पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता · भाग 4160
08901 एवं पुनः शारिपुत {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरतः षड-
08902 भिज्ञाः परिपूर्यन्ते परिशुध्यन्ते च। अभिज्ञाः शाअरिपुत्र परिशुद्धाः सर्वा-
08903 कारज्ञताम् अर्पयन्ति। सन्ति शारिपुत्र {बोधिसत्त्वा} महासत्त्वाः प्रज्ञापारमितायां
08904 चरन्तो दानपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति
08905 अत्यन्तशून्यतया न च गृहीतताम् उपादाय। सन्ति {शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः} {शीलपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति अत्यन्तशून्यतया} आप-
08906 त्त्यनध्यापत्तिताम् उपादाय। सन्ति {शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः} {क्षान्तिपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति अत्यन्तशून्यतया} अक्षोभणताम् उपादाय।
08907 सन्ति {शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः} {वीर्यपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति अत्यन्तशून्यतया} कायिकचैतसिकवीर्य्यास्रंसनताम् उपादाय। सन्ति {शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः}
08908 {ध्यानपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति अत्यन्तशून्यतया} अविक्षिप्तचित्तताम् उपादाय। सन्ति {शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः} {प्रज्ञापारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति अत्यन्तशून्यतया} दौष्प्रज्ञचित्त-
08909 परिवर्जनताम् उपादाय। एवं खलु शारिपुत्र {बोधिसत्त्वा} महासत्त्वाः प्रज्ञापार-
08910 मितायां चरन्तः षट्सु पारमितासु स्थित्वा सर्वाकारज्ञतापन्थाअनं शोध-
08911 यन्ति अत्यन्तशून्यताम् उपादाय। दानं परिग्रहताम् उपादाय प्रज्ञप्यते।
08912 शीलं दौःशील्यम् {उपादाय प्रज्ञप्यते}। क्षान्तिर् अक्षान्तिताम् {उपादाय प्रज्ञप्यते}। वीर्यं कौशीद्यम् {उपादाय प्रज्ञप्यते}।
08913 समाधिर् असमाहितताम् {उपादाय प्रज्ञप्यते}। प्रज्ञा दौष्प्रज्ञम् {उपादाय प्रज्ञप्यते}। स तीर्ण इति
08914 न मन्यते। अतीर्ण इति न मन्यते। दानं परिग्रह इति न मन्यते।
08915 शीलं दौःशील्यम् इति {न मन्यते}। क्षान्तिः क्षोभ इति {न मन्यते}। वीर्य्यं कौशीद्य-
09001 म् इति {न मन्यते}। समाधिर् असमाहित इति {न मन्यते}। प्रज्ञा दौष्प्रज्ञम् इति {न मन्यते}। आक्रुष्टो
09002 ऽहम् इति {न मन्यते}। वन्दितो ऽहम् इति {न मन्यते}। सत्कृतो ऽहम् इति {न मन्यते}। असत्कृतो
09003 ऽहम् इति {न मन्यते}। तत् कस्य हेतोः। न हि शारिपुत्र अनुत्पाद आक्रुष्टो
09004 ऽहम् इति मन्यते। वन्दितो ऽहम् इति {न मन्यते}। सत्कृतो ऽहम् इति {न मन्यते}। असत्-
09005 कृतो ऽहम् इति {न मन्यते}। तत् कस्य हेतोस् तथा हि प्रज्ञापारमिता सर्वमननाः
09006 समुच्छिनत्ति। इह शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरतो
09007 ये गुणा भवन्ति न ते सर्वे श्रावकप्रत्येकबुद्धानां संविद्यन्ते। स
09008 इमान् गुणान् परिपूरयन् सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च
09009 परिशोधयति सर्वाकारज्ञतां चानुप्राप्नोति।
09010 पुनर् अपरं शारिपुत {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् सर्व-
09011 सत्त्वानाम् अन्तिके समचित्तताम् उत्पादयति। सर्वसत्त्वानाम् अन्तिके सम-
09012 चित्तताम् उत्पाद्य सर्वधरम्समतां प्रतिलभते। सर्वधरम्समतां प्रतिलभ्य
09013 सर्वसत्त्वान् सर्वधर्मसमतायां प्रतिष्ठापयति। स दृष्ट एव धर्मे बुद्धानां
09014 भगवतां प्रियो भवति मनआपश् च। सर्वबोधिसत्त्वानां च सर्व-
09015 श्रावकानां च प्रत्येकबुद्धानां च प्रियो भवति मनआपश् च। स यत्र
09016 यत्रोपपद्यते तत्र तत्र न जातु चक्षुषा अमनआपानि रूपाणि
09017 पश्यति। न श्रोत्रेणामनआपान् शब्दान् शृणोति। न घ्राणेना-
09101 मनआपान् गन्धान् जिघ्रति। न जिह्व्या ऽमनआपान् रसान् आ-
09102 स्वादयति। न कायेनामनआपान् स्पर्शान् स्पृशति। न मनसा ऽमन-
09103 आपान् धर्मान् विजानाति। न च परिहीयते अनुत्तरायाः सम्यक्-
09104 संबोधेः।
09105 अस्मिन् खलु पुनः प्रज्ञापारमितानिर्देशे निर्देश्यमाने त्रीणि
09106 भिक्षुणीशतानि भगवन्तं यथावृतैश् चीवरैर् अभिच्छादयामासुर् अनुत्त-
09107 रायां सम्यक्संबोधौ चित्तान्य् उत्पादयामासुः। अथ खलु भगवांस् तस्यां
09108 वेलायां स्मितम् अकरोत्। अथ खल्व् आयुष्मान् आनन्दः समुत्थायासना-
09109 द् एकांस् अनुत्तरासङ्गं कृत्वा दक्षिणञ् जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन
09110 भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् एतद् अवोचत्। को भगवन् हेतुः कः
09111 प्रत्ययः स्मितस्य प्रादुर्भावाय। नाहेतुकं नाप्रत्ययं बुद्धा भगवन्तः
09112 स्मितं प्रादुष्कुर्वन्ति। भगवान् आह। एतान्य् आनन्द त्रीणि भिक्षुणी-
09113 शतानि एकषष्टितमे कल्पे महाकेउनामानस् तथागता अर्हन्तः सम्यक्-
09114 संबुद्धा लोके उत्पत्स्यन्ते। तारकोपमे कल्पे इतश् च्युतानि सन्ति
09115 अक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बुद्धक्षेत्रे उपपत्स्यन्ते। षष्टिश् च
09116 देवपुत्रसहस्राणि यानि यान्य् अनया धर्मदेशनया परिपाचितानि तानि
09201 तानि मैत्रेयस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके परिनिर्वा-
09202 स्यन्ति।
09203 अथ खलु भगवतो ऽनुभावेन तस्यां वेलायां पूर्वस्यां दिशि बुद्धसहस्रं
09204 पश्यन्ति स्म चतस्रः परिषदो भगवतः शाक्यमुनेः पर्षम्मण्डलात्।
09205 एवं दक्षिणस्यां दिशि बुद्धसहस्रं पश्यन्ति पश्चिमायां दिशि
09206 {{बुद्धसहस्रं पश्यन्ति उत्तरस्यां दिशि बुद्धसहस्रं पश्यन्ति उत्तरपूर्वस्यां दिशि बुद्धसहस्रं पश्यन्ति पूर्वदक्षिणस्यां दिशि बुद्धसहस्रं पश्यन्ति दक्षिणपश्चिमायां दिशि बुद्धसहस्रं पश्यन्ति पश्चिमोत्तरस्यां दिशि बुद्धसहस्रं पश्यन्ति}}
09207 अध ऊर्ध्वम् एकैकस्यां दिशि बुद्धसहस्रं पश्यन्ति महतो बुद्धक्षेत्र-
09208 गुणव्यूहान् पश्यन्ति न चेह सहायां लोकधातौ तान् बुद्धक्षेत्र-
09209 गुणव्यूहान् पश्यन्ति यान् दशसु दशसु दिक्षु तेषां बुद्धानां भगवतां
09210 बुद्धक्षेत्रगुणव्याउहान् पश्यन्ति स्म। अथ खलु भगवतः शाक्यमुनेः
09211 पर्षन्मण्डलाद् दशभिः प्राणिसहस्रैः प्रणिधानानि कृतानि वयं
09212 तानि पुण्यानि करिष्यामो यैः पुण्यैर् एतेषु बुद्धक्षेत्रेषूपपत्स्यामह
09213 इति। अथ खलु भगवांस् तेषां कुलपुत्राणाम् आशयं विदित्वा तस्यां
09214 वेलायां स्मितम् अकरोत्। आनन्द आह। को भगवान् हेतुः कः प्रत्ययः
09215 स्मितस्य प्रादुर्भावाय। भगवान् आह। पश्यसि त्वम् आनन्देमानि
09216 दशप्राणिसहस्राणि। आनन्द आह। पश्यामि भगवन्। भगवान् आह।
09217 एतान्य् आनन्द दशप्राणिसहस्राणि इतश् च्युतानि तेषु दशसु दिक्षु बुद्धक्षेत्र-
09218 सहस्रेषूपपत्स्यन्ते। न च कदाचित् तथागतविरहितानि भविष्यन्ति।
09219 ततः पश्चाद् व्यूहराजनामानस् तथागता लोके उत्पत्स्यन्ते।
09301 अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मांश् च महामौद्गल्यायन आयुष्मांश् च
09302 सुभूतिर् आयुष्मांश् च महाकाश्यपः एते चान्ये च सम्बहुला अभिज्ञाता
09303 अभिज्ञाता भिक्षवो बोधिसत्त्वाश् च भिक्षुभिक्षुण्युपासकोपासिकाश् च
09304 भगवन्तम् एतद् अवोचन्। महापारमितेयं भगवन् {बोधिसत्त्वानां} महासत्त्वानां
09305 यद् उत प्रज्ञापारमिता। अग्रपारमितेयं विशिष्ट{पारमितेयं} प्रवर{पारमितेयं} अनुत्तर{पारमितेयं}
09306 निरुत्तर{पारमितेयं} असम{पारमितेयं} आकाश{पारमितेयं} स्वलक्षणशून्यता{पारमितेयं} सस्र्वगुणसम-
09307 न्वागत{पारमितेयं}। अनवमर्दनीय{पारमितेयं} भगवन् {बोधिसत्त्वानां} महासत्त्वानां यद् उत प्रज्ञा-
09308 पारमिता। अत्र हि भगवन् प्रज्ञापारमितायां चरद्भिर् बोधिसत्त्वै-
09309 र् महासत्त्वैर् असमसमं दानं दत्तं तैर् असमसमा दानपारमिता परिपूरिता।
09310 तैर् असमसम आत्मभावः प्रतिलब्धः। ते ऽसमसमस्य धर्मस्य लाभिनो
09311 भाविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः। तैर् असमसमं शीलं रक्षितं
09312 तैर् असमसमा शीलपारमिता परिपूरिता {तैर् असमसम आत्मभावः प्रतिलब्धस् ते असमसमस्य धर्मस्य लाभिनो भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः} तैर् असमसमा क्षान्ति-
09313 र् भावितार् असमसमा क्षान्तिपारमिता परिपूरिता {तैर् असमसम आत्मभावः प्रतिलब्धस् ते असमसमस्य धर्मस्य लाभिनो भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः} तैर् असमसमं
09314 वीर्यम् आरब्धं तैर् असमसमवीर्यपारमिता परिपूरिता {तैर् असमसम आत्मभावः प्रतिलब्धस् ते असमसमस्य धर्मस्य लाभिनो भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः} तैर् असमसमं
09401 ध्यानम् उत्पादितम् तैर् असमसमध्यानपारमिता परिपूरिता {तैर् असमसम आत्मभावः प्रतिलब्धस् ते असमसमस्य धर्मस्य लाभिनो भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः} तैर् असम-
09402 समा प्रज्ञा भाविता तैर् असमसमा प्रज्ञापारमिता परिपूरिता {तैर् असमसम आत्मभावः प्रतिलब्धस् ते असमसमस्य धर्मस्य लाभिनो भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः}।
09403 अत्रैव च त्वं भगवन् प्रज्ञापारमितायां चरन्न् असमसमस्य रूपस्य
09404 लाभी जातो ऽसमसमाया वेदनायाः संज्ञायाः संस्काराणाम् असमसमस्य
09405 विज्ञानस्य लाभी जातो ऽसमसमां बोधिम् अभिसंबुद्धो ऽसमसमं धर्मचक्रं
09406 प्रवर्तितम्। एवम् अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तो ऽत्रैव प्रज्ञापार-
09407 मितायां चरन्तो ऽनुत्तरां सम्यक्सम्बोधिम् अभिसंबुद्धा अभिसंभोत्स्यन्ते
09408 च अभिसम्बुध्यन्ते च। तस्मात् तर्हि भगवन् सर्वधर्माणां पारं गन्तुकामेन
09409 {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां योगः करणीयः। नमस्करणीयास् ते
09410 भगवन् {बोधिसत्त्वा} महासत्त्वा ये ऽस्यां प्रज्ञापारमितायां चरन्ति सदेवमानुषा-
09411 सुरेण लोकेन। एवम् उक्ते भगवांस् तान् सम्बहुलान् श्रावकांस् तांश् च
09412 बोधिसत्त्वान् एतद् अवोचत्। एवम् एतत् कुलपुत्रा एवम् एतत्। नमस्करणीयास् ते
09413 {बोधिसत्त्वा} महासत्त्वाः सदेवमानुषासुरेण लोकेन ये ऽस्यां प्रज्ञापारमितायां
09414 चरन्ति। तत् कस्य हेतोः। बोधिसत्त्वं हि शारिपुत्रागम्य लोकस्य
09415 लोके प्रादुर्भावो भवति। मनुष्यलोकस्य देवलोकस्य क्षत्रियमहा-
09416 शालकुलानां ब्राह्मणमहाशालकुलानां गृहपतिमहाशालकुलानां राज्ञां
09417 चक्रवर्तिनां चातुर्महाराजकायिकानां देवानां त्रयस्त्रिंशानां देवानां
09418 {{यामानां देवानां तुषितानां देवानां निर्माणरतीनां देवानां परनिर्मितवशवर्तिनां देवानां ब्रह्मकायिकाणां देवानां ब्रह्मपुरोहितानां देवानां ब्रह्मपारिषद्यानां देवानां परीत्ताभानां देवानां अप्रमाणाभानां देवानां आभास्वराणां देवानां परीत्तशुभानां देवां अप्रमाणशुभानां देवां शुभकृत्स्नानां देवानां अनभ्रकाणां देवानां पुण्यप्रसवानां देवानां बृहत्फलानां देवानां असंज्ञिसत्त्वानां देवानां शुद्धावासानां देवानां अस्पृहाणां देवानां अतपानां देवानां सदृशानां देवानां सुदर्शनानां देवानां अकनिष्ठानां देवानां}} नैव संज्ञानासंज्ञायतनोपगानां देवानां लोके
09501 प्रादुर्भावो भवति। स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां
09502 प्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां तथागतानाम् अर्हतां सम्यक्-
09503 संबुद्धानां लोके प्रादुर्भावो भवति। बोधिसत्त्वं हि शारिपुत्रागम्य
09504 त्रयाणां रत्नानां लोके प्रादुर्भावो भवति। लौकिकानाञ् च
09505 सर्वजीवितोपकरणानाम् अन्नपानवस्त्रशय्यासनग्लानप्रत्ययभैषज्यपरिस्का-
09506 राणां मणिमुक्तावैदुर्यशंखशिलाप्रबालजातरूपरजतानां लोके
09507 प्रादुर्भावो भवति। यावच् छारिपुत्र सर्वसुखोपधानां दिव्यानां मानुष्यकाणां
09508 च भवमुखानाञ् च निर्वाणमुखानाञ् च लोके प्रादुर्भावो भवति सर्वशः
09509 शारिपुत्र बोधिसत्त्वम् आगम्य। तत् कस्य हेतोः। बोधिसत्त्वो हि शारिपुत्र
09510 चर्याञ् चरन् षट्सु पारमितासु सत्त्वान् नियोजयति दानं दापयति
09511 शीलं समादापयति क्षान्त्यां प्रतिष्ठापयति वीर्यं नियोजयति
09512 ध्याने प्रतिष्ठापयति प्रज्ञायां नियोजयति। सर्वे च सत्त्वा बोधि-
09513 सत्त्वम् आगम्य प्रज्ञापारमितायां चरन्ति। तस्माच् छारिपुत्र {बोधिसत्त्वो} महासत्त्वो
09514 सर्वसत्त्वानां हितमुखाय प्रतिपन्नो भवति।
09515 अथ खलु भगवांस् तस्यां वेलायां जिह्वेन्द्रियं निर्नामयित्वा इमं
09516 त्रिसाहस्रं महासहस्रं लोकधातुं जिह्वेन्द्रियेणाच् छादयामास। अथ
09517 खलु ततो जिह्वेन्द्रियाद् अनेकवर्णा नानावर्णा अर्चिषो निःसृत्य
09518 पूर्वस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् आभयावभासया-
09519 मासुः। एवं दक्षिणस्यां दिशि गङ्गानदीवालुकोपमान् लोकधतून् आ-
09601 भयावभासयामासुः। {{पश्चिमायां दिशि गङ्गानदीवालुकोपमान् लोकधतून् आभयावभासयामासुः। उत्तरस्यां दिशि गङ्गानदीवालुकोपमान् लोकधतून् आभयावभासयामासुः। उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमान् लोकधतून् आभयावभासयामासुः। पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमान् लोकधतून् आभयावभासयामासुः। दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमान् लोकधतून् आभयावभासयामासुः। पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमान् लोकधतून् आभयावभासयामासुः। अधस्ताद् दिशि गङ्गानदीवालुकोपमान् लोकधतून् आभयावभासयामासुः।}}
09602 ऊर्ध्वं दिशि गङ्गानदीवालुकोपमान् लोकधातू-
09603 न् आभयावभासयामासुः। अथ खलु पूर्वस्यां यावद् ऊर्ध्वं दिशि गङ्गानदी-
09604 वालुकोपमेभ्यो बुद्धक्षेत्रेभ्यो ऽप्रमेयासंख्येया बोधिसत्त्वास् तान् प्रभाव्यूहान्
09605 दृष्ट्वा स्वकस्वकेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः परिपृच्छन्ति स्म। कस्यायं
09606 भगवन्न् अनुभावो येनायम् एवं प्रभावभासः संदृश्यते। ते बुद्धा भगवन्त-
09607 स् तान् बोधिसत्त्वान् महासत्त्वान् एवम् आहुः। एष कुलपुत्राः पश्चिमायां
09608 यावद् अधो दिग्भागे सहायां लोकधातौ शाक्यमुनिर् नाम तथागतो ऽर्हन्
09609 सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति तेन जिह्वेन्द्रियं निर्नमय्य
09610 सर्वस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवो ऽवभासेन स्फुटीकृता
09611 यावद् ऊर्ध्वं दिशि एवं दशसु दिक्षु गङ्गानदीवालुकोपमा लोकधातवो ऽव-
09612 भासेन स्फुटीकृता यद् उत {बोधिसत्त्वानां} महासत्त्वानां प्रज्ञापारमितां देशनाय
09613 संप्रकाशनाय। ते बोधिसत्त्वास् तांस् तथागतान् एवम् आहुः। गमिष्यामो वयं
09614 भगवंस् तां सहालोकधातुं तं बह्गवन्तं शाक्यमुनिं तथागतं दर्शनाय वन्द-
09615 नाय पर्युपासनाय तांश् च दशदिक्सन्निपतितान् {बोधिसत्त्वान्} महासत्त्वांस् तां च प्रज्ञा-
09616 पारमितां स्रवणाय। ते बुद्धा भगवन्त आहुः। गच्छत कुलपुत्रा यस्येदानीं
09617 कालं मन्यध्वम्। अथ खलु ते {बोधिसत्त्वा} महासत्त्वा दशभ्यो दिग्भ्यो
09618 पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीर् गृहीत्वा ना-
09619 नारत्नसुवर्णरूप्यपुष्पपुटानि च गृहीत्वा महत्या तूर्यताडावचर
09620 संगीत्या भगवन्तं शाक्यमुनिम् उपसंक्रान्ता अभूवन्। अथ खलु चातु-
09621 र्महाराजकायिका देवास् त्रयस्त्रिंशा देवाः {{त्रयस्त्रिंशा देवा यामा देवाः तुषिता देवा निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा ब्रह्मपारिषद्या देवाः परीत्ताभा देवा अप्रमाणाभा देवा आभास्वरा देवाः परीत्तशुभा देवा अप्रमाणशुभा देवाः शुभकृत्स्ना देवा अनभ्रका देवाः पुण्यप्रसवा देवा बृहत्फला देवा असंज्ञिसत्त्वा देवाः शुद्धावासा देवा अस्पृहा देवा अतपा देवाः सदृशा देवाः सुदर्शना देवा}}
09701 अकनिष्ठाश् च देवा दिव्यपुष्पधूपगन्धमाल्यविलेपन-
09702 चूर्णचीवरच्छत्रध्वजपताका उत्पलकुमुदपुण्डरीकमन्दारवकेसरतमाल-
09703 पत्राणि गृहीत्वा येन भगवांस् तेनोपसंक्रामन्। अथ खलु ते बोधि-
09704 सत्त्वास् ते च देवास् तैः पुष्पधूपगन्धमाल्यविलेपनैस् तथागतम् अर्हन्तं सम्यक्-
09705 संबुद्धम् अवकिरन्ति स्म। अथ खलु तानि पुष्पाणि विहाय समभ्युद्गम्यास्य
09706 त्रिसाहस्रमहासाहस्रस्य लोकधातोर् उपरिष्टात् पुष्पकूटागारः संस्थितो
09707 ऽभूत्। चतुस्थूणश् चतुरस्रो भागतः सुविभक्तो रमणीयो मनीरमः।
09708 अथ खलु ततः पर्षदः प्राणिकोटीनियुतशतसहस्रम् उत्थायासनादेकांस-
09709 म् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवां
09710 स् तेनाञ्जलिं प्रणम्य भगवन्तम् एतद् अवोचत्। वयं भगवन्न् अनागते ऽध्वनि
09711 एवंरूपाणां धर्माणां लाभिनो भवेम यथा तथागतो ऽर्हन् सम्यक्-
09712 संबुद्धः। एवञ् च श्रावकगणं परिकर्षेम एवञ् च पर्षदि धर्मं देशयेम
09713 यच् चैतर्हि तथागतो भगवान् धर्मं देशयति। अथ खलु भगवांस् तेषां
09714 कुलपुत्राणाम् आशयं विदित्वा सर्वधर्माणां चानुत्पादायानिरोधाया-
09715 नभिसंस्कारायाप्रादुर्भावाय क्षान्तिं विदित्वा स्मितम् अकरोत्। अथ
09716 ततो ऽनेकवर्णा रश्मयो भगवतो मुखद्वारान् निश्चरितास् ते सर्वावन्तं लोकं
09717 प्रदक्षिणीकृत्य पुनर् एवागता भगवतो मूर्ध्वन्य् अन्तर्धीयन्ते स्म। अथ खल्व् आ-
09718 युष्मान् आनन्द उत्थायासानाद् एकां समुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं
09801 पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् एतद् अवोचत्।
09802 को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रादुर्भावाय। अथ खलु भगवा-
09803 न् आयुष्मन्तम् आनन्दम् एतद् अचोवत्। एतद् आनन्द प्राणिकोटीनियुतशतसहस्र-
09804 म् अष्टषष्ठ्या कल्पकोटीभिर् बोध्यङ्गपुष्पनामानस् तथागता अर्हन्तः सम्यक्-
09805 संबुद्धा लोके उत्पत्स्यन्ते पुष्पाकरे कल्पे॥ [इति षडभिज्ञाववादः॥]
09806 अथ खलु भगवांस् तस्यां वेलायाम् आयुष्मन्तं सुभूतिम् आमन्त्रयामास।
09807 प्रतिभातु ते सुभूते {बोधिसत्त्वानां} महासत्त्वानां प्रज्ञापारमिताम् आरभ्य यथा
09808 {बोधिसत्त्वा} महासत्त्वाः प्रज्ञापारमितायां निर्यायुर् इति। अथ खलु तेषां
09809 {बोधिसत्त्वानां} महासत्त्वानां तेषाञ् च महाश्रावकाणां तेषाञ् च देवपुत्राणाम् एतद् अ-
09810 भवत्। किं नु खल्व् आयुष्मान् सुभूतिः स्वकेन प्रज्ञाप्रतिभानवला-
09811 धानेन {बोधिसत्त्वानां} महासत्त्वानां प्रज्ञापारमिताम् उपदेक्ष्यत्य् उताहो बुद्धानु-
09812 भावेन। अथ खल्व् आयुष्मान् सुभूतिर् बुद्धानुभावेन तेषां {बोधिसत्त्वानां} महासत्त्वानां
09813 तेषाञ् च महाश्रावकाणां तेषाञ् च देवपुत्राणां चेतसैव चेतःपरिवितर्क-
09814 म् आज्ञाय आयुष्मन्तं शारिपुत्रम् एतद् अचोवत्। यत् किञ्चिद् आयुष्मन् शारिपुत्र
09815 भगवतः श्रावका भाषन्ते देशयन्त्य् उपदिशन्ति सर्वः स तथागतस्य पुरुष-
09816 कारो वेदितव्यः। तत् कस्य हेतोः यो हि तथागतेन धर्मो देशितस् तस्यां
09817 धर्मदेशनायां शिक्षमाणास् तां धर्मतां साक्षात्कुर्वन्ति तां धर्मतां
09901 साक्षात्कृत्वा यद् यद् एव भाषन्ते देशयन्त्य् उपदिशन्ति सर्वं तद् धर्मतया न
09902 विरुध्यते। तथागत एवैष शारिपुत्र उपाययोगेन {बोधिसत्त्वानां} महासत्त्वानां
09903 प्रज्ञापारमिताम् उपदेक्ष्यति। अविषयो ऽत्र शारिपुत्र सर्वश्रावकप्रत्येक-
09904 बुद्धानां {बोधिसत्त्वानां} महासत्त्वानां प्रज्ञापारमिताम् उपदेष्टुम्॥ [इति दर्शन-
09905 मार्गाववादोपक्षेपः॥]
09906 अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्। बोधिसत्त्व इति
09907 भगवन्न् उच्यते। कतमस्यैतद् भगवन् धर्मस्याधिवचनं यद् उत बोधिसत्त्व
09908 इति। नाहं भगवन् धर्मं समनुपश्यामि यद् उत बोधिसत्त्व इति।
09909 सो ऽहं भगवन् बोधिसत्त्वम् असमनुपश्यन् प्रज्ञापारमिताम् अप्य् अनुप-
09910 लभमानः कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्यामि।
09911 भगवान् आह। नाममात्रम् इदं सुभूते यद् उत प्रज्ञापारमिता इति बोधि-
09912 सत्त्व इति च। तद् अपि च बोधिसत्त्वनाम नाध्यात्मं न बहिर्धा नोभय-
09913 म् अन्तरेणोपलभ्यते। तद् यथापि नाम सुभूते सत्त्वः सत्त्व इति
09914 चोच्यते। न च काचित् सत्त्वोपलब्धिः। यच् च तन् नाम तत् प्रज्ञप्तिमात्रं
09915 प्रज्ञप्तिधर्मः प्रज्ञप्तिसत्॥ [इति दुःखे धर्मज्ञानक्षान्तिः॥]
09916 तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसङ्केतमात्रेण
09917 व्यवह्रियते। एवम् आत्मसत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदक-
10001 जानकपश्यकाः सर्व एते प्रज्ञप्तिधर्माः सर्व एते अनुत्पादा अनिरोधा
10002 यावद् एव नाममात्रेण व्यवह्रियन्ते। एवम् एव सुभूते या च प्रज्ञापारमिता
10003 यश् च {बोधिसत्त्वो} महासत्त्वो यच् च बोधिसत्त्वनाम सर्व एते प्रज्ञप्तिधर्माः सर्व एते
10004 अनुत्पादा अनिरोधा यावद् एव नाममात्रेण व्यवह्रियते। तद् यथापि
10005 नाम सुभूते इदम् आध्यात्मिकं रूपम् इति धर्मप्रज्ञप्तिमात्रं तस्याश् च धर्म-
10006 प्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसङ्केतमात्रेण व्यवह्रियते। वेद-
10007 नेति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्। तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते} संज्ञेति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्। तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। संस्कारा इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्। तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। विज्ञानम् इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्। तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। एवम् एव
10008 सुभूते प्रज्ञापारमिता च बोधिसत्त्वश् च बोधिसत्त्वनाम च सर्व एते
10009 प्रज्ञप्तिधर्मास् तेषाञ् च प्रज्ञप्तिधर्माणां नोत्पादो न निरोधो ऽन्यत्र नामसङ्केत-
10010 मात्रेण व्यवह्रियते। चक्षुर् इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्। तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। यद् उत चक्षुर् इति तच् च चक्षुर् ना-
10011 ध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते। श्रोत्रम् इति{सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्। तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। यद् उत श्रोत्र-
10012 म् इति तच् च श्रोत्रं नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते।
10013 घ्राणम् इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्। तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। जिह्वेति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्। तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। काय इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्। तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। मन इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्। तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। रूपम् इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्। तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}।
10014 शब्द इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्। तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। गन्ध इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्। तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। रस इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्। तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। स्पर्श इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्। तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। धर्म इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्। तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}।
10015 चक्षुर्धातू रूपधातुश् चक्षुर्विज्ञानधातुः इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्। तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। ते च नाध्यात्मं न बहिर्धा
10016 नोभयम् अन्तरेणोपलभ्यन्ते। श्रोत्रधातुः शब्दधातुः श्रोत्रविज्ञानधातु-
10017 र् इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्। तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। ते च {नाध्यात्मं न बहिर्धा नोभयम् अन्त्रेणोपलभ्यन्ते}। घ्राणधातुर् गन्धधातुर् घ्राणविज्ञानधातुर् इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्। तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। ते च {नाध्यात्मं न बहिर्धा नोभयम् अन्त्रेणोपलभ्यन्ते}। जिह्वाधातू रसधातुर् जिह्वाविज्ञानधातुर् इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्। तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। ते च {नाध्यात्मं न बहिर्धा नोभयम् अन्त्रेणोपलभ्यन्ते}।
10101 कायधातुः स्प्रष्टव्यधातुः कायविज्ञानधातुर् इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्। तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। ते च {नाध्यात्मं न बहिर्धा नोभयम् अन्त्रेणोपलभ्यन्ते}। मनो-
10102 धातु धर्मधातुर् मनोविज्ञानधातुर् इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्। तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}। ते च {नाध्यात्मं न बहिर्धा नोभयम् अन्त्रेणोपलभ्यन्ते}। एवम् एव सुभूते यद् उ-
10103 च्यते प्रज्ञापारमितेति। बोधिसत्त्व इति बोधिसत्त्वनामेति च धर्म-
10104 प्रज्ञप्तिमात्रम् एतत्। तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम-
10105 सङ्केतमात्रेण व्यवह्रियते। तच् च नाम नाध्यात्मं न बहिर्धा नोभय-
10106 म् अन्तरेणोपलभ्यते। तद् यथापि नाम सुभूते यद् एतद् आध्यात्मिकं शरीरं
10107 शरीरम् इति व्यवह्रियते शिरोग्रीवा उदरमंसौ स्कन्धौ बादु पृष्ठं
10108 पार्श्वकाः कट्यूरु जङ्घे पादावस्थीनीति व्यवह्रियन्ते ते च प्रज्ञप्तिधर्मा-
10109 स् तेषाञ् च नोत्पादो {{न निरोधो ऽन्यत्र नामसङ्केतमात्रेण व्यवह्रियते।}} एवम् एव सुभुते
10110 यद् उच्यते प्रज्ञापारमितेति बोध्सिअत्त्व इति बोधिसत्त्वनामेति च सर्व एते
10111 प्रज्ञप्तिधर्मास् तेषाञ् च नोत्पादा {{न निरोधो ऽन्यत्र नामसङ्केतमात्रेण व्यवह्रियते।}} तद्
10112 यथापि नाम सुभूते बाह्यं तृणकाष्ठं शाखापर्णपलाशं सर्वं तं नाना-
10113 नामधेयैर् व्यपदिश्यते तेषाञ् च नाम्नां नोत्पादो {{न निरोधो ऽन्यत्र नामसङ्केतमात्रेण व्यवह्रियते।}}
10114 तानि च नामानि नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते।
10115 एवम् एव सुभूते यद् उच्यते प्रज्ञापारमितेति {{बोध्सिअत्त्व इति बोधिसत्त्वनामेति च सर्व एते प्रज्ञप्तिधर्मास् ते च नामधेयैर् व्यपदिश्यन्ते तेषाञ् च नोत्पादा न निरोधो ऽन्यत्र नामसङ्केतमात्रेण व्यवह्रियते।}}
10116 तानि च नामानि नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते।
10117 एवं हि सुभूते {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्।
10118 पुनर् अपरं सुभूते तद् यथापि नाम स्वप्नप्रतिश्रुत्कामरीचिप्रतिभासमायोप-
10119 मास् तथागतनिर्मिताः सर्वे ते धर्मप्रज्ञप्तिमात्रास् तेषाञ् च नोत्पादो {{न निरोधो ऽन्यत्र नामसङ्केतमात्रेण व्यवह्रियते।}}
10201 एवम् एव सुभूते यद् उच्यते प्रज्ञापारमितेति {{यद् उच्यते प्रज्ञापारमितेति बोध्सिअत्त्व इति बोधिसत्त्वनामेति च सर्व एते प्रज्ञप्तिधर्मास् तेषाञ् च नोत्पादा न निरोधो ऽन्यत्र नामसङ्केतमात्रेण व्यवह्रियते।}}
10202 एवं हि सुभूते {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायाञ् चरता
10203 नामसङ्केतप्रज्ञप्त्याम् अववादप्रज्ञप्त्यां धर्मप्रज्ञप्त्याञ् च शिक्षितव्यम्॥ [इति
10204 दुःखे धर्मज्ञानम्॥]
10205 एवं हि सुभुते प्रज्ञापारमितायां चरन् {बोधिसत्त्वो} महासत्त्वो न रूपं
10206 नित्यम् इति समनुपश्यति। न रूपं सुखम् इति {समनुपश्यति}। न रूपं दुःखम् इति
10207 {समनुपश्यति}। न रूपम् आत्मेति {समनुपश्यति}। न रूपम् अनात्मेति {समनुपश्यति}। न रूपं शान्त-
10208 म् इति {समनुपश्यति}। न रूपम् अशान्तम् इति {समनुपश्यति}। न रूपम् शून्यम् इति {समनुपश्यति}।
10209 न रूपम् अशून्यम् इति {समनुपश्यति}। न रूपं निमित्तम् इति {समनुपश्यति}। न रूपम् अनिमित्त-
10210 म् इति {समनुपश्यति}। न रूपं प्रणिहितम् इति {समनुपश्यति}। न रूपम् अप्रणिहितम् इति
10211 {समनुपश्यति}। न रूपं संस्कृतम् इति {समनुपश्यति}। न रूपम् असंस्कृतम् इति {समनुपश्यति}। न रूप-
10212 म् उत्पन्नम् इति {समनुपश्यति}। न रूपम् अनुत्पन्नम् इति {समनुपश्यति}। न रूपं निरुद्धम् इति
10213 {समनुपश्यति}। न रूपम् अनिरुद्धम् इति {समनुपश्यति}। न रूपं विविक्तम् इति {समनुपश्यति}। न
10214 रूपम् अविविक्तम् इति {समनुपश्यति}। न रूपं कुशलम् इति {समनुपश्यति}। न रूपम् अकुशल-
10215 म् इति {समनुपश्यति}। न रूपं सावद्यम् इति {समनुपश्यति}। न रूपम् अनवद्यम् इति {समनुपश्यति}।
10216 न रूपं सास्रवम् इति {समनुपश्यति}। न रूपम् अनास्रवम् इति {समनुपश्यति}। न रूपं संक्लेश-
10217 म् इति {समनुपश्यति}। न रूपं निःक्लेशम् इति {समनुपश्यति}। न रूपं लौकिकम् इति {समनुपश्यति}।
10218 न रूपं लोकोत्तरम् इति {समनुपश्यति}। न रूपं संक्लेशम् इति {समनुपश्यति}। न रूपं व्यव-
10219 दानम् इति {समनुपश्यति}। न रूपं संसार इति {समनुपश्यति}। न रूपं निर्वाणम् इति
10220 समनुपश्यति। न वेदना नित्येति {समनुपश्यति}। {{न वेदना सुखेति समनुपश्यति। न वेदना दुःखेति समनुपश्यति। न वेदनात्मेति समनुपश्यति। न वेदनानात्मेति समनुपश्यति। न वेदना शान्तेति समनुपश्यति। न वेदनाशान्तेति समनुपश्यति। न वेदना शून्येति समनुपश्यति। न वेदनाशून्येति समनुपश्यति। न वेदना निमित्तेति समनुपश्यति। न वेदनानिमित्तेति समनुपश्यति। न वेदना प्रणिहितेति समनुपश्यति। न वेदनाप्रणिहितेति समनुपश्यति। न वेदना संस्कृतेति समनुपश्यति। न वेदनासंस्कृतेति समनुपश्यति। न वेदनोत्पन्नेति समनुपश्यति। न वेदनानुत्पन्नेति समनुपश्यति। न वेदना निरुद्धेति समनुपश्यति। न वेदनानिरुद्धेति समनुपश्यति। न वेदना विविक्तेति समनुपश्यति। न वेदनाविविक्तेति समनुपश्यति। न वेदना कुशलेति समनुपश्यति। न वेदनाकुशलेति समनुपश्यति। न वेदना सावद्येति समनुपश्यति। न वेदनानवद्येति समनुपश्यति। न वेदना सास्रवेति समनुपश्यति। न वेदनानास्रवेति समनुपश्यति। न वेदना संक्लेशेति समनुपश्यति। न वेदना निःक्लेशेति समनुपश्यति। न वेदना लौकिकेति समनुपश्यति। न वेदना लोकोत्तरेति समनुपश्यति। न वेदना संक्लेशेति समनुपश्यति। न वेदना व्यवदानेति समनुपश्यति। न वेदना संसारेति समनुपश्यति। न वेदना निर्वाणेति समनुपश्यति।}}। न संज्ञा नित्येति {समनुपश्यति}।
10301 {{न संज्ञा सुखेति समनुपश्यति। न संज्ञा दुःखेति समनुपश्यति। न संज्ञात्मेति समनुपश्यति। न संज्ञानात्मेति समनुपश्यति। न संज्ञा शान्तेति समनुपश्यति। न संज्ञाशान्तेति समनुपश्यति। न संज्ञा शून्येति समनुपश्यति। न संज्ञाशून्येति समनुपश्यति। न संज्ञा निमित्तेति समनुपश्यति। न संज्ञानिमित्तेति समनुपश्यति। न संज्ञा प्रणिहितेति समनुपश्यति। न संज्ञाप्रणिहितेति समनुपश्यति। न संज्ञा संस्कृतेति समनुपश्यति। न संज्ञासंस्कृतेति समनुपश्यति। न संज्ञोत्पन्नेति समनुपश्यति। न संज्ञानुत्पन्नेति समनुपश्यति। न संज्ञा निरुद्धेति समनुपश्यति। न संज्ञानिरुद्धेति समनुपश्यति। न संज्ञा विविक्तेति समनुपश्यति। न संज्ञाविविक्तेति समनुपश्यति। न संज्ञा कुशलेति समनुपश्यति। न संज्ञाकुशलेति समनुपश्यति। न संज्ञा सावद्येति समनुपश्यति। न संज्ञानवद्येति समनुपश्यति। न संज्ञा सास्रवेति समनुपश्यति। न संज्ञानास्रवेति समनुपश्यति। न संज्ञा संक्लेशेति समनुपश्यति। न संज्ञा निःक्लेशेति समनुपश्यति। न संज्ञा लौकिकेति समनुपश्यति। न संज्ञा लोकोत्तरेति समनुपश्यति। न संज्ञा संक्लेशेति समनुपश्यति। न संज्ञा व्यवदानेति समनुपश्यति। न संज्ञा संसारेति समनुपश्यति। न संज्ञा निर्वाणेति समनुपश्यति।}} न संस्कारा नित्या इति समनुपश्यति {{न संस्काराः सुखा इति समनुपश्यति। न संस्कारा दुःखा इति समनुपश्यति। न संस्कारा आत्मानो इति समनुपश्यति। न संस्कारा अनात्मानो इति समनुपश्यति। न संस्काराः शान्ता इति समनुपश्यति। न संस्कारा अशान्ता इति समनुपश्यति। न संस्काराः शून्या इति समनुपश्यति। न संस्कारा अशून्या इति समनुपश्यति। न संस्कारा निमित्ता इति समनुपश्यति। न संस्कारा अनिमित्ता इति समनुपश्यति। न संस्काराः प्रणिहिता इति समनुपश्यति। न संस्कारा अप्रणिहिता इति समनुपश्यति। न संस्काराः संस्कृता इति समनुपश्यति। न संस्काराः असंस्कृता इति समनुपश्यति। न संस्कारा उत्पन्ना इति समनुपश्यति। न संस्कारा अनुत्पन्ना इति समनुपश्यति। न संस्कारा निरुद्धा इति समनुपश्यति। न संस्कारा अनिरुद्धा इति समनुपश्यति। न संस्कारा विविक्ता इति समनुपश्यति। न संस्कारा अविविक्ता इति समनुपश्यति। न संस्कारा कुशला इति समनुपश्यति। न संस्कारा अकुशला इति समनुपश्यति। न संस्काराः सावद्या इति समनुपश्यति। न संस्कारा अनवद्या इति समनुपश्यति। न संस्काराः सास्रवा इति समनुपश्यति। न संस्कारा अनास्रवा इति समनुपश्यति। न संस्काराः संक्लेशा इति समनुपश्यति। न संस्कारा निःक्लेशा इति समनुपश्यति। न संस्कारा लौकिका इति समनुपश्यति। न संस्कारा लोकोत्तरा इति समनुपश्यति। न संस्कारा संक्लेशा इति समनुपश्यति। न संस्कारा व्यवदाना इति समनुपश्यति। न संस्काराः संसारा इति समनुपश्यति। न संस्कारा निर्वाणा इति समनुपश्यति।}} न विज्ञानन् नित्यम् इति
10302 समनुपश्यति {{न विज्ञानं सुखम् इति समनुपश्यति। न विज्ञानं दुःखम् इति समनुपश्यति। न विज्ञानं आत्मेति समनुपश्यति। न विज्ञानम् अनात्मेति समनुपश्यति। न विज्ञानं शान्तम् इति समनुपश्यति। न विज्ञानम् अशान्तम् इति समनुपश्यति। न विज्ञानं शून्यम् इति समनुपश्यति। न विज्ञानं अशून्यम् इति समनुपश्यति। न विज्ञानं निमित्तम् इति समनुपश्यति। न विज्ञानं अनिमित्तम् इति समनुपश्यति। न विज्ञानं प्रणिहितम् इति समनुपश्यति। न विज्ञानम् अप्रणिहितम् इति समनुपश्यति। न विज्ञानं संस्कृतम् इति समनुपश्यति। न विज्ञानम् असंस्कृतम् इति समनुपश्यति। न विज्ञानम् उत्पन्नम् इति समनुपश्यति। न विज्ञानम् अनुत्पन्नम् इति समनुपश्यति। न विज्ञानं निरुद्धम् इति समनुपश्यति। न विज्ञानम् अनिरुद्धम् इति समनुपश्यति। न विज्ञानं विविक्तम् इति समनुपश्यति। न विज्ञानम् अविविक्तम् इति समनुपश्यति। न विज्ञानं कुशलम् इति समनुपश्यति। न विज्ञानम् अकुशलम् इति समनुपश्यति। न विज्ञानं सावद्यम् इति समनुपश्यति। न विज्ञानं अनवद्यम् इति समनुपश्यति। न विज्ञानं सास्रवम् इति समनुपश्यति। न विज्ञानम् अनास्रवम् इति समनुपश्यति। न विज्ञानं संक्लेशम् इति समनुपश्यति। न विज्ञानं निःक्लेशम् इति समनुपश्यति। न विज्ञानं लौकिकम् इति समनुपश्यति। न विज्ञानं लोकोत्तरम् इति समनुपश्यति। न विज्ञानं संक्लेशम् इति समनुपश्यति। न विज्ञानं व्यवदानम् इति समनुपश्यति। न विज्ञानं संसारम् इति समनुपश्यति। न विज्ञानं निर्वाणम् इति समनुपश्यति।}}
10303 एवं न चक्षुर्धातुर् नित्य इति वा अनित्य इति वा समनुपश्यति। न
10304 रूपधातुर् नित्य इति वा अनित्य इति वा समनुपश्यति। न चक्षुर्विज्ञान-
10305 धातुर् नित्य इति वा अनित्य इति वा समनुपश्यति। न चक्षुर्धातुः सुख
10306 इति वा दुःख इति वा समनुपश्यति। न रूपधातुः सुख इति वा दुःख
10307 इति वा समनुपश्यति। न चक्षुर्विज्ञानधातुः सुख इति वा दुःख इति
10308 वा समनुपश्यति। {{न चक्षुर्धातुर् आत्मेति वा अनात्मेति वा समनुपश्यति। न रूपधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति। न चक्षुर्विज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति। न चक्षुर्धातुः शान्त इति वाशान्त इति वा समनुपश्यति। न रूपधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न चक्षुर्विज्ञानधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न चक्षुर्धातुः शून्य इति वाशून्य इति वा समनुपश्यति। न रूपधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न चक्षुर्विज्ञानधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न चक्षुर्धातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति। न रूपधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति। न चक्षुर्विज्ञानधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति। न चक्षुर्धातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न रूपधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न चक्षुर्विज्ञानधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न चक्षुर्धातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न रूपधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न चक्षुर्विज्ञानधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न चक्षुर्धातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न रूपधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न चक्षुर्विज्ञानधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न चक्षुर्धातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न रूपधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न चक्षुर्विज्ञानधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न चक्षुर्धातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति। न रूपधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति। न चक्षुर्विज्ञानधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति। न चक्षुर्धातुः कुशल इति वाकुशल इति वा समनुपश्यति। न रूपधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न चक्षुर्विज्ञानधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न चक्षुर्धातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न रूपधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न चक्षुर्विज्ञानधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न चक्षुर्धातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न रूपधातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न चक्षुर्विज्ञानधातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न चक्षुर्धातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न रूपधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न चक्षुर्विज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न चक्षुर्धातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न रूपधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न चक्षुर्विज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न चक्षुर्धातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न रूपधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न चक्षुर्विज्ञानधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न चक्षुर्धातुः संसार इति वा निर्वाण इति वा समनुपश्यति। न रूपधातुः संसार इति वा निर्वाण इति वा समनुपश्यति। न चक्षुर्विज्ञानधातुः संसार इति वा निर्वाण इति वा समनुपश्यति}}। एवं न श्रोत्रधातुर् न शव्दधातुर् न श्रोत्रविज्ञान-
10309 धातुर् नित्य इति वा अनित्य इति वा समनुपश्यति। न श्रोत्रधातुर् न
10310 शब्दधातुर् न श्रोत्रविज्ञानधातुः सुख इति वा दुःख इति वा समनुपश्यति
10311 {{न श्रोत्रधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति। न शब्दधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति। न श्रोत्रविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति। न श्रोत्रधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न शब्दधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न श्रोत्रविज्ञानधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न श्रोत्रधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न शब्दधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न श्रोत्रविज्ञानधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न श्रोत्रधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति। न शब्दधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति। न श्रोत्रविज्ञानधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति। न श्रोत्रधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न शब्दधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न श्रोत्रविज्ञानधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न श्रोत्रधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न शब्दधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न श्रोत्रविज्ञानधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न श्रोत्रधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न शब्दधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न श्रोत्रविज्ञानधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न श्रोत्रधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न शब्दधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न श्रोत्रविज्ञानधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न श्रोत्रधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति। न शब्दधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति। न श्रोत्रविज्ञानधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति। न श्रोत्रधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न शब्दधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न श्रोत्रविज्ञानधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न श्रोत्रधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न शब्दधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न श्रोत्रविज्ञानधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न श्रोत्रधातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न शब्दधातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न श्रोत्रविज्ञानधातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न श्रोत्रधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न शब्दधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न श्रोत्रविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न श्रोत्रधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न शब्दधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न श्रोत्रविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न श्रोत्रधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न शब्दधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न श्रोत्रविज्ञानधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न श्रोत्रधातुः संसार इति वा निर्वाण इति वा समनुपश्यति। न शब्दधातुः संसार इति वा निर्वाण इति वा समनुपश्यति। न श्रोत्रविज्ञानधातुः संसार इति वा निर्वाण इति वा समनुपश्यति}}। न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् नित्य इति वा
10312 अनित्य इति वा समनुपश्यति। न घ्राणधातुर् न गन्धधातुर् न
10313 घ्राणविज्ञानधातुः सुख इति वा दुःख इति समनुपश्यति {{न घ्राणधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति। न गन्धधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति। न घ्राणविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति। न घ्राणधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न गन्धधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न घ्राणविज्ञानधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न घ्राणधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न गन्धधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न घ्राणविज्ञानधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न घ्राणधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति। न गन्धधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति। न घ्राणविज्ञानधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति। न घ्राणधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न गन्धधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न घ्राणविज्ञानधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न घ्राणधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न गन्धधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न घ्राणविज्ञानधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न घ्राणधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न गन्धधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न घ्राणविज्ञानधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न घ्राणधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न गन्धधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न घ्राणविज्ञानधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न घ्राणधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति। न गन्धधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति। न घ्राणविज्ञानधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति। न घ्राणधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न गन्धधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न घ्राणविज्ञानधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न घ्राणधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न गन्धधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न घ्राणविज्ञानधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न घ्राणधातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न गन्धधातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न घ्राणविज्ञानधातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न घ्राणधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न गन्धधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न घ्राणविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न घ्राणधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न गन्धधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न घ्राणविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न घ्राणधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न गन्धधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न घ्राणविज्ञानधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न घ्राणधातुः संसार इति वा निर्वाण इति वा समनुपश्यति। न गन्धधातुः संसार इति वा निर्वाण इति वा समनुपश्यति। न घ्राणविज्ञानधातुः संसार इति वा निर्वाण इति वा समनुपश्यति}}।
10314 न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुर् नित्य इति वा अनित्य
10315 इति वा समनुपश्यति। न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञान-
10316 धातुः सुख इति वा दुःख इति वा समनुपश्यति {{न जिह्वाधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति। न रसधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति। न जिह्वाविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति। न जिह्वाधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न रसधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न जिह्वाविज्ञानधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न जिह्वाधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न रसधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न जिह्वाविज्ञानधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न जिह्वाधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति। न रसधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति। न जिह्वाविज्ञानधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति। न जिह्वाधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न रसधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न जिह्वाविज्ञानधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न जिह्वाधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न रसधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न जिह्वाविज्ञानधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न जिह्वाधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न रसधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न जिह्वाविज्ञानधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न जिह्वाधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न रसधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न जिह्वाविज्ञानधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न जिह्वाधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति। न रसधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति। न जिह्वाविज्ञानधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति। न जिह्वाधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न रसधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न जिह्वाविज्ञानधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न जिह्वाधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न रसधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न जिह्वाविज्ञानधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न जिह्वाधातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न रसधातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न जिह्वाविज्ञानधातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न जिह्वाधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न रसधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न जिह्वाविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न जिह्वाधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न रसधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न जिह्वाविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न जिह्वाधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न रसधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न जिह्वाविज्ञानधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न जिह्वाधातुः संसार इति वा निर्वाण इति वा समनुपश्यति। न रसधातुः संसार इति वा निर्वाण इति वा समनुपश्यति। न जिह्वाविज्ञानधातुः संसार इति वा निर्वाण इति वा
समनुपश्यति}}। न काय-
10317 धातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् नित्य इति वा अनित्य इति
10318 वा समनुपश्यति। न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः
10319 सुख इति वा दुःख इति वा समनुपश्यति {{न कायधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति। न स्प्रष्टव्यधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति। न कायविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति। न कायधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न स्प्रष्टव्यधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न कायविज्ञानधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न कायधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न स्प्रष्टव्यधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न कायविज्ञानधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न कायधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति। न स्प्रष्टव्यधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति। न कायविज्ञानधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति। न कायधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न स्प्रष्टव्यधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न कायविज्ञानधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न कायधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न स्प्रष्टव्यधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न कायविज्ञानधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न कायधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न स्प्रष्टव्यधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न कायविज्ञानधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न कायधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न स्प्रष्टव्यधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न कायविज्ञानधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न कायधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति। न स्प्रष्टव्यधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति। न कायविज्ञानधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति। न कायधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न स्प्रष्टव्यधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न कायविज्ञानधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न कायधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न स्प्रष्टव्यधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न कायविज्ञानधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न कायधातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न स्प्रष्टव्यधातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न कायविज्ञानधातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न कायधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न स्प्रष्टव्यधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न कायविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न कायधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न स्प्रष्टव्यधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न कायविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न कायधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न स्प्रष्टव्यधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न कायविज्ञानधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न कायधातुः संसार इति वा निर्वाण इति वा समनुपश्यति। न स्प्रष्टव्यधातुः संसार इति वा निर्वाण इति वा समनुपश्यति। न कायविज्ञानधातुः संसार इति वा निर्वाण इति वा समनुपश्यति}} न मनोधातुर् न
10320 धर्मधातुर् न मनोविज्ञानधातुर् नित्य इति वा अनित्य इति वा समनु-
10401 पश्यति। न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः सुख इति वा
10402 दुःख इति वा समनुपश्यति {{न मनोधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति। न धर्मधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति। न मनोविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति। न मनोधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न धर्मधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न मनोविज्ञानधातुः शान्त इति वाशान्त इति वा समनुपश्यति। न मनोधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न धर्मधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न मनोविज्ञानधातुः शून्य इति वाशून्य इति वा समनुपश्यति। न मनोधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति। न धर्मधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति। न मनोविज्ञानधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति। न मनोधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न धर्मधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न मनोविज्ञानधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति। न मनोधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न धर्मधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न मनोविज्ञानधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति। न मनोधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न धर्मधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न मनोविज्ञानधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति। न मनोधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न धर्मधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न मनोविज्ञानधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति। न मनोधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति। न धर्मधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति। न मनोविज्ञानधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति। न मनोधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न धर्मधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न मनोविज्ञानधातुः कुशल इति वाकुशल इति वा समनुपश्यति। न मनोधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न धर्मधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न मनोविज्ञानधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति। न मनोधातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न धर्मधातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न मनोविज्ञानधातुः सास्रव इति वानास्रव इति वा समनुपश्यति। न मनोधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न धर्मधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न मनोविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति। न मनोधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न धर्मधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न मनोविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति। न मनोधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न धर्मधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न मनोविज्ञानधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति। न मनोधातुः संसार इति वा निर्वाण इति वा समनुपश्यति। न धर्मधातुः संसार इति वा निर्वाण इति वा समनुपश्यति। न मनोविज्ञानधातुः संसार इति वा निर्वाण इति वा समनुपश्यति}}।
10403 यद् अपि चक्षुरूपचक्षुर्विज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा
10404 दुःखं वा अदुःखासुखं वा तद् अपि न नित्यम् इति वा नानित्यम् इति वा
10405 समनुपश्यति। एवं न सुखम् इति वा न दुःखम् इति वा समनुपश्यति।
10406 नात्मेति वा नानात्मेति वा समनुपश्यति {{न शान्तम् इति वा नाशान्तम् इति वा समनुपश्यति। न शून्यम् इति वा नाशून्यम् इति वा समनुपश्यति। न निमित्तम् इति वा नानिमित्तम् इति वा समनुपश्यति। न प्रणिहितम् इति वा नाप्रणिहितम् इति वा समनुपश्यति। न संस्कृतम् इति वा नासंस्कृतम् इति वा समनुपश्यति। नोत्पन्नम् इति वा नानुत्पन्नम् इति वा समनुपश्यति। न निरुद्धम् इति वा नानिरुद्धम् इति वा समनुपश्यति। न विविक्तम् इति वा नाविविक्तम् इति वा समनुपश्यति। न कुशलम् इति वा नाकुशलम् इति वा समनुपश्यति। न सावद्यम् इति वा नानवद्यम् इति वा समनुपश्यति। न सास्रवम् इति वा नानास्रवम् इति वा समनुपश्यति। न संक्लेशम् इति वा न निःक्लेशम् इति वा समनुपश्यति। न लौकिकम् इति वा न लोकोत्तरम् इति वा समनुपश्यति। न संक्लेशम् इति वा न व्यवदाणम् इति वा समनुपश्यति। न संसारम् इति वा न निर्वानम् इति वा समनुपश्यति}}। यद् अपि श्रोत्रशब्दश्रोत्र-
10407 विज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा
10408 तद् अपि न नित्यम् इति वा नानित्यम् इति वा {{समनुपश्यति न शान्तम् इति वा नाशान्तम् इति वा समनुपश्यति। न शून्यम् इति वा नाशून्यम् इति वा समनुपश्यति। न निमित्तम् इति वा नानिमित्तम् इति वा समनुपश्यति। न प्रणिहितम् इति वा नाप्रणिहितम् इति वा समनुपश्यति। न संस्कृतम् इति वा नासंस्कृतम् इति वा समनुपश्यति। नोत्पन्नम् इति वा नानुत्पन्नम् इति वा समनुपश्यति। न निरुद्धम् इति वा नानिरुद्धम् इति वा समनुपश्यति। न विविक्तम् इति वा नाविविक्तम् इति वा समनुपश्यति। न कुशलम् इति वा नाकुशलम् इति वा समनुपश्यति। न सावद्यम् इति वा नानवद्यम् इति वा समनुपश्यति। न सास्रवम् इति वा नानास्रवम् इति वा समनुपश्यति। न संक्लेशम् इति वा न निःक्लेशम् इति वा समनुपश्यति। न लौकिकम् इति वा न लोकोत्तरम् इति वा समनुपश्यति। न संक्लेशम् इति वा न व्यवदाणम् इति वा समनुपश्यति। न संसारम् इति वा न निर्वानम् इति वा समनुपश्यति।}} यद् अपि घ्राणगन्ध-
10409 घ्राणविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखा-
10410 सुखं वा तद् अपि न नित्यम् इति वा नानित्यम् इति वा {{समनुपश्यति न शान्तम् इति वा नाशान्तम् इति वा समनुपश्यति। न शून्यम् इति वा नाशून्यम् इति वा समनुपश्यति। न निमित्तम् इति वा नानिमित्तम् इति वा समनुपश्यति। न प्रणिहितम् इति वा नाप्रणिहितम् इति वा समनुपश्यति। न संस्कृतम् इति वा नासंस्कृतम् इति वा समनुपश्यति। नोत्पन्नम् इति वा नानुत्पन्नम् इति वा समनुपश्यति। न निरुद्धम् इति वा नानिरुद्धम् इति वा समनुपश्यति। न विविक्तम् इति वा नाविविक्तम् इति वा समनुपश्यति। न कुशलम् इति वा नाकुशलम् इति वा समनुपश्यति। न सावद्यम् इति वा नानवद्यम् इति वा समनुपश्यति। न सास्रवम् इति वा नानास्रवम् इति वा समनुपश्यति। न संक्लेशम् इति वा न निःक्लेशम् इति वा समनुपश्यति। न लौकिकम् इति वा न लोकोत्तरम् इति वा समनुपश्यति। न संक्लेशम् इति वा न व्यवदाणम् इति वा समनुपश्यति। न संसारम् इति वा न निर्वानम् इति वा समनुपश्यति।}} यद् अपि
10411 जिह्वारसजिह्वाविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं
10412 वा अदुःखासुखं वा तद् अपि न नित्यम् इति वा नानितय्म् इति वा {{समनुपश्यति न शान्तम् इति वा नाशान्तम् इति वा समनुपश्यति। न शून्यम् इति वा नाशून्यम् इति वा समनुपश्यति। न निमित्तम् इति वा नानिमित्तम् इति वा समनुपश्यति। न प्रणिहितम् इति वा नाप्रणिहितम् इति वा समनुपश्यति। न संस्कृतम् इति वा नासंस्कृतम् इति वा समनुपश्यति। नोत्पन्नम् इति वा नानुत्पन्नम् इति वा समनुपश्यति। न निरुद्धम् इति वा नानिरुद्धम् इति वा समनुपश्यति। न विविक्तम् इति वा नाविविक्तम् इति वा समनुपश्यति। न कुशलम् इति वा नाकुशलम् इति वा समनुपश्यति। न सावद्यम् इति वा नानवद्यम् इति वा समनुपश्यति। न सास्रवम् इति वा नानास्रवम् इति वा समनुपश्यति। न संक्लेशम् इति वा न निःक्लेशम् इति वा समनुपश्यति। न लौकिकम् इति वा न लोकोत्तरम् इति वा समनुपश्यति। न संक्लेशम् इति वा न व्यवदाणम् इति वा समनुपश्यति। न संसारम् इति वा न निर्वानम् इति वा समनुपश्यति।}}
10413 यद् अपि कायस्प्रष्टव्यकायविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा
10414 दुःखं वा अदुःखासुखं वा तद् अपि न नित्यम् इति वा नानित्यम् इति
10415 वा समनुपश्यति। न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति
10416 {{समनुपश्यति न शान्तम् इति वा नाशान्तम् इति वा समनुपश्यति। न शून्यम् इति वा नाशून्यम् इति वा समनुपश्यति। न निमित्तम् इति वा नानिमित्तम् इति वा समनुपश्यति। न प्रणिहितम् इति वा नाप्रणिहितम् इति वा समनुपश्यति। न संस्कृतम् इति वा नासंस्कृतम् इति वा समनुपश्यति। नोत्पन्नम् इति वा नानुत्पन्नम् इति वा समनुपश्यति। न निरुद्धम् इति वा नानिरुद्धम् इति वा समनुपश्यति। न विविक्तम् इति वा नाविविक्तम् इति वा समनुपश्यति। न कुशलम् इति वा नाकुशलम् इति वा समनुपश्यति। न सावद्यम् इति वा नानवद्यम् इति वा समनुपश्यति। न सास्रवम् इति वा नानास्रवम् इति वा समनुपश्यति। न संक्लेशम् इति वा न निःक्लेशम् इति वा समनुपश्यति। न लौकिकम् इति वा न लोकोत्तरम् इति वा समनुपश्यति। न संक्लेशम् इति वा न व्यवदाणम् इति वा समनुपश्यति। न संसारम् इति वा न निर्वानम् इति वा समनुपश्यति।}} यद् अपि कायस्प्रष्टव्यकायविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं
10417 सुखं वा दुःखं वा अदुःखासुखं वा। तद् अपि न संसारम् इति वा न
10418 निर्वाणम् इति वा समनुपश्यति। यद् अपि मनोधर्ममनोविज्ञानसंस्पर्श-
10419 प्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि
10420 न नित्यम् इति वा नानित्यम् इति वा समनुपश्यति। न सुखम् इति
10421 न दुःखम् इति नात्मेति नानात्मेति {{समनुपश्यति न शान्तम् इति वा नाशान्तम् इति वा समनुपश्यति। न शून्यम् इति वा नाशून्यम् इति वा समनुपश्यति। न निमित्तम् इति वा नानिमित्तम् इति वा समनुपश्यति। न प्रणिहितम् इति वा नाप्रणिहितम् इति वा समनुपश्यति। न संस्कृतम् इति वा नासंस्कृतम् इति वा समनुपश्यति। नोत्पन्नम् इति वा नानुत्पन्नम् इति वा समनुपश्यति। न निरुद्धम् इति वा नानिरुद्धम् इति वा समनुपश्यति। न विविक्तम् इति वा नाविविक्तम् इति वा समनुपश्यति। न कुशलम् इति वा नाकुशलम् इति वा समनुपश्यति। न सावद्यम् इति वा नानवद्यम् इति वा समनुपश्यति। न सास्रवम् इति वा नानास्रवम् इति वा समनुपश्यति। न संक्लेशम् इति वा न निःक्लेशम् इति वा समनुपश्यति। न लौकिकम् इति वा न लोकोत्तरम् इति वा समनुपश्यति। न संक्लेशम् इति वा न व्यवदाणम् इति वा समनुपश्यति। न संसारम् इति वा न निर्वानम् इति वा समनुपश्यति।}}॥ [इति
10422 दुःखे ऽन्वयज्ञानक्षान्तिः॥]
10501 तत् कस्य हेतोः। तथा हि बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां
10502 चरन् प्रज्ञापारमितां प्रज्ञापारमितानाम तं च बोधिसत्त्वं तत् च
10503 बोधिसत्त्वनाम न समनुपश्यति। संस्कृते वा धाताव् असंस्कृते वा धातौ
10504 तथा हि सुभूते बोधिसत्त्वः प्रज्ञापारमितायां चरन् नैतान् सर्वधर्मान्
10505 कल्पयति न विकल्पयति। सो ऽविकल्पे धर्मे स्थित्वा स्मृत्युपस्थानानि
10506 भावयति। प्रज्ञापारमितायां चरन् न प्रज्ञापारमितां नापि प्रज्ञापार-
10507 मितानाम समनुपश्यति। न बोधिसत्त्वं नापि बोधिसत्त्वनाम समनु-
10508 पश्यति। एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमिता-
10509 तथागतबलवैशारद्यप्रतिसंविदष्टादशावेणिकान् बुद्धधर्मान् भावयति
10510 {{प्रज्ञापारमितायां चरन् न प्रज्ञापारमितां नापि प्रज्ञापारमितानाम समनुपश्यति। न बोधिसत्त्वं नापि बोधिसत्त्वनाम}} समनुपश्यति अन्यत्र सर्वाकारज्ञता
10511 मनसिकारात्॥ [इति दुःखे ऽन्वयज्ञानम्॥]
10512 तथा हि तेन प्रज्ञापारमितायां चरता धर्मलक्षणं प्रतिविद्धं भवति।
10513 यच् च धर्माणां लक्षणं तन् न संक्लिश्यते न व्यवदायते। एवं हि सुभूते
10514 {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां चरता नामसांकेतिकी धर्मप्रज्ञप्ति-
10515 र् अनुबोद्धव्या॥ [इति समुदये धर्मक्षान्तिः॥]
10516 स नामसांकेतिक्या धर्मप्रज्ञप्त्या अवबुध्य न रूपम् अभिनिवेक्ष्यते न
10517 वेदनाम् {अभिनिवेक्ष्यते}। न संज्ञाम् {अभिनिवेक्यते}। न संस्कारान् {अभिनिवेक्ष्यते}। न विज्ञानम् {अभिनिवेक्ष्यते}।
10601 न चक्षुर् {अभिनिवेक्ष्यते}। न रूपम् {अभिनिवेक्ष्यते}। न चक्षुर्विज्ञानम् {अभिनिवेक्ष्यते}। न चक्षुःसंस्पर्श-
10602 म् {अभिनिवेक्ष्यते}। यद् अपि चक्षुःसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अ-
10603 दुःखासुखं वा तद् अपि {नाभिनिवेक्ष्यते}। न श्रोत्रम् {अभिनिवेक्ष्यते} न शब्दं न श्रोत्रविज्ञानं न
10604 श्रोत्रसंस्पर्शं यद् अपि श्रोत्रसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा
10605 अदुःखासुखं वा तद् अपि {नाभिनिवेक्ष्यते}। {{न घ्राणम् अभिनिवेक्ष्यते न गन्धं न घ्राणविज्ञानं न घ्राणसंस्पर्शं यद् अपि घ्राणसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते। न जिह्वाम् अभिनिवेक्ष्यते न रसं न जिह्वाविज्ञानं न जिह्वासंस्पर्शं यद् अपि जिह्वासंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते।}}
10606 {{न कायम् अभिनिवेक्ष्यते न स्प्रष्टव्यं न कायं न कायविज्ञानं न कायसंस्पर्शं यद् अपि कायसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते। न मनो अभिनिवेक्ष्यते न धर्मम् न मनोविज्ञानं न मनःसंस्पर्शं यद् अपि मनःसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते।}}। नापि संस्कृतधातुम् {अभिनिवेक्ष्यते}। नाप्य् असंस्कृतधातुम् {अभिनिवेक्ष्यते}॥
10607 [इति समुदये धरम्ज्ञानम्॥]
10608 स न दानपारमिताम् अभिनिवेक्ष्यते। न शील{पारमिताम् अभिनिवेक्ष्यते}। न क्षान्ति-
10609 {पारमिताम् अभिनिवेक्ष्यते}। न वीर्य{पारमिताम् अभिनिवेक्ष्यते}। न ध्यान{पारमिताम् अभिनिवेक्ष्यते}। न प्रज्ञा{पारमिताम् अभिनिवेक्ष्यते}। न नामापि
10610 न लक्षणम् अपि तासाम् अभिनिवेक्ष्यते। न काये ऽभिनिवेक्ष्यते। ना मांस-
10611 चक्षुष्य् {अभिनिवेक्ष्यते}। न दिव्यचक्षुष्य् {अभिनिवेक्ष्यते}। न प्रज्ञाचक्षुष्य् {अभिनिवेक्ष्यते}। न धर्मचक्षु-
10612 ष्य् {अभिनिवेक्ष्यते}। न बुद्धचक्षुष्य् {अभिनिवेक्ष्यते}। नाभिज्ञास्व् {अभिनिवेक्ष्यते}। नाध्यात्मशून्यताया-
10613 म् {अभिनिवेक्ष्यते}। न बहिर्धाशून्यतायाम् {अभिनिवेक्ष्यते}। नाध्यात्मबहिर्धाशून्यतायाम् {अभिनिवेक्ष्यते}।
10614 न शून्यताशून्यतायां न महाशून्यतायां न परमार्थशून्यतायां न संस्कृत-
10615 शून्यतायां नासंस्कृतशून्यतायां नात्यन्तशून्यतायां नानवराग्रशून्यतायां
10616 नानवकारशून्यतायां न प्रकृतिशून्यतायां न सर्वधर्मशून्यतायां न स्वल-
10617 क्षणशून्यतायां नानुपलम्भशून्यतायां नाभावस्वभावशून्यतायां न भावशून्य-
10701 तायां नाभावशून्यतायां न स्वभावशून्यतायां न परभावशून्यताया-
10702 म् अभिनिवेक्ष्यते। न तथतायां न भूतकोट्यां न धर्मधातौ न सत्त्व-
10703 परिपाके न बुद्धक्षेत्रपरिशुद्धौ नोपायकौशल्ये ऽभिनिवेक्ष्यते। तत्
10704 कस्य हेतोः। तथा हि ते सर्वधर्मा न संविद्यन्ते यश् चाभिनिविक्शेत। येन
10705 चाभिनिविशेत यत्र चाभिनिविशेत॥ [इति समुदये ऽन्वयज्ञानक्षान्तिः॥]
10706 एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् अनभि-
10707 निविष्टः सर्वधर्मेषु दानपारमितया विवर्द्धते। शील{पारमितया विवर्द्धते}। क्षान्ति{पारमितया विवर्द्धते}।
10708 वीर्य{पारमितया विवर्द्धते}। ध्यान{पारमितया विवर्द्धते}। प्रज्ञा{पारमितया विवर्द्धते}। बोधिसत्त्वनियामम् अवक्रामति॥
10709 [इति समुदये ऽन्वयज्ञानम्॥]
10710 एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अविनिवर्त-
10711 नीयां भूमिम् अवक्रामति॥ [इति निरोधे धरम्ज्ञानक्षान्तिः॥]
10712 एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वो ऽभिज्ञाः परिपूरयति।
10713 अभिज्ञाः परिपूर्य बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति सत्वांश् च परिपाचयति
10714 बुद्धांश् च भगवतः सत्करोति गुरूकरोति मानयति तेनैव कुशलमूलेन
10715 तेषां बुद्धानां भगवतां चान्तिक उपपद्यते धर्मं च शृणोति श्रुताश् चास्य
10716 धर्मा न जातूच्छेत्स्यन्ते यावद् आ बोधिमण्डाद् इति धारणीमुखानि
10717 प्रतिलप्स्यते समाधिमुखानि प्रतिलप्स्यते। एवं हि सुभूते {बोधिसत्त्वेन}
10718 महासत्त्वेन र्पज्ञापारमितायां चरता नामसांकेतिकी धर्मप्रज्ञप्तिर् अनु-
10719 बोद्धव्या॥ [इति निरोधे धर्मज्ञानम्॥]
10801 तत् किं मन्यसे सुभूते यद् उच्यते {बोधिसत्त्वो} महासत्त्व इति अपि तु
10802 रूपं बोधिसत्त्व इति। वेदना बोधिसत्त्व इति। संज्ञा {बोधिसत्त्व इति}।
10803 संस्कारा {बोधिसत्त्व इति}। विज्ञानं {बोधिसत्त्व इति}। तत् किं मन्यसे सुभूते ऽन्यत्र रूपाद् बोधि-
10804 सत्त्व इति। अन्यत्र वेदनाया {बोधिसत्त्व इति}। {{अन्यत्र संज्ञाया बोधिसत्त्व इति। अन्यत्र संस्कारेभ्यो बोधिसत्त्व इति। अन्यत्र विज्ञानाद् बोधिसत्त्व इति}}। तत् किं मन्यसे सुभूते रूपे
10805 बोधिसत्त्व इति। वेदनायां {बोधिसत्त्व इति}। {{संज्ञायां बोधिसत्त्व इति। संस्कारेषु बोधिसत्त्व इति। विज्ञाने बोधिसत्त्व इति}}। तत् किं मन्यसे सुभूते
10806 बोधिसत्त्वे रूपम् इति। बोधिसत्त्वे वेदनेति। {{बोधिसत्त्वे संज्ञेति। बोधिसत्त्वे संस्कारा इति। बोधिसत्त्वे विज्ञानम् इति}}। तत् किं मन्यसे
10807 सुभूते अरूपो {बोधिसत्त्व इति}। अवेदना {बोधिसत्त्व इति}। {{असंज्ञा बोधिसत्त्व इति। असंस्कारा बोधिसत्त्व इति। अविज्ञानं बोधिसत्त्व इति}}। तत् किं मन्यसे सुभूते
10808 चक्षुर् बोधिसत्त्वो ऽन्यत्र चक्षुषश् चक्षुषि बोधिसत्त्वो बोधिसत्त्वे चक्षुर् अचक्षुष्को
10809 बोधिसत्त्व इति। श्रोत्रं बोधिसत्त्वो ऽन्यत्र श्रोत्राच् छ्रोत्रे बोधिसत्त्वो
10810 बोधिसत्त्वे श्रोत्रम् अश्रोत्रो बोधिसत्त्व इति।
10811 {{घ्राणं बोधिसत्त्वो ऽन्यत्र घ्राणाच् घ्राणे बोधिसत्त्वो बोधिसत्त्वे घ्राणम् अघ्राणो बोधिसत्त्व इति। जिह्वा बोधिसत्त्वो ऽन्यत्र जिह्वाया जिह्वायां बोधिसत्त्वो बोधिसत्त्वे जिह्वा अजिह्वो बोधिसत्त्व इति। कायो बोधिसत्त्वो ऽन्यत्र कायात् काये बोधिसत्त्वो बोधिसत्त्वे कायो ऽकायो बोधिसत्त्व इति। मनो बोधिसत्त्वो ऽन्यत्र मनसो मनसि बोधिसत्त्वो बोधिसत्त्वे मनो ऽमनना बोधिसत्त्व इति}}। सुभूतिर् आह। नो हीदम् भगवन्।
10812 भगवान् आह। तत् किं मन्यसे सुभूते रूपं बोधिसत्त्वो ऽन्यत्र रूपाद् रूपे
10813 बोधिसत्त्वो बोधिसत्त्वे रूपम् अरूपो बोधिसत्त्व इति।
10814 {{शब्दो बोधिसत्त्वो ऽन्यत्र शब्दात् शब्दे बोधिसत्त्वो बोधिसत्त्वे शब्दो अशब्दो बोधिसत्त्व इति। गन्धो बोधिसत्त्वो ऽन्यत्र गन्धाद् गन्धे बोधिसत्त्वो बोधिसत्त्वे गन्धो अगन्धो बोधिसत्त्व इति। रसो बोधिसत्त्वो ऽन्यत्र रसाद् रसे बोधिसत्त्वो बोधिसत्त्वे रसो अरसो बोधिसत्त्व इति। स्पर्शो बोधिसत्त्वो ऽन्यत्र स्पर्शाद् स्पर्शे बोधिसत्त्वो बोधिसत्त्वे स्पर्शो अस्पर्शो बोधिसत्त्व इति। धर्मो बोधिसत्त्वो ऽन्यत्र धर्माद् धर्मे बोधिसत्त्वो बोधिसत्त्वे धर्मो अधर्मो बोधिसत्त्व इति}}। तत् किं मन्यसे सुभूते
10815 चक्षूरूपचक्षुर्विज्ञानानि बोधिसत्त्वो ऽन्यत्र एभ्य एषु सः। एतानि
10816 तस्मिन् विना चक्षूरूपचक्षुर्विज्ञानैर् बोधिसत्त्व इति। तत् किं मन्यसे
10901 सुभूते श्रोत्रशब्दश्रोत्रविज्ञानानि बोधिसत्त्वो अन्यत्र एभ्य एषु सः।
10902 एतानि तस्मिन् विना श्रोत्रशब्दश्रोत्रविज्ञानैर् बोधिसत्त्व इति।
10903 {{तत् किं मन्यसे सुभूते घ्राणगन्धघ्राणविज्ञानानि बोधिसत्त्वो अन्यत्र एभ्य एषु सः। एतानि तस्मिन् विना घ्राणगन्धघ्राणविज्ञानानैर् बोधिसत्त्व इति। तत् किं मन्यसे सुभूते जिह्वारसजिह्वाविज्ञानानि बोधिसत्त्वो अन्यत्र एभ्य एषु सः। एतानि तस्मिन् विना जिह्वारसजिह्वाविज्ञानानैर् बोधिसत्त्व इति। तत् किं मन्यसे सुभूते कायस्प्रष्टव्यकायविज्ञानानि बोधिसत्त्वो अन्यत्र एभ्य एषु सः। एतानि तस्मिन् विना कायस्प्रष्टव्यकायविज्ञानानैर् बोधिसत्त्व इति।}}
10904 {{तत् किं मन्यसे सुभूते मनोधर्ममनोविज्ञानानि बोधिसत्त्वो अन्यत्र एभ्य एषु सः। एतानि तस्मिन् विना मनोधर्ममनोविज्ञानानैर् बोधिसत्त्व इति}}। सुभूतिर् आह। नो हीदं भगवन्। भग-
10905 वान् आह। तत् किं मन्यसे सुभूते पृथिवीधातुर् बोधिसत्त्वो ऽन्यत्र पृथिवी-
10906 धातोस् तत्र बोधिसत्त्व बोधिसत्त्वे पृथिवीधातुर् अपृथिवीधातुको
10907 बोधिसत्त्व इति। {{तत् किं मन्यसे सुभूते अब्धातुर् बोधिसत्त्वो ऽन्यत्र अब्धातोस् तत्र बोधिसत्त्व बोधिसत्त्वे अब्धातुर् अनब्धातुको बोधिसत्त्व इति। तत् किं मन्यसे सुभूते तेजोधातुर् बोधिसत्त्वो ऽन्यत्र तेजोधातोस् तत्र बोधिसत्त्व बोधिसत्त्वे तेजोधातुर् अतेजोधातुको बोधिसत्त्व इति। तत् किं मन्यसे सुभूते वायुधातुर् बोधिसत्त्वो ऽन्यत्र वायुधातोस् तत्र बोधिसत्त्व बोधिसत्त्वे वायुधातुर् अवायुधातुको बोधिसत्त्व इति।}}
10908 {{तत् किं मन्यसे सुभूते आकाशधातुर् बोधिसत्त्वो ऽन्यत्र आकाशधातोस् तत्र बोधिसत्त्व बोधिसत्त्वे आकाशधातुर् अनाकाशधातुको बोधिसत्त्व इति। तत् किं मन्यसे सुभूते विज्ञानधातुर् बोधिसत्त्वो ऽन्यत्र विज्ञानधातोस् तत्र बोधिसत्त्व बोधिसत्त्वे विज्ञानधातुर् अविज्ञानधातुको बोधिसत्त्व इति}}। सुभूतिर् आह। नो हीदं भगवन्।
10909 भगवान् आह। तत् किं मन्यसे सुभूते अविद्या बोधिसत्त्वो ऽन्यत्राविद्यायाः
10910 अविद्यायां बोधिसत्त्वो बोधिसत्ते ऽविद्या ऽनविद्या बोधिसत्त्व इति। तत्
10911 किं मन्यसे सुभूते संस्कारा बोधिसत्त्वो ऽन्यत्र संस्कारेभ्यः संस्कारेषु
10912 बोधिसत्त्वो बोधिसत्त्वे संस्कारा असंस्कारा बोधिसत्त्व इति।
10913 {{तत् किं मन्यसे सुभूते विज्ञानं बोधिसत्त्वो ऽन्यत्र विज्ञानाद् विज्ञाने बोधिसत्त्वो बोधिसत्त्वे विज्ञानम् अविज्ञानं बोधिसत्त्व इति। तत् किं मन्यसे सुभूते नामरूपं बोधिसत्त्वो ऽन्यत्र नामरूपाद् नामरूपे बोधिसत्त्वो बोधिसत्त्वे नामरूपं अनामरूपं बोधिसत्त्व इति। तत् किं मन्यसे सुभूते षडायतनानि बोधिसत्त्वो ऽन्यत्र षडायतनानेभ्यः षडायतनानेषु बोधिसत्त्वो बोधिसत्त्वे षडायतनान्य् अषडायतनानि बोधिसत्त्व इति। तत् किं मन्यसे सुभूते स्पर्शो बोधिसत्त्वो ऽन्यत्र स्पर्शात् स्पर्शे बोधिसत्त्वो बोधिसत्त्वे स्पर्शो ऽस्पर्शो बोधिसत्त्व इति। तत् किं मन्यसे सुभूते वेदना बोधिसत्त्वो ऽन्यत्र वेदनाया वेदनायां बोधिसत्त्वो बोधिसत्त्वे वेदना अवेदना बोधिसत्त्व इति। तत् किं मन्यसे सुभूते तृष्णा बोधिसत्त्वो ऽन्यत्र तृष्णायाः तृष्णायां बोधिसत्त्वो बोधिसत्त्वे तृष्णा अतृष्णा बोधिसत्त्व इति। तत् किं मन्यसे सुभूते उपादानं बोधिसत्त्वो ऽन्यत्र उपादानाद् उपादाने बोधिसत्त्वो बोधिसत्त्वे उपादानम् अनुपादानं बोधिसत्त्व इति।}}
10914 {{तत् किं मन्यसे सुभूते भवो बोधिसत्त्वो ऽन्यत्र भवाद् भवे बोधिसत्त्वो बोधिसत्त्वे भवो ऽभवो बोधिसत्त्व इति। तत् किं मन्यसे सुभूते जातिर् बोधिसत्त्वो ऽन्यत्र जातेर् जातौ बोधिसत्त्वो बोधिसत्त्वे जातिर् अजातिर् बोधिसत्त्व इति। तत् किं मन्यसे सुभूते जरामरणं बोधिसत्त्वो ऽन्यत्र जरामरणाद् जरामरणे बोधिसत्त्वो बोधिसत्त्वे जरामरणम् अजरामरणं बोधिसत्त्व इति}}। सुभूतिर् आह। नो हीदं भगवन्॥ [इति
10915 निरोधे ऽन्वयज्ञानक्षान्तिः॥]
10916 भगवान् आह। तत् किं मन्यसे सुभूते ऽपि नु या रूपस्य तथता सा
10917 बोधिसत्त्वो ऽन्यत्र रूपतथतायां रूपतथतायां बोधिसत्त्वो बोधिसत्त्वे रूप-
10918 तथता अरूपतथता बोधिसत्त्व इति। तत् किं मन्यसे सुभूते या
10919 वेदनातथता सा बोधिसत्त्वो ऽन्यत्र वेदनातथताया वेदनातथतायां
10920 बोधिसत्त्वो बोधिसत्त्वे वेदनातथता अवेदनातथता बोधिसत्त्व इति।
10921 {{तत् किं मन्यसे सुभूते या संज्ञातथता सा बोधिसत्त्वो ऽन्यत्र संज्ञातथताया संज्ञातथतायां बोधिसत्त्वो बोधिसत्त्वे संज्ञातथता असंज्ञातथता बोधिसत्त्व इति। तत् किं मन्यसे सुभूते या संस्कारतथता सा बोधिसत्त्वो ऽन्यत्र संस्कारतथताया संस्कारतथतायां बोधिसत्त्वो बोधिसत्त्वे संस्कारतथता असंस्कारतथता बोधिसत्त्व इति। तत् किं मन्यसे सुभूते या विज्ञानतथता सा बोधिसत्त्वो ऽन्यत्र विज्ञानतथताया विज्ञानतथतायां बोधिसत्त्वो बोधिसत्त्वे विज्ञानतथता अविज्ञानतथता बोधिसत्त्व इति।}}
11001 सुभूतिर् आह। नो हीदं भगवन्। भगवान् आह। तत् किं मन्यसे सुभूते
11002 यदि व्यस्तेषु न बोधिसत्त्वः समस्तेषु भवतु या स्कन्धतथता सा
11003 बोधिसत्त्वो ऽन्यत्र स्कन्धतथतायाः स्कन्धतथतायां बोधिसत्त्वो बोधिसत्त्वे
11004 स्कन्धतथता अस्कन्धतथता बोधिसत्त्व इति। सुभूतिर् आह। नो हीदं
11005 भगवन्। भगवान् आह। तत् किं मन्यसे सुभूते या चक्षूरूपचक्षु-
11006 र्विज्ञानतथता सा बोधिसत्त्वो ऽन्यत्र चक्षूरूपचक्षुर्विज्ञानतथतायाश् चक्षु-
11007 रूपचक्षुर्विज्ञानतथतायां बोधिसत्त्वो बोधिसत्त्वे चक्षूरूपचक्षुर्विज्ञान-
11008 तथता अचक्षूरूपचक्षुर्विज्ञानतथता बोधिसत्त्व इति। एवं श्रोत्रशब्द-
11009 श्रोत्रविज्ञानतथता, घ्राणगन्धघ्राणविज्ञानतथता, जिह्वारसजिह्वाविज्ञान-
11010 तथता कायस्प्रष्टव्यकायविज्ञानतथता, मनोधर्मममोविज्ञानतथता॥
11011 सुभूतिर् आह। नो हीदं भगवन्। भगवान् आह। तत् किं मन्यसे सुभूते या
11012 पृथिवीधातुतथता सा बोधिसत्त्वो ऽन्यत्र पृथिवीधातुतथतायाः पृथिवी-
11013 धातुतथतायां बोधिसत्त्वो बोधिसत्त्वे पृथिवीधातुतथता अपृथिवीधातु-
11014 तथता बोधिसत्त्व इति। {{तत् किं मन्यसे सुभूते या अब्धातुतथता सा बोधिसत्त्वो ऽन्यत्र अब्धातुतथताया अब्धातुतथतायां बोधिसत्त्वो बोधिसत्त्वे अब्धातुतथता अनब्धातुतथता बोधिसत्त्व इति। तत् किं मन्यसे सुभूते या तेजोधातुतथता सा बोधिसत्त्वो ऽन्यत्र तेजोधातुतथतायाः तेजोधातुतथतायां बोधिसत्त्वो बोधिसत्त्वे तेजोधातुतथता अतेजोधातुतथता बोधिसत्त्व इति।}}
11015 {{तत् किं मन्यसे सुभूते या वायुधातुतथता सा बोधिसत्त्वो ऽन्यत्र वायुधातुतथतायाः वायुधातुतथतायां बोधिसत्त्वो बोधिसत्त्वे वायुधातुतथता अवायुधातुतथता बोधिसत्त्व इति। तत् किं मन्यसे सुभूते याकाशधातुतथता सा बोधिसत्त्वो ऽन्यत्र आकाशधातुतथतायाः आकाशधातुतथतायां बोधिसत्त्वो बोधिसत्त्वे आकाशधातुतथता अनाकाशधातुतथता बोधिसत्त्व इति। तत् किं मन्यसे सुभूते विज्ञानधातुतथता सा बोधिसत्त्वो ऽन्यत्र विज्ञानधातुतथतायाः विज्ञानधातुतथतायां बोधिसत्त्वो बोधिसत्त्वे विज्ञानधातुतथता अविज्ञानधातुतथता बोधिसत्त्व इति।}}
11016 सुभूतिर् आह। नो हीदं भगवन्। भगवान् आह। तत् किं मन्यसे सुभूते
11017 यदि व्यस्तेषु धातुषु न बोधिसत्त्वः समस्तेषु
11018 {{भवतु या धातुतथता सा बोधिसत्त्वो ऽन्यत्र धातुतथतायाः धातुतथतायां बोधिसत्त्वो बोधिसत्त्वे धातुतथता अधातुतथता बोधिसत्त्व इति}} । सुभूतिर् आह। नो हीदं भगवन्। भग-
11019 वान् आह। तत् किं मन्यसे सुभूते या चक्षुस्तथता सा बोधिसत्त्वो
11020 ऽन्यत्र चक्षुस्तथतायाश् चक्षुस्तथतायां बोधिसत्त्वो बोधिसत्त्वे चक्षुस्तथता
11021 अचक्षुस्तथता बोधिसत्त्व इति। एवं या श्रोत्रतथता घ्राणतथता जिह्वा-
11022 तथता कायतथता। तत् किं मन्यसे सुभूते या मनस्तथता सा बोधि-
11023 सत्त्वो ऽन्यत्र मनस्तथताया मनस्तथतायां बोधिसत्त्वो बोधिसत्त्वे मनस्तथता
11101 अमनस्तथता बोधिसत्त्व इति। {{तत् किं मन्यसे सुभूते या रूपतथता सा बोधिसत्त्वो ऽन्यत्र रूपतथताया रूपतथतायां बोधिसत्त्वो बोधिसत्त्वे रूपतथता अरूपतथता बोधिसत्त्व इति। तत् किं मन्यसे सुभूते या शब्दतथता सा बोधिसत्त्वो ऽन्यत्र शब्दतथताया शब्दतथतायां बोधिसत्त्वो बोधिसत्त्वे शब्दतथता अशब्दतथता बोधिसत्त्व इति।}}
11102 {{तत् किं मन्यसे सुभूते या गन्धतथता सा बोधिसत्त्वो ऽन्यत्र गन्धतथताया गन्धतथतायां बोधिसत्त्वो बोधिसत्त्वे गन्धतथता अगन्धतथता बोधिसत्त्व इति। तत् किं मन्यसे सुभूते या रसतथता सा बोधिसत्त्वो ऽन्यत्र रसतथताया रसतथतायां बोधिसत्त्वो बोधिसत्त्वे रसतथता अरसतथता बोधिसत्त्व इति। तत् किं मन्यसे सुभूते या स्प्रष्टव्यतथता सा बोधिसत्त्वो ऽन्यत्र स्प्रष्टव्यतथताया स्प्रष्टव्यतथतायां बोधिसत्त्वो बोधिसत्त्वे स्प्रष्टव्यतथता अस्प्रष्टव्यतथता बोधिसत्त्व इति। तत् किं मन्यसे सुभूते या धर्मतथता सा बोधिसत्त्वो ऽन्यत्र धर्मतथताया धर्मतथतायां बोधिसत्त्वो बोधिसत्त्वे धर्मतथता अधर्मतथता बोधिसत्त्व इति}}। यदि सुभूते व्यस्तेष्व् आयतनेषु न
11103 बोधिसत्त्वः समस्तेषु भवतु या सुभूते आयतनतथता सा बोधिसत्त्वो
11104 ऽन्यत्रायतनतथताया आयतनतथतायां बोधिसत्त्वो बोधिसत्त्वे आयतन-
11105 तथता अनायतनतथता बोधिसत्त्व इति। {सुभूतिर् आह। नो हीदं भगवन्}। {भागवान् आह। तत् किं मन्यसे सुभूते}। अविद्यातथता
11106 सा बोधिसत्त्वो ऽन्यत्राविद्यातथताया अविद्यातथतायां बोधिसत्त्वो
11107 बोधिसत्त्वे अविद्यातथता अनविद्यातथता बोधिसत्त्वः। एवं या
11108 संस्कारतथता विज्ञानतथता नामरूपतथता षडायतनतथता स्पर्श-
11109 तथता वेदनातथता तृष्णातथता उपादानतथता भवतथता जातितथता
11110 जरामरणतथता। यदि व्यस्तेषु प्रतीत्यसमुत्पादाङ्गेषु न बोधिसत्त्वः
11111 समस्तेषु भवतु या प्रतीत्यसमुत्पादतथता बोधिसत्त्वो ऽन्यत्र प्रतीत्य-
11112 समुत्पादतथतायाः प्रतीत्यसमुत्पादतथतायां बोधिसत्त्वो बोधिसत्त्वे
11113 प्रतीत्यसमुत्पादतथता अप्रतीत्यसमुत्पादतथता बोधिसत्त्व इति। {सुभूतिर् आह। नो हीदं भगवन्}।
11114 किं पुनस् त्वं सुभूते ऽर्थवशम् उपादायेवं वदसि। न रूपं बोधिसत्त्व
11115 इति न वेदना न संज्ञा न संस्कारा न विज्ञानं, न पृथिवीधातुर् नाब्धातुर् न
11116 तेजोधातुर् न वायुधातुर् नाकाशधातुर् न विज्ञानधातुः, न रूपाणि न शब्दा न
11117 गन्धा न रसा न स्प्रष्टव्यानि न धर्माः, न चक्षुर् न श्रोत्रं न घ्राणं न जिह्वा न
11118 कायो न मनः, न चक्षूरूपचक्षुर्विज्ञानं न श्रोत्रशब्दश्रोत्रविज्ञानं न
11119 घ्राणगन्धघ्राणविज्ञानं न जिह्वारसजिह्वाविज्ञानं न कायस्प्रष्टव्यकाय-
11120 विज्ञानं न मनोधर्ममनोविज्ञानं नाविद्या एवं न संस्कारविज्ञाननामरूप-
11121 षडायतनस्पर्शवेदनातृष्णोपादानभवजातिजरामरणं बोधिसत्त्व इति
11122 यावन् न स्कन्धधात्वायतनप्रतीत्यसमुत्पादो बोधिसत्त्व इति। न रूप-
11201 तथता बोधिसत्त्व इति। न वेदनातथता {{न संज्ञातथता न संस्कारतथता}} न विज्ञानतथता,
11202 न पृथिवीधातुतथता {{नाब्धातुतथता न तेजोधातुतथता न वायुधातुतथता नाकाशधातुतथता}} न विज्ञानधातुतथता, न चक्षूस्तथता
11203 {{न श्रोत्रतथता न घ्राणतथता न जिह्वातथता न कायतथता}} न मनस्तथता न रूपतथता {{न शब्दतथता न गन्धतथता न रसतथता न स्प्रष्टव्यतथता}} न धर्मतथता न चक्षू-
11204 रूपचक्षुर्विज्ञानतथता {{न श्रोत्रशब्दश्रोत्रविज्ञानतथता न घ्राणगन्धघ्राणविज्ञानतथता न जिह्वारसजिह्वाविज्ञानतथता न कायस्प्रष्टव्यकायविज्ञानतथता}} न मनोधर्मनोमनोविज्ञानतथता नाविद्या-
11205 तथता {{न संस्कारतथता न विज्ञानतथता न नामरूपतथता न षडायतनतथता न स्पर्शतथता न वेदनातथता न तृष्णातथता न उपादानतथता न भवतथता न जातितथता}} न जरामरणतथता, यावन् न स्कन्धधात्वायतनतथता न
11206 प्रतीत्यसमुत्पादतथता बोधिसत्त्व इति। सुभूतिर् आह। अत्यन्ततया
11207 भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते। तत् कुतो रूपं बोधिसत्त्वो
11208 भविष्यति। वेदना संज्ञा संस्कारा विज्ञानम् बोधिसत्त्वो भविष्यति।
11209 अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते। तत् कुतः
11210 पृथिवीधातु बोधिसत्त्वो भविष्यति। एवम् अब्धातुस् तेजोधातुर् वायुधातुर् आकाश-
11211 धातुर् विज्ञानधातुर् बोधिसत्त्वो भविष्यति। {अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते}। तत् कुतो रूपम् बोधि-
11212 सत्त्वो भविष्यति। एवं शब्दो {{गन्धो रसो स्प्रष्टव्यम्}} धर्मो बोधिसत्त्वो भविष्य-
11213 त्य् एवञ् चक्षुः श्रोत्रं {{घ्राणं जिह्वा कायो}} मनो बोधिसत्त्वो भविष्यति। तत् कुतश् चक्षूरूप-
11214 चक्षुर्विज्ञानानि बोधिसत्त्वो भविष्यति। एवं श्रोत्रशब्दश्रोत्रविज्ञानानि
11215 {{घ्राणगन्धघ्राणविज्ञानानि जिह्वारसजिह्वाविज्ञानानि कायस्प्रष्टव्यकायविज्ञानानि}} मनोधर्ममनोविज्ञानानि बोधिसत्त्वो भविष्यति। अविद्या
11216 बोधिसत्त्वो भविष्यति। एवं संस्कारा विज्ञानं {{नामरूपं षडायतनानि स्पर्शो वेदना तृष्णा उपादानं भवो जातिर्}} जरामरणं बोधिसत्त्वो
11217 भविष्यति। {अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते}। तत् कुतः पुनर् अस्य रूपतथता उपलभ्यते। वेदनातथता
11218 {{संज्ञातथता संस्कारतथता}} विज्ञानतथता उपलभ्यते। {अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते।} तत् कुतः पृथिवीधातुतथतोप-
11219 लभ्यते। एवम् अब्धातु{{तथतोपलभ्यते तेजोधातुतथतोपलभ्यते वायुधातुतथतोपलभ्यते आकाशधातुतथतोपलभ्यते}} विज्ञानधातुतथतोपलभ्यते। {अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते।} तत् कुतो
11220 रूपतथतोपलभ्यते। एवं शब्द{{तथतोपलभ्यते गन्धरथतोपलभ्यते रसतथतोपलभ्यते स्प्रष्टव्यतथतोपलभ्यते}} धर्म्मतथतोपलभ्यते। एवं चक्षु-
11221 स्तथत्{{ओपलभ्यते श्रोत्रतथतोपलभ्यते घ्राणतथतोपलभ्यते जिह्वातथतोपलभ्यते कायतथतोपलभ्यते}} मनस्तथतोपलभ्यते। एवं चक्षूरूपचक्षुर्विज्ञानतथतो-
11301 पलप्स्यते {{श्रोत्रशब्दश्रोत्रविज्ञानतथतोपलप्स्यते घ्राणगन्धघ्राणविज्ञानतथतोपलप्स्यते जिह्वारसजिह्वाविज्ञानतथतोपलप्स्यते कायस्प्रष्टव्यकायविज्ञानतथतोपलप्स्यते}} मनोधरम्मनोविजाञ्नतथतोपलप्स्यते। {अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते।} तत्
11302 कुतो ऽस्याविद्यातथतोपलप्स्यते। एवं संस्कारतथत्{{ओपलप्स्यते विज्ञानतथतोपलप्स्यते नामरूपतथतोपलप्स्यते षडायतनतथतोपलप्स्यते स्पर्शतथतोपलप्स्यते वेदनातथतोपलप्स्यते तृष्णातथतोपलप्स्यते उपादानतथतोपलप्स्यते भवतथतोपलप्स्यते जातितथतोपलप्स्यते}} जरामरणतथतोपल-
11303 प्स्यते। एवम् एकैकशः स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु व्यस्तसमस्तेषु {अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते।}
11304 तत् कुतो ऽस्य स्कन्धधात्वायतनप्रतीत्यसमुत्पादतथतोपलप्स्यते। नैतत् स्थानं
11305 विद्यते। भगवान् आह। साधु साधु सुभूते। एवं खलु सुभूते {बोधिसत्त्वेन}
11306 महासत्त्वेन सत्त्वानुपलब्ध्या प्रज्ञापारमितानुपलब्धौ शिक्षितव्यम्॥ [इति
11307 निरोधे ऽन्वयज्ञानम्॥]
11308 भगवान् आह। तत् किं मन्यसे सुभूते रुपस्यैतद् अधिवचनं बोधिसत्त्व
11309 इति। वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यैतद् अधिवचनं बोधिसत्त्व
11310 इति। सुभूतिर् आह। नो हीदं भगवन्। भगवान् आह। तत् किं मन्यसे
11311 सुभूते रूपनित्यताया रूपानित्यताया एतद् अधिवचनं बोधिसत्त्व इति।
11312 रूपसुखताया रूपदुःखताया रूपात्मताया रूपात्मताया रूपशान्तताया
11313 रूपशान्तताया एतद् अधिवचनं बोधिसत्त्व इति। तत् किं मन्यसे सुभूते
11314 वेदनानित्यताया वेदनाऽनित्यताया एतद् अधिवचनं बोधिसत्त्व इति। वेदना-
11315 सुखताया वेदनादुःखताया वेदनात्मताया वेदनाऽनात्मताया वेदनाशान्त-
11316 ताया वेदनाऽशान्तताया एवद् अधिवचनं बोधिसत्त्व इति।
11317 {{संज्ञासुखताया संज्ञादुःखताया संज्ञात्मताया संज्ञाऽनात्मताया संज्ञाशान्तताया संज्ञाऽशान्तताया एवद् अधिवचनं बोधिसत्त्व इति। संस्कारसुखताया संस्कारदुःखताया संस्कारात्मताया संस्कारानात्मताया संस्कारशान्तताया संस्काराशान्तताया एवद् अधिवचनं बोधिसत्त्व इति। विज्ञानसुखताया विज्ञानदुःखताया विज्ञानात्मताया विज्ञानानात्मताया विज्ञानशान्तताया विज्ञानाशान्तताया एवद् अधिवचनं बोधिसत्त्व इति}}। तत् किं मन्यसे सुभूते रूपशून्यताया
11318 रूपाशून्यताया रूपनिमित्तताया रूपानिमित्तताया रूपप्रणिहितताया रूपा-
11319 प्रणिहितताया एतद् अधिवचनं बोधिसत्त्व इति। एवं वेदना संज्ञा संस्काराः।
11320 तत् किं मन्यसे सुभूते विज्ञानशून्यताया विज्ञानाशून्यताया विज्ञाननिमित्त-
11321 ताया विज्ञानानिमित्तताया विज्ञानप्रणिहिततताया विज्ञानाप्रणिहितताया
11322 एतद् अधिवचनं बोधिसत्त्व इति। सुभूतिर् आह। नो हीदं भगवन्। भगवान् आह।
11323 किं पुनस् त्वं सुभूते ऽर्थवशं प्रतीत्य एवं वदसि। न रूपस्य नित्यताधिवचनं
11324 अनित्यताधिवचनं बोधिसत्त्व इति। एवं न सुखा{धिवचनं} न दुःखा{धिवचनं}
11401 नात्मा{धिवचनं} नानात्मा{धिवचनं} नानात्मा{धिवचनं} न शान्ता{धिवचनं} न शून्यता{धिवचनं}
11402 नाशून्यता{धिवचनं} न निमित्ता{धिवचनं} नानिमित्ता{धिवचनं} न रूपस्य प्रणिहिता{धिवचनं}
11403 नाप्रणिहिता{धिवचनं} बोधिसत्त्व इति। न वेदनाया नित्या{धिवचनं}
11404 {{अनित्यताधिवचनं बोधिसत्त्व इति। एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न वेदनाया प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व इति। न संज्ञाया नित्याधिवचनम् अनित्यताधिवचनं बोधिसत्त्व इति। एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न संज्ञाया प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व इति। न संस्काराणां नित्याधिवचनम् अनित्यताधिवचनं बोधिसत्त्व इति। एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न संस्काराणां प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व इति। न विज्ञानस्य नित्याधिवचनम् अनित्यताधिवचनं बोधिसत्त्व इति। एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न विज्ञानस्य प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व इति।}}
11405 सुभूतिर् आह। अत्यन्तया रूपं न विद्यते नोपलभ्यते। कुती रूपाधिवचनं
11406 बोधिसत्त्वो भविष्यति। अत्यन्ततया भगवन्न् अनितय्ं न विद्यते नोपलभ्यते।
11407 कुतो वेदनाधिवचनं बोधिसत्त्वो भविष्यति। {{अत्यन्ततया भगवन्न् अनितय्ं न विद्यते नोपलभ्यते।}}
11408 {{कुतो संज्ञाधिवचनं बोधिसत्त्वो भविष्यति। अत्यन्ततया भगवन्न् अनितय्ं न विद्यते नोपलभ्यते। कुतो संस्काराधिवचनं बोधिसत्त्वो भविष्यति। अत्यन्ततया भगवन्न् अनितय्ं न विद्यते नोपलभ्यते। कुतो विज्ञानाधिवचनं बोधिसत्त्वो भविष्यति। अत्यन्ततया भगवन्न् अनितय्ं न विद्यते नोपलभ्यते।}}
11409 अत्यन्ततया भगवन् नित्यं न विद्यते नोपलभ्यते। कुतो रूपानित्यताधि-
11410 वचनं बोधिसत्त्वो भविष्यति। अत्यन्ततया भगवन्न् अनित्यं न विद्यते नोपलभ्यते।
11411 कुतो रूपानित्यताधिवचनं बोधिसत्त्वो भविष्यति। एवं न सुखाधिवचनं
11412 न दुःखा{धिवचनं} नात्मा{धिवचनं} नानात्मा{धिवचनं} शान्ता{धिवचनं} नाशान्ता{धिवचनं} न
11413 शून्यता{धिवचनं} नाशून्यता{धिवचनं} न निमित्ता{धिवचनं} नानिमित्ता{धिवचनं} न प्रणि-
11414 हिता{धिवचनं} नाप्रणिहिता{धिवचनं} बोधिसत्त्वो भविष्यति। एवं वेदनासंज्ञा-
11415 संस्काराः। अत्यन्ततया भगवन् नित्यं न विद्यते नोपलभ्यते। कुतो
11416 विज्ञाननित्यता{धिवचनं} बोधिसत्त्वो भविष्यति। अत्यन्ततया भगवन् नित्यं न
11417 विद्यते नोपलभ्यते। कुतो विज्ञानानित्यताधिवचनं बोधिसत्त्वो भविष्यति। एवं
11418 न स्कुहाधिवचनं {{न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न रूपस्य प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व भविष्यति।}} भगवान् आह।
11419 साधु साधु सुभूते। एवं हि सुभूते {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां चरता
11420 रूपाधिवचनम् अनुपलम्भमानेन वेदना{धिवचनम् अनुपलम्भमानेन} संज्ञा{धिवचनम् अनुपलम्भमानेन} संस्कारा{धिवचनम् अनुपलम्भमानेन} विज्ञाना{धिवचनम् अनुपलम्भमानेन}
11421 रूपस्य नित्यानित्या{धिवचनम् अनुपलम्भमानेन} सुखदुःखा{धिवचनम् अनुपलम्भमानेन} शान्ताशान्ता{धिवचनम् अनुपलम्भमानेन} शून्यताशून्यता{धिवचनम् अनुपलम्भमानेन}
11422 निमित्तानिमित्ता{धिवचनम् अनुपलम्भमानेन} प्रणिहिताप्रणिहिता{धिवचनम् अनुपलम्भमानेन}। वेदनाया नित्या{{नित्याधिवचनम् अनुपलम्भमानेन सुखदुःखाधिवचनम् अनुपलम्भमानेन शान्ताशान्ताधिवचनम् अनुपलम्भमानेन शून्यताशून्यताधिवचनम् अनुपलम्भमानेन निमित्तानिमित्ताधिवचनम् अनुपलम्भमानेन प्रणिहिताप्रणिहिताधिवचनम् अनुपलम्भमानेन।}}
11423 संज्ञाया नित्या{{नित्याधिवचनम् अनुपलम्भमानेन सुखदुःखाधिवचनम् अनुपलम्भमानेन शान्ताशान्ताधिवचनम् अनुपलम्भमानेन शून्यताशून्यताधिवचनम् अनुपलम्भमानेन निमित्तानिमित्ताधिवचनम् अनुपलम्भमानेन प्रणिहिताप्रणिहिताधिवचनम् अनुपलम्भमानेन।}} संस्काराणां नित्या{{नित्याधिवचनम् अनुपलम्भमानेन सुखदुःखाधिवचनम् अनुपलम्भमानेन शान्ताशान्ताधिवचनम् अनुपलम्भमानेन शून्यताशून्यताधिवचनम् अनुपलम्भमानेन निमित्तानिमित्ताधिवचनम् अनुपलम्भमानेन प्रणिहिताप्रणिहिताधिवचनम् अनुपलम्भमानेन।}} विज्ञानस्य
11424 नित्या{{नित्याधिवचनम् अनुपलम्भमानेन सुखदुःखाधिवचनम् अनुपलम्भमानेन शान्ताशान्ताधिवचनम् अनुपलम्भमानेन शून्यताशून्यताधिवचनम् अनुपलम्भमानेन निमित्तानिमित्ताधिवचनम् अनुपलम्भमानेन प्रणिहिताप्रणिहिताधिवचनम् अनुपलम्भमानेन।}} प्रज्ञापारमितायां शिक्षितव्यम्॥ [इति मार्गे धर्मज्ञानक्षान्तिः॥]
11501 यद् अपि सुभूते एवं वदसि। नाहं तं धर्मं समनुपश्यामि यद् उत बोधिसत्त्व
11502 इति। न हि सुभूते धर्मो धर्मधातुं समनुपश्यति। नापि धरम्धातुर् धर्मं
11503 समनुपश्यति॥ [इति मार्गे धर्मज्ञानम्॥]
11504 न सुभूते रूपधातु धर्मधातुं समनुपश्यति। नापि धर्मधातू रूपधातुं
11505 समनुपश्यति। न वेदनाधातुर् धर्मधातुं समनुपश्यति। नापि धर्मधातु-
11506 र् वेदनाधातुं समनुपश्यति {{न संज्ञाधातुर् धर्मधातुं समनुपश्यति। नापि धर्मधातुर् संज्ञाधातुं समनुपश्यति। न संस्कारधातुर् धर्मधातुं समनुपश्यति। नापि धर्मधातुर् संस्कारधातुं समनुपश्यति। न विज्ञानधातुर् धर्मधातुं समनुपश्यति। नापि धर्मधातुर् विज्ञानधातुं समनुपश्यति।}}
11507 {{न चक्षुर्धातुर् धर्मधातुं समनुपश्यति। नापि धर्मधातुर् चक्षुर्धातुं समनुपश्यति। न श्रोत्रधातुर् धर्मधातुं समनुपश्यति। नापि धर्मधातुर् श्रोत्रधातुं समनुपश्यति। न घ्राणधातुर् धर्मधातुं समनुपश्यति। नापि धर्मधातुर् घ्राणधातुं समनुपश्यति। न जिह्वाधातुर् धर्मधातुं समनुपश्यति। नापि धर्मधातुर् जिह्वाधातुं समनुपश्यति। न कायधातुर् धर्मधातुं समनुपश्यति। नापि धर्मधातुर् कायधातुं समनुपश्यति। न मनोधातुर् धर्मधातुं समनुपश्यति। नापि धर्मधातुर् मनोधातुं समनुपश्यति। न रूपधातुर् धर्मधातुं समनुपश्यति। नापि धर्मधातुर् रूपधातुं समनुपश्यति। न शब्दधातुर् धर्मधातुं समनुपश्यति। नापि धर्मधातुर् शब्दधातुं समनुपश्यति। न गन्धधातुर् धर्मधातुं समनुपश्यति। नापि धर्मधातुर् गन्धधातुं समनुपश्यति। न रसधातुर् धर्मधातुं समनुपश्यति। नापि धर्मधातुर् रसधातुं समनुपश्यति। न स्प्रष्टव्यधातुर् धर्मधातुं समनुपश्यति। नापि धर्मधातुर् स्प्रष्टव्यधातुं समनुपश्यति। न धर्मधातुर् धर्मधातुं समनुपश्यति। नापि धर्मधातुर् धर्मधातुं समनुपश्यति।}}॥ [इति मार्गे ऽन्वयज्ञानक्षान्तिः]
11508 न सुभूते संस्कृतधातुर् असंस्कृतधातुं समनुपश्यति। नाप्य् असंस्कृतधातुः
11509 संस्कृतधातुं समनुपश्यति॥ [इति मार्गे ऽन्वयज्ञानम्॥] [इति दर्शनमार्गाववादः॥]
11510 न च सुभूते संस्कृतव्यतिरेकेणासंस्कृतं शक्यं प्रज्ञपयितुम्। नाप्य् असंस्कृत-
11511 व्यतिरेकेण संस्कृतं शक्यं प्रज्ञपयितुम्। एवं हि सुभूते महासत्त्वः प्रज्ञा-
11512 पारमितायां चरन् न कश्चिद् धर्मं समअनुपश्यति। असमनुपश्यन् नोत्त्रस्यति न
11513 सन्त्रस्यति न सन्त्रासम् आपद्यते। न चास्य क्वचिद् धर्मे चित्तम् अवलीयते। न
11514 विप्रतिसारी भवति मानसम्। तत् कस्य हेतोः। तथा हि सुभूते महासत्त्वः
11515 प्रज्ञापारमितायां चरन् रूपं न समनुपश्यति। वेदनां न समनुपश्यति।
11516 {{संज्ञां न समनुपश्यति। संस्कारान् न समनुपश्यति। विज्ञानं न समनुपश्यति। चक्षुर् न समनुपश्यति। श्रोत्रं न समनुपश्यति। घ्राणं न समनुपश्यति। जिह्वां न समनुपश्यति। कायं न समनुपश्यति। मनो न समनुपश्यति। रूपं न समनुपश्यति। शब्दं न समनुपश्यति। गन्धं न समनुपश्यति। रसं न समनुपश्यति। स्प्रष्टव्यं न समनुपश्यति। धर्मं न समनुपश्यति। चक्षुर्विज्ञानधातुं न समनुपश्यति। श्रोत्रविज्ञानधातुं न समनुपश्यति। घ्राणविज्ञानधातुं न समनुपश्यति। जिह्वाविज्ञानधातुं न समनुपश्यति। मनोविज्ञानधातुं न समनुपश्यति। अविद्यां न समनुपश्यति। संस्कारं न समनुपश्यति। विज्ञानं न समनुपश्यति। नामरूपं न समनुपश्यति। षडायतनं न समनुपश्यति। स्पर्शं न समनुपश्यति। वेदनां न समनुपश्यति। तृष्णां न समनुपश्यति। उपादानं न समनुपश्यति। भवं न समनुपश्यति। जातिं न समनुपश्यति। जरामरणं न समनुपश्यति।}}
11517 रागं न समनुपश्यति। द्वेषं न {समनुपश्यति}। मोहं न {समनुपश्यति}। आत्मानं
11518 न {समनुपश्यति}। सत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकान् न {समनुपश्यति}।
11519 कामधातुं न {समनुपश्यति}। रूपधातुं न {समनुपश्यति}। आरूप्यधातुं न {समनुपश्यति}। आकाशधातुं
11601 न {समनुपश्यति}। श्रावकं न {समनुपश्यति}। प्रत्येकबुद्धं न {समनुपश्यति}। बोधिसत्त्वं न {समनुपश्यति}। श्रावकधर्मान्
11602 न {समनुपश्यति}। प्रत्येकबुद्धधर्मान् न {समनुपश्यति}। बोधिसत्त्वधर्मान् न {समनुपश्यति}। बुद्धं न {समनुपश्यति}।
11603 बुद्धधर्मान् न {समनुपश्यति}। बोधिं न {समनुपश्यति}। यावत् सर्वधर्मान् न {समनुपश्यति}। सर्वध्र्मा-
11604 न् असमनुपश्यन् नोत्त्रस्यति न सन्त्रस्यति न सन्त्रासमापत्स्यते।
11605 सुभुतिर् आह। केन कारणेन भगवन् महासत्त्वस्य चित्तं नावलीयते न
11606 संलीयते। भगवान् आह। तथा हि सुभूते महासत्त्वश् चित्तचैतसिकान् धर्मान्
11607 नोपलभते न समनुपश्यति। एवं हि सुभूते महासत्त्वस्य चित्तं नावलीयते
11608 न संलीयते। सुभूतिर् आःअ। कथं भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य नोत्त्रस्यति
11609 मानसम्। भगवान् आह। तथा हि सुभूते {बोधिसत्त्वो} महासत्त्वो मनश् च मनोधातुं
11610 च नोपलभते न समनुपश्यति। एवं हि सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य नोत्त्रस्यति
11611 मानसम्। एवं हि सुभूते {बोधिसत्त्वेन} महासत्त्वेन सर्वधर्मानुपलब्ध्या प्रज्ञापार-
11612 मितायां चरितव्यम्। सचेत् सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितानु-
11613 चरंस्तां प्रज्ञापारमितां नोपलभते न समनुपश्यति तञ् च बोधिसत्त्वं तच् च
11614 बोधिसत्त्वानाम तच् च बोधिचित्तं नोपलभते न समनुपश्यति। एष एव
11615 बोधिसत्त्वस्य महासत्त्वस्याववादः। प्रज्ञापारमितायाम् एषैवानुशासनी।
11616 अथ खलु आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्। रूपं परिज्ञातुकामेन
11617 भगवन् {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। {{वेदनां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। संज्ञां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। संस्कारां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्।}} विज्ञानं
11618 परिज्ञातुकामेन भगवन् {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। चक्षुः
11701 {परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्।} {{श्रोत्रं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। घ्राणं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। जिह्वां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। कायं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्।}} मनः {परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}। रूपं {परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}। {{शब्दं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। गन्धं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। रसं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। स्प्रष्टव्यं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्।}} धर्मं {परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}। चक्षुर्विज्ञानं {परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्।} {{श्रोत्रविज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। घ्राणविज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। जिह्वाविज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। कायविज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्।}}
11702 मनोविज्ञानं {परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}। चक्षुःसंस्पर्शां चक्षुःसंस्पर्शजां वेदनां {परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्।} {{श्रोत्रसंस्क्पर्शां श्रोत्रसंस्पर्शजां वेदनां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। घ्राणसंस्क्पर्शां घ्राणसंस्पर्शजां वेदनां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। जिह्वासंस्क्पर्शां जिह्वासंस्पर्शजां वेदनां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। कायसंस्क्पर्शां कायसंस्पर्शजां वेदनां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्।}} मनःसंस्पर्शां
11703 मनःसंस्पर्शजां वेदनां {परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्।}
11704 रागद्वेषमोहान् प्रहातुकामेन भगवन् {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां
11705 शिक्षितव्यम्। एवं सत्कायदृष्टिं शीलव्रतपरामर्शं विचिकित्सां कामरागं
11706 व्यापादं रूपरागम् आरुप्यरागं संयोजनानुशयपर्युत्थानानि प्रहातुकामेन {भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}
11707 पुनर् अपरं चतुरो योगान् ओघान् ग्रन्थान् उपादानानि चतुरो विपर्यासान् प्रहातु-
11708 कामेन {भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्} दशाकुशलान् कर्मपथान् प्रहातुकामेन दशकुशलान् कर्मपथान्
11709 परिज्ञातुकामेन चत्वारि ध्यात्नानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमा-
11710 पत्तीश् चत्वारि स्मृत्युपस्हानानि चत्वारि सम्यक्प्रहाणानि चतुर ऋद्धिपादान्
11711 पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टांगमार्गा चतस्रः
11712 प्रतिसंविदश् चत्वारि वैशारद्यानि षडभिज्ञा दशतथागतबलानि अष्टादशावेणि-
11713 कान् बुद्धधर्मान् परिपूरयितुकामेन भगवन् {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापार-
11714 मितायां शिक्षितव्यं बोध्यङ्गं नाम समाधिं प्रतिलब्धुकामेन
11715 सिंहविक्रीडितं समाधिं सिंहविजृम्भितं {समाधिं} सर्वधारणीमुखं {समाधिं} शूरंगमं
11716 {समाधिं} रत्नमुद्रं {समाधिं} चन्द्रप्रभं {समाधिं} चन्द्रध्वजकेतुं {समाधिं} सर्वधर्ममुद्रागतं
11801 {समाधिं} अवलोकितमुद्रागतं {समाधिं} नियतध्वजकेतुं {समाधिं} वज्रोपमं {समाधिं} सर्वधर्म-
11802 प्रवेशमुखं {समाधिं} समाधिराजं {समाधिं} गगनगञ्जमुद्रं {समाधिं} बलविशुद्धं {समाधिं} समुद्गतं
11803 {समाधिं} सर्वधर्मनिरुक्तिनियतप्रवेशं {समाधिं} सर्वधर्मज्ञानमुद्राप्रवेशं {समाधिं} सरधर्म-
11804 मुद्राधारणीमुखं {समाधिं} सर्वधर्मासंप्रमोषं {समाधिं} सर्वधर्मसमवसरणा-
11805 कारमुद्रं {समाधिं} आकाशावस्थितं {समाधिं} त्रिमण्डलपरिशुद्धं {समाधिं} अच्युताना-
11806 गामिन्यभिज्ञां {समाधिं} पात्रगतं {समाधिं} ध्वजाग्रकेयुरं {समाधिं} सर्वक्लेशनिर्द-
11807 हनं {समाधिं} चतुर्मारबलविकिरणं {समाधिं} ज्ञानोल्कां {समाधिं} दशबलोद्गतं
11808 {समाधिं} आकाशासंगनिरुक्तनिरुपलेपं नाम {समाधिं}। एतानि चान्यानि च
11809 समाधिमुखानि प्रतिलब्धुकामेन भगवन् {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां
11810 शिक्षितव्यम्।
11811 पुनर् अपरं भगवन् {बोधिसत्त्वेन} महासत्त्वेन सर्वसत्त्वानाम् अभिप्रायं परिपूरयितुकामेन
11812 प्रज्ञापारमितायां शिक्षितव्यम्।
11813 पुनर् अपरं भगवन् {बोधिसत्त्वेन} महासत्त्वेन सर्वकुशलमूलानि परिपूरयितुकामेन
11814 यैः कुशलमूलैः परिपूर्नैर् नापायेषूपपद्यते न हीनकुलेषूपपद्यते न च
11901 श्रावकभूमिं वा न च प्रत्येकबुद्धभूमिं वा पतति न च बोधिसत्त्वमूर्धामं
11902 वा पततीति प्रज्ञापारमितायां शिक्षितव्यम्।
11903 शारिपुत्र आह। कथं वायुष्मन् सुभूते {बोधिसत्त्वो} महासत्त्वो मूर्धामं पतति।
11904 सुभूतिर् आह। यद् आयुष्मन् शारिपुत्र {बोधिसत्त्वो} महासत्त्वो ऽनुपायकुशलः षट्सु
11905 पारमितासु चरन्न् उपायकौशलम् अजानन् शून्यतानिमित्ताप्रणिहितान् समाधी-
11906 न् आगम्य नैव श्रावकभूमिं नैव प्रत्येकबुद्धभूमिं वा पतति नैव बोधिसत्त्वन्याम-
11907 म् अवक्रामति। अयम् उच्यते बोधिसत्त्वमूर्धामः। शारिपुत्र आह। केन
11908 कारणेन आयुष्मन् सुभूते {बोधिसत्त्वस्य} महासत्त्वस्यायम् आमः। सुभूतिर् आह। आम
11909 इत्य् आयुष्मन् शारिपुत्र उच्यते {बोधिसत्त्वस्य} महासत्त्वस्य धर्मतृष्णा॥[इति भावना-
11910 मार्गाववादः॥] [इत्य् उक्तो ऽववादः॥]
11911 शारिपुत्र आह। कतमा आयुष्मन् सुभूते धर्मतृष्णा। सुभूतिर् आह।
11912 इहायुष्मन् शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् रूपम् अनित्य-
11913 म् इति नाभिनिविशते नाधितिष्ठति न संजानीते। दुःखं शून्यम् अ-
11914 नात्मकम् इति {नाभिनिविशते नाधितिष्ठति न संजातीते।} शून्यम् इत्य् अप्रणिहितम् इति {नाभिनिविशते नाधितिष्ठति न संजातीते}। वेदनां संज्ञां
11915 संस्कारान् विज्ञानम् अनित्यम् इति {नाभिनिविशते नाधितिष्ठति न संजातीते}। दुःखं शून्यम् अनात्मकम् इति {नाभिनिविशते नाधितिष्ठति न संजातीते}।
11916 शून्यम् इत्य् अप्रणिहितम् इति {नाभिनिविशते नाधितिष्ठति न संजातीते}। इयम् आयुष्मन् शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य
11917 आनुलोमिकी धर्मतृष्णा आमः॥ [इति दुःखसत्याधिकारेण मृदूष्म-
11918 गतस्यालम्बनाकारविशेषः॥]
11919 एवं रूपं प्रहातव्यम् अनेन रूपं प्रहातव्यम् इति नाभिनिविशते नाधितिष्ठति न
12001 संजानीते। {{एवं वेदना प्रहातव्या अनेन वेदना प्रहातव्येति नाभिनिविशते नाधितिष्ठति न संजानीते। एवं संज्ञा प्रहातव्या अनेन संज्ञा प्रहातव्येति नाभिनिविशते नाधितिष्ठति न संजानीते। एवं संस्काराः प्रहातव्या अनेन संस्काराः प्रहातव्या इति नाभिनिविशते नाधितिष्ठति न संजानीते। एवं विज्ञानं प्रहातव्यम् अनेन विज्ञानं प्रहातव्यम् इति नाभिनिविशते नाधितिष्ठति न संजानीते}}। एवं
12002 दुःखं परिक्षयम् अनेन दुःखं परिक्षयम् इति एवं समुदयः प्रहातव्यो ऽनेन समुदयः
12003 प्रहातव्य इति नाभिनिविशते नाधितिष्ठति न संजातीते॥ [इति समुदय-
12004 सत्याधिकारेण मृदूष्मगतस्यालम्बनाकारविशेषः॥]
12005 एवं निरोधः साक्षात्कर्तव्यो ऽनेन निरोधः साक्षात्कर्तव्य इति। एवं
12006 मार्गो भावयितव्यो ऽनेन मार्गो भावयितव्य इति। अयं संक्लेश इदं
12007 व्यवदानम् इति। इमे धर्माः सेवितव्याः इमे धर्मा न सेवितव्या इति। इह
12008 चरितव्यम् इह न चरितव्यम्। अयं मार्गो भावयितव्यो ऽयं न भावयितव्यः।
12009 इयं बोधिसत्त्वस्य शिक्षा इयम् अशिक्षा। इयं बोधिसत्त्वस्य न दानपारमिता
12010 इयं {बोधिसत्त्वस्य} न शील{पारमिता} इयं {बोधिसत्त्वस्य} न क्षान्ति{पारमिता} इयं {बोधिसत्त्वस्य} न वीर्य{पारमिता} इयं {बोधिसत्त्वस्य} न ध्यान{पारमिता}
12011 इयं {बोधिसत्त्वस्य} न प्रज्ञा{पारमिता} इदं बोधिसत्त्वस्योपायकौशलम् इदम् अनुपायकौशलम् इति नाभि-
12012 निविशते नाधितिष्ठति न संजानीते ऽयं बोधिसत्त्वस्य मूर्धामः। सचेद् आ-
12013 युष्मन् {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् इमान् धर्मान् एवं नाभिनिविशते
12014 नाधितिष्ठति न संजानीते इयं बोधिसत्त्वस्यानुलोमिकी धर्मतृष्णा आमः।
12015 शारिपुत्र आह। कतमः पुनर् आयुष्मन् सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य न्यामः।
12016 सुभूतिर् आह। इहायुष्मन् शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्
12017 नाध्यात्मशून्यतया बहिर्धाशून्यतां समनुपश्यति। न बहिर्धाशून्यतया
12018 अध्यात्मशून्यतां समनुपश्यति। न बहिर्धाशून्यतया अध्यात्मबहिर्धाशून्यतां
12019 समनुपश्यति। नाध्यात्मबहिर्धाशून्यतया बहिर्धाशून्यतां समनुपश्यति।
12020 नाध्यात्मबहिर्धाशून्यतया शून्यताशून्यतां समनुपश्यति। न शून्यताशून्यतया
12021 अध्यात्मबहिर्धाशून्यतां समनुपश्यति। न शून्यताशून्यतया महाशून्यतां
12101 समनुपश्यति। {{न शून्यताशून्यतया परमार्थशून्यतां समनुपश्यति। न शून्यताशून्यतया संस्कृतशून्यतां समनुपश्यति। न शून्यताशून्यतया अत्यन्तशून्यतां समनुपश्यति। न शून्यताशून्यतया अनवराग्रशून्यतां समनुपश्यति। न शून्यताशून्यतया अनवकारशून्यतां समनुपश्यति। न शून्यताशून्यतया प्रकृतिशून्यतां समनुपश्यति। न शून्यताशून्यतया सर्वधर्मशून्यतां समनुपश्यति। न शून्यताशून्यतया स्वलक्षणशून्यतां समनुपश्यति। न शून्यताशून्यतया अनुपलम्भशून्यतां समनुपश्यति। न शून्यताशून्यतया अभावस्वभावशून्यतां समनुपश्यति। न शून्यताशून्यतया भावशून्यतां समनुपश्यति। न शून्यताशून्यतया अभावशून्यतां समनुपश्यति।}} न
12102 परभावशून्यतया स्वभावशून्यतां समनुपश्यति। अयं हि शारिपुत्र
12103 {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वन्यामः॥ [इति
12104 निरोधसत्याधिकारेण मृदूष्मगतस्यालम्बनाकारविशेषः॥]
12105 पुनर् अपरं शारिपुत्र {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां चरतैवं शिक्षितव्यम्।
12106 यथा शिक्षमाणेन रूपं ज्ञातव्यं न च तेन मन्तव्यम्। वेदनासंज्ञासंस्कारा विज्ञानं
12107 {ज्ञातव्यं न च तेन मन्तव्यं} चक्षुर् ज्ञातव्यं एवं श्रोत्रं घ्राणं जिह्वा कायो मनो {ज्ञातव्यं न च तेन मन्तव्यं}। शब्दगन्ध-
12108 रसस्प्रष्टव्यधर्मा {ज्ञातव्या न च तैर् मन्तव्यं}}। दानपारमिता ज्ञातव्या {{न च तया मन्तव्यं। शीलपारमिता ज्ञातव्या न च तया मन्तव्यं। क्षान्तिपारमिता ज्ञातव्या न च तया मन्तव्यं। वीर्यपारमिता ज्ञातव्या न च तया मन्तव्यं।}} प्रज्ञापारमिता {ज्ञातव्या न च तया मन्तव्यं}।
12109 एवं पञ्चाभिज्ञाः पञ्चचक्षूंषि चत्वारि स्मृत्युपस्थानानि सम्यक्प्रहाणर्द्धि-
12110 पादेन्द्रियबलबोध्यङ्गमार्गा भावयितव्या न च तैर् मन्तव्यम्। चत्वारि
12111 वैशारद्यानि दशतथागतबलानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा
12112 {ज्ञातव्या न च तैर् मन्तव्यं}। एवं हि शारिपुत्र {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां चरता बोधि-
12113 चित्तं नाम ज्ञातव्यं समचित्तं नामोदारचित्तं नाम {ज्ञातव्यं न च तेन मन्तव्यं}। तत् कस्य
12114 हेतोः। तथा तच् चित्तम् अचित्तं प्रकृतिश् चित्तस्य प्रभास्वरा।
12115 शारिपुत्र आह। का पुनर् आयुष्मन् सुभूते चित्तस्य प्रभास्वरता।
12116 सुभूतिर् आह। यद् आयुष्मन् शारिपुत्र चित्तं न रागेण संयुक्तं न विसंयुक्तं
12201 न द्वेषेण {संयुक्तं न विसंयुक्तं}। न मोहेन {संयुक्तं न विसंयुक्तं}। न पर्युत्थानैः {संयुक्तं न विसंयुक्तं}। नावरणैः {संयुक्तं न विसंयुक्तं}। नानुशयैः
12202 {संयुक्तं न विसंयुक्तं}। न संयोजनैः {संयुक्तं न विसंयुक्तं}। न दृष्टिकृतैः {संयुक्तं न विसंयुक्तं}। इयं शारिपुत्र चित्तस्य
12203 प्रभास्वरता।
12204 शारिपुत्र आह। किं पुनर् आयुष्मन् सुभूते अस्ति तच् चित्तं यच् चित्तम् अचित्तम्।
12205 सुभूतिर् आह। किं पुनर् आयुष्मन् शारिपुत्र या अचित्तता तत्रास्तिता वा नास्तिता
12206 वा विद्यते वा उपलभ्यते वा। शारिपुत्र आह। न खल्व् आयुष्मन् सुभूते।
12207 सुभूतिर् आह। सचेद् आयुष्मन् शारिपुत्र तत्राचित्ततायाम् अस्तिता वा नास्तिता वा न
12208 विद्यते नोपलभ्यते वा पै नु ते युक्त एष पर्यनुयोगः। यद् आयुष्मन् शारिपुत्र
12209 एवम् आह अस्ति तच् चित्तं यच् चित्तम् अचित्तम् इति। शारिपुत्र आह। का पुनर् एषा
12210 आयुष्मन् सुभूते अचित्तता। सुभूतिर् आह। अचिकारा आयुष्मन् शारिपुत्र
12211 अविकल्पा अचित्तता या सर्वधर्माणां धर्मता। इयम् उच्यते अचित्तता।
12212 शारिपुत्र आह। किं पुनर् आयुष्मन् सुभूते यथैव तच् चित्तम् अविकारम् अविकल्पं
12213 तथैव रूपम् अप्य् अविकारम् अविकल्पं {{वेदनाप्य् अविकाराविकल्पा संज्ञाप्य् अविकारा अविकल्पा संस्कारा अप्य् अविकारा अविकल्पा}} विज्ञानम् अप्य् अविकारम् अविकल्पम्।
12214 एवम् एव चक्षुर्धातू रूपधातुश् चक्षुर्विज्ञानधातुर् अविकारो ऽविकल्पः {{श्रोत्रधातुः शब्दधातुश् श्रोत्रविज्ञानधातुर् अविकारो ऽविकल्पो घ्राणधातुर् गन्धधातुर् घ्राणविज्ञानधातुर् अविकारो ऽविकल्पो जिह्वाधातू रसधातुर् जिह्वाविज्ञानधातुर् अविकारो ऽविकल्पः कायधातुः स्प्रष्टव्यधातुश् कायविज्ञानधातुर् अविकारो ऽविकल्पओ}}
12215 मनोधातुर् धर्मधातुर् मनोविज्ञानधातुर् अविकारो ऽविकल्पः। एवम् आयतनानि प्रतीत्य-
12216 समुत्पादः पारमिता अभिज्ञाः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रिय-
12217 बलबोध्यङ्गमार्गवैशारद्यप्रतिसंविदावेणिका बुद्धधर्मा यावद् अनुत्तरा सम्यक्-
12218 संबोधिर् अविकारा अविकल्पा। सुभूतिर् आह। एवम् एतद् आयुष्मन् शारिप्तुर यथैव
12219 चित्तम् अविकारम् अविकल्पं तथैव स्कन्धधात्वायतन्{{आनि प्रतीत्यसमुत्पादः पारमिता अभिज्ञाः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गवैशारद्यप्रतिसंविदावेणिका बुद्धधर्मा }}
12220 यावद् अनुत्तरा सम्यक्संबोधिः। शारिपुत्र आह। साधु साधु आयुष्मन्
12221 सुभूते तद् यथापि नाम भगवतः पुत्र औरसो मुखतो जातो धर्मजो धर्म-
12301 निर्मितो धर्मदायदो नामिषदायादः प्रत्यक्षचक्षुर्धर्मेषु कायसाक्षी यथापि
12302 नामाग्रारणविहारिणां भगवता अग्रतायां निर्दिष्टस्यायम् उपदेशः। एवम् आयुष्मन्
12303 सुभूते {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। अतश् च {बोधिसत्त्वो} महा-
12304 सत्त्वो ऽविनिवर्तनीय उपपरीक्षितव्यो ऽविरहितश् च प्रज्ञापारमितया वेदितव्यः॥
12305 [इति मार्गसत्याधिकारेण मृदूष्मगतस्यालम्बनाकारविशेषः॥]
12306 श्रावकभूमाव् अपि आयुष्मन् सुभूते शिक्षितुकामेन {बोधिसत्त्वेन} महासत्त्वेन इयम् एव
12307 प्रज्ञापारमिता श्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या
12308 योनिशश् च उपपरीक्षितव्या। प्रत्येकबुद्धभूमाव् अपि आयुष्मन् {{सुभूते शिक्षितुकामेन बोधिसत्त्वेन महासत्त्वेन इयम् एव प्रज्ञापारमिता श्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च उपपरीक्षितव्या।}}
12309 बोधिसत्त्वभूमाव् अपि आयुष्मन् {{सुभूते शिक्षितुकामेन बोधिसत्त्वेन महासत्त्वेन इयम् एव प्रज्ञापारमिता श्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च उपपरीक्षितव्या।}}
12310 बुद्धभूमाव् अपि आयुष्मन् {{सुभूते शिक्षितुकामेन बोधिसत्त्वेन महासत्त्वेन इयम् एव प्रज्ञापारमिता श्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च उपपरीक्षितव्या।}} तत् कस्य हेतोः। तथा हि
12311 अत्र प्रज्ञापारमितायां त्रीणि यानानि विस्तरेणोपदिष्टानि यत्र बोधिसत्त्वैर् महा-
12312 सत्त्वैः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा बोधिसत्त्वभूमौ वा शिक्षितव्यम्॥
12313 [इति सर्वेषां हेतुत्वविशेषः॥]
12314 अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्। यो ऽहं भगवन् न
12315 बोधिसत्त्वं न प्रज्ञापारमितां विन्दामि नोपलभे न समनुपश्यामि तत्
12316 कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि।
12317 एवद् एव मे भगवन् कौकृत्यं स्यात्। यो ऽहं वस्तु न विन्दामि नोपलभे न
12318 समनुपश्यामि सो ऽहं भगवन् वस्त्व् अविन्दन्न् अनुपलभमानो ऽसमनुपश्यन् कतमेन
12401 धर्मेण कतमं धर्मम् अववदिष्याम्य् अनुशासिष्यामि। एतद् एव मे भगवन् कौकृत्यं
12402 स्यात्। यो ऽहं सर्वधर्मान् अविन्दन्न् अनुपलभमानो ऽसमनुपश्यन् नामधेयमात्रेण
12403 आयव्ययं कुर्यां बोधिसत्त्व इति वा प्रज्ञापारमितेति वा। अपि तु खलु पुन-
12404 र् भगवन् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्। तत् कस्य
12405 हेतोः। अविद्यमानत्वेन तस्य नामधेयस्य एवं तन् नामधेयं न स्थितं नास्थितं न
12406 विष्ठितं नाविष्ठितम्। रूपस्याहं भगवन्न् आयं च व्ययं च नोपलभे न समनुपश्यामि।
12407 वेदनाया अहं {भगवन् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि}। संज्ञाया अहं {भगवन् नायञ् च व्ययञ् च नोपलभे न समनुपश्यामि}। संस्काराणाम् अहं {भगवन् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि}। विज्ञानस्याहं {भगवन् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि}। सो ऽहं
12408 भगवन् रूपादीनाम् आयञ् च व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं
12409 करिष्यामि बोधिसत्त्व इति। अनेन भगवन् पर्यायेण तद् अपि नामधेयं
12410 न स्थितं {नास्थितं न विष्ठितं नाविष्ठितम्}। तत् कस्य हेतोः। अविद्यमानत्वात् तस्य नामधेयस्य। एवं
12411 तन् नाम न स्थितं {नास्थितं न विष्ठितं नाविष्ठितम्}। चक्षुषो ऽहं श्रोत्रस्याहं {{घ्राणस्याहं जिह्वाया अहं कायस्याहं}} मनसो ऽहं {भगवन् नायञ् च व्ययञ् च नोपलभे न समनुपश्यामि}। अपि तु
12412 खलु पुनर् भगवन् वेदयितं रूपं नाम वेदना नाम {{संज्ञा नाम संस्कारा नाम}} विज्ञानं नाम।
12413 चक्षुः श्रोत्रं {घ्राणं जिह्वा कायो} मन इति नाम। एतानि नामधेयानि न स्थितानि
12414 नास्थितानि न विष्ठितानि नाविष्ठितानि। तत् कस्य हेतोः। अविद्यमानत्वेन
12415 तेषां नामधेयानाम्।
12416 एवं तानि नामधेयानि न स्थितानि नास्थितानि न विष्ठितानि नाविष्ठि-
12417 तानि। रूपस्याहं {भगवन् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि}। एवं शब्दगन्धरसस्प्रष्टव्यधर्माणाम् आयञ् च व्ययञ् च न
12418 समनुपश्यामि नोपलभे। सो ऽहं भगवन् रूप{{शब्दगन्धरसस्प्रष्टव्य}}धर्माणाम् आयञ् च
12501 व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व
12502 इति। अपि तु खलु {{पुनर् भगवन् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्। तत् कस्य हेतोः। अविद्यमानत्वेन तस्य नामधेयस्य एवं तन् नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्।}} चक्षुर्विज्ञान-
12503 स्याहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे}। एवं श्रोत्रविज्ञानस्य्{{आहं भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे। घ्राणविज्ञानस्याहं भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे। जिह्वाविज्ञानस्याहं भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे। कायविज्ञानस्याहं भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे।}} मनोविज्ञानस्याहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे}। सो ऽहं
12504 भगवंश् चक्षुर्विज्ञानस्य्{{आयञ् च व्ययञ् च न समनुपश्यन् श्रोत्रविज्ञानस्यायञ् च व्ययञ् च न समनुपश्यन् घ्राणविज्ञानस्यायञ् च व्ययञ् च न समनुपश्यन् जिह्वाविज्ञानस्यायञ् च व्ययञ् च न समनुपश्यन् कायविज्ञानस्यायञ् च व्ययञ् च न समनुपश्यन्}} मनोविज्ञानस्यायञ् च व्ययञ् च समनुपश्यन्
12505 {{कस्य नामधेयं करिष्यामि बोधिसत्त्व इति।}} अपि तु खलु {{पुनर् भगवन् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्। तत् कस्य हेतोः। अविद्यमानत्वेन तस्य नामधेयस्य एवं तन् नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्।}}
12506 चक्षुःसंस्पर्शस्याहं भगवन् यावच् चक्षुःसंस्पर्शप्रत्ययवेदयितस्यायञ् च {व्ययञ् च न समनुपश्यामि नोपलभे।} श्रोत्रसंस्पर्शस्याहं
12507 भगवन् यावच् छ्रोत्रसंस्पर्शप्रत्ययवेदयितस्यायञ् च {व्ययञ् च न समनुपश्यामि नोपलभे।} {{घ्राणसंस्पर्शस्याहं भगवन् यावद् घ्राणसंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे।
12508 जिह्वासंस्पर्शस्याहं भगवन् यावज् जिह्वासंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे। कायसंस्पर्शस्याहं भगवन् यावत् कायसंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे।}} मनःसंस्पर्शस्याहं भगवन् यावत् मनःसंस्पर्शप्रत्ययवेदयित-
12509 स्यायञ् च {व्ययञ् च न समनुपश्यामि नोपलभे}। पृथिवीधातोर् एवम् अब्धातोस् तेजोधातोर् वायुधातोर् आकाशधातोर् विज्ञान-
12510 धातोर् आयञ् च {व्ययञ् च न समनुपश्यामि नोपलभे}। एवम् अविद्या यावज् जरामरणस्याहं भवगन् आयञ् च{व्ययञ् च न समनुपश्यामि नोपलभे}। एवम् अविद्या-
12511 निरोधस्य यावज् जरामरणनिरोधस्याहं आयञ् च {व्ययञ् च न समनुपश्यामि नोपलभे}। स्कन्धधात्वायतनप्रतीत्यस-
12512 मुत्पादानाम् अहं भगवन् आयञ् च {व्ययञ् च न समनुपश्यामि नोपलभे}। रागद्वेषमोहानाम् अहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे}। पर्युत्थानावरणानु-
12513 शयसंयोजनदृष्टिकृतानाम् अहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे}। दानपारमिताया अहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे।} {{शीलपारमिताया अहं भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे। क्षान्तिपारमिताया अहं भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे। वीर्यपारमिताया अहं भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे। ध्यानपारमिताया अहं भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे।}} प्रज्ञापारमिताया
12514 अहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे}। आत्मनो ऽहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे} एवं सत्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेद-
12515 कजानकपश्यकानाम् अहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे}। स्मृत्युपस्थानानाम् अहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे}। एवं सम्यक्प्रहाणर्द्धिपा-
12516 देन्द्रियबलबोध्यङ्गमार्गस्याहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे}। शून्यताया अनिमित्तस्याप्रणिहितस्याहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे}।
12517 चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतसृणाम् आरूप्यसमापत्तीनाम् अहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे}।
12518 बुद्धानुस्मृतेर् धर्मानुस्मृतेः संघानुस्मृतेः शीलानुस्मृतेस् त्यागानुस्मृतेर् देवतानु-
12519 स्मृतेर् आयञ् च {व्ययञ् च न समनुपश्यामि नोपलभे}। आनापानानुस्मृतेर् मरणानुस्मृतेर् आयञ् च {व्ययञ् च न समनुपश्यामि नोपलभे}। पञ्चानां चक्षुषाम् अभिज्ञानां
12520 वैशारद्यानां दशानां तथागतबलानाम् आयञ् च {व्ययञ् च न समनुपश्यामि नोपलभे}। अष्टादशानाम् आवेणिकानाम् अहं भगवन्
12601 बुद्धधर्माणाम् आयञ् च {व्ययञ् च समनुपश्यामि नोपलभे}। सो ऽहं भगवन्न् अष्टादशानाम् आवेणिकानां बुद्धधर्माणाम् आयञ् च
12602 व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व
12603 इति। अपि तु खलु {{पुनर् भगवन् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्। तत् कस्य हेतोः। अविद्यमानत्वेन तस्य नामधेयस्य एवं तन् नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्।}} स्वन्पोपमानाम् अहं
12604 भगवन् पञ्चानाम् उपादानस्कन्धानाम् आयञ् च{व्ययञ् च समनुपश्यामि नोपलभे}। एवं मायोपमानां प्रति-
12605 श्रुत्कोपमानां प्रतिभासोपमानां प्रतिबिम्बोपमानां मरीच्युपमानां उदक-
12606 चन्द्रोपमानां निर्मितकोपमानाम् अहं भगवन् पञ्चानाम् उपादानस्कन्धाना-
12607 म् आयञ् च {व्ययञ् च समनुपश्यामि नोपलभे}। एवं विविक्तस्य शान्तस्यानुत्पादस्यानिरोधस्यासंक्लेशस्या-
12608 व्यवदानस्य अहं भगवन् आयञ् च {व्ययञ् च समनुपश्यामि नोपलभे}। एवं धर्मधातोस् तथताया भूतकोटेर् द्धर्म-
12609 स्थितिताया धर्मनियामताया अहं भगवन् आयञ् च {व्ययञ् च समनुपश्यामि नोपलभे}। एवं कुशलानाम् अकुश-
12610 लानां सावद्यानाम् अनवद्यानां सास्रवाणाम् अनास्रवाणां संक्लेशानां निः-
12611 क्लेशानां लौकिकानां लोकोत्तराणां संस्कृतानाम् असंस्कृतानां संक्लेशानां
12612 व्यवदानानां सांसारिकाणां नैवाणिकानां अहं भगवन् धर्माणाम् आयञ् च {व्ययञ् च समनुपश्यामि नोपलभे}।
12613 अतीतानागतप्रत्युत्पन्नानां धर्माणाम् आयञ् च {व्ययञ् च समनुपश्यामि नोपलभे}। भगवतो ऽप्य् अहं भगवन्
12614 आयञ् च {व्ययञ् च समनुपश्यामि नोपलभे}। पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागताना-
12615 म् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन्
12616 आयञ् च {व्ययञ् च समनुपश्यामि नोपलभे}। {{दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन् आयञ् च व्ययञ् च समनुपश्यामि नोपलभे। पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन् आयञ् च व्ययञ् च समनुपश्यामि नोपलभे। उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन् आयञ् च व्ययञ् च समनुपश्यामि नोपलभे। उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन् आयञ् च व्ययञ् च समनुपश्यामि नोपलभे। पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन् आयञ् च व्ययञ् च समनुपश्यामि नोपलभे। दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन् आयञ् च व्ययञ् च समनुपश्यामि नोपलभे। पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन् आयञ् च व्ययञ् च समनुपश्यामि नोपलभे। अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन् आयञ् च व्ययञ् च समनुपश्यामि नोपलभे। उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन् आयञ् च व्ययञ् च समनुपश्यामि नोपलभे।}}
12617 {{अपि तु खलु पुनर् भगवन् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्। तत् कस्य हेतोः। अविद्यमानत्वेन तस्य नामधेयस्य एवं तन् नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्।}} आयञ् च व्ययञ् चानु-
12618 पलभमानो ऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अ-
12619 ववदिष्याम्य् अनुशासिष्यामि। अपि तु खलु {{पुनर् भगवन् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्। तत् कस्य हेतोः। अविद्यमानत्वेन तस्य नामधेयस्य एवं तन् नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्।}}
12620 सर्वधर्मतथताया अहं भगवन् आयञ् च {व्ययञ् च समनुपश्यामि नोपलभे।}}
12621 [इति मध्योष्मगतस्यालम्बनाकारविशेषः॥]
12622 यापीयं भगवन् धर्मसंकेतिकी धर्मप्रज्ञप्तिर् यद् उत बोधिसत्त्व इति।
12623 सा न केनचिद् वचनीया स्कन्धेन वा धातुना वा आयतनेन वा
12701 यावद् आवेणिकेन वा बुद्धधर्मेण। यावद् एवैषा धर्मप्रज्ञप्तिः। तद् यथापि
12702 नाम भगवन् स्वप्नो न केनचिद् वचनीयः प्रतिश्रुत्को प्रतिभासः
12703 प्रतिबिम्बं निर्मितकं न केनचिद् वचनीयम्। तद् याथापि नाम भगवन्
12704 पृथिव्यप्तेजोवाय्वाकाशं नाम {न केनचिद् वचनीयं}। तद् यथापि नाम भगवन् शीलम् इति
12705 समाधिर् इति प्रज्ञेति विमुक्तिर् इति विमुक्तिज्ञानदर्शनम् इति नाम {न केनचिद् वचनीयं}। स्रोतआपन्न
12706 इति नाम {न केनचिद् वचनीयं}। सकृदागामीति अनागमीति अर्हन्न् इति प्रत्येकबुद्ध इति
12707 यावद् बोधिसत्त्वधर्म इति तथागत इति बुद्ध तिइ तथतेति बुद्धधर्म इति
12708 नाम {न केनचिद् वचनीयं}। कुशलेन वा अकुशलेन वा सावद्येन वा अनवद्येन वा सुखेन वा
12709 दुःखेन वा आत्मना व अनात्मना वा शान्तेन वा अशान्तेन वा विविक्तेन वा
12710 अविविक्तेन वा निमित्तेन वा अनिमित्तेन वा भावेन वा अभावेन वा
12711 इमम् अप्य् अहं भगवन् अर्थवशं प्रतीत्य एवं वदामि एतद् एव मे भगवन्
12712 कौकृत्यं स्यात्। यो ऽहं सर्वधर्माणाम् आयञ् च व्ययञ् चानुपलभमानो ऽसमनु-
12713 पश्यन् नामधेयमात्रेणायञ् च व्ययञ् च कुर्यां बोधिसत्त्व इति। अपि तु खलु
12714 पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्। तत्
12715 कस्य हेतोः। अविद्यमानत्वात् तस्य नामधेयस्य। एवं तत् नामधेयं
12716 न स्थितं नास्थितं न विष्ठितं नाविष्ठितं। स चेह भगवन् एवं {बोधिसत्त्वस्य} महा-
12717 सत्त्वस्य प्रज्ञापारमितायां भाष्यमाणायां चित्तं नावलीयते न संलीयते
12718 न विप्रतिसारी भवति। मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते
12801 नियतं महासत्त्वो ऽविनिवर्तणीयायां बोधिसत्त्वभूमौ स्थितो वेदितव्यः
12802 सुस्थितो ऽस्थानयोगेन॥ [इति अधिमात्रोष्मगतस्यालम्बनाकारविशेषः॥]
12803 पुनर् अपरं बह्गवन् {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायाञ् चरतो न रूपे स्थातव्यं
12804 {{न वेदनायां स्थातव्यं न संज्ञायां स्थातव्यं न संस्कारेषु स्थातव्यं }} न विज्ञाने स्थातवय्ं। तेन न चक्षुषि स्थातव्यं {{न श्रोत्रे स्थातव्यं न घ्राणे स्थातव्यं न जिह्वायां स्थातव्यं न काये स्थातव्यं}}
12805 न मनसि स्थातव्यं। तेन न रूपे स्थातव्यं न शब्दे {{स्थातव्यं न गन्धे स्थातव्यं न रसे स्थातव्यं न स्प्रष्टव्ये स्थातव्यं}} न धर्मे
12806 स्थातव्यम्। तेन न चक्षुर्विज्ञाने स्थातवय्ं {{न श्रोत्रविज्ञाने स्थातवय्ं न घ्राणविज्ञाने स्थातवय्ं न जिह्वाविज्ञाने स्थातवय्ं न कायविज्ञाने स्थातवय्ं }} न मनोविज्ञाने स्थातव्यं।
12807 तेन न चक्षुःसंस्पर्शे स्थातव्यं न चक्षुःसंस्पर्शप्रत्ययवेदयिते स्थातव्यं {{न श्रोत्रसंस्पर्शे स्थातव्यं न श्रोत्रसंस्पर्शप्रत्ययवेदयिते स्थातव्यं न घ्राणसंस्पर्शे स्थातव्यं न घ्राणसंस्पर्शप्रत्ययवेदयिते स्थातव्यं न जिह्वासंस्पर्शे स्थातव्यं न जिह्वासंस्पर्शप्रत्ययवेदयिते स्थातव्यं न कायसंस्पर्शे स्थातव्यं न कायसंस्पर्शप्रत्ययवेदयिते स्थातव्यं}}
12808 न मनःसंस्पर्शे न मनःसंस्पर्शप्रत्ययवेदयिते स्थातव्यम्। तेन न पृथिवी-
12809 धातौ स्थातव्यं {{नाब्धातौ स्थातव्यं न तेजोधातौ स्थातव्यं न वायुधातौ स्थातव्यं नाकाशधातौ स्थातव्यम्}} न विज्ञानधातौ स्थातव्यम्। तेन नाविद्यायां स्थातव्यं
12810 न संस्कारेषु {{स्थातव्यं न विज्ञायां स्थातव्यम् न नामरूपे स्थातव्यं न षडायतनेषु स्थातव्यं न स्पर्शे स्थातव्यं न वेदनायां स्थातव्यं न तृष्णायां स्थातव्यं न उपादाने स्थातव्यं न भवे स्थातव्यं न जातौ स्थातव्यं न जरामरणे स्थातव्यं न जरामरणे स्थातव्यं न शोके स्थातव्यं न परिदेवे स्थातव्यं न दुःखे स्थातव्यं}} न दौर्मनस्योपयासेषू स्थातव्यम्। तत् कस्य हेतोः। तथा
12811 हि भगवन् रूपं रूपत्वेन शून्यं। वेदना {{वेदनात्वेन शून्या संज्ञा संज्ञात्वेन शून्या संस्काराः संस्कारत्वेन शून्या}} विज्ञानं विज्ञानत्वेन शून्यं
12812 या च भगवन् रूपस्य शून्यता न तद् रूपं। न चान्यत्र शून्यताया रुपं रूपम् एव
12813 शून्यता शून्यतैव रूपम्। {{या च भगवन् वेदनायाः शून्यता न सा वेदना। न चान्यत्र शून्यताया वेदना वेदनैव शून्यता शून्यतैव वेदना। या च भगवन् संज्ञायाः शून्यता न सा संज्ञा। न चान्यत्र शून्यताया संज्ञा संज्ञैव शून्यता शून्यतैव संज्ञा। या च भगवन् संस्काराणां शून्यता न ते संस्काराः। न चान्यत्र शून्यताया संस्काराः संस्काराः शून्यता शून्यतैव संस्काराः।}}
12814 या च भगवन् विज्ञानस्य शून्यता न तद् विज्ञानं न चान्यत्र शून्यताया विज्ञानं
12815 विज्ञानम् एव शून्यता शून्यतैव विज्ञानम्।
12816 अनेन भगवन् पर्यायेण {बोधिअत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां चरता न रूपे
12817 स्थातव्यं {न वेदनायां स्थातव्यं न संज्ञायां स्थातव्यं न संस्कारेषु स्थातव्यं} न विज्ञाने स्थातव्यं। न पृथिवीधातौ {{स्थातव्यं नाब्धातौ स्थातव्यं न तेजोधातौ स्थातव्यं न वायुधातौ स्थातव्यं नाकाशधातौ स्थातव्यम्}} न
12818 विज्ञानधातौ स्थातव्यं। तत् कस्य हेतोः। तथा हि भगवन् पृथिवीधतुः पृथिवी-
12819 धातुत्वेन शून्या। या च पृथिवीधातुशून्यता नासौ पृथिवीधातुर् न चान्यत्र
12820 शून्यतायाः पृथिवीधातुः। पृथिवीधातुर् एव शून्यता। शून्यतैव पृथिवीधातुः।
12821 एवम् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुस् तथा हि भगवन् विज्ञानधातुर् वि-
12822 ज्ञानधातुत्वेन शून्या। या च विज्ञानधातुशून्यता नासौ विज्ञानधातुर् न चान्यत्र
12823 शून्यताया विज्ञानधातुर् विज्ञानधातुर् एव शून्यता। शून्यतैव विज्ञानधातुः। अनेन
12901 भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न पृथिवीधातौ स्थातव्यं {{नाब्धातौ स्थातव्यं न तेजोधातौ स्थातव्यं न वायुधातौ स्थातव्यं नाकाशधातौ स्थातव्यम्}} न विज्ञानधातौ
12902 स्थातव्यम्। न रूपे स्थातव्यं {{न शब्दे स्थातव्यं न गन्धे स्थातव्यं न रसे स्थातव्यं न स्प्रष्टव्ये स्थातव्यं}} न धर्मे स्थातव्यं। तत् कस्य हेतोः। तथा हि
12903 भगवन् रूपं रूपत्वेन शून्यम् {{शब्दः शब्दत्वेन शून्यो गन्धो गन्धत्वेन शून्यो रसो रसत्वेन शून्यः स्प्रष्टव्यं स्प्रष्टव्यत्वेन शून्यम्। या च भगवन् रूपस्य शून्यता न तद् रूपं। न चान्यत्र शून्यताया रुपं रूपम् एव शून्यता शून्यतैव रूपम्। या च भगवन् शब्दस्य शून्यता न स शब्दः। न चान्यत्र शब्दात् शब्दः शब्द एव शून्यता शून्यतैव शब्दः। या च भगवन् गन्धस्य शून्यता न स गन्धः। न चान्यत्र गन्धाद् गन्धो गन्ध एव शून्यता शून्यतैव गन्धः। या च भगवन् रसस्य शून्यता न स रसः। न चान्यत्र रसाद् रसो रस एव शून्यता शून्यतैव रसः। या च भगवन् स्प्रष्टव्यस्य शून्यता न तद् स्प्रष्टव्यम्। न चान्यत्र स्प्रष्टव्यात् स्प्रष्टव्यं स्प्रष्टव्यम् एव शून्यता शून्यतैव स्प्रष्टयम्।}}
12904 {{या च भगवन् धर्मस्य शून्यता न स धर्मः। न चान्यत्र धर्माद् धर्मो}} धर्म एव शून्यता शून्यतैव धर्मः। अनेन
12905 भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न रूपे {स्थातव्यं} {{न शब्दे स्थातव्यं न गन्धे स्थातव्यं न रसे स्थातव्यं न स्प्रष्टव्ये स्थातव्यं}} न धर्मे {स्थातव्यं} न चक्षुषि {स्थातव्यं}
12906 {{न श्रोत्रे स्थातव्यं न घ्राणे स्थातव्यं न जिह्वायां स्थातव्यं न काये स्थातव्यं}} न मनसि {स्थातव्यं}। न चक्षुर्विज्ञाने {स्थातव्यं} {{न श्रोत्रविज्ञाने स्थातवय्ं न घ्राणविज्ञाने स्थातवय्ं न जिह्वाविज्ञाने स्थातवय्ं न कायविज्ञाने स्थातवय्ं}} न मनोविज्ञाने
12907 {स्थातव्यं}। तत् कस्य हेतोः। तथा हि भगवंश् चक्षुर्विज्ञानं चक्षुर्विज्ञानत्वेन शून्यम्
12908 {{श्रोत्रविज्ञानं श्रोत्रविज्ञानत्वेन शून्यम् घ्राणविज्ञानं घ्राणविज्ञानत्वेन शून्यम् जिह्वाविज्ञानं जिह्वाविज्ञानत्वेन शून्यम् कायविज्ञानं कायविज्ञानत्वेन शून्यम् मनोविज्ञानं मनोविज्ञानत्वेन शून्यम्। या च भगवन् चक्षुर्विज्ञानस्य शून्यता न तद् चक्षुर्विज्ञानं न चान्यत्र शून्यताया चक्षुर्विज्ञानं चक्षुर्विज्ञानम् एव शून्यता शून्यतैव चक्षुर्विज्ञानम्। या च भगवन् श्रोत्रविज्ञानस्य शून्यता न तद् श्रोत्रविज्ञानं न चान्यत्र शून्यताया श्रोत्रविज्ञानं श्रोत्रविज्ञानम् एव शून्यता शून्यतैव श्रोत्रविज्ञानम्। या च भगवन् घ्राणविज्ञानस्य शून्यता न तद् घ्राणविज्ञानं न चान्यत्र शून्यताया घ्राणविज्ञानं घ्राणविज्ञानम् एव शून्यता शून्यतैव घ्राणविज्ञानम्। या च भगवन् जिह्वाविज्ञानस्य शून्यता न तद् जिह्वाविज्ञानं न चान्यत्र शून्यताया जिह्वाविज्ञानं जिह्वाविज्ञानम् एव शून्यता शून्यतैव जिह्वाविज्ञानम्। या च भगवन् कायविज्ञानस्य शून्यता न तद् कायविज्ञानं न चान्यत्र शून्यताया कायविज्ञानं कायविज्ञानम् एव शून्यता शून्यतैव कायविज्ञानम्। या च भगवन् मनोविज्ञानस्य शून्यता न तद् मनोविज्ञानं न चान्यत्र शून्यताया मनोविज्ञानं मनोविज्ञानम् एव शून्यता शून्यतैव मनोविज्ञानम्।}} अनेन
12909 भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न चक्षुर्विज्ञाने {स्थातव्यं} {{न श्रोत्रविज्ञाने स्थातवय्ं न घ्राणविज्ञाने स्थातवय्ं न जिह्वाविज्ञाने स्थातवय्ं न कायविज्ञाने स्थातवय्ं}} न मनोविज्ञाने
12910 {स्थातव्यं}। न चक्षुःसंस्पर्शे {स्थातव्यं} {{न श्रोत्रसंस्पर्शे स्थातव्यं न घ्राणसंस्पर्शे स्थातव्यं न जिह्वासंस्पर्शे स्थातव्यं न कायसंस्पर्शे स्थातव्यं}} न मनःसंस्पर्शे {स्थातव्यं}। तत् कस्य
12911 हेतोः। तथा हि भगवंश् चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शत्वेन शून्यः
12912 {{श्रोत्रसंस्पर्शश् श्रोत्रसंस्पर्शत्वेन शून्यो घ्राणस्पर्शश् घ्राणसंस्पर्शत्वेन शून्यो जिह्वासंस्पर्शश् जिह्वासंस्पर्शत्वेन शून्यः कायसंस्पर्शश् कायसंस्पर्शत्वेन शून्यः मनःसंस्पर्शश् मनःसंस्पर्शत्वेन शून्यः। या च भगवन् चक्षुःसंस्पर्शस्य शून्यता न स चक्षुःसंस्पर्शः। न चान्यत्र शून्यताया चक्षुःसंस्पर्शः चक्षुःसंस्पर्श एव शून्यता शून्यतैव चक्षुःसंस्पर्शः। या च भगवन् श्रोत्रसंस्पर्शस्य शून्यता न स श्रोत्रसंस्पर्शः। न चान्यत्र शून्यताया श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्श एव शून्यता शून्यतैव श्रोत्रसंस्पर्शः। या च भगवन् घ्राणसंस्पर्शस्य शून्यता न स घ्राणसंस्पर्शः। न चान्यत्र शून्यताया घ्राणसंस्पर्शः घ्राणसंस्पर्श एव शून्यता शून्यतैव घ्राणसंस्पर्शः। या च भगवन् जिह्वासंस्पर्शस्य शून्यता न स जिह्वासंस्पर्शः। न चान्यत्र शून्यताया जिह्वासंस्पर्शः जिह्वासंस्पर्श एव शून्यता शून्यतैव जिह्वासंस्पर्शः। या च भगवन् कायसंस्पर्शस्य शून्यता न स कायसंस्पर्शः। न चान्यत्र शून्यताया कायसंस्पर्शः कायसंस्पर्श एव शून्यता शून्यतैव कायसंस्पर्शः। या च भगवन् मनःसंस्पर्शस्य शून्यता न स मनःसंस्पर्शः। न चान्यत्र शून्यताया मनःसंस्पर्शः मनःसंस्पर्श एव शून्यता शून्यतैव मनःसंस्पर्शः।}} अनेन भगवन् पर्यायेण
12913 {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न चक्षुःसंस्पर्शे {स्थातव्यं} न मनःसंस्पर्शे {स्थाअतव्यं}। न चक्षुःसंस्पर्शप्रत्यय-
12914 वेदयिते {स्थातव्यं} एवं यावन् न मनःसंस्पर्शप्रत्ययवेदयिते {स्थातव्यं}। तत् कस्य हेतोः।
12915 तथा हि भगवंश् चक्षुःसंस्पर्शप्रत्ययवेदयितं चक्षुःसंस्पर्शप्रत्ययवेदयितत्वेन शून्यं
12916 {{श्रोत्रसंस्पर्शप्रत्ययवेदयितं श्रोत्रसंस्पर्शप्रत्ययवेदयितत्वेन शून्यं घ्राणसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितत्वेन शून्यं जिह्वासंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितत्वेन शून्यं कायसंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितत्वेन शून्यं मनःसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितत्वेन शून्यं। या च भगवन् चक्षुःसंस्पर्शप्रत्ययवेदयितस्य शून्यता न तद् चक्षुःसंस्पर्शप्रत्ययवेदयितम्। न चान्यत्र शून्यताया चक्षुःसंस्पर्शप्रत्ययवेदयितं चक्षुःसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव चक्षुःसंस्पर्शप्रत्ययवेदयितम्। या च भगवन् श्रोत्रसंस्पर्शप्रत्ययवेदयितस्य शून्यता न तद् श्रोत्रसंस्पर्शप्रत्ययवेदयितम्। न चान्यत्र शून्यताया श्रोत्रसंस्पर्शप्रत्ययवेदयितं श्रोत्रसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव श्रोत्रसंस्पर्शप्रत्ययवेदयितम्। या च भगवन् घ्राणसंस्पर्शप्रत्ययवेदयितस्य शून्यता न तद् घ्राणसंस्पर्शप्रत्ययवेदयितम्। न चान्यत्र शून्यताया घ्राणसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव घ्राणसंस्पर्शप्रत्ययवेदयितम्। या च भगवन् जिह्वासंस्पर्शप्रत्ययवेदयितस्य शून्यता न तद् जिह्वासंस्पर्शप्रत्ययवेदयितम्। न चान्यत्र शून्यताया जिह्वासंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव जिह्वासंस्पर्शप्रत्ययवेदयितम्। या च भगवन् कायसंस्पर्शप्रत्ययवेदयितस्य शून्यता न तद् कायसंस्पर्शप्रत्ययवेदयितम्। न चान्यत्र शून्यताया कायसंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव कायसंस्पर्शप्रत्ययवेदयितम्। या च भगवन् मनःसंस्पर्शप्रत्ययवेदयितस्य शून्यता न तद् मनःसंस्पर्शप्रत्ययवेदयितम्। न चान्यत्र शून्यताया मनःसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव मनःसंस्पर्शप्रत्ययवेदयितम्।}}
12917 अनेन भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न चक्षुःसंस्पर्शप्रत्ययोत्पन्ने वेदयिते {स्थातव्यं}
12918 {{न श्रोत्रसंस्पर्शप्रत्ययोत्पन्ने वेदयिते स्थातव्यं न घ्राणसंस्पर्शप्रत्ययोत्पन्ने वेदयिते स्थातव्यं न जिह्वासंस्पर्शप्रत्ययोत्पन्ने वेदयिते स्थातव्यं न कायसंस्पर्शप्रत्ययोत्पन्ने वेदयिते स्थातव्यं }} न मनःसंस्पर्शप्रत्ययोत्पन्ने वेदयिते {स्थातव्यं}। नाविद्यायां {स्थातव्यं}। एवं
12919 यावन् न जरामरणे। तत् कस्य हेतोः। तथा हि भगवन् अविद्या अविद्यात्वेन
12920 शून्या। या चाविद्याशून्यता न सा अविद्या न चान्यत्र शून्यताया अविद्या
12921 अविद्यैव शून्यता शून्यतैवाविद्या। एवं संस्काराः सम्स्कारत्वेन शून्याः
12922 विज्ञानं विज्ञानत्वेन शून्यं {{नामरूपं नामरूपत्वेन शून्यं षडायतनानि षडायतनत्वेन शून्यानि स्पर्शः स्पर्शत्वेन शून्यो वेदना वेदनात्वेन शून्या तृष्णा तृष्णात्वेन शून्या उपादानम् उपादानत्वेन शून्यं भवो भवत्वेन शून्यो जातिर् जातित्वेन शून्या।}} तथा हि भगवन् जरामरणं
13001 जरामरणत्वेन शून्यम्। या च जरामरणशून्यता न तज् जरामरणं न चान्यत्र
13002 शून्यताता जरामरणं जरामरणम् एव शून्यता शून्यतैव जरामरणम्। अनेन
13003 भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} नाविद्यायां स्थातव्यं {{न संस्कारेषु स्थातव्यं न विज्ञाने स्थातव्यं न नामरूपे स्थातव्यं न षडायतनेषु स्थातव्यं न स्पर्शे स्थातव्यं न वेदनायां स्थातव्यं न तृष्णायां स्थातव्यं न उपादाने स्थातव्यं न भवे स्थातव्यं न जातौ स्थातव्यं}} न जरामरने स्थातव्यम्।
13004 एवं स्कन्धधात्वायतनेषु च न कर्तव्यम्। पुनर् अपरं {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} स्मृत्युपस्थानेषु
13005 न स्थातव्यम्। तत् कस्य हेतोः। तथा हि भगवन् स्मृत्युपस्थानानि स्मृत्युप-
13006 स्थानत्वेन शून्यानि। {{या च भगवन् स्मृत्युपस्थानानां शून्यता न तानि स्मृत्युपस्थानानि। न चान्यत्र स्मृत्युपस्थानेभ्यः स्मृत्युपस्थानानि स्मृत्युपस्थानान्य् एव शून्यता शून्यतैव स्मृत्युपस्थानानि।}} तद् अनेनापि भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता}
13007 न स्मृत्युपस्थानेषु {स्थातव्यं}। एवं सम्यक् प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्ग-
13008 पारमिताभिज्ञादशबलवैशारद्यप्रतिसंविदष्टादशावेणिकबुद्धधर्मेषु न {स्थातव्यं}। तत्
13009 कस्य हेतोः। तथा ह्य् आवेणिकबुद्धधर्म आवेणिकबुद्धधर्मत्वेन शून्या। {{या च भगवन् आवेणिकबुद्धधर्मस्य शून्यता न स आवेणिकबुद्धधर्मः। न चान्यत्रावेणिकबुद्धधर्माद् आवेणिकबुद्धधर्म आवेणिकबुद्धधर्म एव शून्यता शून्यतैव आवेणिकबुद्धधर्मः।}}
13010 तद् अनेनापि भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न सम्यक्प्रहाणर्द्धि-
13011 पादेन्द्रिय{बलबोध्यङ्गमार्गबलवैशारद्यप्रतिसंविद्}आवेणिकबुद्धधर्मेषु न स्थातव्यम्।
13012 पुनर् अपरं भगवन् {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न दानपारमितायां {स्थातव्यम्}। तत् कस्य हेतोः।
13013 तथा हि दानपारमितैव शून्या दानपारमितास्वभावेन। {{शीलपारमितैव शून्या शीलपारमितास्वभावेन। क्षातिपारमितैव शून्या क्षान्तिपारमितास्वभावेन। वीर्यपारमितैव शून्या वीर्यपारमितास्वभावेन। ध्यानपारमितैव शून्या ध्यानपारमितास्वभावेन। प्रज्ञापारमितैव शून्या प्रज्ञापारमितास्वभावेन। या च भगवन् दानपारमितायाः शून्यता न सा दानपारमिता। न चान्यत्र दानपारमितायाः दानपारमिता दानपारमितैव शून्यता शून्यतैव दानपारमिता। या च भगवन् शीलपारमितायाः शून्यता न सा शीलपारमिता। न चान्यत्र शीलपारमितायाः शीलपारमिता शीलपारमितैव शून्यता शून्यतैव शीलपारमिता। या च भगवन् क्षान्तिपारमितायाः शून्यता न सा क्षान्तिपारमिता। न चान्यत्र क्षान्तिपारमितायाः क्षान्तिपारमिता क्षान्तिपारमितैव शून्यता शून्यतैव क्षान्तिपारमिता। या च भगवन् वीर्यपारमितायाः शून्यता न सा वीर्यपारमिता। न चान्यत्र वीर्यपारमितायाः वीर्यपारमिता वीर्यपारमितैव शून्यता शून्यतैव वीर्यपारमिता। या च भगवन् ध्यानपारमितायाः शून्यता न सा ध्यानपारमिता। न चान्यत्र ध्यानपारमितायाः ध्यानपारमिता ध्यानपारमितैव शून्यता शून्यतैव ध्यानपारमिता। या च भगवन् प्रज्ञापारमितायाः शून्यता न सा प्रज्ञापारमिता। न चान्यत्र प्रज्ञापारमितायाः प्रज्ञापारमिता प्रज्ञापारमितैव शून्यता शून्यतैव प्रज्ञापारमिता।}}
13014 तद् अनेनापि भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता}
13015 न दानपारमितायां {स्थातव्यं} {{न शीलपारमितायां स्थातव्यं न क्षान्तिपारमितायां स्थातव्यं न वीर्यपारमितायां स्थातव्यं न ध्यानपारमितायां स्थातव्यं}} न प्रज्ञापारमितायां {स्थातव्यम्}।
13016 पुनर् अपरं भगवन् {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} अक्षरेषु न {स्थातव्यं}। अक्षराभिनिर्हारेषु न {स्थातव्यं}।
13017 एकोदाहारे द्विरुदाहारे त्रिरुदाहारे न {स्थातव्यं}। तत् कस्य हेतोः। तथा हि
13018 अक्षराणि शून्यान्य् अक्षरस्वभावेन। या च भगवन्न् अक्ष्रशून्यता न सा अक्षराणि
13019 न चान्यत्र शून्यताया अक्षराणि अक्ष्सरान्य् एव शून्यता शून्यतैवाक्षराणि।
13020 तद् अनेन भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} नाक्षरेषु स्थातव्यम्। पुनर् अपरं भगवन् {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता}
मूल पाठ: Pañcaviṃśatisāhasrikā Prajñāpāramitā, 1 · Edition: Nalinaksha Dutt: Pañcaviṃśatisāhasrikā Prajñāpāramitā, Calcutta 1934 (Calcutta Oriental Series, 28). = PSP1 · Data entry Kenta Suzuki Koichi Takahashi · GRETIL (Göttingen) · CC BY-NC-SA 4.0