसन्नद्धस् तेनोच्यते {बोधिसत्त्वो}
17918 महासत्त्व इति। एवं महासन्नाहसन्नद्धस्यायुष्मन् शारिपुत्र {बोधिसत्त्वस्य} महा-
17919 सत्त्वस्य दशसु दिक्षु बुद्धा भगवन्त उदानम् उदानयति वर्णम् उदीरयन्ति नामधेयं
17920 परिकीर्त्त्यमानास् तस्य {बोधिसत्त्वस्य} महासत्त्वस्य शब्दम् अनुश्रावयन्ति। घोष-
17921 म् उदीरयन्ति। अमुष्मिन् लोकधातुप्रसरे {बोधिसत्त्वो} महासत्त्वो महासन्नाहसन्नद्ध इति
17922 सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति॥ [इति सन्नाहषट्कोपसंहारः॥]
17923 [इत्य् उक्ता सन्नाहप्रतिपत्तिः॥]
18001 {शारिपुत्र} आह। कियतायुष्मन् पूर्ण {बोधिसत्त्वो} महासत्त्वो महायानसंप्रतिस्थितो
18002 महायानसमारूढो भवति। पूर्ण आह। इहायुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो
18003 दानपारमितायां चरन् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कसविचारं
18004 विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति। एवं द्वितीयं तृतीयं चतुर्थं ध्यानम्।
18005 एवम् आकाशानन्त्यायतनं विज्ञानानन्त्यायतनम् आकिञ्चन्यायतनं नैवसंज्ञानासंज्ञाय-
18006 तनम् उपसम्पद्य विहरति। इमानि {बोधिसत्त्वस्य} महासत्त्वस्य ध्यानारूप्याणि यदा {बोधिसत्त्वो} महा-
18007 सत्त्व एतैश् च ध्यानैर् एतैश् चारूप्यैर् दानपारमितायां चरन् आकाशाकारलिङ्गनिमित्तैः
18008 समापद्यमानो व्युत्तिष्ठमानश् च तानि च कुशलमूलानि {सर्वसत्त्वसाधारणानि कृत्वा अनुत्तरायै सम्यक्संबोधये} परि-
18009 णामयति। इयं {बोधिसत्त्वस्य} महासत्त्वस्य दानपारमिता। एवं शील{पारमितायां} क्षान्ति{पारमितायां}
18010 वीर्य{पारमितायां} ध्यान{पारमितायां} वाच्यते। पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां
18011 चरंश् चत्वारि ध्यानानि समापद्यते चतस्र आरूप्यसमापत्तीः समापद्यते। यदा
18012 {बोधिसत्त्वो} महासत्त्व एतैश् च ध्यानैर् एताभिश् चारूप्यसमापत्तिभिर् विहरति। स एता ध्याना-
18013 रूप्यसमापत्तीः समापद्यमानो व्युत्तिष्ठमानश् चाकाशाकारलिङ्गनिमित्तानि मनसि-
18014 करोति। प्रज्ञापारमितायां चरंस् तानि च कुशलमूलानि अन्यानि च सर्वाकारज्ञता-
18015 प्रतिसंयुक्तमनसिकारैः {सर्वसत्त्वसाधारणानि कृत्वा अनुत्तरायै सम्यक्संबोधये} परिणामयति। इयं {बोधिसत्त्वस्य} महासत्त्वस्य
18016 प्रज्ञापारमिता। एवं ह्य् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः षट्पारमितासु चरन्
18017 महासन्नाहसन्नद्धः सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं परिशोधयति। [इति ध्याना-
18018 रूप्यसमापत्तिव्युस्थानप्रस्थानम्।]
18019 पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो यत् {सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः} कारम् उत्पाद्य क्लेशानां ध्वंसनाय
18020 सर्वसत्त्वानां धर्मं देशयिष्यामीति चित्तम् उत्पादयति। इयं {बोधिसत्त्वस्य} महासत्त्वस्य
18021 दानपारमिता। यद् {बोधिसत्त्वो} महासत्त्वस् तैर् एव {सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः} प्रथमं ध्यानम् आक्रामति
18022 देशयति तत्र च प्रथमध्याने प्रतिष्ठते न चान्येषां चित्तोत्पादानाम् अवकाशं ददाति
18101 श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानाम् इयं {बोधिसत्त्वस्य} महासत्त्वस्य अपरामृष्टा शीलपार-
18102 मिता। यद् {बोधिसत्त्वस्य} महासत्त्वस्य {सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर्} ध्यानारूप्यैर् विहरत एवं भवति
18103 सर्वसत्त्वानां क्लेशक्षयाय धर्मं देशयिष्यामीति यावत् तेषां नमसिकाराणां
18104 क्षमणा रोचना व्युपपरीक्षणा अवबोध उपनिध्यापनम्। इयं {बोधिसत्त्वस्य} महासत्त्वस्य
18105 क्षान्ति{पारमिता}। पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः {सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः} सर्वकुशलमूलानि {{सर्वसत्त्वसाधारणानि
18106 कृत्वा अनुत्तरायै सम्यक्संबोधये}} परिणामयति वीर्यं च न स्रंसयति। इयं {बोधिसत्त्वस्य} महासत्त्वस्य
18107 वीर्य{पारमिता}। यद् {बोधिसत्त्वो} महासत्त्वः {सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर्} ध्यानारूप्यसमापत्तीश् च समा-
18108 पद्यते न चोपलभते। इयं {बोधिसत्त्वस्य} महासत्त्वस्य ध्यान{पारमिता}। यद् {बोधिसत्त्वो} महासत्त्वः
18109 {सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः} प्रथमद्यानाङ्गानि द्वितीयानि तृतीयानि चतुर्थानि ध्यानाङ्गानि
18110 अनित्याकारेण दुःखाकारेण अनात्माकारेण शान्ताकारेण शून्याकारेण
18111 अनिमित्ताकारेण अप्रणिहिताकारेण प्रत्यवेक्षते न चोपलभते। इयं {बोधिसत्त्वस्य} महा-
18112 सत्त्वस्य प्रज्ञा{पारमिता}। इदम् आयुष्मन् शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्।
18113 [इति षट्पारमिताप्रस्थानम्।]
18114 पुनर् अपरम् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्। यत् सर्वाकारं
18115 सप्तत्रिंशद् बोधिपक्षान् धर्मान् भावयति। सर्वाकारं शून्यता-
18116 निमित्ताप्रणिहितविमोक्षमुखसमाधिं भावयति। सर्वाकारं बलानि वैशार-
18117 द्यानि अष्टादशावेणिकान् बुद्धधर्मान् भावयति। इदम् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वस्य} महा-
18118 सत्त्वस्य महायानम्॥ [इत्य् आर्यमार्गप्रस्थानम्॥]
18119 पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो मैत्रीसहगतेन चित्तेन विपुलेन महोद्गतेना-
18120 द्वयेनाप्रमाणेनावैरेणासपत्नेनानावरणेनाव्यावाधेन सर्वत्रानुगतेन सुभाषितेन
18121 धर्मधातुपरमे लोके आकाशधातुपर्यवसाने सर्वावन्तं लोकम् एकां दिशं स्फुरि-
18122 त्वोपसम्पद्य विहरति यावद् दशदिशः स्फुरित्वोपसम्पद्य विहरति। एवं करुणा-
18201 सहगतेन मुदितासहगतेन उपेक्षासहगतेन चित्तेन विपुलेन {{महोद्गतेनाद्वयेनाप्रमाणेनावैरेणासपत्नेनानावरणेनाव्यावाधेन सर्वत्रानुगतेन सुभाषितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने सर्वावन्तं लोकम् एकां दिशं स्फुरित्वोपसम्पद्य विहरति यावद् दशदिशः स्फुरित्वोपसम्पद्य}}
18202 विहरति। इमान्य् उच्यन्ते {बोधिसत्त्वस्य} महासत्त्वस्या-
18203 प्रमाणानि। पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो मैत्रीसमाधिं समापद्यते मया
18204 सर्वसत्त्वास् त्रातव्या इति निर्नामयति। करुणां च {समाधिं समापद्यते} क्लीवकारुण्यताञ् च
18205 सत्त्वेषु {निर्णामयति}। मुदितां च {समाधिं समापद्यते} अहम् एव मोदयिष्यामीति सत्त्वेषु {निर्णामयति}।
18206 उपेक्षां च {समाधिं समापद्यते} आस्रवक्षयं च सत्त्वेषु {निर्णामयति}। इयं {बोधिसत्त्वस्य} महासत्त्वस्याप्रमाणेषु
18207 चरतो दानपारमिता। यदा {बोधिसत्त्वो} महासत्त्वो ध्यानाप्रमाणाकारलिङ्गनिमित्तानि
18208 समापद्यते च्युत्तिष्ठते च न च श्रावकप्रत्येकबुद्धभूमौ परिणामयत्य् अन्यत्र सर्वा-
18209 कारज्ञतायाः। इयं {बोधिसत्त्वस्य} महासत्त्वस्याप्रमाणेषु चरतो ऽपरामृष्टा शीलपारमिता।
18210 यदा {बोधिसत्त्वो} महासत्त्वस् ताभिर् ध्यानाप्रमाणारूप्यसमापत्तिभिर् अव्यवकीर्णो
18211 विहरति। आभ्यां द्वाभ्यां श्रावकभूमये वा प्रत्येकबुद्धभूमये वा न
18212 स्पृहयते सर्वाकारज्ञतैवास्य क्षमते रोचते चेयं {बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो ऽपरामृष्टा} क्षान्ति{पारमिता}। यदा {बोधिसत्त्वो महासत्त्वो सर्वाकारज्ञताप्रतिसंयुक्तैः}
18213 चित्तोत्पादैर् अनिक्षिप्तधुरो विहरति अकुशलधर्मप्रहाणाय कुशलधर्मोपसम्पदे।
18214 इयं {बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो ऽपरामृष्टा} वीर्य{पारमिता}। यदा बोधिसत्त्वो महासत्त्व एतानि च ध्यानान्य् एताश् चा-
18215 प्रमाणारूप्यसमापत्तीश् च समापद्यते। न च ध्यानाप्रमाणारूप्यसमापत्ति-
18216 वशेनोपपद्यते। न च ता आस्वादायति न च ताभिः संह्रियते। इयं {बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो ऽपरामृष्टा}
18217 ध्यान{पारमिता}। यदा {बोधिसत्त्वो महासत्त्वो सर्वाकारज्ञताप्रतिसंयुक्तैर्} मनसिकारैस् ता ध्यानाप्रमाणारूप्यसमापत्तीः समा-
18218 पद्यते च व्युत्तिष्ठते च ताश् चानित्याकारेण दुःखाकारेण अनात्माकारेण शान्ता-
18219 कारेण शून्याकारेण अनिमित्ताकारेण अप्रणिहिताकारेण प्रत्यवेक्षते न च
18220 श्रावकन्यामं वा प्रत्येकबुद्धन्यामं वाभिक्रामति। इयं {बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो ऽपरामृष्टा} प्रज्ञा{पारमिता}।
18221 इदम् आयुष्मन् {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्॥ [इत्य् अप्रमाणप्रस्थानम्॥]
18301 पुनर् अपरम् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्। यद् अध्यात्मशून्य-
18302 तायां ज्ञानं न चोपलम्भयोगेन। यद् बहिर्धा{शून्यतायां ज्ञानं न चोपलम्भयोगेन}। यद् अध्यातमबहिर्धा{शून्यतायां ज्ञानं न चोपलम्भयोगेन}।
18303 यद् {शून्यतायां ज्ञानं न चोपलम्भयोगेन}। इदं {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्।
18304 {पुनर् अपरम् आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्। यत् सर्वधर्मेषु न शिक्षिष्यते
18305 चित्तं समाहितं तज् ज्ञानम्। इदम् अपि {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}। पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}। यद् अस्य
18306 न नित्यम् इति ज्ञानं प्रवर्तते नानित्यम् इति। न दुःखम् इति नादुःखम् इति
18307 {{न सुखम् इति नासुखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशून्यम् इति न निमित्तम् इति नानिमित्तम् इति}}
18308 {{न प्रणिहितम् इति}} नाप्रणिहितम् इति ज्ञानं प्रवर्तते। इदम् अपि सुभूते {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}।
18309 {पुनर् अपरम् आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}। यद् अतीते ऽध्वनि ज्ञानं न प्रवर्तते। अनागते ऽध्वनि {ज्ञानं न प्रवर्तते}।
18310 प्रत्युत्पन्ने ऽध्वनि {ज्ञानं न प्रवर्तते}। न चास्य त्रिष्व् अध्वसु ज्ञानं प्रवर्तते। तच् चानुपलम्भयोगेन।
18311 इदम् अपि {शारिपुत्र} {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}।
18312 {पुनर् अपरम् आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}। यन् न कामधातौ ज्ञानं प्रवर्तते न रूप{धातौ ज्ञानं प्रवर्तते} नारूप्य{धातौ ज्ञानं प्रवर्तते}।
18313 न चास्य कामरूपारूप्य{धातौ ज्ञानं प्रवर्तते} तच् चानुपलम्भयोगेन। इदम् अपि {शारिपुत्र} {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}।
18314 पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}। यन् न लौकिकेषु लोकोत्तरेषु धर्मेषु ज्ञानं प्रवर्तते। न
18315 सास्रवेषु धर्मेषु नानास्रवेषु धर्मेषु न संस्कृतेषु नासंस्कृतेषु न चास्य लौकिक-
18316 लोकोत्तरसास्रवानास्रवसंस्कृतासंस्कृतेषु धर्मेषु ज्ञानं प्रवर्तते। तच् चानुपलम्भयोगेन।
18317 इदम् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}॥ [इति अनुपलम्भयोगेन प्रस्थानम्॥]
18318 {शारिपुत्र} आह। कियतायुष्मन् पूर्ण {बोधिसत्त्वो} महासत्त्वो महायानसमारूढ
18319 इत्य् उच्यते। पूर्ण आह। इहायुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां
18320 चरन् दानपारमिताम् आरोहति। स नैव दानपारमिताम् उपलभते न दायकं
18321 न प्रतिग्राहकं न दानम् उपलभते अनुपलम्भयोगेन। एवं ह्य् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो}
18322 महासत्त्वो दानपारमितासमारूढ इत्य् उच्यते। एवं शील{पारमितासमारूढः}, क्षान्ति{पारमितासमारूढः},
18401 वीर्य{पारमितासमारूढः}, ध्यान{पारमितासमारूढः}। प्रज्ञापारमितायां चरन् प्रज्ञापारमिताम् आरोहति, स नैव प्रज्ञा-
18402 पारमिताम् उपलभते न बोधिसत्त्वं न मनसिकारम् उपलभते अनुपलम्भयोगेन।
18403 एवं ह्य् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितासमारूढ इत्य् उच्यते॥ [इति
18404 त्रिमण्डलपरिशुद्धिप्रस्थानम्॥]
18405 पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो ऽव्यवकीर्णेन सर्वाकारज्ञताचित्तोत्पादेन
18406 सप्तत्रिंशद् बोधिपक्षान् धर्मान् भावयति भावनाविभावनार्थेन तच् चानुपलम्भ-
18407 योगेन। एवं ह्य् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो महायानसमारूढ इत्य् उच्यते।
18408 {पुनर् अपरम् शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽव्यवकीर्णेन सर्वाकारज्ञताचित्तोत्पादेन} शून्यतानिमित्ताप्रणिहितसमाधीन् {भावयति भावनाविभावनार्थेन तच् चानुपलम्भयोगेन। एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो महायानसमारूढ इत्य् उच्यते}। {पुनर् अपरम् शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽव्यवकीर्णेन सर्वाकारज्ञताचित्तोत्पादेन} दश तथागतबलानि
18409 चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् {भावयति भावनाविभावनार्थेन तच् चानुपलम्भयोगेन। एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो महायानसमारूढ इत्य् उच्यते}।
18410 पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्व एवं सञ्जानाति व्यवहारमात्रम् इदं यद् उत बोधिसत्त्व
18411 इति सत्त्वानुपलब्धिताम् उपादाय। इदम् अपि नाममात्रं यद् उत रूपं रूपानु-
18412 पलब्धिताम् उपादाय वेदना संज्ञा संस्काराः। {नाममात्रं यद् उत} विज्ञानं विज्ञानानु{पलब्धिताम् उपादाय}।
18413 {नाममात्रं यद् उत} चक्षुश् चक्षुषानु{पलब्धिताम् उपादाय}। एवं श्रोत्रं घ्राणं जिह्वा कायः। {नाममात्रं यद् उत} मनो मनसा-
18414 नु{पलब्धिताम् उपादाय}। एवं व्यस्तसमस्ताः स्कन्धा धातवः {{आयतनानि प्रतीत्यसमुत्पादः पारमिता अभिज्ञाः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गवैशारद्यप्रतिसंविदावेणिका}} बुद्धधर्माः। {नाममात्रं यद् उत}
18415 बुद्धधर्मा बुद्धधर्मानु{पलब्धिताम् उपादाय}। अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता
18416 यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतानु{पलब्धिताम् उपादाय}। तथता धर्मधातुश् च
18417 धर्मनियामता च भूतकोटिश् च भूतकोट्यनु{पलब्धिताम् उपादाय}। {नाममात्रं यद् उत} बोधिर् बुद्धश् च बुद्धानु{पलब्धिताम् उपादाय}।
18418 एवं ह्य् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो महायानसमारूढ इत्य् उच्यते॥ [इत्य् उद्देश-
18419 प्रस्थानम्॥]
18420 पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रथमचित्तोत्पादम् उपादाय यावद्
18501 बोधिर् अत्रान्तरे {बोधिसत्त्वो} महासत्त्वो ऽभिज्ञापरिपूर्णत्वात् सत्त्वांश् च परिपाचयति बुद्ध-
18502 क्षेत्रेण च बुद्धक्षेत्रं संक्रामति। बुद्धक्षेत्रे बुद्धक्षेत्रे च बुद्धान् भगवतः सत्करोति
18503 गुरूकरोति मानयति पूजयति। यो यस्य बुद्धस्य औपयिकपूजा सत्कारविधि-
18504 स् तेभ्यश् च बुद्धेभ्यो भगवद्भ्यो धर्मं शृणोति यद् उत इदम् एव महायानं। स तत्र
18505 बोधिसत्त्वयाने अभिरुह्य बुद्धक्षेत्रेण च बुद्धक्षेत्रं संक्रामति बुद्धक्षेत्रं च परिशोध-
18506 यति सत्त्वांश् च परिपाचयति न चास्य बुद्धक्षेत्रसंज्ञा प्रवर्तते न सत्त्वसंज्ञा प्रवर्तते।
18507 सो ऽद्वयभूमौ स्थित्वा यादृशेनात्मभावेन सत्त्वानां शक्नोय् अर्थकरणाय तादृश-
18508 म् आत्मभावं संचिन्त्य परिगृह्णाति। स न जातु तेन महायानेन विरहितो भवति
18509 यावत् सर्वाकारज्ञताम् अनुप्राप्नोति॥ [इति अभिज्ञाप्रस्थानम्॥]
18510 सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति अप्रवर्तनीयं सर्वश्रावक-
18511 प्रत्येकबुद्धैर् देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यासुरेण लोकेन।
18512 तस्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य पूर्वस्यां दिशि गङ्गानदीवालु-
18513 कोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषम् उदीरयन्ति यशः प्रकाश-
18514 यन्ति। एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन {बोधिसत्त्वेन} महासत्त्वेन महायानम् अ-
18515 भिरुह्य सर्वाकारज्ञाता ऽनुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्।
18516 एवं दक्षिणस्याम् दिशि {{गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषम् उदीरयन्ति यशः प्रकाशयन्ति। एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानम् अभिरुह्य सर्वाकारज्ञाता ऽनुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्। एवं पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषम् उदीरयन्ति यशः प्रकाशयन्ति। एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानम् अभिरुह्य सर्वाकारज्ञाता ऽनुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्। एवम् उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषम् उदीरयन्ति यशः प्रकाशयन्ति। एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानम् अभिरुह्य सर्वाकारज्ञाता ऽनुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्। एवम् उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषम् उदीरयन्ति यशः प्रकाशयन्ति। एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानम् अभिरुह्य सर्वाकारज्ञाता ऽनुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्। एवं पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषम् उदीरयन्ति यशः प्रकाशयन्ति। एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानम् अभिरुह्य सर्वाकारज्ञाता ऽनुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्। एवं दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषम् उदीरयन्ति यशः प्रकाशयन्ति। एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानम् अभिरुह्य सर्वाकारज्ञाता ऽनुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्। एवं पश्चिमोत्तरस्याम् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषम् उदीरयन्ति यशः प्रकाशयन्ति। एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानम् अभिरुह्य सर्वाकारज्ञाता ऽनुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्। एवम् अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषम् उदीरयन्ति यशः प्रकाशयन्ति। एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानम् अभिरुह्य सर्वाकारज्ञाता ऽनुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्।}}
18517 {{एवम् ऊर्ध्वदिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषम् उदीरयन्ति यशः प्रकाशयन्ति। एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानम् अभिरुह्य सर्वाकारज्ञाता ऽनुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्}}। एवं
18518 ह्य् आयुस्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो महायानसमारूढ इत्य् उच्यते॥ [इति सर्वाकार-
18519 ज्ञाताप्रस्थानम्॥] [इत्य् उच्यते प्रस्थानप्रतिपत्तिः॥]
18520 अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्। महासन्नाहसन्नद्धो
18521 महासन्नाहसन्नद्ध इति भगवन् {बोधिसत्त्वो} महासत्त्व इत्य् उच्यते। कियता भगवन्
18522 {बोधिसत्त्वो} महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते। भगवान् आह। इह सुभूते
18523 {बोधिसत्त्वो} महासत्त्वो महायानं सन्नह्य यद् उत दानपारमितासन्नाहं {{सन्नह्यते महायानं सन्नह्य यद् उत शीलपारमितासन्नाहं सन्नह्यते महायानं सन्नह्य यद् उत क्षान्तिपारमितासन्नाहं सन्नह्यते महायानं सन्नह्य यद् उत वीर्यपारमितासन्नाहं सन्नह्यते महायानं सन्नह्य यद् उत ध्यानपारमितासन्नाहं सन्नह्यते महायानं सन्नह्य यद् उत}} प्रज्ञा-
18524 पारमितासन्नाहं सन्नह्यते। स्मृत्युपस्थानसन्नाहं सन्नह्य सम्यक्प्रहाणर्द्धि-
18601 पादेन्द्रियबलबोध्यङ्गमार्गसन्नाहं सन्नह्य {{समापत्तिसन्नाहं सन्नह्य}}
18602 {{शून्यतासन्नाहं सन्नह्य वैशारद्यसन्नाहं सन्नह्य प्रतिसंवित्सन्नाहं सन्नह्य अष्टादशावेणिकबुद्धधर्मसन्नाहं सन्नह्य सर्वाकारज्ञतासन्नाहं सन्नह्य}}
18603 बुद्धविग्रहं सन्नह्य त्रिसाहस्रमहासाहस्रं लोकधातुम् अवभासेन स्फुरति च षड्-
18604 विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयि-
18605 कानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय {बोधिसत्त्वो}
18606 महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्-
18607 सम्बुद्धायेति। ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते। ते
18608 तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र
18609 बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति। एवं
18610 तिर्यग्योनितो यमलोकतो व्युत्थाय ते लोकधाताव् उपपद्यन्ते यत्र {बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च}
18611 परिगृह्णन्ति। एवं पूर्वस्यां दिशि {{गङ्गानदीवालुकोपमांल् लोकधातून् अवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्सम्बुद्धायेति। ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते। ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति।}}
18612 {{एवं दक्षिणस्यां दिशि गङ्गानदीवालुकोपमांल् लोकधातून् अवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्सम्बुद्धायेति। ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते। ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति। एवं पश्चिमायां दिशि गङ्गानदीवालुकोपमांल् लोकधातून् अवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्सम्बुद्धायेति। ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते। ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति। एवम् उत्तरस्यां दिशि गङ्गानदीवालुकोपमांल् लोकधातून् अवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्सम्बुद्धायेति। ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते। ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति। एवम् उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमांल् लोकधातून् अवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्सम्बुद्धायेति। ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते। ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति। एवं पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमांल् लोकधातून् अवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्सम्बुद्धायेति। ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते। ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति। एवं दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमांल् लोकधातून् अवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्सम्बुद्धायेति। ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते। ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति। एवं पश्चिमोत्तरस्याम् दिशि गङ्गानदीवालुकोपमांल् लोकधातून् अवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्सम्बुद्धायेति। ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते। ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति। एवम् अधस्ताद् दिशि गङ्गानदीवालुकोपमांल् लोकधातून् अवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्सम्बुद्धायेति। ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते। ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति।}}
18613 {{एवम् ऊर्ध्वदिशि गङ्गानदीवालुकोपमांल् लोकधातून् अवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्सम्बुद्धायेति। ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते। ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च}} परिगृह्णन्ति। एवं हि सुभूते {बोधिसत्त्वो} महासत्त्वो
18614 महासन्नाहसन्नद्ध इत्य् उच्यते।
18615 तद् यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महा-
18616 पथे महतो जनकायस्य पुरतो निरयंस् तिर्यग्योनियमलोकञ् च निर्मिमीते निर्माय
18617 तेषां सत्त्वानां बुद्धशब्दं धर्मशब्दं संघशब्दम् अनुश्रावयति। ततस् तेन बुद्धशब्देन
18618 धर्मशब्देन संघशब्देन तेभ्यो निरयतिर्यग्योनियमलोकेभ्यो व्युत्थाय देव-
18619 मनुष्येषूपपद्येरन्। अपि तु सुभूते तेन मायाकारान्तेवासिना वा कश्चित् सत्त्वो
18620 निरयतिर्यग्योनियमलोकगतिभ्यो व्युत्थापितः। सुभूतिर् आह। नो भगवन्।
18621 भगवान् आह। एवम् एव सुभूते {बोधिसत्त्वेन} महासत्त्वेन असंरूयेयेष्व् अप्रमेयेष्व् अप्रमाणेषु
18622 लोकधातुषु सत्त्वांस् त्रिभ्यो ऽपायेभ्यः परिमोच्य न कश्चित् सत्त्वः परिमोचितो
18623 भवति। तत् कस्य हेतोः। धर्मस् तेषां सुभूते धर्माणां मायाधर्मताम् उपादाय।
18624 एवं हि सुभूते {बोधिसत्त्वो} महासत्त्वो महायानसमारूढो महासन्नाहसन्नद्ध इत्य् उच्यते॥
18625 [इति करुणासम्भारः॥]
18701 पुनर् अपरं सुभूते {बोधिसत्त्वो} महासत्त्वो दानपारमितायां स्थित्वा महासन्नाहसन्नद्ध-
18702 स् त्रिसाहस्रं महासाहस्रं लोकधातुं वैदूर्यमयं निर्मिमीते वैदूर्यमयं निर्माय चक्र-
18703 वर्तिव्यूहं निर्मिमीते चक्रवर्तिव्यूहं निर्माय अन्नार्थिकेभ्यो ऽन्नं ददाति।
18704 एवं यावद् वस्त्रयानगन्धमाल्यपुष्पधूपविलेपनचूर्णपरिष्कारं वासशयनासन-
18705 प्रावरणजीवितोपकरणभैषज्यसुवर्णरूप्यमणिरत्नप्रवालशङ्खशिलामुक्ताभरणानि
18706 यावद् अन्यतरान्यतरं परिष्कारं ददाति। सो ऽन्नम् अन्नार्थिकेभ्यो दत्वा यावद् अन्य-
18707 तरान्यतरं परिष्कारं दत्वा तेषां सत्त्वानां धर्मं देशयति यद् उत इमम् एव षट्पार-
18708 मिताप्रतिसंयुक्तम्। ते खलु पुनः सत्त्वास् तां धर्मदेशनां श्रुत्वा न जातु ताभिः
18709 पारमिताभिर् विरहिता भवन्ति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते। एवं
18710 हि सुभूते {बोधिसत्त्वो} महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते। तद् यथापि नाम सुभूते
18711 दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे स्थित्वा महतो जनकायस्य
18712 पुरतो महान्तं जनकायम् अभिनिर्मिमीते निर्माय अन्नम् अन्नार्थिकेभ्यो दद्याद् अन्य-
18713 तरान्यतरं परिष्कारस् तदर्थिकेभ्यो दद्यात्। तत् किं मन्यसे सुभूते अपि एतेन
18714 मायाकारेण मायाकारान्तेवासिना वा कस्मैचित् किञ्चिद् दत्तं भवेत्। सुभूति-
18715 र् आह। नो भगवन्। भगवान् आह। एवम् एव सुभूते {बोधिसत्त्वेन} महासत्त्वेन यावच् चक्र-
18716 वर्तिव्यूहम् अभिनिर्माय अन्नम् अन्नार्थिकेभ्यो ददता यावद् अन्यतरान्यतरान्
18717 मानुष्यकान् परिष्कारान् ददता कस्मैचित् सत्त्वाय यावद् अन्यतरान्यतरा
18718 मानुष्यकाः परिष्कारा दत्त्वा भवन्ति। तत् कस्य हेतोः। धर्मतैषा सुभूते
18719 धर्माणां मायाधर्मताम् उपादाय। एवं हि सुभूते {बोधिसत्त्वो} महासत्त्वो महासन्नाह-
18720 सन्नद्ध इत्य् उच्यते॥ [इति दानसम्भारः॥]
18721 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} {महासत्त्वो} शीलपारमितायां सञ्चिन्त्योपपत्तिपरिग्रहेण चक्रवर्तिकुले
18722 प्रत्याजायते। स तत्र स्थित्वा सत्त्वान् दशकुशलेषु कर्मपथेषु प्रतिष्ठापयति।
18723 चतुर्षु ध्यानेषु {{चतुर्ष्व् अप्रमाणानेषु चतसृष्व् आरूप्यसमापत्तिषु चतुर्षु स्मृत्युपस्हानेषु चतुर्षु सम्यक्प्रहाणेषु चतुर्ष्व् ऋद्धिपादेषु पञ्चस्व् इन्द्रियेषु पञ्चसु बलेषु सप्तसु बोध्यङ्गेषु सप्तत्रिंशद्}}बोधिपक्षेषु धर्मेषु प्रतिष्ठापयति। यावद् अष्टादशस्व् आवेणिकेषु
18724 बुद्धधर्मेषु प्रतिष्ठापयति। ते च सत्त्वा न जातु विरहिता भवन्ति तया
18801 धर्मदेशनया यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते। तद् यथापि नाम
18802 सुभूते दक्षो {मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं निर्माय} दशकुशलेषु कर्मपथेषु प्रतिष्ठापयेत्। यावद् अष्टादशावेणि-
18803 केषु बुद्धधर्मेषु प्रतिष्टापयेत् तेन तावतः सत्त्वान् यावद् बुद्धधर्मेषु प्रतिष्ठाप्य
18804 न कश्चित् सत्त्वो यावद् बुद्धधर्मेषु प्रतिष्ठापितो भवति। एवम् एव सुभूते
18805 {बोधिसत्त्वेन} महासत्त्वेन तांस् तावतः सत्त्वान् दशकुशलेषु कर्मपथेषु प्रतिष्ठाप्य यावद् अष्टा-
18806 दशस्व् आवेणिकेषु बुद्धधर्मेषु प्रतिष्ठाप्य न कश्चित् सत्त्वो यावद् बुद्धधर्मेषु
18807 प्रतिष्ठापितो भवति। तत् कस्य हेतोः। धर्मतैषा {सुभूते धर्माणां मायाधर्मताम् उपादाय। एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धं इत्य् उच्यते}। [इति शीलसम्भारः।]
18808 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} {महासत्त्वः} क्षान्तिपारमितायां स्थित्वा सत्त्वान् क्षान्तौ समादापयति
18809 निवेशयति प्रतिष्ठापयति। कथं च सुभूते {बोधिसत्त्वो} महासत्त्वः क्षान्तिपारमितायां
18810 स्थित्वा क्षान्तौ {समादापयति निवेशयति प्रतिष्ठापयति}। इह सुभूते {बोधिसत्त्वो} महासत्त्वः प्रथमचित्तोत्पाद-
18811 म् उपादाय एवं सन्नाहं सन्नह्यते सचेत् मम सर्वसत्त्वा दण्डलोष्ट्रमुष्टिशस्त्रप्रहारान्
18812 दद्युस् तत्र मया एकम् अपि क्षोभचित्तं नोत्पादयितव्यं सर्वसत्त्वाश् चैवंरूपायां
18813 क्षान्तौ प्रतिष्ठापयितव्या इति। तद् यथापि नाम सुभूते दक्षो {मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं निर्माय} निर्मिमीते
18814 ते ऽपि सर्वे तस्य मायाकारस्य दण्डैर् लोष्ट्रैर् मुष्टिभिः शस्त्रैर् वा प्रहारं दद्युः। स
18815 च तेषु एकम् अपि क्षोभचित्तं नोत्पादयेत् तांश् च सत्त्वान् निर्मितान् एवंरूपायां क्षान्तौ
18816 प्रतिष्ठापयेत्। तेन तावतः सत्त्वान् क्षान्तौ प्रतिष्ठाप्य न कश्चित् सत्त्वः प्रतिष्ठा-
18817 पितो भवति। एवम् एव सुभूते {बोधिसत्त्वेन} महासत्त्वेन तांस् तावतः सत्त्वान् क्षान्तौ
18818 प्रतिष्ठाप्य न कश्चित् सत्त्वः क्षान्तौ प्रतिष्ठापितो भवति। तत् कस्य हेतोः।
18819 धर्मतैषा {सुभूते धर्माणां मायाधर्मताम् उपादाय। एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धं इत्य् उच्यते}॥ [इति क्षान्तिसम्भारः॥]
18901 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} {महासत्त्वो} वीर्यपारमितायां स्थित्वा सर्वसत्त्वान् वीर्यपारमितायां
18902 {समादापयति निवेशयति प्रतिष्ठापयति}। कथञ् च {सुभूते} {बोधिसत्त्वो} महासत्त्वो वीर्यपारमितायां स्थित्वा सर्वसत्त्वान् वीर्य-
18903 पारमितायां {समादापयति निवेशयति प्रतिष्ठापयति}। इह {सुभूते} {बोधिसत्त्वो} महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मन-
18904 सिकारैः कायिकचेतसिकवीर्यप्रतिष्ठितः सवसत्त्वान् {कायिकचेतसिकवीर्ये} {समादापयति निवेशयति प्रतिष्ठापयति}। तद् यथापि
18905 नाम सुभूते दक्षो {मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं} निर्माय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः {कायिकचेतसिकवीर्ये}
18906 प्रतिष्ठापयेत्। तेन तांस् तावतः सत्त्वान् {कायिकचेतसिकवीर्ये} प्रतिष्ठाप्य न कश्चित् सत्त्वः {कायिकचेतसिकवीर्ये}
18907 प्रतिष्ठापितो भवति। एवम् एव {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन तांस् तावतः सत्त्वान्
18908 {कायिकचेतसिकवीर्ये} प्रविष्ठाप्य न कश्चित् सत्त्वः {कायिकचेतसिकवीर्ये} प्रतिष्ठापितो भवति। तत् कस्य
18909 हेतोः। धर्मतैषा {सुभूते धर्माणां मायाधर्मताम् उपादाय। एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धं इत्य् उच्यते}॥ [इति वीर्यसम्भारः॥]
18910 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} {महासत्त्वो} ध्यानपारमितायां स्थित्वा सर्वसत्त्वान्
18911 ध्य्नपारमितायां {समादापयति निवेशयति प्रतिष्ठापयति}। कथं च {सुभूते} {बोधिसत्त्वो} महासत्त्वो ध्यानपार-
18912 मितायां स्थित्वा सर्वसत्त्वान् ध्यानपारमितायां {समादापयति निवेशयति प्रतिष्ठापयति}। इह {सुभूते} {बोधिसत्त्वो}
18913 महासत्त्वः सर्वधर्माणां समतायां स्थित्वा न कस्यचिद् धर्मस्य विक्षेपं वा
18914 अविक्षेपं वा समनुपश्यति। एवं हि {सुभूते} {बोधिसत्त्वो} महासत्त्वो ध्यानपारमितायां
18915 स्थितो भवति। स तथैव सर्वसत्त्वान् ध्यानपारमितायां {समादापयति निवेशयति प्रतिष्ठापयति}। ते च समा-
18916 दापिता निवेशिताः प्रतिष्ठापिता भवन्ति। न जातु विरहिता भवन्ति ध्यान-
18917 पारमितया यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति। तद् यथापि नाम
18918 सुभूते दक्षो {मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं} निर्माय जनकायं ध्यानपारमितायां प्रतिष्ठापयेत् तेन
18919 तांस् तावतः सत्त्वान् ध्यानपारमितायां प्रतिष्ठाप्य न कश्चिद् एकः सत्त्वो ऽपि ध्यान-
18920 पारमितायां प्रतिष्ठापितो भवति। एवम् एव {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन सर्वसत्त्वान्
18921 ध्यानपारमितायां प्रतिष्ठाप्य न कश्चित् सत्त्वो ध्यानपारमितायां प्रतिष्ठापितो
18922 भवति। तत् कस्य हेतोः। धर्मतैषा {सुभूते धर्माणां मायाधर्मताम् उपादाय। एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धं इत्य् उच्यते}॥ [इति ध्यानसम्भारः॥]
18923 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} {महासत्त्वः} प्रज्ञापारमितायां स्थित्वा सर्वसत्त्वान् प्रज्ञापारमितायां
18924 {समादापयति निवेशयति प्रतिष्ठापयति}। कथञ् च {सुभूते} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां स्थित्वा सर्वसत्त्वान्
18925 प्रज्ञाप्रमितायां {समादापयति निवेशयति प्रतिष्ठापयति}। यतः {सुभूते} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्
19001 न कस्यचिद् धर्मस्यापारं वा पारं वा उपलभते। एवं {बोधिसत्त्वो} महासत्त्वः प्रज्ञा-
19002 पारमितायां स्थितो भवति। स तथैव सर्वसत्त्वान् अपि तत्र {समादापयति निवेशयति प्रतिष्ठापयति}। तद् यथापि
19003 नाम सुभूते दक्षो {मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं निर्माय}
19004 {{जनकायं प्रज्ञापारमितायां प्रतिष्ठापयेत् तेन तांस् तावतः सत्त्वान् प्रज्ञापारमितायां प्रतिष्ठाप्य न कश्चिद् एकः सत्त्वो ऽपि प्रज्ञापारमितायां प्रतिष्ठापितो भवति। एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वान् प्रज्ञापारमितायां प्रतिष्ठाप्य न कश्चित् सत्त्वो प्रज्ञापारमितायां प्रतिष्ठापितो भवति। तत् कस्य हेतोः। धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय। एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धं इत्य् उच्यते}}॥ [इति प्रज्ञासम्भारः॥]
19005 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} {महासत्त्वो} महासन्नाहसन्नद्धः पूर्वस्यां दिशि गङ्गानदीवालुको-
19006 पमेषु लोकधातुषु यावन्तः सत्त्वांस् तान् सर्वान् यथैवात्मना दानपारमितायां
19007 स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। एवं
19008 शीलपारमितायां {{क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति}} प्रज्ञापारमितायां {समादापयति निवेशयति प्रतिष्ठापयति} धर्मञ् च देशयति। यद् उत
19009 इमम् एव षट्पारमिताप्रतिसंयुक्तम्। ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति
19010 षद्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति। एवं दक्षिण-
19011 स्यां {{दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ् च देशयति। यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्। ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति।एवं पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ् च देशयति। यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्। ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति। एवम् उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ् च देशयति। यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्। ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति। एवम् उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ् च देशयति। यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्। ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति। एवं पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ् च देशयति। यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्। ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति। एवं दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ् च देशयति। यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्। ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति। एवं पश्चिमोत्तरस्याम् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। एवं शीलपारमितायां
क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ् च देशयति। यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्। ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति। एवम् अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ् च देशयति। यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्। ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति।}}
19012 {{एवम् ऊर्ध्वदिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति। ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ् च देशयति। यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्। ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभि}}संबुद्धा इति।
19013 तद् यथापि नाम सुभूते दक्षो {मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं} निर्माय षट्पारमितासु {समादापयति निवेशयति प्रतिष्ठापयति}। तत्
19014 किं मन्यसे सुभूते अपि नु तेन मायाकारेण मायाकारान्तेवासिना वा कश्चित्
19015 सत्त्वः षट्पारमितासु समादापितो भवति निवेशितो वा प्रतिष्ठापितो वा भवति।
19016 सुभूतिर् आह। नो भगवन्। भगवान् आह। एवम् एव सुभूते {बोधिसत्त्वेन} महासत्त्वेन
19017 तांस् तावतः सत्त्वान् षट्सु पारमितासु प्रतिष्ठाप्य न कश्चित् सत्त्वः षट्सु पार-
19018 मितासु प्रतिष्ठापितो भवति। तत् कस्य हेतोः। धर्मतैषा {सुभूते धर्माणां मायाधर्मताम् उपादाय। एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धं इत्य् उच्यते}
19019 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} महासत्त्वो महासन्नाहं सन्नह्य सर्वाकारज्ञताप्रतिसंयुक्तेन
19020 चित्तेन विहरन् नान्येषां चित्तोत्पादानाम् अवकाशं ददाति। इयन्तो मया सत्त्वा दान-
19021 पारमितायां प्रतिष्ठापयितव्या इति। {{इयन्तो मया सत्त्वा शीलपारमितायां प्रतिष्ठापयितव्या इति। इयन्तो मया सत्त्वा क्षान्तिपारमितायां प्रतिष्ठापयितव्या इति। इयन्तो मया सत्त्वा वीर्यपारमितायां प्रतिष्ठापयितव्या इति। इयन्तो मया सत्त्वा ध्यानपारमितायां प्रतिष्ठापयितव्या इति। इयन्तो मया सत्त्वा प्रज्ञापारमितायां प्रतिष्ठापयितव्या इति।}}
19022 {{इयन्तो मया सत्त्वा बोधिपक्षधर्मेषु प्रतिष्ठापयितव्या इति। इयन्तो मया सत्त्वा आवेणिकबुद्धधर्मेषु प्रतिष्ठापयितव्या इति। इयन्तो मया सत्त्वा स्रोतआपत्तिफले प्रतिष्ठापयितव्या इति। इयन्तो मया सत्त्वा सकृदागामिफले प्रतिष्ठापयितव्या इति। इयन्तो मया सत्त्वा अनागामिफले प्रतिष्ठापयितव्या इति। इयन्तो मया सत्त्वा अर्हत्त्वे प्रतिष्ठापयितव्या इति। इयन्तो मया सत्त्वा प्रत्येकबुद्धत्वे प्रतिष्ठापयितव्या इति।}}
19023 {{इयन्तो मया सत्त्वा सर्वज्ञत्वे प्रतिष्ठापयितव्या इति}}। अपि तु खलु पुनर् असंख्येयाः सत्त्वा अप्रमेयाः सत्त्वा षट्सु पारमितासु
19024 प्रतिष्ठापयितव्याः। एवं सप्तत्रिंशद् बोधिपक्षेषु धर्मेषु दशसु तथागतबलेषु
19025 चतसृषु प्रतिसंवित्सु अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु प्रतिष्ठापयितव्याः स्रोत-
19026 आपत्तिफले सकृदागामिफले अनागामिफले अर्हत्त्वे असंख्येया अप्रमेयाः सत्त्वा
19027 बुद्धत्वे प्रतिष्ठापयितव्याः॥ [इति शमथसम्भारः॥]
19101 तद् यथापि नाम सुभूते दक्षो {मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं} निर्माय तं षट्सु पारमितासु प्रतिष्ठा-
19102 पयेत्। यावत् सर्वाकारवरोपेते सर्वज्ञज्ञाने प्रतिष्ठापयेद् एवम् एव सुभूते {बोधिसत्त्वेन} महा-
19103 महासत्त्वेन तांस् तावतः सत्त्वान् असंख्येयान् अप्रमेयान् षट्सु पारमितासु प्रतिष्ठाप्य
19104 यावत् सर्वाकारवरोपेते सर्वज्ञज्ञाने प्रतिष्ठाप्य न कश्चित् सत्त्वः षट्सु पारमितासु
19105 प्रतिष्ठापितो भवति। तत् कस्य हेतोः। धर्मतैषा सुभूते धर्माणां यद् इमां
19106 मायाधर्मताम् उपादाय।
19107 सुभूतिर् आह। यथाहं भगवन् भगवतो भाषितस्यार्थम् आजानामि तथा
19108 असन्नाहसन्नद्धो वतायं {बोधिसत्त्वो} महासत्त्वो वेदितव्यः स्वलक्षणशून्यताम् उपादाय।
19109 तत् कस्य हेतोः। तथा हि भगवन् रूपं रूपेण शून्यं {वेदना वेदनया शून्या संज्ञा संज्ञया शून्या संस्काराः संस्कारैः शून्या} विज्ञानं विज्ञानेन
19110 शून्यं, चक्षुश् चक्षुषा शून्यम्। {{श्रोत्रं श्रोत्रेण शून्यं घ्राणं घ्राणेन शून्यं जिह्वा जिह्वया शून्या कायः कायेन शून्यो मनो मनसा शून्यं रूपं रूपेण शून्यं शब्दः शब्देन शून्यो गन्धो गन्धेन शून्यो रसो रसेन शून्यो स्प्रष्टव्यं स्प्रष्टव्येन शून्यं धर्मो धर्मेण शून्यो}}
19111 {{चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यं श्रोत्रविज्ञानं श्रोत्रविज्ञानेन शून्यं घ्राणविज्ञानं घ्राणविज्ञानेन शून्यं जिह्वाविज्ञानं जिह्वाविज्ञानेन शून्यं कायविज्ञानं कायविज्ञानेन शून्यं मनोविज्ञानं मनोविज्ञानेन शून्यं चक्षुःसंस्पर्शप्रत्ययवेदयितं चक्षुःसंस्पर्शप्रत्ययवेदयितेन शून्यं श्रोत्रसंस्पर्शप्रत्ययवेदयितं श्रोत्रसंस्पर्शप्रत्ययवेदयितेन शून्यं घ्राणसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितेन शून्यं जिह्वासंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितेन शून्यं कायसंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितेन शून्यं मनःसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितेन शून्यं दानपारमिता दानपारमितया शून्या शीलपारमिता शीलपारमितया शून्या क्षान्तिपारमिता क्षान्तिपारमितया शून्या वीर्यपारमिता वीर्यपारमितया शून्या ध्यानपारमिता ध्यानपारमितया शून्या प्रज्ञापारमिता प्रज्ञापारमितया शून्या अध्यात्मशून्यता अध्यात्मशून्यतया शून्या बहिर्धाशून्यता बहिर्धाशून्यतया शून्या अध्यात्मबहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतया शून्या शून्यताशून्यता शून्यताशून्यतया शून्या महाशून्यता महाशून्यतया शून्या परमार्थशून्यता परमार्थशून्यतया शून्या संस्कृतशून्यता संस्कृतशून्यतया शून्या असंस्कृतशून्यता असंस्कृतशून्यतया शून्या अत्यन्तशून्यता अत्यन्तशून्यतया शून्या अनवराग्रशून्यता अनवराग्रशून्यतया शून्या अनवकारशून्यता अनवकारशून्यतया शून्या प्रकृतिशून्यता प्रकृतिशून्यतया शून्या सर्वधर्मशून्यता सर्वधर्मशून्यतया शून्या स्वलक्षणशून्यता स्वलक्षणशून्यतया शून्या अनुपलम्भशून्यता अनुपलम्भशून्यतया शून्या अभावस्वभावशून्यता अभावस्वभावशून्यतया शून्या भावशून्यता भावशून्यतया शून्या अभावशून्यता अभावशून्यतया शून्या स्वभावशून्यता स्वभावशून्यतया शून्या परभावशून्यता परभावशून्यतया शून्या सप्तत्रिंशद्बोधिपक्षधर्माः सप्तत्रिंशद्बोधिपक्षधर्मैः शून्याः}}
19112 {{दशतथागतबलानि दशतथागतैः शून्यानि अष्टादशावेणिकबुद्धधर्माः अष्टादशावेणिकबुद्धधर्मैः शून्याः बोधिसत्त्वो बोधिसत्त्वेन शून्यः}}। महा-
19113 यानसन्नाहो ऽपि भगवन् महायानसन्नाहेन शून्यः। अनेन भगवन् पर्यायेण
19114 असन्नाहसन्नद्धो बोधिसत्त्वो वेदितव्यः। एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अ-
19115 वोचत्। एवम् एतत् सुभूते यथा वदसि। तत् कस्य हेतोः। अकृता हि सुभूते
19116 सर्वाकारज्ञता अविकृता अनभिसंस्कृता। ते ऽपि सत्त्वा {अकृता अविकृता अनभिसंस्कृता} येषां कृतशो
19117 {बोधिसत्त्वेन} महासत्त्वेन महासन्नाहः सन्नद्धः।
19118 सुभूतिर् आह। केन कारणेन भगवन् सर्वाकारज्ञता {अकृता अविकृता अनभिसंस्कृता}।
19119 ते ऽपि सत्त्वा {अकृता अविकृता अनभिसंस्कृता} येषां कृतशो {बोधिसत्त्वेन} महासत्त्वेन महा-
19120 सन्नाहसन्नद्धः। भगवान् आह। कारकानुपलब्धिताम् उपादाय सुभूते सर्वाकार-
19121 ज्ञता {अकृता अविकृता अनभिसंस्कृता}। ते ऽपि सत्त्वा {अकृता अविकृता अनभिसंस्कृता}। तत् कस्य हेतोः। न हि सुभूते रूपं
19122 करोति न विकरोति नाभिसंस्करोति। {{न वेदना करोति न विकरोति नाभिसंस्करोति। न संज्ञा करोति न विकरोति नाभिसंस्करोति। न संस्काराः कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति। न विज्ञानं करोति न विकरोति नाभिसंस्करोति। न चक्षुः करोति न विकरोति नाभिसंस्करोति। न श्रोत्रं करोति न विकरोति नाभिसंस्करोति। न घ्राणं करोति न विकरोति नाभिसंस्करोति। न जिह्वा करोति न विकरोति नाभिसंस्करोति। न कायः करोति न विकरोति नाभिसंस्करोति। न मनः करोति न विकरोति नाभिसंस्करोति।}}
19123 {{न रूपं करोति न विकरोति नाभिसंस्करोति। न शब्दः करोति न विकरोति नाभिसंस्करोति। न गन्धः करोति न विकरोति नाभिसंस्करोति। न रसः करोति न विकरोति नाभिसंस्करोति। न स्प्रष्टव्यं करोति न विकरोति नाभिसंस्करोति। न धर्मः करोति न विकरोति नाभिसंस्करोति। न चक्षुर्विज्ञानं करोति न विकरोति नाभिसंस्करोति। न श्रोत्रविज्ञानं करोति न विकरोति नाभिसंस्करोति। न घ्राणविज्ञानं करोति न विकरोति नाभिसंस्करोति। न जिह्वाविज्ञानं करोति न विकरोति नाभिसंस्करोति। न कायविज्ञानं करोति न विकरोति नाभिसंस्करोति। न मनोविज्ञानं करोति न विकरोति नाभिसंस्करोति। न चक्षुःसंस्पर्शप्रत्ययवेदयितं करोति न विकरोति नाभिसंस्करोति। न श्रोत्रसंस्पर्शप्रत्ययवेदयितं करोति न विकरोति नाभिसंस्करोति। न घ्राणसंस्पर्शप्रत्ययवेदयितं करोति न विकरोति नाभिसंस्करोति। न जिह्वासंस्पर्शप्रत्ययवेदयितं करोति न विकरोति नाभिसंस्करोति। न कायसंस्पर्शप्रत्ययवेदयितं करोति न विकरोति नाभिसंस्करोति।}} न मनःसंस्पर्शप्रत्ययवेदयितं करोति
19124 न विकरोति नाभिसंस्करोति। तत् कस्य हेतोः। तथा ह्य् अत्यन्ततया सर्व एते
19201 न विद्यन्ते नोपलभ्यन्ते। आत्मा सुभूते न {करोति न विकरोति नाभिसंस्करोति}। एवं न सत्त्वो न जीवो
19202 {{न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको}} न पश्यकः करोति {{न विकरोति नाभिसंस्करोति। तत् कस्य हेतोः। तथा हि अत्यन्ततया न विद्यन्ते}} नोपलभ्यन्ते।
19203 स्वप्नः सुभूते न {करोति न विकरोति नाभिसंस्करोति}। प्रतिश्रुत्कः प्रतिभासः प्रतिबिम्बं मरीचिर् न निर्माणं
19204 करोति {{न विकरोति नाभिसंस्करोति। तत् कस्य हेतोः। तथा हि अत्यन्ततया न विद्यन्ते नोपलभ्यन्ते।}}
19205 {{अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यता संस्कृतशून्यता असंस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता अनवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता अनुपलम्भशून्यता अभावस्वभावशून्यता भावशून्यता अभावशून्यता स्वभावशून्यता न परभावशून्यता करोति न विकरोति नाभिसंस्करोति। तत् कस्य हेतोः। तथा हि अत्यन्ततया न विद्यन्ते नोपलभ्यन्ते}}। सप्तत्रिंशद् बोधिपक्षा धर्मा दश तथागतबलानि चत्वारि वैशा-
19206 रद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा। तथता {{आकाशधातुर् भूतकोटिर् अचिन्त्यधातुर् बोधिः}} सर्वाकार-
19207 ज्ञता सुभूते न करोति न विकरोति नाभिसंस्करोति। तत् कस्य हेतोः।
19208 तथा हि अत्यन्ततया न विद्यन्ते नोपलभ्यते। अनेन सुभूते पर्यायेण सर्वा-
19209 कारज्ञता {अकृता अविकृता अनभिसंस्कृता}। येषां कृतशो {बोधिसत्त्वेन} महासत्त्वेन महासन्नाहसन्नद्धः। एवं
19210 हि सुभूते {बोधिसत्त्वो} महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते॥ [इति विदर्शना-
19211 सम्भारः॥]
19212 सुभूतिर् आह। यथाहं भगवतो भाषितस्यार्थम् आजानामि। रूपं भगवन्न् अ-
19213 बद्धम् अमुक्तं वेदनासंज्ञासंस्कारा विज्ञानं भगवन् न {बद्धमुक्तम्}
19214 पूर्णो मैत्रायणीपुत्र आह। रूपम् आयुष्मन् सुभूते अबद्धम् अमुक्तम् इति वदसि।
19215 {{वेदनायुष्मन् सुभूते अबद्धामुक्तेति वदसि। संज्ञायुष्मन् सुभूते अबद्धामुक्तेति वदसि। संस्कारा आयुष्मन् सुभूते अबद्धा अमुक्ता इति वदसि। विज्ञानम् आयुष्मन् सुभूते अबद्धम् अमुक्तम् इति वदसि}}।
19216 सुभूतिर् आह। एवम् एतद् आयुष्मन् पूर्ण।
19217 पूर्ण आह। कतमत् तद् आयुष्मन् सुभूते रूपं यद् {अबद्धम् अमुक्तम्}। {{कतमा सायुष्मन् सुभूते वेदना याबद्धामुक्ता। कतमा सायुष्मन् सुभूते संज्ञा याबद्धामुक्ता। कतमाः ते आयुष्मन् सुभूते संस्कारा ये अबद्धा अमुक्ताः। कतमत् तद् आयुष्मन् सुभूते विज्ञानं यद् अबद्धम् अमुक्तम्}}।
19219 सुभूतिर् आह। यद् एतद् आयुष्मन् पूर्ण स्वप्नोपमं रूपं तद् {अबद्धम् अमुक्तम्}। य एते
19220 स्वप्नोपमा वेदना {{साबद्धामुक्ता। य एषा स्वप्नोपमा संज्ञा साबद्धामुक्ता। ये एते स्वप्नोपमाः संस्काराः ते ऽबद्धा अमुक्ताः। यद् एतत् स्वप्नोपमं विज्ञानं तद् अबद्धम् अमुक्तम्}}। एवं प्रतिश्रुत्कोपमा मायोपमा मरीच्युपमा प्रति-
19221 भासोपमा यद् एतद् आयुष्मन् पूर्ण निर्मितोपमं रूपं तद् {अबद्धम् अमुक्तम्}। य एते निर्मितोपमा
19301 वेदना {{साबद्धामुक्ता। य एषा निर्मितोपमा संज्ञा साबद्धामुक्ता। ये एते निर्मितोपमाः संस्काराः ते ऽबद्धा अमुक्ताः। यद् एतत् निर्मितोपमं विज्ञानं तद् अबद्धम् अमुक्तम्}}। एवम् अनागतं प्रत्युत्पन्नम् आयुष्मन् पूर्ण रूपम् {अबद्धम् अमुक्तम्}। प्रत्युत्पन्ना
19302 वेदना {{अबद्धामुक्ता। प्रत्युत्पन्ना संज्ञाबद्धामुक्ता। प्रत्युत्पन्नाः संस्कारा अबद्धा अमुक्ताः। प्रत्युत्पन्नं विज्ञानम् अबद्धम् अमुक्तम्}}। तत् कस्य हेतोः। असत्त्वाद् आयुस्मन् पूर्ण रूपस्य। एवं तद् रूपम् {अबद्धम् अमुक्तम्}।
19303 असत्त्वाद् आयुष्मन् पूर्ण वेदनायाः संज्ञायाः संस्काराणाम्। असत्त्वाद् आयुष्मन्
19304 पूर्ण विज्ञानस्यैवं तद् विज्ञानम् {अबद्धम् अमुक्तम्}। एवं विविक्तत्वाच् छान्तत्वाच् छून्यत्वाद् अनिमित्त-
19305 त्वाद् अप्रणिहितत्वाद् असंस्कृतत्वाद् अनुत्पन्नत्वात् कुशलम् अकुशलं संक्लेशन् निष्क्लेशं
19306 सावद्यम् अनवद्यं सास्रवम् अनास्रवं लौकिकं लोकोत्तरं संक्लिष्टं व्यवदानम् आयुष्मन् पूर्णं
19307 रूपम् {अबद्धम् अमुक्तम्}। तत् कस्य हेतोः। असत्त्वाद् रूपस्यैवं तद् रूपम् {अबद्धम् अमुक्तम्}। वेदना संज्ञा
19308 संस्काराः। संक्लिष्टं व्यवदानम् आयुष्मन् पूर्ण विज्ञानम् {अबद्धम् अमुक्तम्}। तत् कस्य हेतोः।
19309 असत्त्वाद् विज्ञानस्य एवं तद् विज्ञानम् {अबद्धम् अमुक्तम्}। सर्वधर्मा अप्य् आयुष्मन् पूर्ण {अबद्धा अमुक्ताः}।
19310 तत् कस्य हेतोः। असत्त्वाद् अबद्धा अमुक्ताः। एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अ-
19311 बद्धा अमुक्ता। {{अध्यात्मशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः। तत् कस्य हेतोः। असत्त्वाद् अबद्धा अमुक्ताः। एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता। बहिर्धाशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः। तत् कस्य हेतोः। असत्त्वाद् अबद्धा अमुक्ताः। एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता। अध्यात्मबहिर्धाशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः। तत् कस्य हेतोः। असत्त्वाद् अबद्धा अमुक्ताः। एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता। शून्यताशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः। तत् कस्य हेतोः। असत्त्वाद् अबद्धा अमुक्ताः। एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता। महाशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः। तत् कस्य हेतोः। असत्त्वाद् अबद्धा अमुक्ताः। एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता। परमार्थशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः। तत् कस्य हेतोः। असत्त्वाद् अबद्धा अमुक्ताः। एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता। संस्कृतशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः। तत् कस्य हेतोः। असत्त्वाद् अबद्धा अमुक्ताः। एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता। अत्यन्तशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः। तत् कस्य हेतोः। असत्त्वाद् अबद्धा अमुक्ताः। एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता। अनवराग्रशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः। तत् कस्य हेतोः। असत्त्वाद् अबद्धा अमुक्ताः। एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता। अनवकारशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः। तत् कस्य हेतोः। असत्त्वाद् अबद्धा अमुक्ताः। एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता। प्रकृतिशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः। तत् कस्य हेतोः। असत्त्वाद् अबद्धा अमुक्ताः। एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता। सर्वधर्मशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः। तत् कस्य हेतोः। असत्त्वाद् अबद्धा अमुक्ताः। एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता। स्वलक्षणशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः। तत् कस्य हेतोः। असत्त्वाद् अबद्धा अमुक्ताः। एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता। अनुपलम्भशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः। तत् कस्य हेतोः। असत्त्वाद् अबद्धा अमुक्ताः। एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता। अभावस्वभावशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः। तत् कस्य हेतोः। असत्त्वाद् अबद्धा अमुक्ताः। एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता। भावशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः। तत् कस्य हेतोः। असत्त्वाद् अबद्धा अमुक्ताः। एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता। अभावशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः। तत् कस्य हेतोः। असत्त्वाद् अबद्धा अमुक्ताः। एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता। स्वभावशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः। तत् कस्य हेतोः। असत्त्वाद् अबद्धा अमुक्ताः। एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता। परभावशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः। तत् कस्य हेतोः। असत्त्वाद् अबद्धा अमुक्ताः। एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता।}}
19312 {{सप्तत्रिंशद्बोप्धिपक्षा धर्मा अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः। तत् कस्य हेतोः। असत्त्वाद् अबद्धा अमुक्ताः। एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता।}} एवं दशबलानि चत्वारि वैशारद्यानि यावद् अष्टादशा-
19313 वेणिकबुद्धधर्माः, सर्वाकारज्ञता, तथता {{धर्मधातुर्}} भूतकोटिः। एवं ह्य् आयुष्मन्
19314 पूर्ण {बोधिसत्त्वो} महासत्त्वो ऽबद्धो ऽमुक्तः। एवं षड् अपि पारमिता अबद्धा अमुक्ताः।
19315 यावत् सर्वाकारज्ञताप्य् {अबद्धामुक्ता}। सत्त्वान् अपि यान् परिनिर्वापयिष्यति ते अपि
19316 {अबद्धा अमुक्ताः}। बुद्धक्षेत्राण्य् अपि यानि परिशोधयिष्यति तान्य् अप्य् {अबद्धान्य् अमुक्तानि}। यान् अपि बुद्धान्
19317 भगवतः पर्युपासिष्यते ते ऽप्य् {अबद्धा अमुक्ताः}। यम् अपि धर्मं श्रोष्यति सो ऽप्य् अबद्धो ऽमुक्तः।
19318 बुद्धैर् भगवद्भिर् न जातु विरहितो भविष्यति अबद्धो ऽमुक्तः। नाभिज्ञाभिर् {विरहितो भविष्यत्य् अबद्धो ऽमुक्तः}
19319 न पञ्चभिश् चक्षुर्भिर् {विरहितो भविष्यत्य् अबद्धो ऽमुक्तः}। तथा नान्यैः समाधिभिर् {विरहितो भविष्यत्य् अबद्धो ऽमुक्तः}। अबद्धाम् अमुक्तां मार्गा-
19320 कारज्ञताम् उत्पादयिष्यति। अबद्धाम् अमुक्तां सर्वाकारज्ञताम् अवभोत्स्यते। अबद्ध-
19321 म् अमुक्तं धर्मचक्रं प्रवर्तयिष्यति। अबद्धान् अमुक्तान् सत्त्वांस् त्रिभिर् यानैः परिनिर्वा-
19322 पयिष्यत्य् अबद्धो ऽमुक्तः। एवं ह्य् आयुष्मन् पूर्ण {बोधिसत्त्वो} महासत्त्वः षड्भिः पारमिताभिर् अ-
19323 बद्धो ऽमुक्तः सर्वधर्मान् अभिसंभोत्स्यते असत्त्वाम् उपादाय। एवं विविक्तता याव-
19401 द् अनुत्पन्नताम् उपादाय। एवं ह्य् आयुष्मन् पूर्ण {बोधिसत्त्वस्य} महासत्त्वस्य अबद्धो ऽमुक्तो
19402 महायानसन्नाहो वेदितव्यः॥ [इति युगनद्धमार्गसम्भारः।]
19403 अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्। कतमद् भगवन् {बोधिसत्त्वस्य} महा-
19404 सत्त्वस्य महायानम्। कथं भगवन् {बोधिसत्त्वो} महासत्त्वो महायानसंप्रस्थितो
19405 वेदितव्यः। कुतस् तद् यानं निर्यास्यति। क्व वा तद् यानं स्थास्यति। को वा
19406 तेन यानेन निर्यास्यति। एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्। यत्
19407 सुभूते एवं वदसि कतमद् {बोधिसत्त्वस्य} महासत्त्वस्य महायानम् इति। षट्पारमिताः
19408 सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्। कतमा षट्पारमिता। दान{पारमिता}
19409 शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता} प्रज्ञा{पारमिता}।
19410 सुभूतिर् आह। कतमा भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य दान{पारमिता}।
19411 भगवान् आह। इह सुभूते {बोधिसत्त्वो} महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तै-
19412 श् चित्तोत्पादैर् दानं ददाति यद् उताध्यात्मिकबाह्यानि वस्तूनि तानि च
19413 सर्वसत्त्वसाधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति।
19414 परांश् च तत्र समादापयति अनुपलम्भयोगेन। इयं सुभूते {बोधिसत्त्वस्य}
19415 महासत्त्वस्य दान{पारमिता}।
19416 {सुभूतिर् आह। कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य शीलपारमिता}।
19417 {भगवान् आह। इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर्} आत्मना च दश कुशलान् कर्मपथान् समादाय वर्त्तते। परांश् च
19418 दशकुशले कर्मपथे {समादापयति अनुपलम्भयोगेन। इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य} अपरामृष्टा शील{पारमिता}।
19419 {सुभूतिर् आह। कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता}।
19420 {भगवान् आह। इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर्} आत्मना च क्षान्तिसमापन्नो भवति परांश् च क्षान्तौ {समादापयति अनुपलम्भयोगेन। इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य} क्षान्ति{पारमिता}।
19422 {सुभूतिर् आह। कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता}।
19501 {भगवान् आह। इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर्} पञ्चसु पारमितासु अनिक्षिप्तधूरो विहरति परांश् च तासु पञ्चसु पार-
19502 मितासु {समादापयति अनुपलम्भयोगेन। इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य} वीर्य{पारमिता}।
19503 {सुभूतिर् आह। कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता}।
19504 {भगवान् आह। इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर्} आत्मना चोपायकौशल्येन ध्यानानि समापद्यते। न च तेषां
19505 वशेनोपपद्यते परांश् च ध्यानेषु {समादापयति अनुपलम्भयोगेन। इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य} ध्यान{पारमिता}।
19506 {सुभूतिर् आह। कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता}।
19507 {भगवान् आह। इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर्} सर्वधर्मान् अभिनिविशते सर्वधर्माणां च प्रकृतिं प्रत्यवेक्षते सर्वधर्म-
19508 प्रकृतिप्रत्यवेक्षायां च सत्त्वांश् च {समादापयति अनुपलम्भयोगेन। इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य} प्रज्ञा{पारमिता}। इदं
19509 सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्॥ [इत्य् उपायकौशल्यसम्भारः॥]
19510 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानं यद् उत अध्यात्मशून्यता
19511 {{बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यता संस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता अनवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता अनुपलम्भशून्यता अभावस्वभावशून्यता भावशून्यता अभावशून्यता स्वभावशून्यता}} परभावशून्यता।
19512 तत्र कतमा अध्यात्मशून्यता। आध्यात्मिका धर्मा उच्यन्ते चक्षुः
19513 श्रोत्रं घ्राणं जिह्वा कायो मनः। तत्र चक्षुश् चक्षुषा शून्यं अकूटस्थाविनाशिताम् उ-
19514 पादाय। तत् कस्य हेतोः। प्रकृतिर् अस्यैषा। श्रोत्रं श्रोत्रेण शून्यं अकूटस्था-
19515 विनाशिताम् उपादाय। तत् कस्य हेतोः। प्रकृतिर् अस्यैषा।
19516 {{घ्राणं घ्राणेन शून्यं अकूटस्थाविनाशिताम् उपादाय। तत् कस्य हेतोः। प्रकृतिर् अस्यैषा। जिह्वा जिह्वया शून्याम् अकूटस्थाविनाशिताम् उपादाय। तत् कस्य हेतोः। प्रकृतिर् अस्या एषा। कायः कायेन शून्यो ऽकूटस्थाविनाशिताम् उपादाय। तत् कस्य हेतोः। प्रकृतिर् अस्यैषा। मनो मनसा शून्यं अकूटस्थाविनाशिताम् उपादाय। तत् कस्य हेतोः। प्रकृतिर् अस्यैषा}}। इयम् उच्यते अध्यात्मशून्यता।
19517 तत्र कतमा बहिर्धाशून्यता। ये बहिर्धा धर्मास् तद् यथा रूपशब्दगन्धरस-
19518 स्प्रष्टव्यधर्माः। तत्र रूपं रूपेण शून्यम् अकूटस्थाविनाशिताम् उपादाय। तत् कस्य
19519 हेतोः। प्रकृतिर् अस्यैषा, {{शब्दः शब्देन शून्यो ऽकूटस्थाविनाशिताम् उपादाय। तत् कस्य हेतोः। प्रकृतिर् अस्यैषा। गन्धो गन्धेन शून्यो ऽकूटस्थाविनाशिताम् उपादाय। तत् कस्य हेतोः। प्रकृतिर् अस्यैषा। रसो रसेन शून्यो ऽकूटस्थाविनाशिताम् उपादाय। तत् कस्य हेतोः। प्रकृतिर् अस्यैषा। स्प्रष्टव्यं स्प्रष्टव्येन शून्यम् अकूटस्थाविनाशिताम् उपादाय। तत् कस्य हेतोः। प्रकृतिर् अस्यैषा। धर्मो धर्मेण शून्यो ऽकूटस्थाविनाशिताम् उपादाय। तत् कस्य हेतोः। प्रकृतिर् अस्यैषा}}। इय-
19520 म् उच्यते बहिर्दाशून्यता।
19521 तत्र कतमा अध्यात्मबहिर्धाशून्यता। षडाध्यात्मिकान्य् आयतनानि षड्-
19522 बाह्यान्य् आयतनानि। इयम् उच्यते अध्यात्मबहिर्धाशून्यता।
19523 तत्र कतमा आध्यात्मिका धर्मा बहिर्धाधर्मैः शून्याश् चक्षुःश्रोत्रघ्राण-
19601 जिह्वाकायामनांसि आध्यात्मिकानि रूपशब्दगन्धरसस्पर्शधर्मैः शून्यानि {अकूटस्थाविनाशिताम् उपादाय। तत् कस्य हेतोः। प्रकृतिर् एषाम् एषा}।
19602 तत्र कतमे बहिर्धा धर्मा आध्यात्मिकैः धर्मैः शून्याः। रूपशब्दगन्धरसस्पर्श-
19603 धर्माश् चक्षुःश्रोत्रघ्राणजिह्वाकायमनोभिः शून्या {अकूटस्थाविनाशिताम् उपादाय। तत् कस्य हेतोः। प्रकृतिर् एषाम् एषा}॥ इयम् उच्यते अध्यात्म-
19604 बहिर्धाशून्यता।
19605 {तत्र कतमा} शून्यताशून्यता। या सर्वधर्माणां शून्यता तया शूयतया शून्या
19606 {अकूटस्थाविनाशिताम् उपादाय। तत् कस्य हेतोः। प्रकृतिर् अस्या एषा}॥ {इयम् उच्यते} शून्यताशून्यता।
19607 {तत्र कतमा} महाशून्यता। पूर्वा दिक् पूर्वया दिशा शून्या एवं दक्षिणा पश्चिमा
19608 {{उत्तरा उत्तरपूर्वा पूर्वदक्षिणा दक्षिणपश्चिमा पश्चिमोत्तरा अधस्ताद्}} ऊर्ध्वा दिक् ऊर्ध्वया दिशा शून्या {अकूटस्थाविनाशिताम् उपादाय। तत् कस्य हेतोः। प्रकृतिर् अस्या एषा}॥ {इयम् उच्यते} महाशून्यता।
19609 {तत्र कतमा} परमार्थशून्यता। परमार्थ उच्यते निर्वाणम्। तच् च निर्वाणेन शून्यम्
19610 {अकूटस्थाविनाशिताम् उपादाय। तत् कस्य हेतोः। प्रकृतिर् अस्या एषा}॥ {इयम् उच्यते} परमार्थशून्यता।
19611 {तत्र कतमा} संस्कृतशून्यता। संस्कृत उच्यते कामधातुः रूपधातुर् आरूप्यधातुश् च।
19612 तत्र कामधातुः कामधातुना शून्यो {अकूटस्थाविनाशिताम् उपादाय। तत् कस्य हेतोः। प्रकृतिर् अस्यैषा}॥ रूपधातूः रूपधातुना शून्यः {अकूटस्थाविनाशिताम् उपादाय। तत् कस्य हेतोः। प्रकृतिर् अस्यैषा}।
19613 आरूप्यधातुर् आरूप्यधातुना शून्यो {ऽकूटस्थाविनाशिताम् उपादाय। तत् कस्य हेतोः। प्रकृतिर् अस्यैषा}॥ {इयम् उच्यते} संस्कृतशून्यता।
19614 {तत्र कतमा} असंस्कृतशून्यता। असंस्कृत उच्यते यस्य नोत्पादो न निरोधो
19615 न स्थितिर् नान्यथात्वम्। इदम् उच्यते असंस्कृतम्। असंस्कृतम् असंस्कृतेन शून्यं
19616 {अकूटस्थाविनाशिताम् उपादाय। तत् कस्य हेतोः। प्रकृतिर् अस्यैषा}॥ {इयम् उच्यते} असंस्कृतशून्यता।
19617 {तत्र कतमा} अत्यन्तशून्यता। यस्य अन्तो नोपलभ्यते तद् अत्यन्तम् अत्यन्तेन शून्यम्
19618 {अकूटस्थाविनाशिताम् उपादाय। तत् कस्य हेतोः। प्रकृतिर् अस्यैषा}॥ {इयम् उच्यते} अत्यन्तशून्यता।
19619 {तत्र कतमा} अनवराग्रशून्यता। यस्य नैवाग्रं नावरम् उपलभ्यते। तस्य मध्या-
19620 भावः। यस्य च नादिर् न मध्यं नावरम् उपलभ्यते तस्य नागतिर् न गतिः। आदि-
19621 मध्यावसानान्य् अपि आदिमध्यावसानैः शून्यान्य् {अकूटस्थाविनाशिताम् उपादाय। तत् कस्य हेतोः। प्रकृतिर् एषाम् एषा}॥ {इयम् उच्यते} अनवराग्रशून्यता।
19622 {तत्र कतमा} अनवकारशून्यता। यस्य धर्मस्य न कश्चिद् अवकारः। अवकारं नाम
19701 अविकिरणं छोरणम् उत्सर्गः। अनवकारो ऽनवकारेण शून्यो {अकूटस्थाविनाशिताम् उपादाय। तत् कस्य हेतोः। प्रकृतिर् अस्यैषा}॥ {इयम् उच्यते}
19702 अनवकारशून्यता।
19703 {तत्र कतमा} प्रकृतिशून्यता। या सर्ववर्माणां प्रकृइः संस्कृतानां वा असंस्कृतानां वा
19704 न श्रावकैः कृता न प्रत्येकबुद्धैः कृता न तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः कृता
19705 नापकृता। प्रकृतिः प्रकृत्या शून्या {अकूटस्थाविनाशिताम् उपादाय। तत् कस्य हेतोः। प्रकृतिर् अस्या एषा}। {इयम् उच्यते} प्रकृतिशून्यता।
19706 {तत्र कतमा} सर्वधर्मशून्यता। सर्वधर्मा उच्यन्ते रूपं {{वेदना संज्ञा संस्कारा विज्ञानं}}
19707 {{चक्षुः श्रोत्रं घ्राणं जिह्वा कायो मनो रूपं शब्दो गन्धो रसः स्प्रष्टव्यं धर्मः चक्षुःसंस्पर्शः श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्शः चक्षुःसंस्पर्शप्रत्ययवेदना श्रोत्रसंस्पर्शप्रत्ययवेदना घ्राणसंस्पर्शप्रत्ययवेदना जिह्वासंस्पर्शप्रत्ययवेदना कायसंस्पर्शप्रत्ययवेदना}}
19708 मनःसंस्पर्शप्रत्ययवेदना संस्कृता धर्मा असंस्कृता धर्माः। इमे उच्यन्ते सर्वधर्माः।
19709 तत्र धर्माः धर्मैः शून्या {अकूटस्थाविनाशिताम् उपादाय। तत् कस्य हेतोः। प्रकृतिर् एषाम् एषा}। {इयम् उच्यते} सर्वधर्मशून्यता।
19710 {तत्र कतमा} स्वलक्षणशून्यता। रूपणलक्षणं रूपम्। अनुभवलक्षणा वेदना। उद्-
19711 ग्रहणलक्षणा संज्ञा। अभिसंस्कारलक्षणाः संस्काराः। विजाननलक्षणं विज्ञानं
19712 विस्तरेण कर्तव्यं यच् च संस्कृतानां धर्माणां लक्षणालक्षणं यच् चासंस्कृतानां
19713 धर्माणां लक्षणालक्षणं सर्व एते धर्माः स्वलक्षणशून्या {अकूटस्थाविनाशिताम् उपादाय। तत् कस्य हेतोः। प्रकृतिर् एषाम् एषा}। {इयम् उच्यते}
19714 स्वलक्षणशून्यता।
19715 {तत्र कतमा} अनुपलम्भशून्यता। ये धर्मा अतीतानागतप्रत्युत्पन्नास् ते नोपलभ्यन्ते।
19716 तत् कस्य हेतोः। नातीते अनागता उपलभ्यन्ते। नाप्य् अनागते अतीताः। न
19717 प्रत्युत्पन्ने ऽतीतानागता उपलभ्यन्ते। नाप्य् अतीता अनागते याः प्रत्युत्पन्ना
19718 एषाम् इयम् अनुपलब्धिर् आदिविशुद्धित्वात् {अकूटस्थाविनाशिताम् उपादाय। तत् कस्य हेतोः। प्रकृतिर् एषाम् एषा}। {इयम् उच्यते} अनुपलम्भशून्यता।
19719 {तत्र कतमा} अभावस्वभावशून्यता। नास्ति सांयोजिकस्य धर्मस्य स्वभावः प्रतीत्य-
19720 समुत्पन्नत्वात्। संयोगः संयोगेन शून्यः {अकूटस्थाविनाशिताम् उपादाय। तत् कस्य हेतोः। प्रकृतिर् अस्यैषा}। {इयम् उच्यते} अभावस्वभावशून्यता।
19721 {तत्र कतमा} भावशून्यता। भाव उच्यते पञ्चोपादानस्कन्धाः। स च भावो भावेन
19722 शून्यो {ऽकूटस्थाविनाशिताम् उपादाय। तत् कस्य हेतोः। प्रकृतिर् अस्यैषा}। {इयम् उच्यते} भावशून्यता।
19801 {तत्र कतमा} अभावशून्यता। अभाव उच्यते असंस्कृतम्। तच् चासंस्कृतम् असंस्कृतेन
19802 शून्यम् {अकूटस्थाविनाशिताम् उपादाय। तत् कस्य हेतोः। प्रकृतिर् अस्यैषा}। {इयम् उच्यते} अभावशून्यता।
19803 {तत्र कतमा} स्वभावशून्यता। स्वभावो हि प्रकृतिर् अविपरीतता तस्या या
19804 तया शून्यता {अकूटस्थाविनाशिताम् उपादाय। तत् कस्य हेतोः। प्रकृतिर् अस्या एषा}। न सा ज्ञानेन दर्शनेन च कृता। तत् कस्य हेतोः।
19805 प्रकृतिर् अस्यैषा। {इयम् उच्यते} स्वभावशून्यता।
19806 {तत्र कतमा} परभावशून्यता। या उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा स्थितै-
19807 वैषा धर्माणां धर्मता धर्मस्थितिता {{धर्मनियामता}} भूतकोटिस् तस्या या तया शून्यता।
19808 {अकूटस्थाविनाशिताम् उपादाय। तत् कस्य हेतोः। प्रकृतिर् अस्या एषा}। न सा परेण कृता। तत् कस्य हेतोः। प्रकृतिर् अस्यैषा।
19809 इयम् उच्यते परभावशून्यता। इदम् उच्यते सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्॥
19810 [इति ज्ञानसम्भारः॥]
19811 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्। यद् उत शूअर्ङ्गमो नाम समाधिः।
19812 {{रत्नमुद्रो नाम समाधिः। सुचन्द्रो नाम समाधिः। चन्द्रध्वजकेतुर् नाम समाधिः। सर्वधर्ममुद्रो नाम समाधिः। अवलोकितमूर्द्धा नाम समाधिः। धर्मधातुनियतो नाम समाधिः। नियतध्वजकेतुः नाम समाधिः। वज्रोपमो नाम समाधिः। सर्वधर्मप्रवेशमुद्रो नाम समाधिः। समाहितावस्थाप्रतिष्ठानो नाम समाधिः। राजमुद्रो नाम समाधिः। बलवीर्यो नाम समाधिः। सर्वधर्मसमुद्गतो नाम समाधिः। निरुक्तिनियतप्रवेशो नाम समाधिः। आसेचनकप्रवेशो नाम समाधिः। दिगवलोकनो नाम समाधिः। धारणीमुद्रो नाम समाधिः। असंप्रमुषितो नाम समाधिः। समवसरणो नाम समाधिः। आकाशस्फारणो नाम समाधिः। वज्रमण्डलो नाम समाधिः। ध्वजाग्रकेतुराजो नाम समाधिः। इन्द्रकेतुः नाम समाधिः। स्रोतोऽनुगतो नाम समाधिः। सिंहविजृम्भितो नाम समाधिः। व्यत्यस्तसमापत्तिः नाम समाधिः। रणंजहो नाम समाधिः। वैरोचनो नाम समाधिः। निमिषो नाम समाधिः। निकेतस्थितो नाम समाधिः। निश्चितो नाम समाधिः। विपुलप्रतिपन्नो नाम समाधिः। अनन्तप्रभो नाम समाधिः। प्रभाकरो नाम समाधिः। वरधर्ममुद्रो नाम समाधिः। समन्तावभासो नाम समाधिः। शुद्धावासो नाम समाधिः। विमलप्रभो नाम समाधिः। अरतिकरो नाम समाधिः। अजयो नाम समाधिः। तेजोवती नाम समाधिः। क्षयापगतो नाम समाधिः। अनिर्जितो नाम समाधिः। विवृतो नाम समाधिः। सूर्यप्रदीपो नाम समाधिः। चन्द्रविमलो नाम समाधिः। शुद्धप्रतिभासो नाम समाधिः। आलोककरो नाम समाधिः। काराकारो नाम समाधिः। ज्ञानकेतुः नाम समाधिः। चित्तस्थितो नाम समाधिः। समन्तावलोको नाम समाधिः। सुप्रतिष्ठितो नाम समाधिः। रत्नकोटिः नाम समाधिः। सर्वधर्मसमता नाम समाधिः। रतिजहो नाम समाधिः। धर्मङ्गतो नाम समाधिः। विकिरणो नाम समाधिः। सर्वधर्मपदप्रभेदो नाम समाधिः। समाक्षरावतारो नाम समाधिः। अनिगरो नाम समाधिः। प्रभाकरो नाम समाधिः। नामनियतप्रवेशो नाम समाधिः। अनिकेतचारी नाम समाधिः। वितिमिरापगतो नाम समाधिः। चारित्रवती नाम समाधिः। अचलो नाम समाधिः। विषमशान्तिः नाम समाधिः। सर्वगुणसंचयो नाम समाधिः। निश्चितो नाम समाधिः। शुभपुष्पितशुद्धो नाम समाधिः। बोध्यङ्गवती नाम समाधिः। अनन्तप्रभा नाम समाधिः। आगमसमो नाम समाधिः। विमतिविकिरणो नाम समाधिः। प्रतिच्छेदकरो नाम समाधिः। आकारानभिनिवेशनिर्हारो नाम समाधिः। आकारानवकारो नाम समाधिः। निरतिशयसर्वभवतलविकिरणो नाम समाधिः। संकेतरुतप्रवेशो नाम समाधिः। घोषवती नाम समाधिः। निरक्षरविमुक्तिः नाम समाधिः। तेजोवती नाम समाधिः। ज्वलनोल्का नाम समाधिः। रक्षानुपरिशोषणो नाम समाधिः। अनाविलक्षान्तिः नाम समाधिः। सर्वाकारावतारो नाम समाधिः। सर्वसुखदुःखनिरभिनन्दी नाम समाधिः। अक्षयाकारो नाम समाधिः। धारणीमतिः नाम समाधिः। सम्यकमिथ्यात्वसंग्रहो नाम समाधिः। रोषविरोषप्रतिरोषो नाम समाधिः। विमलप्रभो नाम समाधिः। शारवती नाम समाधिः। परिपूर्णविमलचन्द्रप्रभो नाम समाधिः। विद्युत्प्रभो नाम समाधिः। महाव्यूहो नाम समाधिः। सर्वलोकप्रभाकरो नाम समाधिः। समाधिसरता नाम समाधिः। अनयविनयनयविमुक्तो नाम समाधिः। अनुसरणसर्वसमवसरणो नाम समाधिः। अनिलनियतो नाम समाधिः। तथतास्थितनिश्चितो नाम समाधिः। कायकलिसंप्रमथनो नाम समाधिः। वाक्कलिविध्वंसनो नाम समाधिः। गगनकल्पो नाम समाधिः।}} आकाशासङ्गविमुक्तिनिरुप-
19813 लेपो नाम समाधिः। तत्र कतमः शूरङ्गमो नाम समाधिः, {{येन समाधिना सर्वसमाधीनां गोचरम् अनुभवत्य् अयम् उच्यते शूरङ्गमो नाम समाधिः। तत्र कतमो रत्नमुद्रो नाम समाधिः। येन समाधिना सर्वसमाधयो मुद्रिता भवत्य् अयम् उच्यते}}
19814 रत्नमुद्रो नाम समाधिः। तत्र कतमः सिंहविक्रीडितो नाम
19815 समाधिः॥ यत्र समाधौ स्थित्वा सर्वसमाधिभिर् विक्रीडति। अयम् उच्यते
19816 सिंहविक्रीडितो नाम समाधिः। तत्र कतमः सुचन्द्रो नाम समाधिः। यत्र
19817 समाधौ स्थित्वा सर्वसमाधीन् अवभासयति। अयम् उच्यते सुचन्द्रो नाम समाधिः।
19818 {तत्र कतमः} चन्द्रध्वजकेतुर् {नाम समाधिः}। यः सर्वसमाधीनां ध्वजं धारयति। {अयम् उच्यते चन्द्रध्वजकेतुर् नाम समाधिः}। {तत्र कतमः}
19819 सर्वधर्मोद्गतो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधिभिर् उद्गच्छति। {अयम् उच्यते सर्वधर्मोद्गतो नाम समाधिः}। {तत्र कतमः} अवलोकित-
19901 मूर्धा {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां मुर्धानम् अवलोकयति। {अयम् उच्यते ऽवलोकितमूर्धा नाम समाधिः}। {तत्र कतमः} धर्मधातुनियतो
19902 {नाम समाधिः}। {यत्र समाधौ स्थित्वा} धर्मधातोर् निश्चयं गच्छति। {अयम् उच्यते धर्मधातुनियतो नाम समाधिः}। {तत्र कतमः} नियतध्वजकेतुर् {नाम समाधिः}।
19903 {यत्र समाधौ स्थित्वा} सर्वसमाधीनां नियतध्वजं धारयति। {अयम् उच्यते नियतध्वजकेतुर् नाम समाधिः}। {तत्र कतमः} वज्रोपमो {नाम समाधिः}। {यत्र समाधौ स्थित्वा}
19904 सर्वसमाद्भिर् न भिद्यते। {अयम् उच्यते वज्रोपमो नाम समाधिः}। {तत्र कतमः} धर्मप्रवेशमुद्रो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां
19905 मुद्रां प्रविशति। {अयम् उच्यते धर्मप्रवेशमुद्रो नाम समाधिः}। {तत्र कतमः} समाधिराजसुप्रतिष्ठितो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} समाधीनां
19906 राजसुप्रतिष्ठानेन प्रतितिष्ठति। {अयम् उच्यते समाधिराजसुप्रतिष्ठितो नाम समाधिः}। {तत्र कतमः} रश्मिप्रमुक्तो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमा-
19907 धीनां रश्मीन् अवसृजति। {अयम् उच्यते रश्मिप्रमुक्तो नाम समाधिः}। {तत्र कतमः} बलव्यूहो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां
19908 बलव्यूहं धारयति। {अयम् उच्यते बलव्यूहो नाम समाधिः}। {तत्र कतमः} समुद्गतो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} समाधयः समुदागच्छन्ति।
19909 {अयम् उच्यते समुद्गतो नाम समाधिः}। {तत्र कतमः} निरुक्तिनिर्देशप्रवेशो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां निरुक्तिनिर्देशं प्रविशति।
19910 {अयम् उच्यते निरुक्तिनिर्देशप्रवेशो नाम समाधिः}। {तत्र कतमः} अधिवचनसंप्रवेशो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां अधिवचननाम-
19911 धेयानि प्रविशति। {अयम् उच्यते अधिवचनसंप्रवेशो नाम समाधिः}। {तत्र कतमः} दिग्विलोकितो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां
19912 दिशो व्यवलोक्यन्ते। {अयम् उच्यते दिग्विलोकितो नाम समाधिः}। {तत्र कतमः} आधारणमुद्रो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां मुद्रा
19913 आधारयति। {अयम् उच्यते आधारणमुद्रो नाम समाधिः}। {तत्र कतमः} असम्प्रमुषितो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधयो न प्रमुष्यन्ते।
19914 {अयम् उच्यते असम्प्रमुषितो नाम समाधिः}। {तत्र कतमः} सर्वधर्मसमवसरणसागरमुद्रो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} तस्य सर्वसमाधयः
19915 संग्रहं समवसरणताम् उद्गच्छन्ति। {अयम् उच्यते सर्वधर्मसमवसरणसागरमुद्रो नाम समाधिः}। {तत्र कतमः} आकाशस्फारणो {नाम समाधिः}।
19916 {यत्र समाधौ स्थित्वा} सर्वसमाधीनाम् आकाशस्फरणतया स्फरति। {अयम् उच्यते आकाशस्फारणो नाम समाधिः}। {तत्र कतमः} तेजोवती
19917 {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां तेजसा च धिया च ज्वलयति। तेनोच्यते तेजोवती
19918 नाम समाधिः। {तत्र कतमः} अप्रमाणावभासो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} अप्रमाणम् अवभासते {तेनोच्यते अप्रमाणावभासो नाम समाधिः}।
19919 {तत्र कतमः} असङ्गानावरणो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसङ्गरहितताम् उपादाय निरावरणो ऽवभासते
19920 {तेनोच्यते असङ्गानावरणो नाम समाधिः}। {तत्र कतमः} सर्वधर्मप्रवृत्तिसमुच्छेदो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वधर्मप्रवृत्तिं समुच्छिनत्ति
20001 {तेनोच्यते सर्वधर्मप्रवृत्तिसमुच्छेदो नाम समाधिः}। {तत्र कतमः} रणजहो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां निमित्तान्य् अपि जहाति
20002 प्राग् एवान्यानि निमित्तानि क्लेशानां {तेनोच्यते रणजहो नाम समाधिः}। {तत्र कतमः} वैरोचनो {नाम समाधिः}। {यत्र समाधौ स्थित्वा}
20003 सर्वसमाधीन् अवभासयति तपति विरोचते {तेनोच्यते वैरोचनो नाम समाधिः}। {तत्र कतमः} अनिमिषो {नाम समाधिः}। {यत्र समाधौ स्थित्वा}
20004 न कश्चिद् धर्मम् एषति {तेनोच्यते ऽनिमिषो नाम समाधिः}। {तत्र कतमः} अनिकेतस्थितो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधिषु न
20005 कञ्चिद् धर्मम् अनिकेतं समनुपश्यति {तेनोच्यते ऽनिकेतस्थितो नाम समाधिः}। {तत्र कतमः} निश्चित्तो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} निहीनां-
20006 श् चित्तचैतसिकान् धर्मान् न प्रवर्तयति {तेनोच्यते निश्चित्तो नाम समाधिः}। {तत्र कतमः} विमलप्रदीपो {नाम समाधिः}। {यत्र समाधौ स्थित्वा}
20007 सर्वसमाधीनां प्रदीपं धारयति {तेनोच्यते विमलप्रदीपो नाम समाधिः}। {तत्र कतमः} अनन्तप्रभो {नाम समाधिः}। {यत्र समाधौ स्थित्वा}
20008 अनन्तां प्रभां करोति {तेनोच्यते ऽनन्तप्रभो नाम समाधिः}। {तत्र कतमः} प्रभाकरो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां
20009 प्रभां करोति {तेनोच्यते प्रभाकरो नाम समाधिः}। {तत्र कतमः} समन्तावभासो {नाम समाधिः}। यस्य समाधेः सह प्रतिलम्भेन
20010 समाधिमुखान्य् अवभासन्ते {तेनोच्यते समन्तावभासो नाम समाधिः}। {तत्र कतमः} शुद्धसारो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां
20011 शुद्धसमताम् अनुप्राप्नोति {तेनोच्यते शुद्धसारो नाम समाधिः}। {तत्र कतमः} विमलप्रभो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां
20012 बलम् आकर्षयति सर्वसमाधीन् प्रभावयति {तेनोच्यते विमलप्रभो नाम समाधिः}। {तत्र कतमः} रतिकरो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्व-
20013 समाधीनां रतिम् अनुभवति {तेनोच्यते रतिकरो नाम समाधिः}। {तत्र कतमः} विद्युत्प्रदीपो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां
20014 प्रदीपं करोति {तेनोच्यते विद्युत्प्रदीपो नाम समाधिः}। {तत्र कतमः} अक्षयो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} समाधीनां नैवाक्षयं न क्षयं समनु-
20015 पश्यति {तेनोच्यते ऽक्षयो नाम समाधिः}। {तत्र कतमः} वज्रमण्डलो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधिमण्डलानि धारयति
20016 {तेनोच्यते वज्रमण्डलो नाम समाधिः}। {तत्र कतमः} अक्षयापगतो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां क्षयं समनुपश्यति तथा च
20017 पश्यति यथा अणुम् अपि धर्मं न समनुपश्यति {तेनोच्यते अक्षयापगतो नाम समाधिः}। {तत्र कतमः} अनिञ्ज्यो {नाम समाधिः}। {यत्र समाधौ स्थित्वा}
20018 सर्वसमाधीन् नेञ्जयति न मन्यते न स्पन्दते न प्रपञ्चयति {तेनोच्यते ऽनिञ्ज्यो नाम समाधिः}। {तत्र कतमः} विवृतो
20019 {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीन् विवृतान् समनुपश्यति {तेनोच्यते विवृतो नाम समाधिः}। {तत्र कतमः} सूर्यप्रदीपो
20020 {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां रश्मिमुखम् अवभासयति {तेनोच्यते सूर्यप्रदीपो नाम समाधिः}। {तत्र कतमः} चन्द्रविमलो {नाम समाधिः}।
20021 {यत्र समाधौ स्थित्वा} सर्वसमाधीनाम् अन्धकारं विधमयति {तेनोच्यते चन्द्रविमलो नाम समाधिः}। {तत्र कतमः} शुद्धप्रभासो {नाम समाधिः}। {यत्र समाधौ स्थित्वा}
20022 सर्वसमाधीनां चतस्रः प्रतिसंविदः प्रतिलभते {तेनोच्यते शुद्धप्रभासो नाम समाधिः}। {तत्र कतमः} आलाककरो {नाम समाधिः}।
20101 {यत्र समाधौ स्थित्वा} समाधिमुखानाम् आलोकं करोति {तेनोच्यते आलाककरो नाम समाधिः}। {तत्र कतमः} काराकारो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्व-
20102 समाधीनां कारणताङ्क्रियाङ्करोति {तेनोच्यते काराकारो नाम समाधिः}। {तत्र कतमः} ज्ञानकेतुर् {नाम समाधिः}। {यत्र समाधौ स्थित्वा} समाधीनां
20103 ज्ञानकेतुं समनुपश्यति {तेनोच्यते ज्ञानकेतुर् नाम समाधिः}। {तत्र कतमः} वज्रोपमो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वधर्मान् निर्विध्यते
20104 समाधिम् अपि न समनुपश्यति {तेनोच्यते वज्रोपमो नाम समाधिः}। {तत्र कतमः} चित्तस्थितिर् {नाम समाधिः}। {यत्र समाधौ स्थित्वा} चित्तं न
20105 वर्णयति न विवर्तते न प्रतिभासते न विधातम् आपत्स्यते न चास्यैवं भवति
20106 चित्तम् इति {तेनोच्यते चित्तस्थितिर् नाम समाधिः}। {तत्र कतमः} समन्तालोको {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां समन्तालोकं
20107 समनुपश्यति {तेनोच्यते समन्तालोको नाम समाधिः}। {तत्र कतमः} सुप्रतिष्ठितो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधिषु प्रतिष्ठितो
20108 भवति {तेनोच्यते सुप्रतिष्ठितो नाम समाधिः}। {तत्र कतमः} रत्नकोटिर् {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधयः समन्ताद् रत्नकोटिर् इव
20109 सन्दृश्यन्ते {तेनोच्यते रत्नकोटिर् नाम समाधिः}। {तत्र कतमः} वरधर्ममुद्रो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधयो मुद्रिता भवन्ति
20110 आदिमुद्रामुद्रिताम् उपादाय {तेनोच्यते वरधर्ममुद्रो नाम समाधिः}। {तत्र कतमः} सर्वधर्मसमता {नाम समाधिः}। {यत्र समाधौ स्थित्वा} न कञ्चिद् धर्मं
20111 समतानिर्मुक्तं समनुपश्यति {तेनोच्यते सर्वधर्मसमता नाम समाधिः}। {तत्र कतमः} रतिजहो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधिरतिः
20112 सर्वधर्मरतिर् जहाति {तेनोच्यते रतिजहो नाम समाधिः}। {तत्र कतमः} सर्वधर्मोद्गतपूर्णो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वधर्मै-
20113 श् चोद्गच्छति सर्वधर्मैश् चापूर्यते {तेनोच्यते सर्वधर्मोद्गतपूर्णो नाम समाधिः}। {तत्र कतमः} विकिरणो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधिभिः
20114 सर्वधर्मान् विकिरति विधमयति {तेनोच्यते विकिरणो नाम समाधिः}। {तत्र कतमः} सर्वधर्मपदप्रभेदो {नाम समाधिः}। {यत्र समाधौ स्थित्वा}
20115 सर्वसमाधीनां च सर्वधर्माणां च पदानि प्रभिनत्ति {तेनोच्यते सर्वधर्मपदप्रभेदो नाम समाधिः}। {तत्र कतमः} समाक्षरो {नाम समाधिः}।
20116 {यत्र समाधौ स्थित्वा} सर्वसमाधीनां समाक्षरताम् प्रतिलभते {तेनोच्यते समाक्षरो नाम समाधिः}। {तत्र कतमः} अक्षरापगतो {नाम समाधिः}।
20117 {यत्र समाधौ स्थित्वा} सर्वसमाधीनाम् एकाक्षरम् अपि नोपलभते {तेनोच्यते अक्षरापगतो नाम समाधिः}। {तत्र कतमः} आलम्बनच्छेदो {नाम समाधिः}।
20118 {यत्र समाधौ स्थित्वा} सर्वसमाधीनाम् आलम्बनं च्छिद्यते {तेनोच्यते आलम्बनच्छेदो नाम समाधिः}। {तत्र कतमः} अविकारो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्व-
20119 धर्माणां विकारं नोपलभते {तेनोच्यते ऽविकारो नाम समाधिः}। {तत्र कतमः} अप्रकारो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वधर्माणां प्रकार-
20120 म् अपि नोपलभते {तेनोच्यते ऽप्रकारो नाम समाधिः}। {तत्र कतमः} नामनिमित्ताप्रवेशो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां नाम-
20121 निमित्तानि नोपलभते {तेनोच्यते नामनिमित्ताप्रवेशो नाम समाधिः}। {तत्र कतमः} अनिकेतचारी {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां
20122 निकेतं नोपलभते {तेनोच्यते ऽनिकेतचारी नाम समाधिः}। {तत्र कतमः} तिमिरापगतो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधितिमिअं
20123 विशोधयति {तेनोच्यते तिमिरापगतो नाम समाधिः}। {तत्र कतमः} चारित्रवतो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां चारित्रं समनु-
20124 पश्यति {तेनोच्यते चारित्रवतो नाम समाधिः}। {तत्र कतमः} अचलो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सत्त्वानां चलितं न समनु-
20201 पश्यति {तेनोच्यते ऽचलो नाम समाधिः}। कतमो विषयतीर्णो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां विषयम् अतिक्रामति
20202 {तेनोच्यते विषयतीर्णो नाम समाधिः}। {तत्र कतमः} सर्वगुणसञ्चयोपगतो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वगुणानां सर्वसमाधीनाञ् च
20203 सञ्चयताम् अनुप्राप्नोति {तेनोच्यते सर्वगुणसञ्चयोपगतो नाम समाधिः}। {तत्र कतमः} चित्तस्थितिनिश्चितो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमा-
20204 धीनां चित्तं न प्रवर्तते {तेनोच्यते चित्तस्थितिनिश्चितो नाम समाधिः}। {तत्र कतमः} शुभपुष्पितशुद्धिर् {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधिषु
20205 शुभपुष्पितशुद्धिं प्रतिलभते {तेनोच्यते शुभपुष्पितशुद्धिर् नाम समाधिः}। {तत्र कतमः} बोध्यङ्ग्वान् {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सप्तबोध्यङ्गानि
20206 प्रतिलभते {तेनोच्यते बोध्यङ्ग्वान् नाम समाधिः}। {तत्र कतमः} अनन्तप्रतिभासो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} अन्तद्वयं नोपलभते {तेनोच्यते अनन्तप्रतिभासो नाम समाधिः}।
20207 {तत्र कतमः} असमसमो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां समसमतां न प्रतिलभते {तेनोच्यते ऽसमसमो नाम समाधिः}।
20208 {तत्र कतमः} सर्वधर्मातिक्रमणो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वत्रंधातुकं समतिक्रामति {तेनोच्यते सर्वधर्मातिक्रमणो नाम समाधिः}। {तत्र कतमः}
20209 परिच्छेदकरो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां सर्वधर्माणां च परिच्छेदं करिष्यति
20210 {तेनोच्यते परिच्छेदकरो नाम समाधिः}। {तत्र कतमः} विमतिविकिरणो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधिविमतिविकिरणम् अनु-
20211 प्राप्नोति {तेनोच्यते विमतिविकिरणो नाम समाधिः}। {तत्र कतमः} निरधिष्ठानो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वधर्माणां स्थानं समनुपश्यति
20212 {तेनोच्यते निरधिष्ठानो नाम समाधिः}। {तत्र कतमः} एकव्यूहो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} न कस्यचिद् धर्मस्य द्वयतां समनुपश्यति
20213 {तेनोच्यते एकव्यूहो नाम समाधिः}। {तत्र कतमः} आकाराभिनिर्हारो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां सर्वधर्माणां
20214 चाकाराभिनिर्हारं समनुपश्यति {तेनोच्यते आकाराभिनिर्हारो नाम समाधिः}। {तत्र कतमः} एकाकारव्यूहो {नाम समाधिः}। {यत्र समाधौ स्थित्वा}
20215 सर्वसमाधीनाम् एकाकारतां समनुपश्यति {तेनोच्यत एकाकारव्यूहो नाम समाधिः}। {तत्र कतमः} आकारानवकारो
20216 नाम समाधिः। {यत्र समाधौ स्थित्वा} सर्वधर्माणाम् अद्वयतां समनुपश्यति {तेनोच्यत आकारानवकारो नाम समाधिः}।
20217 {तत्र कतमः} निर्वेधिकसर्वभावतलाधिकारो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां
20218 निर्वेधिकं ज्ञानम् अनुप्राप्नोति यस्यानुप्राप्तितो न कञ्चिन् न प्रतिविध्यते
20219 {तेनोच्यते निर्वेधिकसर्वभावतलाधिकारो नाम समाधिः}। {तत्र कतमः} संकेतरुतप्रवेशो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां संकेतरुतानि प्रविशति {तेनोच्यते संकेतरुतप्रवेशो नाम समाधिः}।
20220 {तत्र कतमः} गीर्घोषो ऽक्षरविमुक्तो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीन् अक्षरविमुक्तान् समनुपश्यति
20221 {तेनोच्यते गीर्घोषो नाम समाधिः}। {तत्र कतमः} ज्वलनोल्का {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधींस् तेजसा च भासयति तपति
20222 विरोचते {तेनोच्यते ज्वलनोल्का नाम समाधिः}। {तत्र कतमः} लक्षणपरिशोधनो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वलक्षणानि परिशोधयति
20223 {तेनोच्यते लक्षणपरिशोधनो नाम समाधिः}। {तत्र कतमः} अनभिलक्षितो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीन् अभिलक्षयति {तेनोच्यते ऽनभिलक्षितो नाम समाधिः}। {तत्र कतमः}
20224 सर्वाकारवरोपेतो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वाकारवरोपेतो भवति {तेनोच्यते सर्वाकारवरोपेतो नाम समाधिः}। {तत्र कतमः} सर्वसुखदुःख-
20225 निरभिनन्दी {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधिषु सुखदुःखानि न समनुपश्यति {तेनोच्यते सर्वसुखदुःखनिरभिनन्दी नाम समाधिः}। {तत्र कतमः}
20301 अक्षयाकारो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां क्षयं न समनुपश्यति {तेनोच्यते ऽक्षयाकारो नाम समाधिः}। {तत्र कतमः} धारणी-
20302 प्रतिपत्तिर् {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीन् आधारयति {तेनोच्यते धारणीप्रतिपत्तिर् नाम समाधिः}। {तत्र कतमः} सर्वसम्यक्त्वमिथ्यात्व-
20303 संग्रहो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} समाधीनां सम्यक्त्वमिथ्यात्वानि न समनुपश्यति {तेनोच्यते सर्वसम्यक्त्वमिथ्यात्वसंग्रहो नाम समाधिः}। {तत्र कतमः}
20304 सर्वरोधनिरोधप्रशमनो नाम समाधिः। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां रोधनिरोधान् न
20305 समनुपश्यति {तेनोच्यते सर्वरोधनिरोधप्रशमनो नाम समाधिः}। {तत्र कतमः} अनुसारप्रतिसारो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनाम् अनुसार-
20306 प्रतिसारान् न समनुपश्यति {तेनोच्यते ऽनुसारप्रतिसारो नाम समाधिः}। {तत्र कतमः} विमलप्रभो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां
20307 प्रभामण्डलं नोपलभ्यते {तेनोच्यते विमलप्रभो नाम समाधिः}। {तत्र कतमः} सारवती {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीना-
20308 म् असारतां नोपलभ्यते {तेनोच्यते सारवती नाम समाधिः}। {तत्र कतमः} परिपूर्णचन्द्रविमलो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} तस्य सर्व-
20309 समाधयः परिपूर्णा भवन्ति तद् यथापि नाम चन्द्रः पूर्णमास्यां {तेनोच्यते परिपूर्णचन्द्रविमलो नाम समाधिः}। {तत्र कतमः}
20310 महाव्यूहो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} तस्य सर्वसमाधयो महाव्यूहेन समन्वागता भवन्ति {तेनोच्यते महाव्यूहो नाम समाधिः}।
20311 {तत्र कतमः} सर्वाकारप्रभाकरो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां सर्वधर्माणां च प्रभां करोति
20312 {तेनोच्यते सर्वाकारप्रभाकरो नाम समाधिः}। {तत्र कतमः} समाधिसमता {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वसमाधीनां न विक्षेपं नैकाग्रतां च
20313 समनुपश्यति {तेनोच्यते समाधिसमता नाम समाधिः}। {तत्र कतमः} अरणसमवसरणो नाम समाधिः। {यत्र समाधौ स्थित्वा} सर्व-
20314 समाधीनाम् अरणसरणसर्वसमवसरणताम् अनुप्राप्नोति {तेनोच्यते ऽरणसमवसरणो नाम समाधिः}। {तत्र कतमः} अनिलानिकेतो {नाम समाधिः}।
20315 {यत्र समाधौ स्थित्वा} सर्वसमाधीनाम् आलयं न समनुपश्यति {तेनोच्यते ऽनिलानिकेतो नाम समाधिः}। {तत्र कतमः} तथतास्थितनिश्चितो {नाम समाधिः}।
20316 {यत्र समाधौ स्थित्वा} सर्वसमाधीनां तथतां न व्यतिवर्तते {तेनोच्यते तथतास्थितनिश्चितो नाम समाधिः}। {तत्र कतमः} कायकलिसंप्रमथनो {नाम समाधिः}।
20317 {यत्र समाधौ स्थित्वा} सर्वसमाधिकायं नोपलभते {तेनोच्यते कायकलिसंप्रमथनो नाम समाधिः}। {तत्र कतमः} वाक्कलिविध्वंसनो {नाम समाधिः}। {यत्र समाधौ स्थित्वा}
20318 सर्वसमाधीनां वाक्कर्मणोपलभते {तेनोच्यते वाक्कलिविध्वंसनो नाम समाधिः}। {तत्र कतमः} गगनकल्पो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} गगन-
20319 वदवभासते {तेनोच्यते गगनकल्पो नाम समाधिः}। {तत्र कतमः} आकाशासङ्गविमुक्तिनिरुपलेपो {नाम समाधिः}। {यत्र समाधौ स्थित्वा} सर्वधर्मा-
20320 णाम् आकाशासङ्गविमुक्तिनिरुपलेपनाम् अनुप्राप्नोति {तेनोच्यते आकाशासङ्गविमुक्तिनिरुपलेपो नाम समाधिः}। इदं सुभूते {बोधिसत्त्वस्य} महा-
20321 सत्त्वस्य प्रज्ञापारमितायाञ् चरतो महायानम्। [इति पुण्यसम्भारः।]
20322 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्। यद् उत चत्वारि स्मृत्युपस्थानानि।
20323 कतमानि चत्वारि। काय{स्मृत्युपस्थानानं} वेदना{स्मृत्युपस्थानानं} चित्त{स्मृत्युपस्थानानं} धर्म{स्मृत्युपस्थानानं}।
20401 तत्र कतमत् काय{स्मृत्युपस्थानानं}। एवं यावत् कतमद् धर्म{स्मृत्युपस्थानानं}। इह {सुभूते} {बोधिसत्त्वो}
20402 महासत्त्वो ऽध्यात्मकाये कायानुपाश्यी विहरति। न च कायसहगतान् वितर्कान्
20403 वितर्कयति तच् चानुपलम्भयोगेन। बहिर्धाकाये कायानुपश्यी {{विहरति। न च कायसहगतान् वितर्कान् वितर्कयति तच् चानुपलम्भयोगेन।}}
20404 अध्यात्मबहिर्धाकाये कायानुपश्यी {{विहरति। न च कायसहगतान् वितर्कान् वितर्कयति तच् चानुपलम्भयोगेन।}} आतापी संप्रजानन्
20405 स्मृतिमान् विनीयलोके ऽभिध्यादौमनस्ये। एवं अध्यात्मं वेदनासु चित्ते
20406 अध्यात्मं धर्मेषु धर्मानुपश्यी {{विहरति। न च धर्मसहगतान् वितर्कान् वितर्कयति तच् चानुपलम्भयोगेन। आतापी संप्रजानन् स्मृतिमान् विनीयलोके
20407 ऽभिध्या}}दौर्मनस्ये।
20408 कथञ् च {सुभूते} {बोधिसत्त्वो} महासत्त्वो ऽध्यात्मं काये कायानुपश्यी विहरति। इह सुभूते
20409 {बोधिसत्त्वो} महासत्त्वश् चरंश् चरामीति प्रजानाति। स्थितः स्थितो ऽस्मीति {प्रजानाति}। निषण्णो
20410 निषण्णो ऽस्मीति {प्रजानाति}। शयानः शयितो ऽस्मीति {प्रजानाति}। यथा यथास्य कायः स्थितो
20411 भवति प्रणीतम् अप्रणीतं वा तथा तथैनं {प्रजानाति}। एवं हि सुभूते {बोधिसत्त्वो} महासत्त्वो ऽ-
20412 ध्यात्मं काये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोके
20413 ऽभिध्यादौर्मनस्ये। पुनर् अपरं {सुभूते} {बोधिसत्त्वो} महासत्त्वो ऽध्यात्मं काये कायानुपश्यी
20414 विहरति। अभिक्रामन् वा प्रतिक्रामन् वा संप्रजानचारी भवति आलोकिते
20415 विलोकिते समिञ्जिते प्रसारिते संघातीपटपात्रचीवरधारणे अशिते पीते खादिते
20416 शयिते निद्राक्लमप्रतिविनोदने आगते गते स्थिते निषण्णे सुप्ते जागरिते भाषिते
20417 तुष्णीम्भावे प्रतिसंलयने एवं संप्रजानचारी भवति। एवं हि {सुभूते} {बोधिसत्त्वो}
20418 महासत्त्वः प्रज्ञापारमितायां चरन् अध्यात्मं काये कायानुपश्यी विहरति।
20419 आतापी {{संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्या}}दौर्मनस्ये तच् चानुलम्भयोगेन। पुनर् अपरं {सुभूते} {बोधिसत्त्वो}
20420 महासत्त्वः स्मृत आश्वसन् स्मृत आश्वसामीति यथाभूतं प्रजानाति। स्मृतः
20421 प्रश्वसन् स्मृतः प्रश्वसामीति {यथाभूतं प्रजानाति}। दीर्घं वा आश्वसन् दीर्घं वा आश्वसामीति
20422 {यथाभूतं प्रजानाति}। दीर्घं वा प्रश्वसन् दीर्घं वा प्रश्वसामीति {यथाभूतं प्रजानाति}। ह्रस्वं वा आश्वसन् ह्रस्वं वा
20501 आश्वसामीति {यथाभूतं प्रजानाति}। ह्रस्वं वा प्रश्वसन् ह्रस्वं वा प्रश्वसामीति {यथाभूतं प्रजानाति}। तद् यथापि
20502 नाम {सुभूते} चक्रं भ्रामयेत् कुम्भकारः कुम्भकारान्तेवासी वा दीर्घम् आविध्यन्
मूल पाठ: Pañcaviṃśatisāhasrikā Prajñāpāramitā, 1 · Edition: Nalinaksha Dutt: Pañcaviṃśatisāhasrikā Prajñāpāramitā, Calcutta 1934 (Calcutta Oriental Series, 28). = PSP1 · Data entry Kenta Suzuki Koichi Takahashi · GRETIL (Göttingen) · CC BY-NC-SA 4.0