भाषा

ENहिગુ
ग्रंथ पाठ

पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता · भाग 121138

24021 हेतोः। तथा हि तस्य स्वभावो नोपलभ्यते अतीतं सुभूते रूपम् अतीतेन रूपेण
24022 शून्यम्। {{अनागतं रूपम् अनागतेन रूपेण शून्यम्। प्रत्युत्पन्नं रूपं प्रत्युत्पन्नेन रूपेण शून्यं}}। एवम् अतीता वेदना
24023 संज्ञा संस्काराः। अतीतं विज्ञानम् अतीतेन विज्ञानेन शून्यम्।
24024 {{अनागतं विज्ञानम् अनागतेन विज्ञानेन शून्यम्। प्रत्युत्पन्नं विज्ञानम् प्रत्युत्पन्नेन विज्ञानेन शून्यम्।}}। तत् कस्य हेतोः। न शून्यतायाम् अतीतं रूपम् उप-
24101 लभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते कुतः पुनः शून्यतायाम् अतीतं
24102 रूपम् उपलप्स्यते। न शून्यतायाम् अतीता वेदना उपलभ्यते। {शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते}। {कुतः पुनः शून्यतायां}
24103 अतीता वेदना उपलप्स्यते।
24104 {{न शून्यतायाम् अतीता संज्ञा उपलभ्यते। शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते। कुतः पुनः शून्यतायां अतीता संज्ञा उपलप्स्यते। न शून्यतायाम् अतीताः संस्कारा उपलभ्यते। शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते। कुतः पुनः शून्यतायां अतीताः संस्कारा उपलप्स्यते। न शून्यतायाम् अतीतं विज्ञानम् उपलभ्यते। शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते। कुतः पुनः शून्यतायां अतीतं विज्ञानम् उपलप्स्यते}}। एवं न शून्यतायाम् अनागतं रूपं वेदनासंज्ञासंस्कारा व्ज्ञानम् उपलभ्यते।
24105 न शून्यतायां प्रत्युत्पन्नं रूपम् उपलभ्यते। {शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते}। {कुतः पुनः शून्यतायां} प्रत्युत्पन्नं रूपम् उपलप्स्यते।
24106 {{न शून्यतायां प्रत्युत्पन्ना वेदना उपलभ्यते। शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते। कुतः पुनः शून्यतायां प्रत्युत्पन्ना वेदना उपलप्स्यते। न शून्यतायां प्रत्युत्पन्ना संज्ञा उपलभ्यते। शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते। कुतः पुनः शून्यतायां प्रत्युत्पन्ना संज्ञा उपलप्स्यते। न शून्यतायां प्रत्युत्पन्नाः संस्कारा उपलभ्यते। शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते। कुतः पुनः शून्यतायां प्रत्युत्पन्नाः संस्कारा उपलप्स्यते। न शून्यतायां प्रत्युत्पन्नं विज्ञानम् उपलभ्यते। शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते। कुतः पुनः शून्यतायां प्रत्युत्पन्नं विज्ञानम् उपलप्स्यते}}। न शून्यतायाम् अतीतानागत-
24107 प्रत्युत्पन्नं रूपम् उपलभ्यते। {शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते}। {कुतः पुनः शून्यतायां} अतीतानागतप्रत्युत्पन्नं रूपम् उपलप्स्यते।
24108 न शून्यतायाम्
24109 {{अतीतानागतप्रत्युत्पन्ना वेदना उपलभ्यते। शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते। कुतः पुनः शून्यतायाम् अतीतानागतप्रत्युत्पन्ना वेदना उपलप्स्यते। न शून्य्तायाम् अतीतानागतप्रत्युत्पन्ना संज्ञा उपलभ्यते। शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते। कुतः पुनः शून्यतायाम् अतीतानागतप्रत्युत्पन्ना संज्ञा उपलप्स्यते। न शून्य्तायाम् अतीतानागतप्रत्युत्पन्नाः संस्कारा उपलभ्यते। शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते। कुतः पुनः शून्यतायां} अतीतानागतप्रत्युत्पन्नाः संस्कारा उपलप्स्यते। न शून्य्तायाम् अतीतानागतप्रत्युत्पन्नं विज्ञानम् उपलभ्यते। शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते। कुतः पुनः शून्यतायाम् अतीतानागतप्रत्युत्पन्नं विज्ञानम् उपलप्स्यते}}। {शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते} {कुतः पुनः शून्यतायां}।
24110 पूर्वान्ततः सुभूते दानपारमिता नोपलभ्यते। अपरान्ततो ऽपि {सुभूते} दान{पारमिता नोपलभ्यते}।
24111 प्रत्युत्पन्नतो ऽपि {सुभूते} दान{पारमिता नोपलभ्यते}। अध्वसमतया दान{पारमिता नोपलभ्यते}। न {सुभूते} अध्वसमताया-
24112 म् अतीताध्वा उपलभ्यते समतैव तावत् समतायां नोपलभ्यते। कुतः पुनः समताया-
24113 म् अतीतानागतप्रत्युत्पन्ना दानपारमितोपलप्स्यते। एवं पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अ-
24114 ध्वसु शील{पारमिता नोपलभ्यते}। {पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु} क्षान्ति{पारमिता नोपलभ्यते}। {पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु} वीर्य{पारमिता नोपलभ्यते}। {पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु} ध्यान{पारमिता नोपलभ्यते}। पूर्वान्ततः {सुभूते}
24115 प्रज्ञा{पारमिता नोपलभ्यते} {{अपरान्ततो ऽपि सुभूते प्रज्ञापारमिता नोपलभ्यते। प्रत्युत्पन्नतो ऽपि सुभूते प्रज्ञापारमिता नोपलभ्यते। अध्वसमतया प्रज्ञापारमिता नोपलभ्यते। न सुभूते अध्वसमतायाम् अतीताध्वा उपलभ्यते समतैव तावत् समतायां नोपलभ्यते। कुतः पुनः समतायाम् अतीतानागतप्रत्युत्पन्ना}} प्रज्ञापारमितोपलप्स्यते।
24116 पुनर् अपरं सुभूते {पूर्वान्तापरान्तमध्येषु} स्मृत्युपस्थानानि नोपलभ्यन्ते। त्र्यध्वसमतायां
24117 स्मृत्युपस्थानानि नोपलभ्यन्ते। न {सुभूते} समतायाम् अतीतानागतप्रत्युत्पन्ना
24118 ऽध्वान उपलभ्यन्ते। समतैव समतायां नोपलभ्यते। कुतः पुनः समतायाम् अती-
24201 तानागतप्रत्युत्पन्नानि स्मृत्युपस्थानानि उपलप्स्यन्ते। एवं सम्यकप्रहाणानि
24202 {पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु} {नोपलभ्यन्ते}। ऋद्धिपादाः {पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु} {नोपलभ्यन्ते}।
24203 {{इन्द्रियाणि पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु नोपलभ्यन्ते। बलानि पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु नोपलभ्यन्ते। बोध्यङ्गानि पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु नोपलभ्यन्ते। मार्गः पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु नोपलभ्यते। अप्रमाणध्यानारूप्यसमापत्तयः पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु नोपलभ्यन्ते। तथागतबलानि पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु नोपलभ्यन्ते। वैशारद्यानि पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु नोपलभ्यन्ते। प्रतिसंविदः पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु नोपलभ्यन्ते।}} कुतः पुनः समतायाम् अतीतानागतप्रत्युत्पन्ना
24204 अष्टादशावेणिका बुद्धधर्मा उपलप्स्यन्ते।
24205 पुनर् अपरं सुभूते पूर्वान्ततः पृथग्जनो नोपलभ्यते अपरान्ततः {पृथग्जनो नोपलभ्यते}। प्रत्युत्-
24206 पन्नतः {पृथग्जनो नोपलभ्यते}। त्र्यध्वसमतया {पृथग्जनो नोपलभ्यते}। तत् कस्य हेतोः। सत्त्वानुपलधिताम् उपा-
24207 दाय। एवं श्रावकप्रत्येकबुद्धबोधिसत्त्वाः। पूर्वान्ततः {तथागतो नोपलभ्यते}। अपरान्ततः {तथागतो नोपलभ्यते}।
24208 मध्यतः {तथागतो नोपलभ्यते}। त्र्यध्वसमतया {तथागतो नोपलभ्यते}। तत् कस्य हेतोः। सत्त्वानुपलब्धिताम् उपा-
24209 दाय। एवं हि {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां स्थित्वा त्रिष्व् अध्वसु
24210 शिक्षित्वा सर्वाकारज्ञता परिपूरैतव्या। इदं {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य त्र्यध्व-
24211 समतया महायानम्। अत्र स्थितो {बोधिसत्त्वो} महासत्त्वः सदेवमानुषासुरं लोकम् अभि-

24212 भवन् सर्वाकारज्ञतायां निर्यास्यति॥ [इत्य् अन्तनिर्याणम्॥]
24213 अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्। साधु साधु भगवन्
24214 सुभाषितम् इदं भगवतो {बोधिसत्त्वानां} महासत्त्वानां महायानम्। अत्र भगवन् महायाने
24215 शिक्षमाणैर् अतीते ऽध्वनि {बोधिसत्त्वैर्} महासत्त्वैः सर्वाकारज्ञता अनुप्राप्ता। अनागता अपि
24216 {बोधिसत्त्वा} महासत्त्वा अत्र महायाने शिक्षमाणाः सर्वाकारज्ञताम् अनुप्राप्स्यन्ति।
24217 ये ऽपि भगवन् दशदिशि लोके ऽसंख्येयेषु लोकधातुषु {बोधिसत्त्वा} महासत्त्वाः प्रत्युत्पन्ना-
24218 स् ते ऽप्य् अत्र महायाने शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्नुवन्ति। तस्मात् तर्हि

24219 भगवन् महायानम् इदं {बोधिसत्त्वानां} महासत्त्वानां यद् उत त्र्यध्वसमतानाम्। अथ
24220 खलु भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्। एवम् एतत् सुभूते एवम् एतत्। अत्र
24221 महायाने शिक्षित्वा अतीतानागतप्रत्युत्पन्ना {बोधिसत्त्वा} महासत्त्वाः सर्वाकारज्ञता-
24222 म् अनुप्राप्ता अनुप्राप्स्यन्ति अनुप्राप्नुवन्ति च।
24223 अथ खलु पूर्णो मैत्रायणीपुत्रो भगवन्तम् एतद् अवोचत्। अयं भगवन्
24301 सुभूतिः स्थविरस् तथागतेन प्रज्ञापारमितायाः कृतशो ऽधीष्टो महायानम् उपदेष्टाअव्यं
24302 मन्येत।
24303 अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्। मा हैवाहं भगवन् प्रज्ञा-
24304 पारमितां व्यतिक्रम्य महायानम् उपदिशामि।
24305 भगवान् आह। न हि सुभूते अनुलोमत्वं प्रज्ञापारमितायां महायानम् उपदिशसि।
24306 तत् कस्य हेतोः। तथा हि सुभूते ये केचित् कुशला बोधिपक्षा
24307 धर्माः श्रावकधर्मा वा प्रत्येकबुद्धधर्मा बोधिसत्त्वधर्मा वा बुद्ध-
24308 धर्मा वा सर्वे ते प्रज्ञापारमितायां संग्रहं समवसरणं गच्छन्ति।
24309 सुभूतिर् आह। कतमे भगवन् कुशला बोधिपक्षा धर्माः श्रावकधर्माः
24310 {{वा प्रत्येकबुद्धधर्मा बोधिसत्त्वधर्मा वा बुद्धधर्मा वा सर्वे ते प्रज्ञापारमितायां संग्रहं समवसरणं}} गच्छन्ति।
24311 भगवान् आह। तद् यथा चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि
24312 चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि
24313 आर्याष्टाङ्गमार्गाः। शून्यतानिमित्ताप्रणिहितविमोक्षमुखं चत्वार्य् अ-
24314 प्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयः। दान{पारमिता}
24315 शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता} प्रज्ञा{पारमिता}। दश तथागत-
24316 बलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महामैत्री महा-
24317 करुणा अष्टादशावेणिका बुद्धधर्माः। असंप्रमुषितधर्मता सदो-
24318 पेक्षाविहारिता। इमे {सुभूते} कुशला बोधिपक्षा धर्माः श्रावकधर्माः
24319 प्रत्येकबुद्धधर्माः {{बोधिसत्त्वधर्मा वा बुद्धधर्मा वा सर्वे ते प्रज्ञापारमितायां संग्रहं समवसरणं}} गच्छन्ति।
24320 यच् च {सुभूते} महायानं या च ध्यान{पारमिता} या च वीर्य{पारमिता} या च
24321 क्षान्ति{पारमिता} या च शील{पारमिता} या च दान{पारमिता} यच् च रूपं या च वेदना या च
24322 संज्ञा ये च संस्कारा यच् च विज्ञानं यच् च चक्षुर् यच् च श्रोत्रं
24323 {{यच् च घ्राणं या च जिह्वा यश् च कायो यच् च मनो यच् च रूपंं यश् च शब्दो यश् च गन्धो यश् च रसो यच् च स्प्रष्टव्यं यश् च धर्मो यच् च चक्षुर्विज्ञानं यच् च श्रोत्रविज्ञानं यच् च घ्राणविज्ञानं यच् च जिह्वाविज्ञानं यच् च कायविज्ञानं यच् च मनोविज्ञानं यश् च चक्षुःसंस्पर्शो यश् च श्रोत्रसंस्पर्शो यश् च घ्राणसंस्पर्शो यश् च जिह्वासंस्पर्शो यश् च कायसंस्पर्शो यश् च मनःसंस्पर्शो या च चक्षुःसंस्पर्शजा वेदना या च श्रोत्रसंस्पर्शजा वेदना या च घ्राणसंस्पर्शजा वेदना या च जिह्वासंस्पर्शजा वेदना या च कायसंस्पर्शजा वेदना या च मनःसंस्पर्शजा वेदना}}
24324 {{यानि च चत्वारि स्मृत्युपस्थानानि यानि च चत्वारि सम्यक्प्रहाणानि ये च चत्वार ऋद्धिपादाः यानि च पञ्चेन्द्रियाणि यानि च पञ्च बलानि यानि च सप्त बोध्यङ्गानि यश् च आर्याष्टाङ्ग-}}
24325 मार्गो यानि चाप्रमाणानि यानि च ध्यानानि याश् चारूप्यसमापत्तयो यानि
24401 च तथागतबलानि यानि च वैशारद्यानि याश् च चतस्रः प्रतिसंविदो यानि च
24402 शून्यतानिमित्ताप्रणिहितानि ये चासंस्कृता धर्मा यच् च दुःखं यश् च समुदयो
24403 यश् च निरोधो यश् च मार्गो यश् च कामधातुर् यश् च रूपधातुर् यश् चारूप्यधातुर् या
24404 चाध्यात्मशून्यता या च बहिर्धाशून्यता या चाध्यात्मबहिर्धाशून्यता या च
24405 यावद् अभावस्वभावशून्यता ये च समाधयो यानि च धारणीमुखानि ये च
24406 यावद् अष्टादशावेणिका बुद्धधर्मा यश् च तथागतप्रवेदितो धर्मविनयो यश् च धर्मधातु-
24407 र् या च तथता या च भूतकोटिः यश् चाचिन्त्यधातुर् यच् च निर्वाणम् सर्व एते धर्मा न
24408 संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः।
24409 अनेन पर्यायेण सुभूते अनुलोमत्वं प्रज्ञापारमितायां महायानं व्यपदिशसि।
24410 तत् कस्य हेतोः। न हि सुभूते अन्यत् महायानम् अन्या प्रज्ञापारमिता अन्या

24411 ध्यान{पारमिता} {{अन्या वीर्यपारमिता अन्या क्षान्तिपारमिता अन्या शीलपारमिता}} अन्या दान{पारमिता}। इति हि महायानञ् च प्रज्ञा{पारमिता} ध्यानवीर्य-
24412 क्षान्तिशीलदान{पारमिता} चाद्वयम् एतद् अद्वैधीकारं न सुभूते अन्यत् महायानं अन्यानि
24413 स्मृत्युपस्थानानि इति हि महायानं स्मृत्युपस्थानानि चाद्वयम् एतद् अद्वैधीकारम्।
24414 एवं नान्यत् {{महायानं अन्यानि सम्यक्प्रहाणानि इति हि महायानं सम्यक्प्रहाणानि चाद्वयम् एतद् अद्वैधीकारम्। नान्यत् महायानं अन्ये ऋद्धिपादा इति हि महायानम् ऋद्धिपादाः चाद्वयम् एतद् अद्वैधीकारम्। नान्यत् महायानं अन्यानि इन्द्रियानि इति हि महायानम् इन्द्रियानि चाद्वयम् एतद् अद्वैधीकारम्। नान्यत् महायानं अन्यानि बलानि इति हि महायानम् बलानि चाद्वयम् एतद् अद्वैधीकारम्। नान्यत् महायानं अन्यानि बोध्यङ्गानि इति हि महायानम् बोध्यङ्गानि चाद्वयम् एतद् अद्वैधीकारम्। नान्यत् महायानं अन्ये मार्गा इति हि महायानम् मार्गाः चाद्वयम् एतद् अद्वैधीकारम्। नान्यत् महायानं अन्यानि अप्रमाणध्यानानि इति हि महायानम् अप्रमाणध्यानानि चाद्वयम् एतद् अद्वैधीकारम्।}}
24415 {{नान्यत् महायानं अन्या आरूप्यसमापत्तयः इति हि महायानम् आरूप्यसमापत्तयः चाद्वयम् एतद् अद्वैधीकारम्। नान्यत् महायानं अन्यानि दशबलानि इति हि महायानम् दशबलानि चाद्वयम् एतद् अद्वैधीकारम्। नान्यत् महायानं अन्यानि वैशारद्यानि इति हि महायानम् वैशारद्यानि चाद्वयम् एतद् अद्वैधीकारम्। नान्यत् महायानं अन्याः प्रतिसंविदाः इति हि महायानम् वैशारद्यानि चाद्वयम् एतद् अद्वैधीकारम्। नान्यत् महायानं अन्ये अष्टादशावेणिका बुद्धधर्मा इति हि महायानम् अष्टादशावेणिका बुद्धधर्मा चाद्वयम् एतद् अद्वैधीकारम्।}}
24416 अनेन कारणेन सुभूते अनुलोमत्वं प्रज्ञापारमितायां महायानं व्यपदिशसि॥
24417 [इति प्राप्तिनिर्याणम्॥]
24418 सुभूतिर् आह। अपि तु खलु पुनर् भगवन् पूर्वान्ततो बोधिसत्त्वो नोपैति।
24419 अपरान्ततो {बोधिसत्त्वो नोपैति}। मध्यतो {बोधिसत्त्वो नोपैति}। रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता
24420 वेदितव्या। एवं वेदनासंज्ञासंस्कारविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता
24421 वेदितव्या। रूपं बोधिसत्त्व इति। एवम् अपि न विद्यते नोपलभ्यते। एवं
24422 {वेदनासंज्ञासंस्काराः} विज्ञानं बोधिसत्त्व इति। एवम् अपि न विद्यते नोपलभ्यते। एवं हि
24423 भगवन् सर्वेण सर्वं सर्वथा सर्वं बोधिसत्त्वम् अनुपलभमानो ऽसमनुपश्यन्
24424 कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि।
24501 अपि तु खलु पुनर् भगवन् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति। यथा आत्मा
24502 आत्मेति चोच्यते अत्यन्ततया चानभिनिवृत्त आत्मा। एवम् अभावस्वभावानां
24503 धर्माणां कतमद् रूपं यद् अनभिनिवृत्तम्। एवं कतमे ते {वेदनासंज्ञासंस्काराः} कतम्त् तद् वि-
24504 ज्ञानं यद् अनभिनिवृत्तम्। ये चानभिनिवृत्ता न ते {वेदनासंज्ञासंस्काराः}। यच् चानभिनिवृत्तं न
24505 तद् विज्ञानम् तत् किं अनभिनिवृत्तिम् अनभिनिवृत्तौ प्रज्ञापारमितायाम् अवव-
24506 दिष्याम्य् अनुशासिष्यामि। न चान्यत्रानभिनिवृत्तेर् बोधिसत्त्व उपलभ्यते यो
24507 बोधाय चरेत्। सचेद् एवं निर्दिश्यमाने {बोधिसत्त्वस्य} महासत्त्वस्य चित्तं नावलीयते
24508 न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न
24509 सन्त्रासम् आपद्यते चरति {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायाम्।
24510 शारिपुत्र आह। केन कारणेनायुष्मन् सुभूते एवं वदसि पूर्वान्ततो बोधि-
24511 सत्त्वो नोपैति {{अपरान्ततो बोधिसत्त्वो नोपैति। मध्यतो बोधिसत्त्वो नोपैति}}। {केन कारणेनायुष्मन् सुभूते एवं वदसि} रूपापर्यन्ततया बोधि-
24512 सत्त्वापर्यन्तता वेदितव्या {{एवं वेदनासंज्ञासंस्कारविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या।}} {केन कारणेनायुष्मन् सुभूते एवं वदसि} रूपं बोधिसत्त्व
24513 इति। एवम् अपि न विद्यते {{नोपलभ्यते। एवं वेदनासंज्ञासंस्काराः विज्ञानं बोधिसत्त्व इति। एवम् अपि न विद्यते नोपलभ्यते। एवं हि भगवन् सर्वेण सर्वं सर्वथा सर्वं बोधिसत्त्वम् अनुपलभमानो ऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि।}} {केन कारणेनायुष्मन् सुभूते एवं वदसि} यावद् एव
24514 नामधेयमात्रम् एतत् {{यद् उत बोधिसत्त्व इति। यथा आत्मा आत्मेति चोच्यते अत्यन्ततया चानभिनिवृत्त आत्मा। एवम् अभावस्वभावानां धर्माणां कतमद् रूपं यद् अनभिनिवृत्तम्। एवं कतमे ते वेदनासंज्ञासंस्काराः कतम्त् तद् विज्ञानं यद् अनभिनिवृत्तम्। ये चानभिनिवृत्ता न ते वेदनासंज्ञासंस्काराः। यच् चानभिनिवृत्तं न तद् विज्ञानम् तत् किं अनभिनिवृत्तिम् अनभिनिवृत्तौ प्रज्ञापारमितायाम् अववदिष्याम्य्}} अनुशासिष्यामि।
24515 {केन कारणेनायुष्मन् सुभूते एवं वदसि} न चान्यत्रानभिनिवृत्तेर् बोधिसत्त्व उपलभ्यते यो बोधाय चरेत्। {केन कारणेनायुष्मन् सुभूते एवं वदसि} स-
24516 चेद् एवम् उपदिष्यमाने {{बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न सन्त्रासम् आपद्यते चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम्।}}
24517 सुभूतिर् आह। सत्त्वासत्तया आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो
24518 नोपैति। सत्त्वशून्यतया {आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति}। सत्त्वविविक्ततया {आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति}। सत्त्वास्वभाव-
24519 तया {आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति}। एवम् अपरान्ततो मध्यतश् च वक्तव्यम्। तत् कस्य हेतोः। सत्त्वासत्तया
24520 शून्यताविविक्ततास्वभावतापूर्वान्तादीनाम् अनुपलब्धेः। न चान्यत्र सत्त्वा-
24601 सत्ताशून्यताविविक्ततास्वभावता अन्यो बोधिसत्त्वो ऽन्यत् पूर्वान्तादि इति हि
24602 या च सत्त्वासत्ता यावद् यच् च मध्यं सर्वम् एतद् अद्वैधीकारम्। रूपासत्तया
24603 पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति। रूपशून्यतया रूपविविक्ततया
24604 रूपास्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति। एवं
24605 {{वेदना संज्ञा संस्काराः। विज्ञानासत्तया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति। विज्ञानशून्यतया विज्ञानविविक्ततया विज्ञानास्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति।}}
24606 एवम् आयतनेषु धातुषु प्रतीत्यसमुत्पादाङ्गेषु च पूर्वान्तापरान्त-

24607 मध्यतो बोधिसत्त्वो नोपैतीति वक्तव्यम्।
24608 {{दानपारमितासत्तया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति। दानपारमिताशून्यतया दानपारमिताविविक्ततया दानपारमितास्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति। एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता। प्रज्ञापारमितासत्तया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति। प्रज्ञापारमिताशून्यतया प्रज्ञापारमिताविविक्ततया प्रज्ञापारमितास्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति।}}
24609 तत् कस्य हेतोः। न ह्य् आयुष्मन् शारिपुत्र दानशीलक्षान्तिवीर्यध्यानप्रज्ञा-
24610 पारमितासत्तायां शून्यतायां विविक्ततायाम् अस्वभावतायां पूर्वान्तापरान्तमध्यान्य् उ-
24611 पलभ्यन्ते। न च शारिपुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता
24612 अन्या अस्वभावता अन्यो बोधिसत्त्वः अन्या दानपारमिता {{अन्या शीलपारमिता अन्या क्षान्तिपारमिता अन्या वीर्यपारमिता अन्या ध्यानपारमिता}}
24613 अन्या प्रज्ञापारमिता अन्यानि पूर्वान्तापरान्तमध्यानि। इति ह्य् आयुष्मन्
24614 शारिपुत्र या चासत्ता यावद् अभावस्वभावता याश् च षट् पारमिता यश् च बोधिसत्त्वो
24615 यानि च पूर्वान्तापरान्तमध्यानि सर्वम् एतद् अद्वैधीकारम्। एवं ह्य् आयुष्मन् शारि-
24616 पुत्र पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति। अध्यात्मशून्यतासत्तया शून्य-
24617 तया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति।
24618 एवं यावद् अभावस्वभावशून्यतासत्तया {{विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो}}
24619 नोपैति।
24620 तत् कस्य हेतोः। न ह्य् आयुष्मन् शारिपुत्र अध्यात्मशून्यतासत्तायां शून्यतायां
24621 विविक्ततायाम् अस्वभावतायां च अभावस्वभावशून्यतासत्तायां शून्यतायां
24622 विविक्ततायाम् अस्वभावतायां पूर्वान्तापरान्तमध्यान्य् उपलभ्यन्ते। न च शारि-
24623 पुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता अन्या अस्वभावता
24624 अन्यो बोधिसत्त्वो ऽन्यानि पूर्वान्तापरान्तमध्यानि। इति ह्य् आयुष्मन् शारिपुत्र
24701 या चाध्यात्मशून्यता असत्ता शून्यता विविक्तता अस्वभावता यावद् अभाव-
24702 स्वभावशून्यता असत्ता शून्यता विविक्तता अस्वभावता यश् च बोधिसत्त्वो
24703 यानि च पूर्वान्तापरान्तमध्यानि सर्वम् एतद् अद्वैधीकारम्। अनेनायुष्मन् शारि-
24704 पुत्र पर्यायेण पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति।
24705 पुनर् अपरम् आयुष्मन् शारिपुत्र स्मृत्युपस्थानासत्तया शून्यतया विविक्ततया
24706 अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति।
24707 {{सम्यक्प्रहाणासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति। ऋद्धिपादानासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति। इन्द्रियासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति। बलासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति। बोध्यङ्गासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति। मार्गासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति। अप्रमाणध्यानारूप्यसमापत्त्यसत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति। अप्रमाणध्यानासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति। आरूप्यसमापत्त्यसत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति। तथागतबलासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति। वैशारद्यासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति। प्रतिसंविदसत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति। बुद्धधर्मासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति।}}
24708 {{तत् कस्य हेतोः। न ह्य् आयुष्मन् शारिपुत्र स्मृत्युपस्थानासत्तयां शून्यतायां विविक्ततायाम् अस्वभावतायां च बुद्धधर्मासत्तायां शून्यतायां विविक्ततायाम् अस्वभावतायां पूर्वान्तापरान्तमध्यान्य् उपलभ्यन्ते। न च शारिपुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता अन्या अस्वभावता अन्यो बोधिसत्त्वो ऽन्यानि पूर्वान्तापरान्तमध्यानि। इति ह्य् आयुष्मन् शारिपुत्र यानि च स्मृत्युपस्थानान्य् असत्ता शून्यता विविक्तता अस्वभावता यावद् बुद्धधर्मा असत्ता शून्यता विविक्तता अस्वभावता यश् च बोधिसत्त्वो यानि च पूर्वान्तापरान्तमध्यानि}} सर्वम् एतद् अद्वैधीकारम्। अनेनायुष्मन् शारिपुत्र पर्यायेण पूर्वान्ता-
24709 परान्तमध्येषु बोधिसत्त्वो नोपैति।
24710 पुनर् अपरम् आयुष्मन् शारिपुत्र सर्वसमाध्यसत्तया सर्वधारणीमुखासत्तया
24711 धर्मधात्वसत्तया तथतासत्तया भूतकोट्यसत्तया भूतकोटिशून्यतया भूतकोटि-
24712 विविक्ततया भूतकोट्यस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति।
24713 तत् कस्य हेतोः। न ह्य् आयुष्मन् शारिपुत्र समाध्यसत्तायां यावद् भूतकोट्यसत्तायां
24714 {{शून्यतायां विविक्ततायाम् अस्वभावतायां पूर्वान्तापरान्तमध्यान्य् उपलभ्यन्ते। न च शारिपुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता अन्या अस्वभावता अन्यो बोधिसत्त्वो ऽन्यानि पूर्वान्तापरान्तमध्यानि।}}
24715 {{इति ह्य् आयुष्मन् शारिपुत्र ये च समाधयः असत्ता शून्यता विविक्तता अस्वभावता यावद् भूतकोटिर् असत्ता शून्यता विविक्तता अस्वभावता यश् च बोधिसत्त्वो यानि च पूर्वान्तापरान्तमध्यानि सर्वम् एतद् अद्वैधीकारम्। अनेनायुष्मन् शारिपुत्र पर्यायेण पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति}}।
24716 पुनर् अपरम् आयुष्मन् शारिपुत्र श्रावकासत्तया शून्यतया विविक्ततया अस्वभाव-
24717 तया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति। प्रत्येकबुद्धासत्तया बोधि-
24718 सत्त्वासत्तया सर्वज्ञासत्तया सर्वज्ञशून्यतया सर्वज्ञविविक्ततया सर्वज्ञास्वभाव-
24719 तया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति। तत् कस्य हेतोः। न
24720 {{ह्य् आयुष्मन् शारिपुत्र श्रावकासत्तायां यावद् सर्वज्ञतासत्तायां शून्यतायां विविक्ततायाम् अस्वभावतायां पूर्वान्तापरान्तमध्यान्य् उपलभ्यन्ते। न च शारिपुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता अन्या अस्वभावता अन्यो बोधिसत्त्वो ऽन्यानि पूर्वान्तापरान्तमध्यानि।}}

24721 {{इति ह्य् आयुष्मन् शारिपुत्र यश् च श्रावको ऽसत्ता शून्यता विविक्तता अस्वभावता यावद् सर्वज्ञता असत्ता शून्यता विविक्तता अस्वभावता यश् च बोधिसत्त्वो यानि च पूर्वान्तापरान्तमध्यानि सर्वम् एतद् अद्वैधीकारम्। अनेनायुष्मन् शारिपुत्र पर्यायेण पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति}}॥ [इति प्राप्तिनिर्याणप्राप्यप्रतिषेधः॥]
24722 यत् पुनर् आयुष्मन् शारिपुत्र एवं वदसि केन कारणेन रूपापर्यन्ततया

24723 बोधिसत्त्वापर्यन्तता वेदितव्या। वेदनासंज्ञासंस्कारविज्ञानापर्यन्ततया
24724 बोधिसत्त्वापर्यन्तता वेदितव्येति। रूपम् आयुष्मन् {शारिपुत्र} आकशसमम्। {वेदनासंज्ञासंस्काराः}
24725 आकाशसमम् विज्ञानम् आयुष्मन् {शारिपुत्र} आकाशसमम्। तत् कस्य हेतोः। तद्
24801 यथापि नाम आयुष्मन् {शारिपुत्र} यथा आकाशस्य न पूर्वान्त उपलभ्यते नापरान्त
24802 {उपलभ्यते} न मध्य {उपलभ्यते} अनन्तापर्यन्ततया आकाशम् इति च व्यवह्रियते एव-
24803 म् एवायुष्मन् {शारिपुत्र} रूपस्य नैव पूर्वान्त {उपलभ्यते} नापरान्त {उपलभ्यते} न मध्यम् {उपलभ्यते}। तत्
24804 कस्य हेतोः। रूपशून्यताम् उपादाय। न च शून्यतायाः पूर्वान्तो वा अपरान्तो
24805 वा मध्यं नोपलभ्यते। वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य नैव पूर्वान्त
24806 {उपलभ्यते} नापरान्त {उपलभ्यते} मध्यम् {उपलभ्यते}। तत् कस्य हेतोः। विज्ञानशून्यताम् उपादाय।
24807 न च शून्यतायाः पूर्वान्तो वा अपरान्तो वा मध्यं वोपलभ्यते। शून्यतेति च
24808 व्यवह्रियते। अनेनायुष्मन् शारिपुत्र पर्यायेण रूपापर्यन्ततया बोधिसत्त्वा-
24809 पर्यन्तता वेदितव्या। {वेदना संज्ञा संस्काराः।} विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या।
24810 एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु यावज् जरामरणशोक-
24811 परिदेवदुःखदौर्मनस्योपायासेषु। स्मृत्युपस्थानानि {{सम्यक्प्रहाणान्य् ऋद्धिपादा इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानानि आरूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदाः अष्टादशावेणिका}} बुद्धधर्मा आयुष्मन्
24812 {शारिपुत्र} आकाशसमाः। तत् कस्य हेतोः। तद् यथापि नामायुष्मन् {शारिपुत्र}
24813 आकाशस्य नैवादिर् नान्तो न मध्यम् उपलभ्यते अनन्तापर्यन्ततया आकाश-
24814 म् इति च व्यवह्रियते एवम् एवायुष्मन् {शारिपुत्र} बुद्धधर्माणां नादिर् नान्तो न मध्य-
24815 म् उपलभ्यते। बुद्धधर्मशून्यताम् उपादाय। न च शून्यतायाः पूर्वान्तो वा अपरान्तो
24816 वा मध्यं नोपलभ्यते। अनेआयुष्मन् {शारिपुत्र} पर्यायेण बुद्धधर्मापर्यन्ततया
24817 बोधिसत्त्वापर्यन्तता वेदितव्या।
24818 यत् पुनर् आयुष्मन् {शारिपुत्र} एवं वदसि। केन कारणेन रूपं बोधिसत्त्वैत्य् एव-
24819 म् अपि न विद्यते नोपलभ्यते। {वेदना संज्ञा संस्कारा} विज्ञानं बोधिसत्त्व इत्य् एवम् अपि न
24820 {विद्यते नोपलभ्यते} इति। रूपम् आयुष्मन् शारिपुत्र रूपेण शून्यम् {वेदनासंज्ञासंस्कारा} विज्ञानम् आयुष्मन्
24821 {शारिपुत्र} विज्ञानेन शून्यम्। तत् कस्य हेतोः। न ह्य् आयुष्मन् {शारिपुत्र} शून्यतायां रूपं
24822 संविद्यते। नापि शून्यतायां बोधिसत्त्वः संविद्यते। {वेदना संज्ञा संस्काराः}। न शून्यतायां
24901 विज्ञानं संविद्यते नापि शून्यतायां बोधिसत्त्वः संविद्यते। अनेनायुष्मन् शारिपुत्र
24902 पर्यायेण रूपं बोधिसत्त्व इति एवम् अपि न {विद्यते नोपलभ्यते}। {वेदना संज्ञा संस्काराः} विज्ञानं बोधिसत्त्व इति
24903 एवम् अपि न {विद्यते नोपलभ्यते}।
24904 पुनर् अपरम् आयुष्मन् {शारिपुत्र} दानपारमिता दानपारमितया शून्या {{शीलपारमिता शीलपारमितया शून्या क्षान्तिपारमिता क्षान्तिपारमितया शून्या वीर्यपारमिता वीर्यपारमितया शून्या ध्यानपारमिता ध्यानपारमितया शून्या}}
24905 प्रज्ञापारमिता प्रज्ञापारमितया शून्या। तत् कस्य हेतोः। न हि शून्यतायां
24906 दानपारमिता विद्यते न शून्यतायां बोधिसत्त्वो विद्यते एवं शील{पारमिता} {{क्षान्तिपारमिता वीर्यपारमिता}}
24907 ध्यान{पारमिता}। न शून्यतायां प्रज्ञापारमिता विद्यते न शून्यतायां बोधिसत्त्वो
24908 विद्यते। अध्यात्मशून्यता {आयुष्मन्} {शारिपुत्र} अध्यात्मशून्यतया शून्या एवं यावद् अ-
24909 भावस्वभावशून्यता अभावस्वभावशून्यतया शून्या। स्मृत्युपस्थानानि
24910 स्मृत्युपस्थानैः शून्यानि एवं सम्यक्प्रहाणानि ऋद्धिपादाः {{इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानानि आरूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदाः}} अष्टादशा-
24911 वेणिका बुद्धधर्मा अष्टादशावेणिकैः बुद्धधर्मैः शून्या। धर्मधातुर् धर्मधातुना शून्यः
24912 समाधिः समाधिना शून्यः {{धारणीमुखानि धारणीमुखैः शून्यानि सर्वज्ञता सर्वज्ञतया शून्या}}
24913 {{मार्गज्ञता मार्गज्ञतया शून्या सर्वाकारज्ञता सर्वाकारज्ञतया शून्या श्रावकयानं श्रावकयानेन शून्यं प्रत्येकबुद्धयानं प्रत्येकबुद्धयानेन शून्यं बुद्धयानं बुद्धयानेन शून्यं}}।
24914 श्रावकत्वेन श्रावकः शून्यः प्रत्येकबुद्धत्वेन प्रत्येकबुद्धः शून्यस् तथागतत्वेन
24915 तथागतः शून्यः। तत् कस्य हेतोः। न हि शून्यतायां तथागतो विद्यते न

24916 शून्यतायां बोधिसत्त्वो विद्यते। अनेनायु{ष्मन्} {शारिपुत्र} पर्यायेण रूपं बोधिसत्त्व
24917 इति एवम् अपि न {विद्यते नोपलभ्यते}। {वेदना संज्ञा संस्काराः} विज्ञानं बोधिसत्त्व इति एवम् अपि न {विद्यते नोपलभ्यते}।
24918 यद् अप्य् {आयुष्मान्} {शारिपुत्र} आह। केन कारणेनैवं वदसि। एवम् अहं {बोधिसत्त्वं} महासत्त्वं
24919 सर्वेण सर्वं सर्वथा सर्वम् अनुपलभमानो ऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां
24920 प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामीति। रूपम् {आयुष्मन्} {शारिपुत्र} रूपे न
24921 {संविद्यते नोपलभ्यते}। रूपं वेदनायां न {संविद्यते नोपलभ्यते}। वेदना वेदनायां न {संविद्यते नोपलभ्यते}। वेदना रूपे न {संविद्यते नोपलभ्यते}।
24922 रूपं वेदना च संज्ञायां न {संविद्यते नोपलभ्यते}। संज्ञा संज्ञायां न {संविद्यते नोपलभ्यते}। संज्ञा रूपे न {संविद्यते नोपलभ्यते}
24923 संज्ञा रूपवेदनयोर् न {संविद्यते नोपलभ्यते}। रूपं वेदनासंज्ञासंस्कारेषु न {संविद्यते नोपलभ्यते}। संस्काराः संस्कारेषु
24924 न {संविद्यन्ते नोपलभ्यन्ते}। संस्कारा रूपवेदनासंज्ञासु न {संविद्यते नोपलभ्यते}। रूपवेदनासंज्ञासंस्कारा विज्ञाने न
25001 {संविद्यन्ते नोपलभ्यन्ते}। विज्ञानं विज्ञाने न {संविद्यते नोपलभ्यते}। विज्ञानं रूपवेदनासंज्ञासंस्कारेषु न {संविद्यते नोपलभ्यते}।
25002 {{चक्षुः चक्षुसि संविद्यते नोपलभ्यते श्रोत्रं श्रोत्रे संविद्यते नोपलभ्यते घ्राणं घ्राणे संविद्यते नोपलभ्यते जिह्वा जिह्वायां संविद्यते नोपलभ्यते कायः काये संविद्यते नोपलभ्यते मनो मनसि संविद्यते नोपलभ्यते। तत्रापीतरान्य् इतरेषु च न संविद्यन्ते नोपलभ्यन्ते। रूपं रूपे संविद्यते नोपलभ्यते शब्दः शब्दे संविद्यते नोपलभ्यते गन्धो गन्धे संविद्यते नोपलभ्यते रसो रसे संविद्यते नोपलभ्यते स्प्रष्टव्यं स्प्रष्टव्ये संविद्यते नोपलभ्यते धर्मो धर्मे संविद्यते नोपलभ्यते। तत्रापीतरे इतरेषु च न संविद्यते नोपलभ्यते। चक्षुर्विज्ञानं चक्षुर्विज्ञाने संविद्यते नोपलभ्यते श्रोत्रविज्ञानं श्रोत्रविज्ञाने संविद्यते नोपलभ्यते घ्राणविज्ञानं घ्राणविज्ञाने संविद्यते नोपलभ्यते जिह्वाविज्ञानं जिह्वाविज्ञाने संविद्यते नोपलभ्यते कायविज्ञानं कायविज्ञाने संविद्यते नोपलभ्यते मनोविज्ञानं मनोविज्ञाने संविद्यते नोपलभ्यते। तत्रापीतरान्य् इतरेषु च न संविद्यन्ते नोपलभ्यन्ते।}}
25003 {{चक्षुःसंस्पर्शः चक्षुःसंस्पर्शे संविद्यते नोपलभ्यते श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शे संविद्यते नोपलभ्यते घ्राणसंस्पर्शो घ्राणसंस्पर्शे संविद्यते नोपलभ्यते जिह्वासंस्पर्शः जिह्वासंस्पर्शे संविद्यते नोपलभ्यते कायसंस्पर्शः कायसंस्पर्शे संविद्यते नोपलभ्यते मनःसंस्पर्शः मनःसंस्पर्शे संविद्यते नोपलभ्यते। तत्रापीतर इतरस्मिन् च न संविद्यते नोपलभ्यते। चक्षुःसंस्पर्शजा वेदना चक्षुःसंस्पर्शजायां वेदनायां संविद्यते नोपलभ्यते श्रोत्रसंस्पर्शजा वेदना श्रोत्रसंस्पर्शजायां वेदनायां संविद्यते नोपलभ्यते घ्राणसंस्पर्शजा वेदना घ्राणसंस्पर्शजायां वेदनायां संविद्यते नोपलभ्यते जिह्वासंस्पर्शजा वेदना जिह्वासंस्पर्शजायां वेदनायां संविद्यते नोपलभ्यते कायसंस्पर्शजा वेदना कायसंस्पर्शजायां वेदनायां संविद्यते नोपलभ्यते मनःसंस्पर्शजा वेदना मनःसंस्पर्शजायां वेदनायां संविद्यते नोपलभ्यते। तत्रापीतर इतरस्मिन् च न संविद्यते नोपलभ्यते।}}
25004 तत्रापीतरा इतरासु च
25005 सा न {संविद्यन्ते नोपलभ्यन्ते}। स्मृत्युपस्थानानि स्मृत्युपस्थानेषु न {संविद्यन्ते नोपलभ्यते}। एवं
25006 सम्यक्प्रहाणानि ऋद्धिपादाः {{इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानानि आरूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदाः}} अष्टादशावेणिका बुद्धधर्मा अष्टादशा-
25007 वेणिकेषु बुद्धधर्मेषु न {संविद्यन्ते नोपलभ्यन्ते}। तत्रापीतरे इतरेषु च ते न {संविद्यन्ते नोपलभ्यन्ते}।
25008 {{अध्यात्मशून्यता अध्यात्मशून्यतायां न संविद्यते नोपलभ्यते यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतायां न संविद्यते नोपलभ्यते}}
25009 {{समाधिः समाधौ न संविद्यते नोपलभ्यते धारणी धारणीयां न संविद्यते नोपलभ्यते}}। पृथग्जनभूमिः गोत्रभूमिर् अष्टमकभूमिर् दर्शनभूमिस् तनु-
25010 भूमिर् वीतरागभूमिः कृताविभूमिः प्रत्येकबुद्धभूमिर् बोधिसत्त्वभूमिस् तथागतभूमिः
25011 सवज्ञताभूमिः। स्रोतआपन्न स्रोतआपन्नत्वे न {संविद्यते नोपलभ्यते}। एवं सकृदागामी
25012 अनागामी अर्हन् प्रत्येकबुद्धः प्रत्येकबुद्धत्वे न {संविद्यते नोपलभ्यते}। बोधिसत्त्वो बोधिसत्त्वत्वे
25013 न {संविद्यते नोपलभ्यते}। तथागतस् तथागतत्वे न {संविद्यते नोपलभ्यते}। प्रज्ञापारमिता प्रज्ञापारमितायां न {संविद्यते नोपलभ्यते}।
25014 प्रज्ञापारमितायाम् अववादानुशासनी न {संविद्यते नोपलभ्यते}। अववादानुशासन्यां प्रज्ञापारमिता
25015 न {संविद्यते नोपलभ्यते}। एवं ह्य् {आयुष्मन्} {शारिपुत्र} सर्वधर्मा संविद्यमानत्वेन अनुपलम्भेन बोधि-
25016 सत्त्वो न {संविद्यते नोपलभ्यते}॥ [इति प्राप्तिनिर्याणे प्रापकप्रतिषेधः॥]
25017 यत् पुनर् {आयुष्मन्} {शारिपुत्र} एवं वदसि। केन कारणेन नामधेयमात्रम् एतत् यद् उत
25018 बोधिसत्त्व इति। केन कारणेन्{आयुष्मन्} सुभूते एवं वदसि आगन्तुकम् एतन् नाम-
25019 धेयं प्रक्षिप्तं यद् उत बोधिसत्त्व इति। तथा ह्य् {आयुष्मन्} {शारिपुत्र} नाम दशभ्यो
25020 दिग्भ्यो न कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति सर्वधर्माणाम् एव
25021 बोधिसत्त्वानां नामापि न कुतश्चिद् एति न क्वचिद् गच्छति न क्वचित् तिष्ठति।
25022 आगन्तुकम् एतन् नामधेयं तथा हि यद्रूपं यद्वेदना यत्संज्ञा यत्संस्कारा यद्विज्ञान-
25023 म् इति नामधेयं न तद् रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानम्। तत् कस्य
25024 हेतोः। तथा हि नाम शून्यं नामस्वभावेन यच् च शून्यं न तन् नाम। तेन कारणेन
25101 नोच्यते बोधिसत्त्व इति नामधेयमात्रम् एतद् इति। पुनर् अपरम् {आयुष्मन्} {शारिपुत्र} नामधेयमात्र-
25102 म् एतद् यद् उत दानपारमितेति। न च दानपारमितायां नाम न च नाम्नि दानपार-
25103 मिता। तत् कस्य हेतोः। यच् च नाम या च दानपारमिता उभयम् एतन् न {संविद्यते नोपलभ्यते}।
25104 तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति। एवं नामधेयमात्रम् एतद् यद् उत
25105 शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता} नामधेयमात्रम् एतद् यद् उत प्रज्ञा{पारमिता}

25106 इति {{न च प्रज्ञापारमितायां नाम न च नाम्नि प्रज्ञापारमिता। तत् कस्य हेतोः। यच् च नाम या च प्रज्ञापारमिता उभयम् एतन् न संविद्यते नोपलभ्यते। तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति।}}। {आगन्तुकम् एतन् नामधेयमात्रम् एतद्} यद् उत बोधिसत्त्व इति।
25107 नामधेयमात्रम् एतद् यद् उत अध्यात्म{शून्यता} बहिर्धा{शून्यता} अध्यात्मबहिर्धा{शून्यता} यावद् अ-

25108 भावस्वभाव{शून्यता}। न चाध्यात्मन्यतायां नाम न च नाम्नि अध्यात्म{शून्यता}
25109 बहिर्धा{शून्यता} अध्यात्मबहिर्धा{शून्यता} यावद् भावस्वभाव{शून्यता}। तत् कस्य हेतोः।
25110 तथा हि यच् च नाम या चाध्यात्म{शून्यता} या च बहिर्धा{शून्यता} या चाध्यात्मबहिर्धा{शून्यता}
25111 या च यावद् भावस्वभाव{शून्यता} सर्व एते न {संविद्यन्ते नोपलभ्यन्ते}। अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण
25112 नामधेयमात्रम् एतत् यद् उत बोधिसत्त्व इति। {आगन्तुकम् एतन् नामधेयमात्रम् एतद्} यद् उत स्मृत्युपस्थानानि न
25113 च स्मृत्युपस्थानेषु नाम न च नाम्नि स्मृत्युपस्थानानि
25114 {{तत् कस्य हेतोः। तथ हि यच् च नाम यानि च स्मृत्युपस्थानान्य् उभयं एतन् न संविद्यन्ते नोपलभ्यन्ते। आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत सम्यक्प्रहाणानि न च सम्यक्प्रहाणेषु नाम न च नाम्नि सम्यक्प्रहाणानि। तत् कस्य हेतोः। तथ हि यच् च नाम यानि च स्मृत्युपस्थानान्य् उभयं एतन् न संविद्यते नोपलभ्यते। आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत ऋद्धिपादा न च ऋद्धिपादेषु नाम न च नाम्नि ऋद्धिपादाः। तत् कस्य हेतोः। तथ हि यच् च नाम ये च ऋद्धिपादाः उभयं एतन् न संविद्यते नोपलभ्यते। आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत इन्द्रियानि न च इन्द्रियेषु नाम न च नाम्नि इन्द्रियानि। तत् कस्य हेतोः। तथ हि यच् च नाम यानि च इन्द्रियान्य् उभयं एतन् न संविद्यते नोपलभ्यते। आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत बलानि न च बलेषु नाम न च नाम्नि बलानि। तत् कस्य हेतोः। तथ हि यच् च नाम यानि च बलान्य् उभयं एतन् न संविद्यते नोपलभ्यते। आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत बोध्यङ्गानि न च बोध्यङ्गेषु नाम न च नाम्नि बोध्यङ्गानि। तत् कस्य हेतोः। तथ हि यच् च नाम यानि च बोध्यङ्गान्य् उभयं एतन् न संविद्यते नोपलभ्यते। आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत मार्गा न च मार्गेषु नाम न च नाम्नि मार्गाः। तत् कस्य हेतोः। तथ हि यच् च नाम ये च मार्गा उभयं एतन् न संविद्यते नोपलभ्यते। आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत अप्रमाणध्यानानि न च अप्रमाणध्यानेषु नाम न च नाम्नि अप्रमाणध्यानानि। तत् कस्य हेतोः। तथ हि यच् च नाम यानि च अप्रमाणध्यानान्य् उभयं एतन् न संविद्यते नोपलभ्यते। आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत आरूप्यसमापत्तयो न च आरूप्यसमापत्तिषु नाम न च नाम्नि आरूप्यसमापत्तयः। तत् कस्य हेतोः। तथ हि यच् च नाम याश् च आरूप्यसमापत्तय उभयं एतन् न संविद्यते नोपलभ्यते। आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत दशबलानि न च दशबलेषु नाम न च नाम्नि दशबलानि। तत् कस्य हेतोः। तथ हि यच् च नाम यानि च दशबलान्य् उभयं एतन् न संविद्यते नोपलभ्यते। आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत वैशारद्यानि न च वैशारद्येषु नाम न च नाम्नि वैशारद्यानि। तत् कस्य हेतोः। तथ हि यच् च नाम यानि च वैशारद्यान्य् उभयं एतन् न संविद्यते नोपलभ्यते। आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत प्रतिसंविदा न च प्रतिसंविदासु नाम न च नाम्नि प्रतिसंविदाः। तत् कस्य हेतोः। तथ हि यच् च नाम याश् च प्रतिसंविदा उभयं एतन् न संविद्यते नोपलभ्यते।}}
25115 {{आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत अष्टादशावेणिका बुद्धधर्मा न च अष्टादशावेणिकेषु बुद्धधर्मेषु नाम न च नाम्नि अष्टादशावेणिका बुद्धधर्माः। तत् कस्य हेतोः। तथ हि यच् च नाम ये च अष्टादशावेणिका बुद्धधर्मा उभयं एतन् न संविद्यते नोपलभ्यते}}।
25116 {आगन्तुकम् एतन् नामधेयमात्रम् एतद्} यद् उत समाधिर् इति यावत् सर्वज्ञतेति। न च सर्वज्ञतायां नाम
25117 न च नाम्नि सर्वज्ञता। तत् कस्य हेतोः। तथा हि यच् च नाम या च सर्वज्ञता
25118 उभयम् एतन् न {संविद्यते नोपलभ्यते}।
25119 यत् पुनर् {आयुष्मन्} {शारिपुत्र} एवं वदसि केन कारणेनोच्यते यथा आत्मात्मेति
25120 चोच्यते अत्यान्ततया चानभिनिवृत्त आत्मेति। आत्मा {शारिपुत्र} अत्यन्ततया न {संविद्यते नोपलभ्यते}।
25121 कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति। अत्यन्ततया {आयुष्मन्} {शारिपुत्र} सत्त्वो जीवः
25122 पोषः {{पुरुषः पुद्गलो मनुजो मानवः कारको वेदको जानकः}} पश्यको न {संविद्यते नोपलभ्यते}। {कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति}। अत्यन्ततया {आयुष्मन्} {शारिपुत्र} रूपं न {संविद्यते नोपलभ्यते}।
25123 {कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति}। वेदना संज्ञा संस्कारा अत्यन्ततया {आयुष्मन्} {शारिपुत्र} विज्ञानं न {संविद्यते नोपलभ्यते}।
25124 {कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति}। {{अत्यन्ततया आयुष्मन् शारिपुत्र चक्षुर् न संविद्यते नोपलभ्यते। कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति। एवं श्रोत्रं घ्राणं जिह्वा कायः। अत्यन्ततया आयुष्मन् शारिपुत्र मनो न संविद्यते नोपलभ्यते। कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति। अत्यन्ततया आयुष्मन् शारिपुत्र रूपं न संविद्यते नोपलभ्यते। कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति। एवं शब्दो गन्धो रसः स्प्रष्टव्यम्। अत्यन्ततया आयुष्मन् शारिपुत्र धर्मो न संविद्यते नोपलभ्यते। कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति। अत्यन्ततया आयुष्मन् शारिपुत्र चक्षुर्विज्ञानं न संविद्यते नोपलभ्यते। कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति। एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानम्। अत्यन्ततया आयुष्मन् शारिपुत्र मनोविज्ञानं न संविद्यते नोपलभ्यते। कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति। अत्यन्ततया आयुष्मन् शारिपुत्र चक्षुःसंस्पर्शो न संविद्यते नोपलभ्यते। कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति। एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शः। अत्यन्ततया आयुष्मन् शारिपुत्र मनःसंस्पर्शो न संविद्यते नोपलभ्यते। कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति।}}

25201 {{अत्यन्ततया आयुष्मन् शारिपुत्र चक्षुःसंस्पर्शजा वेदना न संविद्यते नोपलभ्यते। कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति। एवं श्रोत्रसंस्पर्शजा वेदना घ्राणसंस्पर्शजा वेदना जिह्वासंस्पर्शजा वेदना कायसंस्पर्शजा वेदना। अत्यन्ततया आयुष्मन् शारिपुत्र मनःसंस्पर्शजा वेदना न संविद्यते नोपलभ्यते। कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति। अत्यन्ततया आयुष्मन् शारिपुत्र दानपारमिता न संविद्यते नोपलभ्यते। कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति। एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता। अत्यन्ततया आयुष्मन् शारिपुत्र प्रज्ञापारमिता न संविद्यते नोपलभ्यते। कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति। अत्यन्ततया आयुष्मन् शारिपुत्र अध्यात्मशून्यता न संविद्यते नोपलभ्यते। कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति। एवं शीलपारमिता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता। यावद् अत्यन्ततया आयुष्मन् शारिपुत्र अभावस्वभावशून्यता न संविद्यते नोपलभ्यते। कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति। अत्यन्ततया आयुष्मन् शारिपुत्र स्मृत्युपस्थानानि न संविद्यन्ते नोपलभ्यन्ते। कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति। एवं सम्यक्प्रहाणान्य् ऋद्धिपादा इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानानि आरूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदाः।}}
25202 {{अत्यन्ततया आयुष्मन् शारिपुत्र अष्टादशावेणिका बुद्धधर्मा न संविद्यन्ते नोपलभ्यन्ते। कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति।}} अत्यन्ततया समाधयो धारणीमुखानि न {संविद्यन्ते नोपलभ्यन्ते}। {कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति}। अत्यन्ततया
25203 श्रावकः प्रत्येकबुद्धो बोधिसत्त्वस् तथागतो ऽर्हन् सम्यक्संबुद्धो न {संविद्यते नोपलभ्यते}। {कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति}।
25204 अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण आत्मात्मेति चोच्यते अत्यन्ततया चानभिनिवृत्त
25205 आत्मा।
25206 पुनर् अपरं यद् {आयुष्मान्} {शारिपुत्र} एवम् आह। अभावस्वभावाः सर्वधर्मा इति।
25207 एवम् एतत्। तत् कस्य हेतोः। तथा ह्य् {आयुष्मन्} {शारिपुत्र} नास्ति सांयोगिकः स्वभावः।
25208 {शारिपुत्र} आह। कस्य्{आयुष्मन्} {सुभूते} नास्ति सांयोगिकः स्वभावः।
25209 {सुभूतिर्} आह। रूपस्य्{आयुष्मन्} {शारिपुत्र} नास्ति सांयोगिकः स्वभावः। वेदनायाः
25210 संज्ञायाः संस्काराणां विज्ञानस्य्{आयुष्मन्} {शारिपुत्र} नास्ति सांयोगिकः स्वभावः।
25211 {{चक्षुस आयुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः। श्रोत्रस्य घ्राणस्य जिह्वायाः कायस्य मनस आयुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः। रूपस्यायुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः। शब्दस्य गन्धस्य रसस्य स्प्रष्टव्यस्य धर्मस्यायुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः। चक्षुर्विज्ञानस्यायुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः। श्रोत्रविज्ञानस्य घ्राणविज्ञानस्य जिह्वाविज्ञानस्य कायविज्ञानस्य मनसोविज्ञानस्यायुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः। चक्षुःसंस्पर्शस्यायुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः। श्रोत्रसंस्पर्शस्य घ्राणसंस्पर्शस्य जिह्वासंस्पर्शस्य कायसंस्पर्शस्य मनःसंस्पर्शस्यायुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः। चक्षुःसंस्पर्शप्रत्ययवेदनाया आयुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः। श्रोत्रसंस्पर्शप्रत्ययवेदनाया घ्राणसंस्पर्शप्रत्ययवेदनाया जिह्वासंस्पर्शप्रत्ययवेदनायाः कायसंस्पर्शप्रत्ययवेदनाया मनःसंस्पर्शप्रत्ययवेदनाया आयुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः।}}
25212 {{दानपारमिताया आयुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः। शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः।}} नास्ति प्रज्ञापारमिताया सांयोगिकः
25213 स्वभावः। अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेणास्वभावाः सर्वधर्माः।
25214 पुनर् अपरम् {आयुष्मन्} {शारिपुत्र} अनित्याः सर्वधर्मा न कस्यचिद् विगमेन।
25215 {शारिपुत्र} आह। कतमे ते {आयुष्मन्} {सुभूते} अनित्याः सर्वधर्मा न कस्यचिद् विगमेन।
25216 {सुभूतिर्} आह। रूपम् {आयुष्मन्} {शारिपुत्र} अनित्यं न कस्यचिद् विगमेन। {वेदना संज्ञा संस्कारा} विज्ञान-
25217 म् {आयुष्मन्} {शारिपुत्र} अनित्यं न कस्यचिद् विगमेन। तत् कस्य हेतोः। तथा ह्य् {आयुष्मन्} {शारिपुत्र}
25218 यद् अनित्यं सो ऽभावः क्षयश् च एवं दुःखाः अनात्मानः शान्ताः शून्या अनिमित्ता
25219 अप्रणिहिता न कस्यचिद् विगमेन सर्वधर्माः कुशला अनवद्या अनास्रवा
25220 निःक्लेशा लोकोत्तरा अव्यवदाना असंस्कृताः। तत् कस्य हेतोः। तथा
25221 ह्य् {आयुष्मन्} {शारिपुत्र} यो ऽसंस्कृतः सो ऽभावः क्षयश् चाने{आयुष्मन्} {शारिपुत्र} पर्यायेण निःस्वभावाः
25222 सर्वधर्मा न कस्यचिद् विगमेन।
25223 पुनर् अपरं {शारिपुत्र} अकूटस्था अविनाशिनः सर्वधर्माः।

25224 {शारिपुत्र} आह। केन कारणेन्{आयुष्मन्} {सुभूते} अकूटस्था ऽविनाशिनः सर्वधर्माः।
25301 {सुभूतिर्} आह। रूपम् {आयुष्मन्} {शारिपुत्र} अकूटस्थम् अविनाशि। तत् कस्य हेतोः।
25302 प्रकृतिर् अस्यैषा। {वेदना संज्ञा संस्कारा} विज्ञानम् {आयुष्मन्} {शारिपुत्र} {अकूटस्थम् अविनाशि}। {तत् कस्य हेतोः}। {प्रकृतिर् अस्यैषा}। एवं कुशलम् अकुशलं
25303 सावद्यम् अनवद्यं सास्रवम् अनास्रवं संक्लेशं निःक्लेशं लौकिकं लोकोत्तरं संस्कृतम् अ-
25304 संस्कृतं संक्लेशो व्यवदानं संसारो निर्वाणं {अकूटस्थम् अविनाशि}। {तत् कस्य हेतोः}। {प्रकृतिर् अस्यैषा}। अनेन्{आयुष्मन्} {शारिपुत्र}
25305 पर्यायेणाभावस्वभावाः सर्वधर्माः।
25306 यत् पुनर् {आयुष्मन्} {शारिपुत्र} एवम् आह। केन कारणेन रूपम् अनभिसंस्कृतम् एवं {वेदना संज्ञा संस्काराः} केन
25307 कारणेन विज्ञानम् अनभिसंस्कृतम् इति।
25308 {सुभूतिर्} आह। तथा ह्य् {आयुष्मन्} {शारिपुत्र} रूपम् अनभिनिवृत्तं {वेदना संज्ञा संस्कारा} विज्ञानम् अनभि-
25309 निवृत्तम्। तत् कस्य हेतोः। तथा ह्य् {आयुष्मन्} {शारिपुत्र} अभिसंस्कर्त्ता नास्ति। चक्षु-
25310 र् {आयुष्मन्} {शारिपुत्र} अनभिसंस्कृतम्। तत् कस्य हेतोः। तथा ह्य् {आयुष्मन्} {शारिपुत्र} अभि-
25311 संस्कर्त्ता नास्ति। एवं श्रोत्रम् {{घ्राणं जिह्वा कायो}} मनो ऽनभिसंस्कृतम्
25312 {{तत् कस्य हेतोः। तथा ह्य् आयुष्मन् शारिपुत्र अभिसंस्कर्त्ता नास्ति।}} पुनर् अपरं {शारिपुत्र} रूपम् {{शब्दो गन्धो रसः स्प्रष्टव्यं}} धर्मा अनभिसंस्कृताः। तत् कस्य हेतोः।
25313 तथा ह्य् अभिसंस्कर्त्ता नोपलभ्यते यावत् सर्वधर्मा अनभिसंस्कृताः। तत् कस्य
25314 हेतोः। तथा ह्य् अभिसंस्कर्त्ता नोपलभते। अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण रूप{{वेदनासंज्ञासंस्कार-}}
25315 विज्ञानान्य् अनभिनिवृत्तानि।
25316 यत् पुनर् {आयुष्मन्} {शारिपुत्र} एवं वदसि केन कारणेन यद् अनभिनिवृत्तं न तद् रूपं न
25317 वेदना न संज्ञा न संस्कारा न विज्ञानम् इति।
25318 {सुभूतिर्} आह। तथा ह्य् {आयुष्मन्} {शारिपुत्र} रूपं प्रकृतिशून्यम्। यच् च प्रकृतिशून्यं न
25319 तस्योत्पादो न व्ययः। यस्य च नोत्पादो न व्ययो न तस्यान्यथात्वं प्रज्ञायते।
25320 {वेदना संज्ञा संस्कारा} विज्ञानं प्रकृतिशून्यं {{यच् च प्रकृतिशून्यं न तस्योत्पादो न व्ययः। यस्य च नोत्पादो न व्ययो न तस्यान्यथात्वं प्रज्ञायते।}} एवं यावत् सर्वधर्माः
25321 प्रकृतिशून्या ये च {{प्रकृतिशून्या न तेषाम् उत्पादो न व्ययः। येषां च नोत्पादो न व्ययो न तेषाम् अन्यथात्वं प्रज्ञायते।}} अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण
25322 यद् अनभिनिवृत्तं न तद् रूपं {{वेदना संज्ञा संस्कारा}} न विज्ञानम्।
25401 यत् पुनर् {आयुष्मन्} {शारिपुत्र} एवम् आह। केन कारणेनैवं वदसि। तत् किम् अनभि-
25402 निवृत्तिम् अनभिनिवृत्तौ प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामीति। यथा
25403 ह्य् {आयुष्मन्} {शारिपुत्र} या अनभिनिवृत्तिः सा प्रज्ञापारमिता या प्रज्ञापारमिता सा
25404 अनभिनिवृत्तिः। इति हि प्रज्ञापारमिता चानभिनिवृत्तिश् चाद्वयम् एतद् अद्वैधीकारम्।
25405 अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेणैवं वदामि। तत् {{किम् अनभिनिवृत्तिम् अनभिनिवृत्तौ प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामीति।}}
25406 यत् पुनर् {आयुष्मन्} {शारिपुत्र} एवम् आह। न चान्यत्रानभिनिवृत्तेर् बोधिसत्त्व उपलभ्यते
25407 यो बोधाय चरेद् इति। तथा ह्य् {आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायाञ् चरन्
25408 नान्याम् अनभिनिवृत्तिम् अन्यं बोधिसत्त्वं समनुपश्यति। इति ह्य् अनभिनिवृत्तिश् च बोधि-
25409 सत्त्वश् चाद्वयम् एतद् अद्वैधीकारं नान्यत्रानभिनिवृत्तेः रूपं समनुपश्यति
25410 {{इति ह्य् अनभिनिवृत्तिश् च रूपं चाद्वयम् एतद् अद्वैधीकारं। इति ह्य् अनभिनिवृत्तिश् च वेदना चाद्वयम् एतद् अद्वैधीकारं। इति ह्य् अनभिनिवृत्तिश् च संज्ञा चाद्वयम् एतद् अद्वैधीकारं। इति ह्य् अनभिनिवृत्तिश् च संस्काराश् चाद्वयम् एतद् अद्वैधीकारं। इति ह्य् अनभिनिवृत्तिश् च विज्ञानं चाद्वयम् एतद् अद्वैधीकारं।}}
25411 इति ह्य् अनभिनिवृत्तिश् च चक्षुश् चाद्वयम् एतद् अद्वैधीकारम्।
25412 {{इति ह्य् अनभिनिवृत्तिश् च श्रोत्रं चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च घ्राणं चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च जिह्वा चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च कायश् चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च मनश् चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च रूपं चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च शब्दश् चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च गन्धश् चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च रसश् चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च स्प्रष्टव्यं चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च धर्मश् चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च चक्षुर्विज्ञानं चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च श्रोत्रविज्ञानं चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च घ्राणविज्ञानं चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च जिह्वाविज्ञानं चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च कायविज्ञानं चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च मनोविज्ञानं चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च चक्षुःसंस्पर्शश् चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च श्रोत्रसंस्पर्शश् चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च घ्राणसंस्पर्शश् चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च जिह्वासंस्पर्शश् चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च कायसंस्पर्शश् चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च मनःसंस्पर्शश् चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च चक्षुःसंस्पर्शप्रत्ययवेदना चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च श्रोत्रसंस्पर्शप्रत्ययवेदना चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च घ्राणसंस्पर्शप्रत्ययवेदना चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च जिह्वासंस्पर्शप्रत्ययवेदना चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च कायसंस्पर्शप्रत्ययवेदना चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च मनःसंस्पर्शप्रत्ययवेदना चाद्वयम् एतद् अद्वैधीकारम्।}}

25413 {{इति ह्य् अनभिनिवृत्तिश् च सम्यक्प्रहाणानि चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च ऋद्धिपादाश् चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च इन्द्रियानि चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च बलानि चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च बोध्यङ्गानि चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च मार्गाश् चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च अप्रमाणध्यानारूप्यसमापत्तयश् चाद्वयम् एतद् अद्वैधीकारम्।}}
25414 {{इति ह्य् अनभिनिवृत्तिश् च दानपारमिता चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च शीलपारमिता चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च क्षान्तिपारमिता चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च वीर्यपारमिता चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च ध्यानपारमिता चाद्वयम् एतद् अद्वैधीकारम्। इति ह्य् अनभिनिवृत्तिश् च प्रज्ञापारमिता चाद्वयम् एतद् अद्वैधीकारम्।}} इति ह्य् अनभिनिवृत्तिश् च दशबलवैशारद्याष्टादशावेणिका बुद्ध-
25415 धर्माश् चाद्वयम् एतद् अद्वैधीकारम्। यावद् इति ह्य् अनभिनिवृत्तिश् च सर्वधर्माश् चाद्वयम् एतद् अद्वैधी-
25416 कारम्। अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण नान्यत्रानभिनिवृत्तेर् बोधिसत्त्व उपलभ्यते यो
25417 बोधाय चरेत्।

25418 यत् पुनर् {आयुष्मन्} {शारिपुत्र} एवम् आह। केन कारणेनैवं वदसि। सचेद् {बोधिसत्त्वस्य}
25419 महासत्त्वस्य एवम् उपदिश्यमाने चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति
25420 मानसं नोत्रस्यति न सन्त्रस्यति न सन्त्रासम् आपद्यते चरति {बोधिसत्त्वो} महासत्त्वः
25421 प्रज्ञापारमितायाम् इति। तथा ह्य् {आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः सर्वधर्मान्
25422 निरीहान् समनुपश्यति मायोपमान् स्वप्नोपमान् मरीच्युपमान् प्रतिश्रुत्-
25423 कोपमान् प्रतिबिम्बोपमान् प्रतिभासोपमान् निर्मितकोपमान् गन्धर्वनगरो-
25424 पमान् समनुपश्यति। अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण {बोधिसत्त्वस्य} महासत्त्वस्य एवम् उ-
25425 पदिश्यमाने चित्तं नावलीयते {{न संलीयते न विप्रतिसारी भवति मानसं नोत्रस्यति न सन्त्रस्यति न सन्त्रासम् आपद्यते चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् इति।}}
25501 अथ खल्व् {आयुष्मान्} {सुभूतिर्} भगवन्तम् एतद् अवोचत्। यस्मिन् समये भगवन् {बोधिसत्त्वो}
25502 महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये
25503 रूपं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति रूपम् एत-
25504 द् इति। यस्मिन् समये {{भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये वेदनां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति वेदना एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये संज्ञां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति संज्ञा एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये संस्कारान् नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति संस्कारा एते इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये विज्ञानं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति विज्ञानम् एतद् इति।}}
25505 {{यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये चक्षुर् नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति चक्षुर् एतद् इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये श्रोत्रं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति श्रोत्रम् एतद् इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये घ्राणं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति घ्राणम् एतद् इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये जिह्वां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति जिह्वा एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये कायं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति काय एष इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये मनो नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति मन एतद् इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये रूपं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति रूपम् एतद् इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये शब्दं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति शब्द एष इति।

यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये गन्धं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति गन्ध एष इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये रसं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति रस एष इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये स्प्रष्टव्यं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति स्प्रष्टव्यम् एतद् इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये धर्मं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति धर्म एष इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये चक्षुर्विज्ञानं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति चक्षुर्विज्ञानं एतद् इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये श्रोत्रविज्ञानं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति श्रोत्रविज्ञानम् एतद् इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये घ्राणविज्ञानं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति घ्राणविज्ञानम् एतद् इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये जिह्वाविज्ञानं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति जिह्वाविज्ञानं एतद् इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये कायविज्ञानं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति कायविज्ञानम् एतद् इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये मनोविज्ञानं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति मनोविज्ञानम् एतद् इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये दानपारमितां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति दानपारमिता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये शीलपारमितां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति शीलपारमिता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये क्षान्तिपारमितां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति क्षान्तिपारमिता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये वीर्यपारमितां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति वीर्यपारमिता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये ध्यानपारमितां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति ध्यानपारमिता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये प्रज्ञापारमितां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति प्रज्ञापारमिता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये ऽध्यात्मशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अध्यात्मशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये बहिर्धाशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति बहिर्धाशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये ऽध्यात्मबहिर्धाशून्यतां नोपैति नोपाददाति

नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अध्यात्मबहिर्धाशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये शून्यताशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति शून्यताशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये महाशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति महाशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये परमार्थशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति परमार्थशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये संस्कृतशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति संस्कृतशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये ऽत्यन्तशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अत्यन्तशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये ऽनवराग्रशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अनवराग्रशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये प्रकृतिशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति प्रकृतिशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये सर्वधर्मशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति सर्वधर्मशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये स्वलक्षणशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति स्वलक्षणशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये ऽनुपलम्भशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अनुपलम्भशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये ऽभावस्वभावशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अभावस्वभावशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये भावशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति भावशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये ऽभावशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अभावशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये स्वभावशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति स्वभावशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये परभावशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति परभावशून्यता एषा इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये स्मृत्युपस्थानानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति स्मृत्युपस्थानान्य् एतानीति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये सम्यक्प्रहाणानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति सम्यक्प्रहाणान्य् एतानीति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये ऋद्धिपादान् नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति ऋद्धिपादा एत इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समय इन्द्रियानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयतीन्द्रियान्य् एतानीति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये बलानि

नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति बलान्य् एतानीति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये बोध्यङ्गानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति बोध्यङ्गान्य् एतानीति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये मार्गान् नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति मार्गा एत इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये ऽप्रमाणध्यानानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अप्रमाणध्यानानि एतानीति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये आरूप्यसमापत्तीर् नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् आरूप्यसमापत्तय एता इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये दशबलानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति दशबलान्य् एतानीति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये वैशारद्यानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति वैशारद्यान्य् एतानीति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये प्रतिसंविदाः नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति प्रतिसंविदा एता इति। यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये ऽष्टादशावेणिकबुद्धधर्मान् नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अष्टादशावेणिकबुद्धधर्मा एत इति।}}
25506 {{यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते। तस्मिन् समये समाधिधारणीमुखानि नोपैति नोपाददाति नाधितिष्ठति}} नाभिनिविशते न प्रज्ञपयति समाधि-
25507 धारणीमुखानीमानि। तत् कस्य हेतोः। तथा हि भगवन् {बोधिसत्त्वो} महासत्त्वः
25508 प्रज्ञापारमितायां चरन् रूपं न समनुपश्यति यावद् व्यस्तसमस्तानि स्कन्ध-
25509 धात्वायतनानि प्रतीत्यसमुत्पादं न {समनुपश्यति}। सप्तत्रिंशद्बोधिपक्षान् धर्मान्
25510 न {समनुपश्यति}। पारमितां न {समनुपश्यति}। अप्रमाणध्यानारूप्यसमापत्तिदशबलवैशारद्यप्रति-
25511 संविदष्टादशावेणिकबुद्धधर्मान् यावत् सर्वाकारज्ञतां न {समनुपश्यति}। तत् कस्य हेतोः।
25512 तथा हि भगवन् यो रूपस्यानुत्पादो न तद् रूपम्। यो वेदनायाः संज्ञायाः संस्काराणां
25513 यो विज्ञानस्यानुत्पादो न तद् विज्ञानम् इति हि विज्ञानं चानुत्पादश् चाद्वयम् एतद् अ-
25514 द्वैधीकारम्। {{यो भगवन् चक्षुरो ऽनुत्पादो न तद् चक्षुः। यो श्रोत्रस्य घ्राणस्य जिह्वायाः कायस्य यो मनसो ऽनुत्पादो न तद् मन इति हि मनश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्। यो भगवन् रूपस्यानुत्पादो न तद् रूपम्। यो शब्दस्य गन्धस्य रसस्य स्प्रष्टव्यस्य यो धर्मस्यानुत्पादो न स धर्म इति हि धर्मश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्। यो भगवन् चक्षुर्विज्ञानस्यानुत्पादो न तद् चक्षुर्विज्ञानम्। यो श्रोत्रविज्ञानस्य घ्राणविज्ञानस्य जिह्वाविज्ञानस्य कायविज्ञानस्य यो मनोविज्ञानस्यानुत्पादो न तद् मनोविज्ञानम् इति हि मनोविज्ञानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्। यो भगवन् दानपारमिताया अनुत्पादो न सा दानपारमिता। यो शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमिताया यः प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता इति हि प्रज्ञापारमिता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्। यो भगवन् अध्यात्मशून्यताया अनुत्पादो न तद् अध्यात्मशून्यता। यो बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यतायाः शून्यताशून्यताया महाशून्यतायाः परमार्थशून्यतायाः संस्कृतशून्यताया अत्यन्तशून्यताया अनवराग्रशून्यताया अनवकारशून्यतायाः प्रकृतिशून्यतायाः सर्वधर्मशून्यतायाः स्वलक्षणशून्यताया अनुपलम्भशून्यताया अभावस्वभावशून्यताया भावशून्यताया अभावशून्यतायाः स्वभावशून्यताया यः परभावशून्यताया अनुत्पादो न सा परभावशून्यता इति हि परभावशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्।}}
25515 {{यो भगवन् स्मृत्युपस्थानानाम् अनुत्पादो न तानि स्मृत्युपस्थानानि। यो सम्यक्प्रहाणानाम् ऋद्धिपादानाम् इन्द्रियानां बलानां बोध्यङ्गानां मार्गानाम् अप्रमाणध्यानानाम् आरूप्यसमापत्तीनां दशबलानां वैशारद्यानां प्रतिसंविदानां यो ऽष्टादशावेणिकानां बुद्धधर्मानाम् अनुत्पादो न ते बुद्धधर्मा इति हि}} बुद्धधर्माश् चानुत्पादश् चाद्वयम् एतद् अ-
25516 द्वैधीकारम्। यो भगवन् धर्मधातोर् अनुत्पादो न स धर्मधातुः। यस् तथताया
25517 आकाशधातोर् भूतकोटेर् अचिन्त्यधातोर् बोधेर् यः सर्वाकारज्ञताया अनुत्पादो न
25518 सा सर्वाकारज्ञतेति हि सर्वाकारज्ञता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्। तत्
25519 कस्य हेतोः। तथा हि अनुत्पादो नैको न द्वौ न बहवो न पृथक्। तस्माद्
25520 यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता।
25521 यो भगवन् रूपस्य व्ययो न तद् रूपम्। या वेदनायाः संज्ञायाः संस्काराणां
25522 यो विज्ञानस्य व्ययो न तद् विज्ञानम्। इति हि स्कन्धाश् च व्ययश् चाद्वयम् एतद् अ-
25523 द्वैधीकारम्। तत् कस्य हेतोः। तथा हि व्ययो न एको न द्वौ न बहवो न
25524 पृतह्क्। तस्माद् यः पञ्चानां स्कन्धानां व्ययो न ते पञ्च स्कन्धाः। यो भगवन्
25601 दानपारमिताया व्ययो {{न सा दानपारमिता। यो भगवन् शीलपारमिताया व्ययो न सा दानपारमिता। यो भगवन् क्षान्तिपारमिताया व्ययो न सा दानपारमिता। यो भगवन् वीर्यपारमिताया व्ययो न सा दानपारमिता। यो भगवन् ध्यानपारमिताया व्ययो न सा दानपारमिता। यो भगवन् प्रज्ञापारमिताया व्ययो न सा दानपारमिता।}}

25602 {{यो भगवन् अध्यात्मशून्यताया व्ययो न सा अध्यात्मशून्यता। यो भगवन् बहिर्धाशून्यताया व्ययो न सा बहिर्धाशून्यता। यो भगवन् अध्यात्मबहिर्धाशून्यताया व्ययो न सा अध्यात्मबहिर्धाशून्यता। यो भगवन् शून्यताशून्यताया व्ययो न सा शून्यताशून्यता। यो भगवन् महाशून्यताया व्ययो न सा महाशून्यता। यो भगवन् परमार्थशून्यताया व्ययो न सा परमार्थशून्यता। यो भगवन् संस्कृतशून्यताया व्ययो न सा संस्कृतशून्यता। यो भगवन् अत्यन्तशून्यताया व्ययो न सा अत्यन्तशून्यता। यो भगवन् अनवराग्रशून्यताया व्ययो न सा अनवराग्रशून्यता। यो भगवन् अनवकारशून्यताया व्ययो न सा अनवकारशून्यता। यो भगवन् प्रकृतिशून्यताया व्ययो न सा प्रकृतिशून्यता। यो भगवन् सर्वधर्मशून्यताया व्ययो न सा सर्वधर्मशून्यता। यो भगवन् स्वलक्षणशून्यताया व्ययो न सा स्वलक्षणशून्यता। यो भगवन् अनुपलम्भशून्यताया व्ययो न सा अनुपलम्भशून्यता। यो भगवन् अभावस्वभावशून्यताया व्ययो न सा अभावस्वभावशून्यता। यो भगवन् भावशून्यताया व्ययो न सा भावशून्यता। यो भगवन् अभावशून्यताया व्ययो न सा अभावशून्यता। यो भगवन् स्वभावशून्यताया व्ययो न सा स्वभावशून्यता। यो भगवन् परभावशून्यताया व्ययो न सा परभावशून्यता। यो भगवन् स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि। यो भगवन् सम्यक्प्रहाणानां व्ययो न तानि सम्यक्प्रहाणानि। यो भगवन् ऋद्धिपादानां व्ययो न ते ऋद्धिपादाः। यो भगवन् इन्द्रियानां व्ययो न तानीन्द्रियानि। यो भगवन् बलानां व्ययो न तानि बलानि। यो भगवन् बोध्यङ्गानां व्ययो न तानि बोध्यङ्गानि। यो भगवन् मार्गानां व्ययो न ते मार्गाः। यो भगवन् अप्रमाणध्यानानां व्ययो न तान्य् अप्रमाणध्यानानि। यो भगवन् आरूप्यसमापत्तीनां व्ययो न ता आरूप्यसमापत्तयः। यो भगवन् दशबलानां व्ययो न तानि दशबलानि। यो भगवन् वैशारद्यानां व्ययो न तानि वैशारद्यानि। यो भगवन् प्रतिसंविदानां व्ययो न ताः प्रतिसंविदाः। यो भगवन् स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि। यो भगवन् अष्टादशावेणिकानां बुद्धधर्मानां व्ययो न ते बुद्धधर्माः। इति हि बुद्धधर्माश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्। तत् कस्य हेतोः। तथा हि व्ययो न एको न द्वौ न बहवो}} न पृथक्। तस्माद् यो
25603 बुद्धधर्माणां व्ययो न ते बुद्धधर्माः।
25604 यत् पुनर् भगवन् उच्यते। रूपम् इत्य् अद्वयस्यैषागणनाकृता। वेदना संज्ञा संस्कारा
25605 यत् पुनर् उच्यते विज्ञानम् इत्य् अद्वयस्यैषागणनाकृता। यत् कस्येति पुनर् उच्यते

25606 रूपं यावत् सर्वाकारज्ञतेत्य् अद्वयस्यैषागणनाकृता॥ [इति प्राप्तिनिर्याणे
25607 प्राप्यप्रापकसम्बन्धप्रतिषेधः॥]
25608 अथ खल्व् {आयुष्मन्} {शारिपुत्र} आयुष्मन्तं सुभूतिम् एतद् अवोचत्। कथम् {आयुष्मन्} {सुभूते} {बोधिसत्त्वो}
25609 महासत्त्वः प्रज्ञापारमितायां चरन् इमान् धर्मान् उपपरीक्षते। कतम {आयुष्मन्} {सुभूते}
25610 बोधिसत्त्वः। कतमा प्रज्ञापारमिता। कतमा उपपरीक्षमाणा।
25611 {सुभूतिर्} आह। यद् {आयुष्मन्} {शारिपुत्र} एवं वदसि। कतमो बोधिसत्त्व इति। बोधि-
25612 र् एव सत्त्वस् तेनोच्यते बोधिसत्त्व इति। तया च बोध्या सर्वधर्माणाम् आकारं
25613 जानाति। न चात्राभिनिविशते।
25614 कतमेषां धर्माणाम् आकारान् जानाति। रूपस्याकारान् जानाति न
25615 चात्राभिनिविशते। वेदनाया {{आकारान् जानाति न चात्राभिनिविशते। संज्ञाया आकारान् जानाति न चात्राभिनिविशते। संस्कारानाम् आकारान् जानाति न चात्राभिनिविशते।}} विज्ञानस्याकारान् {जानाति न चात्राभिनिविशते}। एवं
25616 व्यस्तसमस्तानां स्कन्धधात्वायतनानां प्रतीत्यसमुत्पादस्य सप्तत्रिंशद्बोधि-
25617 पक्षाणां धर्माणाम् आकारान् {जानाति न चात्राभिनिविशते}। एवम् अप्रमाणध्यानारूप्यसमापत्तीनां
25618 पारमितानां बलानां वैशारद्यानां प्रतिसंविदाम् आवेणिकानां बुद्धधर्माणाम् आकारान्
25619 {जानाति न चात्राभिनिविशते}।
25620 {शारिपुत्र} आह। कतमे ते सुभूते सर्वधर्माणाम् आकाराः।
25621 {सुभूतिर्} आह। यैर् {आयुष्मन्} {शारिपुत्र} आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः रूपशब्दगन्धर-
25622 सस्प्रष्टव्यधर्मा वा आध्यात्मिकबाह्या वा धर्माः संस्कृता असंस्कृता वा आकारैर् यैर्
25623 ते इम उच्यन्ते सर्वधर्माणाम् आकाराः।
25624 यत् पुनर् {आयुष्मन्} {शारिपुत्र} एवं वदसि। कतमा प्रज्ञापारमितेति।
25701 आरता आरमितैषा {आयुष्मन्} {शारिपुत्र} तेनोच्यते प्रज्ञापारमितेति। कुत आरता
25702 आरमिता। स्कन्धेभ्यो धातुभ्य आयतनेभ्य प्रतीत्यसमुत्पादाद् दानपारमितायाः
25703 शील{पारमितायाः} {{क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः}} प्रज्ञापारमिताया आरता आरमिता। अध्यात्मशून्यताया
25704 {{बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया}} यावद् अभावस्वभावशून्यताया आरता आरमिता। स्मृत्युपस्थानेभ्य
25705 आरता आरमिता। सम्यक्प्रहाण्{{एभ्य ऋद्धिपादेभ्य इन्द्रियेभ्यो बलेभ्यो बोध्यङ्गेभ्यो मार्गेभ्यो ऽप्रमाणध्यानेभ्य आरूप्यसमापत्तिभ्यो दशबलेभ्यो वैशारद्येभ्यः प्रतिसंविद्भ्यो ऽष्टादशावेणिकेभ्यो}} बुद्धधर्मेभ्य आरता आरमिता।
25706 यावत् सर्वज्ञताया आरता आरमिता। एषा तेनोच्यते प्रज्ञापारमितेति। अने-
25707 न्{आयुष्मन्} {शारिपुत्र} पर्यायेण आरता आरमिता एषा यद् उत प्रज्ञापारमिता।
25708 यत् पुनर् {आयुष्मन्} {शारिपुत्र} एवं वदसि। कतमा उपपरीक्षणेति। इह्{आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वो}
25709 महासत्त्वः प्रज्ञापारमितायां चरन् रूपं न नित्यम् इत्य् उपपरीक्षते नानित्यम् इति
25710 न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति
25711 न शून्यम् इति नाशाउन्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति
25712 नाप्रणिहितम् इति उपपरीक्षते। न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते।
25713 न वेदनां न संज्ञां न संस्कारान् न विज्ञानं नित्यम् इत्य् उपपरीक्षते। नानित्यम् इति
25714 {{न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशाउन्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इत्य् उपपरीक्षते। न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते।}} एवं चक्षुः श्रोत्रं घ्राणं जिह्वां कायं मनो न नित्यम् इति
25715 {{उपपरीक्षते। नानित्यम् इति न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशाउन्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इत्य् उपपरीक्षते। न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते।}} एवं रूपशब्दगन्धरसस्प्रष्टव्यधर्मा न नित्या इति
25716 {{उपपरीक्षन्ते। नानित्या इति न सुखा इति न दुःखा इति नात्मान इति नानात्मान इति न शान्ता इति नाशान्ता इति न शून्या इति नाशाउन्या इति न निमित्ता इति नानिमित्ता इति न प्रणिहिता इति नाप्रणिहिता इत्य् उपपरीक्षन्ते। न विविक्ता इति नाविविक्ता इत्य् उपपरीक्षन्ते।}} एवं चक्षुर्विज्ञानं {{न नित्यम् इत्य् उपपरीक्षते। नानित्यम् इति न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशाउन्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इत्य् उपपरीक्षते। न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते। न श्रोत्रविज्ञानं न घ्राणविज्ञानं न जिह्वाविज्ञानं न कायविज्ञानं न मनोविज्ञानं नित्यम् इत्य् उपपरीक्षते। नानित्यम् इति न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशाउन्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इत्य् उपपरीक्षते। न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते।}}
25717 एवं चक्षुःसंस्पर्शो {{न नित्य इत्य् उपपरीक्षते। नानित्य इति न सुख इति न दुःख इति नात्मेति नानात्मेति न शान्त इति नाशान्त इति न शून्य इति नाशाउन्य इति न निमित्त इति नानिमित्त इति न प्रणिहित इति नाप्रणिहित इत्य् उपपरीक्षते। न विविक्त इति नाविविक्त इत्य् उपपरीक्षते। न श्रोत्रसंस्पर्शो न घ्राणसंस्पर्शो न जिह्वासंस्पर्शो न कायसंस्पर्शो न मनःसंस्पर्शो नित्य इत्य् उपपरीक्षते। नानित्य इति न सुख इति न दुःख इति नात्मेति नानात्मेति न शान्त इति नाशान्त इति न शून्य इति नाशाउन्य इति न निमित्त इति नानिमित्त इति न प्रणिहित इति नाप्रणिहित इत्य् उपपरीक्षते। न विविक्त इति नाविविक्त इत्य् उपपरीक्षते।}}
25718 एवं चक्षुःसंस्पर्शप्रत्ययवेदना {{न नित्येत्य् उपपरीक्षते। नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते। न विविक्तेति नाविविक्तेत्य् उपपरीक्षते।}}
25719 {{न श्रोत्रसंस्पर्शप्रत्ययवेदना न घ्राणसंस्पर्शप्रत्ययवेदना न जिह्वासंस्पर्शप्रत्ययवेदना न कायसंस्पर्शप्रत्ययवेदना न मनःसंस्पर्शप्रत्ययवेदना नित्येत्य् उपपरीक्षते। नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते। न विविक्तेति नाविविक्तेत्य् उपपरीक्षते।}} एवं दानपारमिता {{न नित्येत्य् उपपरीक्षते। नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते। न विविक्तेति नाविविक्तेत्य् उपपरीक्षते।}}

25720 {{न शीलपारमिता न क्षान्तिपारमिता न वीर्यपारमिता न ध्यानपारमिता न प्रज्ञापारमिता नित्येत्य् उपपरीक्षते। नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते। न विविक्तेति नाविविक्तेत्य् उपपरीक्षते।}} एवम् अध्यात्मशून्यता {{न नित्येत्य् उपपरीक्षते। नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते। न विविक्तेति नाविविक्तेत्य् उपपरीक्षते।}}
25721 {{न बहिर्धाशून्यता नाध्यात्मबहिर्धाशून्यता न शून्यताशून्यता न महाशून्यता न परमार्थशून्यता न संस्कृतशून्यता नात्यन्तशून्यता नानवराग्रशून्यता नानवकारशून्यता न प्रकृतिशून्यता न सर्वधर्मशून्यता न स्वलक्षणशून्यता नानुपलम्भशून्यता नाभावस्वभावशून्यता न भावशून्यता नाभावशून्यता न स्वभावशून्यता न परभावशून्यता नित्येत्य् उपपरीक्षते। नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते। न विविक्तेति नाविविक्तेत्य् उपपरीक्षते।}} एवं स्मृत्युपस्थानानि न नित्यानीति {{उपपरीक्षन्ते। नानित्यानीति न सुखानीति न दुःखानीति नात्मानीति नानात्मानीति न शान्तानीति नाशान्तानीति न शून्यानीति नाशाउन्यानीति न निमित्तानीति नानिमित्तानीति न प्रणिहितानीति नाप्रणिहितानीत्य् उपपरीक्षन्ते। न विविक्तानीति नाविविक्तानीत्य् उपपरीक्षन्ते।}}

25722 एवं सम्यक्प्रहाणानि {{ऋद्धिपादा इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानानि आरूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदा अष्टादशावेणिका}} बुद्धधर्माः। समाधयः सर्व-
25723 धारणीमुखानि सर्वज्ञता न नित्येति {{उपपरीक्षते। नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते। न विविक्तेति नाविविक्तेत्य् उपपरीक्षते।}} एवं ह्य् {आयुष्मन्} {शारिपुत्र}
25724 {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् इमान् धर्मान् उपपरीक्षते।
25725 {शारिपुत्र} आह। केन कारणेन्{आयुष्मन्} {सुभूते} एवं वदसि यो रूपस्यानुत्पादो न तद् रू-
25726 पम्। यो वेदनायाः संज्ञायाः संस्काराणां यो विज्ञानस्यानुत्पादो न तद् विज्ञानम्।
25727 एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमितासु सर्वशून्य-
25728 तासु सर्वबोधिपक्षेषु धर्मेषु अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु
25801 प्रतिसंवित्सु समाधिधारणीमुखेष्व् अभिज्ञासु अष्टादशावेणिकेषु बुद्धधर्मेषु यः
25802 सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञतेति।
25803 {सुभूतिर्} आह। रूपम् {आयुष्मन्} {शारिपुत्र} शून्यं रूपेण। या च्{आयुष्मन्} {शारिपुत्र} शून्यता न
25804 तद् रूपं नोत्पादः। अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण यो रूपस्यानुत्पादो न तद् रूपम् वेदना
25805 संज्ञा संस्कारा विज्ञानं शून्यं विज्ञानेन। या च्{आयुष्मन्} {शारिपुत्र} शून्यता न तद् विज्ञानं नोत्-
25806 पादः। अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण यो विज्ञानस्यानुत्पादो न तद् विज्ञानम्। दान-
25807 पारमिता {आयुष्मन्} {{शारिपुत्र शून्या दानपारमिता। या चायुष्मन् शारिपुत्र शून्यता न सा दानपारमिता नोत्पादः। अनेनायुष्मन् शारिपुत्र पर्यायेण यो दानपारमिताया अनुत्पादो न सा दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता शून्या प्रज्ञापारमितया। या चायुष्मन् शारिपुत्र शून्यता न सा प्रज्ञापारमिता नोत्पादः। अनेनायुष्मन् शारिपुत्र पर्यायेण यो प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता। अध्यात्मशून्यता आयुष्मन् शारिपुत्र शून्या अध्यात्मशून्यता। या चायुष्मन् शारिपुत्र शून्यता न सा अध्यात्मशून्यता नोत्पादः। अनेनायुष्मन् शारिपुत्र पर्यायेण यो अध्यात्मशून्यताया अनुत्पादो न सा अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यता संस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता अनवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता अनुपलम्भशून्यता अभावस्वभावशून्यता भावशून्यता अभावशून्यता स्वभावशून्यता परभावशून्यता शून्या परभावशून्यतया। या चायुष्मन् शारिपुत्र शून्यता न सा परभावशून्यता नोत्पादः। अनेनायुष्मन् शारिपुत्र पर्यायेण यो परभावशून्यताया अनुत्पादो न सा परभावशून्यता।}}
25808 {{स्मृत्युपस्थानान्य् आयुष्मन् शारिपुत्र शून्यानि स्मृत्युपस्थानानि। या चायुष्मन् शारिपुत्र शून्यता न तानि स्मृत्युपस्थानानि नोत्पादः। अनेनायुष्मन् शारिपुत्र पर्यायेण यो स्मृत्युपस्थानानाम् अनुत्पादो न तानि स्मृत्युपस्थानानि सम्यक्प्रहाणान्य् ऋद्धिपादा इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानान्य् आरूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदा अष्टादशावेणिका बुद्धधर्माः सर्वाकारज्ञता शून्या सर्वाकारज्ञतया। या चायुष्मन् शारिपुत्र शून्यता न सा सर्वाकारज्ञता नोत्पादः}}। अनेन्{आयुष्मन्} {शारिपुत्र}
25809 पर्यायेण यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता।
25810 {शारिपुत्र} आह। किं कारणम् {आयुष्मन्} {सुभूते} एवं वदसि। यो रूपस्य व्ययो
25811 न तद् रूपम्। यो वेदनायाः संज्ञायाः संस्काराणां यो विज्ञानस्य व्ययो न तद् विज्ञान-
25812 म् इति। एवं व्यस्तसमस्तेषु {{स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमितासु सर्वशून्यतासु सर्वबोधिपक्षेषु धर्मेषु अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु}}
25813 प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु यः सर्वाकारज्ञताया व्ययो न सा
25814 सर्वाकारज्ञता।
25815 {सुभूतिर्} आह। तथा ह्य् {आयुष्मन्} {शारिपुत्र} यश् च व्ययो यच् च रूपं यच् चाद्वैधीकारं या च
25816 वेदना या च संज्ञा ये च संस्कारा यच् च विज्ञानं सर्व एते धर्मा न संयुक्ता न वि-
25817 संयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः। एवं
25818 व्यस्तसमस्तेषु {{स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमितासु सर्वशून्यतासु सर्वबोधिपक्षेषु धर्मेषु अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु प्रतिसंवित्सु}} बुद्धधर्म-
25819 समाधिधारणीमुखेषु यश् च व्ययो यावत् सर्वाकारज्ञता यच् चाद्वैधीकारं सर्व एते
25820 धर्मा न संयुक्ताः {{अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः।}} अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण यो रूपस्य व्ययो
25821 न तद् रूपम्। एवं वेदनायाः संज्ञायाः संस्काराणां यो विज्ञानस्य व्ययो न तद् वि-
25822 ज्ञानम्। एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादशून्यतासु समाधि-
25823 धारणीमुखेषु यावद् यः सर्वाकारज्ञताया व्ययो न सा सर्वाकारज्ञता।
25824 {शारिपुत्र} आह। केन कारणेन्{आयुष्मन्} {सुभूते} एवं वदसि यद् इदम् उच्यते रूपम् इत्य् अद्वय-
25825 स्यैषा गणना कृतेति। वेदना संज्ञा संस्काराः। यद् इदम् उच्यते विज्ञानम् इत्य् अ-
25826 द्वयस्यैषा गणना कृतेति यावद् यद् इदम् उच्यते सर्वाकारज्ञतेत्य् अद्वयस्यैषा गणना
25827 कृतेति।
25828 {सुभूतिर्} आह। तथा ह्य् {आयुष्मन्} {शारिपुत्र} नान्यो ऽनुत्पादो ऽन्यद् रूपम्। अनुत्पाद एव
25901 रूपम्। रूपम् एवानुत्पादः। {वेदना संज्ञा संस्काराः}। नान्यो ऽनुत्पादो ऽन्यद् विज्ञानम्। विज्ञानम् एवा-
25902 नुत्पादो ऽनुत्पाद एव विज्ञानम्। अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण यद् एतद् उच्यते रूपम् इत्य् अ-
25903 द्वयस्यैषा गणना कृता। {वेदना संज्ञा संस्काराः}। यद् एतद् उच्यते विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता।
25904 एवं व्यस्तसमस्तेषु {{स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमितासु सर्वशून्यतासु सर्वबोधिपक्षेषु धर्मेषु अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु प्रतिसंवित्सु}}
25905 समाधिधारणीमुखेषु तथा ह्य् {आयुष्मन्} {शारिपुत्र} नान्यो ऽनुत्पादो ऽन्या सर्वाकारज्ञता

25906 अनुत्पाद एव सर्वाकारज्ञता। सर्वाकारज्ञतैवानुत्पादः। अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण
25907 यद् एतद् उच्यते सर्वाकारज्ञतेत्य् अद्वयस्यैषा गणना कृता।
25908 पुनर् अपरम् {आयुष्मान्} {सुभूतिर्} भगवन्तम् एतद् अवोचत्। यस्मिन् समये भगवन् {बोधिसत्त्वो}
25909 महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते तस्मिन् समये रूप-
25910 स्यानुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय। {वेदना संज्ञा संस्काराः}। विज्ञानस्यानु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}।
25911 आत्मनो ऽनु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}। एवं सत्त्वजीव{{पोषपुरुषपुद्गलमनुजमानवकारकवेदकजानक}}पश्यकस्यानु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}। एवं व्यस्तसमस्तानां
25912 स्कन्धधात्वायतनप्रतीत्यसमुत्पादाभिज्ञानाम् अनु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}। दानपारमिताया अनु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}
25913 {{शीलपारमिताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय। क्षान्तिपारमिताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय। वीर्यपारमिताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय। ध्यानपारमिताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय। प्रज्ञापारमिताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय। अध्यात्मशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय। बहिर्धाशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय। अध्यात्मबहिर्धाशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय। शून्यताशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय। महाशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय। परमार्थशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय। संस्कृतशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय। अत्यन्तशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय। अनवराग्रशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय। अनवकारशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय। प्रकृतिशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय। सर्वधर्मशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय। स्वलक्षणशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय। अनुपलम्भशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय। अभावस्वभावशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय। भावशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय। अभावशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय। स्वभावशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय। परभावशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}}। स्मृत्यु-
25914 पस्थानानाम् अनु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}। एवं सम्यक्प्रहाण{{सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाप्रमाणध्यानारूप्यसमापत्तिदशबलवैशारद्यप्रतिसंविदष्टादशावेणिक}}बुद्धधर्माणां सर्वाकारज्ञताया
25915 अनु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}। पृथग्जनस्यानु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}। पृथग्जनधर्माणाम् अनु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}। एवं स्रोतआपन्नस्य
25916 स्रोतआपन्नधर्माणां {{सकृदागामिनः सकृदागामिधर्माणाम् अनागामिनो ऽनागामिधर्माणाम्}} अर्हतो अर्हद्धर्माणां प्रत्येकबुद्धस्य प्रत्येकबुद्ध-
25917 धर्माणां बोधिसत्त्वस्य बोधिसत्त्वधर्माणां बुद्धस्यानु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}। बुद्धधर्माणाम् अनु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}।
25918 {शारिपुत्र} आह। यथाहम् आयुष्मतः सुभूतेर् भाषितस्यार्थम् आजानामि तथा रूप-
25919 म् अनुत्पादो वेदना संज्ञा संस्कारा विज्ञानम् अनुत्पादो यावद् व्यस्तसमस्ता स्कन्धा
25920 अनुत्पादा धातवो ऽनुत्पादाः।
25921 {{आत्मानुत्पाददः सत्त्वो ऽनुत्पादो जीवो ऽनुत्पादो पोषो ऽनुत्पादो पुरुषो ऽनुत्पादो पुद्गलो ऽनुत्पादो मनुजो ऽनुत्पादो मानवो ऽनुत्पादो कारको ऽनुत्पादो वेदको ऽनुत्पादो जानकओ ऽनुत्पादो पश्यको ऽनुत्पादो। एवं व्यस्तसमस्ताः स्कन्धधात्वायतनप्रतीत्यसमुत्पादाभिज्ञा अनुत्पादाः। दानपारमितानुत्पादः शीलपारमितानुत्पादः क्षान्तिपारमितानुत्पादो वीर्यपारमितानुत्पादो ध्यानपारमितानुत्पादः प्रज्ञापारमितानुत्पादो। अध्यात्मशून्यतानुत्पादो बहिर्धाशून्यतानुत्पादो ऽध्यात्मबहिर्धाशून्यतानुत्पादः शून्यताशून्यतानुत्पादो महाशून्यतानुत्पादः परमार्थशून्यत्नुत्पादः संस्कृतशून्यतानुत्पादो ऽत्यन्तशून्यतानुत्पादो ऽनवराग्रशून्यतानुत्पादो ऽनवकारशून्यतानुत्पादः प्रकृतिशून्यतानुत्पादः सर्वधर्मशून्यतानुत्पादः स्वलक्षणशून्यतानुत्पादो ऽनुपलम्भशून्यतानुत्पादो ऽभावस्वभावशून्यतानुत्पादो भावशून्यतानुत्पादो ऽभावशून्यतानुत्पादः स्वभावशून्यतानुत्पादः परभावशून्यतानुत्पादः। स्मृत्युपस्थानान्य् अनुत्पादाः सम्यक्प्रहाणान्य् अनुत्पादा ऋद्धिपादा अनुत्पादाः इन्द्रियान्य् अनुत्पादाः बलान्य् अनुत्पादाः बोध्यङ्गान्य् अनुत्पादाः मार्गा अनुत्पादा अप्रमाणध्यानान्य् अनुत्पादा आरूप्यसमापत्तयो ऽनुत्पादा दशबलान्य् अनुत्पादा वैशारद्यान्य् अनुत्पादाः प्रतिसंविदा अनुत्पादा अष्टादशावेणिका बुद्धधर्मा अनुत्पादाः सर्वाकारज्ञताअनुत्पादः। पृथग्जनो ऽनुत्पादः पृथग्जनधर्मा अनुत्पादाः स्रोतआपन्नो ऽनुत्पादः स्रोतआपन्नधर्मा अनुत्पादाः सकृदागाम्य् अनुत्पादः सकृदागामिधर्मा अनुत्पादा अनागाम्य् अनुत्पादो ऽनागामिधर्मा अनुत्पादा अर्हन् अनुत्पादो ऽर्हद्धर्मा अनुत्पादा प्रत्येकबुद्धो ऽनुत्पादः प्रत्येकबुद्धधर्मा अनुत्पादा बोधिसत्त्वो ऽनुत्पादो बोधिसत्त्वधर्मा अनुत्पादाः}}
25922 बुद्धो ऽनुत्पादो बुद्धधर्मा अनुत्पादाः। यदि च्{आयुष्मन्} {सुभूते} रूपम् अप्य् अनुत्पादो यावद् बुद्ध-
25923 धर्मा अप्य् अनुत्पादाः। नन्व् {आयुष्मन्} {सुभूते} प्राप्तैव श्रावकेण श्रावकबोधिः प्रत्येकबुद्ध-
25924 यानिकेन प्रत्येकबुद्धबोधिः। बोधिसत्त्वेन प्राप्तैव सर्वाकारज्ञता भवति।
25925 पञ्चानाञ् च गतीनां भेदो न भविष्यति। प्राप्तैव भवति बोधिसत्त्वेन महासत्त्वेन
25926 पञ्चविधा बोधिर् यदि च्{आयुष्मन्} {सुभूते} सर्वधर्मा अनुत्पादाः। किम् अर्थं स्रोतआपन्नेन
26001 त्रयाणां संयोजनानां प्रहाणाय मार्गो भावयितव्यः। सकृदागामिना रागदोष-
26002 मोहानां तनुतायै मार्गो भावयितव्यः। अनागामिना पञ्चानाम् अवरभागीयानां
26003 संयोजनानां प्रहाणाय मार्गो भावयितव्यः। अर्हता पञ्चोर्ध्वभागीयानां संयोज-
26004 नानां प्रहाणाय मार्गो भावयितव्यः। प्रत्येकबुद्धयानिकैः प्रत्येकबोधिप्राप्तये

26005 मार्गो भावयितव्यः। किं कारणं बोधिसत्त्वो दुष्करचारिकां चरति यानि
26006 तानि सत्त्वानां कृतशो दुःखानि प्रत्यनुभवति। किं कारणं तथागतेनार्हता सम्यक्-
26007 संबुद्धेनानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा। किं कारणं तथागतेनार्हता सम्यक्-
26008 संबुद्धेन धर्मचक्रं प्रवर्तितम्।
26009 {सुभूतिर्} आह। नाहम् {आयुष्मन्} {शारिपुत्र} अनुत्पन्नस्य धर्मस्य प्राप्तिम् इच्छामि नाप्य् अभि-
26010 समयं नाहम् अनुत्पादस्य स्रोतआपन्नम् इच्छामि। न स्रोतआपत्तिफलं {{न सकृदागामिनं न सकृदागामिफलं नानागामिनं नानागामिफलं}}
26011 नार्हत्वं नार्हत्वफलं नानुत्पादस्य प्रत्येकां बोधिम् इच्छामि न प्रत्येकबुद्धत्वं नाह-
26012 म् {आयुष्मन्} {शारिपुत्र} इच्छामि बोधिसत्त्वं दुष्करचारिकां चरन्तं नापि बोधिसत्त्वो दुष्कर-
26013 संज्ञया चरति। तत् कस्य हेतोः। न हि शक्य {आयुष्मन्} {शारिपुत्र} दुष्करसंज्ञायां स्थित्वा
26014 अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अर्थं कर्तुम्। अपि तु खलु पुन-
26015 र् {आयुष्मन्} {शारिपुत्र} मातृसंज्ञां सर्वसत्त्वेषु जनयित्वा पितृसंज्ञां भ्रातृसंज्ञां पुत्रसंज्ञाम् आत्मसंज्ञां
26016 जनयित्वा शक्यो ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अर्थम् कर्तुम्।
26017 अपि तु खलु पुनर् {आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वेन} महासत्त्वेन एवं चित्तम् उत्पादयितव्यम्। यथा
26018 आत्मा आत्मेति चोच्यते अत्यन्ततया अनुत्पन्न आत्मा एवं सर्वेष्व् आध्यात्मिक-
26019 बाह्येषु धर्मेषु संज्ञोत्पादयितव्या। सचेद् एवं संज्ञाम् उत्पादयिष्यति न दुष्करसंज्ञां

26020 भविष्यति। तत् कस्य हेतोः। तथा हि ते बोधिसत्त्वाः सर्वेण सर्वं सर्वथा सर्वं
26021 कञ्चिद् धर्मं नोत्पादयन्ते नोपलभन्ते। नाहम् {आयुष्मन्} {शारिपुत्र} अनुत्पादतथागत-
26022 म् इच्छामि नाप्य् अनुत्तरां सम्यक्संबोधिं नापि धर्मचक्रप्रवर्तनं नापीच्छामि
26023 अनुत्पन्नेन धर्मेणानुत्पन्नां प्राप्तिं प्राप्यमाणाम्।
26024 {शारिपुत्र} आह। किं पुनर् {आयुष्मन्} {सुभूते} अनुत्पन्नेन धर्मेण उत्पन्ना प्राप्तिः प्राप्यते।
26025 अथ उत्पन्नेन धर्मेण अनुत्पन्ना प्राप्तिः प्राप्यते।
26101 {सुभूतिर्} आह। नाहम् {आयुष्मन्} {शारिपुत्र} उत्पन्नेन धमेणानुत्पन्नां प्राप्तिं प्राप्य-
26102 माणाम् इच्छामि नाप्य् अनुत्पन्नेनोत्पन्नां प्राप्तिं प्राप्यमाणाम्।
26103 {शारिपुत्र} आह। किं पुनर् {आयुष्मन्} {सुभूते} अनुत्पन्नेन धर्मेण प्राप्तिम् इच्छसि।
26104 अथ वोत्पन्नेन धर्मेण प्राप्तिम् इच्छसि।
26105 {सुभूतिर्} आह। नाहम् {आयुष्मन्} {शारिपुत्र} अनुत्पन्नेन धर्मेण प्राप्तिम् इच्छामि।
26106 नाप्य् उत्पन्नेन धर्मेण प्राप्तिम् इच्छामि।
26107 {शारिपुत्र} आह। किं पुनर् {आयुष्मन्} {सुभूते} नास्ति प्राप्तिर् नास्त्य् अभिसमयः।
26108 {सुभूतिर्} आह। अस्त्य् {आयुष्मन्} {शारिपुत्र} प्राप्तिर् अस्त्य् अभिसमयो न पुनर् द्वयम्। अपि तु
26109 खलु पुनर् {आयुष्मन्} {शारिपुत्र} लोकव्यवहारेण प्राप्तिश् चाभिसमयश् च प्रज्ञप्यते लोकव्यवहारेण
26110 स्रोतआपन्नो वा सकृदागामी वा अनागामी वा अर्हन् वा प्रत्येकबुद्धो वा
26111 बोधिसत्त्वो वा बुद्धो वा प्रज्ञप्यते न पुनः परमाथेन प्राप्तिर् नाभिसमयो
26112 न स्रोतआपन्नो न सकृदागामी नानागामी नार्हन् न प्रत्येकबुद्धो न बोधि-
26113 सत्त्वो न बुद्धः।
26114 {शारिपुत्र} आह। अनुत्पन्नो धर्म इत्य् {आयुष्मन्} {सुभूते} प्रतिभाति मन्त्रयितुम्।
26115 {सुभूतिर्} आह। अनुत्पन्नो धर्मो ऽनुत्पन्नो धर्म इत्य् {आयुष्मन्} {शारिपुत्र} यद् वदसि प्रतिभाति
26116 मन्त्रयितुम् इति। अनुत्पादो ऽपि ये {आयुष्मन्} {शारिपुत्र} प्रतिभाति मन्त्रयितुम्।
26117 तत् कस्य हेतोः। तथा ह्य् {आयुष्मन्} {शारिपुत्र} यश् चानुत्पन्नो धर्मो यच् च प्रतिभानं ये च मन्त्रा
26118 या चानुत्पत्तिः सर्वे एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना
26119 अप्रतिघा एकलक्षणा यद् उतालक्षणाः।
26120 {शारिपुत्र} आह। अनुत्पादो ऽप्य् {आयुष्मन्} {सुभूते} मन्त्रः। अनुत्पादः प्रतिभान-
26121 म् अनुत्पादो धर्मस् ते ऽपि धर्मा अनुत्पन्ना यान् आरभ्य प्रतिभाति मन्त्रयितुम्।
26122 {सुभूतिर्} आह। एवम् एतद् {आयुष्मन्} {शारिपुत्र} अनुत्पादो मन्त्रः।
26123 {{अनुत्पादः प्रतिभानम् अनुत्पादो धर्मस् ते ऽपि धर्मा अनुत्पन्ना यान् आरभ्य प्रतिभाति मन्त्रयितुम्।}} तत् कस्य हेतोः। तथा ह्य् {आयुष्मन्} {शारिपुत्र}
26124 रूपम् अनुत्पादः। एवं {वेदना संज्ञा संस्काराः}। विज्ञानम् अनुत्पादः। एवं व्यस्तसमस्ताः स्कन्धधातवः
26125 {{आयतनानि प्रतीत्यसमुत्पादाः पारमिताः सर्वशून्यताः सर्वबोधिपक्षा धर्मा अप्रमाणध्यानारूप्यसमापत्तयो बलानि वैशारद्यानि प्रतिसंविदः समाधिधारणीमुखान्य् अभिज्ञा अष्टादशावेणिका}} बुद्धधर्मा अनुत्पादाः।
26201 स्रोतआपन्नः {{सकृदागाम्य् अनागाम्य् अर्हन्}} प्रत्येकबुद्धो बोधिसत्त्वः सर्वज्ञः सर्वाकारज्ञः सर्वाकारज्ञता
26202 ऽप्य् अनुत्पादः।
26203 {शारिपुत्र} आह। एवम् एतद् {आयुष्मन्} {सुभूते} अनुत्पादो मन्त्रः
26204 {{अनुत्पादः प्रतिभानम् अनुत्पादो धर्मस् ते ऽपि धर्मा अनुत्पन्ना यान् आरभ्य प्रतिभाति मन्त्रयितुम्।}} यावत् स्कन्धधात्वायतन{{प्रतीत्यसमुत्पादाः पारमिताः सर्वशून्यताः सर्वबोधिपक्षा धर्मा अप्रमाणध्यानारूप्यसमापत्तयो बलानि वैशारद्यानि प्रतिसंविदः समाधिधारणीमुखान्य् अभिज्ञा अष्टादशावेणिका}} बुद्धधर्माः। पेयालम्।
26205 यावत् सर्वाकारज्ञताप्य् अनुत्पादः।
26206 {शारिपुत्र} आह। किं पुनर् {आयुष्मन्} {सुभूते} यथैव लोकव्यवहारेण प्राप्तिश् चाभिसमयश् च
26207 एवं पञ्चाणां गतीनां संभेदो भवति लोकव्यवहारेण परमार्थतो न भवति।
26208 {सुभूतिर्} आह। एवम् एतद् {आयुष्मन्} {शारिपुत्र} एवम् एतत्। यथैव
26209 {{लोकव्यवहारेण प्राप्तिश् चाभिसमयश् च एवं पञ्चाणां गतीनां संभेदो भवति लोकव्यवहारेण परमार्थतो न भवति।}} नात्र खलु पुनः परमार्थेन। तत्

26210 कस्य हेतोः। तथा ह्य् {आयुष्मन्} {शारिपुत्र} परमार्थे न कर्म न विपाको नोत्पादो न निरोधो
26211 न संक्लेशो न व्यवदानम्।
26212 {शारिपुत्र} आह। किं पुनर् {आयुष्मन्} {सुभूते} अनुत्पन्नो धर्म उत्पद्यते उताहो
26213 उत्पन्नो धर्म उत्पद्यते।
26214 {सुभूतिर्} आह। नाहम् {आयुष्मन्} {शारिपुत्र} उत्पन्नस्य धर्मस्य उत्पादम् इच्छामि नाप्य् अ-
26215 नुत्पन्नस्य धर्मस्य उत्पादम् इच्छामि।
26216 {शारिपुत्र} आह। कतमस्य्{आयुष्मन्} {सुभूते} अनुत्पन्नस्य धर्मस्योत्पादं नेच्छामि।
26217 {सुभूतिर्} आह। रूपस्याहम् {आयुष्मन्} {शारिपुत्र} अनुत्पन्नस्य धर्मस्य स्वभावशून्योत्पादं
26218 नेच्छामि। {वेदनया संज्ञया संस्कारानाम्}। विज्ञानस्याहम् {आयुष्मन्} {शारिपुत्र} अनुत्पन्नस्य धर्मस्य स्वभावशून्योत्-
26219 पादं नेच्छामि। एवं व्यस्तसमस्तानां स्कन्धधात्वायतनानां
26220 {{प्रतीत्यसमुत्पादानां पारमितानां सर्वशून्यतानां सर्वबोधिपक्षानां धर्माणां अप्रमाणध्यानारूप्यसमापत्तीनां बलानां वैशारद्यानां प्रतिसंविदां समाधिधारणीमुखानाम् अभिज्ञानां अष्टादशावेणिकानां}} बुद्धधर्माणां बोधेर् अप्य् अहम् {आयुष्मन्} {शारिपुत्र}
26221 अनुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि।
26222 {शारिपुत्र} आह। किं पुनर् {आयुष्मन्} {सुभूते} उत्पाद उत्पद्यते अथानुत्पाद उत्पद्यते।
26223 {सुभूतिर्} आह। न ह्य् {आयुष्मन्} {शारिपुत्र} उत्पाद उत्पद्यते नाप्य् अनुत्पाद उत्पद्यते। तत्
26224 कस्य हेतोः। तथा हि {आयुष्मन्} {शारिपुत्र} यश् चोत्पादो यश् चानुत्पादो द्वाव् अप्य् एतौ धर्मौ न
26225 संयुक्तौ न विसंयुक्तौ अरूपिणौ अनिदर्शनौ अप्रतिघौ एकलक्षणौ यद् उता-
26226 लक्षणौ। अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण नोत्पाद उत्पद्यते नाप्य् अनुत्पाद उत्पद्यते।
26227 अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण अनुत्पादो मन्त्रो ऽनुत्पादः प्रतिभानम्। अनुत्पादो
26228 धर्मस् ते ऽपि धर्मा अनुत्पन्ना यान् आरभ्य प्रतिभाति मन्त्रयितुम्।
26301 {शारिपुत्र} आह। धर्मकायिकानाम् आयुष्मान् सुभूतिर् अग्रतायां स्थापयितव्यः। तत्
26302 कस्य हेतोः। तथा हि {आयुष्मान्} सुभूतिर् यद् यद् एव परिप्रश्नीक्रियते ततस् तत एव
26303 निःसरति।
26304 {सुभूतिर्} आह। धर्मतैषा {आयुष्मन्} {शारिपुत्र} तथागतश्रावकाणाम् अनिश्रितसर्व-
26305 धर्माणां ते यतो यत एव परिपृच्छ्यन्ते ततस् तत एव निःसरन्ति। तत् कस्य
26306 हेतोः। यथापि नामानिश्रितत्वात् सर्वधर्माणाम्।
26307 {शारिपुत्र} आह। कथम् {आयुष्मन्} {सुभूते} अनिश्रिताः सर्वधर्माः।
26308 {सुभूतिर्} आह। रूपम् {आयुष्मन्} {शारिपुत्र} प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धा-
26309 निश्रितं नोभयम् अन्तरेणोपलभ्यते। {वेदना संज्ञा संस्काराः}। विज्ञानम् {आयुष्मन्} {शारिपुत्र} प्रकृतिशून्यं तं
26310 नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते।
26311 {{चक्षुर् आयुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते। श्रोत्रं घ्राणं जिह्वा कायः। मन आयुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते। रूपम् आयुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते। शब्दो गन्धो रसः स्प्रष्टव्यम्। धर्म आयुष्मन् शारिपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते। चक्षुर्विज्ञानम् आयुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते। श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानम्। मनोविज्ञानम् आयुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते। स्मृत्युपस्थानान्य् आयुष्मन् शारिपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यन्ते। सम्यक्प्रहाणान्य् ऋद्धिपादा इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानान्य् आरूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदाः।}}
26312 {{अष्टादशावेणिका बुद्धधर्मा आयुष्मन् शारिपुत्र प्रकृतिशून्याः ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यन्ते}}। अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण सर्वधर्मा अनिश्रिताः प्रकृतिशून्यताम् उपादाय।
26313 एवं हि {आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वेन} महासत्त्वेन षट्सु पारमितासु चरतो रूपं परि-
26314 शोधयितव्यम्। {वेदना संज्ञा संस्काराः}। विज्ञानं परिशोधयितव्यम्। एवं व्यस्तसमस्ताः स्कन्धधातवः
26315 {{आयतनानि प्रतीत्यसमुत्पादाः पारमिताः सर्वशून्यताः सर्वबोधिपक्षानि धर्मा अप्रमाणध्यानारूप्यसमापत्तयो बलानि वैशारद्यानि प्रतिसंविदः समाधिधारणीमुखान्य् अभिज्ञा अष्टादशावेणिका}} बुद्धधर्माः परिशोध-
26316 यितव्याः। यावत् सर्वाकारज्ञता परिशोधयितव्या॥ [इति सर्वाकारज्ञता-
26317 निर्याणम्॥]
26318 {शारिपुत्र} आह। कथम् {आयुष्मन्} {सुभूते} {बोधिसत्त्वो} महासत्त्वः षट्सु पारमितासु चरन्
26319 बोधिसत्त्वमार्गं परिशोधयति।
26320 {सुभूतिर्} आह। अस्ति {आयुष्मन्} {शारिपुत्र} दानपारमिता लौकिकी अस्ति लोकोत्तरा।
26321 एवं शील{पारमिता} {{लौकिकी अस्ति लोकोत्तरा क्षान्तिपारमिता लौकिकी अस्ति लोकोत्तरा वीर्यपारमिता लौकिकी अस्ति लोकोत्तरा ध्यानपारमिता लौकिकी लोकोत्तरा}} अस्ति प्रज्ञा{पारमिता} लौकिकी अस्ति लोकोत्तरा।

26322 {शारिपुत्र} आह। कतमा {आयुष्मन्} {सुभूते} दान{पारमिता} लौकिकी कतमा लोकोत्तरा।
26323 {सुभूतिर्} आह। लौकिकी {आयुष्मन्} {शारिपुत्र} दान{पारमिता} इह {बोधिसत्त्वो} महासत्त्वो दायको भवति
26324 दानपतिः। श्रमणब्राह्मणकृपणवनीपकाध्वगेभ्यो याचनकेभ्यो दाता भवति।
26325 अन्नार्थिकेभ्यो ऽन्नं ददाति। पानयानवसनगन्धमाल्यविलेपनपुष्पधूपचूर्णवासो-
26401 पाश्रयप्रतिश्रयजीवितपरिष्कारोपकरणशयनासनभैषज्यार्थिकेभ्यो ऽन्नपान{{यानवसनगन्धमाल्यविलेपनपुष्पधूपचूर्णवासोपाश्रय-}}
26402 प्रतिश्रयान्यतरान्यतरजीवितपरिष्कारोपकरणभैषज्यदाता भवति। पुत्रार्थिकेभ्यः
26403 पुत्रं ददाति। दुहित्र्यर्थिकेभ्यो दुहितरं ददाति। भार्यार्थिकेभ्यो भार्यां ददाति।
26404 राष्ट्रार्थिकेभ्यो राज्यानि ददाति। शिरोर्थिकेभ्यः शिरो ददाति। अङ्गार्थिकेभ्यो
26405 ऽङ्गानि ददाति। मांसशोणितमज्जार्थिकेभ्यो मांसशोणितमज्जानो ददाति।
26406 तच् च सन्निश्रितं परित्यजति। तस्यैवं भवति अहं ददामि एष परिगृह्णीते
26407 इदं दानम् अहं निर्मत्सरः सर्वस्वं परित्यजामि। अहं बुद्धाज्ञां करोमि।
26408 अहं दानपारमितायां चरामि। अहम् एतद् दानं सर्वसत्त्वसाधारणं कृत्वा
26409 अनुत्तरायै सम्यक्संबोधये परिणामयामि तच् चानुपलम्भयोगेन। अनेन
26410 च दानेन दानफलेन च सर्वसत्त्वा दृष्ट एव धर्मे सुखिता भवन्तु अनुपादाय
26411 परिनिर्वान्तु। स त्रिभिः सङ्गैः सक्तो दानं ददाति। कतमैस् त्रिभिर् यद् उत आत्म-
26412 संज्ञया परसंज्ञया दानसंज्ञया च एभिस् त्रिभिः सङ्गैः सक्तो दानं ददाति॥ [इयम् उच्यते
26413 लौकिकी दानपारमितेति॥]
26414 तथा हि {आयुष्मन्} {शारिपुत्र} लोकतो न चलति नोच्चलति न संक्रामति।
26415 तेनोच्यते लौकिकी दानपारमिता इति।
26416 तत्र कतमा लोकोत्तरा दानपारमिता यद् उत त्रिमण्डलपरिशुद्धिः। तत्र कतमा
26417 त्रिमण्डलपरिशुद्धिः। इह {बोधिसत्त्वो} महासत्त्वो दानं ददत् नात्मानम् उपलभते प्रतिग्राहकं
26418 {नोपलभते}। दानञ् च {नोपलभते}। तद् विपाकञ् च {नोपलभते}। इयम् {आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वस्य} महासत्त्वस्य त्रिम-
26419 ण्डलपरिशुद्धिः। पुनर् अपरम् {आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो दानं ददत् न सर्वसत्त्वेभ्य-
26420 स् तद् दानं निर्यातयति। सत्त्वांश् च {नोपलभते}। आत्मानं च {नोपलभते}। तच् च दानम् अनुत्तरायै
26421 सम्यक्संबोधये परिणामयति। न च बोधिम् उपलभते॥ [इयम् उच्यते लोकोत्तरा
26422 दानपारमितेति॥]
26501 केन कारणेनोच्यते लोकोत्तरा दानपारमितेति। तथा ह्य् {आयुष्मन्} {शारिपुत्र}
26502 लोकाच् चलति उच्चलति संक्रामति। तेन कारणेनोच्यते लोकोत्तरा दानपार-
26503 मितेति। एवं शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता}।
26504 {शारिपुत्र} आह। कतमा {आयुष्मन्} {सुभूते} प्रज्ञा{पारमिता} लौकिकी। कतमा
26505 लोकोत्तरा।
26506 {सुभूतिर्} आह। लौकिकी {आयुष्मन्} {शारिपुत्र} प्रज्ञापारमिता। इह {बोधिसत्त्वो} महासत्त्वो
26507 दानं ददाति उपलम्भनिश्रितो मात्सर्यचित्तं मया निग्रहीतव्यम् इति। तच् चात्म-
26508 सत्त्वदानसंज्ञानिश्रितः सर्वस्वं परित्यजति बाह्यं वा आध्यात्मिकं वा
26509 वस्तु उपात्तं वा अनुपात्तं वा नास्ति किञ्चिद् यत् न परित्यजति। तच् च कुशल-
26510 मूलं बोधये परिणामयति सर्वसत्त्वसाधारणं कृत्वा उपलम्भनिश्रितः। स
26511 शीलं सेवते धूतगुणप्रतिष्ठितः। कायवाक्चित्तोपलम्भनिश्रितस् तांश् च दशकुशलान्
26512 कर्मपथान् सेवमानः आत्मदृष्ट्यां सत्त्वदृष्ट्यां कुशलदृष्ट्यां निश्रितः
26513 बोधिम् उपलभ्य सर्वसत्त्वसाधारणानि शीलानि बोधये परिणामयति तच् चोपल-
26514 म्भेन। आत्मानम् उत्कर्षयति परान् पंसयति स सर्वसत्त्वानां दुष्कृतानि क्षमते।

26515 आत्मसत्त्वक्षान्तिदृष्टिनिश्रितस् तच् च कुशलम् अनुत्तरायै सम्यक्संबोधये परिणाम-
26516 यति सर्वसत्त्वसाधारणं कृत्वा उपलम्भयोगेन। स वीर्यम् आरभते कायम् उपलम्भ-
26517 मानः चित्तम् {उपलम्भमानः} पुण्यसम्भारम् {उपलम्भमानो} ज्ञानसम्भारम् {उपलम्भमान} आत्मानम् {उपलम्भमानो} बोधिम् {उपलम्भमानः}
26518 तेन च वीर्यारम्भेन मन्यते। तच् च सर्वसत्त्वसाधारणं कृत्वा उपलम्भयोगेना-
26519 नुत्तरायै सम्यक्संबोधये परिणामयति। स मैत्रीकरुणामुदितोपेक्षां भावयति
26520 ध्यानसमापत्तीः समापद्यते व्युत्तिष्ठते च ता आस्वादयति। ता आस्वादयन्
26521 मन्यते। सर्वसत्त्वसाधारणानि च कुशलमूलानि उपलम्भदृष्टिको बोधये परि-
26522 णामयति॥ [इयम् उच्यते लौकिकी प्रज्ञापारमिता॥]
26523 स शून्यतां भावयन् रूपं शून्यम् इति उपलभते। {वेदना संज्ञा संस्काराः}। विज्ञानं शून्यम् इति
26524 उपलभते। यावद् बुद्धबोधिं चोपलभते उपलम्भयोगेन। तानि कुशलमूलानि
26525 सर्वसत्त्वसाधारणानि कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति। तं
26601 चोपलम्भयोगेन। सर्वपापं प्रतिदेशयत्य् उपलम्भयोगेन आत्मनश् च परेषां च
26602 पुण्यम् अनुमोदते। आत्मनश् च परस्य चार्थाय उपलभमानः सर्वबुद्धान् अध्येषयते।
26603 अनुपायेन त्रिःकृत्वः पुण्यं सर्वज्ञतायै परिणामयति सर्वसत्त्वसाधारणं कृत्वा॥
26604 [इयम् उच्यते लौकिकी प्रज्ञापारमिता॥]
26605 तत्र कतमा लोकोत्तरा प्रज्ञापारमिता। आत्मसत्त्वदेयबोध्यनुपलब्ध्या
26606 त्रिमण्डलपरिशुद्ध्या दानपारमितां परिशोधयति। बोधाय आत्मसत्त्वशील-
26607 बोध्य्{अनुपलब्ध्या त्रिमण्डलपरिशुद्ध्या} शीलपारमितां {परिशोधयति}। बोधाय आत्मसत्त्वक्षमाबोध्य्{अनुपलब्ध्या त्रिमण्डलपरिशुद्ध्या} क्षान्ति-
26608 पारमितां {परिशोधयति}। बोधाय चात्मकायचित्तवीर्यपुण्यज्ञानबोध्य्{अनुपलब्ध्या त्रिमण्डलपरिशुद्ध्या} वीर्यपार-
26609 मितां {परिशोधयति}। बोधाय आत्मसत्त्वध्यानसमाधिसमापत्तिबोध्य्{अनुपलब्ध्या त्रिमण्डलपरिशुद्ध्या} ध्यान-
26610 पारमितां {परिशोधयति}। बोधाय आत्मसत्त्वसर्वधर्मा{नुपलब्ध्या त्रिमण्डलपरिशुद्ध्या} प्रज्ञापारमितां {परिशोधयति}।
26611 बोधाय सर्वकुशलमूलानि चानुत्तरायै सम्यक्संबोधये परिणामयति निर्विशेष-
26612 परिणामेनानुत्तरपरिणामेन असमसम{परिणामेन} अचिन्त्यातुल्य{परिणामेन} अप्रमेय{परिणामेन}॥
26613 [इयम् उच्यते लोकोत्तरा प्रज्ञापारमिता॥]
26614 केन कारणेन लौकिकी। लोको याभिर् भवति। लोकं वा याभिर् निवर्तयति।
26615 लोकेन वा याः समाः। लोकाय वा याभिर् दीयते। लोकात् वा याभिर् निःसरति।
26616 लोकस्य वा या भवाय। लोके वा भवा यास् ता लौकिक्यः।
26617 तत्र कतमा लोकोत्तरा। लोको याभिर् उत्तारयति। लोकं याभिर् उत्तारयति।
26618 लोकेन वा याभिर् उत्तार्यते। आलोकाय वा या भवति। लोकात् वा याभिर् निः-
26619 सरति। लोकस्य वा या उत्तरणाय। लोके वा या उत्तरास् ता लोकोत्तरा इति।
26620 एवं ह्य् {आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः षट्सु पारमितासु चरन् बोधिमार्गं
26621 परिशोधयति।
26622 {शारिपुत्र} आह। कतम {आयुष्मन्} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य बोधिमार्गः।
26701 {सुभूतिर्} आह। चत्वार्य् {आयुष्मन्} {शारिपुत्र} स्मृत्युपस्थानानि {बोधिसत्त्वस्य} महासत्त्वस्य बोधि-
26702 मार्गः। चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि
26703 बोध्यङ्गानि आर्याष्टाङ्गो मार्गः शून्यता{विमोक्षमुखम्} अनिमित्त{विमोक्षमुखम्} अप्रणिहित{विमोक्षमुखम्}
26704 अध्यात्म{शून्यता} बहिर्धा{शून्यता} अध्यात्मबहिर्धा{शून्यता} यावद् अभावस्वभाव{शून्यता} सर्वसमाधयः
26705 सर्वधारणीमुखानि चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमा-
26706 पत्तयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशा-
26707 वेणिका बुद्धधर्मा महाकरुणा अयम् उच्यते {आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वस्य} महासत्त्वस्य

26708 बोधिमार्गः।
26709 {शारिपुत्र} आह। कतमस्या {आयुष्मन् सुभूते} पारमिताया अयं पुरुषकारः।
26710 {सुभूतिर्} आह। प्रज्ञापारमिताया {आयुष्मन्} {शारिपुत्र} अयं पुरुषकारः। तत् कस्य
26711 हेतोः। तथा ह्य् {आयुष्मन्} {शारिपुत्र} प्रज्ञापारमिता जनयित्री सर्वेषां कुशलानां धर्माणां
26712 श्रावकप्रत्येकबुद्ध{धर्माणां} बोधिसत्त्व{धर्माणां} बुद्ध{धर्माणाम्}। प्रज्ञापारमिता {आयुष्मन्} {शारिपुत्र}
26713 प्रतिग्राहिका सर्वेषां कुशलानां {धर्माणां} श्रावकप्रत्येकबुद्ध{धर्माणां} बोधिसत्त्व{धर्माणाम्}। प्रज्ञापार-
26714 मितायाम् {आयुष्मन्} {शारिपुत्र} शिक्षित्वा तैः पौर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा
26715 सम्यक्संबोधिर् अभिसंबुद्धा। अनागता अप्य् {आयुष्मन्} {शारिपुत्र} तथागता अर्हन्तः
26716 सम्यक्संबुद्धा इहैव प्रज्ञापारमितायां शिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्-
26717 स्यन्ते। ये ऽप्य् एतर्हि {आयुष्मन्} {शारिपुत्र} दशसु दिक्षु लोके तथागता अर्हन्तः सम्यक्-
26718 संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं देशयन्ति ते ऽपि सर्वे इहैव
26719 प्रज्ञापारमितायां शिक्षित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः।
26720 सचेत् पुनर् {आयुष्मन्} {शारिपुत्र} अस्यां प्रज्ञापारमितायां भाष्यमाणायां {बोधिसत्त्वस्य}
26721 महासत्त्वस्य न भवति कांक्षायितत्वं न भवति धन्वायितत्वं वेदितव्यम् एतद् {आयुष्मन्}
26722 {शारिपुत्र} विहरत्य् अयं {बोधिसत्त्वो} महासत्त्वो ऽनेन विहारेणाविरहितश् चानेन मनसिकारेण
26723 यद् उत सर्वसत्त्वपरित्राणाय सर्वसत्त्वापरित्यागमनसिकारेण महाकरुणामनसि-
26724 कारेण।
26725 {शारिपुत्र} आह। यद् {आयुष्मान्} {सुभूतिर्} एवम् आह। विहरत्य् अयं {बोधिसत्त्वो} महासत्त्वो ऽनेन
26726 विहारेणाविरहितश् चानेन मनसिकारेणेति। एवं सत्य् {आयुष्मन्} {सुभूते} सर्वसत्त्वा अपि
26801 बोधिसत्त्वा भविष्यन्ति। तत् कस्य हेतोः। तथा ह्य् {आयुष्मन्} {सुभूते} सर्वसत्त्वा
26802 अविरहिता मनसिकारेण।
26803 {सुभूतिर्} आह। साधु साधु {आयुष्मन्} {शारिपुत्र} उपालप्स्ये त्वां अर्थ एवायुष्मता
26804 शारिपुत्रेण भूतपदाभिधानेन परिगृहीतः। तत् कस्य हेतोः। सत्त्वासत्तय्{आयुष्मन्}
26805 {शारिपुत्र} मनसिकारासत्ता वेदितव्या। सत्त्वशून्यतया मनसिकारशून्यता {वेदितव्या}।
26806 सत्त्वास्वभावतया मनसिकारास्वभावता {वेदितव्या}। सत्त्वविविक्ततया मनसिकार-
26807 विविक्तता {वेदितव्या}। सत्त्वानभिसंबोधनतया मनसिकारानभिसंबोधनता
26808 {वेदितव्या}। रूपासत्तया रूपशून्यतया रूपास्वभावतया रूपविविक्ततया
26809 रूपानभिसंबोधनतया मनसिकारानभिसंबोधनता {वेदितव्या}। वेदना संज्ञा
26810 संस्काराः। विज्ञानासत्तया {{विज्ञानशून्यतया विज्ञानास्वभावतया विज्ञानविविक्ततया विज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता}} {वेदितव्या}। एवं व्यस्तसमस्तेषु
26811 स्कन्ध{{धात्वायतनप्रतीत्यसमुत्पादेषु पारमितासु सर्वशून्यतासु सर्वबोधिपक्षेषु धर्मेषु अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु प्रतिसंवित्सु समाधिधारणीमुखेष्व् अभिज्ञासु अष्टादशावेणिकेषु}} बुद्धधर्मेषु सर्वाकारज्ञतासत्तया सर्वाकारज्ञता-
26812 शून्यतया {{सर्वाकारज्ञतास्वभावतया सर्वाकारज्ञताविविक्ततया सर्वाकारज्ञतानभिसंबोधनतया मनसिकारानभिसंबोधनता}} {वेदितव्या}। अनेन्{आयुष्मन्} {शारिपुत्र} विहारेणानेन च
26813 मनसिकारेण अविरहितो बोधिसत्त्वो महासत्त्व इति।
26814 अथ खलु भगवान् आयुष्मते स्हूतये साधुकारम् अदात्। साधु साधु सुभूते।
26815 एवं हि सुभूते {बोधिसत्त्वानां} महासत्त्वानां प्रज्ञापारमितोपदेष्टव्या यथा त्वम् उपदिशसि
26816 यथापि नाम तथागतानुभावेनैवं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां
26817 चरितव्यं यथा त्वम् उपदिशसि।
26818 अस्मिन् खलु पुनः प्रज्ञापारमितापरिवर्ते आयुष्मता सुभूतिना भाष्यमाणे
26819 त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारं प्रकम्पितो यावत् पूर्वोत्तरदक्षिण-
26820 पश्चिमायां विदिश्य् उन्नामावनामं गच्छति स्म।
26821 अथ खलु भगवांस् तस्यां वेलायां स्मितम् अकरोत्। अथ खल्व् {आयुष्मान्}

26822 {सुभूतिर्} भगवन्तम् एतद् अवोचत्। को भगवन् हेतुः कः प्रत्ययः स्मितस्य
26823 प्रादुर्भावाय। भगवान् आह। यथैव सुभूते इह लोकधातौ तथागतः
26824 प्रज्ञापारमितां निर्दिशति तथैव पूर्वस्यां दिश्य् असंख्येयेष्व् अप्रमेयेषु लोकधातुषु
26825 तथागता अर्हन्तः सम्यक्संबुद्धा बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां
26826 भ्गाषन्ते। एवं समन्ताद् दशसु दिक्ष्व् असंख्येयेष्व् अप्रमेयेषु
26901 {{लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां}} निर्दिशन्ति। अस्मिन् खलु पुनः सुभूतिना प्रज्ञापारमितानिर्देशे निर्दिश्यमाने
26902 द्वादशानाम् अयुतानां देवमानुषिकायाः प्रजाया अनुत्पत्तिकधर्मक्षान्तिप्रतिलम्भो
26903 ऽभूत्। तेषाम् अपि बुद्धानां भगवतां समन्ताद् दशसु दिक्षु लोकधातुषु इमां
26904 प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां भाषमाणानाम् असंख्येयानाम् अ-
26905 परिमाणानां सत्त्वानाम् अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पन्नानि॥ [इति
26906 मार्गनिर्याणम् इत्य् उक्ता निर्याणप्रतिपत्तिर् इत्य् उक्ता सर्वाकारज्ञता॥]
26907 आर्यपञ्चविंशतिसाहस्रिकायां बोधिसत्त्वधर्माणां भवत्यां प्रज्ञापारमितायाम् अभि-
26908 समयालङ्कारानुसारेण संशोधितायां सर्वाकारज्ञताधिकारः सुभूतिपरिवर्तः प्रथमः॥

मूल पाठ: Pañcaviṃśatisāhasrikā Prajñāpāramitā, 1 · Edition: Nalinaksha Dutt: Pañcaviṃśatisāhasrikā Prajñāpāramitā, Calcutta 1934 (Calcutta Oriental Series, 28). = PSP1 · Data entry Kenta Suzuki Koichi Takahashi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc