पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता · भाग 101120
20503 दीर्घम् आविध्यामीति {यथाभूतं प्रजानाति}। ह्रस्वम् आविध्यं ह्रस्वम् आविध्यामीति {यथाभूतं प्रजानाति}। एवम् एव {सुभूते}
20504 {बोधिसत्त्वो} महासत्त्वः स्मृत आश्वसन् {{स्मृत आश्वसामीति यथाभूतं प्रजानाति। स्मृतः प्रश्वसन् स्मृतः प्रश्वसामीति यथाभूतं प्रजानाति। दीर्घं वा आश्वसन् दीर्घं वा आश्वसामीति यथाभूतं प्रजानाति। दीर्घं वा प्रश्वसन् दीर्घं वा प्रश्वसामीति यथाभूतं प्रजानाति। ह्रस्वं वा आश्वसन् ह्रस्वं वा आश्वसामीति यथाभूतं प्रजानाति। ह्रस्वं वा प्रश्वसन् ह्रस्वं वा प्रश्वसामीति यथाभूतं प्रजानाति}}।
20505 एवं हि {सुभूते} {बोधिसत्त्वो} महासत्त्वः काये कायानुपश्यी विहरति आतापी {{संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्यादौर्मनस्ये तच् चानुलम्भयोगेन।}}
20506 पुनर् अपरं {सुभूते} {बोधिसत्त्वो} महासत्त्वः इमम् एव कायं धातुशो यथाभूतं प्रत्यवेक्षते। अस्त्य् अ-
20507 स्मिन् काये पृथिवीधातुर् अब्धातुस् तेजोधातुर् वायुधातुः। तद् यथापि नाम {सुभूते}
20508 गोघातको वा गोघातकान्तेवासी वा तीक्ष्णेन शस्त्रेण गां हन्यात् गां हत्वा
20509 चत्वारि फलानि कुर्यात्। चत्वारि फलकानि कृत्वा प्रत्यवेक्षेत स्थितो
20510 वा निषण्णः। एवम् एव {सुभूते} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् इमम् एव कायं
20511 धातुशो यथाभूतं प्रत्यवेक्षते। अस्त्य् अस्मिन् काये पृथिवीधातुर् अब्धातु-
20512 स् तेजोधातुर् वायुधातुः। एवं हि {सुभूते} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्न् अ-
20513 ध्यात्मं काये कायानुपश्यी विहरति आतापी {{संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्या}}दौर्मनस्ये
20514 तच् चानुपलम्भयोगेन। पुनर् अपरं {सुभूते} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्न् इमम् एव
20515 कायमूर्ध्वपादतलाद् अधः केशमस्तकान् नखरोमत्वक्पर्यन्तं पूर्णं नानाप्रकारस्या-
20516 शुचेर् यथाभूतं प्रत्यवेक्षते सन्त्य् अस्मिन् काये केशरोमाणि नखा दन्तास् त्वक् चर्म
20517 मांसस् जायवः शोणितम् अस्थिमज्जाहृदयं वृक्कायकृत्क्लोमप्लीहा आममन्त्राणि
20518 अन्त्रगुणा उदरं पुरीषं मूत्रम् अश्रुस्वेदो मेदः खेटः सिंहानकं पूयं लोहितं
20519 पित्तं श्लेष्मा वसा मलो मस्तकलुङ्गम् अक्षिगूथकं कर्णगूथकम् इत्य् अस्मिन् काये
20520 यथाभूतं प्रत्यवेक्षते। तद् यथापि नाम {सुभूते} कर्मकारस्य मुतोडिः पूर्णो
20521 नानाधान्यानां शालीनां व्रीहीनां तिलानां तण्डुलानां मुद्गानां माषाणां
20522 यवानां गोधूमानां मसूराणां सर्षपाणाम् अप्य् अन्यश् चक्षुष्मान् पुरुषो मुक्तो
20601 प्रत्यवेक्षमाणः एवं जानीयाद् अयं शालिः, अयं व्रीही, अमी तिलाः, अमी
20602 तण्डुलाः, अमी मुद्गाः, अमी माषाः, अमी यवाः, अमी गोधूमाः,
20603 अमी समूराः, अमी सर्षपा इति। एवम् एव {सुभूते} {बोधिसत्त्वो} महासत्त्व इमम् एव कायमूर्ध्वं
20604 पादतलाद् अधः केशमस्तकात् {{नखरोमत्वक्पर्यन्तं पूर्णं नानाप्रकारस्याशुचेर् यथाभूतं प्रत्यवेक्षते सन्त्य् अस्मिन् काये केशरोमाणि नखा दन्तास् त्वक् चर्म मांसस् जायवः शोणितम् अस्थिमज्जाहृदयं वृक्कायकृत्क्लोमप्लीहा आममन्त्राणि अन्त्रगुणा उदरं पुरीषं मूत्रम् अश्रुस्वेदो मेदः खेटः सिंहानकं पूयं लोहितं पित्तं श्लेष्मा वसा मलो मस्तकलुङ्गम् अक्षिगूथकं}}
20605 कर्णगूथकं। एवं हि {सुभूते} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायाञ् चरन् अध्यात्मं काये
20606 कायानुपश्यी विहरति आतापी {{संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्या}}दौर्मनस्ये।
20607 पुनर् अपरं {सुभूते} {बोधिसत्त्वो} महासत्त्वो यदा श्मशानगतः पश्यति नानारूपाणि श्मशाने
20608 ऽपविद्धानि शिवपथिकायाम् उज्झितानि एकाहमृतानि वा द्व्यहमृतानि त्र्यह-
20609 मृतानि वा चतुरहमृतानि वा पञ्चाहमृतानि वा आध्मातकानि विनीलकानि वा
20610 विपूयकानि वा विखादितकानि वा विज्ञप्तकानि वा स इमम् एव कायं तत्रोपसंहरति।
20611 अयम् अपि काय एवं धर्मा एवं स्वभाव एतां धर्मताम् अव्यतिवृत्तः। एवं हि {सुभूते}
20612 {बोधिसत्त्वो} महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी {{संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्या-}}
20613 दौर्मनस्ये। पुनर् अपरं {सुभूते} {बोधिसत्त्वो} महासत्त्वो यदा मृतशरीराणि पश्यति श्मशान
20614 उत्सृष्टानि षडात्रमृतानि वा सप्तरात्रमृतानि वा तानि काकैर् वा खाद्यमानानि
20615 कुररैर् वा गृध्रैर् वा शृगालैर् वा वृकैर् वा श्वभिर् वा तदन्यैर् वा नानाविधैः प्राणकजातैः
20616 खाद्यमानानि स इमम् एव कायं तत्रोपसंहरति {{अयम् अपि काय एवं धर्मा एवं स्वभाव एतां धर्मताम् अव्यतिवृत्तः। एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्यादौर्मनस्ये}}।
20617 पुनर् अपरं {सुभूते} {बोधिसत्त्वो} महासत्त्वो यानि तानि पश्यति मृतशरीराणि श्मशान उज्झि-
20618 तानि खादितकानि अशुचीनि विपूतीनि दुर्गन्धीनि स इमम् एव कायं तत्रोप-
20619 संहरति {{अयम् अपि काय एवं धर्मा एवं स्वभाव एतां धर्मताम् अव्यतिवृत्तः। एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्यादौर्मनस्ये}}। {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} महासत्त्वो यदा पश्यति
20620 शिवपथिकायाम् अस्थिसंकुलां मांसशोणितम्रक्षितां स्नायुविनिबद्धान्तां दृष्ट्वा स
20621 इमम् एव कायं तत्रोपसंहरति {{अयम् अपि काय एवं धर्मा एवं स्वभाव एतां धर्मताम् अव्यतिवृत्तः। एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्यादौर्मनस्ये}}। {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} महासत्त्वो
20622 यानि तानि पश्यति मृतशरीराणि शिवपथिकायाम् अस्थिसंकलाम् अपगतमांसशोणित-
20701 स्नायुवन्धनान्तां दृष्ट्वा इमम् एव कायं {{तत्रोपसंहरति अयम् अपि काय एवं धर्मा एवं स्वभाव एतां धर्मताम् अव्यतिवृत्तः। एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्यादौर्मनस्ये।}} {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} महासत्त्वो
20702 यदा पश्यति शिवपथिकायाम् अस्थिसंकलां विग्रहवन्धनविप्रयुक्तां विसंयुक्तां
20703 यथासंख्याः पृथिव्यां विक्षिप्ताः स इमम् एव कायं {{तत्रोपसंहरति अयम् अपि काय एवं धर्मा एवं स्वभाव एतां धर्मताम् अव्यतिवृत्तः। एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्यादौर्मनस्ये।}} {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो}
20704 महासत्त्वो यदा पश्यति शिवपथिकायाम् अस्त्ःईनि दिग्विदिशो विक्षिप्तानि यद् उतान्येन
20705 पादास्थीनि {अन्येन} जंघास्थीनि {अन्येन} उर्वस्थीनि {अन्येन} श्रोणीकटाहास्थीनि {अन्येन}
20706 पृष्ठवंशास्थीनि {अन्येन} पार्श्वकास्थीनि {अन्येन} ग्रीवास्थीनि {अन्येन} वाह्वस्थीनि {अन्येन}
20707 शिरःकपालास्थीनि स इमम् एव कायं {{तत्रोपसंहरति अयम् अपि काय एवं धर्मा एवं स्वभाव एतां धर्मताम् अव्यतिवृत्तः। एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्यादौर्मनस्ये।}} {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो}
20708 महासत्त्वो यदा पश्यति शिवपथिकायाम् अस्थीनि अनेकवार्षिकाणि अनेक-
20709 वर्षशतानि वातातपपरीतानि श्वेतानि शङ्खसन्निभानि स इमम् एव कायं {{तत्रोपसंहरति अयम् अपि काय एवं धर्मा एवं स्वभाव एतां धर्मताम् अव्यतिवृत्तः। एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्यादौर्मनस्ये।}}
20710 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} महासत्त्वो यदा पश्यति शिवपथिकायाम् अस्थीनि
20711 तिरोवार्षिकाणि नीलानि कपोतवर्णानि पूतीनि चूर्णकजातानि पृथिव्यां पांशुना
20712 समसमीभूतानि स इमम् एव कायं {{तत्रोपसंहरति अयम् अपि काय एवं धर्मा एवं स्वभाव एतां धर्मताम् अव्यतिवृत्तः। एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्यादौर्मनस्ये।}} एवं वेदनायां चित्ते धर्मे
20713 धर्मानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोके अभिध्या-
20714 दौर्मनस्ये तच् चानुपलम्भयोगेन। इदं {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्।
20715 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्। यद् उत चत्वारि सम्यक्प्रहाणानि।
20716 कतमानि चत्वारि। इह {सुभूते} {बोधिसत्त्वो} महासत्त्वो ऽनुत्पन्नानां पापकानाम् अकुशलानां
20717 धर्माणाम् अनुत्पादाय छन्दं जनयति व्यायच्छते वीर्यम् आरभते चित्तं प्रतिगृह्णाति
20718 सम्यक्प्रणिदधाति उत्पन्नानां पापकानाम् अकुशलानां धर्माणां प्रहाणाय छन्दं
20719 {जनयति व्यायच्छते चित्तं प्रतिगृह्णाति सम्यक्प्रणिदधाति}। अनुत्पन्नानां कुशलानां धर्माणाम् उत्पादाय छन्दं {जनयति व्यायच्छते चित्तं प्रतिगृह्णाति सम्यक्प्रणिदधाति}। उत्पन्नानां
20720 कुशलानां धर्माणां स्यितये भूयो भवाय असंप्रमोषाय अपरिहाणाय छन्दं
20721 {जनयति व्यायच्छते चित्तं प्रतिगृह्णाति सम्यक्प्रणिदधाति}। तच् चानुपलम्भयोगेन। इदम् अपि {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्।
20722 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम् यद् उत चत्वार ऋद्धिपादाः।
20723 कतमे चत्वारः। इह {सुभूते} {बोधिसत्त्वो} महासत्त्वश् छन्दसमाधिप्रहाणं संस्कारसमन्वागत-
20724 म् ऋद्धिपादं भावयति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गे
20725 परिगतम् एवं वीर्यसमाधिश् चित्तसमाधिर् मीमांसासमाधिप्रहाणसंस्कार{{समन्वागतम् ऋद्धिपादं भावयति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गे}}
20801 परिगतम् तच् चानुपलम्भयोगेन। इदम् अपि {सुभूते} {बोधिसत्त्वस्य} महा-
20802 सत्त्वस्य महायानम्।
20803 {पुनर् अपरम्} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानं यद् उत पञ्चेन्द्रियाणि। कतमानि
20804 पञ्च। श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियम्। तच् चा-
20805 नुपलम्भयोगेन। इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्}। पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}। यद् उत पञ्चबलानि। कत-
20806 मानि पञ्च। श्रद्धाबलं वीर्यबलं स्मृतिबलं समाधिबलं प्रज्ञाबलम् तच् चानुपलम्भ-
20807 योगेन। इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्।}
20808 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं} यद् उत सप्तबोध्यङ्गानि। कतमानि सप्त। स्मृति{संबोध्यङ्गं}
20809 धर्मप्रविचय{संबोध्यङ्गं} वीर्य{संबोध्यङ्गं} प्रीति{संबोध्यङ्गं} प्रस्रब्धि{संबोध्यङ्गं} समाधि{संबोध्यङ्गं} उपेक्षा{संबोध्यङ्गं}। तत्र कतमत्
20810 स्मृति{संबोध्यङ्गं} यावद् उपेक्षा{संबोध्यङ्गं}। इह {सुभूते} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायाञ् चरन्
20811 स्मृति{संबोध्यङ्गं} यावद् उपेक्षा{संबोध्यङ्गं} भावयति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं
20812 व्यवसर्गपरिगतम् तच् चानुपलम्भयोगेन। इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्।}
20813 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं} यद् उत आर्याष्टाङ्गमार्गः। कतम आर्याष्टाङ्गो मार्गः। यद् उत
20814 सम्यग्दृष्टिः {सम्यक्}संकल्पः {सम्यक्}कर्मान्तः {सम्यग्}आजीवः {सम्यग्}व्यायामः {सम्यक्-}
20815 स्मृतिः {सम्यक्}समाधिः। तच् चानुपलम्भयोगेन। इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्}।
20816 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}। यद् उत त्रयः समाधयः। कतमे त्रयः समाधयः शून्यता-
20817 निमित्ताप्रणिहितः। तत्र कतमः शून्यतासमाधिः। स्वलक्षणेन शून्यान्
20818 सर्वधर्मान् प्रत्यवेक्षमाणस्य या चित्तस्य स्थितिः शून्यताविमोक्षमुखम् अयम् उच्यते
20819 शून्यतासमाधिः। अनिमित्तान् सर्वधर्मान्
20820 {{प्रत्यवेक्षमाणस्य या चित्तस्य स्थितिः अनिमित्तविमोक्षमुखम् अयम् उच्यते अनिमित्तसमाधिः}}। अप्रणिहितान् सर्वधर्मान् प्रत्यवेक्षमाणस्य या चित्तस्य
20821 {{स्थितिः अप्रणिहितविमोक्षमुखम् अयम् उच्यते अप्रणिहितसमाधिः}}। इमानि त्रीणि विमोक्षमुखानि।
20822 त्रयः समाधयः। इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्}। एतेषु त्रिषु विमोक्षमुखेषु शिक्षितव्यम्।
20823 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}। यद् उत दुःखज्ञानं समुदयज्ञानं निरोधज्ञानं मार्गज्ञानं
20824 क्षयज्ञानम् अनुत्पादज्ञानं धर्मज्ञानं अन्वयज्ञानं संवृत्तिज्ञानं परिजयज्ञानं
20901 यथारुतज्ञानं। तत्र कतमद् दुःखज्ञानं। यद् दुःखस्यानुत्पादज्ञानम् इदं दुःख-
20902 ज्ञानं। {तत्र कतमत्} समुदय{ज्ञानं}। यत् समुदयस्य प्रहाणज्ञानं। {तत्र कतमद्} निरोध{ज्ञानं}। यद् दुःख-
20903 निरोधज्ञानं। {तत्र कतमद्} मार्ग{ज्ञानं}। यन् निरोधसाक्षात्करणज्ञानं। {तत्र कतमत्} क्षय{ज्ञानं}। यद् रागदोष-
20904 मोहक्षयज्ञानं। {तत्र कतमद्} अनुत्प्द{ज्ञानं}। यद् अनुत्पादे अनुत्पादज्ञानं। {तत्र कतमद्} धर्म{ज्ञानं}। यत्
20905 पञ्चानां स्कन्धानां धर्मोपच्छेदज्ञानं। {तत्र कतमद्} अन्वय{ज्ञानं}। चक्षुर् अनित्यं श्रोत्रं घ्राणं
20906 जिह्वा कायो मनो ऽनित्यं। एवं यावद् व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्य-
20907 समुत्पादेषु च ज्ञानं। {तत्र कतमत्} संवृत्ति{ज्ञानं}। यत् परसत्त्वानां परपुद्गलानां चेतसैव
20908 चेतसो ज्ञानं। {तत्र कतमत्} परिजय{ज्ञानं}। यत् प्रतिपत्परिजयज्ञानं। {तत्र कतमद्} यथारुत{ज्ञानं}। यत् तत्
20909 तथागतस्य सर्वाकारज्ञताज्ञानं तच् चानुपलम्भयोगेन। इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्}
20910 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}। यद् इदं त्रीणीन्द्रियानि। कतमानि त्रीणि। अनाज्ञातम् आ-
20911 ज्ञास्यामीन्द्रियम् आज्ञेन्द्रियम् आज्ञातावीन्द्रियं। {तत्र कतमत्} अनाज्ञातम् आज्ञास्यामी-
20912 न्द्रियं। यच् छैक्षाणां पुद्गलानाम् अनभिसमितानाम् अनवभासं यद् अविनयं
20913 श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियम् इदम् उच्यते अना-
20914 ज्ञातम् आज्ञास्यामीन्द्रियं। {तत्र कतमद्} आज्ञेन्द्रियं। यच् छैक्षाणां पुद्गलानाम् आज्ञातवतां
20915 श्रद्धेन्द्रियं {{वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं}} प्रज्ञेन्द्रियम् इदम् उच्यते आज्ञेन्द्रियं। {तत्र कतमद्} आज्ञातावीन्द्रियं
20916 यद् उताशैक्षाणां पुद्गलानाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां तथागतानाम् अर्हतां
20917 सम्यक्संबुद्धानां श्रद्धेन्द्रियं {{वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं}} प्रज्ञेन्द्रियम् इदम् उच्यते आज्ञातावीन्द्रियं।
20918 इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} अनुपलम्भयोगेन।
20919 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}। यद् उत सवितर्कः सविचारः समाधिर् अवितर्को ऽविचारमात्रः
20920 समाधिः। {तत्र कतमः} सवित्र्कः सविचारः समाधिः। इह {सुभूते} {बोधिसत्त्वो} महासत्त्वो विविक्तं
20921 कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कसविचारं विवेकजं प्रीतिसुखं प्रथमं
20922 ध्यानम् उपसम्पद्य विहरति। अयम् उच्यते सवितर्कः सविचारः समाधिः। {तत्र}
21001 कतमो ऽवितर्को ऽविचारमात्रः समाधिः। यः प्रथमस्य ध्यानस्य द्वितीयस्य ध्यान-
21002 स्यान्तरिको ऽयम् उच्यते अवितर्को ऽविचारमात्रः समाधिः। तत्र कतमो ऽवितर्को
21003 ऽविचारः समाधिर् यद् द्वितीयं ध्यानं विस्तरेण कर्तव्यं यावन् नैव संज्ञानासं-
21004 ज्ञायतनसमापत्तिर् अयम् उच्यते ऽवितर्को ऽविचारः समाधिः। इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} अनु-
21005 पलम्भयोगेन।
21006 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}। यद् उत दशानुस्मृतयः। कतमा दश। यद् उत बुद्धानुस्मृतिर् धर्मानु{स्मृतिर्}
21007 अंघानु{स्मृतिः} शीलानु{स्मृतिः} त्यागानु{स्मृतिर्} देवतानु{स्मृतिर्} ऊर्ध्वगानु{स्मृतिर्} मरणानु{स्मृतिः} कायानु{स्मृतिर्}
21008 आनापानानु{स्मृतिः}। इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} अनुपलम्भयोगेन।
21009 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं} यद् उत चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्य-
21010 समापत्तयो ऽष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः। इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्}
21011 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}। दश तथागतबलानि। कतमानि दश। यद् उत इह {बोधिसत्त्वो}
21012 महासत्त्वः स्थानञ् च स्थानतो ऽस्थानञ् चास्थानतो यथाभूतं प्रजानाति।
21013 अतीतानागतप्रत्युत्पन्नानां च कर्मणां कर्मसमादानानां च स्थानतो हेतुतो
21014 विपाकञ् च यथा{भूतं प्रजानाति}। नानाधातुकं यथा{भूतं प्रजानाति}। परसत्त्वानां परपुद्गलानां नानाधि-
21015 मुक्तिकतां यथा{भूतं प्रजानाति}। परसत्त्वानां परपुद्गलानाम् इन्द्रियपरापरज्ञानतां यथा{भूतं प्रजानाति}।
21016 सर्वत्रगामिनीं प्रतिपदं यथा{भूतं प्रजानाति}। परसत्त्वानां परपुद्गलानां ध्यानविमोक्ष-
21017 समाधिसमापत्तिसंक्लेशव्यवदानव्युत्थानं यथा{भूतं प्रजानाति}। सो ऽनेकविधं पूर्वनिवास-
21018 म् अनुस्मरति। स च दिव्येन चक्षुषा सत्त्वानां च्युतोपपादं यथा{भूतं प्रजानाति}। स आस्र-
21019 वाणां क्षयाद् अनास्रवां चेतोविमुक्तिं प्रज्ञाविमुक्तिं दृष्ट एव धर्मे स्वयम् अभिज्ञाय
21020 साक्षात्कृत्वा उपसम्पद्य विहरति क्षीना मे जातिर् उषितं ब्रह्मचर्यं कृतं
21021 करणीयं नापरमिथ्यात्वम् इति यथा{भूतं प्रजानाति}। इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} अनुपलम्भ-
21022 योगेन।
21101 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}। यद् उत चत्वारि वैशारद्यानि। कतमानि चत्वारि। यद् उत सम्यक्-
21102 संबुद्धस्य वत मे प्रतिजानतः इमे धर्मा अभिसंबुद्धा इति अत्र च मे कश्चिच् छ्रमणो
21103 वा देवो वा मारो वा ब्रह्मा वा कश्चिद् वा पुनर् लोके सह धर्मेण चोदयेद् इति निमित्त-
21104 म् एतन् न समनुपश्यामि। इदम् अत्र निमित्तम् असमनुपश्यन् क्षेमप्राप्तो ऽभयप्राप्तो
21105 विहरामि आर्षभं स्थानं प्रजानामि पर्षदि सम्यक् सिंहनादं नदामि ब्राह्मं
21106 चक्रं प्रवर्तयामि अप्रवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा
21107 वा केनचिद् वा पुनर् लोके सह धर्मेणेति। क्षीणाश्रवस्य वत मे प्रतिजानतः इमे
21108 आस्रवा अपरिक्षीणा इति नैतत् स्थानं विद्यते। अत्र च मे कश्चिच् छ्रमणो
21109 वा ब्राह्मणो वा पेयालं यावद् ब्राह्मं चक्रं प्रवर्त{{यामि अप्रवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके}} सह धर्मेणेति।
21110 ये खलु पुनर् इमे मया आन्तरायिका धर्मा आख्यातास् तान् प्रतिषेवमाणस्य
21111 नालम् अन्तरायायेति नैतत् स्थानं विद्यते। अत्र मे {कश्चिच् छ्रमणो वा ब्राह्मणो वा पेयालं यावत् केनचिद् वा पुनर् लोके सह धर्मेणेति}। या मया प्रतिपदा-
21112 ख्याता आर्या नैर्याणिकी निर्याति तत् करस्य सम्यग् दुःखक्षयाय तां प्रतिपद्य-
21113 मानो न निर्यायात् सम्यग् दुःखक्षयायेति नैतत् स्थानं विद्यते। अत्र
21114 च मे {कश्चिच् छ्रमणो वा ब्राह्मणो वा पेयालं यावत् केनचिद् वा पुनर् लोके सह धर्मेणेति।} इमानि चत्वारि वैशारद्यानि। इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} अनुपलम्भ-
21115 योगेन।
21116 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}। यद् उत चतस्रः प्रतिसंविदः। कतमाश् चतस्रः। धर्म{प्रतिसंविद्}
21117 अर्थ{प्रतिसंविद्} निरुक्ति{प्रतिसंवित्} प्रतिभान{प्रतिसंवित्}। इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} अनुपलम्भयोगेन।
21118 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}। यद् उताष्टादशावेणिका बुद्धधर्माः। कतमे अष्टादश। यद् उत
21119 याञ् च रात्रिं सुभूते तथागतो ऽर्हन् सम्यक्संबोधिम् अभिसंबुद्धः याञ् च रात्रिम् उपादाय
21120 परिनिर्वास्यति एतस्मिन्न् अन्तरे सुभूते नास्ति तथागतस्य स्खलितं नास्ति 21121 चवितं नास्ति मुषितस्मृतिता नास्ति नानात्वसंज्ञा नास्त्य् असमाहितं चित्तं नास्त्य् अ-
21201 प्रतिसंख्या चोपेक्षा नास्ति छन्दपरिहाणिर् नास्ति वीर्य{परिहाणिर्} नास्ति स्मृति{परिहाणिर्}
21202 नास्ति समाधि{परिहाणिर्} नास्ति प्रज्ञा{परिहाणिर्} नास्ति विमुक्ति{परिहाणिः}। सर्वकायकर्मज्ञानपूर्वङ्गम-
21203 ज्ञानानुपरिवर्त्ति। सर्ववाक्कर्म{{ज्ञानपूर्वङ्गमज्ञानानुपरि}}वर्त्ति। सर्वमनस्कर्म-
21204 {{ज्ञानपूर्वङ्गमज्ञानानुपरि}}वर्त्ति। अतीते ऽध्वन्य् अप्रतिहतम् असङ्गज्ञानन् दर्शनञ् च। अनागते
21205 ऽध्वन्य् {{अप्रतिहतम् असङ्गज्ञानन् दर्शनञ् च}}। प्रत्युत्पन्ने ऽध्वन्य् {{अप्रतिहतम् असङ्गज्ञानन् दर्शनञ् च}}
21206 प्रवर्त्तते। इमे अष्टादशावेणिका बुद्धधर्माः। इदम् पि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} अनु-
21207 पलम्भयोगेन। [इति मार्गसम्भारः॥]
21208 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}। यद् उत धारणीमुखानि। यद् उताक्षरनयसमताक्षरमुखम् अक्षर-
21209 प्रवेशः। कतमो ऽक्षरनयसमता अक्षरमुखम् अक्षरप्रवेशः। अकारो मुखः सर्वधर्मा-
21210 णाम् आद्यनुत्पन्नत्वात्। रेफो मुखः {सर्वधर्माणां} रजो ऽपगतत्वात्। पकारो मुखः
21211 {सर्वधर्माणां} परमार्थनिर्देशात्। चकारो मुखः {सर्वधर्माणां} च्यवनोपपत्त्यनुपलब्धित्वात्।
21212 न{कारो मुखः} {सर्वधर्माणां} नामापगतत्वात्। ल{कारो मुखः} {सर्वधर्माणां} लोकोत्तीर्णत्वात् तृष्णा-
21213 लताहेतुप्रत्ययसमुद्घातित्वात् च। द{कारो मुखः} {सर्वधर्माणां} दान्तदमथपरिच्छिन्नत्वात्।
21214 ब{कारो मुखः} {सर्वधर्माणां} बन्धनविमुक्तत्वात्। ड{कारो मुखः} {सर्वधर्माणां} डमरापगतत्वात्। स{कारो मुखः} {सर्वधर्माणां}
21215 सङ्गानुपलब्धित्वात्। व{कारो मुखः} {सर्वधर्माणां} वाक्पथघोषसमुच्छिन्नत्वात्। त{कारो मुखः} {सर्वधर्माणां}
21216 तथता ऽचलितत्वात्। य{कारो मुखः} {सर्वधर्माणां} यथावद् अनुत्पादत्वात्। स्त{कारो मुखः} {सर्वधर्माणां}
21217 स्तम्भानुपलब्धित्वात्। क{कारो मुखः} {सर्वधर्माणां} कारकानुपलब्धित्वात्। स{कारो मुखः} {सर्वधर्माणां}
21218 समतानुपलब्धित्वात्। म{कारो मुखः} {सर्वधर्माणां} ममकारानुपलब्धित्वात्। ग{कारो मुखः} {सर्वधर्माणां}
21219 गगनानुपलब्धितः। स्थ{कारो मुखः} {सर्वधर्माणां} स्थानानु{पलब्धितः}। ज{कारो मुखः} {सर्वधर्माणां} जात्यनु{पलब्धितः}। श्व{कारो मुखः}
21220 {सर्वधर्माणां} श्वासानु{पलब्धितः}। ध{कारो मुखः} {सर्वधर्माणां} धर्मधात्वनु{पलब्धितः}। श{कारो मुखः} {सर्वधर्माणां} शमथानु{पलब्धितः}। ख{कारो मुखः}
21221 {सर्वधर्माणां} खसमतानु{पलब्धितः}। क्ष{कारो मुखः} {सर्वधर्माणां} क्षयानु{पलब्धितः}। त{कारमुखाः} {सर्वधर्माः} तच् चानुपलब्धितः।
21301 ज्ञ{कारमुखाः} {सर्वधर्माः} सर्वज्ञानानु{पलब्धितः}। ह{कारमुखाः} {सर्वधर्माः} हेतोर् अनु{पलब्धितः}। च्छ{कारमुखाः} {सर्वधर्माः} छवेर् अप्य् अनु{पलब्धितः}।
21302 स्म{कारमुखाः} {सर्वधर्माः} स्मरणानु{पलब्धितः}। द्ध{कारमुखाः} {सर्वधर्मा} आद्धानापगतत्वात्। स{कारमुखाः} सर्वधर्मा
21303 उत्साहानु{पलब्धितः}। घ{कारमुखाः} {सर्वधर्माः} घनानु{पलब्धितः}। ठ{कारमुखाः} {सर्वधर्माः} विठपनानु{पलब्धितः}। ण{कारमुखाः} {सर्वधर्माः} रण-
21304 विगतत्वात्। फ{कारमुखाः} {सर्वधर्माः} फलानु{पलब्धितः}। स्क{कारमुखाः} {सर्वधर्माः} स्कन्धानु{पलब्धितः}। ज{कारमुखाः} {सर्वधर्माः}
21305 जरानु{पलब्धितः}। च{कारमुखाः} {सर्वधर्माः} चरणानु{पलब्धितः}। ट{कारमुखाः} {सर्वधर्माः} ठंकारानु{पलब्धितः}। ढ{कारो मुखः} {सर्वधर्माः}
21306 डंकारानु{पलब्धितः}।
21307 नास्ति अत उत्तरि अक्षयव्यवहारः। तत् कस्य हेतोः। तथा हि
21308 न कस्यचिन् नामास्ति येन संव्यवह्रियेत येन वाभिलप्येत येन निर्दिश्येत येन
21309 लक्ष्येत येन पश्येत्। तद् यथापि नाम सुभूते आकाशम्। एवम् एव सर्वधर्मा
21310 अनुगन्तव्याः। अयं {सुभूते} धारणीप्रवेशो ऽकाराद्यक्षरनिर्देशप्रवेशः। यः कश्चित्
21311 {सुभूते} {बोधिसत्त्वो} महासत्त्वः इदम् अकाराद्यक्षरकौशल्यप्रवेशं ज्ञास्यति न स क्वचिद् रुते प्रति-
21312 हन्यते। सर्वं तं धर्मतया समाधयिष्यति रुतज्ञानकौशल्यञ् च प्रतिलप्स्यते।
21313 यो हि कश्चित् {सुभूते} {बोधिसत्त्वो} महासत्त्व इमाम् अकाराद्यक्षरमुद्रां श्रोष्यति श्रुत्वा चोद्-
21314 ग्रहीष्यति धारयिष्यति वाचयिष्यति परेषां देशयिष्यति रमयति तया सन्तत्या
21315 तस्य विंशतिर् अनुशंसाः प्रतिकांक्षितव्याः। कतमा विंशतिः। स्मृतिमांश् च
21316 भविष्यति। मतिमांश् च {भविष्यति}। गतिमांश् च {भविष्यति}। धृतिमांश् च {भविष्यति}। ह्रीमांश् च
21317 प्रज्ञावांश् च प्रतिभानवांश् च सत्यकुशलश् च {भविष्यति}। इदं धारणीमुखम् अल्पकृच्छ्रेण प्रतिल-
21318 प्स्यते न च कथंकथी {भविष्यति}। विमतिश् चास्य न {भविष्यति}। न च श्लक्ष्णां वाचं श्रुत्वा
21319 परेष्व् अनुनीतो {भविष्यति}। न च परुषया वाचा प्रतिहन्यते। न चोन्नतो {भविष्यति} नावनतः।
21320 यथास्थित एव {भविष्यति} रुतकुशलश् च भविष्यति। स्कन्ध{कुशलश् च भविष्यति} धातु{कुशलश् च भविष्यति}। आयतन{कुशलश् च भविष्यति}
21321 सत्य{कुशलश् च भविष्यति} प्रतीत्यसमुत्पाद{कुशलश् च भविष्यति}। हेतु{कुशलश् च भविष्यति} प्रत्यय{कुशलश् च भविष्यति}। धर्म{कुशलश् च भविष्यति}। इन्द्रियपरिपूर्ण-
21401 ज्ञान{कुशलश् च भविष्यति}। परचित्तज्ञान{कुशलश् च भविष्यति} ऋद्धिविधिज्ञान{कुशलश् च भविष्यति}। दिव्यश्रोत्रज्ञान{कुशलश् च भविष्यति}। पूर्व-
21402 निवासानुस्मृतिज्ञान{कुशलश् च भविष्यति}। च्युतोपपत्तिज्ञान{कुशलश् च भविष्यति}। आस्रवक्षयज्ञान{कुशलश् च भविष्यति}। स्थाना-
21403 स्थाननिर्देश{कुशलश् च भविष्यति}। अतिक्रमण{कुशलश् च भविष्यति} इर्यापथ{कुशलश् च भविष्यति}। इमान् अनुशंसान् प्रतिलप्स्यते
21404 इति। इदम् अपि सुभूते धारणीमुखम् अक्षरमुकम् अकारमुखं {बोधिसत्त्वस्य} महासत्त्वस्य
21405 महायानम्। [इति धारणीसम्भारः॥]
21406 यद् अपि तत् सुभूतिर् एवम् आह। कथं {बोधिसत्त्वो} महासत्त्वो महायानसम्प्रस्थितो
21407 भवतीति। इह सुभूते {बोधिसत्त्वो} महासत्त्वः षट्सु पारमितासु चरन् भूमेर् भूमिं
21408 संक्रामति। कथं च सुभूते {बोधिसत्त्वो} महासत्त्वो भूमेर् भूमिं संक्रामति यद् उता-
21409 संक्रान्त्या सर्वधर्माणाम्। तत् कस्य हेतोः। न हि स कश्चिद् धर्मो य आगच्छति
21410 वा गच्छति वा संक्रामति वा उपसंक्रामति वा। अपि तु या धर्माणां भूमि-
21411 स् तान् न मन्यते न चिन्तयति भूमिपरिकर्म च करोति न च भूमिं समनुपश्यति।
21412 कतमच् च {बोधिसत्त्वस्य} महासत्त्वस्य भूमिपरिकर्म। प्रथमायां भूमौ वर्तमानेन
21413 {बोधिसत्त्वेन} महासत्त्वेन दशभूमिपरिकर्माणि करणीयानि। कतमानि दश। अध्या-
21414 शयपरिकर्म अनुपलम्भयोगेन। हितवस्तुता{परिकर्म} निमित्ततानुपलम्भताम् उपादाय।
21415 सर्वसत्त्वसमचित्तता{परिकर्म} सत्त्वानुपलब्धिताम् उपादाय। त्याग{परिकर्म} दायकदेय-
21416 परिग्राहकानु{पलब्धिताम् उपादाय}। कल्याणमित्रसेवा{परिकर्म} तैर् असंस्तापनताम् उपादाय। सद्धर्म-
21417 पर्येष्टि{परिकर्म} सर्वधर्मानु{पलब्धिताम् उपादाय}। अभीक्ष्णं नैष्क्रम्य{परिकर्म} गृहानु{पलब्धिताम् उपादाय}। बुद्धकायस्पृहा{परिकर्म}
21418 लक्षणानुव्यञ्जननिमित्तानु{पलब्धिताम् उपादाय}। धर्मविवरण{परिकर्म} धर्मभेदानु{पलब्धिताम् उपादाय}। सत्यवचन{परिकर्म}
21419 वचनानु{पलब्धिताम् उपादाय}। इमानि {सुभूते} {बोधिसत्त्वानां} महासत्त्वानां प्रथमाया भूमेर् दश परिकर्माणि यानि
21420 प्रथमायां भूमौ वर्तमानेन {बोधिसत्त्वेन} महासत्त्वेन दश परिकर्माणि करणीयानि।
21501 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} महासत्त्वो द्वितीयायां भूमौ वर्तमानो ऽष्टौ धर्मान् मनसि-
21502 करोति तेषु च प्रतिपद्यते। कतमान् अष्टौ। यद् उत शीलविशुद्धिं कृतज्ञतां कृत-
21503 वेदितां क्षान्तिबलप्रतिष्ठानं प्रामोद्यप्रत्यनुभवतां सर्वसत्त्वापरित्यागितया
21504 महाकरुणाया आमुखीकर्म। गुरूणां श्रद्धया गौरवं शास्तृसंज्ञाया गुरुशुश्रूषां
21505 पारमितास् तद्योगपर्येष्टिम्। इमान् सुभूते बोधिसत्त्वेन महासत्त्वेन द्वितीयायां
21506 भूमौ वर्तमानेनाष्टौ धर्मान् मनसिकृत्वा प्रतिपत्तव्यम्।
21507 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन तृतीयायां भूमौ वर्तमानेन पञ्चसु धर्मेषु
21508 स्थातव्यम्। कतमेषु पञ्चसु। यद् उत बाहुश्रुत्ये ऽतृप्ततायां तत्र चाक्षरान् अभि-
21509 निवेशे निरामिषधर्मदानविवरणतायां तया चामन्यनतया बुद्धक्षेत्रपरिशोधन-
21510 कुशलमूलपरिणामनतायां तया चामन्यनतया अमितसंसारापरिखेदनतायां तया
21511 चामन्यनतया ह्रीरपत्राप्यव्यवस्थाने तेन चामन्यनतया एषु {सुभूते} {बोधिसत्त्वेन}
21512 महासत्वेन पञ्चसु धर्मेषु तृतीयायां भूमौ वर्तमानेन स्थातव्यम्।
21513 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन चतुर्थ्यां भूमौ वर्तमानेन दशसु धर्मेषु
21514 स्थातव्यम्। ते च न परित्यक्तव्याः। कतमेषु दशसु। यद् उत अरण्यवासो
21515 ऽल्पेच्छता सन्तुष्ठिर् धूतगुणसंलेखानुत्सर्जनं शिक्षाया अपरित्यागः कामगुण-
21516 विजुगुप्सनं निर्वित्सहगतश् चित्तोत्पादः सर्वास्तिपरित्यागिता अनवलीनचित्तता
21517 सर्ववस्तुनिरपेक्षता। इमे {सुभूते} दश धर्मा {बोधिसत्त्वेन} महासत्त्वेन चतुर्थ्यां भूमौ वर्तमानेन
21518 न परित्यक्तव्या। एषु च स्थातव्यम्।
21519 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन पञ्चम्यां भूमौ वर्तमानेन दश धर्मा परिवर्ज-
21520 यितव्याः। कतमे दश। यद् उत गृहिप्रब्रजितसंस्तवः परिवर्जयितव्यः। कुलमात्-
21521 सर्यं {परिवर्जयितव्यम्}। संगणिकास्थानं {परिवर्जयितव्यम्}। आत्मोत्कर्षणं {परिवर्जयितव्यम्}। परपंसनं {परिवर्जयितव्यम्}। दशा-
21522 कुशलाः कर्मपथाः {परिवर्जयितव्याः}। अधिमानस्तम्भौ {परिवर्जयितव्यौ}। विपर्यासाः {परिवर्जयितव्याः}। विविकित्सा
21523 {परिवर्जयितव्या}। रागद्वेषमोहाधिवासनाः {परिवर्जयितव्याः}। इमे {सुभूते} दश धर्मा {बोधिसत्त्वेन} महासत्त्वेन
21524 पञ्चम्यां भूमौ वर्तमानेन {परिवर्जयितव्याः}।
21601 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन षष्ट्यां भूमौ वर्तमानेन षड् धर्मा परिपूरयितव्याः।
21602 कतमे षट्। यद् उत षट् पारमिताः परिपूरयितव्याः। अपरे षड् धर्माः परिवर्ज-
21603 यितव्याः। कतमे षट्। श्रावकचित्तं {पर्वर्जयितव्यं}। प्रत्येकबुद्धचित्तं {पर्वर्जयितव्यं}। परितसनाचित्तं
21604 {पर्वर्जयितव्यं}। याचनकं दृष्ट्वा नावलीयते। सर्ववस्तूनि च त्याज्यानि न च दौर्मनस्य-
21605 चित्तम् उत्पादयितव्यं न च याचनकविक्षेपः कर्तव्यः। इमे {सुभूते} षड् धर्मा {बोधिसत्त्वेन}
21606 महासत्त्वेन षष्ट्यां भूमौ वर्तमानेन परिपूरयितव्याः। अपरे षड् धर्माः
21607 परिवर्जयितव्याः।
21608 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य सप्तम्यां भूमौ वर्तमानस्य विंशतिः धर्मा न
21609 भवन्ति। कतमे विंशतिः। यद् उत आत्मग्राहो ऽस्य न भवति सत्त्वग्राहो
21610 जीवग्राहः पुद्गलग्राह उच्छेदग्राहः शाश्वतग्राहः। निमित्तसंज्ञा हेतुदृष्टिः
21611 स्कन्धाभिनिवेशो धात्वभिनिवेशः। आयतनम् ऋद्धिस् त्रैधातुके प्रतिष्ठानं त्रैधातु-
21612 काध्यवसानं त्रैधातुके आलयो बुद्धनिश्रयदृष्ट्यभिनिवेशो धर्म{निश्रयदृष्ट्यभिनिवेशः} संघ{निश्रयदृष्ट्यभिनिवेशः}
21613 शील{निश्रयदृष्ट्यभिनिवेशः} शून्या धर्मा इति विवादः शून्यताविरोधश् चास्य न भवति। इमे {सुभूते}
21614 विंशतिर् धर्मा {बोधिसत्त्वस्य} महासत्त्वस्य सप्तम्यां भूमौ वर्तमानस्य न भवन्ति। तेन
21615 विंशतिर् एव धर्माः सप्तम्यां भूमौ स्थितेन परिपूरयितव्याः। कतमे विंशतिः।
21616 यद् उत शून्यतापरिपूरिता निमित्तसाक्षत्क्रिया अप्रणिहितज्ञानं त्रिमण्डलपरि-
21617 शुद्धिः कृपाकारुण्यञ् च सर्वसत्त्वेषु तेष्व् अनवमन्यना सर्वधर्मसमतादर्शनं तत्र चानभि-
21618 निवेशः। भूतनयप्रतिवेधस् तेन चामन्यना अनुत्पादक्षान्तिर् अनुत्पादज्ञानम् एकनय-
21619 निर्देशः। सर्वधर्माणां कल्पनासमुद्घातः। संज्ञादृष्टिविवर्त्तः क्लेशविवर्त्तः
21620 शमथनिध्यप्तिः विपश्यनाकौशल्यं दान्तचित्तता सर्वत्राप्रतिहतज्ञानचित्तता
21621 अनुनयस्याभुमिर् यत्रेच्छाक्षेत्रगमनं तत्र च बुद्धपर्षन्मण्डले स्थित्वात्मभाव-
21622 सन्दर्शनम्। इमे विंशतिर् धर्मा {बोधिसत्त्वेन} महासत्त्वेन सप्तम्यां भूमौ वर्तमानेन परि-
21623 पूरयितव्याः।
21701 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन अष्टम्यां भूमौ वर्तमानेन चत्वारो धर्माः
21702 परिपूरयितव्याः। कतमे चत्वारः। यद् उत सर्वसत्त्वचित्तानुप्रवेशो ऽभिज्ञाविक्रीडनं
21703 बुद्धक्षेत्रदर्शनन् तेषाञ् च बुद्धक्षेत्राणां यथादृष्टिनिष्पादनता बुद्धपर्युपासनता बुद्ध-
21704 काययथाभूतप्रत्यवेक्षणता। इमे {सुभूते} चत्वारो धर्मा {बोधिसत्त्वेन} महासत्त्वेनाष्टम्यां
21705 भूमौ वर्तमानेन परिपूरयितव्याः।
21706 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेनाष्टम्यां भूमौ वर्तमानेन चत्वारो धर्माः परिपूर-
21707 यितव्याः। कतमे चत्वारः। यद् उत इन्द्रियपरापरज्ञानं बुद्धक्षेत्रपरिशोधनं
21708 मायोपमस्य समाधेर् अभीक्ष्णं समापत्तिर् यथा च सत्त्वानां कुशलमूलनिष्पत्ति-
21709 स् तथा तथात्मभावम् अभिनिर्मिमीते संचिन्त्यभवोत्पादनता। इमे {सुभूते} {बोधिसत्त्वेन} महा-
21710 सत्त्वेन अष्टम्यां भूमौ वर्तमानेन चत्वारो धर्माः परिपूरयितव्याः।
21711 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन नवम्यां भूमौ वर्तमानेन द्वादश धर्माः परिपूरयि-
21712 तव्याः। कतमे द्वादश। यद् उत अनन्तप्रणिधानपरिग्रहः। स यथा यथा प्रणि-
21713 दधाति तथा तथास्य समृध्यते देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगरुतज्ञानं
21714 प्रतिभाननिर्देशज्ञानं गर्भावक्रान्तिसम्पत्कुशल{सम्पद्} जाति{सम्पद्} गोत्र{सम्पत्} परि-
21715 वार{सम्पद्} जन्म{सम्पद्} नैष्क्रम्य{सम्पद्} बोधिवृक्ष{सम्पत्} सर्वगुणपरिपूरण{सम्पत्}। इमे सुभूते
21716 {बोधिसत्त्वेन} महासत्त्वेन नवम्यां भूमौ वर्तमानेन द्वादश धर्माः परिपूरयितव्याः।
21717 दशम्यां पुनः {सुभूते} बोधिसत्त्वभूमौ वर्तमानो {बोधिसत्त्वो} महासत्त्वस् तथागत एवेति
21718 वक्तव्यः।
21719 सुभूतिर् आह। कतमद् भगवन् {बोधिसत्त्वस्य} महासत्त्वस्याध्याशयपरिकर्म। भगवान् आह।
21720 या सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः सर्वकुशलमूलसमुदानयनता इदं सुभूते
21721 {बोधिसत्त्वस्य} महासत्त्वस्याध्याशयपरिकर्म। तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} हितवस्तुतापरिकर्म यद् {बोधिसत्त्वो} महा-
21722 सत्त्वः सर्वसत्त्वानाम् अर्थाय महायानज्ञानपर्येष्टिम् आपद्यते। इदं {बोधिसत्त्वस्य} महासत्त्वस्य
21723 हितवस्तुतापरिकर्म। तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} सर्वसत्त्वसमचित्ततापरिकर्म। यत् सर्वाकारज्ञताप्रति-
21724 संयुक्तैर् मनसिकारैश् चतुरप्रमाणाभिनिर्हरण मैत्रीकरुणामुदितोपेक्षणम् इदम् {उच्यते सर्वसत्त्वसमचित्ततापरिकर्म}।
21801 तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} त्यागपरिकर्म। यत् सर्वसत्त्वेभ्यो ऽविकल्पितं दानं ददाति इदम् {उच्यते त्यागपरिकर्म}। तत्र
21802 {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} कल्याणमित्रसेवनापरिकर्म। यानि {बोधिसत्त्वस्य} महासत्त्वस्य कल्याणमित्राणि
21803 सर्वाकारज्ञतायां समादापयन्ति तेषां मित्राणां सेवना भजना पर्युपासना
21804 शुश्रूषा इदम् {उच्यते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रसेवनापरिकर्म}। तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} धर्मपर्येष्टिपरिकर्म। यत् सर्वाकारज्ञता-
21805 प्रतिसंयुक्तेन मनसिकारेण धर्मं पर्येषते न च श्रावकप्रत्येकबुद्धभूमौ पतति इदं
21806 {उच्यते बोधिसत्त्वस्य महासत्त्वस्य धर्मपर्येष्टिपरिकर्म}। तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} अभीक्ष्णं नैष्क्रम्यपरिकर्म। यत् सर्वजातिष्व् अव्यवकीर्न्नो ऽभि-
21807 निष्क्रामति तथागतशासने प्रव्रजति न चास्य कश्चिद् अन्तरायो भवति इदं
21808 {सुभूते} {उच्यते बोधिसत्त्वस्य महासत्त्वस्य अभीक्ष्णं नैष्क्रम्यपरिकर्म}। तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} बुद्धकायस्पृहापरिकर्म। यद् बुद्धविग्रहं दृष्ट्वा न जातु बुद्ध-
21809 मनसिकारेण विरहितो भवति यावत् सर्वाकारज्ञता ऽनुप्राप्तो भवति। इदं {सुभूते}
21810 {उच्यते बोधिसत्त्वस्य महासत्त्वस्य बुद्धकायस्पृहापरिकर्म}। तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} धर्मविवरणपरिकर्म। यद् {बोधिसत्त्वो} महासत्त्वः सम्मुखीभूतस्य तथा-
21811 गतस्य परिनिर्वृतस्य वा सत्त्वानां धर्मं देशयति आदौ कल्याणं मध्ये
21812 कल्पाणं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं
21813 ब्रह्मचर्यं सम्प्रकाशयति यद् उत सूत्रं गेयं व्याकरणम् इतिवृत्तकं जातकं
21814 निदानम् अवदानं तथा वैपुल्याद्भुतधर्मोपदेशाः। इदं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य धर्मविवरणपरिकर्म}। तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} सत्यवचन-
21815 परिकर्म। यद् उत यथावादितथाकारिता इदं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य सत्यवचनपरिकर्म}। इमानि {सुभूते} {बोधिसत्त्वस्य} महा-
21816 सत्त्वस्य प्रथमायां भूमौ वर्तमानस्य दश परिकर्माणि।
21817 तत्र सुभूते कतमानि {बोधिसत्त्वस्य} महासत्त्वस्य द्वितीयायां भूमौ वर्त्तमानस्याष्टौ
21818 परिकर्माणि। इह सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य शीलपरिशुद्धिर् यद् उत श्रावक-
21819 प्रत्येकबुद्धचित्तानाम् अमनसिकारता ये ऽप्य् अन्ये दौःशील्यकरा बोधिपरिपन्थन-
21820 करा धर्मास् तेषाम् अमनसिकारः। इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य शीलपरिशुद्धिर्।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} कृतज्ञता कृत-
21901 वेदिता यद् {बोधिसत्त्वो} महासत्त्वो बोधिसत्त्वचर्यां चरन् अल्पम् अपि कृतम् आसंसारान्
21902 न नाशयति प्राग् एव बहु इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य कृतज्ञता कृतवेदिता।} तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} क्षान्तिबलप्रतिष्ठानम्।
21903 यत् सर्वसत्त्वानाम् अन्तिके अव्यापादाविहिंसाचित्तता इदं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिबलप्रतिष्ठानम्।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य}
21904 प्रामोद्यप्रतीत्यनुभवनता। यत् सर्वसत्त्वपरिपाचनता इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य प्रामोद्यप्रतीत्यनुभवनता।} तत्र {कतमो बोधिसत्त्वस्य महासत्त्वस्य}
21905 महाकरुणाया आमुखीभावः। यद् {बोधिसत्त्वस्य} महासत्त्वस्य बोधिसत्त्वचारिकां चरत
21906 एवम् भवति एकैकस्य सत्त्वस्यार्थाय गङ्गानदीवालुकोपमान् कल्पान् निरये
21907 पचेयं यावन् न स सत्त्वो बुद्धज्ञाने प्रतिष्ठापित इति। एवम् एकैकस्य कृतशः
21908 सत्त्वस्य य उत्साहो यो ऽपरिखेदो ऽयम् उच्यते {बोधिसत्त्वस्य महासत्त्वस्य महाकरुणाया आमुखीभावः।} तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} श्रद्धागौरवम्।
21909 यद् {बोधिसत्त्वस्य} महासत्त्वस्य सर्वत्र निहतमानतया सश्रद्धता इदम् उच्यते {बोधिसत्त्वस्य महासत्त्वस्य श्रद्धागौरवम्।}
21910 तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} गुरुशुश्रूषाश्रद्धानता। यद् गुरूणाम् अन्तिके शास्तृसंज्ञा इयम् उच्यते
21911 {बोधिसत्त्वस्य महासत्त्वस्य गुरुशुश्रूषाश्रद्धानता}। तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} पारमितास् तद्योगपर्येष्टिः। या अनन्यकर्मतया पारमिता-
21912 पर्येषणता इयम् उच्यते {बोधिसत्त्वस्य महासत्त्वस्य पारमितास् तद्योगपर्येष्टिः}। तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} बाहुश्रुत्यतृप्तता। यत् किञ्चिद् बुद्धैर् भग-
21913 वद्भिर् भाषितम् इह वा लोकधातौ समन्ताद् वा दशदिशि लोके तत् सर्वम् आराधयि-
21914 ष्यामीति या अतृप्तता इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य बाहुश्रुत्यतृप्तता}। तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} निरामिषधर्मदानविवरणता। यद् {बोधिसत्त्वो}
21915 महासत्त्वो धर्मं देशयति। स तेन धर्मदानकुशलेनात्मनो बोधिम् अपि न प्रतिकां-
21916 क्षति इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य निरामिषधर्मदानविवरणता।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} बुद्धक्षेत्रपरिशोधनकुशलमूलपरिणामना यैः कुशल-
21917 मूलैर् बुद्धक्षेत्रं परिशोधयन् आत्मपरचित्तं परिशोधयति तेषां कुशलमूलानां
21918 या परिणामना इयम् उच्यते {बोधिसत्त्वस्य महासत्त्वस्य बुद्धक्षेत्रपरिशोधनकुशलमूलपरिणामना।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} अपरिमितसंसारापरिखेदिता या
21919 कुशलमूलोपस्तम्भता यैः कुशलमूलैर् उपस्तब्धः सत्त्वानाञ् च परिपाचयति बुद्धक्षेत्रं
21920 च परिशोधयति न च जातु खेदम् आपद्यते यावन् न सर्वधर्मान् सर्वाकारज्ञतां च
21921 परिपूरयति इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य अपरिमितसंसारापरिखेदिता}। तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} ह्रीरपत्राप्यव्यवस्थानम्। या सर्वश्रावकप्रत्येक-
22001 बुद्धचित्तजुगुप्सनता इदं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य ह्रीरपत्राप्यव्यवस्थानम्।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} अरण्यवासापरित्यागिता। या
22002 सर्वश्रावकप्रत्येकबोधिसमतिक्रमणता इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य अरण्यवासापरित्यागिता।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} अल्पेच्छता।
22003 यद् {बोधिसत्त्वो} महासत्त्वो बोधिम् अपि नेच्छति इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य अल्पेच्छता।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} सन्तुष्ठिः।
22004 यद् {बोधिसत्त्वो} महासत्त्वः सर्वाकारज्ञताम् अपि न मन्यते इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य सन्तुष्ठिः}। तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} धूतगुण-
22005 संलेखानुत्सर्जनता। या गम्भीरेषु धर्मेषु निध्यप्तिः क्षान्तिर् इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य धूतगुणसंलेखानुत्सर्जनता}। तत्र
22006 {कतमा बोधिसत्त्वस्य महासत्त्वस्य} शिक्षाया अपरित्यागिता। यः सर्वशिषाणाम् अप्रचारः इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य शिक्षाया अपरित्यागिता।} तत्र
22007 {कतमा बोधिसत्त्वस्य महासत्त्वस्य} कामगुणजुगुप्सनता। यः कामचित्तस्यानुत्पाद इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य कामगुणजुगुप्सनता।} तत्र
22008 {कतमो बोधिसत्त्वस्य महासत्त्वस्य} निर्वित्सहगतश् चित्तोत्पादः। यः सर्वधर्माणाम् अनभिसंस्कारो ऽयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य निर्वित्सहगतश् चित्तोत्पादः।}
22009 तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} सर्वास्तिपरित्यागिता। या आध्यात्मिकबाह्यानां धर्माणाम् अ-
22010 ग्रहणता इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य सर्वास्तिपरित्यागिता।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} अनवलीनचित्तता या विज्ञानस्थितिष्व् अस्य
22011 चित्तं नावलीयते इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य अनवलीनचित्तता।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} सर्ववस्तुनिरपेक्षता। या सर्ववस्तू-
22012 नाम् अमनसिकारता इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य सर्ववस्तुनिरपेक्षता}। तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} गृहिसंस्तवपरिवर्जनता। या बुद्ध-
22013 क्षेत्राद् बुद्धक्षेत्रं संक्रमणता उपपादुकताप्रतिलाभमुण्डकाषायप्रावरणता इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य गृहिसंस्तवपरिवर्जनता}
22014 तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} भिक्षुभिक्षुणीसंस्तवपरिवर्जनता। यद् भिक्षुणा वा भिक्षुण्या सह
22015 अच्छटिकासंघातमात्रम् अपि न तिष्ठति न च तैर् विना परितसनाचित्तम् उत्पादयति
22016 इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य भिक्षुभिक्षुणीसंस्तवपरिवर्जनता।} तत्र कथं {बोधिसत्त्वेन महासत्त्वेन} कुलमात्सर्यं परिवर्जयितव्यम्। इह {सुभूते} {बोधिसत्त्वेन महासत्त्वेन}
22017 एवं चित्तम् उत्पादयितव्यम्। यन् मया सत्त्वानां सर्वसुखोपधानं कर्तव्यं तत्र ते
22018 सत्त्वाः स्वपुण्यैर् एव सुखिता नात्र मया मात्सर्यचित्तम् उत्पादयितव्यम्। इदं
22019 {उच्यते बोधिसत्त्वस्य महासत्त्वस्य} कुलमात्सर्यपरिवर्जनता। तत्र कथं {बोधिसत्त्वेन महासत्त्वेन} सङ्गणिकास्थानं परिवर्जयितव्यम्।
22020 यत्र {बोधिसत्त्वस्य} महासत्त्वस्य सङ्गणिकास्थानस्थितस्य श्रावकप्रत्येकबुद्धप्रतिसंयुक्ता
22021 कथा स्यात् तत्प्रतिसंयुक्तं वा चित्तोत्पादम् उपादयेन् न तत्र {बोधिसत्त्वेन} महासत्त्वेन
22022 स्थातव्यम्। इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य सङ्गणिकास्थानपरिवर्जनता।} तत्र कथं {बोधिसत्त्वेन} महासत्त्वेन आत्मोत्कर्षणा
22101 परिवर्जयितव्या। या आध्यात्मिकानां धर्माणां असमनुपश्यना इयं {बोधिसत्त्वेन महासत्त्वेन आत्मोत्कर्षणा परिवर्जयितव्या}
22102 तत्र {कतमा} {बोधिसत्त्वस्य} महासत्त्वस्य परपंसनापरिवर्जनता। यद् उत बाह्यानां धर्माणाम् अ-
22103 समनुपश्यना। इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य परपंसनापरिवर्जनता।} तत्र कथं {बोधिसत्त्वेन} महासत्त्वेन दशाकुशलाः कर्मपथाः
22104 {परिवर्जयितव्याः}। तथा ह्य् एते आर्यमार्गस्यान्तरायकराः सुगतेर् वा प्राग् एव संबोधेः। एवं
22105 हि {सुभूते} {बोधिसत्त्वेन महासत्त्वेन दशाकुशलाः कर्मपथाः परिवर्जयितव्याः।} तत्र कथं {बोधिसत्त्वेन} महासत्त्वेन अधिमानः {परिवर्जयितव्यः}। तथा हि स न
22106 कञ्चिद् धर्मं समनुपश्यति कुतः पुनर् अधिकं येनाधिमंस्यते। एवं हि {सुभूते} {बोधिसत्त्वेन महासत्त्वेन अधिमानः परिवर्जयितव्यः।}
22107 तत्र कथं {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन स्तम्भः {परिवर्जयितव्यः}। तथा हि तद् वस्तु न समनुपश्यति यत्र
22108 स्तम्भम् उत्पादयेद् एवं हि {सुभूते} {बोधिसत्त्वेन महासत्त्वेन स्तम्भः परिवर्जयितव्यः।} तत्र कथं {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन विपर्यासाः
22109 {परिवर्जयितव्याः}। सर्ववस्तूनाम् अनुपलब्धिताम् उपादाय। एवं हि {सुभूते} {बोधिसत्त्वेन महासत्त्वेन विपर्यासाः परिवर्जयितव्यः।} तत्र कथं {सुभूते}
22110 {बोधिसत्त्वेन} महासत्त्वेन विचिकित्सा {परिवर्जयितव्या}। तथा हि सन्देहापगतान् सर्वधर्मान् समनु-
22111 पश्यति। एवं हि {सुभूते} {बोधिसत्त्वेन महासत्त्वेन विचिकित्सा परिवर्जयितव्या}। तत्र कथं {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन रागद्वेषमोहा-
22112 नाम् अधिवासना {परिवर्जयितव्या}। तथा हि रागद्वेषमोहानां वस्तु न समनुपश्यति। एवं
22113 हि {सुभूते} {बोधिसत्त्वेन महासत्त्वेन रागद्वेषमोहानाम् अधिवासना परिवर्जयितव्या।} तत्र कथं {बोधिसत्त्वेन} महासत्त्वेन षड् धर्माः परिपूरयितव्याः। यद् उत
22114 षट् पारमिता दानपारमिता {{शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता}} प्रज्ञापारमिता इमाः षट् पारमिताः परि-
22115 पूरयितव्याः। तत्र कथं {बोधिसत्त्वेन} महासत्त्वेन षड् धर्माः {परिवर्जयितव्याः}। यद् उत श्रावकचित्तं
22116 {परिवर्जयितव्यम्}। तत् कस्य हेतोः। तथा हि नैष मार्गो बोधये। प्रत्येकबुद्धचित्तं
22117 {परिवर्जयितव्यम्}। {तत् कस्य हेतोस् तथा हि} {नैष मार्गो बोधाये}। परितसनाचित्तं न कर्तव्यम्। {तत् कस्य हेतोस् तथा हि} {नैष मार्गो बोधाये}। याचनकं दृष्ट्वा
22118 नावलीनचित्तम् उत्पादयितव्यम्। {तत् कस्य हेतोस् तथा हि} {नैष मार्गो बोधाये}। सर्वस्वम् अपि परित्यज्य न दुर्मनस्को
22119 भवति। {तत् कस्य हेतोस् तथा हि} {नैष मार्गो बोधाये}। याचनकविक्षेपो न कर्तव्यः। {तत् कस्य हेतोस् तथा हि} {नैष मार्गो बोधाये}। तत्र कथं {बोधिसत्त्वेन}
22120 महासत्त्वेन आत्मग्राहो न कर्तव्यः। तत् कस्य हेतोः। तथा हि अत्यन्ततया
22121 आत्मा न संविद्यते एवं {बोधिसत्त्वेन} महासत्त्वेन आत्मग्राहो न कर्तव्यः। एवं
22122 सत्त्वग्राहो जीवग्राहः पुद्गल{ग्राहो न कर्तव्यः}। {तत् कस्य हेतोस् तथा हि} एते अत्यन्ततया न संविद्यन्ते। एवं
22123 सत्त्वजीवपुद्गल{ग्राहो न कर्तव्यः}। तत्र कथं {बोधिसत्त्वेन} महासत्त्वेन उच्छेद{ग्राहो न कर्तव्यः}। {तत् कस्य हेतोस् तथा हि} न कश्चिद् धर्म
22201 उच्छिद्यते। अत्यन्ततयानुत्पन्नत्वात् सर्वधर्माणां नोच्छेदः एवम् उच्छेद{ग्राहो न कर्तव्यः}।
22202 तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} शाश्वत{ग्राहो न कर्तव्यः}। {तत् कस्य हेतोस् तथा हि} यो धर्मो नोत्पद्यते स न शाश्वतो भवति। एवं
22203 शाश्वत{ग्राहो न कर्तव्यः}। तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} निमित्तसंज्ञा नोत्पादयितव्या। {तत् कस्य हेतोस् तथा हि} अत्यन्ततया
22204 संक्लेशो न संविद्यते एवं निमित्तसंज्ञा नोत्पादयितव्या। तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} हेतुदृष्टिर् न
22205 कर्तव्या। {तत् कस्य हेतोस् तथा हि} स तां दृष्टिं न समनुपश्यति। एवं हेतुदृष्टिर् न कर्तव्या। एवं
22206 स्कन्धेषु धातुष्व् आयतनेष्व् अभिनिवेशो न {कर्तव्यः}। {तत् कस्य हेतोस् तथा हि} ते धर्माः स्वभावेन न
22207 संविद्यन्ते। एवं स्कन्धधात्वायतनेष्व् अभिनिवेशो न {कर्तव्यः}। तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} त्रैधातुके ऽ-
22208 भिनिवेशो न {कर्तव्यः}। {तत् कस्य हेतोस् तथा हि} त्रैधातुकस्वभावो न संविद्यते। एवं त्रैधातुके ऽभिनिवेशो
22209 न {कर्तव्यः}। तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} त्रैधातुके ऽध्यवसानं न {कर्तव्यः}। {तत् कस्य हेतोस् तथा हि} तद् वस्तु नोपलभ्यते।
22210 एवं त्रैधातुके ऽध्यवसानं न {कर्तव्यः}। तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} त्रैधातुके आलयो न {कर्तव्यः}। {तत् कस्य हेतोस् तथा हि}
22211 निःस्वभावत्वाद् एवं त्रदिहातुके आलयो न {कर्तव्यः}। तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} बुद्धधर्मसंघनिश्रयो
22212 न {कर्तव्यः}। {तत् कस्य हेतोस् तथा हि} न बुद्धधर्मसंघदृष्टिनिश्रयात् बुद्धधर्मसंघदर्शनं। एवं बुद्ध-
22213 धर्मसंघदृष्टिनिश्रयो न {कर्तव्यः}। तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} शीलदृष्टिनिश्रयो न {कर्तव्यः}। {तत् कस्य हेतोस् तथा हि} न
22214 शीलदृष्टिनिश्रयाच् छीलपरिशुद्धिर् भवत्य् एवं {शीलदृष्टिनिश्रयो न कर्तव्यः।} तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} शून्यतायां विवादो
22215 न {कर्तव्यः}। {तत् कस्य हेतोस् तथा हि} सर्वधर्माः स्वभावेन शून्या न शून्यतया। एवं शून्यतायां विवादो
22216 न {कर्तव्यः}। तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} शून्यताविरोधो न {कर्तव्यः}। {तत् कस्य हेतोस् तथा हि} सर्वधर्माः शून्या न शून्यता
22217 शून्यतां विरोधयति। एवं {शून्यताविरोधो न कर्तव्यः।} तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} शून्यता परिपूरयितव्या। स्वलक्षण-
22218 शून्यताम् उपादाय परिपूरिर् {बोधिसत्त्वस्य} महासत्त्वस्य शून्यतापरिपूरिर् एवं {शून्यता परिपूरयितव्या।}
22219 तत्र कतमा {बोधिसत्त्वस्य} महासत्त्वस्य अनिमित्तासाक्षात्क्रिया। यद् उत सर्वनिमित्ता-
22220 नाम् अमनसिकारता। इयं {बोधिसत्त्वस्य महासत्त्वस्य अनिमित्तासाक्षात्क्रिया।} तत्र कतमद् {बोधिसत्त्वस्य} महासत्त्वस्य अप्रणिहित-
22221 ज्ञानम्। यत् सर्वत्रैधातुके चित्तस्याप्रतिष्ठानम्। इदम् {बोधिसत्त्वस्य महासत्त्वस्य अप्रणिहितज्ञानम्।} तत्र कतमा {बोधिसत्त्वस्य}
22301 महासत्त्वस्य त्रिमण्डलपरिशुद्धिः। यद् उत दशकुशलकर्मपथपरिशुद्धिर् एवं {बोधिसत्त्वस्य महासत्त्वस्य त्रिमण्डलपरिशुद्धिः}
22302 तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} सर्वसत्त्वेषु कृपाकरुणापरिपूरिः कर्तव्या। यो महाकरुणायाः
22303 प्रतिलाभः। एवं {सर्वसत्त्वेषु कृपाकरुणापरिपूरिः कर्तव्या।} तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} सर्वसत्त्वा नावमन्तव्याः। यद् उत मैत्री-
22304 परिपूर्या। एवं {सर्वसत्त्वा नावमन्तव्याः।} तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} समतादर्शनम्। यद् उतानुत्क्षेपो ऽप्रक्षेपः
22305 सर्वधर्माणाम् इदं {बोधिसत्त्वस्य महासत्त्वस्य समतादर्शनम्।} तत्र {कतमो बोधिसत्त्वस्य महासत्त्वस्य} भूतनयप्रतिवेधः। यः सर्वधर्मानाम् अप्रतिवेधः।
22306 अयं {बोधिसत्त्वस्य महासत्त्वस्य भूतनयप्रतिवेधः।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} अनुत्पादक्षान्तिः। या सर्वधर्माणाम् अनुत्पादाय अनिरोधाय
22307 अनभिसंस्काराय क्षान्तिर् इयं {बोधिसत्त्वस्य महासत्त्वस्य अनुत्पादक्षान्तिः।} तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} अनुत्पादज्ञानम्। यन् नामरूपा-
22308 नुत्पादज्ञानम् इदं {बोधिसत्त्वस्य महासत्त्वस्य अनुत्पादज्ञानम्।} तत्र {कतमो बोधिसत्त्वस्य महासत्त्वस्य} एकनयनिर्देशः। या अद्वयसमुदचारता अयं
22309 {बोधिसत्त्वस्य महासत्त्वस्य एकनयनिर्देशः।} तत्र {कतमो बोधिसत्त्वस्य महासत्त्वस्य} कल्पनासमुद्घातः। या सर्वधर्माणां कल्पना अयं {बोधिसत्त्वस्य महासत्त्वस्य कल्पनासमुद्घातः।}
22310 तत्र {कतमो बोधिसत्त्वस्य महासत्त्वस्य} संज्ञादृष्टिविवर्तः। या सर्वश्रावकप्रत्येकबुद्धभूमेः संज्ञादृष्टिविवर्तनता
22311 अयं {बोधिसत्त्वस्य महासत्त्वस्य संज्ञादृष्टिविवर्तः।} तत्र {कतमो बोधिसत्त्वस्य महासत्त्वस्य} क्लेशविवर्तः। यः सर्ववासनानुसन्धिक्लेशोत्सर्गः। अयं
22312 {बोधिसत्त्वस्य महासत्त्वस्य क्लेशविवर्तः।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} शमथविपश्यनाभूमिः। या सर्वाकारज्ञताज्ञानम् इयं {बोधिसत्त्वस्य महासत्त्वस्य शमथविपश्यनाभूमिः।} तत्र
22313 {कतमा बोधिसत्त्वस्य महासत्त्वस्य} दान्तचित्तता। या त्रैधातुके ऽनभिरतिः। इयं {बोधिसत्त्वस्य महासत्त्वस्य दान्तचित्तता।} तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} अप्रतिहत-
22314 ज्ञानम्। यो बुद्धचक्षुःप्रतिलम्भः। इदं {बोधिसत्त्वस्य महासत्त्वस्य अप्रतिहतज्ञानम्।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} अनुनयापसरणज्ञता।
22315 या षडायतनिका उपेक्षा। इयं {बोधिसत्त्वस्य महासत्त्वस्य अनुनयापसरणज्ञता।} तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} यत्रेच्छाक्षेत्रगमनम्। यद् एकबुद्धक्षे-
22316 त्रान् न चलति सर्वबुद्धक्षेत्रेषु संदृश्यते न चास्य बुद्धक्षेत्रसंज्ञोत्पद्यते। इदं {बोधिसत्त्वस्य महासत्त्वस्य यत्रेच्छाक्षेत्रगमनम्}
22317 तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} सर्वत्रात्मभावदर्शनम्। यद् यथापर्षन्मण्डले आत्मभावदर्शनम्। इदं
22318 {बोधिसत्त्वस्य महासत्त्वस्य सर्वत्रात्मभावदर्शनम्।} तत्र {कतमो बोधिसत्त्वस्य महासत्त्वस्य} सर्वसत्त्वचित्तचरितानुप्रवेशः। यद् एकचित्तेन सर्वसत्त्वचित्त-
22319 चरितज्ञानम्। अयं {बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वचित्तचरितानुप्रवेशः।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} अभिज्ञाविक्रीडना याभिर् अभिज्ञाभिवि-
22320 क्रीडमानो बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रामति बुद्धदर्शनाय न च बुद्धसंज्ञो भवति।
22321 इयं {बोधिसत्त्वस्य महासत्त्वस्य अभिज्ञाविक्रीडना।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} यथादृष्टबुद्धक्षेत्रपरिनिष्पादनता। या त्रिसाहस्रमहासाहस्र-
22322 लोकधात्वीश्वरचक्रवर्तिभूतिस्थितस्य सर्वलोकधातुपरित्यागस्यामन्यनता। इयं
22401 {बोधिसत्त्वस्य महासत्त्वस्य यथादृष्टबुद्धक्षेत्रपरिनिष्पादनता।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} बुद्धपर्युपासनता या बुद्धपर्युपासनता सर्वसत्त्वानुग्रहं प्रति।
22402 इयं {बोधिसत्त्वस्य महासत्त्वस्य बुद्धपर्युपासनता।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} बुद्धकाययथ्भूतप्रत्यवेक्षणता। या धर्मकाययथाभूतप्रत्य-
22403 वेक्षणता। इयं {बोधिसत्त्वस्य महासत्त्वस्य बुद्धकाययथ्भूतप्रत्यवेक्षणता।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} इन्द्रियपरापरज्ञानता। या दशसु बलेषु स्थित्वा
22404 सर्वसत्त्वानाम् इन्द्रियपरिपूरिप्रज्ञाज्ञानता। इयं {बोधिसत्त्वस्य महासत्त्वस्य} इन्द्रियपरापरज्ञानता।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} बुद्धक्षेत्रपरि-
22405 शोधनता। या सर्वसत्त्वचित्तपरिशोधनता। इयं {बोधिसत्त्वस्य महासत्त्वस्य बुद्धक्षेत्रपरिशोधनता।} तत्र {कतमो बोधिसत्त्वस्य महासत्त्वस्य} मायोपम-
22406 समाधिः। यत्र समाधौ स्थित्वा सर्वाः क्रियाः करोति न चास्य चित्तप्रचारो
22407 भवति। अयं {बोधिसत्त्वस्य महासत्त्वस्य मायोपमसमाधिः।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} अभीक्ष्णसमापत्तिः। या {बोधिसत्त्वस्य} महासत्त्वस्य
22408 विपाकजः समाधिर् इयं {बोधिसत्त्वस्य महासत्त्वस्य अभीक्ष्णसमापत्तिः।} तत्र {कतमो बोधिसत्त्वस्य महासत्त्वस्य} संचिन्त्यात्मभावपरिग्रहः यद् {बोधिसत्त्वो}
22409 महासत्त्वो यथा यथा सत्त्वानां कुशलमूलपरिनिष्पत्तिर् भवति तथा तथा
22410 सञ्चिन्तयात्मभावस परिगृह्णाति। अयं {बोधिसत्त्वस्य महासत्त्वस्य संचिन्त्यात्मभावपरिग्रहः।} तत्र कथं {बोधिसत्त्वस्य} महासत्त्वस्यानन्त-
22411 प्रणिधानम्। यद् {बोधिसत्त्वो} महासत्त्वः षण्णां पारमितानां परिपूर्णत्वाद् यथा यथा
22412 प्रणिधिं प्रणिदधाति तथा तथा समृध्यते। इदं {बोधिसत्त्वस्य महासत्त्वस्यानन्तप्रणिधानम्।} तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} सर्वसत्त्वरुत-
22413 ज्ञानम् यद् {बोधिसत्त्वो} महासत्त्वो निरुक्तिप्रतिसंविदादेवादीनां रुतं प्रतिसंविध्यति। इयं
22414 {बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वरुतज्ञानम्।} तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} परिपूर्णप्रतिभानम्। यद् {बोधिसत्त्वो} महासत्त्वः प्रतिभानप्रति-
22415 संविदापरिपूर्णप्रतिभाननिर्देशज्ञानं प्रतिविध्यति। इदं {बोधिसत्त्वस्य महासत्त्वस्य परिपूर्णप्रतिभानम्।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} गर्भाव-
22416 क्रान्तिसम्पत्। इह {बोधिसत्त्वो} महासत्त्वः सर्वासु जातिषु उपपादुक उपपद्यते। इयं
22417 {बोधिसत्त्वस्य महासत्त्वस्य गर्भावक्रान्तिसम्पत्।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} कुलसम्पत्। यद् {बोधिसत्त्वो} महासत्त्वः क्षत्रियमहाशालकुलेषु ब्राह्मण-
22418 महाशालकुलेषु वा प्रत्याजायते। इयं {बोधिसत्त्वस्य महासत्त्वस्य कुलसम्पत्।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} गोत्रसम्पत्। यद् {बोधिसत्त्वो}
22419 महासत्त्वो यस्माद् गोत्रात् पूर्वका बोधिसत्त्वा अभूवंस् तत्र गोत्रे प्रत्याजायते।
22420 इयं {बोधिसत्त्वस्य महासत्त्वस्य गोत्रसम्पत्।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} परिवारसम्पत्। यद् {बोधिसत्त्वो} महासत्त्वो बोधौ सत्त्वान्
22421 प्रतिष्ठाप्य बोधिसत्त्वपरिवार एवं भवतीयं {बोधिसत्त्वस्य महासत्त्वस्य परिवारसम्पत्।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} जन्मसम्पत्।
22422 यज् जातमात्र एव {बोधिसत्त्वो} महासत्त्वः सर्वलोकधातून् अवभासेन स्फरति तांश् च
22423 सर्वान् षड् विकारान् कम्पयति। इयं {बोधिसत्त्वस्य महासत्त्वस्य जन्मसम्पत्।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} अभिनिष्क्रमणसम्पत्।
22501 यद् {बोधिसत्त्वो} महासत्त्वः प्रव्रजितो ऽनेकैः सत्त्वकोटीनियुतशतसहस्रैः सार्धम् अभि-
22502 निष्क्रामति गृहात् इयं {बोधिसत्त्वस्य महासत्त्वस्य अभिनिष्क्रमणसम्पत्।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} बोधिवृक्षव्यूहसम्पत्। यद् {बोधिसत्त्वस्य}
22503 महासत्त्वस्य बोधिवृक्षस्य मूलं सौवर्णं भवति स्कन्धो वैदूर्यमयो भवति
22504 सर्वरत्नमयाः शाखाः पत्राणि सर्वरत्नमयानि तस्य वृक्षस्य पुष्पङ्गन्धो ऽव-
22505 भासश् च अनन्तान् लोकधातून् अवभासेन स्फुरति इयं {बोधिसत्त्वस्य महासत्त्वस्य बोधिवृक्षव्यूहसम्पत्।} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} सर्वगुण-
22506 परिपूरिसम्पत्। या {बोधिसत्त्वस्य} महासत्त्वस्य सत्त्वपरिपाकेन बुद्धक्षेत्रपरि-
22507 शुद्धिर् इयम् {बोधिसत्त्वस्य महासत्त्वस्य सर्वगुणपरिपूरिसम्पत्।}
22508 तत्र कथं {बोधिसत्त्वो} महासत्त्वो दशम्यां भूमौ स्थितः संस् तथागत एवेति वक्तव्यः।
22509 यदा {बोधिसत्त्वस्य} महासत्त्वस्य दश पारमिताः परिपूर्णा भवन्ति यावद् अष्टादशावेणिका
22510 बुद्धधर्माः परिपूर्णा भवन्ति सर्वाकारज्ञताज्ञानञ् च सर्ववासनानुसन्धिक्लेशप्रहाणं
22511 भवति महाकरुणा च सर्वबुद्धधर्माः परिपूर्णा भवन्ति। एवं हि सुभूते {बोधिसत्त्वो}
22512 महासत्त्वो दशम्याः पुनर् बोधिसत्त्वभूमेः परन् तथागत एवेति वक्तव्यः।
22513 तत्र कतमा {बोधिसत्त्वस्य} महासत्त्वस्य दशभूमयः। यद् {बोधिसत्त्वो} महासत्त्व उपायकौशल्येन
22514 सर्वासु पारमितासु चरन् सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु शिक्षितो ऽप्रमाणध्यानारूप्य-
22515 समापत्तिषु चरन् दशतथागतबलप्रतिसंवित्स्व् अष्टादशावेणिकेषु बुद्धधर्मेषु चरन्
22516 गोत्रभूमिम् अष्टमकभूमिं दर्शनभूमिं तनुभूमिं वीतरागभूमिं कृताविभूमिं श्रावक-
22517 भूमिं प्रत्येकबुधभूमिं बोधिसत्त्वभूमिं {बोधिसत्त्वो} महासत्त्वो ऽतिक्रम्य एता नवभूमीर् अति-
22518 क्रम्य बुद्धभूमौ प्रतिष्ठते इयं {बोधिसत्त्वस्य} महासत्त्वस्य दशमी भूमिर् एवं हि {सुभूते} {बोधिसत्त्वो}
22519 महासत्त्वो महायानसंप्रस्थितो भवति॥ [इति भूमिसम्भारः॥]
22520 यत् पुनः सुभूतिर् एवम् आह। कुतस् तद् यानं निर्यास्यतीति त्रैधातुकान् नि-
22521 र्यास्यति येन सर्वाकारज्ञता तेन स्थास्यति तत् पुनर् अद्वययोगेन। तत् कस्य
22522 हेतोः। तथा हि यच् च महायानं या च सर्वाकारज्ञता उभाव् एतौ धर्मौ न
22523 संयुक्तौ न विसंयुक्तौ अरूपिणौ अनिदर्शनौ अप्रतिघौ एकलक्षणौ यद् उता-
22524 लक्षणौ। तत् कस्य हेतोः। न हि सुभूते अलक्षणौ धर्मौ निर्यातौ वा
22601 निर्यातो वा निर्यास्यतो वा धर्मधातोः। स सुभूते निर्याणम् इच्छेत् तथतायाः
22602 यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेद् एवं भूतकोटेर् अचिन्त्यधातोर् आका-
22603 शधातोः प्रहाणधातोर् विरागकोटेर् अनुत्पादस्यानिरोधस्याभावस्य स
22604 निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् रूपशून्यतायाः
22605 स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्। एवं
22606 वेदनाशून्यतायाः {{संज्ञाशून्यतायाः संस्कारशून्यतायाः}} विज्ञानशून्यतायाः स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्।} तत् कस्य हेतोः। न हि
22607 सुभूते रूपशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति न वेदना-
22608 शून्यता {{संज्ञाशून्यता संस्कारशून्यता}} विज्ञानशून्यता त्रैधातुकात् {{निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति।}} तत् कस्य
22609 हेतोः। तथा हि सुभूते रूपं रूपेण शून्यम्
22610 {{वेदना वेदनया शून्या संज्ञा संज्ञया शून्या संस्काराः संस्कारैः शून्याः}}। चक्षुःशून्यतायाः स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्।} एवं श्रोत्रशून्यतायाः {{घ्राणशून्यतायाः जिह्वाशून्यतायाः कायव्यशून्यतायाः}} मनःशून्य-
22611 तायाः स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्।} एवं रूपशून्यतायाः {{शब्दशून्यतायाः गन्धशून्यतायाः रसशून्यतायाः स्प्रष्टव्यशून्यतायाः}} धर्मशून्यतायाः।
22612 {{चक्षुर्विज्ञानशून्यतायाः श्रोत्रविज्ञानशून्यताया घ्राणविज्ञानशून्यताया जिह्वाविज्ञानशून्यतायाः कायविज्ञानशून्यताया मनोविज्ञानशून्यतायाः चक्षुःसंस्पर्शशून्यतायाः श्रोत्रसंस्पर्शशून्यताया घ्राणसंस्पर्शशून्यताया जिह्वासंस्पर्शशून्यतायाः कायसंस्पर्शशून्यताया मनःसंस्पर्शशून्यतायाः चक्षुःसंस्पर्शवेदयितशून्यतायाः श्रोत्रसंस्पर्शवेदयितशून्यतायाः घ्राणसंस्पर्शवेदयितशून्यतायाः जिह्वासंस्पर्शवेदयितशून्यतायाः कायसंस्पर्शवेदयितशून्यतायाः}}
22613 मनःसंस्पर्शजवेदयितशून्यतायाः स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्।} तत् कस्य हेतोः। न हि सुभूते
22614 चक्षुःशून्यता {त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति}। एवं न श्रोत्रशून्यता {{न घ्राणशून्यता न जिह्वाशून्यता न कायशून्यता}} न मनःशून्यता {त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति}।
22615 {{एवं न रूपशून्यता न शब्दशून्यता न गन्धशून्यता न रसशून्यता न स्प्रष्टव्यशून्यता न धर्मशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति। एवं न चक्षुर्विज्ञानशून्यता न श्रोत्रविज्ञानशून्यता न घ्राणविज्ञानशून्यता न जिह्वाविज्ञानशून्यता न कायविज्ञानशून्यता न मनोविज्ञानशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति। एवं न चक्षुःसंस्पर्शशून्यता न श्रोत्रसंस्पर्शशून्यता न घ्राणसंस्पर्शशून्यता न जिह्वासंस्पर्शशून्यता न कायसंस्पर्शशून्यता न मनःसंस्पर्शशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति। एवं न चक्षुःसंस्पर्शवेदयितशून्यता न श्रोत्रसंस्पर्शवेदयितशून्यता न घ्राणसंस्पर्शवेदयितशून्यता न जिह्वासंस्पर्शवेदयितशून्यता न कायसंस्पर्शवेदयितशून्यता}}
22616 न मनःसंस्पर्शजवेदयितशून्यता {त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति}। तत् कस्य हेतोः। तथा हि सुभूते चक्षुश् च-
22617 क्षुषा शून्यं श्रोत्रं श्रोत्रेण शून्यं {{घ्राणं घ्राणेन शून्यं जिह्वा जिह्वया शून्या कायः कायेन शून्यो मनो मनसा शून्यं}}
22618 {{रूपं रूपेण शून्यं शब्दः शब्देन शून्यो गन्धो गन्धेन शून्यो रसो रसेन शून्यो स्प्रष्टव्यं स्प्रष्टव्येन शून्यं धर्मो धर्मेण शून्यो चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यं श्रोत्रविज्ञानं श्रोत्रविज्ञानेन शून्यं घ्राणविज्ञानं घ्राणविज्ञानेन शून्यं जिह्वाविज्ञानं जिह्वाविज्ञानेन शून्यं कायविज्ञानं कायविज्ञानेन शून्यं मनोविज्ञानं मनोविज्ञानेन शून्यं चक्षुःसंस्पर्शः चक्षुःसंस्पर्शेन शून्यः श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शेन शून्यो घ्राणसंस्पर्शो घ्राणसंस्पर्शेन शून्यो जिह्वासंस्पर्शो जिह्वासंस्पर्शेन शून्यः कायसंस्पर्शः कायसंस्पर्शेन शून्यो मनःसंस्पर्शो मनःसंस्पर्शेन शून्यः चक्षुःसंस्पर्शजा वेदना चक्षुःसंस्पर्शजया वेदनया शून्या श्रोत्रसंस्पर्शजा वेदना श्रोत्रसंस्पर्शजया वेदनया शून्या घ्राणसंस्पर्शजा वेदना घ्राणसंस्पर्शजया वेदनया शून्या जिह्वासंस्पर्शजा वेदना जिह्वासंस्पर्शजया वेदनया शून्या कायसंस्पर्शजा वेदना कायसंस्पर्शजया वेदनया शून्या}} मनःसंस्पर्शजा वेदना
22619 मनःसंस्पर्शजया वेदनया शून्या।
22620 स्वप्नस्य स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्।} विस्तरेण कर्तव्यम्। एवं मरीच्या मायायाः
22621 प्रतिश्रुत्कायाः प्रतिभासस्य प्रतिबिम्बस्य गन्धर्वनगरस्य तथागतनिर्मितस्य स
22622 {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्।} तत् कस्य हेतोः। न हि सुभूते स्वप्नस्य स्वभावस् त्रैधातुकान् निर्यास्यति
22623 न सर्वाकारज्ञतायां स्थास्यति। एवं न मरीच्याः स्वभावः {{न मायायाः स्वभावः न प्रतिश्रुत्कायाः स्वभावः न प्रतिभासस्य स्वभावः न प्रतिबिम्बस्य स्वभावः न गन्धर्वस्य स्वभावः}} न तथा-
22624 गतनिर्मितस्य स्वभावस् त्रैधातुकात् {निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति।} तत् कस्य हेतोः।
22701 तथा हि सुभूते स्वप्नस्वभावः स्वप्नस्वभावेन शून्यः {{मरीचिस्वभावः मरीचिस्वभावेन शून्यः मायास्वभावः मायास्वभावेन शून्यः प्रतिश्रुत्कास्वभावः प्रतिश्रुत्कास्वभावेन शून्यः प्रतिभासस्वभावः प्रतिभासस्वभावेन शून्यः प्रतिबिम्बस्वभावः प्रतिबिम्बस्वभावेन शून्यः गन्धर्वस्वभावः गन्धर्वस्वभावेन शून्यः}} तथागतनिर्मित-
22702 स्वभावस् तथागतनिर्मितस्वभावेन शून्यः। [इति दर्शनमार्गे प्रथमग्राह्यविकल्प-
22703 प्रतिपक्षः॥]
22704 दानपारमितायाः स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्।} एवं शीलपारमितायाः {{क्षान्तिपारमितायाः वीर्यपारमितायाः ध्यानपारमितायाः}} प्रज्ञापार-
22705 मितायाः स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्।} तत् कस्य हेतोः। तथा हि सुभूते यो दानपारमितायाः
22706 स्वभावो न स {त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति}। एवं शील{पारमितायाः} क्षान्ति{पारमिताया} वीर्य{पारमिताया} ध्यान{पारमितायाः}। तथा हि
22707 यः प्रज्ञा{पारमितायाः} स्वभावो न स {त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति}। तत् कस्य हेतोः। तथा हि {सुभूते} दानपारमिता-
22708 स्वभावो दानपारमितास्वभावेन शून्यः।
22709 {{शीलपारमितास्वभावो शीलपारमितास्वभावेन शून्यः। क्षान्तिपारमितास्वभावो क्षान्तिपारमितास्वभावेन शून्यः। वीर्यपारमितास्वभावो वीर्यपारमितास्वभावेन शून्यः। ध्यानपारमितास्वभावो ध्यानपारमितास्वभावेन शून्यः।}}
22710 अध्यात्मशून्यतायाः स सुभूते निर्याणम् इच्छेत् यो ऽलक्षणानां धर्माणां
22711 निर्याणम् इच्छेत्। तत् कस्य हेतोः। तथा हि यो ऽध्यात्मशून्यतायाः
22712 स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति।
22713 तत् कस्य हेतोः। तथा हि सुभूते अध्यात्मशून्यता अध्यात्मशून्यतया
22714 शून्या।
22715 बहिर्धाशून्यता {{बहिर्धाशून्यतया शून्या}} अध्यात्मबहिर्धाशून्यता {{अध्यात्मबहिर्धाशून्यतया शून्या}} यावत्
22716 अभावस्वभावशून्यता {{अभावस्वभावशून्यतया शून्या}} स्मृत्युपस्थानानि {{स्मृत्युपस्थानैः शून्यानि}} सम्यक्प्रहाणानि {{सम्यक्प्रहाणैर् शून्यानि}} ऋद्धिपादा {{ऋद्धिपादैः शून्याः}}
22717 इन्द्रियाणि {{इन्द्रियैः शून्यानि}} बलानि {{बलैः शून्यानि}} बोध्यङ्गानि {{बोध्यङ्गैः शून्यानि}} मार्गः {{मार्गेण शून्यो}} अप्रमाणध्यानारूप्यसमापत्तयः {{अप्रमाणध्यानारूप्यसमापत्तिभिः शून्याः}}
22718 दशतथागतबलानि {{दशतथागतबलैः शून्यानि}} चतुर्वैशारद्यानि {{चतुर्वैशारद्यैः शून्यानि}} चतस्रः प्रतिसंविदः {{चतसृभिः प्रतिसंविद्भिः शून्याः}}
22719 तथा हि सुभूते बुद्धधर्मा बुद्धधर्मैः शून्याः॥ [इति दर्शनमार्गे
22720 द्वितीयग्राह्यविकल्पप्रतिज्पक्षः॥]
22721 अर्हतः स सुभूते निर्याणम् इच्छेत् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्।
22722 तत् कस्य हेतोः। तथा हि सुभूते यो ऽर्हतः स्वभावो न स त्रैधातुकान् निर्यास्यति
22723 न सर्वाकारज्ञतायां स्थास्यति। तत् कस्य हेतोः। तथा हि सुभूते अर्हत्-
22724 स्वभावो ऽर्हतः स्वभावेन शून्यः।
22725 {{प्रत्येकबुद्धस्य स सुभूते निर्याणम् इच्छेत् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्। बोधिसत्त्वस्य महासत्त्वस्य स सुभूते निर्याणम् इच्छेत् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्। तथागतस्य स सुभूते निर्याणम् इच्छेत् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्।}} स्रोत-
22801 आपत्तिफलस्य स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्।} एवं सकृदागामिफलस्य अनागामिफलस्य अर्हत्त्वस्य
22802 प्रत्येकबोधेर् मार्गज्ञतायाः सर्वाकारज्ञतायाः स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्।} तत् कस्य हेतोः। तथा हि
22803 सुभूते यः स्रोतआपत्तिफलस्य स्वभावो न स {त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति}। तत् कस्य हेतोः। तथा हि
22804 स्रोतआपत्तिफलस्वभावः स्रोतआपत्तिफलस्वभावेन शून्यः। एवं सकृदागामि-
22805 फलस्य यः स्वभावो ऽनागामिफलस्य यः स्वभावो ऽर्हत्त्वस्य यः स्वभावः प्रत्येक-
22806 बुद्धत्वस्य यः स्वभावो मार्गज्ञताया यः स्वभावः सर्वाकारज्ञताया यः स्वभावो
22807 न स {त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति}। तत् कस्य हेतोः। तथा हि सर्वाकारज्ञतायाः स्वभावः सर्वाकारज्ञता-
22808 स्वभावेन शून्यः॥ [इति दर्शनमार्गे प्रथमग्राहकविकल्पप्रतिपक्षः॥]
22809 नाम्नः स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्।} एवं निमित्तस्य सङ्केतस्य व्यवहारस्य प्रज्ञप्तेः स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्।}
22810 तत् कस्य हेतोः। तथा हि सुभूते यो नाम्नः स्वभावो न स {त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति}। तत् कस्य
22811 हेतोः। तथा हि सुभूते नामस्वभावो नामस्वभावेन शून्यः। एवं सङ्केतस्य यः
22812 स्वभावो व्यवहारस्य यः स्वभावः प्रज्ञप्तेर् यः स्वभावो न स त्रैधातुकान् निर्यास्यति
22813 न सर्वाकारज्ञतायां स्थास्यति। तत् कस्य हेतोः। तथा हि प्रज्ञप्तिस्वभावः प्रज्ञप्ति-
22814 स्वभावेन शून्यः। {{अनुत्पादस्वभावो ऽनुत्पादस्वभावेन शून्यो}}
22815 {{अनिरोधस्वभावो ऽनिरोधस्वभावेन शून्यः}} तथा हि अनभिसंस्कारस्वभावो ऽनभि-
22816 संस्कारस्वभावेन शून्यः। एवं हि सुभूते महायानम्। न स त्रैधातुकान् निर्यास्यति
22817 न सर्वाकारज्ञतायां स्थास्यति। अचलितं तद् यानम्॥ [इति दर्शनमार्गे
22818 द्वितीयग्राहकविकल्पप्रतिपक्षः॥]
22819 यत् पुनः सुभूतिर् एवम् आह। क्व तद् यानं स्थास्यतीति। न तद् यानं क्वचित्
22901 स्थास्यति। तत् कस्य हेतोः। तथा हि {सुभूते} अस्थिताः सर्वधर्माः। अपि तु {सुभूते}
22902 अस्थानं न स्थानयोगेन तद् यानं स्थास्यति। तद् यथापि नाम {सुभूते} धर्म-
22903 धातुर् न {स्थितो नास्थितः}। एवम् एव {सुभूते} तत् महयानं न {स्थितं नास्थितम्}। तद् यथापि नाम सुभूते
22904 अनुत्पादो ऽनिरोधो ऽसंक्लेशो ऽव्यवदानम् अनभिसंस्कारो न {स्थितो नास्थितः}। एवम् एव {सुभूते}
22905 तत् महायानं न {स्थितं नास्थितम्}। तथा हि {सुभूते} धर्मध्तुर् धर्मधातुना शून्यः। तत्
22906 कस्य हेतोः। न हि {सुभूते} धर्मधातुस्वभावः स्थितो वा अस्थितो वा।
22907 तत् कस्य हेतोः। तथा हि {सुभूते} धर्मधातुस्वभावो धर्मधातुस्वभावेन शून्यः।
22908 एवम् अनुत्पादो ऽनिरोधो ऽसंक्लेशो ऽव्यवदानम् अनभिसंस्कारो ऽनभिसंस्कारेण शून्यः।
22909 तत् कस्य हेतोः। न हि {सुभूते} अनभिसंस्कारस्वभावः स्थितो वा अस्थितो
22910 वा। तत् कस्य हेतोः। तथा हि {सुभूते} अनभिसंस्कारस्वभावो ऽनभिसंस्कार-
22911 स्वभावेन शून्यः। एवं हि {सुभूते} तद् यानं न क्वचित् स्थास्यति अस्थितम् अस्थानयोगेन
22912 अचाल्ययोगेन॥ [इति भावनामार्गे प्रथमग्राह्यविकल्पप्रतिपक्षः॥]
22913 यत् पुनः सुभूतिर् एवम् आह। कस् तेन यानेन निर्यास्यतीति। न कश्चित् तेन
22914 यानेन निर्यास्यति। तत् कस्य हेतोः। तथा हि {सुभूते} यच् च तद् यानं येन च
22915 निर्यास्यति यश् च निर्यास्यति यतश् च निर्यास्यति सर्व एते धर्मा न संविद्यन्ते
22916 एवम् असंविद्यमानानां सर्वधर्माणां कतमो धर्मः कतमेन धर्मेण निर्यास्यति। तत्
22917 कस्य हेतोः। तथा हि {सुभूते} नात्मा उपलभ्यते न सत्त्वो न जीवो {{न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको}} न
22918 पश्यक उपलभ्यते आत्मनो ऽत्यन्तविशुद्धिताम् उपादाय। एवं यावत्
22919 पश्यकस्यात्यन्तविशुद्धिताम् उपादाय धर्मधातुर् {नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}। एवम् अनुत्पादो {{ऽनिरोधो ऽसंक्लेशो ऽव्यवदानम्}}
22920 अनभिसंस्कारो {नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}। स्कन्धधात्वायतनानि {नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय}। प्रतीत्यसमुत्पादो {नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}।
22921 दानपारमिता {नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}। एवं शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता} प्रज्ञा{पारमिता}
22922 {नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}। अध्यात्मशून्यता {नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}।
22923 {{यावद् अभावस्वभावशून्यता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय। स्मृत्युपस्थानानि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय। सम्यक्प्रहाणानि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय। ऋद्धिपादा नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय। इन्द्रियाणि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय। बलानि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय। बोध्यङ्गानि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय। मार्गः नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय। अप्रमाणध्यानारूप्यसमापत्तयः नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय। दशतथागतबलानि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय। चतुर्वैशारद्यानि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय। चतस्रः प्रतिसंविदः नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय। अष्टादशावेणिकबुद्धधर्मा नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय। अर्हन् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय। प्रत्येकबुद्धो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय। बोधिसत्त्वो महासत्त्वो नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय। तथागतो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय। स्रोतआपत्तिफलो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय। सकृदागामिफलो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय। अनागामिफलो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय। अर्हत्त्वम् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय। प्रत्येकबोधिर् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय। मार्गज्ञता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय।}}
22924 सर्वाकारज्ञाता {नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}। प्रमुदिता भूमिर् {नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}। एवं विमला प्रभाकरी
23001 अर्चिष्मती सुदुर्जया अभिमुखी दुरङ्गमा अचला साधुमती धर्ममेघा भूमि-
23002 र् {नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}। पूर्वान्तो {नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}। अपरान्तो {नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}। प्रत्युत्पन्नो {नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}। एवम् अगतिर् {नोपलभ्यते}
23003 गतिर् {नोपलभ्यते}। स्थितिर् {नोपलभ्यते} च्युतिर् {नोपलभ्यते} उपपत्तिर् {नोपलभ्यते} हानिर् {नोपलभ्यते} ऋद्धिर् {नोपलभ्यते}
23004 अत्यन्तविशुद्धिताम् उपादाय।
23005 कस्यानुपलब्ध्या {नोपलभ्यते}। धर्मधातोर् अनुपलब्ध्या {नोपलभ्यते}। तत् कस्य हेतोः।
23006 न हि {सुभूते} धर्मधातुर् उपलभ्यते अनुपलब्ध्या नोपलभ्यते। अनुत्पादस्या-
23007 निरोधस्यासंक्लेशस्य अव्यवदानस्य अनभिसंस्कारस्यानुपलब्ध्या नोपलभ्यते
23008 अभिसंस्कारः। स्कन्धधात्वायतनानुपलब्ध्या नोपलभ्यन्ते स्कन्धधात्वायतनानि।
23009 प्रतीत्यसमुत्पादानुपलब्ध्या नोपलभ्यते प्रतीत्यसमुत्पादः। दानपारमिता-
23010 नुपलब्ध्या नोपलभ्यते दानपारमिता
23011 {{शीलपारमितानुपलब्ध्या नोपलभ्यते शीलपारमिता क्षान्तिपारमितानुपलब्ध्या नोपलभ्यते क्षान्तिपारमिता वीर्यपारमितानुपलब्ध्या नोपलभ्यते वीर्यपारमिता ध्यानपारमितानुपलब्ध्या नोपलभ्यते ध्यानपारमिता प्रज्ञापारमितानुपलब्ध्या नोपलभ्यते प्रज्ञापारमिता अध्यात्मशून्यतानुपलब्ध्या नोपलभ्यते अध्यात्मशून्यता बहिर्धाशून्यतानुपलब्ध्या नोपलभ्यते बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतानुपलब्ध्या नोपलभ्यते अध्यात्मबहिर्धाशून्यता यावत् अभावस्वभावशून्यतानुपलब्ध्या नोपलभ्यते अभावस्वभावशून्यता स्मृत्युपस्थानानुपलब्ध्या नोपलभ्यन्ते स्मृत्युपस्थानानि सम्यक्प्रहाणानुपलब्ध्या नोपलभ्यन्ते सम्यक्प्रहाणानि ऋद्धिपादानुपलब्ध्या नोपलभ्यन्ते ऋद्धिपादाः इन्द्रियानुपलब्ध्या नोपलभ्यन्ते इन्द्रियाणि बलानुपलब्ध्या नोपलभ्यन्ते बलानि बोध्यङ्गानुपलब्ध्या नोपलभ्यते बोध्यङ्गानि मार्गानुपलब्ध्या नोपलभ्यते मार्गः अप्रमाणध्यानारूप्यसमापत्त्यनुपलब्ध्या नोपलभ्यन्ते अप्रमाणध्यानारूप्यसमापत्तयः दशतथागतबलानुपलब्ध्या नोपलभ्यन्ते दशतथागतबलानि चतुर्वैशारद्यानुपलब्ध्या नोपलभ्यन्ते चतुर्वैशारद्यानि प्रतिसंविदनुपलब्ध्या नोपलभ्यन्ते चतस्रः प्रतिसंविदः। बुद्धधर्मानुपलब्ध्या}}
23012 अष्टादशावेणिका बुद्धधर्मा नोपलभ्यन्ते॥ [इति भावनामार्गे द्वितीयग्राह्य-
23013 विकल्पप्रतिपक्षः॥]
23014 स्रोतआपन्नः स्रोतआपन्नानु{पलब्ध्या नोपलभ्यते}। तत् कस्य हेतोः। न हि सुभूते स्रोत-
23015 आपन्न उपलभ्यते अत्यन्तविशुद्धिताम् उपादाय। एवं सकृदागाम्यनागाम्यर्हन्न् अ-
23016 र्हदनु{पलब्ध्या नोपलभ्यते} प्रत्येकबुद्धः प्रत्येकबुद्धानु{पलब्ध्या नोपलभ्यते} यावत् तथागतस् तथागतानु{पलब्ध्या नोपलभ्यते}। तत् कस्य
23017 हेतोः। न हि सुभूते तथागत उपलभ्यते अत्यन्तविशुद्धिताम् उपादाय॥ [इति
23018 भावनामार्गे प्रथमग्राहकविकल्पप्रतिपक्षः॥]
23019 स्रोतआपत्तिफलं स्रोतआपत्तिफलानु{पलब्ध्या नोपलभ्यते}। एवं सकृदागामिफलम् अना-
23020 गामिफलम् अर्हत्त्वं प्रत्येकबुद्धत्वं बोधिसत्त्वत्वं बुद्धत्वं बुद्धानु{पलब्ध्या नोपलभ्यते}। एवं प्रमुदिता
23021 भूमिर् भूम्यनु{पलब्ध्या नोपलभ्यते} {{विमला प्रभाकरी अर्चिष्मती सुदुर्जया अभिमुखी दुरङ्गमा अचला साधुमती}}
23022 धर्ममेघा भूमिर् भूम्यनु{पलब्ध्या नोपलभ्यते} अत्यन्तविशुद्धिताम् उपादाय।
23023 पुनर् अपरं सुभूते दशभूमयो भूम्यनु{पलब्ध्या नोपलभ्यते}। कतमा दश। शुक्लविदर्शना भूमि-
23024 र् गोत्रभूमिर् अष्टमकभूमिर् दर्शनभूमिस् तनुभूमिः वीतरागभूमिः कृताविभूमिः प्रत्येक-
23025 बुद्धभूमिर् बोधिसत्त्वभूमिर् बुद्धभूमिः। अध्यात्मशून्यतया प्रथमा भूमिर् नोपलभ्यते।
23101 बहिर्धा{शून्यतया प्रथमा भूमिर् नोपलभ्यते}। अध्यात्मबहिर्धा{शून्यतया प्रथमा भूमिर् नोपलभ्यते}। यावद् अभावस्वभाव{शून्यतया प्रथमा भूमिर् नोपलभ्यते}। यावद् दशमी भूमिः
23102 अध्यात्मशून्यतया दशमी भूमिर् नोपलभ्यते
23103 {{बहिर्धाशून्यतया दशमी भूमिर् नोपलभ्यते। अध्यात्मबहिर्धाशून्यतया दशमी भूमिर् नोपलभ्यते। यावद् अभावस्वभावशून्यतया दशमी भूमिर्}} नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय। अध्या-
23104 त्मशून्यतया सत्त्वपरिपाको नोपलभ्यते
23105 {{बहिर्धाशून्यतया सत्त्वपरिपाको नोपलभ्यते। अध्यात्मबहिर्धाशून्यतया सत्त्वपरिपाको नोपलभ्यते। यावद् अभावस्वभावशून्यतया सत्त्वपरिपाको नोपलभ्यते अत्यन्तविशुद्धिताम्}} उपादाय। अध्यात्मशून्यतया बुद्धक्षेत्र-
23106 परिशुद्धिर् नोपलभ्यते {{बहिर्धाशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते। अध्यात्मबहिर्धाशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते। यावद् अभावस्वभावशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}}।
23107 अध्यात्मशून्यतया पञ्चचक्षूंषि नोपलभ्यन्ते
23108 {{बहिर्धाशून्यतया पञ्चचक्षूंषि नोपलभ्यन्ते। अध्यात्मबहिर्धाशून्यतया पञ्चचक्षूंषि नोपलभ्यन्ते। यावद् अभावस्वभावशून्यतया पञ्चचक्षूंषि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय}}। एवं हि {सुभूते} {बोधिसत्त्वो} महासत्त्वो ऽनुपलम्भयोगेन सर्व-
23109 धर्माणां महायानेन सर्वाकारज्ञतायां निर्यास्यति॥ [इति भावनामार्गे द्वितीय-
23110 ग्राहकविकल्पप्रतिपक्षः॥] [इत्य् उक्ता सम्भारप्रतिपत्तिः॥]
23111 अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्। महायानं महायान-
23112 म् इतीदं भगवन्न् उच्यते। सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति तेनोच्यते
23113 महायानम् इति। आकाशसमं तद् यानम्। तद् यथापि नाम भगवन्न् आकाशे
23114 ऽप्रमेयाणाम् असंख्येयानम् अपरिमाणानां सत्त्वानाम् अवकाशः। एवम् एव
23115 भगवन्न् अस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम्
23116 अवकाशः। एवं हि भगवन्न् बोधिसत्त्वस्य महायानम्। तद् {यथापि नाम भगवन्न्} आकाशस्य
23117 नाप्य् आगमो दृश्यते न निर्गमो न स्थानं दृश्यते। एवम् {एवास्य भगवन् महायानस्य} {{नाप्य् आगमो दृश्यते न निर्गमो}} न स्थान-
23118 म् उपलभ्यते। तद् {यथापि नाम भगवन्न्} आकाशस्य नापि पूर्वान्त उपलभ्यते नापरान्त उप-
23119 लभ्यते न मध्य उपलभ्यते अध्वसमताम् उपादाय। एवम् {एवास्य भगवन् महायानस्य} {{नापि पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्य उपलभ्यते अध्वसमताम्}}
23120 उपादाय। एवम् इदं भगवन् महायानं महायानम् इत्य् उच्यते। भगवान् आह।
23121 एवम् एतत् {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्। यद् इमाः षड् पारमिता दान-
23201 पारमिता {{शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता}} प्रज्ञापारमिता इदं {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्।
23202 पुनर् अपरं {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानं यद् उत सर्वधारणीमुखानि सर्वसमाधि-
23203 मुखानि शूरंगमः समाधिर् विस्तरेण कार्यः यावद् असङ्गाकाशविमुक्तिनिरुपलेपः
23204 समाधिः। इदं {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्}। पुनर् {अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} यद् उत अध्यात्मशून्यता बहिधाशून्यता
23205 अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता इदं {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्।} पुनर् {अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} यद् उत
23206 चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि {{चतुर ऋद्धिपादान् पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टांगमार्गा चतस्रः प्रतिसंविदश् चत्वारि वैशारद्यानि षडभिज्ञा दशतथागतबलानि}} अष्टादशावेणिका
23207 बुद्धधर्मा इदं {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्।}
23208 यत् पुनः सुभूतिर् एवम् आह। सदेवमानुषासुरं लोकम् अभिभूय तद् यानं
23209 निर्यास्यतीति। कतमश् च सदेवमानुषासुरो लोको यद् उत कामधातू
23210 रूपधातुर् आरूप्यधातुः। सचेत् सुभूते कामधातुस् तथता अवितथता अनन्य-
23211 तथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी
23212 भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय
23213 निरयास्यत्। यस्मात् तर्हि सुभूते कामधातुः कल्पितो विठपितः सन्दर्शितो ऽ-
23214 यथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि अभावस् तस्माद् इदं
23215 महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति।
23216 {{सचेत् सुभूते रूपधातुस् तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्। यस्मात् तर्हि सुभूते रूपधातुः कल्पितो विठपितः सन्दर्शितो ऽयथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि अभावस् तस्माद् इदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति। सचेत् सुभूते आरूप्यधातुस् तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्। यस्मात् तर्हि सुभूते आरूप्यधातुः कल्पितो विठपितः सन्दर्शितो ऽयथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि अभावस् तस्माद् इदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति}}।
23217 {{सचेत् सुभूते रूपं तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्। यस्मात् तर्हि सुभूते रूपं कल्पितं विठपितं सन्दर्शितम् अयथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि अभावस् तस्माद् इदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति। एवं वेदना संज्ञा संस्काराः। सचेत् सुभूते विज्ञानं तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्। यस्मात् तर्हि सुभूते विज्ञानं कल्पितं विठपितं सन्दर्शितम् अयथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि अभावस् तस्माद् इदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति। सचेत् सुभूते चक्षुः तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्। यस्मात् तर्हि सुभूते चक्षुः कल्पितं विठपितं सन्दर्शितम् अयथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि अभावस् तस्माद् इदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति। एवं श्रोत्रं घ्राणं जिह्वा कायः। सचेत् सुभूते मनः तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्। यस्मात् तर्हि सुभूते मनः कल्पितं विठपितं सन्दर्शितम् अयथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि अभावस् तस्माद् इदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति। सचेत् सुभूते रूपं तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्। यस्मात् तर्हि सुभूते रूपं कल्पितं विठपितं सन्दर्शितम् अयथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि अभावस् तस्माद् इदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति। एवं शब्दो गन्धो रसः स्प्रष्टव्यम्। सचेत् सुभूते धर्मः तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्। यस्मात् तर्हि सुभूते धर्मः कल्पितो विठपितः सन्दर्शितो ऽयथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि अभावस् तस्माद् इदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति। सचेत् सुभूते चक्षुर्विज्ञानं तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्। यस्मात् तर्हि सुभूते चक्षुर्विज्ञानं कल्पितं विठपितं सन्दर्शितम् अयथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि अभावस् तस्माद् इदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति। एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं। सचेत् सुभूते मनोविज्ञानं तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्। यस्मात् तर्हि सुभूते मनोविज्ञानं कल्पितं विठपितं सन्दर्शितम् अयथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि अभावस् तस्माद् इदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति। सचेत् सुभूते चक्ष्ःसंस्पर्शः तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्। यस्मात् तर्हि सुभूते चक्षुःसंस्पर्शः कल्पितो विठपितः सन्दर्शितो ऽयथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि अभावस् तस्माद् इदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति। एवं श्रोत्रसंस्पर्शः घ्राणसंस्पर्शः जिह्वासंस्पर्शः कायसंस्पर्शः। सचेत् सुभूते मनःसंस्पर्शः तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्। यस्मात् तर्हि सुभूते मनःसंस्पर्शः कल्पितो विठपितः सन्दर्शितो ऽयथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि अभावस् तस्माद् इदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति।}}
23218 {{सचेत् सुभूते चक्षुःसंस्पर्शजा वेदना तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्। यस्मात् तर्हि सुभूते चक्षुःसंस्पर्शजा वेदना कल्पिता विठपिता सन्दर्शिता ऽयथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि अभावस् तस्माद् इदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति। एवं श्रोत्रसंस्पर्शजा वेदना घ्राणसंस्पर्शजा वेदना जिह्वासंस्पर्शजा वेदना कायसंस्पर्शजा वेदना। सचेत् सुभूते मनःसंस्पर्शजा वेदना तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्। यस्मात् तर्हि सुभूते मनःसंस्पर्शजा वेदना कल्पिता विठपिता सन्दर्शिता ऽयथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि अभावस् तस्माद् इदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति}}।
23219 सचेत् सुभूते धर्मधातुर् भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषा-
23220 सुरं लोकम् अभिभूय निर्यास्यत्। यस्मात् तर्हि सुभूते धर्मधातुर् अभावो न भाव-
23221 स् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति। एवं तथता
23222 भूतकोटिः सचेत् सुभूते अचिन्त्यधातुर् भावो भविष्यन् नाभावो {{नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्। यस्मात् तर्हि सुभूते अचिन्त्यधातुर् अभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति।}}
23301 {{सचेत् सुभूते दानपारमिता भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्। यस्मात् तर्हि सुभूते दानपारमिता अभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति। सचेत् सुभूते शीलपारमिता भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्। यस्मात् तर्हि सुभूते शीलपारमिता अभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति। सचेत् सुभूते क्षान्तिपारमिता भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्। यस्मात् तर्हि सुभूते क्षान्तिपारमिता अभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति। सचेत् सुभूते वीर्यपारमिता भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्। यस्मात् तर्हि सुभूते वीर्यपारमिता अभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति। सचेत् सुभूते ध्यानपारमिता भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्। यस्मात् तर्हि सुभूते ध्यानपारमिता अभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति। सचेत् सुभूते प्रज्ञापारमिता भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्। यस्मात् तर्हि सुभूते प्रज्ञापारमिता अभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति। सचेत् सुभूते अध्यात्मशून्यता भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्। यस्मात् तर्हि सुभूते अध्यात्मशून्यता अभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति। सचेत् सुभूते बहिर्धाशून्यता भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्। यस्मात् तर्हि सुभूते बहिर्धाशून्यता अभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति। सचेत् सुभूते अध्यात्मबहिर्धाशून्यता भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्। यस्मात् तर्हि सुभूते अध्यात्मबहिर्धाशून्यता अभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति। याबत् सचेत् सुभूते अभावस्वभावशून्यता भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्। यस्मात् तर्हि सुभूते अभावस्वभावशून्यता अभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति।}}
23302 {{सचेत् सुभूते स्मृत्युपस्थानानि भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्। यस्मात् तर्हि सुभूते स्मृत्युपस्थानानि अभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति}}। एवं चत्वारि सम्यकप्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि
23303 पञ्चबलानि सप्त बोध्यङ्गानि। सचेत् सुभूते आर्याष्टाङ्गमार्गो भावो {{भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्। यस्मात् तर्हि सुभूते आर्याष्टाङ्गमार्गो ऽभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति।}}
23304 सचेत् सुभूते अप्रमाणध्यानारूप्यसमापत्त्यो भावो {{भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्। यस्मात् तर्हि सुभूते अप्रमाणध्यानारूप्यसमापत्त्यो ऽभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति।}}
23305 एवं दशबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः सचेत्
23306 सुभूते अष्टादशावेणिका बुद्धधर्मा भावः {{भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्। यस्मात् तर्हि सुभूते अष्टादशावेणिका बुद्धधर्मा ऽभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति।}} [इति अग्रहता-
23307 निर्याणम्॥]
23308 सचेत् सुभूते गोत्रभूधर्मा भावो {{भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्। यस्मात् तर्हि सुभूते गोत्रभूधर्मा ऽभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति।}} सचेत् सुभूते
23309 अष्टमकधर्मा भावो {{भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्। यस्मात् तर्हि सुभूते अष्टमकधर्मा ऽभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति।}} एवं स्रोतआपन्नधर्माः सकृदा-
23310 गामिधर्मा अनागामिधर्मा अर्हद्धर्माः प्रत्येकबुद्धधर्मा बोधिसत्त्वधर्माः। सचेत्
23311 सुभूते बुद्धधर्मा भावो {{भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्। यस्मात् तर्हि सुभूते बुद्धधर्मा ऽभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति।}} सचेत् सुभूते गोत्रभूमिर् भावो
23312 {{भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्। यस्मात् तर्हि सुभूते गोत्रभूमिर् अभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति।}} एवम् अष्टमकः स्रोतआपन्नः सकृदागाम्यनागाम्यर्हत्-
23313 प्रत्येकबुद्धबोधिसत्त्वः। सचेत् सुभूते बुद्धो भावो {{भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्। यस्मात् तर्हि सुभूते बुद्धो ऽभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति।}} सचेत्
23314 सुभूते मानुषासुरलोको भावो {{भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्। यस्मात् तर्हि सुभूते मानुषासुरलोको ऽभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति।}} [इति प्रहाणनिर्याणम्॥]
23315 सचेत् सुभूते प्रथमचित्तोत्पादम् उपादाय {बोधिसत्त्वस्य} महासत्त्वस्य यावद् आ बोधि-
23316 मण्डाद् एतस्मिन्न् अन्तरे ये चित्तोत्पादास् ते भावः {{भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्। यस्मात् तर्हि सुभूते चित्तोत्पादा अभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति।}}
23317 सचेत् सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य वज्रोपमं ज्ञानं भावो भविष्यन् नाभावो
23318 नैव {बोधिसत्त्वो} महासत्त्वः सर्ववासनानुसन्धिक्लेशान् भावान् विदित्वा सर्वाकारवरो-
23319 पेतं सर्वज्ञज्ञानम् अनुप्राप्नुयात्। यस्मात् सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य वज्रोपमं
23401 ज्ञानम् अभावो न भावस् तस्माद् {बोधिसत्त्वो} महासत्त्वः सर्ववासनानुसन्धिक्लेशान् अ-
23402 भावान् इति विदित्वा सर्वाकारवरोपेतं सर्वज्ञज्ञानम् अनुप्राप्नोति। एवं महायानं
23403 सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति।
23404 सचेत् सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य द्वात्रिंशत् महापुरुष-
23405 लक्षणानि भावो भविष्यन् नाभावो नैव तथागता अर्हन्तः सम्यक्संबुद्धाः सदेव-
23406 मानुषासुरं लोकं तेजसा च श्रिया चाभ्यभविष्यत्। यस्मात् {{सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य द्वात्रिंशत् महापुरुषलक्षणान्य् अभावो न भावस् तस्मात् तथागता अर्हन्तः सम्यक्संबुद्धाः सदेवमानुषासुरं लोकं तेजसा च श्रिया}} अभि-
23407 भवन्ति।
23408 सचेत् सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो गङ्गानदीवालुकोपमान् लोक-
23409 धातून् अवभासेनास्फारिष्यत्। यस्मात् तर्हि {सुभूते} {{तथागतस्यार्हतः सम्यक्संबुद्धस्य अवभासो ऽभावो न भावस्}} {{तस्मात् तथागतो ऽर्हन् सम्यक्संबुद्धो गङ्गानदीवालुकोपमान् लोकधातून् अवभासेन}} स्फारति।
23410 सचेत् सुभूते तथागतस्य षष्ठ्यङ्गोपेतः स्वरो भावो भविष्यन् नाभावो नैव
23411 तथागतो ऽर्हन् सम्यक्संबुद्धो दशसु दिक्षु अप्रमेयासंख्येयान् लोकधातून् स्वरेणा-
23412 भिव्यज्ञापयिष्यत्। यस्मात् तर्हि {{सुभूते तथागतस्य षष्ठ्यङ्गोपेतः स्वरो अभावो न भावस् तस्मात् तथागतो ऽर्हन् सम्यक्संबुद्धो दशसु दिक्षु अप्रमेयासंख्येयान् लोकधातून् स्वरेण}} अभिविज्ञापयति।
23413 सचेत् सुभूते तथागतस्य त्रिपरिवर्तं द्वादशाकारधर्मचक्रं भावो
23414 भविष्यन् नाभावो नैव तथागतस् त्रिपरिवर्तद्वादशाकारं धर्मचक्रं प्रावर्तयिष्यत्
23415 अप्रवर्तनीयं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केन-
23416 चिद् वा पुनर् लोके सह धर्मेण। यस्मात् तर्हि {{सुभूते तथागतस्य त्रिपरिवर्तं द्वादशाकारधर्मचक्रम् अभावो न भावो तस्मात् त्रिपरिवर्तद्वादशाकारं धर्मचक्रं अप्रवर्तनीयं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सह धर्मेण}} तथागतेन प्रवर्तितम्।
23417 सचेत् सुभूते सत्त्वा भावो भविष्यन् नाभावो येषां कृतशस् तथागतेन
23418 धर्मचक्रं प्रवर्तितं नैव ते सत्त्वा अनुपधिशेषनिर्वाणधातौ परिनिर्वास्यत् य-
23419 स्मात् तर्हि {{सत्त्वा अभावो न भावो येषां कृतशस् तथागतेन धर्मचक्रं प्रवर्तितं तस्मात् ते सत्त्वा अनुपधिशेषनिर्वाणधातौ}} परिनिर्वास्यन्ति॥ [इत्य् अधिगमनिर्याणम् इति त्रिविधम् उद्देश-
23420 निर्याणम्॥]
23421 यत् पुनः सुभूतिर् एवम् आह। आकाशसमं तद् यानम् इति। एवम् एतत्
23422 सुभूते एवम् एतत् आकाशसमं तद् यानम्। यथाकाशस्य न पूर्वा दिक् प्रज्ञायते
23423 न दक्षिणा न पश्चिमा नोत्तरा न विदिशो नाधो नोर्ध्वा दिक् प्रज्ञायते एवम् एव
23501 सुभूते तस्य यानस्य न पूर्वा {{दिक् प्रज्ञायते न दक्षिणा न पश्चिमा नोत्तरा न विदिशो नाधो नोर्ध्वा दिक् प्रज्ञायते}} {तेनोच्यते आकाशसमं तद् यानम् इति}। तद् यथापि नाम सुभूते
23502 आकाशं न दीर्घं न ह्रस्वं न वृत्तं न चतुरस्रं न समं न विषमं न नीलं न
23503 पीतं न लोहितं नावदातं न मञ्जिष्ठं न स्फटिकरजतवर्णम्। एवम् एव सुभूए
23504 तत् महायानं न दीर्घं {{न ह्रस्वं न वृत्तं न चतुरस्रं न समं न विषमं न नीलं न पीतं न लोहितं नावदातं न मञ्जिष्ठं न स्फटिकरजतवर्णम्।}} {तेनोच्यते आकाशसमं तद् यानम् इति}। तद् यथापि नाम सुभूते
23505 आकाशं नातीतं नानागतं न प्रत्युत्पन्नम्। एवम् एव सुभूते तत् महायानं
23506 नातीतं {{नानागतं न प्रत्युत्पन्नम्।}} {तेनोच्यते आकाशसमं तद् यानम् इति}। तद् यथापि नाम सुभूते आकाशस्य न हानिः
23507 न वृद्धिर् एवम् एव सुभूते तस्य महायानस्य न हानिः {{न वृद्धिः।}} {तेनोच्यते आकाशसमं तद् यानम् इति}।
23508 तद् {यथापि नाम सुभूते} आकाशस्य न संक्लेशो न व्यवदानम्। एवम् एव {{सुभूते तस्य महायानस्य न संक्लेशो न व्यवदानम्।}} {तेनोच्यते आकाशसमं तद् यानम् इति।} तद् {यथापि नाम सुभूते}
23509 आकाशस्य नोत्पादो न निरोधो न स्थितिन विष्ठितिर् न स्थितेर् अन्यथात्वम्।
23510 एवम् एव {{सुभूते तस्य महायानस्य नोत्पादो न निरोधो न स्थितिन विष्ठितिर् न स्थितेर् अन्यथात्वम्।}} {तेनोच्यते आकाशसमं तद् यानम् इति}। तद् {यथापि नाम सुभूते} आकाशं न कुशलं नाकुशलं न व्याकृतं नाव्याकृतम्।
23511 एवम् एव {{सुभूते तद् महायानं न कुशलं नाकुशलं न व्याकृतं नाव्याकृतम्।}} {तेनोच्यते आकाशसमं तद् यानम् इति}। तद् {यथापि नाम सुभूते} आकाशं न दृष्टं न श्रुतं न मतं न विज्ञातम्। एवम् एव
23512 {{सुभूते तद् महायानं न दृष्टं न श्रुतं न मतं न विज्ञातम्।}} {तेनोच्यते आकाशसमं तद् यानम् इति}। तद् {यथापि नाम सुभूते} आकाशं न ज्ञेयं नाज्ञेयं न परिज्ञेयं न परिज्ञातव्यं न
23513 प्रहातव्यं न साक्षात्कर्तव्यं न भावयितव्यम्। एवम् एव {{सुभूते तद् महायानं न ज्ञेयं नाज्ञेयं न परिज्ञेयं न परिज्ञातव्यं न प्रहातव्यं न साक्षात्कर्तव्यं न भावयितव्यम्।}} {तेनोच्यते आकाशसमं तद् यानम् इति}। तद् {यथापि नाम सुभूते}
23514 आकाशं न विपाको न विपाकधर्मि। एवम् एव {{सुभूते तद् महायानं न विपाको न विपाकधर्मि।}} {तेनोच्यते आकाशसमं तद् यानम् इति}। तद् {यथापि नाम सुभूते} आकाशं न काम-
23515 धातुपर्यापन्नं न रूपधातुपर्यापन्नं नारूप्यधातुपर्यापन्नम्। एवम् एव {{सुभूते तद् महायानं न कामधातुपर्यापन्नं न रूपधातुपर्यापन्नं नारूप्यधातुपर्यापन्नम्।}} {तेनोच्यते आकाशसमं तद् यानम् इति}।
23516 तद् {यथापि नाम सुभूते} आकाशं न प्रथमचित्तोत्पादो न द्वितीयो न तृतीयो न चतुर्थो न पञ्चमो
23517 न षष्ठो न सप्तमो नाष्टमो न नवमो न दशमश् चित्तोत्पादः। एवम् एव {{सुभूते तद् महायानं न प्रथमचित्तोत्पादो न द्वितीयो न तृतीयो न चतुर्थो न पञ्चमो न षष्ठो न सप्तमो नाष्टमो न नवमो न दशमश् चित्तोत्पादः।}} {तेनोच्यते आकाशसमं तद् यानम् इति}।
23518 तद् {यथापि नाम सुभूते} आकाशे न शुक्लविदर्शनाबूमिर् न गोत्रभूमिर् नाष्टमकभूमिर् न दर्शनभूमिर् न
23519 तनुभूमिर् न वीतरागभूमिर् न कृताविभूमिः। एवम् एव {{सुभूते तस्मिन् महायाने न शुक्लविदर्शनाबूमिर् न गोत्रभूमिर् नाष्टमकभूमिर् न दर्शनभूमिर् न तनुभूमिर् न वीतरागभूमिर् न कृताविभूमिः।}} {तेनोच्यते आकाशसमं तद् यानम् इति}। तद् {यथापि नाम सुभूते} आकाशे न
23520 स्रोतआपत्तिफलं न सकृदागामिफलं नानागामिफलं नार्हत्त्वं न प्रत्येकबुद्धत्वं
23521 न बुद्धत्वम्। एवम् एव {{सुभूते तस्मिन् महायाने न स्रोतआपत्तिफलं न सकृदागामिफलं नानागामिफलं नार्हत्त्वं न प्रत्येकबुद्धत्वं न बुद्धत्वम्।}} {तेनोच्यते आकाशसमं तद् यानम् इति}। तद् {यथापि नाम सुभूते} आकाशे न श्रावकभूमिर् न प्रत्येकबुद्ध-
23522 भूमिर् न सम्यक्संबुद्धभूमिः। एवम् एव {{सुभूते तस्मिन् महायाने न श्रावकभूमिर् न प्रत्येकबुद्धभूमिर् न सम्यक्संबुद्धभूमिः।}} {तेनोच्यते आकाशसमं तद् यानम् इति}। तद् {यथापि नाम सुभूते} आकाशं न रूपि नारूपि
23601 न सनिदर्शनं नानिदर्शनं न सप्रतिघं नाप्रतिघं न संयुक्तं न विसंयुक्तम्। एवम् एव
23602 {{सुभूते तद् महायानं न रूपि नारूपि न सनिदर्शनं नानिदर्शनं न सप्रतिघं नाप्रतिघं न संयुक्तं न विसंयुक्तम्।}} {तेनोच्यते आकाशसमं तद् यानम् इति}। तद् {यथापि नाम सुभूते} आकाशं न नित्यं नानित्यं न सुखं न दुःखं नात्मा नानात्मा
23603 न शान्तं नाशान्तं। एवम् एव {{सुभूते तद् महायानं न नित्यं नानित्यं न सुखं न दुःखं नात्मा नानात्मा न शान्तं नाशान्तं।}} {तेनोच्यते आकाशसमं तद् यानम् इति}। तद् {यथापि नाम सुभूते} आकाशं न शून्यं नाशून्यं न
23604 निमित्तं नानिमित्तं न प्रणिहितं नाप्रणिहितम्। एवम् एव {{सुभूते तद् महायानं न शून्यं नाशून्यं न निमित्तं नानिमित्तं न प्रणिहितं नाप्रणिहितम्।}} {तेनोच्यते आकाशसमं तद् यानम् इति}। तद् {यथापि नाम सुभूते} आकाशं
23605 न विविक्तं नाविविक्तं नालोको नान्धकारः। एवम् एव {{सुभूते तद् महायानं न विविक्तं नाविविक्तं नालोको नान्धकारः।}} {तेनोच्यते आकाशसमं तद् यानम् इति}। तद् {यथापि नाम सुभूते} आकाशं
23606 न लभ्यते नोपलभ्यते। एवम् एव {{सुभूते तद् महायानं न लभ्यते नोपलभ्यते।}} {तेनोच्यते आकाशसमं तद् यानम् इति}। तद् {यथापि नाम सुभूते} आकाशं न प्रव्याहारो
23607 नाप्रव्याहारः। एवम् एव {{सुभूते तद् महायानं न प्रव्याहारो नाप्रव्याहारः।}} {तेनोच्यते आकाशसमं तद् यानम् इति}॥ [इति समतानिर्याणम्॥]
23608 यत् पुनः सुभूतिर् एवम् आह। यथाकाशे ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां
23609 सत्त्वानाम् अवकाशः। एवम् एव तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरि-
23610 माणानां सत्त्वानाम् अवकाश इति। एवम् एतत् सुभूते एवम् एतत्। यथा
23611 {{आकाशे ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः। एवम् एव तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम्}} अवकाश इति। तत् कस्य हेतोः।
23612 सत्त्वासत्तया हि सुभूते आकाशासत्ता वेदितव्या। आकाशासत्तया महा-
23613 यानासत्ता वेदितव्या। अनेनापि सुभूते पर्यायेण तस्मिन् महायाने ऽप्रमेया-
23614 णाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः। तत् कस्य हेतोः। तथा हि
23615 सुभूते ये च सत्त्वा यच् चाकाशं यच् च महायानं सर्वम् एतन् नोपलभ्यते।
23616 पुनर् अपरं सुभूते सत्त्वासत्तया आकाशासत्ता वेदितव्या आकाशासत्तया
23617 महायानासत्ता वेदितव्या। महायानासत्तया अप्रमेयासत्ता वेदितव्या। एवं
23618 हि सुभूते तस्मिन् {{महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः}}। तथा हि सुभूते ये च सत्त्वा यच् चाकाशं यच् च
23619 महायानं यच् चाप्रमेयं सर्वम् एवं नोपलभ्यते।
23620 पुनर् अपरं सुभूते सत्त्वासत्तया आकाशासत्ता
23621 {{वेदितव्या आकाशासत्तया महायानासत्ता वेदितव्या। महायानासत्तया असंख्येयासत्ता वेदितव्या। एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः। तथा हि सुभूते ये च सत्त्वा यच् चाकाशं यच् च महायानं यच् चासंख्येयं सर्वम् एवं}} नोपलभ्यते।
23701 पुनर् अपरं सुभूते सत्त्वासत्तया तथागतासत्ता वेदितव्या तथागतासत्तयां
23702 {{अपरिमाणासत्ता वेदितव्या। एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः। तथा हि सुभूते ये च सत्त्वा यच् चाकाशं यच् च महायानं यच् चापरिमाणं सर्वम् एवं नोपलभ्यते}}।
23703 पुनर् अपरं {{सुभूते सत्त्वासत्तया आकाशासत्ता वेदितव्या आकाशासत्तया}} महायानासत्ता
23704 वेदितव्या। महायानासत्तया असंस्कृतासत्ता वेदितव्या असंस्कृतासत्तयाप्रमेया-
23705 सत्ता वेदितव्या अप्रमेयासत्तया असंख्येयासत्ता वेदितव्या असंख्येयासत्तया
23706 अपरिमाणासत्ता वेदितव्या अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या। एवं
23707 हि सुभूते तस्मिन् {{महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः।}} तत् कस्य हेतोः। तथा हि सुभूते ये च सत्त्वा यश् च
23708 तथागतो यच् चाकाशं यच् च महायानं यच् चासंस्कृतं यच् चाप्रमेयं यच् चासंख्येयं
23709 यच् चापरिमाणं ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते।
23710 पुनर् अपरं सुभूते आत्मसत्त्वासत्तया सत्त्वजीवपोषपुरुषपुद्गलमनुजमानव-
23711 कारकवेदकजानकपश्यकासत्ता वेदितव्या। जानकपश्यकासत्तया भूतकोट्यसत्ता
23712 वेदितव्या। भूतकोट्यसत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या।
23713 अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या। एवं हि {सुभूते} तस्मिन्
23714 {{महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः।}} तत् कस्य हेतोः। तथा हि सुभूते यश् चात्मा यश् च यावज् जानकपश्यको या च
23715 भूतकोटिः यच् चाप्रमेयम् असंख्येयम् अपरिमाणं ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते।
23716 पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदि-
23717 तव्या। यावज् जानकपश्यकासत्तया अचिन्त्यधात्वसत्ता वेदितव्या। अचिन्त्य-
23718 धात्वसत्तया रूपस्कन्धासत्ता वेदितव्या। रूपस्कन्धासत्तया वेदना-
23719 {{स्कन्धासत्ता वेदितव्या। वेदनास्कन्धसत्तया संज्ञास्कन्धासत्ता वेदितव्या। संज्ञास्कन्धासत्तया संस्कारस्कन्धासत्ता वेदितव्या। संस्कारस्कन्धासत्तया}} विज्ञानस्कन्धासत्ता वेदितव्या। विज्ञानस्कन्धासत्तया आकाशासत्ता
23720 वेदितव्या। आकाशासत्तया महायानासत्ता वेदितव्या। महायानासत्तया अप्र-
23721 मेयासंख्येयापरिमाणासत्ता वेदितव्या। अप्रमेयासंख्येयारिमाणासत्तया
23722 सर्वधर्मासत्ता वेदितव्या। एवं हि सुभूते तस्मिन् {{महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः।}} तत् कस्य हेतोः।
23723 तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते।
23801 पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या।
23802 यावज् जानकपश्यकासत्तया चक्षुरसत्ता वेदितव्या। चक्षुरसत्तया श्रोत्रघ्राण-
23803 जिह्वाकायमनो ऽसत्ता वेदितव्या। मनो ऽसत्तया आकाशासत्ता वेदितव्या।
23804 आकाशासत्तया महायानासत्ता वेदितव्या। महायानासत्तया अप्रमेयासंख्येया-
23805 परिमाणासत्ता वेदितव्या। अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता
23806 वेदितव्या। एवं हि सुभूते तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां
23807 सत्त्वानाम् अवकाशः। तत् कस्य हेतोः। तथा हि सुभूते यश् चात्मा यावद् ये
23808 च सर्वधर्माः सर्व एते नोपलभ्यन्ते।
23809 पुनर् अपरं {{सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या। यावज् जानकपश्यकासत्तया}}
23810 दानपारमितासत्ता वेदितव्या दानपारमितासत्तया शील{{पारमितासत्ता वेदितव्या शीलपारमितासत्तया}} क्षान्ति{{पारमितासत्ता वेदितव्या क्षान्तिपारमितासत्तया}} वीर्य{{पारमितासत्ता वेदितव्या वीर्यपारमितासत्तया}}
23811 ध्यान{{पारमितासत्ता वेदितव्या ध्यानपारमितासत्तया}} प्रज्ञापारमितासत्ता वेदितव्या। प्रज्ञापारमितासत्तया आकाशासत्ता
23812 {{वेदितव्या। आकाशासत्तया महायानासत्ता वेदितव्या। महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या। अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या। एवं हि सुभूते तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः। तत् कस्य हेतोः। तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते।}}
23813 पुनर् अपरं {{सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या। यावज् जानकपश्यकासत्तया}}
23814 अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभाव-
23815 शून्यतासत्ता वेदितव्या। अभावस्वभावशून्यतासत्तया आकाशासत्ता {{वेदितव्या। आकाशासत्तया महायानासत्ता वेदितव्या। महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या। अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या। एवं हि सुभूते तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः। तत् कस्य हेतोः। तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते।}}
23816 पुनर् अपरं {{सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या। यावज् जानकपश्यकासत्तया}}
23817 स्मृत्युपस्थानासत्ता वेदितव्या स्मृत्युपस्थानासत्तया सम्यक्प्रहाणासत्ता
23818 वेदितव्या सम्यक्प्रहाणासत्तया ऋद्धिपादासत्ता वेदितव्या।
23819 {{ऋद्धिपादासत्तया इन्द्रियासत्ता वेदितव्या इन्द्रियासत्तया बलासत्ता वेदितव्या बलासत्तया बोध्यङ्गासत्ता वेदितव्या बोध्यङ्गासत्तया मार्गासत्ता वेदितव्या मार्गासत्तया वैशारद्यासत्ता वेदितव्या वैशारद्यासत्तया प्रतिसंविदासत्ता वेदितव्या प्रतिसंविदासत्तया पारमितासत्ता वेदितव्या पारमितासत्तया तथागतबलासत्ता वेदितव्या तथागतबलासत्तया आवेणिकबुद्धधर्मासत्ता वेदितव्या}}
23820 आवेणिकबुद्धधर्मासत्तया आकाशासत्ता {{वेदितव्या। आकाशासत्तया महायानासत्ता वेदितव्या। महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या। अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या। एवं हि सुभूते तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः। तत् कस्य हेतोः। तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते।}}
23821 पुनर् अपरं {{सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या। यावज् जानकपश्यकासत्तया}} गोत्रभूम्यसत्ता वेदितव्या। गोत्रभूम्यसत्तया
23822 अष्टमकभूम्यसत्ता वेदितव्या
23823 {{अष्टमकभूम्यसत्तया दर्शनभूम्यसत्ता वेदितव्या दर्शनभूम्यसत्तया तनुभूम्यसत्ता वेदितव्या तनुभूम्यसत्तया वीतरागभूम्यसत्ता वेदितव्या वीतरागभूम्यसत्तया कृताविभूम्यसत्ता वेदितव्या}} कृताविभूम्यसत्तया
23824 आकाशासत्ता {{वेदितव्या। आकाशासत्तया महायानासत्ता वेदितव्या। महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या। अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या। एवं हि सुभूते तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः। तत् कस्य हेतोः। तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते।}}
23901 पुनर् अपरं {{सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या। यावज् जानकपश्यकासत्तया}} स्रोतआपन्नासत्ता वेदितव्या स्रोतआपन्ना-
23902 सत्तया सकृदागाम्यसत्ता वेदितव्या {{सकृदागाम्यसत्तया अनागाम्यसत्ता वेदितव्या अनागाम्यसत्तया अर्हदसत्ता वेदितव्या अर्हदसत्तया प्रत्येकबुद्धासत्ता वेदितव्या}}
23903 प्रत्येकबुद्धासत्तया आकाशासत्ता {{वेदितव्या। आकाशासत्तया महायानासत्ता वेदितव्या। महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या। अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या। एवं हि सुभूते तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः। तत् कस्य हेतोः। तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते।}}
23904 पुनर् अपरं {{सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या। यावज् जानकपश्यकासत्तया}} श्रावकयानासत्ता वेदितव्या श्रावकयानासत्तया
23905 प्रत्येकबुद्धयानासत्ता वेदितव्या प्रत्येकबुद्धयानासत्तया तथागतासत्ता वेदितव्या
23906 तथागतासत्तया सर्वाकारज्ञतासत्ता वेदितव्या। सर्वाकारज्ञतासत्तया आकाशा-
23907 सत्ता {{वेदितव्या। आकाशासत्तया महायानासत्ता वेदितव्या। महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या। अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या। एवं हि सुभूते तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः। तत् कस्य हेतोः। तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते।}}
23908 तद् यथापि नाम सुभूते निर्वाणधाताव् अप्रमेयाणाम् असंख्येयानाम् अपरि-
23909 माणानां सत्त्वानाम् अवकाशः। एवम् एव सुभूते तस्मिन् महायाने {अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः}। तद्
23910 यथापि नाम सुभूते आकाशे {अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः}। एवम् एव सुभूते तस्मिन् महायाने {अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः}॥
23911 [इति सत्त्वार्थनिर्याणम्॥]
23912 यद् अपि सुभूतिर् एवम् आह। नापि तस्य महायानस्य आगतिर् दृश्यते नापि
23913 गतिर् न स्थानं दृश्यत इति। एवम् एतत् सुभूते तस्य महायानस्यागतिर् न दृश्यते
23914 नापि गतिर् न स्थानं दृश्यते। तत् कस्य हेतोः। अचला हि सुभूते सर्वधर्मास् ते
23915 न क्वचिद् गच्छन्ति न कुतश्चिद् आगच्छन्ति न क्वचित् तिष्ठन्ति। तत् कस्य
23916 हेतोः। न हि सुभूते रूपस्य प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न
23917 क्वचित् तिष्ठति। वेदनायाः संज्ञायाः संस्काराणाम्। न हि सुभूते विज्ञानस्य
23918 प्रकृतिः कुतश्चिद् आगच्छति न क्वचित् तिष्ठति।
23919 {{न हि सुभूते रूपस्य तथता कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति। वेदनायाः संज्ञायाः संस्काराणाम्। न हि सुभूते विज्ञानस्य तथता कुतश्चिद् आगच्छति न क्वचित् तिष्ठति। न हि सुभूते रूपस्य स्वभावः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति। वेदनायाः संज्ञायाः संस्काराणाम्। न हि सुभूते विज्ञानस्य स्वभावः कुतश्चिद् आगच्छति न क्वचित् तिष्ठति। न हि सुभूते रूपस्य लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति। वेदनायाः संज्ञायाः संस्काराणाम्। न हि सुभूते विज्ञानस्य लक्षणं कुतश्चिद् आगच्छति न क्वचित् तिष्ठति}}। न सुभूते चक्षुषः
23920 प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न
23921 क्वचित् तिष्ठति। एवं न श्रोत्रस्य न घ्राणस्य न जिह्वाया न कायस्य न सुभूते
23922 मनसः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद्
23923 गच्छति न क्वचित् तिष्ठति। {{न सुभूते पृथिवीधातोः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति। एवं न अब्धातोर् न तेजोधातोर् न वायुधातोर्}}
23924 {{न सुभूते आकाशधातोः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति}}। {{न सुभूते धर्मधातोः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति। एवं न तथताया न भूतकोटेर् न सुभूते अचिन्त्य-}}
24001 {{धातोः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति}}। {{न सुभूते दानपारमितायाः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति। एवं न शीलपारमितायाः न क्षान्तिपारमितायाः न वीर्यपारमितायाः न ध्यानपारमितायाः न सुभूते प्रज्ञापारमितायाः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति। न सुभूते स्मृत्युपस्थानानां प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति। एवं न सम्यक्प्रहाणानां न ऋद्धिपादानां न इन्द्रियाणां न बलानां न बोध्यङ्गानां न सुभूते मार्गस्य प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति}}।
24002 {{न सुभूते अप्रमाणध्यानारूप्यसमापत्तीनां प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति। एवं न तथागतबलानां न वैशारद्यानां न प्रतिसंविदां न सुभूते अष्टादशावेणिकानां बुद्धधर्मानां न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति}}।
24003 {{न सुभूते बोधेः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति। न सुभूते असंस्कृतस्य न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति}}॥ [इत्य् अनाभोगनिर्याणम्॥]
24004 यद् अपि तत् सुभूतिर् एवम् आह। नास्य यानस्य पूर्वान्त उपलभ्यते नापरान्त
24005 {उपलभ्यते} मध्य {उपलभ्यते} त्र्यध्वसमं तद् यानं तस्मात् महायानं महायानम् इत्य् उ-
24006 च्यते। एवम् एतत् सुभूते एवम् एतत्। नास्य यानस्य पूर्वान्त {उपलभ्यते}
24007 {{नापरान्त उपलभ्यते मध्य उपलभ्यते त्र्यध्वसमं तद् यानं तस्मात् महायानं महायानम् इत्य्}} उच्यते। तत् कस्य हेतोः। तथा हि सुभूते अतीतो ऽध्वा-
24008 तीतेनाध्वना शून्यः। अनागतो ऽध्वा अनागतेनाध्वना शून्यः। प्रत्युत्-
24009 पन्नो ऽध्वा प्रत्युत्पन्नेनाध्वना शून्यः। त्र्यध्वसमता त्र्यध्वसमतया शून्या।
24010 महायानं महायानेन शून्यम् बोधिसत्त्वो बोधिसत्त्वेन शून्यः। न सुभूते
24011 शून्यता एका वा द्वे वा तिस्रो वा चतस्रो वा पञ्च वा षट् वा सप्त वा अष्ट वा
24012 नव वा दश वा तस्मात् त्र्यध्वसम्तया समम् इदं यानं {बोधिसत्त्वस्य} महासत्त्वस्य
24013 नापि तत्र समम् उपलभ्यते न विषमं नापि तत्र वा राग उपलभ्यते न विरागः।
24014 न दोष {उपलभ्यते} नादोषः। न मोह {उपलभ्यते} नामोहः। न नाम {उपलभ्यते} नानाम। यावन् न
24015 कुशलम् {उपलभ्यते} नाकुशलम्। न सास्रवम् {उपलभ्यते} नानास्रवम्। न सावद्यम् {उपलभ्यते} नानवद्यम्।
24016 न क्लेश {उपलभ्यते} नाक्लेशः। न क्लेशक्षय {उपलभ्यते} नाक्लेशक्षयः। न लौकिकम् {उपलभ्यते} न
24017 लोकोत्तरम्। न संक्लेश {उपलभ्यते} न व्यवदानम्। न संसार {उपलभ्यते} न निर्वाणम्।
24018 नाप्य् अत्र नित्यम् {उपलभ्यते} नानित्यम्। न सुखम् {उपलभ्यते} न दुःखम्। नात्मा {उपलभ्यते} नानात्मा।
24019 न शान्तम् {उपलभ्यते} नाशान्तम्। न कामधातुर् {उपलभ्यते} न कामधातुसमतिक्रमः। न रूप-
24020 धातुर् {उपलभ्यते} न रूपधातु{समैक्रमः}। नारूप्यधातुर् {उपलभ्यते} नारूप्यधातु{समैक्रमः}। तत् कस्य
मूल पाठ: Pañcaviṃśatisāhasrikā Prajñāpāramitā, 1 · Edition: Nalinaksha Dutt: Pañcaviṃśatisāhasrikā Prajñāpāramitā, Calcutta 1934 (Calcutta Oriental Series, 28). = PSP1 · Data entry Kenta Suzuki Koichi Takahashi · GRETIL (Göttingen) · CC BY-NC-SA 4.0