पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता · भाग 81100
सुभूतिर् आह: केन कारणेन भगवन्न् आत्मविशुद्ध्या सर्वज्ञताविशुद्धिः?
भगवान् आह: स्वलक्षणशून्यताम् उपादाय.
सुभूतिर् आह: द्वयविशुद्धिर् भगवन् न प्राप्तिर् नाभिसमयः.
भगवान् आह: अत्यन्तविशुद्धत्वात् सुभूते.
सुभूतिर् आह: केन कारणेन भगवन् द्वयविशुद्धिर् न प्राप्तिर् नाभिसमयः.
भगवान् आह: असंक्लेशाव्यवदानधर्मसमताम् उपादाय.
सुभूतिर् आह: आत्मापर्यन्ततया भगवन् रूपापर्यन्तता.
भगवान् आह: अत्यन्तविशुद्धत्वात् सुभूते.
सुभूतिर् आह: केन कारणेन भगवन्न् आत्मापर्यन्ततया रूपापर्यन्तता विशुद्धिः?
भगवान् आह: अत्यन्तशून्यता-अनवराग्रशून्यताम् उपादाय.
सुभूतिर् आह: आत्मापर्यन्ततया भगवन् वेदनासंज्ञासंस्कारा विज्ञानापर्यन्तता.
भगवान् आह: अत्यन्तविशुद्धत्वात् सुभूते.
सुभूतिर् आह: केन कारणेन भगवन्न् आत्मापर्यन्ततया वेदनासंज्ञासंस्कारा विज्ञानापर्यन्तताविशुद्धिः?
भगवान् आह: अत्यन्तशून्यता-अनवराग्रशून्यताम् उपादाय.
सुभूतिर् आह: एवं भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता.
(प्स्प्_2-3:164)
भगवान् आह: अत्यन्तविशुद्धत्वात् सुभूते.
सुभूतिर् आह: केन कारणेन भगवन्न् इयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता?
भगवान् आह: मार्गाकारज्ञताम् उपादायेयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता. इति मार्गस्य चोद्यपरिहाराचित्तान्तद्वयविशुद्धिभावनामार्ग इत्य् उक्ता मार्गज्ञता आर्यपञ्चविंशतिसाहस्रिकायां भगवत्यां प्रज्ञापारमितायाम् अभिसमयालंकारानुसारेण संशोधितायाम् अन्तद्वयविशुद्धिपरिवर्तो द्वितीयः
(प्स्प्_2-3:165)
पञ्ञ्चविंशतिसाहस्रिका प्रज्ञापारमिता इइइ
सुभूतिर् आह: प्रज्ञापारमिता भगवन् बोधिसत्त्वानां महासत्त्वानां नापरे तीरे न परे तीरे नोभयम् अन्तेरेणोपलभ्यते.
भगवान् आह: अत्यन्तविशुद्धत्वात् सुभूते.
सुभूतिर् आह: केन कारणेन भगवन् बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिता नापरे तीरे न परे तीरे नोभयम् अन्तरेणोपलभ्यते?
भगवान् आह: अत्यन्तविशुद्धत्वात् सुभूते त्र्यध्वसमतां सर्वधर्माणम् उपादाय. इत्य् उक्ता संसारनिर्वाणाप्रतिष्ठा
सुभूतिर् आह: सचेत् पुनर् भगवन् महायानिकः कुलपुत्रो वा कुलदुहिता वा अनुपायकुशल इमां प्रज्ञापारमिताम् एवं ज्ञास्यत्य् उपलम्भयोगेन रिञ्चिष्यति दूरीकरिष्यतीमां प्रज्ञापारमिताम्.
भगवान् आह: साधु साधु सुभूते. एवम् एतत् सुभूते. नामतो ऽपि सुभूते सङ्गो निमित्ततो ऽपि सुभूते सङ्गः. तत् कस्य हेतोर्? अनिमित्ता हि सुभूते सर्वधर्मा अनामकाः.
सुभूतिर् आह: कथं भगवन् नामतो ऽपि सङ्गो निमित्ततो ऽपि सङ्गः?
भगवान् आह: इह सुभूते महायानिकाः कुलपुत्राः कुलदुहितरो वा प्रज्ञापारमितां नामतो ऽपि ग्रहीष्यन्ति निमित्ततो ऽपि ग्रहीष्यन्ति निमित्ततश् च नामतश् च ग्रहीत्वा प्रज्ञापारमितां रिञ्चिष्यन्ति दूरीकरिष्यन्ति. ते प्रज्ञापारमितां मन्यमाना रिञ्चिष्यन्ति दूरीकरिष्यन्ति प्रज्ञापारमिताम्. इत्य् उक्तम् अनुपायेन दूरत्वम्
सुभूतिर् आह: आश्चर्यं भगवन् यावद् इयं प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां स्वाख्याता च सुपरिनिष्ठिता चामी सङ्गा अमी चासङ्गाः.
(प्स्प्_2-3:166)
इत्य् उक्तोपायेनापि दुरता
अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्; कतम आयुष्मन् सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितायां चरतां सङ्गः कतमो ऽसङ्गः?
सुभूतिर् आह: इहायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः कुलपुत्रो वा कुलदुहिता वा अनुपायकुशलो रूपं शून्यम् इति संज्ञास्यते सङ्गः, वेदना संज्ञासंस्कारा विज्ञानं शून्यम् इति संज्ञास्यते सङ्गः. एवं व्यस्तसमस्तानि स्कन्धधात्वायतनानि प्रतीत्यसमुत्पादाङ्गानि शून्यानीति संज्ञास्यते सङ्गः. दानपारमिता शून्येति संज्ञास्यते सङ्गः, शीलपारमिता शून्येति संज्ञास्यते सङ्गः, क्षान्तिपारमिता शून्येति संज्ञास्यते सङ्गः, वीर्यपारमिता शून्येति संज्ञास्यते सङ्गः, ध्यानपारमिता शून्येति संज्ञास्यते सङ्गः, प्रज्ञापारमिता शून्येति संज्ञास्यते सङ्गः. एवं स्मृत्युपस्थानानि शून्यानीति संज्ञास्यते सङ्गः. सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाः शून्या इति संज्ञास्यते सङ्गः. आर्यसत्यानि शून्यानीति संज्ञास्यते सङ्गः. अप्रमाणध्यानारूप्यसमापत्तयः शून्या इति संज्ञास्यते सङ्गः. अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितानि शून्यानीति संज्ञास्यते सङ्गः. एवम् अभिज्ञाः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि शून्यानीति संज्ञास्यते सङ्गः. दशतथागतबलानि चत्वारि वैशारद्यां शून्यानीति संज्ञास्यते सङ्गः. चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा शून्या इति संज्ञास्यते सङ्गः. सर्वज्ञता शून्येति संज्ञास्यते सङ्गः.
पुनर् अपरम् आयुष्मन् शरिपुत्र बोधिसत्त्वो महासत्त्वो ऽनुपायकुशलो ऽतीतान् धर्मान् अतीता धर्मा इति संज्ञास्यते सङ्गः. अनागतान् धर्मान् अनागता धर्मा इति संज्ञास्यते सङ्गः. प्रत्युत्पन्नान् धर्मान् प्रत्युत्पन्ना धर्मा इति संज्ञास्यते सङ्गः.
पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्व उपलम्भयोगेन प्रथमचित्तोत्पादम् उपादाय दानपारमितायां चरतीति सङ्गः. शीलपारमितायां चरतीति सङ्गः, क्षान्तिपारमितायां चरतीति सङ्गः, वीर्यपारमितायां चरतीति सङ्गः, ध्यानपारमितायां चरतीति सङ्गः, प्रज्ञापारमितायां चरतीति सङ्गः. स्मृत्युपस्थानेषु चरतीति सङ्गः सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरतीति सङ्गः. एवम् अप्रमाणध्यानारूप्यसमापत्तिसु चरतीति सङ्गः. आर्यसत्येषु शून्यतानिमित्ताप्रणिहितेष्व् अष्टविमोक्षेषु (प्स्प्_2-3:167) नवानुपूर्वविहारसमापत्तिष्व् अभिज्ञासु सर्वशून्यतासु सर्वसमाधिषु सर्वधारणीमुखेषु चरतीति सङ्गः. दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु चरतीति सङग्ः, यावत् सर्वज्ञतायां चरतीति सङ्गः. इति विपक्षः
यत् पुनर् आयुष्मन् शारिपुत्रैवं वदसि, कतमो बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितायां चरताम् असङ्ग इति. न खलु पुनः शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकुशलस्यैवं भवति, न रूपं रूपं संजानीते, एवं वेदनासंज्ञासंस्कारा न विज्ञानं विज्ञानं संजानीते. नातीता धर्मा अतीतान् धर्मान् संजानीते. नानागता धर्मा अनागतान् धर्मान् संजानीते. न प्रत्युत्पन्ना धर्माः प्रत्युत्पन्नान् धर्मान् संजानिते. न खलु पुनः शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकुशलस्यैवं भवति, अहं दानं ददामि, अस्मै दानं ददामि, इदं दानं ददामि, अहं शीलं रक्षामि, इदं शीलं रक्षामि, एभ्यः शीलं रक्षामि, अहं क्षान्तिं भावयामि, इमां क्षान्तिं भावयामि, एषु क्षान्तिं भावयामि, अहं वीर्यं आरभे, इदं वीर्यम् आरभे, एषाम् अर्थाय वीर्यम् आरभे, अहं ध्यानं समापद्ये, इदं ध्यानं समापद्ये, एवं ध्यानं समापद्ये, अहं प्रज्ञां भावयामि, इमां प्रज्ञां भावयामि, अस्मै प्रज्ञां भावयामि, अहं पुण्यं प्रसवामि, एवं पुण्यं प्रसवामि, अहं बोधिसत्त्वनियामम् अवक्रमामि, अहं बुद्धक्षेत्रं परिशोधयिष्यामि, अहं सत्त्वान् परिपाचयिष्यामि, अहं सर्वज्ञताम् अनुप्राप्स्ये, सर्वे त आयुष्मन् शारिपुत्र बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितायां चरताम् उपायकुशलानां विकल्पा न सन्ति. तत् कस्य हेतोः? अध्यात्मशून्यताम् उपादाय बहिर्धाशून्यताम् उपादायाध्यात्मबहिर्धाशून्यताम् उपादाय, यावद् अभावस्वभावशून्यताम् उपादाय, इमे त आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकुशलस्यासङ्गः. इति प्रतिपक्षः
अथ खलु शक्रो देवानाम् इन्द्रः स्थविरं सुभूतिम् एतद् अवोचत्: कतमेन भदन्त सुभूते पर्यायेण बोधिसत्त्वस्य महासत्त्वस्य सङ्गो भवति?
सुभूतिर् आह: इह कौशिक बोधिसत्त्वश् चित्तं संजानीते. दानं संजानीते. एवं शीलं क्षान्तिं वीर्यं ध्यानं प्रज्ञां संजानीते. अध्यात्मशून्यतां संजानीते, बहिर्धाशून्यतां संजानीते, अध्यात्मबहिर्धाशून्यतां संजानिते, यावद् अभावस्वभावशून्यतां संजानीते. एवं सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तीः शून्यतानिमित्ताप्रणिहिताभिज्ञाः समाधीन् धारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः. (प्स्प्_2-3:168) प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् संजानीते. बुद्धान् भगवतः संजानीते. बुद्धावरोपितकुशलमूलानि संजानीते तानि सर्वाण्य् अभिसंक्षिप्य पिण्डयित्वा तुलयित्वा अनुत्तरायै सम्यक्संबोधये परिणामयति. अयं कौशिक बोधिसत्त्वस्य महासत्त्वस्य सङ्गः, येन न शक्नोत्य् असङ्गायां प्रज्ञापारमितायां चरितुम्. तत् कस्य हेतोः.? न हि कौशिक रूपस्य प्रकृतिः शक्या परिणामयितुं, न वेदनाया न संज्ञाया न संस्काराणां न विज्ञानस्य कौशिक प्रकृतिः शक्या परिणामयितुम्. एवं व्यस्तसमस्तानां स्कन्धधात्वायतनानां प्रतीत्यसमुत्पादस्य न च शक्या प्रकृतिः परिणामयितुम्. एवं पारमितानां सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनां शून्यतानिमित्ताप्रणिहितानाम् अष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनाइन् अभिज्ञानां समाधीनां धारणीमुखानां सर्वशून्यतानां दशानां तथागतबलानां वैशारद्यानां प्रतिसंविदाम् आवेणिकानां बुद्धधर्माणां न शक्या प्रकृतिः परिणामयितुम्. न हि कौशिक सर्वाकारज्ञतायाः प्रकृतिः. शक्या परिणामयितुम्. इति पुनर्विपक्षः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन परान् संदर्शयितुकामेन समादापयितुकामेन समुत्तेजयितुकामेन संप्रहर्षयितुकामेनानुत्तरायै सम्यक्संबोधये यथा भूतानुगमेन मानसेन परे संदर्शयितव्याः समादापयितव्याः समुत्तेजयितव्याः संप्रहर्षयितव्याः. तथा च पुनः संप्रहर्षयितव्या यथा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न विकल्पम् आपद्यते, अहं दानं ददामि, अहं शीलं रक्षाम्य्, अहं क्षान्तिं भावयाम्य्, अहं वीर्यम् आरभे, ऽहं ध्यानं समापद्ये, ऽहं प्रज्ञां भावयाम्य्, अहम् अध्यात्मशून्यतायां चराम्य्, अहं बहिर्धाशून्यतायां चराम्य्, अहम् अध्यात्मबहिर्धाशून्यतां चराम्य्, अहं यावद् अभावस्वभावशून्यतायां चराम्य्, अहं सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् भावयाम्य्, अहम् आर्यसत्यानि भावयाम्य्, अहम् अप्रमाणध्यानारूप्यसमापत्तीः समापद्ये, ऽहं शून्यतानिमित्ताप्रणिहितं भावयाम्य्, अहम् अष्टविमोक्षान् भावयाम्य्, अहं नवानुपूर्वविहारसमापत्तीः समापद्ये, ऽहं समाधिं समापद्ये, ऽहं धारणीमुखानि समापद्ये, ऽहं दशबलवैशारद्यानि प्रतिसंविदावेणिकान् बुद्धधर्मान् भावयाम्य्, अहं बोधये चरामीत्य्. एवं बोधिसत्त्वो महासत्त्वः परं संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति, आत्मानं च न क्षिणोति, परांश् च बुद्धानुज्ञातायां समादापरिआयां संप्रहर्षयत्य्, एवं हि कौशिक बोधिसत्त्वेन महासत्त्वेनानुत्तरायै सम्यक्संबोधये (प्स्प्_2-3:169) संदर्शयितव्यः समादापयितव्यः समुत्तेजयितव्यः संप्रहर्षयितव्यः. एवं हि कुलपुत्रेण वा कुलदुहित्रा वा सर्वाः सङ्गकोट्यः परिवर्जिता भविष्यन्ति. इति पुनर्प्रतिपक्षः
अथ खलु भगवान् आयुष्मन्तं सुभूतिम् आमन्त्रयामास: साधु साधु सुभूते यस् त्वं बोधिसत्त्वानां महासत्त्वानाम् इमाः सङ्गकोटिर् उद्दिशसि. अपरास् ते सुभूते सङ्गकोटीः सूक्ष्मतरा निर्देक्ष्यामि ताः शृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये ऽहं ते. एवं भगवन्न् इत्य् आयुष्मान् सुभूतिर् भगवतः प्रत्यश्रौषीत्.
भगवान् एतद् अवोचत्: इह सुभूते कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ संप्रस्थितस् तथागतान् निमित्ततो मनसिकरोति यावत् सुभूते निमित्तं तावत् सङ्गः. यद् अपि तेषां तथागतानां प्रथमचित्तोत्पादम् उपादाय यावच् चानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धानां यावद् अनुपधिशेषे निर्वाणधातौ परिनिर्वृतानां यावत् सद्धर्मस्थितिर् एतस्मिन्न् अन्तरे यत् किंचित् कुशलमूलं तत् सर्वं निमित्ततो मनसिकरोति मनसिकृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, यावत् सुभूते निमित्ततो मनसिकरोति तावत् सङ्गः. यान्य् अपि तेषां तथागतानां सर्वसङ्गापगतानां सर्वसङ्गापगतानि कुशलमूलानि, ततो ऽन्येषाम् अपि सत्त्वानां यानि कुशलमुलानि तान्य् अपि निमित्ततो मनसिकरोति मनसिकृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, यावत् सुभूते निमित्ततो मनसिकरोति तावत् सङ्गः. तत् कस्य हेतोर्? न हि ते तथागता निमित्ततो मनसिकर्तव्या, न च तेषाम् अन्येषां वा कुशलमूलानि निमित्ततो मनसिकर्तव्यानि. इति सूक्ष्मसङ्गः
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: गम्भिरा भगवन् प्रज्ञापारमिता.
भगवान् आह: प्रकृतिविविक्तत्वात् सुभूते सर्वधर्माणाम्.
सुभूतिर् आह: नमसिकरोमि भगवन् प्रज्ञापारमितायै.
भगवान् आह: तथा हि सुभूते अकृता प्रज्ञापारमितानभिसंस्कृता न सा केनचिच् छक्याभिसंबोद्धुम्. इति धर्मगम्भीर्यम्
सुभूतिर् आह: सर्वधर्मा भगवन् दुरभिसंबोधाः.
भगवान् आह: तथा हि सुभूते न द्वे धर्मप्रकृती एकैव सुभूते (प्स्प्_2-3:170) धर्मप्रकृतिर्, या च बुद्धधर्मप्रकृतिः. साप्रकृतिः, याप्रकृतिः सा प्रकृतिर्, या प्रकृतिः सानभिसंस्कृतः. एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन एकां प्रकृतिम् अप्रकृतिम् अनभिसंस्कृतिं जानता पश्यता सर्वाः सङ्गकोट्यो विवर्जिता भवन्ति. इति सर्वसङ्गवर्जनम्
सुभूतिर् आह: दुरभिसंबोधा भगवन् प्रज्ञापारमिता.
भगवान् आह: तथा हि सुभूते प्रज्ञापारमिता न केनचिद् दृष्टा न श्रुता न मता न विज्ञाता नाभिसंबुद्धा. इति दुर्बोधता
सुभूतिर् आह: अचिन्त्या भगवन् प्रज्ञापारमिता.
भगवान् आह: तथा हि सुभूते प्रज्ञापारमिता न केनचिद् विज्ञाता, न रूपेण न वेदनया न संज्ञया न संस्कारैर् न विज्ञानेन ज्ञाता यावन् न व्यस्तसमस्तैः स्कन्धधात्वायतनैः प्रतीत्यसमुत्पादाङ्गैर् न पारमिताभिर् न बोधिपक्ष्यैर् धर्मैर् नाप्रमाणध्यानारूप्यसमापत्तिभिर् नाष्टविमोक्षैर् न नवभिर् अनुपूर्वविहारसमापत्तिभिर् न शून्यतानिमित्ताप्रणिहितैर् नाभिज्ञाभिर् न सर्वशून्यताभिर् न सर्वसमाधिभिर् न सर्वधारणीमुखैर् न तथागतबलैर् न वैशारद्यैर् न प्रतिसंविद्भिर् नावेणिकैर् बुद्धधर्मैर् ज्ञाता.
सुभूतिर् आह: कारिका भगवन् प्रज्ञापारमिता.
भगवान् आह: सर्वधर्मानुपलब्धितः कारिका सुभूते प्रज्ञापारमिता. इत्य् अचिन्त्यत्वम् इत्य् उक्तौ विपक्षप्रतिपक्षौ
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्, सचेद् रूपे न चरति चरति प्रज्ञापारमितायां, सचेद् न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने न चरति चरति प्रज्ञापारमितायाम्. एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु न चरति चरति प्रज्ञापारमितायाम्. एवं सर्वपारमितासु सर्वशून्यतासु सर्वसमाधिषु सर्वधारणीमुखेषु स्मृत्युपस्थानेषु सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गेष्व् आर्याष्टाङ्गे मार्गे न चरति चरति प्रज्ञापारमितायाम्. आर्यसत्येषु न चरति चरति प्रज्ञापारमितायाम्. अष्टसु विमोक्षेषु नवानुपूर्वविहारसमापत्तिसु शून्यतानिमित्ताप्रणिहितेषु न चरति चरति प्रज्ञापारमितायाम्. दशसु तथागतबलेषु वैशारद्येषु प्रतिसंवित्स्व् आवेणिकेषु बुद्धधर्मेषु न चरति चरति प्रज्ञापारमितायाम्. सर्वज्ञतायाम् अपि न चरति चरति प्रज्ञापारमितायाम्.
इति रूपादिप्रयोगः
(प्स्प्_2-3:171)
सचेद् रूपं न नित्यं नानित्यम् इति चरति चरति प्रज्ञापारमितायां, रूपं न सुखं न दुःखम् इति चरति चरति प्रज्ञापारमितायां, रूपं नात्मा नानात्मेति चरति चरति प्रज्ञापारमितायां, रूपं न शुभं नाशुभम् इति चरति चरति प्रज्ञापारमितायां, वेदनासंज्ञासंस्कारा विज्ञानं न नित्यं नानित्यम् इति चरति चरति प्रज्ञापारमितायां, विज्ञानं न सुखं न दुःखं इति चरति चरति प्रज्ञापारमितायां विज्ञानं नात्मा नानात्मेति चरति चरति प्रज्ञापारमितायां विज्ञानं न शुभं नाशुभम् इति चरति चरति प्रज्ञापारमितायाम्. एवं व्यस्तसमस्तस्कन्धधात्वायतनानि प्रतीत्यसमुत्पादाङ्गानि स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहितान्य् अभिज्ञाः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा यावत् सर्वज्ञता न नित्या नानित्येति चरति चरति प्रज्ञापारमितायां, सर्वज्ञता न सुखा न दुःखेति चरति चरति प्रज्ञापारमितायां, सर्वज्ञता नात्मा नानात्मेति चरति चरति प्रज्ञापारमितायां, सर्वज्ञता न शुभा नाशुभेति चरति चरति प्रज्ञापारमितायाम्. तत् कस्य हेतोः? न तद् रूपं तथा संविद्यते यस्य नित्यं वा अनित्यं वा सुखं वा दुःखं वा आत्मा वा अनात्मा वा शुभं वा अशुभं वा, वेदनासंज्ञासंस्कारा न तद् विज्ञानं तथा संविद्यते यस्य नित्यं वा अनित्यं वा सुखं वा दुःखं वा आत्मा वा अनात्मा वा शुभं वा अशुभं वा. एवं व्यस्तसमस्तस्कन्धधात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्या धर्मा आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयो ऽष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहिताभिज्ञाः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा यावन् न सा सर्वज्ञता तथा संविद्यते यस्या नित्यं वा अनित्यं वा सुखं वा दुःखं वा आत्मा वा अनात्मा वा शुभं वा अशुभं वा. इति रूपाद्यनित्यादिप्रयोगः
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सचेद् रूपम् अपरिपूर्णं परिपूर्णम् इति न चरति चरति प्रज्ञापारमितायां, वेदनासंज्ञासंस्कारा विज्ञानम् अपरिपूर्णं परिपूर्णम् इति न चरति चरति प्रज्ञापारमितायाम्, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गान्य् अपरिपूर्णानि परिपूर्णानीति न चरति चरति प्रज्ञापारमितायाम्. एवं सर्वपारमिताः (प्स्प्_2-3:172) सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखान्य् अपरिपूर्णानि परिपूर्णानीति न चरति चरति प्रज्ञापारमितायाम्. एवं स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा अपरिपूर्णाः परिपूर्णा इति न चरति चरति प्रज्ञापारमितायाम्. एवम् आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः, अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितान्य् अभिज्ञा अपरिपूर्णाः परिपूर्णा इति न चरति चरति प्रज्ञापारमितायाम्. एवं दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अपरिपूर्णाः परिपूर्णा इति न चरति चरति प्रज्ञापारमितायां यावत् सर्वज्ञता अपरिपूर्णाः परिपूर्णा इति न चरति चरति प्रज्ञापारैनितायां. तत् कस्य हेतोः? रूपस्यापरिपूर्णता परिपूर्णता वा या न तद् रूपम् एवम् अपि न चरति चरति प्रज्ञापारमितायां, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यापरिपूर्णता परिपूर्णता वा या न तद् विज्ञानम् एवम् अपि न चरति चरति प्रज्ञापारमितायाम्. एवं यावत् सर्वज्ञताया अपरिपूर्णता परिपूर्णता वा या न सा सर्वज्ञता एवम् अपि न चरति चरति प्रज्ञापारमितायाम्. इति रूपाद्यपरिपूरिप्रयोग.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावद् अयं बोधिसत्त्वानां महासत्त्वानां सङ्गश् चासङ्गश् चाख्यातः.
भगवान् आह: एवम् एतत् सुभूते स्वाख्यातः. सुभूते तथागतेनार्हता सम्यक्संबुद्धेन बोधिसत्त्वानां महासत्त्वानां सङ्गश् चासङ्गश् च.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं सङ्गम् असङ्गम् इति न चरति चरति प्रज्ञापारमितायां, वेदनासंज्ञासंस्कारा विज्ञानं सङ्गम् असङ्गम् इति न चरति चरति प्रज्ञापारमितायाम्. चक्षुः सङ्गम् असङ्गम् इति न चरति चरति प्रज्ञापारमितायाम्, एवं श्रोत्रं घ्राणं जिह्वा कायो मनः सङ्गम् असङ्गम् इति न चरति चरति प्रज्ञापारमितायाम्. एवं सर्वायतनेषु धातुषु च दानपारमिता ससङ्गासङ्गेति न चरति, चरति प्रज्ञापारमितायाम्, एवं शीलं क्षान्तिं वीर्यं ध्यानं प्रज्ञापारमिता ससङ्गासङ्गेति न चरति चरति प्रज्ञापारमितायाम्. एवं सप्तत्रिंशद्बोधिपक्ष्या धर्मा आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः ससङ्गा असङ्गा इति न चरति चरति प्रज्ञापारमितायां, शून्यतानिमित्ताप्रणिहितान्य् अभिज्ञाः सर्वशून्यताः ससङ्गा असङ्गा इति न चरति चऋअति प्रज्ञापारमितायाम्. एवं दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः सर्वसमाधयः सर्वधारणीमुखानि सऋवज्ञता ससङ्गासङ्गेति (प्स्प्_2-3:173) न चरति चरति प्रज्ञापारमितायाम्.
एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वो न रूपं ससङ्गम् असङ्गम् इति, न वेदना न संज्ञा न संस्कारा न विज्ञानं ससङ्गम् असङ्गम् इति संजानीते. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादपारमिताशून्यताबोधिपक्ष्या धर्मा आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयो ऽभिज्ञाशून्यतानिमित्ताप्रणिहितसमाधिधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा न ससङ्गा असण्गा इति संजानीते. प्रज्ञापारमितायां चरन् सर्वज्ञता न ससङ्गासङ्गेति संजानीते. न स्रोतआपत्तिफलं न सकृदागामिफलं नानागामिफलं नार्हत्त्वं न प्रत्येकबोधिर् नानुत्तरा सम्यक्संबोधिः. ससङ्गासङ्गेति संजानीते. इति रूपादिष्व् असङ्गप्रयोगः
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आश्चर्यम् एतद् भगवन् यावद् इयं गम्भीरा प्रज्ञापारमिता देश्यमानापि न हीयते, अदेश्यमानापि न हीयते, देश्यमानापि न वर्धते, अदेश्यमानापि न वर्धते.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते प्रज्ञापारमिता देश्यमानापि न हीयते, अदेश्यमानापि न हीयते, देश्यमानापि न वर्धते, अदेश्यमानापि न वर्धते. तद्यथापि नाम सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो यावज्जीवं तिष्ठन्न् आकाशस्य वर्णं भाषेत अवर्णं वा, न खलु पुनर् आकाशस्य वर्णे भाष्यमाणे वृद्धिर् अवर्णे भाष्यमाणे हानिः, न चाकाशं वर्णेन वर्धते अवर्णेन हीयते.
इत्य् अधिकारप्रयोगः
तद्यथापि नाम सुभूते मायापुरुषो वर्णे भाष्यमाणे न वर्धते, अवर्णे भाष्यमाणे न परिहीयते, वर्णे भाष्यमाणे नानुनीयते, अवर्णे भाष्यमाणेन प्रतिहन्यते. एवम् एव सुभूते या धर्माणां धर्मता सा देशितापि तावत्य् एव, अदेशितापि तावत्य् एव. इत्य् अकर्तृप्रयोगः
सुभूतिर् आह: दुष्करकारको भगवन् बोधिसत्त्वो महासत्त्वो यः प्रज्ञापारमितायां चरन् प्रज्ञापारमितायां भाष्यमाणायां न संसीदति, न विपृष्ठीभवति मानसम्, अत्र च प्रज्ञापारमितायां योगम् आपद्यते, न च प्रत्युदावर्तते ऽनुत्तरायाः सम्यक्संबोधेः. तत् कस्य हेतोः? आकाशभावनैषा भगवन् यद् उत प्रज्ञापारमिताभावना, न चाकाशे प्रज्ञापारमिता प्रज्ञायते, न ध्यानपारमिता न वीर्यपारमिता न क्षान्तिपारमिता न शीलपारमिता न दानपारमिता प्रज्ञायते. नाकाशे रूपं प्रज्ञायते, न वेदना न संज्ञा न (प्स्प्_2-3:174) संस्कारा नाकाशे विज्ञायते. नाकाशे ऽध्यात्मशून्यता प्रज्ञायते, न बहिर्धाशून्यता प्रज्ञायते, नाध्यात्मबहिर्धाशून्यता प्रज्ञायते, यावन् नाभावस्वभावशून्यता प्रज्ञायते. नाकाशे स्मृत्युपस्थानानि प्रज्ञायन्ते. नाकाशे सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाः प्रज्ञायन्ते. नाकाश आर्यसत्यानि प्रज्ञायन्ते. नाकाशे ऽप्रमाणध्यानारूप्यसमापत्तयः प्रज्ञायन्ते. नाकाशे ऽष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते. नाकाशे शून्यतानिमित्ताप्रणिहिताभिज्ञाः प्रज्ञायन्ते. नाकाशे समाधिधारणीमुखानि प्रज्ञायन्ते. नाकाशे समाधिधारणीमुखानि प्रज्ञायन्ते. नाकाशे शमथविपश्यना प्रज्ञायते. नाकाशे दशतथागतबलानि प्रज्ञायन्ते. नाकाशे चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः प्रज्ञायन्ते. नाकाशे ऽष्टादशावेणिका बुद्धधर्माः प्रज्ञायन्ते. नाकाशे स्रोतआपत्तिफलं प्रज्ञायते. नाकाशे सकृदागामिफलं प्रज्ञायते. नाकाशे ऽनागामिफलं प्रज्ञायते. नाकाशे ऽर्हत्त्वं प्रज्ञायते. नाकाशे प्रत्येकबोधिः प्रज्ञायते. नाकाशे ऽनुत्तरा सम्यक्संबोधिः प्रज्ञायते.
सुभूतिर् आह: नमस्करोमि भगवन् बोधिसत्त्वेभ्यो महासत्त्वेभ्यो यैर् अयं संनाहः संनद्धः. आकाशस्य ते भगवन् कृतशः प्रयोक्तुकामा यतितुकामा ध्यायतुकामा ये सत्त्वानां कृतशः संनाहं संनह्यन्ते. आकाशं ते भगवन् परिमोचयितुकामा ये सत्त्वानां कृतशः संनाहं संनह्यन्ते. महासंनाहसंनद्धास् ते भगवन् बोधिसत्त्वा महासत्त्वा ये आकाशसमानां धर्माणां कृतशः संनाहं संनह्यन्ते. इत्य् उद्देशदुष्करताप्रयोगः
आकाशं ते भगवन्न् अन्तरीक्षम् उत्क्षेप्तुकामा ये सत्त्वानां कृतशः संनाहं संनह्यन्ते. इति प्रयोगदुष्करताप्रयोगः
महावीर्यपारमिताप्राप्तास् ते भगवन् बोधिसत्त्वा महासत्त्वा ये सत्त्वानां कृतशो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोधुकामाः. तत् कस्य हेतोः? सचेद् भगवन्न् अयं त्रिसाहस्रमहासाहस्रो लोकधातुस् तथागतैः परिपूर्णः स्यात्, तद्यथापि नाम नडस्वनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा, ते तथागताः कल्पं वा कल्पावशेषं वा धर्मं देशयेयुः, एकैकश् च तथागतो ऽप्रमेयान् असंख्येयान् अपरिमानान् सत्त्वान् परिनिर्वापयेत्, न च भगवन् सत्त्वधातोर् ऊनत्वं वा पूर्णत्वं वा प्रज्ञायते. तत् कस्य हेतोः? सत्त्वासद्भूतताम् उपादाय, सत्त्वविविक्तताम् उपादाय. एवम् एकैकस्यां दिशि यावद् दशसु दिक्षु सर्वलोकधातवस् तथागतैः परिपूर्णा (प्स्प्_2-3:175) भवेयुः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा, ते च तथागतास् तिष्ठन्तः कल्पं वा कल्पावशेषं वा धर्मं देशयेयुः, एकैकश् च तथागतो ऽप्रमेयान् असंख्येयान् अपरिमाणान् सत्त्वान् परिनिर्वापयेत्, न च भगवन् सत्त्वधातोर् ऊनत्वं वा पूर्णत्वं वा प्रज्ञायते. तत् कस्य हेतोः? सत्त्वासद्भूतताम् उपादाय, सत्त्वविविक्तताम् उपादाय. अनेन भगवन् पर्यायेणैवं वदामि; आकाशं ते भगवन् परिमोचयितुकामा ये सत्त्वानां कृतशो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोधुकामाः. इति कारित्रदुष्करताप्रयोगः.
अथ खल्व् अन्यतरस्य भिक्षोर् एतद् अभवत्: नमस्करोमि भगवन् भगवत्यै प्रज्ञापारमितायै यत्र न कश्चिद् धर्म उपलभ्यते न निरुध्यते, शीलस्कन्धश् च प्रज्ञायते, समाधिस्कन्धश् च प्रज्ञायते, प्रज्ञास्कन्धश् च प्रज्ञायते, विमुक्तिस्कन्धश् च प्रज्ञायते, विमुक्तिज्ञानदर्शनस्कन्धश् च प्रज्ञायते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबुद्धत्वं प्रज्ञायते, तथागतो ऽर्हन् सम्यक्संबुद्धः प्रज्ञायते, त्रीणि रत्नानि प्रज्ञायन्ते, बुद्धधर्मसंघरत्नानि प्रज्ञयन्ते, धर्मचक्रप्रवर्तनं प्रज्ञायते. इत्य् अवन्ध्यप्रयोगः
अथ खलु शक्रो देवानाम् इन्द्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यो भदन्त सुभूते गम्भीरायां प्रज्ञापारमितायां बोधिसत्त्वो महासत्त्वो योगम् आपत्स्यते क्व योगम् आपत्स्यते?
सुभूतिर् आह: आकाशे स कौशिक योगम् आपत्स्यते यो ऽत्र गम्भीरायां प्रज्ञापारमितायां शिक्षितव्यं मंस्यते.
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: यो भगवन् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति कामम् अहं भगवंस् तस्य रक्षावरणगुप्तिं संविधास्यामि.
सुभूतिर् आह: समनुपश्यसि त्वं कौशिक तं धर्मं यस्य रक्षावरणगुप्तिं संविधातुम् इच्छसि?
शक्र आह: नाहं भदन्त सुभूते तं धर्मं समनुपश्यामि यस्य रक्षावरणगुप्तिं संविधास्यामि.
सुभूतिर् आह: सचेत् कौशिक कुलपुत्रा वा कुलदुहितरो वा यथोपदिष्टायां प्रज्ञापारमितायां स्थास्यन्ति सैवैषां रक्षावरणगुप्तिर् भविष्यति. अथ (प्स्प्_2-3:176) विरहिता भविष्यन्ति यथोपदिष्टया प्रज्ञापारमितया लप्स्यन्ते तेषां मनुष्याश् चामनुष्याश् चावतारम्. आकाशस्य स कौशिक रक्षावरणगुप्तिं संविधातव्यां मन्येत, यो बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितायां चरतां रक्षावरणगुप्तिं संविधातव्यां मन्येत. तत् किं मन्यसे? कौशिक प्रतिबलस् त्वं मायामरीचिस्वप्नप्रतिश्रुत्काप्रतिभासप्रतिविंबगन्धर्वनगराणां रक्षावरणगुप्तिं संविधातुम्.
शक्र आह: नो भदन्त सुभूते.
सुभूतिर् आह: एवम् एव कौशिक यो बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितायां चरतां रक्षावरणगुप्तिं संविधातव्यां मन्येत, स यावद् एव विघातस्य क्लमथस्य च भागी स्यात् तत् किं मन्यसे? कौशिक प्रतिबलस् त्वं तथागतस्य वा तथागतनिर्मितस्य वा रक्षावरणगुप्तिं संविधातुम्.
शक्र आह: नो भदन्त सुभूते.
सुभूतिर् आह: एवम् एतत् कौशिक यो बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितायां चरतां रक्षावरणगुप्तिं संविधातव्यां मन्येत स यावद् एव विघतस्य क्लमथस्य च भागी स्यात्. तत् किं मन्यसे? कौशिक प्रतिबलस्त्वं धर्मधातोर् भूतकोटेस् तथताया अचिन्त्यधातो रक्षावरणगुप्तिं संविधातुम्.
शक्र आह: नो भदन्त सुभूते.
सुभूतिर् आह: एवम् एव कौशिक यो बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितायां चरतां रक्षावरणगुप्तिं संविधातव्यां मन्येत स यावद् एव विघतस्य क्लमथस्य च भागी स्यात्. इत्य् अपरप्रत्ययप्रयोगः
शक्र आह: कियता भदन्त सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता स्वप्नोपमाः सर्वधर्मा मायोपमा मरीच्युपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमा गन्धर्वनगरोपमा निर्मितोपमाः सर्वधर्माश् चपरिज्ञाता भवन्ति.
सुभूतिर् आह: यदा बोधिसत्त्वा महासत्त्वाः स्वप्नम् अपि न मन्यन्ते, स्वप्नेन न मन्यन्ते, स्वप्नं ममेति न मन्यन्ते, स्वप्ने ऽपि न मन्यन्ते. एवं यावद् निर्मितम् अपि न मन्यन्ते, निर्मितेन न मन्यन्ते, निर्मितं ममेति न मन्यन्ते, निर्मिते ऽपि न मन्यन्ते, तदा बोधिसत्त्वैर् महासत्त्वैः स्वप्नोपमाः सर्वधर्मा यावन् निर्मितोपमाश् च सर्वधर्माः परिज्ञाता भवन्ति. इति सप्तविधाभिज्ञानप्रयोग इत्य् उक्तः प्रयोगः
पुनर् अपरं कौशिक बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् (प्स्प्_2-3:177) रूपं न मन्यते, रूपेण न मन्यते, रूपं ममेति न मन्यते, रूपे ऽपि मन्यते. स्वप्नं न मन्यते, स्वप्नेन न मन्यते, स्वप्नं ममेति न मन्यते, स्वप्ने ऽपि न मन्यते, यावन् निर्मितं न मन्यते, निर्मितेन न मन्यते, निर्मितं ममेति न मन्यते, निर्मिते ऽपि न मन्यते, वेदनासंज्ञासंस्कारा विज्ञानं न मन्यते, विज्ञानेन न मन्यते, विज्ञानं ममेति न मन्यते, विज्ञाने ऽपि न मन्यते. एवं व्यस्तसमस्ताः स्कन्धधात्वायतनानि प्रतित्यसमुत्पादः सर्वपारमिताः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि सप्तत्रिंशद्बोधिपक्ष्या धर्मा आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयो ऽष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितान्य् अभिज्ञा दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा यावत् सर्वज्ञतां न मन्यते, सर्वज्ञतया न मन्यते, सर्वज्ञतां ममेति न मन्यते, सर्वज्ञतायाम् अपि न मन्यते, स्वप्नं न मन्यते, स्वप्नेन न मन्यते, स्वप्नं ममेति न मन्यते, स्वप्ने ऽपि न मन्यते, यावन् निर्मितं न मन्यते, निर्मितेन न मन्यते, निर्मितं ममेति न मन्यते, निर्मिते ऽपि न मन्यते. इत्य् उक्ता प्रयोगसमता
अथ खलु बुद्धानुभावेन ये ऽस्मिंस् त्रिसाहस्रे महासाहस्रे लोकधातौ चातुर्महाराजकायिका देवास् त्रायस्त्रिंषा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्माणः, यावच् छुद्धावसकायिका देवपुत्रास् ते सर्वे दिव्यानि चन्दनचूर्णान्य् अभ्यवकीर्य येन भगवांस् तेनोपसंक्रामन्ति स्म, उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्यैकान्ते ऽतिष्ठन्.
अथ खलु चत्वारो महाराजानः शक्रश् च ब्रह्माणश् च यावच् छुद्धावासकायिकाश् च देवपुत्रा बुद्धानुभावेन बुद्धसहस्रं समन्वाहरन्ति स्म, धर्मं देशयमानम् एभिर् एवाक्षरैर् एभिर् एव नामधेयैः सुभूतिनामधेयैर् भिक्षुभिर् इमाम् एव प्रज्ञापारमितां परिप्रश्नीकृतां, देशयमानं शक्राश् च देवानाम् इन्द्राः परिप्रश्नयन्तीमाम् एव प्रज्ञापारमिताम्. एवं पूर्वस्यां दिशि दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् ऊर्ध्वम् अधो दिक्षु सर्वत्र बुद्धसहस्रं समन्वाहरन्ति स्म, धर्मं देशयमानम् एभिर् एवाक्षरैर् एभिर् एव नामधेयैः सुभूतिनामधेयैर् एव भिक्षुभिर् इमाम् एव प्रज्ञापारमितां परिप्रश्नीकृतां, देशयमानं सर्वत्र च शक्राश् च देवानाम् इन्द्राः परिप्रश्नयन्तिमाम् एव प्रज्ञापारमिताम्.
अथ खलु भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: अस्मिन्न् एव सुभूते पृथिवीप्रदेशे मैत्रेयो बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य इमाम् एव प्रज्ञापारमितां भाषिष्यते. अस्मिन्न् एव पृथिवीप्रदेशे ये ऽपि ते भविष्यन्तिह भद्रकल्पे तथागता अर्हन्तः सम्यक्संबुद्धास् (प्स्प्_2-3:178) ते ऽप्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य इमाम् एव प्रज्ञापारमितां भाषिष्यन्ते. इति षोडशक्षणदर्शनमार्गसाक्षिभावज्ञापनम्
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमैर् भगवन्न् आकारैः कतमैर् लिङ्गैः कतमैर् निमित्तैर् मैत्रेयो बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य इमां प्रज्ञापारमितां भाषिष्यते?
भगवान् आह: इह सुभूते मैत्रेयो बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य न रूपं नित्यम् अनित्यं वेति धर्मं देशयिष्यति. एवं न सुखं न दुःखं नात्मा नानात्मा, न रूपं शुभम् अशुभं वेति धर्मं देशयिष्यति. न रूपं बद्धं मुक्तं वेति धर्मं देशयिष्यति. एवं वेदनासंज्ञासंस्कारा न विज्ञानं नित्यम् अनित्यं वेति धर्मं देशयिष्यति. एवं न सुखं न दुःखं नात्मा नानात्मा न विज्ञानं शुभम् अशुभं वेति धर्मं देशयिष्यति. न विज्ञानं बद्धं मुक्तं वेति धर्मं देशयिष्यति. न रूपम् अतीतं नानागतं न प्रत्युत्पन्नम् इति धर्मं देशयिष्यति. एवं न वेदना न संज्ञा न संस्कारा न विज्ञानम् अतीतं नानागतं न प्रत्युत्पन्नम् इति धर्मं देशयिष्यति. एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु सर्वपारमितासु सर्वशून्यतासु सर्वसमाधिषु सर्वधारणीमुखेषु सप्तत्रिंशद्बोधिपक्षेषु धर्मेष्व् आर्यसत्येष्व् अप्रमाणध्यानारूप्यसमापत्तिष्व् अष्टसु विमोक्षेषु नवानुपूर्वविहारसमापत्तिषु शून्यतानिमित्ताप्रणिहितेष्व् अभिज्ञासु दशबलेषु वैशारद्येषु प्रतिसंवित्स्व् आवेणिकेषु बुद्धधर्मेषु यावत् सर्वज्ञता नातीता नानागता न प्रत्युत्पन्नेति एवं धर्मं देशयिष्यति. इति दुष्खे धर्मज्ञानक्षान्तिः
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं पुनर् भगवन् मैत्रेयो बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य धर्मं देशयिष्यतीति?
भगवान् आह: रूपम् अत्यन्तविशुद्धम् अत्यन्तविशुद्धम् इति धर्मं देशयिष्यति, वेदनासंज्ञासंस्कारा विज्ञानम् अत्यन्तविशुद्धम् अत्यन्तविशुद्धम् इति धर्मं देशयिष्यति. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादपारमिता शून्यता बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्तयो ऽष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिताभिज्ञा दशबलवैशारद्यप्रतिसंविदावेणिका बुद्धधर्माः समाधिधारणीमुखानि यावत् सर्वज्ञतात्यन्तविशुद्धात्यन्तविशुद्द्ःश्ति धर्मं देशयिष्यति.
(प्स्प्_2-3:179)
इति दुष्खे धर्मज्ञानम्
सुभूतिर् आह: परिशुद्धा भगवन् प्रज्ञापारमिता.
भगवान् आह: रूपपरिशुद्धत्वात् सुभूते परिशुद्धा प्रज्ञापारमिता, वेदनासंज्ञासंस्कारा विज्ञानपरिशुद्धत्वात् सुभूते परिशुद्धा प्रज्ञापारमिता. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्तयो ऽष्टविमोक्षनवानुपूर्ववीहारसमापत्तयः शून्यतानिमित्ताप्रणिहिताभिज्ञा दशबलवैशारद्यप्रतिसंविदावेणिकबुद्दधर्मा यावत् सर्वज्ञतापरिशुद्धत्वात् सुभूते परिशुद्धा प्रज्ञापारमिता. इति दुष्खे ऽन्वयज्ञानक्षान्तिः.
सुभूतिर् आह: तत् कस्य हेतेर्? भगवन् रूपस्य परिशुद्धत्वात् परिशुद्धा प्रज्ञापारमिता, कथं वेदनायाः संज्ञायाः संस्काराणां कथं विज्ञानस्य परिशुद्धत्वात् परिशुद्धा प्रज्ञापारमिता? एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पाद पारमिता बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्तयो ऽष्टविमोक्षनवानुपूर्वविहारसमापत्तय्ः शून्यतानिमित्ताप्रणिहिताभिज्ञा दशबलवैशारद्यप्रतिसंविदावेणिका बुद्धधर्माः, यावत् सर्वज्ञतायाः परिशुद्धत्वात् परिशुद्धा प्रज्ञापारमिता?
भगवान् आह: रूपस्य सुभूते नोत्पादो न निरोधो न संक्लेशो न व्यवदानं रूपपरिशुद्धिर्, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य सुभूते नोत्पादो न निरोधो न संक्लेशो न व्यवदानं विज्ञानपरिशुद्धिः. एवं स्कन्धधात्वायतनप्रतीत्यस्मुत्पादाङ्गानां सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानां सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणाम् आर्यसत्याप्रमाणध्यानारूप्यसमापत्तिनां शून्यतानिमित्ताप्रणिहितितानाम् अभिज्ञानां दशानां तथागतबलानां वैशारद्यानां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां नोत्पादो न निरोधो न संक्लेशो न व्यवदानं बुद्धधर्मपरिशुद्धिः, सर्वज्ञताया नोत्पादो न निरोधो न संक्लेशो न व्यवदानं सर्वज्ञतापरिशुद्धिः. इति दुष्खे ऽन्वयज्ञानम्
पुनर् अपरं सुभूते आकाशपरिशुद्ध्या परिशुद्धा प्रज्ञापारमिता.
सुभूतिर् आह: कथं पुनर् भगवन्न् आकाशपरिशुद्ध्या परिशुद्धा प्रज्ञापारमिता?
भगवान् आह: आकाशवद् रूपस्य यावत् सर्वज्ञताया अनुत्पादानिरोधासंक्लेशाव्यवदानपरिशुद्ध्या परिशुद्धा प्रज्ञापारमिता. इति समुदये धर्मज्ञानक्षान्तिः
आकाशनिरुपलेपत्वात् सुभूते परिशुद्धा प्रज्ञापारमिता.
(प्स्प्_2-3:180)
सुभूतिर् आह: कथं भगवन्न् आकाशनिरुपलेत्वात् परिशुद्धा प्रज्ञापारमिता?
भगवान् आह: आकाशवद् रूपस्य यावत् सर्वज्ञताया निरुपलेपत्वात् परिशुद्धा प्रज्ञापारमिता. इति समुदये धर्मज्ञानम्
पुनर् अपरं सुभूते आकाशाग्राह्यत्वात् परिशुद्धा प्रज्ञापारमिता.
सुभूतिर् आह: कथं भगवन्न् आकाशाग्राह्यत्वात् परिशुद्धा प्रज्ञापारमिता?
भगवान् आह: आकाशवद् रूपस्य यावत् सर्वज्ञताया अग्राह्यत्वात् परिशुद्धा प्रज्ञापारमिता. इति समुदये ऽन्वयज्ञानक्षान्तिः
आकाशाव्याहारतया सुभूते परिशुद्धा प्रज्ञापारमिता.
सुभूतिर् आह: कथं भगवन्न् आकाशाव्याहारतया परिशुद्धा प्रज्ञापारमिता?
भगवान् आह: तद्यथापि सुभूते आकाशे प्रतिश्रुत्का द्वयस्य शब्दः एवम् एव सुभूते आकाशवद् रूपस्य यावत् सर्वज्ञताया अप्रव्याहारतया परिशुद्धा प्रज्ञापारमिता. इति समुदये ऽन्वयज्ञानम्
आकाशाप्रव्याहारतया सुभूते परिशुद्धा प्रज्ञापारमिता.
सुभूतिर् आह: कथं भगवन्न् आकाशाप्रव्याहारतया परिशुद्धा प्रज्ञापारमिता?
भगवान् आह: न हि सुभूते आकाशस्य कश्चित् प्रव्याहारः. एवम् एव सुभूते रूपस्य यावत् सर्वज्ञताया अप्रव्याहारतया परिशुद्धा प्रज्ञापारमिता. इति निरोधे धर्मज्ञानक्षान्तिः
आकाशानुपलम्भतया परिशुद्धा प्रज्ञापारमिता.
सुभूतिर् आह: कथं भगवन्न् आकाशानुपलम्भतया परिशुद्धा प्रज्ञापारमिता?
भगवान् आह: न हि सुभूते आकाशस्य कश्चिद् उपलम्भः. एवम् एव सुभूते रूपस्य यायत् सर्यज्ञताया अनुपलम्भतया परिशुद्धा प्रज्ञापारमिता. इति निरोधे धर्मज्ञानम्
सर्वधर्माणाम् अनुत्पादानिरोधत्वाद् असंक्लेशाव्यवदानत्वात् सुभूते परिशुद्धा प्रज्ञापारमिता.
सुभूतिर् आह: कथं भगवन् सर्वधर्माणाम् अनुत्पादानिरोधत्वाद् असंक्लेशाव्यवदानत्वात् परिशुद्धा प्रज्ञापारमिता?
भगवान् आह: रूपस्य यावत् सर्वज्ञतया अत्यन्तविशुद्धत्वात् परिशुधा प्रज्ञापारमिता. इति निरोधे ऽन्वयज्ञानक्षान्तिः
(प्स्प्_2-3:181)
सुभूतिर् आह: यो हि कश्चिद् भगवन् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशो मनसिकरिष्यति, तस्य न चक्षूरोगो भविष्यति, न श्रोत्ररोगो न घ्राणरोगो न जिह्वारोगो न कायरोगो भविष्यति, न मनोरोगो भविष्यति, न हीनाङ्गो भविष्यति, न जीर्णकायो भविष्यति. नापि स कुलपुत्रो वा कुलदुहिता वा विषमापरिहारेण कालं करिष्यति. बहूनि चास्य देवतासहस्राणि पृष्ठतः समनुबद्धानि भविष्यन्ति. धर्मश्रवणिकाः चातुर्महाराजकाय्का देवा यावच् छुद्धावासकायिका देवाः पृष्ठतः समनुबद्धा भविष्यन्ति. अष्टम्यां चतुर्दस्यां पञ्चदस्यां च महान् देवतासंघः संनिपतिष्यति. यत्र सद्धर्मभाणकः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां भाषिष्याते. स खलु पुनः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां भाषमाणो बहुतरपुण्यं प्रसवति. अप्रमेयम् असंखेयम् अपरिमाणम् अचिन्त्यम् अतुल्यं पुण्यं प्रसविष्यति.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, अप्रमेयम् असंख्येअं अपरिमाणम् अचिन्त्यम् अतुल्यं स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति. य इमां प्रज्ञापारमिताम् अष्टम्यां चतुर्दस्यां पञ्चदस्यां च भाषिष्यते तस्य देवपर्षदः पुरतो ऽनुबद्धा भविष्यन्ति. तत् कस्य हेतोर्? महारत्नम् इदं सुभूते यद् उत प्रज्ञापारमिता. इति निरोधे ऽन्वयज्ञानम्
तत्रेदं सुभूते प्रज्ञापारमितारत्नं सेव्यमानं निरयाद् मोचयिष्यति, तिर्यग्योनेर् मोचयिष्यति, यमलोकाद् मोचयिष्यति, मनुष्यदरिद्राद् मोचयिष्यति. क्षत्रियमहाशालकुलेषूपपादयिष्यति, ब्राह्मणमहाशालकुलेषूपपादयिष्यति, गृहपतिमहाशालकुलेषूपपादयिष्यति, चातुर्महाराजकायिकेषूपपादयिष्यति, यावान् नैवसंज्ञानासंज्ञायतनेषूपपदयिष्यति. इयं प्रज्ञापारमिता स्रोतआपत्तिफलस्य दात्री सकृदागामिफलस्यानागामिफलस्यार्हत्त्वस्य प्रत्येकबोधेर्, अनुत्तरायाः सम्यक्संबोधेर् दात्री. तत् कस्य हेतोः? तथा हि सुभूते इह प्रज्ञापारमितायां दशकुशलाः कर्मपथा विस्तरेणोपदिष्टा यत्र प्रतिष्ठा यत्र क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्माणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते. चातुर्महाराजकायिका देवास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतः परनिर्मितवसवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, महाब्रह्माणो देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा (प्स्प्_2-3:182) देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, अनभ्रका देवाः प्रज्ञायन्ते, पुण्यप्रसवा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, शुद्धावासा देवाः प्रज्ञायन्ते, अस्पृहा देवाः प्रज्ञयन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते, अकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानानन्तायतना देवाः प्रज्ञायन्ते, अकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञासंज्ञायतना देवाः प्रज्ञायन्ते. स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिः प्रज्ञायते, अनुत्तरा सम्यक्संबोधिः प्रज्ञायते. अत्र हि प्रज्ञापारमितायां चत्वारि ध्यानानि प्रज्ञायन्ते, चत्वार्य् अप्रमाणां प्रज्ञायन्ते, चतस्र आरूप्यसमापत्तयः प्रज्ञायन्ते, दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते, उपायकौशलपारमिता प्रज्ञायते, प्रणिधानपारमिता प्रज्ञायते, बलपारमिता प्रज्ञायते, ज्ञानपारमिता प्रज्ञाय्ते. स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणर्द्धिपादेन्द्रियबोध्यङ्गमार्गाः प्रज्ञायन्ते. अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते यावद् अभावस्वभावशून्यता प्रज्ञायते. चत्वार्य् आर्यसत्यानि प्रज्ञायन्ते, अष्टविमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितानि प्रज्ञायन्ते, षडभिज्ञाः प्रज्ञायन्ते, समाधयः प्रजायन्ते, सर्वधारणीमुखानि प्रज्ञायन्ते, दशबोधिसत्त्वभूमयः प्रज्ञायन्ते, दशतथागतबलानि प्रज्ञायन्ते, चत्वारि वैशारद्यानि प्रज्ञायन्ते, चतस्रः प्रतिसंविदः प्रज्ञायन्ते, अष्टादशावेणिका बुद्धधर्माः प्रज्ञायन्ते, यावत् सर्वज्ञता प्रज्ञायते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, त्रीणि रत्नानि प्रज्ञायन्ते, बुद्धरत्नं प्रज्ञायते, धर्मरत्नं प्रज्ञायते, संघरत्नं प्रज्ञायते. इह प्रज्ञापारमितायां एवमादयो धर्मा विस्तरेणोपदिष्टास् तेनोच्यते रत्नपारमितेयं यद् उत प्रज्ञापारमिता. इति मार्गे धर्मज्ञानक्षान्तिः
न च सुभूते रत्नपारमितायां कश्चिद् धर्म उत्पद्यते वा निरुध्यते वा संक्लिश्यते वा व्यवदायते वा परिगृह्यते वा च्छोर्यते वा. तत् कस्य हेतोस्? तथा हि ते धर्मा न संविद्यन्ते ये उत्पद्येरन् वा निरुध्येरन् वा संक्लिश्येयुर् वा व्यवदायेयुर् वा परिगृह्येयुर् वा च्छोर्येयुर् वा. नाप्य् अस्मिन् प्रज्ञापारमितारत्ने कश्चिद् धर्म उत्पद्यते वा निरुध्यते वा कुशलो वा अकुशलो वा सास्रवो वा अनास्रवो वा सावद्यो वा अनवद्यो वा संक्लेशो वा (प्स्प्_2-3:183) निःक्लेशो वा लोकिको वा लोकोत्तरो वा संस्कृतो वा असंस्कृतो वा. अनेनापि सुभूते पर्यायेण रत्नपारमितेयं यद् उत प्रज्ञापारमिता. इति मार्गे धर्मज्ञानम्
नापीयं सुभूते रत्नपारमिता केनचिद् धर्मेणोपलिप्येत. तत् कस्य हेतोस्? तथा हि ते धर्मा नोपलभ्यन्ते यैर् उपलिप्येत, तेनेयं सुभूते निरुपलिप्ता रत्नपारमिता. इति मार्गे ऽन्वयज्ञानक्षान्तिः
सचेत् पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवम् अपि न जानाति, एवम् अपि न विकल्पयति, एवम् अपि नोपलभते, एवम् अपि न प्रपञ्चयिष्यति, चरिष्यति प्रज्ञापारमितायां, भावयिष्यति प्रज्ञापारमितां, बुद्धांश् च भगवतो द्रक्ष्यति, बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रमिष्यति, बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुम् अर्चयितुम् अपचायितुं बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन् सत्त्वांश् च परिपाचयिष्यति, बुद्धक्षेत्रं च परिशोधयिष्यति, अनुप्राप्स्यति सर्वज्ञताम्. इति मार्गे ऽन्वयज्ञानम् इत्य् उक्तो दर्शनमार्गः
सेयं पुनः सुभूते प्रज्ञापारमिता न कस्यचिद् धर्मस्यावाहिका न निर्वाहिका न दर्शिका न निदर्शिका न दायिका न च्छोरिका नोत्पादिका न निरोधिका नोच्छेदिका न शाश्वतिका नैकार्थिका न नानार्थिका नागमिका न निर्गमिका न संक्लेशिका न विशोधिका न हानिकारिका न वृद्धिकारिका नातीता नानागता न प्रत्युत्पन्ना. इति प्रथमसर्वज्ञताधिकारसमाप्तिदीपनम्
सेयं पुनः सुभूते प्रज्ञापारमिता न कामधातुसमतिक्रमिका वा स्थापिका वा, न रूपधातुसमतिक्रमिका वा स्थापिका वा, नारूप्यधातुसमतिक्रमिका वा स्थापिका वा. न दानपारमिताया दायिका वा न मार्गस्य च्छोरिका वा, न शीलक्षान्तिवीर्यध्यानप्रज्ञोपायप्रणिधिबलज्ञानपारमिताया दायिका वा च्छोरिका वा. नाध्यात्मशून्यताया दायिका वा च्छोरिका वा, न बहिर्धाशून्यताया नाध्यात्मबहिर्धाशून्यताया दायिका वा च्छोरिका वा, यावन् नाभावस्वभावशून्यताया दायिका वा च्छोरिका वा. नाप्रमाणध्यानारूप्यसमापत्तीनां दायिका वा च्छोरिका वा. न चतुर्णाम् आर्यसत्यानां नाष्टानां विमोक्षाणां न नवनुपूर्वविहारसमापत्तीनां न शून्यतानिमित्ताप्रणिहितानां दायिका वा च्छोरिका वा, न षण्णाम् अभिज्ञानां दायिका वा च्छोरिका वा, न दशानां बोधिसत्त्वभूमीनां दायिका वा च्छोरिका वा, न दशानां तथागतबलानां दायिका वा च्छोरिका वा, न स्मृत्युपस्थानानां दायिका वा च्छोरिका वा. एवं न सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गानां दायिका वा च्छोरिका वा, न बलानां (प्स्प्_2-3:184) न वैशारद्यानां न प्रतिसंविदां दायिका वा च्छोरिका वा, नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां दायिका वा च्छोरिका वा, न समाधीनां न धारणीमुखानां दायिका वा च्छोरिका वा, न स्रोतआपत्तिफलस्य दायिका वा च्छोरिका वा, न सकृदागामिफलस्य नानागामिफलस्य नार्हत्त्वस्य न प्रत्येकबुद्धत्वस्य न सर्वज्ञताया दायिका वा च्छोरिका वा. इति द्वितियं मार्गज्ञताधिकारसमाप्तिदीपनम्
सा खलु पुनर् इयं सुभूते प्रज्ञापारमिता न बुद्धधर्माणां दायिका वा च्छोरिका वा, न पृथग्जनधर्माणां दायिका वा च्छोरिका वा, न श्रावकप्रत्येकबुद्धधर्माणां दायिका वा च्छोरिका वा, नापि बुद्धधर्माणां दायिका वा च्छोरिका वा, न संस्कृतधातोर् दायिका वा च्छोरिका वा. तत् कस्य हेतोर्? उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवैषा धर्माणां धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता. तां तथागतो ऽभिसंबुध्यते ऽप्य् अभिसमेत्य् अप्य् अभिसंबुध्याभिसमेत्य् आचष्टे देशयति विवृणोति विभजत्य् उत्तानीकरोति संप्रकाशयति.
अथ खलु संबहुलानि देवपुत्रशतसहस्राण्य् उपर्य् अन्तरीक्षे स्थित्वा किलिकिलाप्रक्ष्वेडितान्य् अकार्षुर् दिव्यानि चोत्पलकुमुदपुण्डरीकपद्ममान्दारवाणि पुष्पाणि क्षिपन्ति स्म. एवं च वाचम् अभाषन्त, द्वितीयं बतेदं धर्मचक्रप्रवर्तनं जाम्बूद्वीपे पश्यामः. प्रज्ञापारमितायां निर्दिश्य मानायां तत्रानेकानि देवपुत्रसहस्राण्य् अनुत्पत्तिकेषु धर्मेषु क्षान्तिं प्रतिलभन्ते स्म.
अथ खलु भगवान् स्थविरं सुभूतिम् आमन्त्रयामास: नेदं सुभूते द्वितियं धर्मचक्रप्रवर्तनं नाप्य् एकं नापीयं प्रज्ञापारमिता कस्यचिद् धर्मस्य प्रवर्तनाय वा निवर्तनाय वा प्रत्युपस्थिता. तत् कस्य हेतोर्? अभावस्वभावशून्यताम् उपादाय.
सुभूतिर् आह: कतमा भगवन्न् अभावस्वभावशून्यता यद् इयं प्रज्ञापारमिता न कस्यचिद् धर्मस्य प्रवर्तनाय वा निवर्तनाय वा प्रत्युपस्थिता?
भगवान् आह: प्रज्ञापारमिता सुभूते प्रज्ञापारमितया शून्या. एवं ध्यानं वीर्यं क्षान्तिं शीलं दानपारमिता दानपारमितया शून्या, अध्यात्मशून्यता अध्यात्मशून्यतया शून्या यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतया शून्या, स्मृत्युपस्थानानि स्मृत्युपस्थानशून्यतया शून्यानि. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि मार्गा मार्गशून्यतया (प्स्प्_2-3:185) शून्याः, अप्रमाणध्यानारूप्यसमापत्तयो ऽप्रमाणध्यानारूप्यसमापत्तिशून्यतया शून्याः, आर्यसत्यान्य् आर्यसत्यशून्यतया शून्यान्य्, अष्टविमोक्षा अष्टविमोक्षशून्यतया शून्याः, नवानुपूर्वविहारसमापत्तयो नवानुपूर्वविहारसमापत्तिशून्यतया शून्याः, शून्यतानिमित्ताप्रणिहितानि शून्यतानिमित्तप्रणिहितशून्यतया शून्यानि, षडभिज्ञाः षडभिज्ञाशून्यतया शून्याः, सर्वसमाधयः सर्वसमाधिशून्यतया शून्याः, धारणीमुखानि धारणीमुखशून्यतया शून्यां, दशबलानि दशबलशून्यतया शून्यानि, वैशारद्यानि वैशारद्यशून्यतया शून्यानि, प्रतिसंविदः प्रतिसंविच्छून्यतया शून्याः, अष्टादशावेणिकबुद्धधर्मा अष्टादशावेणिकबुद्धधर्मशून्यतया शून्याः, स्रोतआपत्तिफलं स्रोतआपत्तिफलशून्यतया शून्यं, एवं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबुद्धत्वं सर्वज्ञता सर्वज्ञताशून्यतया शून्या.
सुभूतिर् आह: महापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. सर्वधर्मस्वभावाश् च सर्वधर्मस्वभावैः शून्याः. बोधिसत्त्वाश् च महासत्त्वाः प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. न कंचिद् धर्मम् अभिसंबुध्यन्ते धर्मचक्रं प्रवर्तन्ति, न कंचिद् धर्मं प्रवर्तयन्ति निवर्तयन्ति वा. न च तैः कश्चिद् धर्मः संदृश्यते, न कश्चिद् धर्मो दृश्यते. तत् कस्य हेतोस्? तथा हि सर्वधर्मा नोपलभ्यन्ते ये धर्माः प्रवर्तन्ते वा निवर्तन्ते वा. तत् कस्य हेतोस्? तथा ह्य् अत्यन्तानभिनिविष्टाः सर्वधर्माः. न हि शून्यता प्रवर्तिका वा निवर्तिका वा, नानिमित्तं प्रवर्तकं वा निवर्तकं वा, नाप्रणिहितं प्रवर्तकं वा निवर्तकं वा. या एवंदेशना सा प्रज्ञापारमितायाः प्रकाशना कथना प्रज्ञापना प्रस्थापना विवरणा विभजना सूचना उत्तानीकरणं संप्रकाशना, इयं सा परिशुद्धा प्रज्ञापारमिताया देशना. या च प्रज्ञापारमिताया देशना न केनचिद् देशिता न केनचित् प्रतीच्छिता, सा न केनचित् साक्षात्कृता. या न केनचित् साक्षात्कृता न तत्र कश्चित् परिनिर्वृतो नापि तया धर्मदेशनया कश्चिद् दक्षिणीयः कृतः.
इति तृतियं सर्वाकारज्ञताधिकारसमाप्तिदीपनम् इत्य् उक्ता सर्वज्ञता
आर्यपञ्चविंशतिशाहस्रिकायां भगवत्यां प्रज्ञापारमितायाम् अभिसमयालंकारानुसारेण संशोधितायां सर्वज्ञताधिकारचर्याविशेषपरिवर्तः तृतीयः
(प्स्प्_4:1)
पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता इव्
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: असत्पारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: आकाशासत्तां सुभूते उपादाय.
सुभूतिर् आह: समतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: सर्वधर्मानुपलब्धिसमताम् उपादाय.
सुभूतिर् आह: विवेकपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: अत्यन्तशून्यताम् उपादाय.
सुभूतिर् आह: अनवमर्दनीयपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: सर्वधर्मानुपलब्धिताम् उपादाय.
सुभूतिर् आह: अपदपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: अनामाशरीरताम् उपादाय.
सुभूतिर् आह: आकाशपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: आश्वासप्रश्वासानुपलब्धिताम् उपादाय.
सुभूतिर् आह: अप्रव्याहारपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: वितर्कविचारानुपलब्धाम् उपादाय.
सुभूतिर् आह: अनामपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: वेदनासंज्ञासंस्कारविज्ञानानुपलब्धिताम् उपादाय.
सुभूतिर् आह: अगमनपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: सर्वधर्माणाम् अगमनताम् उपादाय.
सुभूतिर् आह: असंहार्यपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: सर्वधर्माग्राह्यताम् उपादाय.
सुभूतिर् आह: अक्षयपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: सर्वधर्माणाम् अत्यन्तक्षयक्षीणताम् उपादाय.
(प्स्प्_4:2)
सुभूतिर् आह: अनुत्पत्तिपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: सर्वधर्माणाम् अनुत्पादानिरोधताम् उपादाय.
सुभूतिर् आह: अकारकपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: कारकानुपलब्धिताम् उपादाय.
सुभूतिर् आह: अजानकपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: जानकानुपलब्धिताम् उपादाय.
सुभूतिर् आह: असंक्रान्तिपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: च्युत्युपपत्त्यनुपलब्धिताम् उपादाय.
सुभूतिर् आह: अविनयपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: सर्वधर्माणां प्रकृत्यविनयताम् उपादाय.
सुभूतिर् आह: स्वप्नपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: स्वप्नदर्शिनानुपलब्धिताम् उपादाय.
सुभूतिर् आह: प्रतिश्रुत्कापारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: घोषोदारानुपलब्धिताम् उपादाय.
सुभूतिर् आह: प्रतिभासपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: बिम्भप्रतिबिम्भानुपलब्धिताम् उपादाय.
सुभूतिर् आह: मरीचिपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: उदकस्कन्धानुपलब्धिताम् उपादाय.
सुभूतिर् आह: मायापारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: तन्निमित्तानुपलब्धिताम् उपादाय.
सुभूतिर् आह: असंक्लेशपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: क्लेशस्वभावानुपलब्धिताम् उपादाय.
सुभूतिर् आह: अव्यवदानपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: क्लिष्टसत्त्वानुपलब्धिताम् उपादाय.
सुभूतिर् आह: अनुपलेपपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: आकाशानुपलब्धिताम् उपादाय.
सुभूतिर् आह: अप्रपञ्चपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: सर्वप्रपञ्चसमुद्घातताम् उपादाय.
सुभूतिर् आह: अमननापारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: सर्वमननासमुद्घातताम् उपादाय.
(प्स्प्_4:3)
सुभूतिर् आह: अचलपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: धर्मधातुस्थितिं सुभूते उपादाय. इति सर्वज्ञताकाराः
सुभूतिर् आह: विरागपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: विरागानुपलब्धिताम् उपादाय.
सुभूतिर् आह: अस्थानपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: सर्वधर्माविकल्पनताम् उपादाय.
सुभूतिर् आह: शान्तपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: सर्वधर्माणाम् अवितथताभिसंबोधनताम् उपादाय.
सुभूतिर् आह: अरागपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: रागानुपलब्धिताम् उपादाय.
सुभूतिर् आह: अदोषपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: दोषासद्भूतताम् उपादाय.
सुभूतिर् आह: अमोहपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: मोहान्धकारविधमनताम् उपादाय.
सुभूतिर् आह: निःक्लेशपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: परिकल्पासत्ताम् उपादाय.
सुभूतिर् आह: निःसत्त्वपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: सत्त्वानुपलब्धिताम् उपादाय.
सुभूतिर् आह: अप्रमाणपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: सर्वधर्मासमुत्थानताम् उपादाय.
सुभूतिर् आह: अन्तद्वयानुपगमपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: अत्यन्तानुपलब्धिताम् उपादाय.
सुभूतिर् आह: असंभिन्नपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: सर्वधर्मासंभेदताम् उपादाय.
सुभूतिर् आह: अपरामृष्टपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: श्रावकभूमिप्रत्येकबुद्धभूमिसमतिक्रमताम् उपादाय.
(प्स्प्_4:4)
सुभूतिर् आह: अविकल्पपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: अविकल्पानुपलब्धिताम् उपादाय.
सुभूतिर् आह: अप्रमेयपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: सर्वधर्माप्रमाणानुपलब्धिताम् उपादाय.
सुभूतिर् आह: असङ्गपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: सर्वधर्माणाम् आकाशस्वभावसमताम् उपादाय.
सुभूतिर् आह: अनित्यपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: सर्वधर्माणाम् अविनाशिताम् उपादाय.
सुभूतिर् आह: दुष्खपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: सर्वधर्मानध्यवसायधर्मयोगताम् उपादाय.
सुभूतिर् आह: शून्यपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: सर्वनिःफलार्थताम् उपादाय.
सुभूतिर् आह: अनात्मपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: सर्वधर्मानभिवेशताम् उपादाय.
सुभूतिर् आह: अलक्षणपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: सर्वधर्मानिमित्तताम् उपादाय.
सुभूतिर् आह: अध्यात्मशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: अध्यात्मिकधर्मानुपलब्धिताम् उपादाय.
सुभूतिर् आह: बहिर्धाशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: बहिर्धाधर्मानुपलब्धिताम् उपादाय.
सुभूतिर् आह: अध्यात्मबहिर्धाशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: अध्यात्मबहिर्धाधर्मानुपलब्धिताम् उपादाय.
सुभूतिर् आह: शून्यताशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: शून्यताशून्यतानुपलब्धिताम् उपादाय.
सुभूतिर् आह: महाशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: महाशून्यतानुपलब्धिताम् उपादाय.
(प्स्प्_4:5)
सुभूतिर् आह: परमार्थशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: परमार्थशून्यतानुपलब्धिताम् उपादाय.
सुभूतिर् आह: संस्कृतशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: संस्कृतशून्यतानुपलब्धिताम् उपादाय.
सुभूतिर् आह: असंस्कृतशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: असंस्कृतशून्यतानुपलब्धिताम् उपादाय.
सुभूतिर् आह: अत्यन्तशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: अत्यन्तशून्यतानुपलब्धिताम् उपादाय.
सुभूतिर् आह: अनवराग्रशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: अनवराग्रशून्यतानुपलब्धिताम् उपादाय.
सुभूतिर् आह: अनवकारशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: अनवकारशून्यतानुपलब्धिताम् उपादाय.
सुभूतिर् आह: प्रकृतिशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: प्रकृतिशून्यतानुपलब्धिताम् उपादाय.
सुभूतिर् आह: सर्वधर्मशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: सर्वधर्मानुपलब्धिताम् उपादाय.
सुभूतिर् आह: स्वलक्षणशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: स्वलक्षणविविक्तताम् उपादाय.
सुभूतिर् आह: अनुपलम्भशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: त्रिष्व् अध्वसु त्रयाणाम् अध्वनाम् अनुपलब्धिताम् उपादाय.
सुभूतिर् आह: अभावस्वभावशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
(प्स्प्_4:6)
भगवान् आह: अभावस्वभावशून्यतानुपलब्धिताम् उपादाय. इति मार्गज्ञताकाराः
सुभूतिर् आह: स्मृत्युपस्थानपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: कायवेदनाचित्तधर्मानुपलब्धिताम् उपादाय.
सुभूतिर् आह: सम्यक्प्रहाणपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: अकुशलकुशलधर्मानुपलब्धिताम् उपादाय.
सुभूतिर् आह: ऋद्धिपादपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: छन्दवीर्यचित्तमीमांसानुपलब्धिताम् उपादाय.
सुभूतिर् आह: इन्द्रियपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: श्रद्धाद्यनुपलब्धिताम् उपादाय.
सुभूतिर् आह: बलपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: पञ्चबलानुपलब्धिताम् उपादाय.
सुभूतिर् आह: बोध्यङ्गपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: सप्तबोध्यङ्गानुपलब्धिताम् उपादाय.
सुभूतिर् आह: मार्गपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: आर्याष्टाङ्गमार्गानुपलब्धिताम् उपादाय.
इत्य् आकाराः सर्वज्ञतामार्गाधिष्ठानाः
सुभूतिर् आह: शून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: दृष्टिकृतानुपलब्धिताम् उपादाय.
सुभूतिर् आह: आनिमित्तपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: वितर्कानुपलब्धिताम् उपादाय.
सुभूतिर् आह: अप्रणिहितपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: प्रणिधाणानुपलब्धिताम् उपादाय.
सुभूतिर् आह: अष्टविमोक्षपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: अष्टविमोक्षानुपलब्धिताम् उपादाय.
सुभूतिर् आह: नवानुपूर्वविहारसमापत्तिपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: नवानुपूर्वविहारसमापत्त्यनुपलब्धिताम् उपादाय.
(प्स्प्_4:7)
सुभूतिर् आह: चतुःसत्यपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: समुदयनिरोधानुपलब्धिताम् उपादाय.
सुभूतिर् आह: दानपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: मात्सर्यानुपलब्धिताम् उपादाय.
सुभूतिर् आह: शीलपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: दौःशील्यानुपलब्धिताम् उपादाय.
सुभूतिर् आह: क्षान्तिपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: व्यापादानुपलब्धिताम् उपादाय.
सुभूतिर् आह: वीर्यपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: कौशीद्यानुपलब्धिताम् उपादाय.
सुभूतिर् आह: ध्यानपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: विक्षेपानुपलब्धिताम् उपादाय.
सुभूतिर् आह: प्रज्ञापारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: दौष्प्रज्ञानुपलब्धिताम् उपादाय.
सुभूतिर् आह: उपायपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: अनुपायानुपलब्धिताम् उपादाय.
सुभूतिर् आह: प्रणिधानपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: अप्रणिधानानुपलब्धिताम् उपादाय.
सुभूतिर् आह: बलपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: दौर्बल्यानुपलब्धिताम् उपादाय.
सुभूतिर् आह: ज्ञानपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: अज्ञानानुपलब्धिताम् उपादाय.
इत्य् आकारा मार्गज्ञताधिष्ठानाः
सुभूतिर् आह: दशबलपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: सर्वधर्मानुपलब्धिताम् उपादाय.
सुभूतिर् आह: वैशारद्यपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: मार्गज्ञतानवलीनताम् उपादाय.
सुभूतिर् आह: प्रतिसंवित्पारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: सर्वत्रज्ञानासङ्गाप्रतिघातिताम् उपादाय.
(प्स्प्_4:8)
सुभूतिर् आह: आवेणिकबुद्धधर्मपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: सर्वधर्मसमतिक्रमताम् उपादाय.
सुभूतिर् आह: तथतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: सर्वबुद्धभाषिततथताम् उपादाय.
सुभूतिर् आह: स्वयंभूपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: सर्वधर्मवशवर्तिताम् उपादाय.
सुभूतिर् आह: बुद्धधर्मपारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: सर्वधर्मसर्वाकाराभिसंबोधनताम् उपादाय.
इत्य् आकाराः सर्वाकारज्ञताधिष्ठानाः इत्य् उक्ता आकाराः
अथ खलु शक्रस्य देवानाम् इन्द्रस्यैतद् अभवत्, पूर्वजिनकृताधिकारास् ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, येषाम् इयं प्रज्ञापारमिताश्रोत्रावभासम् आगमिष्यति. तथागतावरोपितकुशलमूलास् ते सत्त्वा भविष्यन्ति, येषाम् इयं प्रज्ञापारमिताश्रोत्रावभासम् आगमिष्यति. कल्याणमित्रपरिगृहीतास् ते सत्त्वा भविष्यन्ति, येषाम् इयं प्रज्ञापारमिताश्रोत्रावभासम् आगमिष्यति. कः पुनर् वादो य उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, उद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य तथत्वाय प्रतिपत्स्यन्ते, बहुबुद्धपर्युपासितास् ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति. य इमां प्रज्ञापारमितां श्रुत्वा उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, उद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य तथत्वाय प्रतिपत्स्यन्ते परिपृष्ठाश् च पूर्वका अपि तैः कुलपुत्रैः कुलदुहितृभिश् च तथागता अर्हन्तः सम्यक्संबुद्धाः परिप्रश्नीकृताः सेविता भजिताः पर्युपासिताः, य इमां प्रज्ञापारमितां श्रुत्वा नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासम् आपत्स्यन्ते. बहुबुद्धकोटीषु ते दानपारमितायां चरिताः, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां बहुबुद्धकोटीषु ते प्रज्ञापारमितायां (प्स्प्_4:9) चरिता, य इमां प्रज्ञापारमितां श्रुत्वा नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासम् आपत्स्यन्ते.
अथ खलु आयुष्माञ् च्छारिपुत्रो भगवन्तम् एतद् अवोचत्: ये भगवन् कुलपुत्रा वा कुलदुहितरो वा इमाम् एवं गम्भीरां प्रज्ञापारमितां श्रुत्वा नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासम् आपत्स्यन्ते, श्रुत्वा च उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, यथा अविनिवर्तनीया बोधिसत्त्वा महासत्त्वास् तथा ते कुलपुत्राः कुलदुहितरो वा धारयितव्याः. तत् कस्य हेतोः? गम्भीरा भगवन् प्रज्ञापारमिता. न खलु पूर्वम् अचरितेन षट्सु पारमितासु शक्येयं गम्भीरा प्रज्ञापारमिता अधिमोक्तुम्. ये पुनर् भगवन् कुलपुत्राः कुलदुहितरो वा इमां गम्भीरां प्रज्ञापारमितां प्रतिक्षेप्तव्यां मंस्यन्ते पूर्वान्ततो ऽपि तैः कुलपुत्रैः कुलदुहितृभिश् च इयं गम्भीरा प्रज्ञापारमिता प्रतिक्सिप्ता. तत् कस्य हेतोः? तथा हि तेषां कुलपुत्राणां कुलदुहितृणां चास्यां गम्भीरायां प्रज्ञापारमितायां नास्ति श्रद्धा नास्ति प्रसादो नास्ति प्रेम नास्त्य् अधिमुक्तिस् तैः कुलपुत्रैः कुलदुहितृभिश् च न बुद्धा वा बोधिसत्त्वा वा प्रत्येकबुद्धा वा श्रावका वा परिप्रश्नीकृताः, कथं दानपारमितायां चरितव्यं? कथं शीलपारमितायां चरितव्यं? कथञ् च क्षान्तिपारमितायां चरितव्यं? कथं वीर्यपारमितायां चरितव्यं? कथं ध्यानपारमितायां चरितव्यं? कथं प्रज्ञापारमितायां चरितव्यं? कथम् अध्यात्मशून्यतायां चरितव्यं? कथं बहिर्धाशून्यतायां चरितव्यं? कथर अध्यात्मबहिर्धाशून्यतायां चरितव्यं? यावत् कथं अभावस्वभावशून्यतायाञ् चरितव्यं? कथं स्मृत्युपस्थानानि भावयितव्यानि? कथं सम्यक्प्रहाणानि? कथम् ऋद्धिपादाः? कथम् इन्द्रियाणि? कथं बलानि? कथं बोध्यङ्गानि? कथम् आर्याष्टाङ्गो मार्गो भावयितव्यः? कथम् अप्रमाणध्यानारूप्यसमापत्तयो भावयितव्याः? कथम् आर्यसत्यानि भावयितव्यानि? कथम् अष्ट विमोक्षा भावयितव्याः? कथं नवानुपूर्वविहारसमपत्तयो भावयितव्याः? कथं शून्यतानिमित्ताप्रणिहितानि भावयितव्यानि? कथं षड् अभिज्ञा भावयितव्याः? कथं समाधयः समापत्तव्याः? कथं धारणीमुखानि प्रवेष्टव्यानि? कथं दशतथागतबलानि भावयितव्यानि? कथं वैशारद्यानि (प्स्प्_4:10) भावयितव्यानि? कथं प्रतिसंविदो भावयितव्याः? कथम् अष्टादशावेणिका बुद्धधर्मा भावयितव्या? इति.
अथ खलु शक्रो देवानाम् इन्द्र आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: गम्भीरा भदन्त शारिपुत्र प्रज्ञापारमिता. किम् अत्राश्चर्यं स्यात्? य इमां गम्भीरां प्रज्ञापारमितां पूर्वान्ते ऽपि नाधिमुक्ता बोधिसत्त्वा महासत्त्वाः दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां नाधिमुक्ताः, अध्यात्मशून्यतायां नाधिमुक्ताः, यावद् अभावस्वभावशून्यतायां नाधिमुक्ताः, सप्तत्रिंशद्बोधिपक्षेषु धर्मेष्व् अनधिमुक्ताः, अप्रमाणध्यानारूप्यसमापत्तिष्व् अनधिमुक्ताः, शून्यतानिमित्ताप्रणिहितेष्व् अनधिमुक्ताः, अष्टविमोक्षनवानुपूर्वविहारसमापत्तिष्व् अनधिमुक्ताः, दशतथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु पञ्चस्व् अभिज्ञासु नाधिमुक्ताः, अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु नाधिमुक्ताः. ये प्रतिक्षिपेयुर् इति नात्राश्चर्यम्. नमस्करोमि भगवत्यै प्रज्ञापारमितायै सर्वज्ञज्ञानस्य स नमस्कारं करोति यः प्रज्ञापारमिताया नमस्कारं करोति.
अथ खलु भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्. सर्वज्ञज्ञानस्य स नमस्कारं करोति, यः प्रज्ञापारमिताया नमस्कारं करोति. तत् कस्य हेतोः? अतो निर्जाता हि कौशिक बुद्धानां भगवतां सर्वाकारज्ञता, सर्वाकारज्ञतानिर्जाता च प्रज्ञापारमिता प्रभाव्यन्ते. सर्वज्ञतां कौशिकातिक्रमितुकामेन कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमितायां स्थातव्यम्, एवं मार्गज्ञतायां स्थातुकामेन सर्वाकारज्ञताज्ञानम् उत्पादयितुकामेन सर्ववासनानुसंधिक्लेशान् समुद्घातयितुकामेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन धर्मचक्रं प्रवर्तयितुकामेन कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमितायां स्थातव्यम्, एवं स्रोतआपत्तिफले सत्त्वान् स्थापयितुकामेन सकृदागामिफले अनागामिफले अर्हत्त्वे सत्त्वान् स्थापयितुकामेन प्रत्येकायां बोधौ सत्त्वान् प्रतिष्ठापयितुकामेन, अनुत्तरायां सम्यक्संबोधौ सत्त्वान् प्रतिष्ठापयितुकामेन, भिक्षुसंघं परिकर्षयितुकामेन इह बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां योगम् आपत्तव्यम्.
(प्स्प्_4:11)
एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां प्रतिष्ठितो भवति? कथं वा युज्यते? एवं ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां, कथं दानपारमितायां प्रतिष्ठितो भवति? कथं वा योगम् आपद्यते? कथं वा प्रज्ञापारमितायां चरन्न् अध्यात्मशून्यतायां योगम् आपद्यते यावद् अभावस्वभावशून्यतायां योगम् आपद्यते? कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् सप्तत्रिंसद्बोधिपक्षेषु धर्मेषु योगम् आपद्यते? एवम् अप्रमाणध्यानारूप्यसमापत्तिषु. कथं शून्यतानिमित्ताप्रणिहितेषु योगम् आपद्यते? एवम् अष्टविमोक्षेषु नवानुपूर्वविहारसमापत्तिषु योगम् आपद्यते. कथम् अभिज्ञासु योगम् आपद्यते? एवं दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु. कथम् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु प्रज्ञापारमितायाञ् चरन् योगम् आपद्यन्ते बोधिसत्त्वो महासत्त्वः?
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: साधु साधु कौशिक साधु खलु पुनस् त्वं कौशिक यस् त्वं तथागतम् एतम् अर्थं परिप्रश्नीकर्तव्यं मन्यसे. इदम् अपि ते कौशिक बुद्धानुभावेन प्रतिभानम् उत्पन्नम्. तेन हि कौशिक शृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये ऽहं ते. इति चत्वारः प्रयोक्ताकारः
इह कौशिक बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपे न तिष्ठति, यदा रूपे न तिष्ठति तदा रूपे न योगम् आपद्यते, वेदनासंज्ञासंस्कारेषु, विज्ञाने न तिष्ठति यदा विज्ञाने न तिष्ठति तदा विज्ञाने न योगम् आपद्यते. चक्षुषि न तिष्ठति, एवं श्रोत्रे घ्राणे जिह्वायां काये मनसि न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. रूपे न तिष्ठति, एवं शब्दे गन्धे रसे स्प्रष्टव्ये धर्मेषु न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. चक्षुर्विज्ञाने न तिष्ठति, चक्षुःसंस्पर्शे न तिष्ठति, चक्षुःसंस्पर्शप्रत्ययवेदयिते न तिष्ठति, एवं श्रोत्रघ्राणजिह्वाकाये मनोविज्ञाने न तिष्ठति, मनःसंस्पर्शे न तिष्ठति, मनःसंस्पर्शप्रत्ययवेदयिते न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. पृथिवीधातौ न तिष्ठति, एवम् अब्धातौ तेजोधातौ वायुधातौ आकाशधातौ (प्स्प्_4:12) विज्ञानधातौ न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. अविद्यायां न तिष्ठति, एवं संस्कारेषु विज्ञाने नामरूपे षडायतने स्पर्शे वेदनायां तृष्णायाम् उपादाने भवे जातौ जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासेषु न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. दानपारमितायां न तिष्ठति, एवं शीले क्षान्तौ वीर्ये ध्याने प्रज्ञापारमितायां न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. अध्यात्मशून्यतायां न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते यावद् अभावस्वभावशून्यतायां न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. स्मृत्युपस्थानेषु न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. एवं चतुर्ष्व् अप्रमाणेषु चतुर्षु ध्यानेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु शून्यतानिमित्ताप्रणिहितेष्व् अष्टासु विमोक्षेषु नवस्व् अनुपूर्वविहारसमापत्तिषु धारणीमुखेषु न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. एवं दशसु तथागतबलेषु वैशारद्येषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. तत् कस्य हेतोः? तथा हि स रूपं नोपलभते यत्रावतिष्ठेत यत्र वा योगम् आपद्यते, वेदनासंज्ञासंस्कारा, विज्ञानं नोपलभते यत्रावतिष्ठेत यत्र वा योगम् आपद्यते, एवं धातून् आयतनानि प्रतीत्यसमुत्पादाङ्गानि पारमिताः सप्तत्रिंशद्बोधिपक्षान् धर्मान् सर्वशून्यताः सर्वसमाधीन् सर्वधारणीमुखानि अप्रमाणध्यानारूप्यसमापत्तीः अष्टविमोक्षान् नवानुपूर्वविहारसमापत्तीः शून्यतानिमित्ताप्रणिहितान्य् अभिज्ञादशबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् नोपलभते यत्रावतिष्ठेत यत्र वा योगम् आपद्यते.
इति रूपाद्य् अनवस्थानप्रयोगः
पुनर् अपरं कौशिक बोधिसत्त्वो महासत्त्वो रूपे न युज्यते, यद् रूपे न युज्यते एवं रूपे योगम् आपद्यते, वेदनायां संज्ञायां संस्कारेषु, विज्ञाने न युज्यते, यद् विज्ञाने न युज्यते, एवं विज्ञाने योगम् आपद्यते. एवं धात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मशून्यतार्यसत्याप्रमाणध्यानारूप्यसमापत्तिषु शून्यतानिमित्ताप्रणिहिताष्टविमोक्षनवानुपूर्वविहारसमापत्त्य् अभिज्ञासर्वसमाधिधारणीमुखदशबलवैशारद्यप्रतिसंवित्स्व् अष्टादशावेणिकेषु (प्स्प्_4:13) बुद्धधर्मेषु न युज्यते यद् बुद्धधर्मेषु न युज्यते, एवं बुद्धधर्मेषु योगम् आपद्यते. तत् कस्य हेतोः? तथा हि स बोधिसत्त्वो महासत्त्वः पूर्वान्ततो रूपं नोपलभते, अपरान्ततो रूपं नोपलभते, मध्यतो रूपं नोपलभते, वेदनासंज्ञासंस्कारान्, पूर्वान्ततो विज्ञानं नोपलभते, अपरान्ततो विज्ञानं नोपलभते, मध्यतो विज्ञानं नोपलभते. एवं धातून् आयतनानि प्रतीत्यसमुत्पादाङ्गानि पारमिताः सप्तत्रिंशद्बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्तिशून्यतानिमित्ताप्रणिहितानि अष्टौ विमोक्षान् नवानुपूर्वविहारसमापत्त्यभिज्ञाः सर्वशून्यताः सर्वसमाधीन् सर्वधारणीमुखानि दशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् पूर्वान्ततो नोपलभते, अपरान्ततो नोपलभते, मध्यतो नोपलभते. इत्य् अयोगप्रयोगः
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: गम्भीरा भगवन् प्रज्ञापारमिता.
भगवान् आह: रूपतथतागम्भीरतया शारिपुत्र गम्भीरा प्रज्ञापारमिता, वेदना संज्ञा संस्कारा, विज्ञानतथतागम्भीरतया शारिपुत्र गम्भीरा प्रज्ञापारमिता, एवं धात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञाः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि दशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्मतथतागम्भीरतया शारिपुत्र गम्भीरा प्रज्ञापारमिता. इति गम्भीरप्रयोगः
शारिपुत्र आह: दुरवगाहा भगवन् प्रज्ञापारमिता.
भगवान् आह: रूपदुरवगाहतया शारिपुत्र दुरवगाहा प्रज्ञापारमिता, वेदना संज्ञा संस्कारा, विज्ञानदुरवगाहतया शारिपुत्र दुरवगाहा प्रज्ञापारमिता. एवं धात्वायतनप्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि पारमिताः सर्वशून्यताः सर्वसमाधिः सर्वधारणीमुखानि बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्मदुरवगाहतया शारिपुत्र दुरवगाहा प्रज्ञापारमिता.
इति दुरवगाहप्रयोगः
(प्स्प्_4:14)
शारिपुत्र आह: अप्रमाणा भगवन् प्रज्ञापारमिता.
भगवान् आह: रूपाप्रमाणतया शारिपुत्राप्रमाणा प्रज्ञापारमिता, वेदना संज्ञा संस्कारा, विज्ञानाप्रमाणतया शारिपुत्राप्रमाणा प्रज्ञापारमिता. एवं धात्वायतनप्रतीत्यसमुत्पादाङ्गपारमितासर्वशून्यतासर्वसमाधिधारणीमुखबोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माप्रमाणतया शारिपुत्राप्रमाणा प्रज्ञापारमिता. इत्य् अप्रमाणप्रयोगः
शारिपुत्र आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति?
भगवान् आह: सचेच् छारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं गम्भीरम् इति न चरति चरति प्रज्ञापारमितायां, वेदना संज्ञा संस्कारा, विज्ञानं गम्भीरम् इति न चरति चरति प्रज्ञापारमितायाम्. एवं धात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा गम्भीरा इति न चरति चरति प्रज्ञापारमितायाम्. तत् कस्य हेतोः? तथा हि या शारिपुत्र यावद् बुद्धधर्माणां गम्भीरता न ते बुद्धधर्माः.
इति गम्भीरप्रयोगापरपर्यायो मृदुः
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं दुरवगाहम् इति न चरति चरति प्रज्ञापारमितायां, वेदना संज्ञा संस्कारा, विज्ञानं दुरवगाहम् इति न चरति चरति प्रज्ञापारमितायाम्. एवं धात्वायतनप्रतीत्यसमुत्पादपारमितासर्वशून्यतासर्वसमाधिसर्वधारणीमुखबोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा दुरवगाहा इति न चरति चरति प्रज्ञापारमितायाम्. तत् कस्य हेतोः? तथा हि या शारिपुत्र यावद् बुद्धधर्माणां दुरवगाहता न ते बुद्धधर्माः.
इति दुरवगाहप्रयोगापरपर्यायो मध्यः
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां (प्स्प्_4:15) चरन् रूपम् अप्रमाणम् इति न चरति चरति प्रज्ञापारमितायां, वेदना संज्ञा संस्कारा, विज्ञानम् अप्रमाणम् इति न चरति चरति प्रज्ञापारमितायाम्. एवं धात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वशून्यतासर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा अप्रमाणा इति न चरति चरति प्रज्ञापारमितायां. तत् कस्य हेतोः? तथा हि या शारिपुत्र यावद् बुद्धधर्माप्रमाणता न ते बुद्धधर्माः.
इत्य् अप्रमाणप्रयोगापरपर्यायो ऽधिमात्रः
शारिपुत्र आह: यथा गम्भीरेयं भगवन् प्रज्ञापारमिता दुरवगाहा अप्रमाणा इयं भगवन् प्रज्ञापारमिता तथा नवयानसंप्रस्थितानां बोधिसत्त्वानां महासत्त्वानां पुरतो न वक्तव्या मा ते इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा उत्त्रसिषुः संत्रसिषुः संत्रासम् आपत्स्यन्ते. अविनिवर्तनीयस्य यं बोधिसत्त्वस्य महासत्त्वस्य पुरतो भाषितव्यो स इमां प्रज्ञापारमितां श्रुत्वा नोत्त्रसिष्यति न संत्रसिष्यति न संत्रासम् आपत्स्यते न काङ्क्षयिष्यति न निर्विचिकित्सिष्यति, उत्तरे च श्रुत्वा विमोक्षते.
अथ खलु शक्रो देवानाम् इन्द्र आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: सचेद् भदन्त शारिपुत्र नवयानसंप्रस्थितस्य बोधिसत्त्वस्य महासत्त्वस्य पुरत इयं गम्भीरा प्रज्ञापारमिता भाष्येत को दोषः स्यात्?
शारिपुत्र आह: सचेत् कौशिक नवयानसंप्रस्थितस्य बोधिसत्त्वस्य महासत्त्वस्य पुरत इयं प्रज्ञापारमिता भाष्येत उत्त्रस्येत संत्रस्येत संत्रासम् आपद्येत प्रतिबाध्येत प्रतिक्षिपेत्. नाधिमुच्येत स्थानम् एतत् कौशिक विद्यते यस् स नवयानसंप्रस्थितो बोधिसत्त्वो महासत्त्व इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा प्रतिक्षिप्य विनिपातगामिकर्मोपचिनुयात्, स कृच्छ्रेण चिरेणानुत्तरां सम्यक्संबोधिम् अभिसंबुध्येत. इति कृच्छ्रे चिराभिसंबोधप्रयोगः
शक्र आह: सन्ति पुनर् भदन्त शारिपुत्र अव्याकृता बोधिसत्त्वा महासत्त्वा य इमां प्रज्ञापारमितां श्रुत्वा नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासम् आपत्स्यन्ते.
शारिपुत्र आह: न ते कौशिक बोधिसत्त्वा महासत्त्वाश् चिरेण व्याकरणं प्रतिलप्स्यन्ते अनुत्तरायाः सम्यक्संबोधेः. य इमां (प्स्प्_4:16) प्रज्ञापारमितां श्रुत्वा नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासम् आपत्स्यन्ते. ते एकं वा द्वौ वा त्रीन् वा तथागतान् अतिक्रमिष्यन्ति. ततो व्याकरणं प्रतिलप्स्यन्ते अनुत्तरायाः सम्यक्संबोधेः.
अथ खलु भगवान् आयुष्मन्तं शारिपुत्रम् आमन्त्रयते स्म: एवम् एतच् छारिपुत्रैवम् एतत्, चिरयानसंप्रस्थितास् ते शारिपुत्र बोधिसत्त्वा महासत्त्वा भविष्यन्ति. चिरचरिताः षट्सु पारमितासु बहुबुद्धपर्युपासितास् ते शारिपुत्र बोधिसत्त्वा महासत्त्वा य इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासम् आपत्स्यन्ते. उत्तरे च श्रुत्वा उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति यथोपदिष्टायां प्रज्ञापारमितायां स्थास्यन्ति.
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: प्रतिभाति मे भगवन् प्रतिभाति मे सुगत.
भगवान् आह: प्रतिभातु ते.
शारिपुत्र आह: तद्यथापि नाम भगवन् स्वप्नान्तरगतो महायानसंप्रस्थितः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां भावयेत्, ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां भावयेत्, यावद् बोधिमण्डे निषीदेद्, वेदितव्यम् एतद् भगवन्न् अभ्यासन्नी भवत्य् अयं कुलपुत्रो वा कुलदुहिता वा अनुत्तरायाः सम्यक्संबोधेः. कः पुनर् वादो? भगवन् यः प्रतिविबुद्धः प्रज्ञापारमितां भावयेत्, ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां भावयेत्, वेदितव्यम् एतद् भगवन्न् अभ्यासन्नी भवत्य् अयं कुलपुत्रो वा कुलदुहिता वा अनुत्तरायाः सम्यक्संबोधेः. इति व्याकरणलाभप्रयोगः
परिपक्वकुशलमूलास् ते भगवन् कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितां लप्स्यन्ते श्रवणाय श्रुत्वा च प्रतिपत्स्यन्ते. चिरयानसंप्रस्थितास् ते भगवन् कुलपुत्रा कुलदुहितरश् च भविष्यन्ति, अवरोपितकुशलमूला बहुबुद्धपर्युपासिताः कल्याणमित्रपरिगृहीतास् ते भगवन् कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति. अभ्यासन्नास् ते भगवन् कुलपुत्राः कुलदुहितरश् च भविष्यन्त्य् अनुत्तरायाः सम्यक्संबोधेर्व्याकरणस्य व्याकरिष्यन्ति वा, (प्स्प्_4:17) अविनिवर्तनीया वा ते कुलपुत्राः कुलदुहितरश् चानुत्तरायाः सम्यक्संबोधेर्, येषां स्वयम् इयं प्रज्ञापारमिता उपपत्स्यते उपपन्नां च सतीम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति. इत्य् अविनिवर्तनीयप्रयोगः
तद्यथापि नाम भगवन् पुरुषो योजनशतिकाद् अटवीकान्तारान् निष्क्रामेत्, द्वियोजनशतिकात् त्रियोजनशतिकाच् चतुर्योजनशतिकात् पञ्चयोजनशतिकाद् अटवीकान्तारान् निष्क्रामेन् निष्क्रम्य पश्येद् ग्रामस्य नगरस्य निगमस्य वा पूर्वानि निमित्तानि गोपालकान् वा पशुपालकान् वा सीमा वा आरामान् वा वनानि वा उद्यानानि वा उद्याननिमित्तानि वा ग्रामान् वा नगराणि वा निगमान् वा राजधानीन् वा राष्ट्राणि वा पूर्वनिमित्तानि ग्रामस्य नगरस्य निगमस्य वा दृष्ट्वैवं भवति यादृशानीमानि पूर्वनिमित्तानि दृश्यन्ते अभ्यासन्न इतो ग्रामो वा नगरं वा निगमं वा राजधान्यो वा राष्ट्राणि वा भविष्यन्ति. स आश्वासप्राप्तो भवेत्, न चास्य भूयो भवति चौरभयं वा चण्डालभयं वा चण्डमृगभयं वा बुभुक्षाभयं वा पिपासाभयं वा. एवम् एव भगवन् यस्य बोधिसत्त्वस्य महासत्त्वस्य स्वयम् इयं गम्भीरा प्रज्ञापारमिता उपपत्स्यते उपपन्नां च सतीम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, वेदितव्यम् एतद् भगवन्न् अभ्यासन्नो ऽयं बोधिसत्त्वो महासत्त्वो भविष्यति व्याकरणस्यानुत्तरायाः सम्यक्संबोधेर् न चिरेणाभिसंभोत्स्यते. तेन च बोधिसत्त्वेन महासत्त्वेन न भेतव्यं श्रावकभूमेर् वा प्रत्येकबुद्धभूमेर् वा. तत् कस्य हेतोर्? इमानि तानि पूर्वनिमित्तानि यद् उतेमां गम्भीरां प्रज्ञापारमितां बोधिसत्त्वो महासत्त्वो लभते दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय.
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: एवम् एतच् छारिपुत्रैवम् एतत्. इति निर्याणप्रयोगः
प्रतिभातु ते शारिपुत्र भूयस्या मात्रया बुद्धानुभावेन.
शारिपुत्र आह: तद्यथा पि नाम भगवन् पुरुषो महासमुद्रं द्रष्टुकामो भवेत्, स गच्छेत् महासमुद्रं दर्शनाय यथा यथा गच्छेत् महासमुद्रं तथा तथा पश्येत् स्तम्बं वा स्तम्बनिमित्तं वा पर्वतं वा पर्वतनिमित्तं वा, तेनैवं वेदितव्यं दूरे इतो महासमुद्रो नासन्न (प्स्प्_4:18) इतो महासमुद्रः. तत् कस्य हेतोः? न हि महासमुद्रस्याभ्यासे कश्चित् स्तम्बो वा स्तम्बनिमित्तं वा पर्वतो वा पर्वतनिमित्तं वा दृश्यन्ते. तद्यथापि नाम भगवन् पुरुषो महासमुद्रं द्रष्टुकामो भवेत्, स यथा यथा गच्छेत् महासमुद्रं दर्शनाय तथा तथा न पश्येत् स्तम्बं वा स्तम्बनिमित्तं वा पर्वतं वा पर्वतनिमित्तं वा, तस्यैवं भवति न दूरे इतो महासमुद्र आसन्न इतो महासमुद्रः. तत् कस्य हेतोः? न हि महासमुद्रस्यासन्ने कश्चित् स्तम्बो वा स्तम्बनिमित्तं वा पर्वतो वा पर्वतनिमित्तं वा दृश्यते, किं चापि स पुरुषश् चक्षुषा महासमुद्रन् न पश्यति. अथ च पुनः स निष्ठां गच्छति, आसन्नो ऽस्मि महासमुद्रस्याभ्यासन्न इतो महासमुद्र इति, नेतो भूयो दूरे महासमुद्र इति. एवम् एव भगवंस् तेन बोधिसत्त्वेन महासत्त्वेन एवं वेदितव्यम्, इमां प्रज्ञापारमितां शृणुता उद्गृह्णता धारयता वाचयता पर्यवाप्नुवता योनिशो मनसिकुर्वता, एवं चिन्तयितव्यं किं चाप्य् अहं तेन भगवता न संमुखं व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ इयद्भिः कल्पैर् इयद्भिः कल्पशतैर् इयद्भिः कल्पसहस्रैर् इयद्भिः कल्पशतसहस्रैर् इयद्भिः कल्पकोटीनियुतशतसहस्रैस् त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यस इति.
अथ च पुनर् बोधिसत्त्वेन महासत्त्वेन एवं वेदितव्यम्, आसन्नीभूतो ऽस्म्य् अनुत्तरायाः सम्यक्संबोधेर् व्याकरणस्येति. तत् कस्य हेतोः? तथा ह्य् अहम् इमां गम्भीरां प्रज्ञापारमितां लभे दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय श्रुत्वा चोद्गृह्णामि धारयामि वाचयामि पर्यवाप्नोमि योनिशश् च मनसिकरोमि. इति निरुत्तरप्रयोगः
तद्यथापि नाम भगवन् वसन्ते प्रत्युपस्थिते शीर्णपर्णपलाशेषु स्तम्भेषु आकरजातेषु वेदितव्यं जाम्बूद्वीपकैर् मनुष्यैर् नेतश् चिरेण पत्राणि च पुष्पाणि च फलानि च प्रादुर्भविष्यन्ति. तत् कस्य हेतोः? इमानि तानि पूर्वनिमित्तानि स्तम्बेषु दृश्यन्ते नेतश् चिरेण पत्राणि च पुष्पाणि च फलानि च प्रादुर्भविष्यन्ति, आत्तमनस्का जाम्बूद्वीपका मनुष्या भविष्यन्ति तानि च पूर्वनिमित्तानि दृष्ट्वा स्तम्बेषु, एवम् एव भगवन् यो बोधिसत्त्वो महासत्त्व इमां गम्भीरां प्रज्ञापारमितां लभते दर्शनाय वन्दनाय पर्युपासनाय श्रवनाय श्रुत्वा (प्स्प्_4:19) चोद्गृह्णाति धारयति वाचयति पर्यवाप्स्यति योनिशश् च मनसिकरोति परिपक्वकुशलमूलः स भगवन् बोधिसत्त्वो महासत्त्वो वेदितव्यः, बहुबुद्धपर्युपासितः स भगवन् कुलपुत्रो वा कुलदुहिता वा वेदितव्यः. वेदितव्यम् एतद् भगवंस् तेन बोधिसत्त्वेन महासत्त्वेन पूर्वकैर् एव कुशलमूलैर् उपनीतो ऽस्म्य् अनुत्तरायाः सम्यक्संबोधेः, यो ऽहम् इमां गम्भीरां प्रज्ञापारमितां लभे दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्येयं तत्र देवपुत्राः पूर्वबुद्धदर्शिनो भवन्ति. ते प्रमुदिताः प्रीतिसौमनस्यजाताः पूर्वकाणाम् अपि बोधिसत्त्वानां महासत्त्वानाम् इमान्य् एव पूर्वनिमित्तानि अभूवन् व्याकरणाय न चिरेणायं बोधिसत्त्वो महासत्त्वो व्याकरणं प्रतिलप्स्यते अनुत्तरायां सम्यक्संबोधौ.
इत्य् आसन्नाभिसंबोधप्रयोगः
तद्यथापि नाम भगवन् स्त्रीगुर्विणी सा यथा यथा आसन्नप्रसवा भवति तथा तथास्याः कायो वेष्टते ऽधिमात्रं च काये वेदनाक्लमथश् च जायते, न च चङ्क्रमणशीला भवति, अल्पस्मृतिश् च भवति, अल्पाहारा च भवति, अल्पस्त्यानमिद्धा च भवति, ताभिर् वेदनाभिर् वर्तमानाभिर् अल्पभाष्या च भवति, न च संवासशीला भवति, तेन पूर्वकेणायोनिशोमनसिकारेणासेवितेन भावितेन निषेवितेन इमाम् एवंरूपां वेदनां प्रत्यनुभवामीति. वेदितव्यम् एवं ततो ऽन्याभिः स्त्रीभिर् यादृशान्य् अस्याः स्त्रियो निमित्तानि दृश्यन्ते न चिरेणैवेयं स्त्री प्रसविष्यति. एवम् एव भगवन् बोधिसत्त्वानां महासत्त्वानाम् अवरोपितकुशलमूलानां बहुबुद्धपर्युपासितानां सुचरितचीर्णचरितानां कल्याणमित्रपरिगृहीतानां परिपक्वकुशलमूलानाम् इयं गम्भीरा प्रज्ञापारमिता उपपत्स्यते उपपन्नां च सतीम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, वेदितव्यम् एतन् न चिरेणैषां बोधिसत्त्वानां महासत्त्वानां व्याकरणं भविष्यति अनुत्तरायाः सम्यक्संबोधेः.
भगवान् आह: साधु साधु शारिपुत्र इदम् अपि ते शारिपुत्र बुद्धानुभावेन प्रतिभानम् उत्पन्नम्. इति क्षिप्राभिसंबोधप्रयोगः
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावद् अनुगृहीताः सुपरीत्ताश् चेमे बोधिसत्त्वा महासत्त्वास् (प्स्प्_4:20) तथागतेनार्हता सम्यक्संबुद्धेन.
भगवान् आह: तथा हि सुभूते बोधिसत्त्वा महासत्त्वा बहुजनहिताय बहुजनसुखाय प्रतिपन्ना लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानाञ् च मनुष्यानाञ् चानुत्तरायै सम्यक्संबोधये प्रतिष्ठन्ते बोधिसत्त्वचर्याञ् चरन्तो ऽनेकानि सत्त्वशतानि अनेकानि सत्त्वसहस्राणि अनेकानि सत्त्वशतसहस्राणि अनेकानि सत्त्वकोटिनियुतशतसहस्राणि अनुग्रहीष्यन्ति, चतुर्भिः संग्रहवस्तुभिर् दानेन प्रियवद्येन अर्थचर्यया समानार्थतया दशकुशलेषु कर्मपथेषु समादापयन्ति, चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु समादापयन्ति. आत्मना चैतेषु धर्मेषु प्रतिष्ठिता भवन्ति. आत्मना च दानपारमितायां चरन्ति परांश् च दानपारमितायां प्रतिष्ठापयन्ति. आत्मना च शीलपारमितायां चरन्ति परांश् च शीलपारमितायां प्रतिष्ठापयन्ति. आत्मना च क्षान्तिपारमितायां चरन्ति परांश् च क्षान्तिपारमितायां प्रतिष्ठापयन्ति. आत्मना च वीर्यपारमितायां चरन्ति परांश् च वीर्यपारमितायां प्रतिष्ठापयन्ति. आत्मना च ध्यानपारमितायां चरन्ति परांश् च ध्यानपारमितायां प्रतिष्ठापयन्ति. आत्मना च प्रज्ञापारमितायां चरन्ति परांश् च प्रज्ञापारमितायां प्रतिष्ठापयन्ति. ते च प्रज्ञापारमिताम् आगम्य उपायकौशल्येन सत्त्वान् स्रोतआपत्तिफले प्रतिष्ठापयन्ति न चात्मना साक्षात् कुर्वन्ति. एवं सकृदागामिफले अनागामिफले अर्हत्त्वे, प्रत्येकायां बोधौ प्रतिष्ठापयन्ति न चात्मना प्रत्येकां बोधिं साक्षात् कुर्वन्ति. आत्मना चाविनिवर्तनीयां भूमिम् आक्रामन्ति परांश् चाविनिवर्तनीयभूमौ प्रतिष्ठापयन्ति. आत्मना च बुद्धक्षेत्रं परिशोधयन्ति, अन्यांश् च बोधिसत्त्वान् बुद्धक्षेत्रपरिशुद्धौ समादापयन्ति. आत्मना च सत्त्वान् परिपाचयन्ति परांश् च सत्त्वपरिपाके समादापयन्ति. आत्मना चाभिज्ञा उत्पादयन्ति परांश् चाभिज्ञाप्राप्तये समादापयन्ति. आत्मना च धारणीमुखं परिशोधयन्ति परान् अपि धारणीमुखपरिशुद्धये समादापयन्ति. आत्मना च प्रतिभानसंपदं प्रतिलभन्ते परान् अपि प्रतिभानसंपदि समादापयन्ति. आत्मना च रूपसंपदं परिगृह्णन्ति परान् अपि रूपसंपत्प्रतिलाभाय समादापयन्ति. आत्मना च लक्षणसंपदं परिगृह्णन्ति परान् अपि (प्स्प्_4:21) लक्षणसंपत्प्रतिलाभाय समादापयन्ति. आत्मना च कुमारभूतसंपदं परिगृह्णन्ति परान् अपि कुमारभूतसंपत्प्रतिग्रहाय समादापयन्ति. आत्मना च बोधिपक्ष्यान् धर्मान् निष्पादयन्ति परान् अपि बोधिपक्ष्यधर्मपरिनिष्पत्तये समादापयन्ति. आत्मना च सत्यविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहितधारणीमुखान् उत्पादयन्ति परान् अप्य् एषु समादापयन्ति. आत्मना च चत्वारि वैशारद्यानि उत्पादयन्ति परान् अपि चतुर्षु वैशारद्येषु समादापयन्ति. आत्मना च चतस्रः प्रतिसंविद उत्पादयन्ति परान् अपि चतुरः प्रतिसंविदः प्राप्तये समादापयन्ति. आत्मना च महामैत्रीं महाकरुणां महामुदितां महोपेक्षां विभावयन्ति परान् अपि चतुरप्रमाणा विभावनायै समादापयन्ति. आत्मना चाष्टादशावेणिकान् बुद्धधर्मान् निष्पादयन्ति परान् अपि अष्टादशावेणिकेषु बुद्धधर्मेषु समादापयन्ति. आत्मना च सर्वाकारज्ञताम् अनुप्राप्नुवन्ति परांश् च सर्वाकारज्ञतायां समादापयन्ति. आत्मना च सर्ववासनानुसंधिक्लेशान् विजहन्ति परान् अपि सर्ववासनानुसंधिक्लेशोत्सर्गाय समादापयन्ति. आत्मना चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते परांश् च सम्यक्संबोधिम् अभिसंबोधये समादापयन्ति. आत्मना च धर्मचक्रं प्रवर्तयन्ति परांश् च धर्मचक्रं प्रवर्तनाय समादापयन्ति.
इति परार्थप्रयोगः
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन्न् आश्चर्यं सुगत यावद् बहुगुणसमन्वागतास् ते बोधिसत्त्वा महासत्त्वा ये सर्वसत्त्वानां कृतशः प्रज्ञापारमितायां चरन्ति अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. कथं भगवन् बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिताभावनापरिपूरिं गच्छति?
भगवान् आह: यदा सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपस्य वृद्धिं न समनुपश्यति, न वेदनाया न संज्ञाया न संस्काराणां, न विज्ञानस्य वृद्धिं समनुपश्यति, तदा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावनापरिपूरिं गच्छति.
भगवान् आह: यदा सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न धात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गानां पारमितानां सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् अष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां शून्यतानिमित्ताप्रणिहितानां सण्णाम् अभिज्ञानां (प्स्प्_4:22) सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानां दशानां बलानां चतुर्णां वैशारद्यानाञ् चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां वृद्धिं न समनुपश्यति सर्वज्ञताया वृद्धिं न समनुपश्यति, तदा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावनापरिपूरिं गच्छति.
भगवान् आह: यदा च सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपस्य परिहाणिं न समनुपश्यति, न वेदनाया न संज्ञाया न संस्काराणां, न विज्ञानस्य परिहाणिं समनुपश्यति, तदा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावनापरिपूरिं गच्छति. एवं धात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मार्यसत्याप्रमाण ध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां यदा सर्वज्ञतायाः परिहाणिं न समनुपश्यति, तदा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावनापरिपूरिं गच्छति. इत्य् अवृद्ध्यपरिहाणिप्रयोगः
पुनर् अपरं सुभूते यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् धर्म इति न समनुपश्यति, अधर्म इति न समनुपश्यति, अतीतम् इति न समनुपश्यति, अनागतम् इति न समनुपश्यति, प्रत्युत्पन्नम् इति न समनुपश्यति, कुशलम् अकुशलं व्याकृतम् अव्याकृतम् इति न समनुपश्यति, संस्कृतम् इति न समनुपश्यति, असंस्कृतम् इति न समनुपश्यति, कामधातुन् न समनुपश्यति, रूपधातुन् न समनुपश्यति, आरूप्यधातुन् न समनुपश्यति, दानपारमितान् न समनुपश्यति, शीलपारमितान् न समनुपश्यति, क्षान्तिपारमितान् न समनुपश्यति, वीर्यपारमितान् न समनुपश्यति, ध्यानपारमितान् न समनुपश्यति, प्रज्ञापारमितान् न समनुपश्यति यावत् सर्वज्ञतान् न समनुपश्यति, तदा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावनापरिपूरिं गच्छति. तत् कस्य हेतोः? तथा हि सुभूते धर्माणां धर्मलक्षणताम् उपादाय अविनिवर्तनीयताम् उपादाय रिक्तताम् उपादाय तुच्छताम् उपादाय असारताम् उपादाय वशिकताम् उपादाय.
इति धर्माद्यनुपलम्भप्रयोगः
सुभूतिर् आह: अचिन्त्यं भगवन् देश्यते.
भगवान् आह: रूपाचिन्त्यतया सुभूते अचिन्त्यं देश्यते, वेदना संज्ञा (प्स्प्_4:23) संस्कारा, विज्ञानाचिन्त्यतया सुभूते ऽचिन्त्यं देश्यते. दानपारमिताचिन्त्यतया अचिन्त्यं देश्यते, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिताचिन्त्यतयाचिन्त्यं देश्यते. एवं सप्तत्रिंशद्बोधिपक्षधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वशून्यतासर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः सर्वज्ञताचिन्त्यतया सुभूते ऽचिन्त्यं देश्यते. सचेत् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपम् अचिन्त्यम् इति न संजानीते, वेदना संज्ञा संस्कारा, विज्ञानम् अचिन्त्यम् इति न संजानीते परिपूरयिष्यति प्रज्ञापारमिताम्. एवं धात्वायतनानि प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि पारमिताः शून्यता सर्वसमाधयः सर्वधारणीमुखानि बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा सर्वज्ञताचिन्त्येति न संजानीते परिपूरयिष्यति प्रज्ञापारमिताम्.
इत्य् अचिन्त्याकारसंज्ञानिरोधप्रयोगः
सुभूतिर् आह: को ऽत्र भगवन् गम्भीरायां प्रज्ञापारमितायाम् अधिमोक्षते?
भगवान् आह: यः सुभूते बोधिसत्त्वो महासत्त्वः पूर्वम् अपि चरितो भवति, षट्सु पारमितासु तथागतावरोपितकुशलरऊलो भवति, बहुबुद्धपर्युपासितः कल्याणमित्रपरिगृहीतो भवति, स इमां प्रज्ञापारमिताम् अधिमोक्षते.
सुभूतिर् आह: कियता भगवन् बोधिसत्त्वो महासत्त्वः पूर्वम् अपि चरितो भवति, षट्सु पारमितासु तथागतावरोपितकुशलमूलो भवति, बहुबुद्धपर्युपासितः कल्याणमित्रपरिगृहीतो भवति.
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं न कल्पयति न विकल्पयति, रूपनिमित्तं न कल्पयति न विकल्पयति, रूपस्वभावन् न कल्पयति न विकल्पयति, वेदना संज्ञा संस्कारा, विज्ञानन् न कल्पयति न विकल्पयति, विज्ञाननिमित्तं न कल्पयति न विकल्पयति, विज्ञानस्वभावन् न कल्पयति न विकल्पयति. एवं धातून् आयतनानि प्रतीत्यसमुत्पादं प्रतीत्यसमुत्पादाङ्गानि कामरूपारूप्यधातुं दानपारमितां शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां (प्स्प्_4:24) ध्यानपारमितां प्रज्ञापारमिताम् अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गार्यसत्यप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तीः शून्यतानिमित्ताप्रणिहिताभिज्ञाः सर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् सर्वज्ञतान् न कल्पयति न विकल्पयति, सर्वज्ञतानिमित्तन् न कल्पयति न विकल्पयति, सर्वज्ञतास्वभावन् न कल्पयति न विकल्पयति. तत् कस्य हेतोः? तथा हि सुभूते रूपम् अचिन्त्यं, वेदना संज्ञा संस्कारा, विज्ञानम् अचिन्त्यम्. एवं धात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मार्यसत्यप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वशून्यतासर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः सर्वज्ञता अचिन्त्या. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः पूर्वम् अपि चरितो भवति षट्सु पारमितासु तथागतावरोपितकुशलमूलो भवति बहुबुद्धपर्युपासितः कल्याणमित्रपरिगृहीतो भवति.
सुभूतिर् आह: गम्भीरा भगवन् प्रज्ञापारमिता.
भगवान् आह: रूपगम्भीरतया सुभूते गम्भीरा प्रज्ञापारमिता, वेदना संज्ञा संस्कारा, विज्ञानगम्भीरतया सुभूते गम्भीरा प्रज्ञापारमिता. एवं धात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वशून्यतासर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मगम्भीरतया सुभूते गम्भीरा प्रज्ञापारमिताः, सर्वज्ञतागम्भीरतया सुभूते गम्भीरा प्रज्ञापारमिता. इत्य् अविकल्पप्रयोगः
सुभूतिर् आह: रत्नराशिर् भगवन् प्रज्ञापारमिता रत्नदात्री, स्रोतापत्तिफलस्य सकृदागामिफलस्यनागामिफलस्यार्हत्त्वस्य प्रत्येकबुद्धत्वस्यानुत्तरायाः सम्यक्संबोधेर् दात्री धर्मचक्रप्रवर्तिकेयं भगवन् प्रज्ञापारमिता. इति फलरत्नदानप्रयोगः
सुभूतिर् आह: सर्वधर्माणां शुद्धराशिर् भगवन् प्रज्ञापारमिता.
भगवान् आह: रूपविशुद्धिताम् उपादाय, वेदना संज्ञा संस्कारा, (प्स्प्_4:25) विज्ञानविशुद्धिताम् उपादाय. एवं धात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्माः, सर्वज्ञताविशुद्धिताम् उपादाय. इति विशुद्धिप्रयोगः
सुभूतिर् आह: आश्चर्यं भगवन् यावद् अस्यां गम्भिरायां प्रज्ञापारमितायां भाष्यमाणायां बहवो ऽन्तराया उत्पद्येरन्.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, बह्वन्तरायायं सुभूते गम्भीरा प्रज्ञापारमिता, तेन कुलपुत्रेण वा कुलदुहित्रा वा इमां प्रज्ञापारमितां लिखिता क्षिप्रम् एव लिखितव्या, उद्दिशता धारयता वाचयता स्वाध्यायता योनिशश् च मनसिकुर्वता, भावयता क्षिप्रम् एव भावयितव्या. मा खल्व् अस्यां गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां धार्यमाणायां वाच्यमानायां स्वाध्यायमानायां योनिशो मनसिक्रियमाणायां भाव्यमानायां वान्तरायः स्याद् इति. तत् कस्य हेतोः? सचेत् सुभूते यः कुलपुत्रो वा कुलदुहिता वा मासेन इमां प्रज्ञापारमितां लिखेत् तेन लिखितव्यैव भवेत्. सचेद् द्वाभ्यां त्रिभिश् च चतुर्भिः पञ्चभिः षड्भिः सप्तभिर् अष्टाभिर् यावत् संवत्सरेण लिखेत् तेन लिखितव्यैव भवेद् एवम् उपदेष्टव्या धारयितव्या वाचयितव्या स्वाध्यातव्या योनिशो मनसिकर्तव्या. सचेत् मासेन वा भावयेत् तेन भावयितव्या भवेत् यावत् संवत्सरेण भावयेत् तेन भावयितव्या भवेत्. तत् कस्य हेतोर्? बहवः सुभूते महारत्नस्यान्तराया उत्पद्यन्ते.
सुभूतिर् आह: आश्चर्यं भगवन् यद् अस्यां गम्भीरायां प्रज्ञापारमितायां मारः पापीयान् अन्तरायाय योगम् आपद्यते, यद् उतालिखनायानुद्दिशमानायाधारणायावाचनायायोनिशो मनसिकारणायाभावनायै.
भगवान् आह: किं चापि सुभूते मारः पापीयान् गम्भीरायां प्रज्ञापारमितायाम् उद्योगम् आपद्येत अन्तराय करणाय यद् उतालिखनाय यावद् अभावनायै बोधिसत्त्वस्य महासत्त्वस्य इमां गम्भीरां प्रज्ञापारमितां लिखत उद्दिशतो धारयतो वाचयतः स्वाध्यायतो योनिशो मनसिकुर्वतो भावयतो न शक्नोत्य् अन्तरायं कर्तुम्.
इत्य् अधिमुक्तिप्रयोगः इत्य् उक्तः प्रयोगः
(प्स्प्_4:26)
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कस्य भगवन्न् अनुभावेन मारः पापीयान् न शक्नोत्य् अन्तरायं कर्तुं बोधिसत्त्वानां महासत्त्वानाम् इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां धारयतां वाचयतां स्वाध्यायतां योनिशो मनसिकुर्वतां भावयताम्?
भगवान् आह: बुद्धानुभावेन शारिपुत्र मारः पापीयान् न शक्नोत्य् अन्तरायं कर्तुं बोधिसत्त्वानां महासत्त्वानाम् इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां धारयतां वाचयतां स्वाध्यायतां योनिशो मनसिकुर्वतां भावयताम्. ये ऽपि ते शारिपुत्र समन्ता दशसु दिक्षु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति, तेषाम् अपि बुद्धानां भगवताम् अनुभावात्. ते ऽपि बुद्धा भगवन्तस् तान् बोधिसत्त्वान् महासत्त्वान् समन्वाहरिष्यन्ति अनुपरिग्रहीष्यन्ति, तैश् च बुद्धैर् भगवद्भिर् अनुपरिगृहीतानां बोधिसत्त्वानां महासत्त्वानां मारः पापीयान् न शक्नोत्य् अन्तरायं कर्तुम्, इमां प्रज्ञापारमितां लिखतां धारयतां वाचयताम् उद्दिशतां स्वाध्यायतां योनिशो मनसिकुर्वतां भावयताम्. तत् कस्य हेतोर्? न हि शारिपुत्र बुद्धैर् भगवद्भिर् अनुपरिगृहीतानां बोधिसत्त्वानां महासत्त्वानां मारेण पापीयसा शक्नोत्य् अन्तरायः कर्तुम्. तत् कस्य हेतोर्? धर्मं तेषां शारिपुत्र ये ऽपि ते समन्ताद् दशसु दिक्ष्व् अप्रमेयेष्व् असंख्येयेषु लोकधातुष्व् अप्रमेया असंख्येयास् तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति, ते ऽपि बुद्धा भगवन्त इमां प्रज्ञापारमितां लिखतो धारयतो वाचयत उद्दिशतः स्वाध्यायतो योनिशो मनसिकुर्वतो भावयतो बोधिसत्त्वान् महासत्त्वान् समन्वाहरन्ति. इति मारशक्तिव्याघातगुणः
वेदितव्यं तेन शारिपुत्र कुलपुत्रेण वा कुलदुहित्रा वा इमां गम्भीरां प्रज्ञापारमितां लिखता वा धारयता वा वाचयता वा उद्दिशता वा स्वाध्यायता वा योनिशो मनसिकुर्वता वा भावयता वा बुद्धानुभावेनाहम् इमां गम्भीरां प्रज्ञापारमितां लिखामि धारयामि वाचयामि उद्दिशामि स्वाध्यायामि भावयामि योनिशो मनसिकरोमि.
शारिपुत्र आह: यः कश्चिद् भगवन् कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमितां लिखिष्यति धारयिष्यति वाचयिष्यति उद्देक्ष्यति स्वाध्यास्यति योनिशो मनसिकरिष्यति भावयिष्यति वेदितव्यं भगवन् (प्स्प्_4:27) सर्वन् तद्बुद्धानुभावेन, सर्वे च ते बुद्धपरिगृहीता भविष्यन्ति.
भगवान् आह: एवम् एतच् छारिपुत्र एवम् एतत्, यथा वदसि यः कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमितां लिखिष्यति धारयिष्यति वाचयिष्यति उद्देक्ष्यति स्वाध्यास्यति योनिशो मनसिकरिष्यति भावयिष्यति वेदितव्यं शारिपुत्र सर्वन् तद्बुद्धानुभावेन सर्वे ते बुद्धपरिगृहीता भविष्यन्ति.
इति बुद्धसमन्वाहारज्ञापनगुणः
शारिपुत्र आह: ज्ञातास् ते भगवन् ज्ञानेन कुलपुत्राः कुलदुहितरश् च दृष्टास् ते भगवन् मांसचक्षुषा कुलपुत्राः कुलदुहितरश् च तैर् बुद्धैर् भगवद्भिर् ये ते पूर्वदिग्भागे यावद् दशसु दिक्ष्व् अप्रमेयासंख्येयेषु लोकधातुषु अप्रमेयासंख्येयास् तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति, तेषाञ् च बोधिसत्त्वा महासत्त्वा य इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति उद्देक्ष्यन्ति स्वाध्यास्यन्ति भावयिष्यन्ति योनिशो मनसिकरिष्यन्ति तथत्वाय प्रतिपत्स्यन्ते.
भगवान् आह: एवम् एतच् छारिपुत्र एवम् एतत्, ज्ञातास् ते शारिपुत्र ज्ञानेन कुलपुत्राः कुलदुहितरश् च दृष्टास् ते शारिपुत्र मांसचक्षुषा कुलपुत्राः कुलदुहितरश् च तैर् बुद्धैर् भगवद्भिर् ये ते पूर्वस्यां दिशि यावद् दशसु दिक्ष्व् अप्रमेयासंख्येयेषु लोकधातुषु अप्रमेयासंख्येयास् तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति, तेषाञ् च ये बोधिसत्त्वा महासत्त्वा य इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति उद्देक्ष्यन्ति स्वाध्यास्यन्ति भावयिष्यन्ति योनिशो मनसिकरिष्यन्ति तथत्वाय प्रतिपत्स्यन्ते. इति बुद्धप्रत्यक्षीकरणगुणः
ते खलु पुनर् महायानिकाः कुलपुत्राः कुलदुहितरश् च वेदितव्या अभ्यासन्नी भविष्यन्त्य् अनुत्तरायाः सम्यक्संबोधेः.
इति संबोधाभ्यासीकरणगुणः
ये ऽपि ते शारिपुत्र कुलपुत्राः कुलदुहितरश् च इमां गम्भीरां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा धारयिष्यन्ति. ते खलु पुनः शारिपुत्र बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् च इह गम्भीरायां प्रज्ञापारमितायाम् अधिमुक्तिबहुला भविष्यन्ति, ये ऽपीमां गम्भीरां प्रज्ञापारमितां सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः. (प्स्प्_4:28) ते ऽपि शारिपुत्र बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् च ज्ञाता दृष्टाश् च बुद्धैर् भगवद्भिस् तथागताश् च बुद्धचक्षुषा पश्यन्ति, तेषाम् अपि कुलपुत्राणां कुलदुहितृणां च महार्थं महानुशंसं महाफलं महाविपाकं य इमां गम्भीरां प्रज्ञापारमितां लिखित्वा धारयिष्यन्ति. ते तेन कुशलमूलेन न जातु बुद्धैर् भगवद्भिर् विरहिता भविष्यन्ति. ते न जात्व् अपायेषूपपत्स्यन्ते देवमनुष्येषूपपत्स्यमाना बुद्धबोधिसत्त्वैर् अविरहिता भविष्यन्ति. अविनिवर्तनीयां भूमिं चातिक्रमिष्यन्ति, ते च बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरो वा तेनैव कुशलमूलेन न जातु विरहिता भविष्यन्ति षड्भिः पारमिताभिः, अध्यात्मशून्यतया बहिर्धाशून्यतया अध्यात्मबहिर्धाशून्यतया यावद् अभावस्वभावशून्यतया न जातु विरहिता भविष्यन्ति, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गार्यसत्यध्यानाप्रमाणारूप्यसमापत्तिभिर् न जातु विरहिता भविष्यन्ति, शून्यतानिमित्ताप्रणिहितैर् विमोक्षमुखैर् न जातु विरहिता भविष्यन्ति, अष्टाभिर् विमोक्षैर् नवानुपूर्वविहारसमापत्तिभिर् न जातु विरहिता भविष्यन्ति, अभिज्ञाभिः समाधिधारणीमुखैर् न जातु विरहिता भविष्यन्ति, दशभिस् तथागतबलैः चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् यावद् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् न जातु विरहिता भविष्यन्ति सर्वज्ञतया च. इति महार्थतादिगुणः
इयं च शारिपुत्र प्रज्ञापारमिता तथागतस्यात्ययेन दक्षिणापथे प्रचरिष्यति, तत्र भिक्षुर् भिक्षुण्य् उपासकोपासिका इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्ति उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति. ते तेन कुशलमूलेन न दुर्गतिविनिपातं गमिष्यन्ति ते देवमानुषिकीसंपत्तिं प्रत्यनुभवमानाः षड्भिः पारमिताभिर् अभ्युद्गमिष्यन्ति बुद्धांश् च भगवतः सत्कुर्वाणा गुरुकुर्वाणा मानयमानाः पूजयमाना अनुपूर्वेण त्रिभिर् यानैः परिनिर्वास्यन्ति यद् उत श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा.
सेयं शारिपुत्र गम्भीरा प्रज्ञापारमिता दक्षिणापथाद् वर्तन्यां प्रचरिष्यति. तत्रापि भिक्षवो भिक्षुण्य् उपासकोपासिकाश् च इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्त्य् उद्गृहीष्यन्ति धारयिष्यन्ति (प्स्प्_4:29) वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः. ते तेन कुशलमूलेन न दुर्गतिविनिपातं गमिष्यन्ति, देवमनुष्यसंपत्तिं प्रत्यनुभवमानाः षड्भिः पारमिताभिर् अभ्युद्गता भविष्यन्ति, बुद्धान् भगवतः सत्कुर्वाणा गुरुकुर्वाणा मानयमानाः पूजयमाना अनुपूर्वेण त्रिभिर् यानैः निर्यास्यन्ति श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा.
सा खलु पुनर् इयं शारिपुत्र गम्भीरा प्रज्ञापारमिता वर्तन्या उत्तरापथे प्रचरिष्यति, तत्रापि शारिपुत्र भिक्षवो भिक्षुण्य् उपासकोपासिकाश् च इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्त्य् उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, ते तेन कुशलमूलेन न दुर्गतिविनिपातं गमिष्यन्ति, ते देवमनुष्यसंपत्तिं प्रत्यनुभूय षड्भिः पारमिताभिर् अभ्युद्गता भविष्यन्ति, बुद्धांश् च भगवतः सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति, अनुपूर्वेण त्रिभिर् यानैर् निर्यास्यन्ति श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा.
तत्र शारिपुत्र इयं गम्भीरा प्रज्ञापारमिता बुद्धकृत्यं करिष्यति तत् कस्य हेतोर्? न हि शारिपुत्र मण्डप्राप्ते धर्मविनये सद्धर्मान्तर्द्धानं भविष्यति, समन्वाहृतास् ते शारिपुत्र मया कुलपुत्राः कुलदुहितरश् च, य इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्त्य् उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति तथत्वाय च प्रतिपत्स्यन्ते, ये ऽपि ते कुलपुत्राः कुलदुहितरश् च इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्ति लिखित्वा च सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिस्, ते च खलु पुनः शारिपुत्र कुलपुत्रा वा कुलदुहितरश् च तेन कुशलमूलेन न दुर्गतिविनिपातं गमिष्यन्ति देवमानुषिकीसंपत्तिं प्रत्यनुभूय षड्भिः पारमिताभिर् अभ्युद्गता भविष्यन्ति अभ्युद्गम्य बुद्धान् भगवतः सत्कुर्वन्तो गुरुकुर्वन्तो मानयन्तो पूजयन्तो ऽनुपूर्वेण त्रिभिर् यानैर् निर्यास्यन्ति श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा. तत् कस्य हेतोर्? दृष्टा हि ते शारिपुत्र कुलपुत्राः (प्स्प्_4:30) कुलदुहितरश् च तथागतेन बुद्धचक्षुषा वर्णितास् तथागतेन प्रशस्तास् ते तथागतेन, ये ऽपि ते समन्ताद् दशसु दिक्षु सर्वलोकधातुप्रसरेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति तैर् अपि तथागतैर् अपि अर्हद्भिः सम्यक्संबुद्धैर् दृष्टास् ते कुलपुत्राः कुलदुहितरश् च बुद्धचक्षुषा वर्णितास् ते प्रशस्तास् ते कुलपुत्राः कुलदुहितरश् च.
शारिपुत्र आह: वैस्तारिकी पुनर् इयं भगवन् गम्भीरा प्रज्ञापारमिता पश्चिमे काले पश्चिमे समये उत्तरस्यां दिशि भविष्यति.
भगवान् आह: एवम् एतच् छारिपुत्र एवम् एतत्, इयं शारिपुत्र गम्भीरा प्रज्ञापारमिता पश्चिमे काले पश्चिमे समये उत्तरस्यां दिशि वैस्तारिकी भविष्यति. तत्र शारिपुत्र पश्चिमे काले पश्चिमे समये ते कुलपुत्राः कुलदुहितरश् च य इमां गम्भीरां प्रज्ञापारमितां श्रोष्यन्ति श्रुत्वा च लिखिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशो मनसिकरिष्यन्ति तथत्वाय च प्रतिपत्स्यन्ते. चिरयानसंप्रस्थितास् ते कुलपुत्राः कुलदुहितरश् च बहुबुद्धपर्युपासितास् ते तथागतावरोपितकुशलमूला य इमां गम्भीरां प्रज्ञापारमितां श्रोष्यन्ति श्रुत्वा च लिखिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति तथत्वाय च प्रतिपत्स्यन्ते.
शारिपुत्र आह: कियन्तस् ते भगवन् कुलपुत्रा वा कुलदुहितरो वा भविष्यन्ति?, य इमां गम्भीरां प्रज्ञापारमितां पश्चिमे काले पश्चिमे समये उत्तरे दिग्भागे श्रुत्वा लिखिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति तथत्वाय च प्रतिपत्स्यन्ते.
भगवान् आह: किं चापि शारिपुत्र पश्चिमे काले पश्चिमे समये उत्तरे दिग्भागे बहवो बोधिसत्त्वा महासत्त्वा भविष्यन्ति, अल्पकाः पुनः शारिपुत्र बोधिसत्त्वा महासत्त्वाः कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा लिखिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति तथत्वाय च प्रतिपत्स्यन्ते. इति देशनिरूपणागुणः
(प्स्प्_4:31)
तेन खलु पुनः शारिपुत्र बोधिसत्त्वा महासत्त्वाः कुलपुत्राः कुलदुहितरश् च य इमां गम्भीरां प्रज्ञापारमितां भाष्यमाणां श्रुत्वा नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासम् आपत्स्यन्ते. तत् कस्य हेतोः? अनुबद्धा हि तैः कुलपुत्रैः कुलदुहितृभिश् च तथागता अर्हन्तः सम्यक्संबुद्धाः परिपृच्छिताश् च परिप्रश्नीकृताश् च. तत् कस्य हेतोः? प्रज्ञापारमिता परिपूर्णा हि ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति. एवं ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता, दानपारमितापरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, अध्यात्मशून्यतापरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, बहिर्धाशून्यतापरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, अध्यात्मबहिर्धाशून्यतापरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, यावद् अभावस्वभावशून्यतापरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति. एवं स्मृत्युपस्थानसम्यक्प्रहानार्द्धिपादेन्द्रियबलबोध्यङ्गाष्टाङ्गमार्गपरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, अप्रमाणध्यानारूप्यसमापत्तिपरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, आर्यसत्यपरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, अष्टविमोक्षनवानुपूर्वविहारसमापत्तिपरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, शून्यतानिमित्ताप्रणिहिताभिज्ञापरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति समाधिधारणीमुखपरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मपरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति. ते खलु पुनः शारिपुत्र कुलपुत्राः कुलदुहितरश् च कुशलमूलोपस्तब्धाश् च बहुजनस्य च ते ऽथ करिष्यन्ति, इमाम् अनुत्तरां सम्यक्संबोधिम् आरभ्य.
इति सर्वानास्रवधर्मपरिपूरणगुणः
तत् कस्य हेतोः? तथा ह्य् अमुत्र मया तेषां कुलपुत्राणां कुलदुहितृणां च सर्वज्ञताप्रतिसंयुक्तैव कथा कथिता, ये ऽपि ते ऽभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास्, तैर् अपि बुद्धैर् भगवद्भिस् तेषां कुलपुत्राणां कुलदुहितृणां च सर्वज्ञताप्रतिसंयुक्तैव कथा कथिता तेषाञ् जातिव्यतिवृत्तानाम् अपि त एव समुदाचारा भविष्यन्ति, यद् उतानुत्तरां सम्यक्संबोधिम् आरभ्य, ते परेभ्यः तथैव कथां करिष्यन्ति, यद् उतानुत्तरां सम्यक्संबोधिम् आरभ्य. (प्स्प्_4:32)
इति कथापुरुषतागुणः
ते खलु पुनः शारिपुत्र बोधिसत्त्वाः कुलपुत्राः कुलदुहितरश् च संहता भविष्यन्ति, ते न शक्यन्ते भेत्तुं मारेण वा मारकायिकाभिर् वा देवताभिर् अनुत्तरायाः सम्यक्संबोधेः प्राग् एवान्यैः पापेच्छैः पापसमाचारैर्, य इमां गम्भीरां प्रज्ञापारमितां प्रतिलप्स्यन्ते.
इत्य् अभेद्यतागुणः
ते खलु पुनः शारिपुत्र बोधिसत्त्वाः कुलपुत्राः कुलदुहितरश् च इमां प्रज्ञापारमितां श्रुत्वा उदारां प्रीतिं प्रसादं प्रमोद्यं प्रतिलप्स्यन्ते. ते च बहुजनं कुशलमूलेषु प्रतिष्ठापयिष्यन्ति यद् उतानुत्तराम् एव सम्यक्संबोधिम् आरभ्य.
इत्य् असाधारणकुशलमूलोत्पत्तिगुणः
एवं च तैः कुलपुत्रैः कुलदुहितृभिश् च मम संमुखं वाग् भाषिता, वयं भगवन् बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि बहूनि प्राणिकोटीनियुतशतसहस्राणि कुशलमूलेषु प्रतिष्ठापयिष्यामो यद् उतानुत्तरां सम्यक्संबोधिम् आरभ्य. बोधये प्रतिष्ठापयिष्यामः संदर्शयिष्यामः समादापयिष्यामः समुत्तेजयिष्यामः संप्रहर्षयिष्यामो ऽविनिवर्तनीयत्वे च व्याकरिष्यामः. तत् कस्य हेतोर्? अनुमोदिता मया तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितृणां च वाग् भाषिता चित्तेन चित्तं व्यवलोक्य, अतीतानाम् अपि तथागतानाम् अर्हतां सम्यक्संबुद्धानां पुरतस् तैः कुलपुत्रैः कुलदुहितृभिश् चैवं भाषिता, वयं बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि बहूनि प्राणिकोटीनियुतशतसहस्राणि बोधिसत्त्वचर्यां चरन्तो बोधाय प्रतिष्ठापयिष्यामः संदर्शयिष्यामः समादापयिष्यामः समुत्तेजयिष्यामः संप्रहर्षयिष्यामो ऽविनिवर्तनीयत्वे न च व्याकरिष्यामः. तत् कस्य हेतोः? तथा हि तैर् अतीतैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुमोदिता तेषां बोधिसत्त्वानां कुलपुत्राणां कुलदुहितृणां च वाग् भाषिता चित्तेन चित्तं व्यवलोक्य, तेषां च खलु शारिपुत्र कुलपुत्राणां कुलदुहितृणां च मया अनुमोदितम् एते बोधिसत्त्वा महासत्त्वा बोधाय चरन्तो बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि बहूनि प्राणिकोटीनियुतशतसहस्राणि अनुत्तरायै सम्यक्संबोधये (प्स्प्_4:33) प्रतिष्ठापयिष्यन्ति संदर्शयिष्यन्ति समादापयिष्यन्ति समुत्तेजयिष्यन्ति संप्रहर्षयिष्यन्ति अविनिवर्तनीयत्वे व्याकरिष्यन्ति.
इति प्रतिज्ञायाथार्थ्यसंपादनगुणः
ते खलु पुनः शारिपुत्र कुलपुत्राः कुलदुहितरश् च उदाराधिमुक्तिका भविष्यन्ति, रूपे शब्दे गन्धे रसे स्प्रष्टव्ये धर्मेषु ते उदाराणि दानानि दास्यन्ति, उदाराणि दानानि दत्त्वा उदाराणि कुशलमूलान्य् अभिसंस्करिष्यन्ति. ते उदाराणि कुशलमूलानि अभिसंस्कृत्योदारं विपाकं परिग्रहीष्यन्ति, ते उदारं विपाकं परिगृह्य तेषाम् एव सत्त्वानाम् अर्थाय विपाकाद् विपाकं परिगृहीष्यन्ति.
इत्य् उदारफलपरिग्रहगुणः
तेषाम् एव सर्वसत्त्वानां सर्ववस्तूनि परित्यजन्ति, यदि वा अध्यात्मिकानि यदि वा बाह्यानि स तेन कुशलमूलेन अन्यानि बुद्धक्षेत्राणि अध्यालम्बिष्यति यत्र संमुखी भूतास् तथागता अर्हन्तः सम्यक्संबुद्धा धर्मं देशयन्ति. तेषु च इमाम् एव प्रज्ञापारमितां श्रुत्वा तत्रापि बुद्धक्षेत्रे बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि बहूनि प्राणिकोटीनियुतशतसहस्राणि अनुत्तरायै सम्यक्संबोधये संदर्शयिष्यन्ति समादापयिष्यन्ति समुत्तेजयिष्यन्ति संप्रहर्षयिष्यन्ति.
शारिपुत्र आह: आश्चर्यं भगवन् यावद् इदं तथागतेनार्हता सम्यक्संबुद्धेन न स कश्चिद् धर्मो यो नाज्ञातो, न सा काचिद् धर्मतथता या नाज्ञाता, न सा काचित् सत्त्वानां चर्या या नाज्ञाता, यत्र हि नामातीतानाम् अपि तथागतानां बोधिसत्त्वा बुद्धक्षेत्राणि श्रावकाश् चाज्ञाताः, अनागतानाम् अपि तथागतानां बोधिसत्त्वा बुद्धक्षेत्राणि श्रावकाश् चाज्ञाताः, प्रत्युत्पन्नानाम् अपि तथागतानां बोधिसत्त्वा बुद्धक्षेत्राणि श्रावकाश् चाज्ञाता, ये च ते दशदिग्लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति, तेषाम् अपि तथागतानाम् अर्हतां सम्यक्संबुद्धानां बोधिसत्त्वा बुद्धक्षेत्राणि श्रावकाश् चाज्ञाताः.
इति सत्त्वार्थप्रतिपत्तिगुणः
ये ऽपि ते भगवन् बोधिसत्त्वा महासत्त्वा आसां षण्णां पारमितानां (प्स्प्_4:34) कृतश उद्योगम् आपत्स्यन्ते, ते ऽपि एताः षट् पारमिता गवेषिष्यन्ते पर्येषिष्यन्ते. तेषां खलु पुनः कुलपुत्राणां कुलदुहितृणाञ् च इमाः षट् पारमिता गवेषमाणानां पर्येषमाणानाम् एताः षट् पारमिताः केचिल् लप्स्यन्ते? केचिन् न लप्स्यन्ते?
भगवान् आह: प्रायेण शारिपुत्र तेषां कुलपुत्राणां कुलदुहितृणां च सर्वा इमाः षट् पारमिता उपपत्स्यन्ते. तत् कस्य हेतोः? तथा हि शारिपुत्र ते कुलपुत्राः कुलदुहितरश् चासां षण्णां पारमितानाम् उद्योगम् आपन्नाः.
शारिपुत्र आह: किं पुनर् भगवन्न् इमे गम्भीरा गम्भीराः सूत्रान्ताः षट् पारमिता प्रतिसंयुक्तास् तेषां कुलपुत्राणां कुलदुहितृणां चोत्पत्स्यन्ते?
भगवान् आह: गम्भीरा गम्भीराः शारिपुत्र सूत्रान्ताः षट् पारमिता प्रतिसंयुक्तास् तेषां कुलपुत्राणां कुलदुहितृणां चोत्पत्स्यन्ते.
शारिपुत्र आह: केषां भगवन् कुलपुत्राणां कुलदुहितृणां चोत्पत्स्यन्ते?
भगवान् आह: ये शारिपुत्र बोधिसत्त्वाः कुलपुत्राः कुलदुहितरश् चासां षण्णां पारमितानां कृतशः तीव्रेण प्रसादेन निरपेक्षाः काये जीविते चोद्योगम् आपत्स्यन्ते. तत् कस्य हेतोः? एवं ह्य् एतच् छारिपुत्र भवति, ये ऽनुत्तरायां सम्यक्संबोधौ सत्त्वान् प्रतिष्ठापयन्ति संदर्शयन्ति समादापयन्ति समुत्तेजयन्ति संप्रहर्षयन्ति निवेशयन्ति. तेषां खलु पुनः शारिपुत्र कुलपुत्राणां कुलदुहितृणां च जातिव्यतिवृत्तानाम् अप्य् एताः षट् पारमिता उपपत्स्यन्ते, ते षट्पारमितासु यथोपदिष्टासु प्रवर्तमानास् तावद् वीर्यं न संश्रयिष्यन्ति यावन् न बुद्धक्षेत्रं परिशोधयिष्यन्ति. सत्त्वांश् च न परिपाचयिष्यन्ति, अनुत्तरां सम्यक्संबोधिन् नाभिसंभोत्स्यन्ते.
इति प्रज्ञापारमिताया अलोभविकलालोभविपर्ययेण नियतिलाभगुण इत्य् उक्ता गुणाः
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: गुणा इमे भगवन् परिकीर्तितास् तेषां कुलपुत्राणां कुलदुहितृणाञ् च ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः षट्पारमितासु चरिष्यन्ति, सत्त्वांश् च परिपाचयिष्यन्ति, बुद्धक्षेत्राणि परिशोधयिष्यन्ति. कीदृशाः खलु पुनर् भगवंस् तेषां कुलपुत्राणां कुलदुहितृणां चान्तराया उत्पत्स्यन्ते?
(प्स्प्_4:35)
भगवान् आह: चिरेण प्रतिभानम् उत्पत्स्यते, इदं सुभूते मारकर्म वेदितव्यं बोधिसत्त्वानां महासत्त्वानाम्.
सुभूतिर् आह: केन कारणेन भगवंश् चिरेण प्रतिभानम् उत्पत्स्यते, यद् बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् कृच्छ्रेण प्रज्ञापारमितां परिपूरयिष्यति. कृच्छ्रेण ध्यानपारमितां परिपूरयिष्यति, कृच्छ्रेण वीर्यपारमितां परिपूरयिष्यति, कृच्छ्रेण क्षान्तिपारमितां परिपूरयिष्यति, कृच्छ्रेण शीलपारमितां परिपूरयिष्यति, कृच्छ्रेण दानपारमितां परिपूरयिष्यति, अनेन सुभूते पर्यायेन चिरेण प्रतिभानम् उत्पत्स्यते, इदं सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति कृच्छ्रप्राप्तिः
पुनर् अपरं सुभूते अतिक्षिप्रं प्रतिभानम् उत्पत्स्यते तेन च मंस्यते, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
सुभूतिर् आह: केन पर्यायेण भगवन् बोधिसत्त्वानां महासत्त्वानाम् अतिक्षिप्रं प्रतिभानोत्पत्त्या मारकर्म उत्पत्स्यते?
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमितायां चरतः शीलक्षान्तिवीर्यध्यानप्रज्ञापारमितायां चरतो ऽनुपायकुशलमूलस्यातिक्षिप्रं प्रतिभानम् उत्पत्स्यते, अनेन सुभूते पर्यायेण बोधिसत्त्वानां महासत्त्वानाम् अतिक्षिप्रं प्रतिभानोत्पत्त्या मारकर्म वेदितव्यम्. इत्य् आशुप्रतिभानता
पुनर् अपरं सुभूते विजृम्भमाणा इमां प्रज्ञापारमितां लिखिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते हसन्त इमां प्रज्ञापारमितां लिखिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते परस्परम् उच्चग्घयमाना इमां प्रज्ञापारमितां लिखिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति कायविकारदौष्ठुल्यं त्रिविधम्
पुनर् अपरं सुभूते विक्षिप्तचित्ता लिखिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते ऽन्योन्यविज्ञानसमङ्गिनो लिखिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
(प्स्प्_4:36)
पुनर् अपरं सुभूते बोधिसत्त्वानां महासत्त्वानाम् एवं भविष्यति, न वयं अत्रास्वादं लभामह इत्य् उत्थायासनात् प्रक्रमिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति चित्तदौष्ठुल्यं त्रिविधम्
पुनर् अपरं सुभूते विजृम्भमाणा उत्थायासानात् प्रक्रमिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते विजृम्भमाणा स्वाध्यास्यन्ति धारयिष्यन्ति वाचयिष्यन्ति देशयिष्यन्ति, विजृम्भमाणा मनसिकरिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते परस्परं हसमाना उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, परस्परं हसमाना योनिशो मनसिकरिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते परस्परम् उच्चग्घयमाना लिखिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते विक्षिप्तचित्ता उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते अन्योन्यव्यञ्जनसमङ्गिन उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इत्य् अयोगविहितस्वाध्यायादिता
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यद् भगवन् एवम् आह, न वयम् अत्र आस्वादं लभामह इत्य् उत्थायासनात् प्रक्रमिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम् इति. केन कारणेन भगवन् नात्रास्वादं लभन्ते?
भगवान् आह: तथा हि सुभूते पूर्वम् अपि न चरिताः प्रज्ञापारमितायां, ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां, तथा हि सुभूते पूर्वम् अपि न चरिता दानपारमितायां, तेन कारणेन सुभूते आस्वादं न लभन्ते, इह प्रज्ञापारमितायां (प्स्प्_4:37) भाष्यमाणायाम् उत्थायासनात् प्रक्रमिष्यन्ति.
पुनर् अपरं सुभूते बोधिसत्त्वानां महासत्त्वानाम् एवं भवति, न वयम् अत्र व्याकृताः प्रज्ञापारमितायाम् इत्य् अप्रसन्नचित्ता उत्थायासनात् प्रक्रमिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
सुभूतिर् आह: केन कारणेन भगवन् न व्याकृताः प्रज्ञापारमितायाम् उत्थायासनात् प्रक्रमिष्यन्ति?
भगवान् आह: न खलु पुनः सुभूते बोधिसत्त्वा महासत्त्वा अनवक्रान्तनियामा व्याक्रियन्ते अनुत्तरायां सम्यक्संबोधौ, न ममात्र प्रज्ञापारमितायान् नाम गृहीतम् इति प्रसादन् न प्रतिलप्स्यन्ते, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
सुभूतिर् आह: केन कारणेन भगवन् नामधेयानि न परिकीर्तितानि बोधिसत्त्वानां महासत्त्वानाम् इह गम्भीरायां प्रज्ञापारमितायाम्?
भगवान् आह: न खलु पुनः सुभूते अव्याकृतानां बोधिसत्त्वानां महासत्त्वानां नामधेयानि परिकीर्तन्ते, नापि मम नामधेयं परिकीर्तितं ग्रामस्य वा नगरस्य वा निगमस्य वा राजधान्या वा राष्ट्रस्य वा यत्राहं जात इति, स प्रज्ञापारमितान् न श्रोतव्यां मंस्यते, स ततः परिषदो ऽपक्रमितव्यं मंस्यते, स यथा यथापक्रमितव्यं मंस्यन्ते तथा तथा दूरीभविष्यन्ति बुद्धधर्मेभ्यो, यावत उपक्रमेण चित्तोत्पादम् उत्पादयिष्यन्ति, तावतः कल्पान् संपरिग्रहीष्यति, यत्र तेन पुनर् एव योगम् आपत्तव्यम् इति, वैमुख्यनिमित्तग्राहितां तान् सूत्रान्तान् गवेषितव्यान् मंस्यन्ते, येन सर्वज्ञज्ञानस्याहारिकाः प्रज्ञापारमितां सर्वज्ञज्ञानस्याहारिकां च्छोरयित्वा तान् पर्येषितव्यान् मंस्यन्ते. एवं बोधिसत्त्वाः कुलपुत्राः कुलदुहितरश् च सर्वज्ञताज्ञानाधिगमस्य मूलं च्छोरयित्वा शाखापत्रपलाशम् अध्यालम्बितव्यं मंस्यन्ते, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
सुभूतिर् आह: कतमे ते भगवन् सूत्रान्ता ये सर्वज्ञज्ञानस्याहारका न भवन्ति, यान् पर्यवाप्तव्यान् मंस्यन्ते?
भगवान् आह: ये सूत्रान्ताः श्रावकप्रत्येकबुद्धयानप्रतिसंयुक्ताः, तद्यथा स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाः शून्यतानिमित्ताप्रणिहितविमोक्षमुखं यत्र स्थित्वा (प्स्प्_4:38) कुलपुत्राः कुलदुहितरश् च स्रोतआपत्तिफलं प्राप्नुवन्ति, सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबोधिं प्राप्नुवन्ति, इमे ते सुभूते श्रावकप्रत्येकबुद्धभूमिप्रतिसंयुक्ताः सूत्रान्ता, ये सर्वज्ञताया नाहरणाय संवर्तन्ते, ते प्रज्ञापारमितां रिञ्चित्वा तां पर्यवाप्तव्यां मंस्यन्ते. तत् कस्य हेतोः? प्रज्ञापारमितानिर्जाता हि सुभूते बोधिसत्त्वा महासत्त्वा लौकिकलोकोत्तरैर् धर्मैर् निर्यास्यन्ति, प्रज्ञापारमितायां शिक्ष्यमाणाः सुभूते बोधिसत्त्वा महासत्त्वा लौकिकलोकोत्तरेषु धर्मेषु शिक्षिष्यन्ते. इति हेतुभ्रंशः
तद्यथापि नाम सुभूते कुक्कुरः स्वामिनो ऽन्तिकात् पिण्डञ् छोरयित्वा कर्मकरस्यान्तिकाद् आलोपं मार्गितव्यं मन्येत. एवम् एव सुभूते भविष्यन्त्य् अनागते ऽध्वनि महायानिकाः कुलपुत्राः कुलदुहितरश् चेमां गम्भीरां प्रज्ञापारमितां सर्वबुद्धधर्माणां मूलं च्छोरयित्वा शाखापत्रपलाशसदृशान् श्रावकयानप्रतिसंयुक्तान् प्रत्येकबुद्धयानप्रतिसंयुक्तांश् च सूत्रान्तान् पर्यवाप्तव्यान् मंस्यन्ते, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते भविष्यन्त्य् अनागते ऽध्वनि बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् चेमां गम्भीरां प्रज्ञापारमितां रिञ्चित्वा लाभसत्कारहेतोः श्रावकप्रत्येकबुद्धयानप्रतिसंयुक्तान् पर्यवाप्तव्यान् मंस्यन्ते, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति प्रणीतास्वादभ्रंशः
तद्यथापि नाम सुभूते कश्चिद् एव पुरुषो हस्तिनो ऽर्थिको भवेत्, स हस्तिनं लब्ध्वा हस्तिपदं पर्येषितव्यं मन्येत. तत् किं मन्यसे? सुभूते ऽपि नु स पुरुषः पण्डितजातीयो भवेत्.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: एवम् एव सुभूते बोधिसत्त्वयानिकाः पुद्गला वेदितव्या य इमां गम्भीरां प्रज्ञापारमितां रिञ्चित्वा ये ते सूत्रान्ताः श्रावकयानप्रतिसंयुक्ताः प्रत्येकबुद्धयानप्रतिसंयुक्तास् तान् पर्यवाप्तव्यान् मंस्यन्ते. तत् किं मन्यसे? सुभूते ऽपि नु पण्डितजातीयास् ते महायानिकाः कुलपुत्राः कुलदुहितरश् च भवेयुः.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म (प्स्प्_4:39) वेदितव्यम्. इत्य् उत्तमयानभ्रंशः
तद्यथापि नाम सुभूते पुरुषो महासमुद्रं द्रष्टुकामो भवेत्, स महासमुद्रं दृष्ट्वा गोष्पदं पर्येषितव्यं मन्येत, तस्य तं गोष्पदं दृष्ट्वा एवं भवेत्, एवंप्रमाणो महासमुद्र इति. तत् किं मन्यसे? सुभूते ऽपि नु स पुरुषः पण्डितजातिको भवेत्.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: एवम् एव सुभूते तथारूपास् ते महायानिकाः कुलपुत्राः कुलदुहितरश् च वेदितव्या, य इमां प्रज्ञापारमितां श्रुत्वा लब्ध्वा वा ताम् उत्सृज्य श्रावकप्रत्येकबुद्धप्रतिसंयुक्तान् सूत्रान्तान् उद्ग्रहीतव्यान् मंस्यन्ते. तत् किं मन्यसे? सुभूते अपि नु पण्डितजातीयास् ते महायानिकाः कुलपुत्राः कुलदुहितरश् च भवेयुः.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इत्य् उद्देशभ्रंशः
तद्यथापि नाम सुभूते पलगण्डो वा पलगण्डान्तेवासी वा वैजयन्तस्य प्रासादस्य प्रमाणेन प्रासादं कर्तुकामो भवेत्, स सूर्याचन्द्रमसोर् मण्डलविमानात् प्रमाणम् उद्ग्रहीतव्यं मन्येत्. तत् किं मन्यसे? सुभूते वैजयन्तं पर्येष्य वैजयन्तसमं प्रासादं कर्तुकामः सूर्याचन्द्रमसोर् वा मण्डलविमानात् प्रमाणम् उद्गृह्णीयाद्, अपि नु स पण्डितजातीयः पुरुषो भवेत्.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: एवम् एव सुभूते भविष्यन्त्य् अनागते ऽध्वनि एकत्या बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् च य इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा वा लब्ध्वा वा रिञ्चित्वा च्छोरयित्वा वा श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैः सूत्रान्तैः सर्वाकारज्ञतां पर्येषितव्यां मंस्यन्ते. तत् किं मन्यसे? सुभूते अपि नु पण्डितजातीयास् ते बोधिसत्त्वाः कुलपुत्राः कुलदुहितरश् च भवेयुः.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति हेतुफलसंबन्धभ्रंशः
पुनर् अपरं सुभूते तद्यथापि नाम कस्यचिद् एव पुरुषस्य कोट्टराजानं दृष्ट्वा एवं भवेद्, ईदृशो राजा चक्रवर्ती वर्णेन संस्थानेन (प्स्प्_4:40) च यादृशो ऽयं कोट्टराज इति. स कोट्टराजस्य वर्णसंस्थानेनाकृत्यानिमित्तं लिङ्गानि उद्गृह्यैवं वदेद्, राज्ञश् चक्रवर्तिनः ईदृशो वर्णसंस्थानाकृतिविशेष इति. तत् किं मन्यसे? सुभूते अपि नु स पुरुषः पण्डितजातीयो भवेत्.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: एवम् एव सुभूते भविष्यन्त्य् अनागते ऽध्वनि एकत्या महायानिकाः कुलपुत्राः कुलदुहितरश् च य इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा लब्ध्वा वा तां रिञ्चित्वा च्छोरयित्वा वा श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैः सूत्रान्तैः सर्वाकारज्ञतां पर्येषितव्यां मंस्यन्ते. तत् किं मन्यसे? सुभूते ऽपि नु ते महायानिकाः कुलपुत्राः कुलदुहितरश् च पण्डितजातिकाः स्युः.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति निरुत्तरपदभ्रंशः
पुनर् अपरं सुभूते तेषां कुलपुत्राणां कुलदुहितृणां चेमां प्रज्ञापारमितां लिखतां बहूनि प्रतिभानान्य् उत्पत्स्यन्ते, यानीमां गम्भीरां प्रज्ञापारमितां लिख्यमानां विक्षेप्स्यन्ति. तद्यथापि नाम रूपप्रतिभानं शब्दगन्धरसस्प्रष्टव्यधर्मप्रतिभानं दानपारमिताप्रतिभानं शीलक्षान्तिवीर्यध्यानप्रज्ञापारमिताप्रतिभानं कामधातुप्रतिभानं रूपधातुप्रतिभानम् आरूप्यधातुप्रतिभानम् उद्देशस्वाध्यायप्रतिभानं वैयावृत्यप्रतिभानं स्मृत्युपस्थानप्रतिभानं सम्यक्प्रहाणप्रतिभानम् ऋद्धिपादेन्द्रियबलबोध्यङ्गमार्गप्रतिभानं सर्वध्यानविमोक्षसमाधिसमापत्तिधारणीमुखप्रतिभानम् अध्यात्मशून्यताप्रतिभानं बहिर्धाशून्यताप्रतिभानम् अध्यात्मबहिर्धाशून्यताप्रतिभानं शून्यताशून्यताप्रतिभानं महाशून्यताप्रतिभानं परमार्थशून्यताप्रतिभानं संस्कृतशून्यताप्रतिभानम् असंस्कृतशून्यताप्रतिभानम् अत्यन्तशून्यताप्रतिभानं, यावद् अभावस्वभावशून्यताप्रतिभानं बलप्रतिभानं वैशारद्यप्रतिभानं प्रतिसंविदावेणिकबुद्धधर्मप्रतिभानं, यावद् अनुत्तरं सम्यक्संबोधिप्रतिभानम्. तत् कस्य हेतोर्? अप्रतिभाना हि सुभूते प्रज्ञापारमिता, अचिन्त्या हि सुभूते प्रज्ञापारमिता, निश्चिन्त्याचिन्त्यापगता हि सुभूते प्रज्ञापारमिता, अनुत्पादानिरोधा हि सुभूते प्रज्ञापारमिता, असंक्लेशा अव्यवदाना हि सुभूते प्रज्ञापारमिता, (प्स्प्_4:41) अविक्षेपा हि सुभूते प्रज्ञापारमिता, अनभिलाप्या हि सुभूते प्रज्ञापारमिता, अव्यापादा हि सुभूते प्रज्ञापारमिता, अनुपलम्भा हि सुभूते प्रज्ञापारमिता. तत् कस्य हेतोर्? न हि सुभूते इह गम्भीरायां प्रज्ञापारमितायाम् इमे धर्माः संविद्यन्ते. सचेत् सुभूते बोधिसत्त्वयानिकः कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा लिखनेभिर् धर्मो विक्षिप्यते. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
इति बहुविधविषयविकल्पप्रतिभानोत्पादः
सुभूतिर् आह: शक्या पुनर् भगवन् प्रज्ञापारमिता लिखितुम्.
भगवान् आह: नो सुभूते, तत् कस्य हेतोर्? न हि सुभूते प्रज्ञापारमितायाः स्वभावः संविद्यते, न ध्यानपारमिताया न वीर्यपारमिताया न क्षान्तिपारमिताया न शीलपारमिताया न दानपारमितायाः स्वभावः संविद्यते, न सर्वशून्यतानां न सप्तत्रिंशद्बोधिपक्षाणां धर्माणां नार्यसत्यानां स्वभावः संविद्यते, नाप्रमाणध्यानारूप्यसमापत्तीनां न शून्यतानिमित्ताप्रणिहितानां नाष्टानां विमोक्षाणां न नवानुपूर्वविहारसमापत्तीनां नाभिज्ञानां स्वभावः संविद्यते, न सर्वसमाधीनां न सर्वधारणीमुखानां स्वभावः संविद्यन्ते, न दशानां बलानां न वैशारद्यानां न प्रतिसंविदां नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां स्वभावः संविद्यते, न सर्वज्ञतायाः स्वभावः संविद्यते. यस्याश् च स्वभावो न संविद्यते, सो ऽभावो यो ऽभावः. सेयं प्रज्ञापारमिता न चाभावेनाभावः शक्यो लिखितुम्.
इति लिखनाभिनिवेशान्तरायः
सचेत् पुनः सुभूते महायानिकाः कुलपुत्राः कुलदुहितरश् च इमां प्रज्ञापारमिताम् अभाव इति संज्ञास्यन्ति इदम् अपि तेषां मारकर्म वेदितव्यम्. इत्य् अभावाभिनिवेशान्तरायः
सुभूतिर् आह: ये केचिद् भगवन् महायानिकाः कुलपुत्राः कुलदुहितरश् च इमां गम्भीरां प्रज्ञापारमितां लिप्यक्षरैर् लिखित्वा गम्भीरा प्रज्ञापारमिता मया लिखितेति मंस्यन्ते, ते ऽपि लिपिष्व् अक्षरेष्व् इमां गम्भीरां प्रज्ञापारमिताम् अभिनिवेक्ष्यन्ते, इदम् अपि भगवंस् तेषां मारकर्म वेदितव्यम्. इति लिप्यक्षरेषु प्रज्ञापारमिताभिनिवेशान्तरायः
सुभूतिर् आह: तत् कस्य हेतोर्? अनक्षरा हि भगवन्न् इयं प्रज्ञापारमिता, अनक्षरा हि ध्यानपारमिता, अनक्षरा हि वीर्यपारमिता, (प्स्प्_4:42) अनक्षरा हि क्षान्तिपारमिता, अनक्षरा हि शीलपारमिता, अनक्षरा हि दानपारमिता, अनक्षरं भगवन् रूपं, वेदना संज्ञा संस्काराः, अनक्षरं भगवन् विज्ञानम्, अनक्षरा भगवन् धातवः, अनक्षराणि भगवन्न् आयतनानि, अनक्षरो भगवन् प्रतीत्यसमुत्पादः, अनक्षराणि प्रतीत्यसमुत्पादाङ्गानि, अनक्षराः सप्तत्रिंशद्बोधिपक्ष्या धर्माः, अनक्षराः सर्वशून्यताः, अनक्षराः सर्वसमाधयः, अनक्षराणि सर्वधारणीमुखानि, अनक्षराणि सर्वशून्यतानिमित्ताप्रणिहितानि, अनक्षराणि आर्यसत्यानि, अनक्षराः सर्वाप्रमाणध्यानारूप्यसमापत्तयः, अनक्षरा अष्टविमोक्षा, अनक्षरा नवानुपूर्वविहारसमापत्तयः, अनक्षरा अभिज्ञाः, अनक्षराणि तथागतबलानि, अनक्षराणि वैशारद्यानि, अनक्षराः प्रतिसंविदः, अनक्षरा अष्टादशावेणिका बुद्धधर्माः, अनक्षरा हि भगवन् सर्वज्ञता.
सचेत् पुनर् भगवन् महायानिकाः कुलपुत्राः कुलदुहितरो वा अनक्षरां प्रज्ञापारमिताम् अभिनिवेक्ष्यन्ते, एवं ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमिताम्, अनक्षरां दानपारमिताम् अभिनिवेक्ष्यन्ते. अनक्षरं रूपम् अभिनिवेक्ष्यन्ते, वेदनासंज्ञासंस्कारान्, अनक्षरं विज्ञानम् अभिनिवेक्ष्यन्ते. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादः सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् विमोक्षमुखानि सत्यानि अप्रमाणध्यानारूप्यसमापत्तीर् बलानि वैशारद्यानि प्रतिसंविद आवेणिकान् बुद्धधर्मान् अनक्षरान् अभिनिवेक्ष्यन्ते, यावत् सर्वज्ञताम् अनक्षराम् अभिनिवेक्ष्यन्ते. इदम् अपि भगवंस् तेषां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
इति प्रज्ञापारमितायाम् अनक्षराभिनिवेशान्तरायः
पुनर् अपरं सुभूते तेषां कुलपुत्राणां कुलदुहितृणाञ् चेमां प्रज्ञापारमितां लिखताम् उत्पत्स्यन्ते जनपदवितर्का, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते तेषां महायानिकानां कुलपुत्राणां कुलदुहितृणाञ् चेमां गम्भीरां प्रज्ञापारमितां लिखताम् उत्पत्स्यन्ते ग्राममनसिकाराः नगरमनसिकाराः निगममनसिकाराः राजधानीमनसिकाराः राष्ट्रमनसिकाराः देवमनसिकाराः गुरूपाध्यायमनसिकाराः, मातापितृभ्रातृभगिनीपुत्रदुहितृज्ञातिप्रतिसंयुक्ता मनसिकाराः, चौरमनसिकाराः, चण्डालप्रतिसंयुक्ता मनसिकाराः, कामवितर्कप्रतिसंयुक्ता मनसिकाराः संगणिका प्रतिसंयुक्ता मनसिकारा उत्पत्स्यन्ते. अमी च सुभूते (प्स्प्_4:43) ऽन्ये च बहुविधा बोधिसत्त्वानां महासत्त्वानां मनसिकारा मारकर्म वेदितव्यम्. इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां योनिशो मनसिकुर्वतां मारः पापीयान् अन्तरायान् विक्षेपान् उपसंहरिष्यति. इति जनपदादिमनसिकारान्तरायः
पुनर् अपरं सुभूते बोधिसत्त्वानां कुलपुत्राणां कुलदुहितृणाञ् चेमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां योनिशो मनसिकुर्वताम् उत्पत्स्यन्ते, लाभसत्कारश्लोकाश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारास् तांस् ते बोधिसत्त्वाः कुलपुत्राः कुलदुहितरश् चास्वादयन्तः, इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्ति उद्देक्ष्यन्ति स्वाध्यास्यन्ति योनिशो मनसिकरिष्यन्ति. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
इति लाभसत्कारश्लोकास्वादान्तरायः
पुनर् अपरं सुभूते तेषां बोधिसत्त्वानां महासत्त्वानां मारः पापीयान् ये ते भविष्यन्ति गम्भीरा गम्भीराः सूत्रान्तास् तान् उपसंहरिष्यति, य इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां योनिशो मनसिकुर्वताम्. न पुनर् अत्र सुभूते बोधिसत्त्वैर् उपायकुशलैर् गम्भीरगम्भीरेषु सूत्रान्तेषु मारेणोपसंहृतेषु स्पृहोत्पादयितव्या. तत् कस्य हेतोः? न हि सुभूते ते सूत्रान्ताः सर्वज्ञताया आहारकाः. तत्र सुभूते ये ऽनुपायकुशला बोधिसत्त्वा भविष्यन्ति त इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा रिञ्चिष्यन्ति यत्र मया बोधिसत्त्वानां महासत्त्वानाम् उपायकौशलं विस्तरेणाख्यातम् इहैव गम्भीरायां प्रज्ञापारमितायां विस्तरेणोपायकौशलं मार्गितव्यम्. ते खलु पुनः सुभूते महायानिकाः कुलपुत्राः कुलदुहितरो वा इमां गम्भीरां प्रज्ञापारमितां रिञ्चित्वा तेभ्यः श्रावकप्रत्येकबुद्धयानप्रतिसंयुक्तेभ्यः सूत्रान्तेभ्य उपायकौशल्यं गवेषितव्यं मंस्यन्ते. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इ त्य् अमार्गेणोपायकौशलमार्गणान्तरायः
पुनर् अपरं सुभूते धर्मश्रवणिकाश् च्छन्दका भविष्यन्ति प्रज्ञापारमितां लिखितुम् उद्देष्टुं स्वाध्यातुं पठितुं, धर्मभाणकश् च किलासी भविष्यति. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति च्छन्दकिलासवैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणकः अकिलासी भविष्यति इमां (प्स्प्_4:44) गम्भीरां प्रज्ञापारमितां लेखयितुम् उद्ग्रहयितुं देशयितुं स्वाध्यायितुं, धर्मश्रवणिकाश् च देशान्तरसंप्रस्थिता भविष्यन्ति. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते धर्मश्रवणिकाश् च प्रज्ञापारमितां लिखितुकामा भविष्यन्ति उद्ग्रहीतुकामा उद्देष्टुकामाः स्वाध्यातुकामा, धर्मभाणकश् च देशान्तरसंप्रस्थितो भविष्यति. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
इति च्छन्दभेदविषयवैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणको लाभसत्कारश्लोकगुरुको भविष्यति चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काररक्तः, धर्मश्रवणिकाश् चाल्पेच्छाः संतुष्टा आरब्धवीर्या उपस्थितस्मृतयः समाहिता एकाग्रचित्ताः प्रज्ञावन्तः. इदम् अपि सुभूते विसामग्र्या प्रज्ञापारमितायां लिख्यमानायां स्वाध्यायमानायां योनिशो मनसिक्रियमाणायां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते धर्मभाणकश् चाल्पेच्छो भविष्यति संतुष्टः प्रविविक्त आरब्धवीर्य उपस्थितस्मृतिः समाहित एकाग्रचित्तः प्रज्ञावान्, धर्मश्रवणिकाः च महेच्छाः पापेच्छाः लाभसत्कारश्लोकगुरुकाश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैसज्यपरिष्कारगुरुका भविष्यन्ति. इदम् अपि सुभूते विसामग्र्या प्रज्ञापारमितायां लिख्यमानायां स्वाध्यायमानायां योनिशो मनसिक्रियमाणायां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
इति लाभगौरवाल्पेच्छतावैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणक आरण्यको भविष्यति, पैण्डपातिकः पांशुकूलिकः खलुपश्चाद्भक्तिकः एकासनिकः प्रस्थपिण्डिकः श्माशानिक आभ्यवकाशिको वृक्षमूलिको नैषद्यिको यथासंस्तरिकस् त्रैचीवरिकः, धर्मश्रवणिकाश् च नारण्यका भविष्यन्ति न पैण्डपातिका न पांशुकूलिका न खलुपश्चाद्भक्तिका न एकासनिका न प्रस्थपिण्डिका न श्माशानिका नाभ्यवकाशिका न वृक्षमूलिका न नैषद्यिका न यथासंस्तरिका न त्रैचीवरिकाः. इदम् अपि सुभूते विसामग्र्या इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां (प्स्प्_4:45) स्वाध्यायमानायां योनिशो मनसिक्रियमाणायां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते धर्मश्रवणिक आरण्यको भविष्यति यावत् त्रैचीवरिको, धर्मभाणकश् च नारण्यको भविष्यति यावन् न त्रैचीवरिकः. इदम् अपि सुभूते विसामग्र्या इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां योनिशश् च मनसिक्रियमाणायां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
इति धूतगुणयोगायोगवैधुर्यम्
पुनर् अपरं सुभूते धर्मश्रवणिकाश् च श्राद्धा भविष्यन्ति कल्याणधर्माण इमां गम्भीरां प्रज्ञापारमितां लिखितुकामा उद्देष्टुकामाः स्वाध्यातुकामाः, धर्मभाणकश् चाश्राद्धो भविष्यति न कल्याणधर्मा इमां गम्भीरां प्रज्ञापारमितान् न लिखितुकामो नोद्देष्टुकामो न स्वाध्यातुकामः. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते धर्मभाणकश् च श्राद्धो भविष्यति कल्याणधर्मा इमां गम्भीरां प्रज्ञापारमितां लिखनाय दातुकामो ऽर्थिकाय उद्ग्रहीतुकामो, धर्मश्रवणिकश् चाश्राद्धो भविष्यति न कल्याणधर्मा इमां गम्भीरां प्रज्ञापारमितां न लिखनाय दातुकामो नोद्देष्टुकामो ऽर्थिकाय नोद्ग्रहीतुकामः. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
इति कल्याणाकल्याणकामत्ववैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणकश् च सर्वास्तिपरित्यागी भविष्यति अनागृहीतचित्तः, धर्मश्रवणिकश् च मत्सरी भविष्यति महेच्छः पापेच्छो लाभसत्कारश्लोकचीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारगुरुको भविष्यति. इदम् अपि सुभूते विसामग्र्या इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते धर्मश्रवणिकश् च सर्वास्तिपरित्यागी भविष्यति अनागृहीतचित्तः, धर्मभाणकश् च मत्सरी भविष्यति कुटुकुञ्चकः. इदम् अपि सुभूते विसामग्र्या इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति त्यागमात्सर्यवैधुर्यम्
(प्स्प्_4:46)
पुनर् अपरं सुभूते धर्मश्रवणिकश् च धर्मभाणकस्यान्तिके परित्यक्तुकामो भविष्यति चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान्, धर्मभाणकश् च न ग्रहीतुकामो भविष्यति. इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां योनिशो मनसिक्रियमाणायाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते धर्मभाणको धर्मश्रवणिकस्यान्तिकाद् ग्रहीतुकामो भविष्यति, धर्मश्रवणिकश् च न दातुकामो भविष्यति. इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां योनिशो मनसिक्रियमाणायाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
इति दानग्रहणवैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणकश् चोद्घटितज्ञो भविष्यति, धर्मश्रवणिकश् च नेयो भविष्यति विपञ्चितज्ञो वा पदपरमो वा. इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायताम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते धर्मश्रवणिकश् चोद्घटितज्ञो भविष्यति, धर्मभाणकश् च नेयो भविष्यति विपञ्चितज्ञो वा पदपरमो वा. इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां मनसिकुर्वताम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
इत्य् उद्घटितज्ञविपञ्चितज्ञतावैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणकश् च धर्मान्तरं ज्ञास्यति सूत्रं गेयं व्याकरणं गाथोदानावदानेतिवृत्तकजातकनिदानवैपुल्याद्भूतधर्मोपदेशानां, धर्मश्रवणिकाश् च धर्मान्तरन् न ज्ञास्यन्ति सूत्रं गेयं व्याकरणं गाथोदानावदानेतिवृत्तकजातकनिदानवैपुल्याद्भूतधर्मोपदेशानां, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां (प्स्प्_4:47) मनसिक्रियमाणायाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते धर्मश्रवणिकश् च धर्मान्तरं ज्ञास्यति सूत्रं गेयं व्याकरणं गाथोदानावदानेतिवृत्तकजातकनिदानवैपुल्याद्भुतधर्मोपदेशानां, धर्मभाणकश् च धर्मान्तरन् न ज्ञास्यति सूत्रं गेयं व्याकरणं गाथोदानावदानेतिवृत्तकजातकनिदानवैपुल्याद्भुतधर्मोपदेशानाम्, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां मनसिक्रियमाणायाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
इति सूत्रादिधर्माभिज्ञानभिज्ञतावैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणकश् च षड्भिः पारमिताभिः समन्वागतो भविष्यति, धर्मश्रवणिकश् च न षड्भिः पारमिताभिः समन्वागतो भविष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां मनसिकुर्वताम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते धर्मश्रवणिकाः षड्भिः पारमिताभिः समन्वागता भविष्यन्ति, धर्मभाणकश् च न षड्भिः पारमिताभिः समन्वागतो भविष्यति. इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां मनसिकुर्वताम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति षट्पारमितासमन्वागमासमन्वागमवैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणकश् चोपायकुशलो भविष्यति षट्सु पारमितासु, धर्मश्रवणिकाश् चानुपायकुशला भविष्यन्ति षट्सु पारमितासु. इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां मनसिक्रियमाणायाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते धर्मश्रवणिकाश् चोपायकुशला भविष्यन्ति षट्सु पारमितासु, धर्मभाणकश् चानुपायकुशलो भविष्यति षट्सु पारमितासु, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां मनसिक्रियमाणायाम्. (प्स्प्_4:48) इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इत्य् उपायानुपायकौशलवैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणकश् च धारणीप्रतिलब्धो भविष्यति, धर्मश्रवणिकाश् च न धारणीप्रतिलब्धा भविष्यन्ति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां मनसिक्रियमाणायाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
इति धारणीप्रतिलम्भाप्रतिलम्भवैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणकश् च लिखितुकामो भविष्यति धारयितुकामो भविष्यति वाचयितुकामः स्वाध्यातुकामो यावत् मनसिकर्तुकामो, धर्मश्रवणिकाश् च न लिखितुकामा भविष्यन्ति यावन् न मनसिकर्तुकामा भविष्यन्ति, इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भिरां प्रज्ञापारमितां लिखतां वाचयतां यावद् भावयताम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते धर्मश्रवणिकाश् च लिखितुकामा भविष्यन्ति यावत् मनसिकर्तुकामाः, धर्मभाणकश् च न लिखितुकामो भविष्यति यावन् न मनसिकर्तुकामः, इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखतां वाचयतां यावद् भावयताम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
इति लिखितुकामतावैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणकश् च विगतकामच्छन्दव्यापादस्त्यानमिद्धौद्धत्यकौकृत्यविचिकित्सा भविष्यति, धर्मश्रवणिकाश् च विगतकामच्छन्दव्यापादस्त्यानमिद्धौद्धत्यकौकृत्यविचिकित्सा भविष्यन्ति, इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखितुकामानां यावद् भावयितुकामानाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते धर्मश्रवणिकाश् च विगतकामच्छन्दव्यापादस्त्यानमिद्धौद्धत्यकौकृत्यविचिकित्सा भविष्यन्ति, धर्मभाणकश् चाविगतकामच्छन्दव्यापादस्त्यानमिद्धौद्धत्यकौकृत्यविचिकित्सा भविष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखितुकामानां यावद् भावयितुकामानाम्. (प्स्प्_4:49) इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
इति विगताविगतकामच्छन्दादिवैधुर्यम्
पुनर् अपरं सुभूते इमां गम्भीरां प्रज्ञापारमितां लिखतां यावद् भावयतां कश्चिद् एव तत्रागत्य निरयानाम् अवर्णं भाषिष्यते तिर्यग्योनेः, प्रेतानाम् अवर्णं भाषिष्यते, एवंदुःखा निरया एवंदुःखा तिर्यग्योनिर्, एवंदुःखः प्रेतविषय इति, इहैव त्वं दुःखस्यान्तं कुरुष्वेति किन् ते ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुम्. इयम् अपि सुभूते तत्र विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखतां यावद् भावयताम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इत्य् अपायगतिवैमुख्यम्
पुनर् अपरं सुभूते इमां गम्भीरां प्रज्ञापारमितां लिखतां यावद् योनिशो मनसिकुर्वतां कश्चिद् एवागत्य चातुर्महाराजिकानां देवानां वर्णं भाषिष्यते यावन् नैवसंज्ञानासंज्ञायतनोपगानां देवानां वर्णं भाषिष्यते. एवं सुखः कामधातुः कामपरिभोगैर्, एवं सुखो रूपधातुर् ध्यानसमापत्तिभिः, एवं सुख आरूप्यधातुः शान्ताभिः, तद् अपि सर्वम् अनित्यं दुःखं शून्यम् अनात्मीयं विपरिणामधर्मि व्ययधर्मि विरागधर्मि निरोधधर्मि, इहैव त्वं स्रोतआपत्तिफलं प्राप्नुहि सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्नुहि प्रत्येकबोधिं प्राप्नुहि, मा संसारे चिरकालं संसर, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
इति सुगतिगमनसौमनस्यम्
पुनर् अपरं सुभूते धर्मभाणकश् च एको भविष्यत्य् अद्वितीयः स्वयंकारी, धर्मश्रवणिकश् च पर्षदवचरो भविष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखतां वाचयतां स्वाध्यायतां. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते धर्मश्रवणिकश् च एको भविष्यत्य् अद्वितीयः स्वयंकारी, धर्मभाणकश् च पर्षदवचरो भविष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखतां वाचयतां स्वाध्यायताम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इत्य् एकाकिपर्षदवचरत्ववैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणक एवं वक्ष्यति, यो माम् अनुबन्धिष्यति, तस्याहम् इमां प्रज्ञापारमितां दास्यामि लिखनाय वाचनाय (प्स्प्_4:50) उद्दिशनाय स्वाध्यायनाय मनसिकरणाय भावनायै, धर्मश्रवणिकश् च नानुबन्धिष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायां भाष्यमाणायां वाच्यमानायां स्वाध्यायमानायाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते धर्मश्रवणिकश् च धर्मभाणकम् अनुबन्धितुकामो भविष्यति, धर्मभाणकश् चावकाशन् न करिष्यत्य् अनुबन्धनाय, इयम् अपि सुभूते तत्र विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायां भाष्यमाणायां वाच्यमानायां स्वाध्यायमानायाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इत्य् अनुबन्धिकामो ऽनवकाशदानत्ववैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणक आमिषकिञ्चित्कस्य हेतोर् इमां प्रज्ञापारमितां दातुकामो भविष्यति लिखनाय उद्दिशनाय यावद् भावनायै, धर्मश्रवणिकश् च आमिषकिञ्चित्कस्य हेतोर् नोपसंक्रमितुकामो भविष्यति, इयम् अपि सुभूते तत्र विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायां यावद् भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
इत्य् आमिषकिञ्चित्कतददातुकामत्ववैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणकश् च तान् दिशं गन्तुकामो भविष्यति, यत्र दिशि जीवितान्तरायो भविष्यति, धर्मश्रवणिकश् च न तं देशं गन्तुकामो भविष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां मनसिक्रियमाणायां भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते धर्मश्रवणिकश् च तान् दिशं गन्तुकामो भविष्यति, यत्र दिशि जीवितान्तरायो भविष्यति, धर्मभाणकश् च न तं देशं गन्तुकामो भविष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायां यावद् भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
इति जीवितान्तरायानन्तरायदिग्गमनागमनवैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणकश् च तेन गन्तुकामो भविष्यति, येन दुर्भिक्षं च निरुदकञ् च, धर्मश्रवणिकश् च न तत्र गन्तुकामो भविष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां (प्स्प्_4:51) प्रज्ञापारमितायां लिख्यमानायां यावद् भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते धर्मभाणकश् च तेन गमिष्यति, येन सुभिक्षं सोदकं, धर्मश्रवणिकाश् चानुबद्धा भविष्यन्ति, स तान् एवं वक्ष्यति, किं युष्माकं कुलपुत्रा आमिषहेतोस् तत्र गन्तुं सुचिन्तितं तावत् कुरुत मा पश्चाद् विप्रतिसारिणो भविष्यथ पिण्डपातेन लब्धालब्धेन, एवं तेन धर्मभाणकेन सूक्ष्मेणोपायेन धर्मप्रत्याख्यानं कृतं भविष्यति, ते निर्विण्णरूपा एवं ज्ञास्यन्ति प्रत्याख्याननिमित्तान्य् एतानि नैतानि दातुकामतानिमित्तानि, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां वाच्यमानायां भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
इति दुर्भिक्षसुभिक्षदिग्गमनागमनवैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणको भिक्षुस् तेन प्रक्रमिष्यति, येन चौरभयं चण्डालभयं लुब्धकभयं चन्दमृगभयम् आशीविषभयं कान्ताराटवीभयं दुर्गभयं तेन प्रक्रमिष्यति धर्मश्रवणिकाश् चेमां गम्भीरां प्रज्ञापारमितां श्रोतुकामा धर्मभाणकम् अनुबद्धा भविष्यन्ति, तान् धर्मभाणको भिक्षुर् एवं वक्ष्यति, किं युष्माकं कुलपुत्रास् तत्र गन्तुं यत्र चौरभयं चण्डालभयं लुब्धकभयं चण्डमृगभयं आशीविषभयं कान्ताराटवीभयं दुर्गभयं भविष्यति, धर्मश्रवणिकाश् चेमां गम्भीरां प्रज्ञापारमितां श्रोतुकामा धर्मभाणकम् अनुबद्धा भविष्यन्ति, तान् धर्मभाणको भिक्षुर् न भाषितुकामः, इमां गम्भीरां प्रज्ञापारमितां न लेखयितुकामो नोद्देष्टुकामो न श्रावयितुकामस् ते तस्य धर्मभाणकस्यान्तिकाच् छ्रुत्वा निर्विण्णरूपा न तेन गमिष्यन्ति येन स धर्मभाणको भिक्षुर् गमिष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, अस्यां गम्भीरायां प्रज्ञापारमितायां लिख्यमानायां यावद् भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति चौरादिनिमित्तवैधुर्यम्
पुनर् अपरं सुभूते धर्मभाणको भिक्षुर् भिक्षादकुलगुरुको भविष्यति स तया भिक्षादकुलगुरुकतया तानि च कुलान्य् अभीक्ष्णं व्यवलोकयितव्यानि मंस्यते स तयाभीक्ष्णकुलव्यवलोकनतया (प्स्प्_4:52) धर्मश्रवणिकान् प्रत्याख्यास्यति, अस्ति मया युष्मन्तो भिक्षादकुलान्य् अव्यवलोकयितव्यान्य् उपसंक्रमितव्यानि, स तान् धर्मश्रवणिकान् प्रत्याख्यास्यति प्रत्याख्यातास् ते प्रत्युदावर्तिष्यन्ते, इयम् अपि सुभूते विसामग्री भविष्यति प्रज्ञापारमितां लिखतां भावयताम् उद्दिशतां स्वाध्यायताम् इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति कुलव्यवलोकनवैधुर्यम्
पुनर् अपरं सुभूते मारः पापीयान् भिक्षुवेषेण तथातथोपायेन चेष्टिष्यते यथायथोपायेन, इमां प्रज्ञापारमितां न कश्चिल् लिखिष्यति नोद्ग्रहीष्यति न पर्यवाप्स्यति न धारयिष्यति न वाचयिष्यति न स्वाध्यास्यति न मनसिकरिष्यति.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: केन कारणेन भगवन् मारः पापीयान् भिक्षुवेषेण तथातथा चेष्टिष्यते यथायथा न कश्चिद् इमां गम्भीरां प्रज्ञापारमितां लिखिष्यति नोद्ग्रहीष्यति न पर्यवाप्स्यति न धारयिष्यति न वाचयिष्यति न स्वाध्यास्यति न मनसिकरिष्यति?
भगवान् आह: प्रज्ञापारमितानिर्जातानि हि सर्वसत्त्वानां क्लेशप्रहाणान्य् एवं तथातथोपायेन चेष्टिष्यते यथायथा न कश्चिद् इमां गम्भीरां प्रज्ञापारमितां लिखिष्यति नोद्ग्रहीष्यति न पर्यवाप्स्यति न धारयिष्यति न वाचयिष्यति न स्वाध्यास्यति न मनसिकरिष्यति.
पुनर् अपरं सुभूते मारः पापीयान् भिक्षुवेषेणागत्य भेदं प्रक्षेप्स्यति विवेचयिष्यति, नैषा प्रज्ञापारमिता यथास्माकं सूत्रान्तम् आगतम् इत्य् अस्य प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां पर्यवाप्यमानायां स्वाध्यायमानायां योनिशो मनसिक्रियमाणायां भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते मारः पापीयान् भिक्षुवेषेण बोधिसत्त्वान् उपसंक्रम्यैवं वक्ष्यति, य इह गम्भीरायां प्रज्ञापारमितायां चरति स बोधिसत्त्वो भूतकोटीं साक्षात्करोति, स्रोतआपत्तिफलं वा प्राप्नोति सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्राप्नोति प्रत्येकबोधिं वा प्राप्नोति, तद्वचनं श्रुत्वा न प्रज्ञापारमितायां चरिष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां देश्यमानायां वाच्यमानायां यावद् (प्स्प्_4:53) भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति मारस्य पापीयसो भेदप्रयोगः
पुनर् अपरं सुभूते इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायां यावद् भाव्यमानायां बहूनि मारकर्माण्य् उत्पत्स्यन्ते, यान्य् अन्तरायकराणि भविष्यन्ति तानि मारकर्माणि बोधिसत्त्वेन महासत्त्वेन विवर्जयितव्यानि.
सुभूतिर् आह: कतमानि तानि भगवन् मारकर्माणि यानि बोधिसत्त्वेन महासत्त्वेन बोधव्यानि बुद्ध्वा च विवर्जितव्यानि?
भगवान् आह: प्रज्ञापारमिताप्रतिरूपकानि सुभूते मारकर्माण्य् उत्पत्स्यन्ते. एवं ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता, दानपारमिताप्रतिरूपकाणि मारकर्माण्य् उत्पत्स्यन्ते, यानि बोधिसत्त्वेन महासत्त्वेन बोधव्यानि बुद्ध्वा च विवर्जयितव्यानि.
पुनर् अपरं सुभूते अध्यात्मशून्यताप्रतिरूपकाणि यावद् अभावस्वभावशून्यताप्रतिरूपकाणि मारकर्माण्य् उत्पत्स्यन्ते, श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानि मारकर्माण्य् उत्पत्स्यन्ते, तानि बुद्ध्वा बोधिसत्त्वेन महासत्त्वेन मारकर्माणि विवर्जयितव्यानि. एवञ् च वक्ष्यति, एतान् पर्यवाप्नुहि एतान् पर्यवाप्य इहैव स्रोतआपत्तिफलं प्राप्नुहि सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्नुहि, इमान्य् एव त्वं चत्वारि स्मृत्युपस्थानानि भावय सम्यक्प्रहाणानि भावय ऋद्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावय शून्यताविमोक्षमुखम् आनिमित्तविमोक्षमुखम् अप्रणिहितविमोक्षमुखं भावय किं ते ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्गृह्यमाणायां यावन् मनसिक्रियमाणायां भाव्यमानायां मारः पापीयान् एवंरूपाणि मारकर्माणि उपसंहरिष्यति. इति प्रतिवर्णिकोपसंहारः
पुनर् अपरं सुभूते मारः पापीयान् बुद्धवेषेणोपसंक्रमिष्यति, सुवर्णवर्णकायेन व्यामप्रभां कृत्वा तत्र बोधिसत्त्वस् तं दृष्ट्वा स्पृहाम् उत्पाद्य सर्वज्ञतायाः परिहास्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां भाष्यमाणायां योनिशो मनसिक्रियमाणायां भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
(प्स्प्_4:54)
पुनर् अपरं सुभूते मारः पापीयांस् तेषां कुलपुत्राणां कुलदुहितृणां च पुरतो बुद्धप्रमुखं भिक्षुसंघम् उपदर्शयिष्यति, स तत्र बोधिसत्त्वः स्पृहाम् उत्पादयिष्यति, अहम् अप्य् अनागते ऽध्वन्य् एवंरूपस् तथागतो ऽर्हन् सम्यक्संबुद्धः स्याम्, एवं च भिक्षुगणं परिकर्षेयं यथा यं तथागतो धर्मं देशयति तथैवाहम् अपि धर्मं देशयेयं, स तत्र स्पृहाम् उत्पादयिष्यति स्पृहाम् उत्पाद्य सर्वज्ञतायाः परिहास्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां पर्यवाप्यमानायां भाष्यमाणायां मनसिक्रियमाणायां भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते मारः पापीयान् अनेकानि बोधिसत्त्वशतानि अनेकानि बोधिसत्त्वसहस्राणि उपदर्शयति, ये दानपारमितायां चरिष्यन्ति, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरिष्यन्ति, ते बोधिसत्त्वास् तेषां मारनिर्मितानाम् अन्तिके स्पृहाम् उत्पादयिष्यन्ति स्पृहाम् उत्पाद्य सर्वज्ञतायाः परिहास्यन्ति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां योनिशो मनसिक्रियमाणायां भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. तत् कस्य हेतोर्? न हीह सुभूते गम्भीरायां प्रज्ञापारमितायां रूपं संविद्यते, न वेदना न संज्ञा न संस्काराः, न विज्ञानं संविद्यते, न स्कन्धा न धातवो नायतनानि न प्रतीत्यसमुत्पादो न प्रतीत्यसमुत्पादाङ्गानि संविद्यन्ते, न पारमिता न बोधिपक्ष्या धर्मा नार्यसत्यानि नाप्रमाणध्यानारूप्यसमापत्तयः नाष्टविमोक्षा न नवानुपूर्वविहारसमापत्तयः न शून्यतानिमित्ताप्रणिहिताभिज्ञाः संविद्यन्ते, न सर्वशून्यता न सर्वसमाधयः न सर्वधारणीमुखानि संविद्यन्ते, न तथागतबलानि न वैशारद्यानि न प्रतिसंविदो नावेणिकबुद्धधर्मा न विमोक्षमुखानि न बोधिः संविद्यते, यत्र च सुभूते न रूपं संविद्यते, न वेदना न संज्ञा न संस्कारा न विज्ञानं संविद्यते, न स्कन्धा न धातवो नायतनानि न प्रतीत्यसमुत्पादो न प्रतीत्यसमुत्पादाङ्गानि न पारमिता न बोधिपक्ष्या धर्मा नार्यसत्यानि नाप्रमाणध्यानारूप्यसमापत्तयो नाष्टविमोक्षा न नवानुपूर्वविहारसमापत्तयो न शून्यतानिमित्ताप्रणिहिताभिज्ञा न सर्वशून्यता न सर्वसमाधयो न (प्स्प्_4:55) सर्वधारणीमुखानि न तथागतबलानि न वैशारद्यानि न प्रतिसंविदो नावेणिकबुद्धधर्मा न विमोक्षमुखानि न बोधिः संविद्यते, यत्र न बोधिर् न तत्र बुद्धो न बोधिसत्त्वा न श्रावकाः संविद्यन्ते. तत् कस्य हेतोः? स्वभावशून्या हि सुभूते सर्वधर्माः.
इत्य् अयथाविषयादिस्पृहोत्पादः
पुनर् अपरं सुभूते बह्वन्तरायेयं प्रज्ञापारमिता भविष्यति, तेषां कुलपुत्राणां कुलदुहितृणां च इमां प्रज्ञापारमितां धारयतां वाचयताम् उद्दिशतां स्वाध्यायतां योनिशो मनसिकुर्वतां. तद्यथापि नाम सुभूते यानि जाम्बूद्वीपकानि रत्नानि, यद् उत सुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवाडरजतादीनि बह्वन्तरायाणि बहुप्रत्यर्थिकानि भविष्यन्ति. एवम् एतत् सुभूते तेषां कुलपुत्राणां कुलदुहितृणां चास्यां गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां पर्यवाप्यमानायां स्वाध्यायमानायां भाष्यमाणायां योनिशो मनसिक्रियमाणायां भाव्यमानायां बहवो ऽन्तराया भविष्यन्ति बहवः प्रत्यर्थिकाः.
सुभूतिर् आह: एवम् एतद् भगवन्न् एवम् एतत् सुगत, बहुप्रत्यर्थिकानि भविष्यन्ति प्रज्ञापारमिताप्रतिसंयुक्तानि सूत्राणि, माराधिष्ठितास् ते मोहपुरुषा भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां भावयताम् अन्तरायं करिष्यन्ति. अल्पबुद्धयस् ते भगवन् मोहपुरुषा भविष्यन्ति, मन्दबुद्धयो ये ऽस्यां गम्भीरायां प्रज्ञापारमितायां लिख्यमानायां यावद् भाव्यमानायाम् अन्तरायं करिष्यन्ति. न तेषाम् उदारोदारेषु धर्मेषु बुद्धिः प्रक्रमिष्यति, य इमां गम्भीरां प्रज्ञापारमितान् न लिखिष्यन्ति लिख्यमानायाम् अन्तरायं करिष्यन्ति यावन् न भावयिष्यन्ति भाव्यमानायाञ् चान्तरायं करिष्यन्ति.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत् माराधिष्ठितास् ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति नवयानसंप्रस्थिता अनवरोपितकुशलमूलाः परीत्तकुशलमूलाः न पूर्वजिनकृताधिकारा अपरिगृहीतकल्याणमित्रा, य इमां गम्भीरां प्रज्ञापारमितां न लिखिष्यन्ति न वाचयिष्यन्ति नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति न योनिशो मनसिकरिष्यन्ति, ये ऽन्तरायं करिष्यन्ति, अल्पबुद्धिकास् ते कुलपुत्राः कुलदुहितरश् च मन्दबुद्धिकाः परीत्तबुद्धिका, न च तेषाम् उदारोदारेषु धर्मेषु चित्तं क्रमिष्यति, य इमां गम्भीरां प्रज्ञापारमितां न (प्स्प्_4:56) लिखिष्यन्ति न धारयिष्यन्ति नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति न योनिशो मनसिकरिष्यन्ति यावन् न भावयिष्यन्ति, अन्येषाञ् च लिखतां यावद् भावयताम् अन्तरायं करिष्यन्ति, किञ् चापि सुभूते इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायां यावद् भाव्यमानायाम् इमानि मारकर्माण्य् उत्पत्स्यन्ते, सचेत् पुनः सुभूते यद् इमां गम्भीरां प्रज्ञापारमितां कुलपुत्राणां कुलदुहितृणां च लिखतां स्वाध्यायताम् उद्दिशतां योनिशो मनसिकुर्वतां भावयतां मारकर्माणि नोत्पत्स्यन्ते, उत्तरे च ध्यानपारमितां परिपूरयिष्यन्ति, वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां परिपूरयिष्यन्ति, सर्वशून्यताः सप्तत्रिंशद्बोधिपक्षान् धर्मान् परिपूरयिष्यन्ति, सर्वसमाधिधारणीविमोक्षमुखानि अप्रमाणध्यानारूप्यसमापत्तीः पञ्चाभिज्ञा दशबोधिसत्त्वभूमीर् बलानि वैशारद्यानि प्रतिसंविद आवेणिकबुद्धधर्मान् यावत् सर्वज्ञतां परिपूरयिष्यन्ति. वेदितव्यम् इदं सुभूते बुद्धानुभाव एष येनैषां कुलपुत्राणां कुलदुहितृणां च इमां गम्भीरां प्रज्ञापारमितां लिखतां वाचयताम् उद्दिशतां स्वाध्यायतां योनिशो मनसिकुर्वतां नान्तराया उत्पत्स्यन्ते, उत्तरे च सर्वाः पारमिताः परिपूरयिष्यन्ति, सर्वशून्यताः सर्वबोधिपक्ष्यान् धर्मान् सर्वसमाधीन् सर्वधारणीमुखानि सर्वविमोक्षमुखानि परिपूरयिष्यन्ति, चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीः पञ्चाभिज्ञाः परिपूरयिष्यन्ति, दश बोधिसत्त्वभूमीः परिपूरयिष्यन्ति, दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूरयिष्यन्ति, सर्वाकारज्ञतां परिपूरयिष्यन्ति. ये ऽपि ते दशसु दिक्षु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति, ते ऽपि तेषां कुलपुत्राणां कुलदुहितृणां च कृतश उद्योगम् आपत्स्यन्ते, इमां गम्भीरां प्रज्ञापारमितां लिखतां वाचयतां स्वाध्यायतां योनिशो मनसिकुर्वतां, ये ऽपि ते दशसु दिक्षु अविनिवर्तनीया बोधिसत्त्वास् ते ऽपि तेषां कुलपुत्राणां कुलदुहितृणां च इमां गम्भीरां प्रज्ञापारमितां लिखतां वाचयताम् उद्दिशतां स्वाध्यायतां योनिशो मनसिकुर्वतां भावयताम् उद्योगम् आपत्स्यन्ते अनुपरिग्रहीष्यन्ति, तद्यथापि नाम सुभूते स्त्रियाः कस्याश्चिद् एव बहवः पुत्रा भवेयुः, पञ्च वा दश वा (प्स्प्_4:57) विंशतिर् वा त्रिंशद् वा चत्वारिंशद् वा पञ्चाशद् वा शतं वा सहस्रं वा शतसहस्रं वा, ते ऽस्या मातुर् ग्लानायाः सर्वे ऽप्य् उद्योगम् आपद्येरन्, किम् इत्य् अस्माकं मातुर् अन्तरायो न भवेत्, किम् इत्य् अस्माकं माता चिरं जीवेत्, किम् इत्य् अस्माकं मातुः शरीरे अमनआपः स्पर्शो न निपतेद्, एषास्माकं जननी शरीरस्य दात्री जीवितस्य धात्री, ते तां मातरम् उपस्थिताम् उपतिष्ठेरन् सुगोपितां गोपायेयुर्, मा भूद् अस्या जीवितान्तरायो वा शरीरदौर्बल्यं वा दंशमशकसरीसृपोपनिपातो वा शीतोष्णक्षुत्पिपासादि दुष्खं वा, एवन् ते पुत्रास् तस्या मातुः सर्वसुखोपधानान्य् उपसंहरेयुः, एवन् ते तां मातरं सुकेलायितां केलायेयुर् मिमीयुर् एषास्माकम् अस्य लोकस्य दर्शयित्री. एवम् एव सुभूते तथागता अर्हन्तः सम्यक्संबुद्धाः, इमां गम्भीरां प्रज्ञापारमितां बुद्धचक्षुषा सततसमितं समन्वाहरन्ति. तत् कस्य हेतोर्? एषा हि गम्भीरा प्रज्ञापारमितास्माकं सर्वबुद्धधर्माणां जननी ज्ञानालोकस्य कारिका, ये ऽपि ते दशसु दिक्षु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति, ते ऽपीमाम् एव प्रज्ञापारमितां बुद्धचक्षुषा सततसमितं समन्वाहरन्ति. तत् कस्य हेतोर्? एषा हि गम्भीरा प्रज्ञापारमिता जननी तथागतानाम्, अस्य च सर्वज्ञज्ञानस्य संदर्शयित्री, तेन तथागताः कृतज्ञताम् उपादाय ये इमां गम्भीरां प्रज्ञापारमितां बुद्धचक्षुषा सततसमितं समन्वाहरन्ति. तत् कस्य हेतोः? अतो निर्जाता हि तथागतानां ध्यानवीर्यक्षान्तिशीलदानपारमिता, अतो निर्जाता हि तथागतानाम् अध्यात्मशून्यता यावद् अभावस्वभावशून्यता, अतो निर्जातानि चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गानि आर्याष्टाङ्गो मार्गः, अतो निर्जातानि त्रीणि विमोक्षमुखानि, अतो निर्जातानि चत्वार्य् आर्यसत्यानि, अतो निर्जातानि चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयो, अतो निर्जाता अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः, अतो निर्जाताः सर्वसमाधयः सर्वधारणीमुखानि, अतो निर्जातानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, अतो निर्जाताः षडभिज्ञाः, अतो निर्जाता सर्वबुद्धानां सर्वाकारज्ञता, अतो निर्जाता अप्रमेयासंख्येया बुद्धधर्माः, अतो निर्जाताः स्रोतापन्नाः सकृदागामिनो ऽनागामिनो, ऽतो निर्जाता अर्हन्तः प्रत्येकबुद्धा, अतो निर्जातास् तथागता अर्हन्तः सम्यक्संबुद्धाः. ये ऽपि केचित् सुभूते (प्स्प्_4:58) तथागता अर्हन्तः सम्यक्संबुद्धा अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च, सर्वे ते इमां गम्भीरां प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः अभिसंबुध्यन्ते ऽभिसंभोत्स्यन्ते च, ये ऽपि ते सुभूते महायानसंप्रस्थिताः कुलपुत्राः कुलदुहितरश् च इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति उद्देक्ष्यन्ति स्वाध्यास्यन्ति योनिशो मनसिकरिष्यन्ति सर्वे ते तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् बुद्धचक्षुषा सततसमितं समन्वाह्रियन्ते तेषां सुभूते बोधिसत्त्वानां कुलपुत्राणां कुलदुहितृणाञ् च तथागता अर्हन्तः सम्यक्संबुद्धाः सततसमितं रक्षावरणं गुप्तिं संविधास्यन्ति यथानुत्तरायाः सम्यक्संबोधेर् न परिहास्यन्ति.
इति जाम्बूद्वीपकमहारत्नोदाहरणादिदृष्टान्तेन महानुभावत्वम् इत्य् उक्ता दोषाः
सुभूतिर् आह: यद् भगवान् आह, प्रज्ञापारमिता तथागतानाम् अर्हतां सम्यक्संबुद्धानां जनयित्री अस्य च लोकस्य दर्शयित्री ति. कथं च भगवन् बुद्धानां भगवतां प्रज्ञापारमिता जनयित्री? कथञ् च भगवन् प्रज्ञापारमितास्य लोकस्य दर्शयित्री? कथञ् च भगवन् प्रज्ञापारमितया तथागतो जनितः? कतमश् च लोकस् तथागतेनाख्यातः?
भगवान् आह: अनया सुभूते गम्भीरया प्रज्ञापारमितया दशतथागतबलानि जनितानि, चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महाकरुणा महामैत्री महामुदिता महोपेक्षा अष्टादशावेणिका बुद्धधर्मा यावत् सर्वाकारज्ञता जनिता, एभिश् च सुभूते धर्मैस् तथागत इति प्रभाव्यते, तस्मात् तर्हि सुभूते अनया गम्भीरया प्रज्ञापारमितया तथागतो जनितः. इति तथागतनिर्वृत्तिज्ञानम्
सुभूतिर् आह: कतमः पुनर् भगवंस् तथागतेन लोक इत्य् आख्यातः?
भगवान् आह: पञ्च सुभूते स्कन्धास् तथागतेन लोक आख्यातः.
सुभूतिर् आह: कथं भगवन् प्रज्ञापारमिताया पञ्च स्कन्धा दर्शिताः?
भगवान् आह: न सुभूते प्रज्ञापारमिता इमान् पञ्च स्कन्धान् लुज्यमानान् दर्शयति, न प्रलुज्यमानान् दर्शयति, नोत्पद्यमानान् (प्स्प्_4:59) दर्शयति, न निरूध्यमानान् दर्शयति, न संक्लिश्यमानान् न व्यवदायमानान् दर्शयति, न वृद्धिं न हानिं दर्शयति, नायूहं न निर्यूहं नातीतान् नानागतान् न प्रत्युत्पन्नान् धर्मान् दर्शयति. तत् कस्य हेतोर्? न हि शून्यता लुज्यते वा प्रलुज्यते वा, नानिमित्तं लुज्यते वा प्रलुज्यते वा, नाप्रणिहितं लुज्यते वा प्रलुज्यते वा, नानभिसंस्करो नानुत्पादो न निरोधो नाभावो नास्वभावो लुज्यते वा प्रलुज्यते वा. एवं हि सुभूते तथागतेन गम्भीरा प्रज्ञापारमिता लोकस्य दर्शयित्री आख्याता. इति लोकस्य ज्ञानम्
ये ऽपि ते सुभूते अप्रमेयाणां सत्त्वानाम् असंख्येयानां सत्त्वानाम् अपरिमाणानां सत्त्वानां चित्तचरितानि प्रजानन्ति, अप्रमेयाः सत्त्वाः परचित्तविदस् ते ऽपि प्रज्ञापारमिताम् आगम्य प्रजानन्ति. न पुनः सुभूते इह गम्भीरायां प्रज्ञापारमितायां सत्त्वो न सत्त्वप्रज्ञप्तिर् उपलभ्यते, न रूपं न रूपप्रज्ञप्तिर् उपलभ्यते, न वेदना न संज्ञा न संस्कारा, न विज्ञानं न विज्ञानप्रज्ञप्तिर् उपलभ्यते, न चक्षूरूपं न चक्षुर्विज्ञानं न चक्षुःसंस्पर्शो न चक्षुःसंस्पर्शप्रत्ययवेदना उपलभ्यते, न चक्षूरूपप्रज्ञप्तिर् उपलभ्यते, न चक्षुर्विज्ञानप्रज्ञप्तिर् उपलभ्यते, न चक्षुःसंस्पर्शप्रज्ञप्तिर् उपलभ्यते, न चक्षुःसंस्पर्शप्रत्ययवेदनाप्रज्ञप्तिर् उपलभ्यते, एवं न श्रोत्रं न शब्दो न घ्राणं न गन्धो न जिह्वा न रसो न कायो न स्प्रष्टव्यं न मनो न धर्मो न मनोविज्ञानं न मनःसंस्पर्शो न मनःसंस्पर्शप्रत्ययवेदनाप्रज्ञप्तिर् उपलभ्यते. एवं न पारमिता न बोधिपक्ष्या धर्मा न विमोक्षमुखं न बलवैशारद्यप्रतिसंविदो नावेणिकबुद्धधर्मा यावन् न सर्वाकारज्ञताप्रज्ञप्तिर् उपलभ्यते. एवं हि सुभूते इयं गम्भीरा प्रज्ञापारमिता तथागतानां लोकस्य संदर्शयित्री, सा पुनर् इयं गम्भीरा प्रज्ञापारमिता न रूपस्य दर्शयित्री यावन् न सर्वज्ञताया दर्शयित्री. तत् कस्य हेतोः? प्रज्ञापारमिता एव तावत् सुभूते प्रज्ञापारमितायां न संविद्यते नोपलभ्यते, कुतः पुना रूपम् उपलप्स्यते, वेदनासंज्ञासंस्काराः, कुतः पुनर् विज्ञानम् उपलप्स्यते यावत् कुतः पुनः सर्वाकारज्ञता (प्स्प्_4:60) उपलप्स्यते. इति सर्वचित्तचरितज्ञानम्
पुनर् अपरं सुभूते यावन्तः सत्त्वाः सत्त्वप्रज्ञप्त्या प्रज्ञप्यन्ते रूपिणो वा अरूपिणो वा संज्ञिनो ऽसंज्ञिनो नैवसंज्ञिनो नासंज्ञिन इह वा लोकधातौ ऽन्येषु वा दशदिशि लोकधातुषु यावन्तः सत्त्वास् तेषां यानि संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानि तानि संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति. कथञ् च सुभूते तथागतस् तेषां सत्त्वानां तानि संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति? धर्मतया सुभूते तथागतस् तेषां सत्त्वानां संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति.
सुभूतिर् आह: कतमया भगवन् धर्मतया तथागतस् तेषां सत्त्वानां संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति?
भगवान् आह: यत्र सुभूते धर्मतायां धर्मतैव नोपलभ्यते प्राग् एव संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानि, अनया सुभूते धर्मतया तथागतः संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानि तेषां सत्त्वानां यथाभूतं प्रजानाति. इति चित्तसंक्षेपज्ञानम्
पुनर् अपरं सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो ऽक्षयतः तेषां सत्त्वानां संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानि यथाभूतं प्रजानाति. कथं च सुभूते तथागतस् तेषां सत्त्वानाम् अक्षयतः संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानि यथाभूतं प्रजानाति? इह सुभूते तथागतो निरोधतः प्रहाणतस् तेषां सत्त्वानां तानि चित्तानि यथाभूतं प्रजानाति, शान्ततस् तुच्छतो विविक्ततः तथागतो ऽर्हन् सम्यक्संबुद्धस् तेषां सत्त्वानां संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानि यथाभूतं प्रजानाति. इति चित्ताक्षयाकारज्ञानम्
पुनर् अपरं सुभूते तथागतस् तेषां सत्त्वानां सरागं चित्तं सरागं चित्तम् इति यथाभूतं प्रजानाति, वीतरागं चित्तं वीतरागं चित्तम् इति यथाभूतं प्रजानाति, सदोषं चित्तं सदोषं चित्तम् इति यथाभूतं प्रजानाति, विगतदोषं चित्तं विगतदोषं चित्तम् इति यथाभूतं प्रजानाति, समोहं चित्तं समोहं चित्तम् इति यथाभूतं (प्स्प्_4:61) प्रजानाति, विगतमोहं चित्तं विगतमोहं चित्तम् इति यथाभूतं प्रजानाति.
सुभूतिर् आह: कथं भगवंस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेषां सत्त्वानां सरागं चित्तं सरागं चित्तम् इति यथाभूतं प्रजानाति? सदोषं चित्तं सदोषं चित्तम् इति यथाभूतं प्रजानाति? समोहं चित्तं समोहं चित्तम् इति यथाभूतं प्रजानाति?
भगवान् आह: या सुभूते चित्तस्य सरागदोषमोहता न सा चित्तस्य यथाभूतता. तत् कस्य हेतोर्? न हि सुभूते यथाभूतं चित्तम् उपलभ्यते न चैतसिका धर्माः प्राग् एव सरागं वा सदोषं वा समोहं वा चित्तम् उपलप्स्यते. एवं हि सुभूते तथागतः प्रज्ञापारमिताम् आगम्य तेषां सत्त्वानां सरागं चित्तं सरागं चित्तम् इति यथाभूतं प्रजानाति, सदोषं चित्तं सदोषं चित्तम् इति यथाभुतं प्रजानाति, समोहञ् चित्तं समोहं चित्तम् इति यथाभूतं प्रजानाति. कथं च सुभूते तथागतस् तेषां सत्त्वानां विगतरागं चित्तं विगतरागं चित्तम् इति यथाभूतं प्रजानाति? विगतदोषं चित्तं विगतदोषं चित्तम् इति यथाभूतं प्रजानाति? विगतमोहं चित्तं विगतमोहं चित्तम् इति यथाभूतं प्रजानाति? या सुभूते चित्तस्य विगतरागता न सा चित्तस्य सरागता. तत् कस्य हेतोर्? न हि सुभूते द्वयोश् चित्तयोः समवधानम् अस्ति. एवं या सुभूते चित्तस्य विगतदोषता न सा चित्तस्य सदोषता, या सुभूते चित्तस्य विगतमोहता न सा चित्तस्य समोहता. तत् कस्य हेतोर्? न हि सुभूते द्वयोश् चित्तयोः समवधानम् अस्ति. एवं सुभूते तथागतस् तेषां सत्त्वानां विगतरागं चित्तं विगतरागं चित्तम् इति यथाभूतं प्रजानाति, विगतदोषं चित्तं विगतदोषं चित्तम् इति यथाभूतं प्रजानाति, विगतमोहं चित्तं विगतमोहं चित्तम् इति यथाभूतं प्रजानाति.
इति सरागादिचित्तज्ञानम्
पुनर् अपरं सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां विपुलचित्तं विपुलचित्तम् इति यथाभूतं प्रजानाति. कथं च सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां विपुलं चित्तं विपुलं चित्तम् इति यथाभुतं प्रजानाति? इह सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां न विस्तीर्णं चित्तं न संकुञ्चितञ् चित्तं न हि विवर्द्धते चित्तं न परिहीयते चित्तं नागच्छति न गच्छति (प्स्प्_4:62) चित्तम् इति यथाभूतं प्रजानाति. तत् कस्य हेतोः? तथा हि सुभूते चित्तस्य स्वभावो नोपलभ्यते येन विस्तीर्णं क्रियते यावद् आगच्छेद् वा. एवं हि सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां विपुलं चित्तं विपुलं चित्तम् इति यथाभूतं प्रजानाति. इति विपुलचित्तज्ञानम्
पुनर् अपरं सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां महद्गतं चित्तं महद्गतं चित्तम् इति यथाभूतं प्रजानाति. कथं च सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां महद्गतं चित्तं महद्गतं चित्तम् इति यथाभूतं प्रजानाति? इह सुभूते तथागतस् तेषां परसत्त्वानां परपुद्गलानां तेषां चित्तानां नागमनं न गमनं नोत्पादं न निरोधं न स्थितिं नान्यथात्वं समनुपश्यति. तत् कस्य हेतोः? न हि सुभूते तेषां चित्तानां स्वभावः संविद्यते, य आगच्छेद् वा गच्छेद् वा उत्पद्येत वा निरुध्येत वा स्थीयेत वान्यथा वा भवेत्. एवं खलु सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां महद्गतं चित्तं महद्गतं चित्तम् इति यथाभूतं प्रजानाति. इति महद्गतचित्तज्ञानम्
पुनर् अपरं सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अप्रमाणं चित्तम् अप्रमाणं चित्तम् इति यथाभूतं प्रजानाति. कथं च सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अप्रमाणं चित्तम् अप्रमाणं चित्तम् इति यथाभूतं प्रजानाति? इह सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां तच् चित्तं न स्थितं नास्थितं न विष्ठितं नाविष्ठितं समनुपश्यति. तत् कस्य हेतोः? अनाश्रया हि सुभूते चित्तधारा अप्रमाणा, न हि तेषाम् आश्रयः संविद्यते यत्र प्रतिष्ठेरन्. एवं हि सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अप्रमाणानि चित्तान्य् अप्रमाणानि चित्तानीति यथाभूतं प्रजानाति.
इत्य् अप्रमाणचित्तज्ञानम्
(प्स्प्_4:63)
पुनर् अपरं सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अनिदर्शनं चित्तम् अनिदर्शनं चित्तम् इति यथाभूतं प्रजानाति. कथं च सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अनिदर्शनं चित्तम् अनिदर्शनं चित्तम् इति यथाभूतं प्रजानाति? इह सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां अलक्षणानि चित्तानि स्वभावरहितानि चित्तानि यथाभूतं प्रजानाति स्वलक्षणशून्यताम् उपादाय. एवं हि सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अनिदर्शनञ् चित्तम् अनिदर्शनं चित्तम् इति यथाभूतं प्रजानाति. इत्य् अनिदर्शनचित्तज्ञानम्
पुनर् अपरं सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अदृश्यं चित्तम् अदृश्यं चित्तम् इति यथाभूतं प्रजानाति. कथं च सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अदृश्यं चित्तम् अदृश्यं चित्तम् इति यथाभूतं प्रजानाति? इति हि सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य पञ्चानां चक्षुषां तानि परचित्तानि नावभासम् आगच्छन्ति. एवं हि सुभूते तथागतो ऽर्हन् सम्यक्संबुद्ध इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अदृश्यं चित्तम् अदृश्यं चित्तम् इति यथाभूतं प्रजानाति. इत्य् अदृश्यचित्तज्ञानम्
पुनर् अपरं सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां च चित्तोन्मिञ्जितानि निमिञ्जितानि संमिञ्जितानि प्रसारितानि यथाभूतं प्रजानाति. कथं च सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां चित्तोन्मिञ्जितानि निमिञ्जितानि संमिञ्जितानि प्रसारितानि यथाभूतं प्रजानाति? इह सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां तानि चित्तोन्मिञ्जितानि निमिञ्जितानि संमिञ्जितानि प्रसारितान्य् एवं प्रजानाति, यानि कानिचित् सत्त्वानां चित्तोन्मिञ्जितानि वा निमिञ्जितानि वा संमिञ्जितानि वा प्रसारितानि वा उत्पद्यमानान्य् उत्पद्यन्ते, सर्वाणि तानि रूपसंनिश्रितानि, वेदना संज्ञा संस्काराः, विज्ञानसंनिश्रितानि वा उत्पद्यमानान्य् उत्पद्यन्ते.
(प्स्प्_4:64)
एवं हि सुभूते तथागतस् तेषाम् इमां प्रज्ञापारमिताम् आगम्य चित्तोन्मिञ्जितानि निमिञ्जितानि संमिञ्जितानि प्रसारितानि यथाभूतं प्रजानाति, भवति तथागतः परंमरणाद् इति रूपगतम् एतत्, न भवति, भवति च न भवति च, नैव भवति न न भवति तथागतः परंमरणाद् इति रूपगतम् एतत्, वेदना संज्ञा संस्कारा, भवति तथागतः परंमरणाद् इति विज्ञानगतम् एतत्, न भवति, भवति च न भवति च, नैव भवति न न भवति तथागतः परंमरणाद् इति विज्ञानगतम् एतत्.
शाश्वतश् च आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, अशाश्वतः, शाश्वतश् चाशाश्वतश् च, नैव शाश्वतो नाशाश्वत आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, एवं वेदना संज्ञा संस्काराः, शाश्वत आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्, अशाश्वतः, शाश्वतश् चाशाश्वतश् च, नैव शाश्वतो नाशाश्वत आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्.
एवम् अन्तवान् आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, एवं वेदना संज्ञा संस्कारा, अन्तवान् आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्. एवम् अनन्त आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, वेदना संज्ञा संस्कारा, अनन्त आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्, अन्तवांश् चानन्तश् चात्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, वेदना संज्ञा संस्कारा, अन्तवांश् चानन्तश् चात्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्, नैवान्तवान् नानन्त आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, वेदना संज्ञा संस्कारा, नैवान्तवान् नानन्त आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्.
भवत्य् आत्मा च लोकश् च परंमरणाद् इदम् एव सत्यं मोहम् अन्यद् (प्स्प्_4:65) इति रूपगतम् एतत्, न भवति, भवति च न भवति च, नैव भवति न न भवति आत्मा च लोकश् च परंमरणाद् इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, वेदना संज्ञा संस्कारा, भवत्य् आत्मा च लोकश् च परंमरणाद् इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्, न भवति, भवति च न भवति च, नैव भवति न न भवति आत्मा च लोकश् च परंमरणाद् इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्.
स जीवस् तच् छरीरम् अन्यो जीवो ऽन्यच् छरीरम् इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, वेदना संज्ञा संस्काराः, स जीवस् तच् छरीरम् अन्यो जीवो ऽन्यच् छरीरम् इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्. एवं हि सुभूते तथागतः परसत्त्वानां परपुद्गलानां चित्तोन्मिञ्जितानि निमिञ्जितानि संमिञ्जितानि प्रसारितानि यथाभूतं प्रजानाति. इति चित्तोन्मिञ्जितादिज्ञानम्
पुनर् अपरं सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य रूपं संजानीते. किम् इति रूपं संजानीते? तथा सञ्जानीते यथा तथता अवितथता अविकारा अविकल्पा अनिमित्ता अनाभोगा अप्रपञ्चा निरुपलम्भा, वेदना संज्ञा संस्कारा, विज्ञानं संजानीते. किम् इति विज्ञानं संजानीते? तथा संजानीते यथा तथता अवितथता अविकारा अविकल्पा अनिमित्ता अनाभोगा अप्रपञ्चा निरुपलम्भा. एवं हि सुभूते तथागतः परसत्त्वानां परपुद्गलानां प्रज्ञापारमिताम् आगम्य उन्मिञ्जितानि निमिञ्जितानि संमिञ्जितानि प्रसारितानि तथा जानाति यथा तथता अवितथता अविकारा अविकल्पा अनिमित्ता अनाभोगा अप्रपञ्चा निरुपलम्भा. इति तथताकारज्ञानम्
इति सुभूते या उन्मिञ्जितनिमिञ्जितसंनिमिञ्जितप्रसारिततथता सा स्कन्धधात्वायतनप्रतीत्यसमुत्पादतथता, या स्कन्धधात्वायतनप्रतीत्यसमुत्पादतथता सा सर्वधर्मतथता, या सर्वधर्मतथता सा षण्णां पारमितानां तथता, या षण्नां पारमितानां तथता सा सप्तत्रिंशद् बोधिपक्ष्याणां धर्माणां तथता, या सप्तत्रिंशद् बोधिपक्ष्याणां धर्माणां तथता सा सर्वशून्यतानां तथता, (प्स्प्_4:66) या सर्वशून्यतानां तथता साष्टानां विमोक्षाणां नवानाञ् चानुपूर्वविहारसमापत्तीनां तथता, या अष्टानां विमोक्ष्याणां नवानाञ् चानुपूर्वविहारसमापत्तीनां तथता साप्रमाणध्यानारूप्यसमापत्तीनां तथता, याप्रमाणध्यानारूप्यसमापत्तीनां तथता सा चतुर्णाम् आर्यसत्यानां तथता, या चतुर्णाम् आर्यसत्यानां तथता सा शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां तथता, या शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां तथता सा षण्णाम् अभिज्ञानां तथता, या षण्णाम् अभिज्ञानां तथता सा सर्वसमाधीनां तथता, या सर्वसमाधीनां तथता सा सर्वधारणीमुखानां तथता, या सर्वधारणीमुखानां तथता सा दशानां तथागतबलानां तथता, या दशानां तथागतबलानां तथता सा चतुर्णां वैशारद्यानां तथता, या चतुर्णां वैशारद्यानां तथता सा चतसृणां प्रतिसंविदां तथता, या चतसृणां प्रतिसंविदां तथता सा महामैत्र्या महाकरुणायास् तथता, या महामैत्र्या महाकरुणायास् तथता साष्टादशानाम् आवेणिकानां बुद्धधर्माणां तथता, याष्टादशानाम् आवेणिकानां बुद्धधर्माणां तथता सा सर्वज्ञतायास् तथता, या सर्वज्ञतायास् तथता सा कुशलाकुशलानां धर्माणां तथता, या कुशलाकुशलानां धर्माणां तथता सा लौकिकलोकोत्तराणां सास्रवानास्रवाणां सावद्यानवद्यानां सक्लेशनिःक्लेशाणां संक्लेशव्यवदानानां संस्कृतासंस्कृतानां धर्माणां तथता, या संस्कृतासंस्कृतानां धर्माणां तथता सातीतानागतप्रत्युत्पन्नानां धर्माणां तथता, यातीतानागतप्रत्युत्पन्नानां धर्माणां तथता सा स्रोतआपन्नधर्मतथता, या स्रोतआपन्नधर्मतथता सा स्रोतआपत्तिफलतथता, या स्रोतआपत्तिफलतथता सा सकृदागामिधर्मतथता, या सकृदागामिधर्मतथता सा सकृदागामिफलतथता, या सकृदागामिफलतथता सा अनागामिधर्मतथता, या अनागामिधर्मतथता सा अनागामिफलतथता, या अनागामिफलतथता सा अर्हत्त्वतथता, या अर्हत्त्वतथता सा अर्हत्त्वफलतथता, या अर्हत्त्वफलतथता सा प्रत्येकबुद्धतथता या प्रत्येकबुद्धतथता सा प्रत्येकबोधितथता, या प्रत्येकबोधितथता सानुत्तरायाः सम्यक्संबोधेस् तथता, यानुत्तरायाः सम्यक्संबोधेस् (प्स्प्_4:67) तथता सा तथागततथता, या तथागततथता सा सर्वसत्त्वतथता. इति हि या च तथागततथता या च सर्वसत्त्वतथता, एकैवैषा तथता अविनिर्भागतथता, या अविनिर्भागतथता सा अक्षया, या चाक्षया साक्षयत्वेनाद्वैधीकारा. इयं सुभूते सर्वधर्मतथता, या प्रज्ञापारमिताम् आगम्य तथागतेनाभिसंबुद्धा, एवम् इयं सुभूते प्रज्ञापारमिता तथता तथागतानां जनयित्री, एवं हि सुभूते इयं प्रज्ञापारमिता लोकस्य दर्शयित्री, एवं हि सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वधर्मतथतां जानाति, अवितथताम् अनन्यतथतां जानाति, यया तथतया तथागतो ऽर्हन् सम्यक्संबुद्ध इत्य् उच्यते.
सुभूतिर् आह: गम्भीरा भगवन् यद् उत सर्वधर्माणां तथता अवितथता अनन्यतथता. अनया भगवंस् तथतया बुद्धानां भगवतां बोधिः प्रकाशिका. को ऽत्र भगवन्न् अधिमोक्ष्यते? अन्यत्राविनिवर्तनीयैर् बोधिसत्त्वैर् महासत्त्वैर् दृष्टिसंपन्नैर् वा पुद्गलैर् अर्हद्भिः क्षीणास्रवैर् वा यावद् गम्भीरा भगवन्न् इमे धर्मास् तथागतेनाभिसंबुध्याख्याताः.
भगवान् आह: तथा हि सुभूते अक्षया तथता. कस्माद् अक्षया? सर्वधर्माणाम् अक्षयत्वाद् अक्षया तथता, एषा सा सुभूते तथता तथागतेनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्याख्याता यद् उत सर्वधर्मतथता. इति सम्यक्संबुद्धस्य तथतावबोधतत्परसमाख्यानप्रज्ञपनज्ञानानि
अथ खलु यावन्तस् त्रिसाहस्रमहासाहस्रलोकधातौ कामावचरा रूपावचराश् च देवपुत्रास् ते सर्वे दिव्यानि चन्दनचूर्णानि परिगृह्य येन भगवांस् तेनोपसंक्रान्ता उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्यैकान्ते तिष्ठन्न्, एकान्ते स्थिताश् च ते कामावचरा रूपावचराश् च देवपुत्रा भगवन्तम् एतद् अवोचन्: गम्भीरेयं भगवन् प्रज्ञापारमिता प्रकाश्यते. किंलक्षणा भगवन् प्रज्ञापारमिता?
भगवान् आह: शून्यतालक्षणा हि देवपुत्रा इयं गम्भीरा प्रज्ञापारमिता, आनिमित्तलक्षणा हि देवपुत्रा इयं गम्भीरा प्रज्ञापारमिता, अप्रणिहितलक्षणा हि देवपुत्रा इयं गम्भीरा प्रज्ञापारमिता.
(प्स्प्_4:68)
इति शून्यतानिमित्ताप्रणिहितलक्षणानि
अनुत्पादलक्षणा अनिरोधलक्षणा असंक्लेशलक्षणा अव्यवदानलक्षणा अभावलक्षणा अस्वभावलक्षणा अनिश्रितलक्षणा आकाशलक्षणा अशाश्वतलक्षणा अनुच्छेदलक्षणा अनभिसंस्कारलक्षणा अनेकार्थलक्षणा अनानार्थलक्षणा अनागमनलक्षणा आगमनलक्षणा अलक्षणा हि देवपुत्रा इयं गम्भीरा प्रज्ञापारमिता. एवंलक्षणा हि देवपुत्रा इयं गम्भीरा प्रज्ञापारमिता, तथागतेन लोकसंकेतेन व्यवह्रियते न पुनः परमार्थेन. इत्य् अनुत्पादानिरोधादिज्ञानम्
न हि देवपुत्रा एतानि लक्षणानि सदेवमानुषासुरेण लोकेन शक्यन्ते विकोपयितुम्. तत् कस्य हेतोः? सदेवमानुषासुरो ऽपि हि लोकस् तल्लक्षण, एवं न हि देवपुत्रा लक्षणं लक्षणं विकोपयति, न लक्षणं लक्षणं प्रजानाति, नालक्षणं लक्षणं प्रजानाति, इति हि लक्षणानि च अलक्षणानि च लक्षणालक्षणानि च, तयोर् द्वयोर् अपि नास्ति संभवः, येन प्रजानीयाद् यो वा प्रजानीयात्.
इति धर्मताविकोपनज्ञानम्
न हि देवपुत्रा एतानि लक्षणानि रूपसंस्कृतानि, एवं वेदनासंज्ञासंस्कारा, न विज्ञानसंस्कृतानि न धातुसंस्कृतानि नायतनसंस्कृतानि न प्रतीत्यसमुत्पादसंस्कृतानि न दानपारमितासंस्कृतानि न शीलपारमितासंस्कृतानि न क्षान्तिपारमितासंस्कृतानि न वीर्यपारमितासंस्कृतानि ध्यानपारमितासंस्कृतानि प्रज्ञापारमितासंस्कृतानि न सर्वशून्यतासंस्कृतानि न बोधिपक्ष्यधर्मसंस्कृतानि नार्यसत्यसंस्कृतानि नाप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिसंस्कृतानि न शून्यतानिमित्ताप्रणिहितसंस्कृतानि, नाभिज्ञासंस्कृतानि न सर्वसमाधिसंस्कृतानि न सर्वधारणीमुखसंस्कृतानि न तथागतबलसंस्कृतानि न वैशारद्यप्रतिसंविदावेणिकबुद्धधर्मसंस्कृतानि न सर्वज्ञतासंस्कृतानि.
इत्य् अनभिसंस्कारज्ञानम्
न हि देवपुत्रा एतानि लक्षणानि मनुष्याणां वा अमनुष्याणां वा सास्रवाणि वा अनास्रवाणि वा लौकिकानि वा लोकोत्तराणि वा संस्कृतानि वा असंस्कृतानि वा.
अथ खलु भगवांस् तान् कामावचरान् रूपावचरांश् च देवपुत्रान् एतद् (प्स्प्_4:69) अवोचत्: यदि कश्चिद् देवपुत्रा आकाशं किं लक्षणम्? इति वदेद्, अपि नु स सम्यग् वदमानो वदेत्.
देवपुत्रा आहुर्: न भगवन् सम्यग् वदमानो वदेत्. तत् कस्य हेतोः? न हि भगवन्न् आकाशं केनचिल् लक्षणेन संविद्यते असंस्कृतत्वाद् आकाशधातोः. इत्य् अविकल्पज्ञानम्
भगवान् आह: उत्पादाद् वा देवपुत्रास् तथागतानाम् अनुत्पादाद् वा स्थितैवैषा धर्मधातुस्थितिर् एवंलक्षणा, यथा स्थितो लक्षणहेतुः सा भूता तथागतेनाभिसंबुद्धा, तस्मात् तथागतस् तथागत इत्य् उच्यते.
देवपुत्रा आहुः: गम्भीराणि भगवन्न् इमानि लक्षणानि तथागतेनाभिसंबुद्धानि येषां लक्षणानाम् अभिसंबुद्धत्वात्, तथागतस्यासङ्गज्ञानं येषु लक्षणेषु स्थित्वा तथागतेन सर्वलक्षणानि संप्रकाशितानि, प्रज्ञापारमितासंप्रकाशनतया भगवंस् तानि लक्षणानि संप्रकाशितानि. आश्चर्यं भगवन् यावद् गम्भीरेयं प्रज्ञापारमिता तथागतानाम् अर्हतां सम्यक्संबुद्धानां गोचरो, यत्र चरतो तथागतेनार्हता सम्यक्संबुद्धेनानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा, अनुत्तरां च सम्यक्संबोधिम् अभिसंबुध्य सर्वलक्षणानां प्रभेदः कृतो, रूपलक्षणस्य वेदनालक्षणस्य संज्ञालक्षणस्य संस्कारलक्षणस्य विज्ञानलक्षणस्य, एवं स्कन्धलक्षणस्य धातुलक्षणस्य आयतनलक्षणस्य प्रतीत्यसमुत्पादलक्षणस्य प्रभेदः कृतो यावत् सर्वज्ञतालक्षणस्य प्रभेदः कृतः. इति प्रभेदज्ञानम्
अथ खलु भगवांस् तान् कामावचरान् रूपावचरांश् च देवपुत्रान् एतद् अवोचत्: रूपाणां लक्षणं देवपुत्रा रूपम्, एवं तत् तथागतेनालक्षणम् इत्य् अभिसंबुद्धम्, अनुभवलक्षणा वेदना, निमित्तोद्ग्रहणलक्षणा संज्ञा, अभिसंस्कारलक्षणाः संस्काराः, प्रतिविज्ञप्तिलक्षणं विज्ञानं तथागतेनालक्षणम् इत्य् अभिसंबुद्धं, राशीलक्षणा स्कन्धाः, गोत्रलक्षणा धातवः, आयद्वारलक्षणान्य् आयतनानि, सामग्रीलक्षणः प्रतीत्यसमुत्पादस् तथागतेनैते ऽलक्षणा इत्य् अभिसंबुद्धाः, परित्यागलक्षणा दानपारमिता, सा तथागतेनालक्षणेत्य् अभिसंबुद्धा. अनुद्दाहलक्षणा शीलपारमिता, अकोपलक्षणा क्षान्तिपारमिता, अनवमर्दनीयलक्षणा वीर्यपारमिता, संग्रहलक्षणा ध्यानपारमिता, असङ्गलक्षणा प्रज्ञापारमिता, सा तथागतेनालक्षणेत्य् अभिसंबुद्धा. अविकोपनलक्षणानि चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयस् (प्स्प्_4:70) तास् तथागतेनालक्षणा इत्य् अभिसंबुद्धाः. नैर्याणिकलक्षणाः सप्तत्रिंशद् बोधिपक्ष्या धर्मास् ते तथागतेनालक्षणा इत्य् अभिसंबुद्धाः. विविक्तलक्षणा शून्यता, शान्तलक्षणम् आनिमित्तम्, अनाभोगलक्षणम् अप्रणिहितं तत् तथागतेनालक्षणम् इत्य् अभिसंबुद्धं विमोचलक्षणा विमोक्ष्यास् ते तथागतेनालक्षणा इत्य् अभिसंबुद्धाः. सुनिश्चितलक्षणानि बलानि, सुप्रतिष्ठितलक्षणानि वैशारद्यान्य्, अनाच्छेद्यलक्षणाः प्रतिसंविदः, हितोपसंहारलक्षणा महामैत्री, परित्राणलक्षणा महाकरुणा, बुद्धधर्मप्रसादप्रामोद्यलक्षणा मुदिता, सर्वदोषसुखदुष्खलाभालाभयशोयशोनिन्दाप्रशंसोपेक्षाणां लक्षणा उपेक्षा, असंहार्यलक्षणा अष्टादशावेणिका बुद्धधर्मास् ते तथागतेनालक्षणा इत्य् अभिसंबुद्धा यावत् प्रत्यक्षलक्षणं सर्वज्ञज्ञानं तथागतेनालक्षणम् इत्य् अभिसंबुद्धम्. एवं हि देवपुत्रास् तथागतेन सर्वधर्मा अलक्षणा इत्य् अभिसंबुद्धास् तेन तथागतो सङ्गज्ञानीत्य् उच्यते. इत्य् अलक्षणज्ञानम्
अथ खलु भगवान् आयुष्मन्तं सुभूतिम् आमन्त्रयामास: प्रज्ञापारमिता सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य येनैव जनयित्री अस्य च लोकस्य दर्शयित्री तेन कारणेन तथागत इमं प्रज्ञापारमिताधर्मम् उपनिश्रित्य विहरति. इति स्वधर्मोपनिश्रयविहारज्ञानम्
एवं धर्मं सत्करोति गुरुकरोति मानयति पूजयति अर्चयत्य् अपचायते. इयं सा सुभूते प्रज्ञापारमिताधर्मता तस्माद् इमां तथागतः प्रज्ञापारमितां सत्करोति गुरुकरोति मानयति पूजयत्य् अर्चयत्य् अपचायते. तत् कस्य हेतोः? अतो हि सुभूते प्रज्ञापारमितायाः बुद्धानां भगवतां प्रादुर्भावो भवति, कृतज्ञश् च सुभूते तथागतः कृतवेदी, ये खलु पुनः सुभूते सम्यग्वदमाना वदेयुः कृतज्ञः कृतवेदीति तथागतं, ते सम्यग्वदमानाः सम्यग् वदेयुः कृतज्ञः कृतवेदीति. कथं च सुभूते तथागतः कृतज्ञो भवति कृतवेदीति? येन सुभूते यानेन तथागत आगतः, यया प्रतिपदा अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस् ततस् तथागतस् तद् एव यानं ताम् एव प्रतिपदं सत्करोति गुरुकरोति मानयति पूजयति अर्चयत्य् अपचायते ऽनुगृह्णाति अनुपरिपालयते, इयं सा सुभूते तथागतस्य कृतज्ञता कृतवेदिता द्रष्टव्या. इति सत्कारादिज्ञानम्
(प्स्प्_4:71)
पुनर् अपरं सुभूते तथागतेन सर्वधर्मा अकृता इत्य् अभिसंबुद्धाः कारकासत्ताम् उपादाय, अविकृता इत्य् अभिसंबुद्धा निग्रहासत्ताम् उपादाय इयम् अपि सुभूते तथागतस्य कृतज्ञता कृतवेदिता द्रष्टव्या. एवं तथागतेन प्रज्ञापारमिताम् आगम्य सर्वधर्मा अकृता इत्य् अभिसंबुद्धाः. इत्य् अकृतकज्ञानम्
पुनर् अपरं सुभूते तथागतस्य प्रज्ञापारमिताम् आगम्य सर्वधर्मेष्व् अकृतकज्ञानं प्रवृत्तम् अप्रवृत्तिसंकेतेनानेन सुभूते पर्यायेण प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री. इति सर्वत्रगज्ञानम्
सुभूतिर् आह: यदा भगवन् सर्वधर्मा अजानका अपश्यकाः, कथं तदा प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री?
भगवान् आह: एवम् एतत् सुभूते एवम् एतत् सर्वधर्मा अजानका अपश्यकाः, कथञ् च सुभूते सर्वधर्मा अजानका अपश्यकाः? सर्वधर्मा हि सुभूते शून्याः ऋक्तकाः तुच्छका असारकाः, अनेन सुभूते पर्यायेण सर्वधर्मा अजानका अपश्यकाः.
पुनर् अपरं सुभूते सर्वधर्मा अजानका अपश्यकाः, कथञ् च सुभूते सर्वधर्मा अजानका अपश्यकाः? सर्वधर्माः सुभूते अनिश्रिता अपर्यापन्नाः, अनेन सुभूते पर्यायेण सर्वधर्मा अजानका अपश्यकाः. एवं खलु सुभूते प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री. सा च पुना रूपस्यादृष्टत्वाद् दर्शयित्री, एवं वेदनायाः संज्ञायाः संस्काराणां, विज्ञानस्यादृष्टत्वाद् दर्शयित्री, स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्यादृष्टत्वाद् दर्शयित्री. एवं यावत् सर्वज्ञताया अदृष्टत्वाद् दर्शयित्री, एवं खलु सुभूते प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री.
सुभूतिर् आह: कथं भगवन् रूपस्यादृष्टत्वात्? कथं वेदनायाः संज्ञायाः संस्काराणां? कथं विज्ञानस्यादृष्टत्वाद् दर्शयित्री भवति? कथं स्कन्धधात्वायतनानां प्रतीत्यसमुत्पादस्यादृष्टत्वाद् दर्शयित्री? कथं यावत् सर्वज्ञताया अदृष्टत्वाद् दर्शयित्री?
भगवान् आह: यदा सुभूते न रूपारम्बणं विज्ञनम् उत्पद्यते, एवं हि सुभूते रूपस्यादृष्टत्वाद् दर्शयित्री. एवं यदा सुभूते न वेदनासंज्ञासंस्कारारम्बणं, (प्स्प्_4:72) यदा न विज्ञानारम्बणं विज्ञानम् उत्पद्यते, एवं विज्ञानस्यादृष्टत्वाद् दर्शयित्री. यदा न स्कन्धधात्वायतनप्रतीत्यसमुत्पादारम्बणं विज्ञानम् उत्पद्यते, एवम् एषाम् अदृष्टत्वाद् दर्शयित्री. यदा न पारमितारम्बणं विज्ञानम् उत्पद्यते, एवं पारमितानाम् अदृष्टत्वाद् दर्शयित्री. एवं सर्वशून्यतानां सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् अष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां शून्यतानिमित्ताप्रणिहितानां पञ्चानाम् अभिज्ञानां सर्वधारणीमुखानां दशतथागतबलानां वैशारद्यानां प्रतिसंविदां, यदा न आवेणिकबुद्धधर्मारम्बणं विज्ञानम् उत्पद्यते, एवम् आवेणिकबुद्धधर्माणाम् अदृष्टत्वाद् दर्शयित्री. यदा सुभूते न सर्वज्ञतारम्बणं विज्ञानम् उत्पद्यते, एवं सर्वज्ञताया अदृष्टत्वाद् दर्शयित्री. एवं हि सुभूते इयं गम्भीरा प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री. इत्य् अदृष्टार्थदर्शकज्ञानम्
पुनर् अपरं सुभूते कथं प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री? इह सुभूते प्रज्ञापारमिता लोकः शून्य इति सूचयति. किम् इति लोकः शून्य इति सूचयति? पञ्चस्कन्धा लोकः शून्य इति सूचयति, द्वादशायतनानि लोकः शून्य इति सूचयति, अष्टादशधातवो लोकः शून्य इति सूचयति, दशकुशलाः कर्मपथा लोकः शून्य इति सूचयति, चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयो लोकः शून्य इति सूचयति, अविद्या प्रत्ययो द्वादशाङ्गप्रतीत्यसमुत्पादो लोकः शून्य इति सूचयति, सत्कायदृष्टिपूर्वकानि द्वाषष्टिदृष्टिकृतानि लोकः शून्य इति सूचयति, सप्तत्रिंशद्बोधिपक्ष्या धर्मा लोकः शून्य इति सूचयति, षट्पारमिता लोकः शून्य इति सूचयति. एवम् अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता यावद् अभावस्वभावशून्यता लोकः शून्य इति सूचयति. एवं दशबलानि वैशारद्यानि प्रतिसंविद आवेणिकबुद्धधर्मा लोकः शून्य इति सूचयति, सर्वज्ञता लोकः शून्य इति सूचयति. एवं हि सुभूते प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री.
पुनर् अपरं सुभूते प्रज्ञापारमिता लोकः शून्य इति ज्ञापयति. (प्स्प्_4:73) किम् इति लोकः शून्य इति ज्ञापयति? स्कन्धधात्वायतनानि लोकः शून्य इति ज्ञापयति, प्रतीत्यसमुत्पादो दशकुशलाः कर्मपथाश् चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयो लोकः शून्य इति ज्ञापयति, सप्तत्रिंशद्बोधिपक्ष्या धर्मा यावत् सर्वज्ञता लोकः शून्य इति ज्ञपयति. एवं हि सुभूते प्रज्ञापारमिता तथागतस्य जनयित्रि अस्य च लोकस्य दर्शयित्री.
पुनर् अपरं सुभूते प्रज्ञापारमिता तथागतस्य लोकः शून्य इति दर्शयति. किम् इति लोकः शून्य इति दर्शयति? स्कन्धधात्वायतनप्रतीत्यसमुत्पादं दशकुशलाः कर्मपथाश् चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः सत्कायदृष्टिपूर्वकाणि द्वाषष्टिदृष्टिकृतानि षट्पारमिताः सप्तत्रिंशद्बोधिपक्ष्या धर्माः सर्वशून्यता दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा यावत् सर्वाकारज्ञता लोकः शून्य इति दर्शयति. एवं हि सुभूते प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री.
इति शून्यताकारसूचकज्ञानोपदर्शकज्ञानानि
पुनर् अपरं सुभूते प्रज्ञापारमिता तथागतस्य लोको ऽचिन्त्य इति दर्शयति. किम् इति लोको ऽचिन्त्य इति दर्शयति? पञ्चस्कन्धा धातव आयतनानि प्रतीत्यसमुत्पादो यावत् सर्वाकारज्ञता लोको ऽचिन्त्य इति दर्शयति. एवं विविक्त इति अत्यन्तशून्य इति स्वभावशून्य इति दर्शयति.
पुनर् अपरं सुभूते प्रज्ञापारमिता तथागतस्य लोकः शान्त इति दर्शयति. किम् इति लोकः शान्त इति दर्शयति? स्कन्धधात्वायतनप्रतीत्यसमुत्पादा यावत् सर्वाकारज्ञता लोकः शान्त इति दर्शयति. एवं हि सुभूते प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री. इत्य् अचिन्त्यताशान्तज्ञानम्
पुनर् अपरं सुभूते प्रज्ञापारमिता तथागतस्य लोकः शून्यतैवेति दर्शयति. किम् इति लोकः शून्यतैवेति दर्शयति? पञ्चस्कन्धा लोकः शून्यतैवेति दर्शयति, तथा धात्वायतनानि लोकः शून्यतैवेति दर्शयति, प्रतीत्यसमुत्पादाङ्गानि लोकः शून्यतैवेति दर्शयति. एवं यावत् सर्वाकारज्ञता लोकः शून्यतैवेति दर्शयति. एवं हि सुभूते (प्स्प्_4:74) प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री. सा पुनर् इयं सुभूते गम्भीरा प्रज्ञापारमिता तथागतस्यैवं लोकं दर्शयति, यथा नेहलोकसंज्ञा नापि परलोकसंज्ञा भवति. तत् कस्य हेतोः? तथा हि ते धर्मा न संविद्यन्ते ये नेहलोकसंज्ञां परलोकसंज्ञां वा कुर्याद्.
इति लोकसंज्ञानिरोधज्ञानम् इति ज्ञानलक्षणम्
सुभूतिर् आह: महाकृत्येन बतेयं भगवन् प्रज्ञापारमिता भगवतः प्रत्युपस्थिता, अचिन्त्यकृत्येनातुल्यकृत्येनाप्रमेयकृत्येनासंख्येयकृत्येनासमसमकृत्येनेयं भगवन् प्रज्ञापारमिता प्रत्युपस्थिता भगवतः.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, महाकृत्येन सुभूते प्रज्ञापारमिता प्रत्युपस्थिता तथागतानां. कथं च सुभूते महाकृत्येन प्रज्ञापारमिता प्रत्युपस्थिता? महाकृत्यम् इदं सुभूते तथागतानां यद् उत सर्वसत्त्वानां त्राणलयनापरित्यागार्थेन. कथं च सुभूते अचिन्त्यकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता? अचिन्त्यं सुभूते बुद्धत्वं तथागतत्वं स्वयंभूत्वं सर्वज्ञत्वम्. एवम् अचिन्त्यकृत्येन सुभूते प्रज्ञापारमिता प्रत्युपस्थिता तथागतानाम् अर्हतां सम्यक्संबुद्धानाम्. कथं च सुभूते अतुल्यकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता? न हि सुभूते कश्चित् सत्त्वः सत्त्वनिकाये संविद्यते, यः शक्नुयात् तथागतम् अर्हन्तं सम्यक्संबुद्धं तुलयितुम्. अनेन सुभूते पर्यायेणातुल्यकृत्येन तथागतानाम् अर्हतां सम्यक्संबुद्धानां प्रज्ञापारमिता प्रत्युपस्थिता. कथं च सुभूते तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् अप्रमेयकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता? अप्रमेयं सुभूते बुद्धत्वं तथागतत्वं स्वयंभूत्वं सर्वज्ञत्वं तन् न शक्यं केनचित् प्रमातुम्. अनेन सुभूते पर्यायेणाप्रमेयकृत्येनेयं तथागतानां प्रज्ञापारमिता प्रत्युपस्थिता. कथञ् च सुभूते तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् असंख्येयकृत्येन प्रज्ञापारमिता प्रत्युपस्थिता? असंख्येयं सुभूते बुद्धत्वं तथागतत्वं स्वयंभूत्वं सर्वज्ञत्वं तन् न शक्यं केनचित् संख्यातुम्. अनेन सुभूते पर्यायेणासंख्येयकृत्येन (प्स्प्_4:75) तथागतानां प्रज्ञापारमिता प्रत्युपस्थिता. कथञ् च सुभूते असमसमकृत्येन प्रज्ञापारमिता प्रत्युपस्थिता? नास्ति सुभूते तथागतानां समः कुतः पुनर् उत्तरः. अनेन सुभूते पर्यायेण असमसमकृत्येन तथागतानां प्रज्ञापारमिता प्रत्युपस्थिता.
सुभूतिर् आह: किं पुनर् भगवन् बुद्धत्वं तथागतत्वं स्वयंभूत्वं सर्वज्ञत्वम् अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमम्?
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, अचिन्त्यं सुभूते बुद्धत्वं तथागतत्वं स्वयंभूत्वं सर्वज्ञत्वम्, एवम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमं सुभूते बुद्धत्वं तथागतत्वं स्वयंभूत्वं सर्वज्ञत्वम्. रूपम् अपि सुभूते अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमं, वेदना संज्ञा संस्कारा, विज्ञानं सुभूते अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमम्, एवं धात्वायतनप्रतीत्यसमुत्पादो ऽचिन्त्यो ऽतुल्यो ऽप्रमेयो ऽसंख्येयो ऽसमसमः. एवं यावत् सर्वज्ञता ऽप्य् अचिन्त्या ऽतुल्या ऽप्रमेया ऽसंख्येया ऽसमसमा, सर्वधर्मा अपि सुभूते ऽचिन्त्या ऽतुल्या ऽप्रमेया ऽसंख्येया ऽसमसमा, या सुभूते सर्वधर्माणां धर्मता न तत्र चित्तन् न चैतसिका वा धर्मा उपलप्स्यन्ते. तत् कस्य हेतोः? रूपं हि सुभूते अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमन् न प्रज्ञायते, वेदना संज्ञा संस्कारा, विज्ञानं हि सुभूते अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमन् न प्रज्ञायते. एवं धात्वायतनप्रतीत्यसमुत्पादो ऽचिन्त्यो ऽतुल्यो ऽप्रमेयो ऽसंख्येयो ऽसमसमो न प्रज्ञायते, यावत् सर्वज्ञता ऽप्य् अचिन्त्या ऽतुल्या ऽप्रमेया ऽसंख्येया ऽसमसमा न प्रज्ञायते.
सुभूतिर् आह: केन कारणेन भगवन् रूपम् अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमन् न प्रज्ञायते, वेदना संज्ञा संस्कारा विज्ञानम् अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमन् न प्रज्ञायते. एवं धात्वायतनप्रतीत्यसमुत्पादो ऽचिन्त्यो ऽतुल्यो ऽप्रमेयो ऽसंख्येयो ऽसमसमो न प्रज्ञायते. एवं यावत् सर्वज्ञतापि भगवन् केन कारणेन ऽचिन्त्या ऽतुल्या ऽप्रमेया ऽसंख्येया ऽसमसमा न प्रज्ञायते?
भगवान् आह: रूपस्यापि चिन्तनं तुलनं प्रमाणं गणनं समविषमत्वं न प्रज्ञयते. एवं यावत् सर्वाकारज्ञतायाश् चिन्तनं तुलनं प्रमाणं गणनं समविषमत्वं न प्रज्ञायते.
सुभूतिर् आह: केन कारणेन भगवन् रूपस्य यावत् सर्वाकारज्ञतायाश् (प्स्प्_4:76) चिन्तनं तुलनं प्रमाणं गणनं समविषमत्वं न प्रज्ञायते?
भगवान् आह: रूपस्य सुभूते स्वभावो ऽचिन्त्यो ऽतुल्यो ऽप्रमेयो ऽसंख्येयो ऽसमसमो निःस्वभावत्वात्, वेदनायाः संज्ञायाः संस्काराणां, विज्ञानस्य सुभूते स्वभावो ऽचिन्त्यो ऽतुल्यो ऽप्रमेयो ऽसंख्येयो ऽसमसमो निःस्वभावत्वात्. एवं धात्वायतनप्रतीत्यसमुत्पादस्य स्वभावो ऽचिन्त्यो ऽतुल्यो ऽप्रमेयो ऽसंख्येयो ऽसमसमो निःस्वभावत्वात्. एवं यावत् सर्वज्ञतायाः स्वभावो ऽचिन्त्यो ऽतुल्यो ऽप्रमेयो ऽसंख्येयो ऽसमसमो निःस्वभावत्वात्. तत् किं मन्यसे? सुभूते यद् रूपम् अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमम् अपि नु तत्र रूपम् उपलभ्यते, वेदना संज्ञा संस्काराः, यत् सुभूते विज्ञानम् अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमम् अपि नु तत्र विज्ञानम् उपलभ्यते. ये धात्वायतनप्रतीत्यसमुत्पादा अचिन्त्या अतुल्या अप्रमेया असंख्येया असमसमाः, अपि नु तत्र धात्वायतनप्रतीत्यसमुत्पादा उपलभ्यन्ते. या सुभूते सर्वज्ञता ऽचिन्त्या ऽतुल्या ऽप्रमेया ऽसंख्येया ऽसमसमा ऽपि नु तत्र सर्वज्ञतोपलभ्यते.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: अनेन सुभूते पर्यायेण सर्वधर्मा अचिन्त्या अतुल्या अप्रमेया असंख्येया असमसमाः, इमे ते सुभूते तथागतस्य तथागतधर्मा अचिन्त्याश् चिन्तनोपरतत्वाद्, अतुल्यास् तुलनोपरतत्वाद्, अप्रमेयाः प्रमाणोपरतत्वाद्, असंख्येया गणनोपरतत्वाद्, असमसमाः समविषमोपरतत्वात्. अनेन सुभूते पर्यायेण सर्वधर्मा अचिन्त्या अतुल्या अप्रमेया असंख्येया असमसमाः, इमे ते सुभूते तथागतस्य तथागतधर्मा अचिन्त्याश् चिन्तासमतिक्रान्ताः, अतुल्यास् तुलनासमतिक्रान्ताः, अप्रमेयाः प्रमाणसमतिक्रान्ताः, असंख्येया गणनासमतिक्रान्ताः, असमसमाः समविषमसमतिक्रान्ताः. अचिन्त्या इति सुभूते अचिन्तनाधिवचनम् एतत्, अतुल्या इति सुभूते अतुलनाधिवचनम् एतत्, अप्रमेया इति सुभूते अप्रमाणाधिवचनम् एतत्, असंख्येया इति सुभूते अगणनाधिवचनम् एतत्, असमसमा इति सुभूते असमविषमाधिवचनम् एतत्, इमे ते सुभूते तथागतस्य तथागतधर्मा अचिन्त्या अतुल्या अप्रमेया असंख्येया असमसमाः. अचिन्त्या इति सुभूते आकाशाचिन्त्यत्वाद्, एवम् अतुल्या अप्रमेया असंख्येया असमसमा आकाशासमसमत्वाद्. एवं हि सुभूते तथागतस्य तथागतधर्मा अचिन्त्या अतुल्या अप्रमेया असंख्येया (प्स्प्_4:77) असमसमाः, ते न शक्यन्ते सर्वश्रावकप्रत्येकबुद्धैः सर्वदेवकेनापि लोकेन चिन्तयितुं वा तुलयितुं वा प्रमातुं वा संख्यातुं वा समविषमं वा कर्तुम्. एवम् अप्रमेया बुद्धा अप्रमेया बुद्धधर्माः, अस्मिन् खलु पुनर् अचिन्त्यातुल्याप्रमेयासंख्येयासमसमपरिवर्तधर्मपर्याये भगवता भाष्यमाणे पञ्चानां भिक्षुशतानाम् अनुपादायास्रवेभ्यश् चित्तानि विमुक्तानि, विंशतीनां च भिक्षुणी शतानाम् अनुपादायास्रवेभ्यश् चित्तानि विमुक्तानि, षष्टेश् चोपासकसहस्राणां विंशतीनाम् उपासिकासहस्राणां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धं, विंशतेश् च बोधिसत्त्वसहस्राणाम् अनुत्पत्तिकेषु धर्मेषु क्षान्तिप्रतिलम्भो ऽभूत्. ते च भगवता इहैव भद्रकल्पे व्याकृता बुद्धा भविष्यन्ति. इत्य् अचिन्त्यतादिविशेषेण दुःखे चत्वारः क्षणाः
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: गम्भीरेयं भगवन् प्रज्ञापारमिता, महाकृत्येनेयं भगवन् प्रज्ञापारमिता प्रत्युपस्थिता, अचिन्त्यकृत्येनातुल्यकृत्येनासंख्येयकृत्येनाप्रमेयकृत्येनासमसमकृत्येनेयं भगवन् प्रज्ञापारमिता प्रत्युपस्थिता.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, महाकृत्येनेयं सुभूते प्रज्ञापारमिता प्रत्युपस्थिता, अचिन्त्यकृत्येनातुल्यकृत्येनाप्रमेयकृत्येनासंख्येयकृत्येनासमसमकृत्येनेयं सुभूते प्रज्ञापारमिता प्रत्युपस्थिता. तत् कस्य हेतोः? अत्र हि सुभूते गम्भीरायां प्रज्ञापारमितायां पञ्चपारमिताः समायुक्ताः. अत्र हि सुभूते गम्भीरायां प्रज्ञापारमितायाम् अध्यात्मशून्यता समायुक्ता यावद् अभावस्वभावशून्यता समायुक्ता, चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गानि आर्याष्टाङ्गमार्गः समायुक्तः. अत्र हि सुभूते गम्भीरायां प्रज्ञापारमितायां चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयश् चत्वार्य् आर्यसत्यानि अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितानि षडभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि समायुक्तानि. अत्र हि सुभूते गम्भीरायां प्रज्ञापारमितायां दशतथागतबलानि समायुक्तानि, चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः समायुक्ताः. अत्र हि सुभूते गम्भीरायां प्रज्ञापारमितायां बुद्धभूमिः समायुक्ता यावत् सर्वाकारज्ञता समायुक्ता, तद्यथापि नाम सुभूते राज्ञः क्षत्रियस्य मूर्ध्नाभिषिक्तस्य जनपदस्थामवीर्यप्राप्तस्य (प्स्प्_4:78) यानि तानि राजकृत्यानि भवन्ति सर्वाणि तान्य् अमात्यसमायुक्तान्य् अल्पोत्सुकस् ततो राजा भवत्य् अपहृतभारः राजकृत्ये वा जनपदकृत्ये वा. एवम् एव सुभूते ये केचिच् छ्रावकधर्मा वा प्रत्येकबुद्धधर्मा वा बोधिसत्त्वधर्मा वा बुद्धधर्मा वा सर्वे ते प्रज्ञापारमितासमायुक्ताः प्रज्ञापारमिता तेषां कृत्यं करोति. तस्मात् तर्हि सुभूते महाकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता, अचिन्त्यकृत्येनातुल्यकृत्येनाप्रमेयकृत्येनासंख्येयकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता. तत् कस्य हेतोः? तथा हि सुभूते गम्भीरा प्रज्ञापारमिता रूपस्यापरिग्रहायानभिनिवेशाय प्रत्युपस्थिता, वेदनायाः संज्ञायाः संस्काराणां, विज्ञानस्यापरिग्रहायानभिनिवेशाय प्रत्युपस्थिता, यावत् सर्वाकारज्ञताया अपरिग्रहायानभिनिवेशाय प्रत्युपस्थिता, स्रोतआपत्तिफलस्यापरिग्रहायानभिनिवेशाय प्रत्युपस्थिता. एवं सकृदागामिफलस्यानागामिफलस्यार्हत्त्वस्य प्रत्येकबोधेर् अपरिग्रहायानभिनिवेशाय प्रत्युपस्थिता.
सुभूतिर् आह: कथं भगवन् रूपस्यापरिग्रहायानभिनिवेशायेयं प्रज्ञापारमिता प्रत्युपस्थिता? कथं भगवन् वेदनायाः संज्ञायाः संस्काराणां? कथं भगवन् विज्ञानस्यापरिग्रहायानभिनिवेशायेयं प्रज्ञापारमिता प्रत्युपस्थिता? यावत् कथं भगवन्न् अनुत्तरायाः सम्यक्संबोधेर् अपरिग्रहायानभिनिवेशाय प्रत्युपस्थिता?
भगवान् आह: समनुपश्यसि त्वं सुभूते तद् रूपं यद् रूपं येन वा परिगृह्णीयाद् अभिनिवेशेत वा?
सुभूतिर् आह: नो हीदं भगवन्, वेदना संज्ञा संस्काराः.
भगवान् आह: समनुपश्यसि त्वं सुभूते तद् विज्ञानं येन वा परिगृह्णीयाद् अभिनिवेशेत? एवं यावत् समनुपश्यसि त्वं सुभूते ताम् अनुत्तरां सम्यक्संबोधिं या परिगृह्णीयाद् अभिनिवेशेत?
सुभूतिर् आह: नो हीदं भगवन्.
भगवान् आह: साधु साधु सुभूते, अहम् अपि सुभूते तद् रूपन् न समनुपश्यामि यत् परिगृह्णीयां वा अभिनिविशेयं वा, यो वा परिगृह्णीयाद् अभिनिविशेत वा, वेदनासंज्ञासंस्कारान्, अहम् अपि सुभूते तद् विज्ञानन् न समनुपश्यामि यत् परिगृह्णीयां वा अभिनिविशेयं वा, यो वा परिगृह्णीयाद् अभिनिविशेत वा, एवं यावद् अहम् अपि सुभूते ताम् (प्स्प्_4:79) अनुत्तरां सम्यक्संबोधिन् न समनुपश्यामि, असमनुपश्यन् न परिगृह्णामि अपरिगृह्णन् नाभिनिविशे, अहम् अपि सुभूते बुद्धभूमिं सर्वज्ञतां सर्वाकारज्ञतां तथागतत्वं बुद्धत्वं न समनुपश्यामि, असमनुपश्यन् न परिगृह्णामि, अपरिगृह्णन् नाभिनिविशे, तस्मात् तर्हि सुभूते बोधिसत्त्वैर् महासत्त्वैर् रूपन् न परिग्रहीतव्यं नाभिनिवेष्टव्यम्. एवं वेदना संज्ञा संस्काराः, विज्ञानं सुभूते बोधिसत्त्वैर् महासत्त्वैर् न परिग्रहीतव्यन् नाभिनिवेष्टव्यम्. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादानि न परिग्रहीतव्यानि नाभिनिवेष्टव्यानि, एवं सर्वपारमिताः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि सप्तत्रिंशद्बोधिपक्ष्या धर्माः, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयो ऽष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहिताभिज्ञा दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा न परिग्रहीतव्या नाभिनिवेष्टव्या यावद् अनुत्तरा सम्यक्संबोधिर् न परिग्रहीतव्या नाभिनिवेष्टव्या. एवं बुद्धत्वं सर्वज्ञत्वं सर्वाकारज्ञत्वं तथागतत्वन् न परिग्रहीतव्यं नाभिनिवेष्टव्यम्.
इति सर्वार्यपुद्गलसंग्रहविशेषेन समुदये प्रथमः क्षणः
अथ खलु ते कामावचरा रूपावचराश् च देवपुत्रा भगवन्तम् एतद् अवोचन्: गम्भीरा भगवन् प्रज्ञापारमिता दुर्दृशा दुरनुबोधा अतर्का अतर्कावचरा शान्ता सूक्ष्मा निपुनपण्डितविज्ञवेदनिया भगवन् प्रज्ञापारमिता. ते खलु भगवन् बोधिसत्त्वाः पूर्वजिनकृताधिकारा भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमिताम् अधिमोक्षन्ते, कल्याणमित्रपरिगृहीता अवरोपितकुशलमूलाः. ते खलु भगवन् बोधिसत्त्वा महासत्त्वा भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमिताम् अधिमोक्षन्ते.
इति पुरुषविशेषवेदनीयताविशेषेण समुदये द्वितीयः क्षणः
सचेद् भगवन् ये त्रिसाहस्रमहासाहस्रलोकधातौ सत्त्वाः सर्वे ते श्रद्धानुसारिणो भवेयुः, धर्मानुसारिनो ऽष्टमकाः स्रोतआपन्नाः सकृदागामिनो ऽनागामिनो ऽर्हन्तो भवेयुः, प्रत्येकबुद्धा भवेयुः, (प्स्प्_4:80) तेषां सर्वेषां यच् च ज्ञानं यच् च प्रहाणं, या चेह गम्भीरायां प्रज्ञापारमितायाम् एकदेवसिकी क्षान्तिरुचिश् चिन्तना तुलना उपपरीक्षणा गणना इयम् एव ततः परं श्रेयः, यस्येह एवंरूपायां प्रज्ञापारमितायां रुचिः क्षान्तिः. तत् कस्य हेतोः? तथा हि यच् च श्रद्धानुसारिणो धर्मानुसारिणो ऽष्टमकस्य स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां ज्ञानञ् च प्रहाणञ् च, सानुत्पत्तिकधर्मक्षान्तिप्रतिलब्धस्य बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः.
अथ खलु भगवांस् तान् देवपुत्रान् आमन्त्रयते स्म: एवम् एतद् देवपुत्रा एवम् एतद्, यच् च यावत् प्रत्येकबुद्धानां ज्ञानं यच् च प्रहाणं, सानुत्पत्तिकधर्मक्षान्तिप्रतिलब्धस्य बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः.
इत्य् असाधारणताविशेषेन समुदये तृतीयक्षणः
यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमितां शृणुयात्, श्रुत्वा च लिखेत लिखित्वा च उद्दिश्येद् योनिशश् च मनसिकुर्यात्. एषां खलु पुनः कुलपुत्राणां कुलदुहितृणाञ् च क्षिप्रतरं परिनिर्वाणं प्रतिकाङ्क्षितव्यं, न त्व् एव तेषां श्रावकयानिकानां वा प्रत्येकबुद्धयानिकानां वा प्रज्ञापारमिताविरहितानाम् अन्येषु सूत्रान्तेषु चरताम्. तत् कस्य हेतोः? तथा हि इह गम्भीरायां प्रज्ञापारमितायां सामुत्कर्षिका धर्मा विस्तरेणोपदिष्टा यत्र श्रद्धानुसारिभिर् धर्मानुसारिभिर् अष्टमकैश् च शिक्षितव्यं, यत्र च स्रोतआपन्नैः सकृदागामिभिर् अनागामिभिर् अर्हद्भिः प्रत्येकबुद्धैर् महायानसंप्रस्थितैर् बोधिसत्त्वैर् महासत्त्वैश् च शिक्षितव्यं, यथा तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः शिक्षमाणैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा.
इति क्षिप्राभिज्ञताविशेषेन समुदये चतुर्थः क्षणः
अथ खलु ते कामावचरा रूपावचराश् च देवपुत्रा उदानम् उदानयामासुह्: महापारमितेयं भगवन् यद् उत प्रज्ञापारमिता, अचिन्त्यपारमितातुल्यपारमिताप्रमेयपारमितासंख्येयपारमितासमसमपारमितेयं भगवन् यद् उत प्रज्ञापारमिता, यत्र हि नाम भगवन्न् इह गम्भीरायां प्रज्ञापारमितायां शिक्षित्वा श्रद्धानुसारिणो निर्यास्यन्ति धर्मानुसारिणो निर्यास्यन्ति अष्टमकाः, स्रोतआपन्नाः सकृदागामिनो (प्स्प्_4:81) ऽनागामिनो ऽर्हन्तः प्रत्येकबुद्धाः, यत्र शिक्षित्वा बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते. न चास्याः प्रज्ञापारमिताया ऊनत्वं वा पूर्णत्वं वा प्रज्ञायते.
इत्य् अनूनापूर्णताविशेषेन निरोधे प्रथमक्षणः
अथ खलु ते कामावचरा रूपावचराश् च देवपुत्रा भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतो ऽन्तिकात् प्रक्रान्ता अभूवन्. ते नातिदूरङ् गत्वा अन्तर्हिता अभूवन्, ये कामावचरा देवपुत्रास् ते कामधातौ प्रातिष्ठन्ते, ये रूपावचरा देवपुत्रास् ते रूपधातौ प्रातिष्ठन्ते.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यो भगवन् बोधिसत्त्वो महासत्त्व इमां गम्भीरां प्रज्ञापारमितां सह श्रवणेनाधिमोक्ष्यते स कुतश् च्युत इहोपपन्नो भविष्यति?
भगवान् आह: यः सुभूते बोधिसत्त्वो महासत्त्व इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा सह श्रवणेनाधिमोक्ष्यते नावलेष्यति न संलेष्यति न धन्वायिष्यति न काङ्क्षिष्यति न विचिकित्सिष्यति अभिनन्दिष्यति चेमां गम्भीरां प्रज्ञापारमितां श्रोतुं श्रुत्वा चेमां गम्भीरां प्रज्ञापारमितां तेनैव मनसिकारेणाविरहितो भविष्यति, न तान् मनसिकारान् गच्छन्न् आगच्छन् स्थितो निषण्नः शायितो वा सततसमितम् उच्छ्रक्ष्यति, तं च धर्मभाणकं पुद्गलं सततसमितम् अनुबन्धिष्यति, तद्यथापि नाम सुभूते तरुणवत्सा गौर् नोत्सृजति वत्सम्. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वो ऽस्या गम्भीरायाः प्रज्ञापारमितायाः कृतशस् तावन् न जहाति तं धर्मभाणकं यावद् इयं प्रज्ञापारमिता न कायगता कृता भविष्यति धृतावाचिता परिचिता मनसा च प्रेक्षिता दृष्ट्वा सुप्रतिविद्धा, अयं सुभूते बोधिसत्त्वो महासत्त्वो नवयानिकपुद्गलो मनुष्येष्व् एव च्युतो मनुष्येष्व् एवोपपन्नः. तत् कस्य हेतोः? तथा हि तेन नवयानिकेन बोधिसत्त्वेन महासत्त्वेन पूर्वम् अपीयं गम्भीरा प्रज्ञापारमिता लिखित्वा पुस्तकगता सत्कृता गुरुकृता मानिता पूजिता अर्चिता अपचायिता पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः समन्ताच् च दीपमालाभिः स तेन कुशलमूलेन मनुष्येष्व् एव च्युतो मनुष्येष्व् एवोपपन्नः, इमां गम्भीरां प्रज्ञापारमितां सह श्रवणेनाधिमुक्तः.
इति तीव्रसंप्रतिपत्तिविशेषेण निरोधे द्वितीयक्षणः
(प्स्प्_4:82)
सुभूतिर् आह: स्याद् भगवन् पर्यायो यद् एतैर् एव गुणैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽन्येभ्यो बुद्धक्षेत्रेभ्यो ऽन्यान् बुद्धान् भगवतः पर्युपास्य ततश् च्युतः सन्न् इहोपपन्नो य इमां गम्भीरां प्रज्ञापारमितां सह श्रवणेनाधिमोक्ष्यते ऽधिमुच्य लिखिष्यति लिखित्वोद्गृहीष्यति उद्देक्ष्यति स्वाध्यास्यति योनिशश् च मनसिकरिष्यति.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, स्यात् सुभूते पर्यायो यद् एतैर् एव गुणैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽन्येभ्यो बुद्धक्षेत्रेभ्यो ऽन्यान् बुद्धान् भगवतः पर्युपास्य ततश् च्युतः सन्न् इहोपपन्नो य इमां गम्भीरां प्रज्ञापारमितां सह श्रवणेनाधिमोक्ष्यते अधिमुच्य लिखिष्यति लिखित्वोद्ग्रहीष्यति उद्देक्ष्यति स्वाध्यास्यति योनिशश् च मनसिकरिष्यति. तत् कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन इयं गम्भीरा प्रज्ञापारमिता तेषां बुद्धानां भगवताम् अन्तिकाच् छ्रुता श्रुत्वा चोद्गृहीता धारिता वाचिता स्वाध्यायिता मनसिकृता, स तेनैव कुशलमूलेन तैर् एव मनसिकारैर् इहोपपन्नः.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वस् तुषितेभ्यो देवेभ्यश् च्युतः, इह मनुष्याणां सभागतायाम् उपपन्नः स एतैर् एव गुणैः समन्वागतो वेदितव्यः. तत् कस्य हेतोः? तथा हि सुभूते तेन बोधिसत्त्वेन महासत्त्वेन मैत्रेयो बोधिसत्त्वो महासत्त्व इमां गम्भीरां प्रज्ञापारमितां परिप्रश्नीकृतः स तेन कुशलमूलेन इहोपपन्नः. येन खलु पुनः सुभूते बोधिसत्त्वेन महासत्त्वेन पूर्वान्तत इयं गम्भीरा प्रज्ञापारमिता न श्रुता, श्रुत्वा च न परिप्रश्नीकृता, तस्य मनुष्यलोके उपपन्नस्य भवति काङ्क्षयितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता, तेन सुभूते बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो ऽपीयङ् गम्भीरा प्रज्ञापारमिता न श्रुता, श्रुत्वा च न परिप्रश्नीकृता, तस्यास्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां भवति काङ्क्षयितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता, एवं ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता.
पुनर् अपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो (प्स्प्_4:83) ऽपीयं दानपारमिता न श्रुता न परिप्रश्नीकृता, तस्यास्यां दानपारमितायां भाष्यमाणायां भवति काङ्क्षायितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता.
पुनर् अपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो ऽपि, अध्यात्मशून्यता यावद् अभावस्वभावशून्यता न श्रुता न परिप्रश्नीकृता भवति, तस्येमाङ् गम्भीरां प्रज्ञापारमितां भाष्यमाणां श्रुत्वा भवति काङ्क्षयितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता.
पुनर् अपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो ऽपि चत्वारि स्मृत्युपस्थानानि न परिप्रश्नीकृतानि भवन्ति न श्रुतानि वा, तस्येमां गम्भीरां प्रज्ञापारमितां भास्यमाणां श्रुत्वा भवति काङ्क्षायितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता.
पुनर् अपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो ऽपि चत्वारि शम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टाङ्गो मार्गो न श्रुतः, श्रुत्वा च न परिप्रश्नीकृतस्, तस्यास्यां गम्भीरायां प्रज्ञापारमितायां भास्यमाणायां श्रुत्वा भवति काङ्क्षायितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता.
पुनर् अपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो ऽपि चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयश् चत्वार्य् आर्यसत्यानि पञ्चाभिज्ञाः शून्यतानिमित्ताप्रणिहितानि, अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः सर्वसमाधिधारणीमुखानि दश बोधिसत्त्वभूमयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा न श्रुता भवन्ति, श्रुत्वा च न परिप्रश्नीकृता भवन्ति, तस्येमां गम्भीरां प्रज्ञापारमितां भाष्यमाणां श्रुत्वा भवति काङ्क्षायितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता.
पुनर् अपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो ऽपि अनुत्तरा सम्यक्संबोधिर् न श्रुता भवति, श्रुत्वा च न परिप्रश्नीकृता भवति, तस्येमां गम्भीरां प्रज्ञापारमितां भाष्यमाणां श्रुत्वा भवति काङ्क्षायितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता.
पुनर् अपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो ऽपीयं गम्भीरा प्रज्ञापारमिता न श्रुता भवति न परिप्रश्नीकृता (प्स्प्_4:84) न भाविता न बहुलीकृता न योनिशश् च मनसिकृता, एकं वा दिवसं दिवसद्वयं वा दिवसत्रयं वा चत्वारि वा पञ्च वा षड् वा दश वा दिवसानि, इयं गम्भीरा प्रज्ञापारमिता स संहार्या भवति विरहितश् च भवति प्रज्ञापारमितया. तत् कस्य हेतोः? एवम् एतद् भवति सुभूते येन बोधिसत्त्वेन महासत्त्वेन इयं गम्भीरा प्रज्ञापारमिता पूर्वान्ततो ऽपि न श्रुता न परिप्रश्नीकृता न भाविता न बहुलीकृता न योनिशश् च मनसिकृता, तस्य कञ्चित् कालं च्छन्दो भवति गम्भीरायां प्रज्ञापारमितायां कञ्चित् कालं च्छन्दो न भवति, स पुनर् एवं संह्रियते चलाचलया बुद्ध्या तूलपिचूपमश् च भवति. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो न चिरयानसंप्रस्थितो वेदितव्यो न कल्याणमित्रपरिगृहीतो न सम्यक्संबुद्धपर्युपासितः. न खलु पुनः सुभूते बोधिसत्त्वेन महासत्त्वेन इयं गम्भीरा प्रज्ञापारमिता उद्दिष्टा न स्वाध्यायिता न योनिशो मनसिकृता न प्रज्ञापारमितायां शिक्षितः, न ध्यानपारमितायां न वीर्यपारमितायां न क्षान्तिपारमितायां न शीलपारमितायां न दानपारमितायां शिक्षितः. नाध्यात्मशून्यतायां शिक्षितः यावन् नाभावस्वभावशून्यतायां शिक्षितः, न स्मृत्युपस्थानेषु शिक्षितः, न सम्यक्प्रहाणेषु नर्द्धिपादेषु नेन्द्रियेषु न बलेषु न बोध्यङ्गेषु नार्याष्टाङ्गमार्गे शिक्षितः, न पञ्चस्व् अभिज्ञासु नाप्रमाणध्यानारूप्यसमापत्तिषु नार्यसत्येषु नाष्टविमोक्षेषु शिक्षितः, न नवानुपूर्वविहारसमापत्तिषु न शून्यतानिमित्ताप्रणिहितेषु शिक्षितः, न समाधिषु न धारणीमुखेषु शिक्षितः, न षट्सु अभिज्ञासु शिक्षितः, न तथागतबलेषु शिक्षितः, न वैशारद्येषु न प्रतिसंवित्सु नाष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु शिक्षितः, न सर्वाकारज्ञतायां शिक्षितः. ते न खलु पुनः सुभूते बोधिसत्त्वा महासत्त्वा नवयानसंप्रस्थिता वेदितव्याः, ते धर्ममात्रकेण च श्रद्धामात्रकेण च प्रेममात्रकेण च समन्वागता, न पुनः सत्कुर्वन्तीमां प्रज्ञापारमितां लिखितुं वा वाचयितुं वा उद्देष्टुं वा स्वाध्यायतुं वा योनिशो मनसिकरणाय यावन् न पुनः सुभूते बोधिसत्त्वयानिकाः कुलपुत्रा वा कुलदुहितरो वा इमां प्रज्ञापारमितां लिखिष्यन्ति (प्स्प्_4:85) नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति न योनिशश् च मनसिकरिष्यन्ति नाप्य् अनया गम्भीरया प्रज्ञापारमितया परम् अनुग्रहीष्यन्ति. एवं ध्यानपारमितया वीर्यपारमितया क्षान्तिपारमितया शीलपारमितया दानपारमितया, एवं यावत् सर्वाकारज्ञतया नानुग्रहीष्यन्ति. नापीमां गम्भीरां प्रज्ञापारमिताम् अनुभविष्यन्ति. एवं ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां, एवं यावत् सर्वाकारज्ञतां नानुभविष्यन्ति. तेषां द्वाभ्यां भूमिभ्याम् अन्यतरा भूमिः प्रतिकाङ्क्षितव्या, यद् उत श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा. तत् कस्य हेतोः? तथा हि तैः कुलपुत्रैः कुलदुहितृभिश् च इयं गम्भीरा प्रज्ञापारमिता पूर्वान्ततो ऽपि न लिखिता नोद्दिष्टा न स्वाध्याता न योनिशो मनसिकृता नाप्य् अनया प्रज्ञापारमितया कश्चिद् अनुपरिगृहीतो नापि तैर् बोधिसत्त्वैर् महासत्त्वैर् इयं गम्भीरा प्रज्ञापारमितानुभूता, ते न तेषां कुलपुत्राणां कुलदुहितृणाञ् च भूमिद्वयं प्रतिकाङ्क्षितव्यम्. इति समुदागमविशेषेण निरोधे तृतीयः क्षणः
तद्यथापि नाम सुभूते सामुद्रिका नौर् यदा भिन्ना भवति तदा ये तत्र पुरुषाः काष्ठं वा दृतिं वा मृतकुणपं वा नाध्यालम्बन्ते न परिगृह्णन्ति, वेदितव्यम् एतत् सुभूते अप्राप्ता एव ते पुरुषाः कुलं समुद्रे कालं करिष्यन्ति. ये खलु पुनः सामुद्रिकायां नाविभिन्नायां काष्ठं वा दृतिं वा मृतकुणपं वा पुरुषा गृहीतव्यं वा मन्येयुर् गृह्णीयुर् वा, वेदितव्यम् एतत् सुभूते न ते पुरुषा महासमुद्रे कालं करिष्यन्ति, स्वस्तिना ते महासमुद्राद् उत्तरिष्यन्ति, ते अक्षता अनुपहताः स्वस्तिना स्थले स्थास्यन्ति. एवम् एव सुभूते ये ते बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् च श्रद्धामात्रकेण प्रसादमात्रकेण प्रेममात्रकेण च समन्वागता, इमां प्रज्ञापारमितां न लिखिष्यन्ति नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति न योनिशो मनसिकरिष्यन्ति नाध्यालम्बिष्यन्ते, वेदितव्यम् एतत् सुभूते ते बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् चान्तरा एवाध्वनि व्यवसादम् आपत्स्यन्ते, अप्राप्ता एव सर्वाकारज्ञतां ते श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा साक्षात्करिष्यन्ति, यावन् न ध्यानपारमितां न वीर्यपारमितां न क्षान्तिपारमितां न शीलपारमितां न दानपारमितां लिखिष्यन्ति नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति न योनिशो मनसिकरिष्यन्ति, (प्स्प्_4:86) नाध्यालम्बिष्यन्ति. एवं न सप्तत्रिंशद् बोधिपक्ष्यान् धर्मान् न चत्वार्य् आर्यसत्यानि नाप्रमाणध्यानारूप्यसमापत्तीः, नाध्यात्मशून्यतां यावन् नाभावस्वभावशून्यतां नाष्ट विमोक्षान् न नवानुपूर्वविहारसमापत्तीर् न शून्यतानिमित्ताप्रणिहिताभिज्ञा न सर्वसमाधिसमापत्तीर् न सर्वधारणीमुखानि न दश बलानि न वैशारद्यानि न प्रतिसंविदो नावेणिकान् बुद्धधर्मान् यावन् न सर्वाकारज्ञताप्रतिसंयुक्तान् सूत्रान्तान् लिखिष्यन्ति नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति न योनिशो मनसिकरिष्यन्ति नाध्यालम्बिष्यन्ति, वेदितव्यम् एतत् सुभूते बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् चान्तराप्य् अध्वनि व्यवसादम् आपत्स्यन्ते, अप्राप्ता एव सर्वाकारज्ञतां ते श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा साक्षात्करिष्यन्ति. येषां खलु सुभूते बोधिसत्त्वयानिकानां पुद्गलानाम् अस्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरता अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, ते च इमां प्रज्ञापारमितां लिखिष्यन्त्य् उद्देक्ष्यन्ति स्वाध्यास्यन्ति अध्यालम्बिष्यन्ते योनिशो मनसिकरिष्यन्ति, पश्य सुभूते कुलपुत्राणां कुलदुहितृणां च श्रद्धां क्षान्तिं प्रेम प्रसादम् अध्याशयं रुचिम् अधिमुक्तिं च्छन्दं त्यागम् अनिक्षिप्तधुरताम् अनुत्तरायां सम्यक्संबोधौ, यैः प्रज्ञापारमिता परिगृहीता ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता दानपारमिता परिगृहीता, यैर् अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता सप्तत्रिंशद् बोधिपक्ष्या धर्मा आर्यसत्यान्य् अप्रमाणानि ध्यानारूप्यसमापत्तयः परिगृहीताः, यैर् अष्ट विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितानि परिगृहीतानि, यैर् दश बलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविद आवेणिका बुद्धधर्माः परिगृहीताः, यैः समाधिधारणीमुखानि पञ्चाभिज्ञाः परिगृहीताः, यैर् यावत् सर्वाकारज्ञता परिगृहीता ते नान्तराप्य् अध्वनि व्यवसादम् आपत्स्यन्ते, ते ऽतिक्रम्य श्रावकभूमिञ् च प्रत्येकबुद्धभूमिञ् च सत्त्वांश् च परिपाच्य बुद्धक्षेत्रं परिशोध्यानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते.
इत्य् आलम्बनविशेषेण निरोधे चतुर्थः क्षणः
तद्यथापि नाम सुभूते स्त्री वा पुरुषो वा अपरिपक्वेन घटेन (प्स्प्_4:87) आमेनोदकं परिगृहीतव्यं मन्यते, वेदितव्यम् एतत् सुभूते नायं घटश् चिरम् अनुवर्त्स्यते क्षिप्रम् एव विनक्ष्यति विलयम् आपत्स्यते. तत् कस्य हेतोः? यथापि नामापरिपक्वत्वात् घटस्य, स भूमिपर्यवसान एव भविष्यति. एवम् एव सुभूते किञ् चापि बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितृणां चास्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरतानुत्तरायां सम्यक्संबोधौ, ते च प्रज्ञापारमितयापरिगृहीता, उपायकौशलेन चापरिगृहीता, ध्यानपारमितया वीर्यपारमितया क्षान्तिपारमितया शीलपारमितया दानपारमितयापरिगृहीता, ऽध्यात्मशून्यतया बहिर्धाशून्यतया अध्यात्मबहिर्धाशून्यतया यावद् अभावस्वभावशून्यतयापरिगृहीताः, स्मृत्युपस्थानैर् अपरिगृहीताः, सम्यक्प्रहाणैर् अपरिगृहीता, ऋद्धिपादैर् अपरिगृहीताः, इन्द्रियैर् अपरिगृहीता, बलैर् अपरिगृहीता, बोध्यङ्गैर् अपरिगृहीता, आर्याष्टाङ्गेन मार्गेणापरिगृहीताः, पञ्चभिर् अभिज्ञाभिर् अपरिगृहीताश्, चतुर्भिर् ध्यानैश् चतुर्भिर् अप्रमाणैर् अपरिगृहीताः, चतसृभिर् आरूप्यसमापत्तिभिर् अपरिगृहीताश्, चतुर्भिर् आर्यसत्यैर् अपरिगृहीता, अष्टाभिर् विमोक्षैर् अपरिगृहीता, नवभिर् अनुपूर्वविहारसमापत्तिभिर् अपरिगृहीताः, शून्यतानिमिताप्रणिहितविमोक्षमुखैर् अपरिगृहीता, दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् अपरिगृहीताः, यावत् सर्वाकारज्ञतयापरिगृहीता, वेदितव्यम् एतत् सुभूते बोधिसत्त्वयानिकाः कुलपुत्रा वा कुलदुहितरो वा अन्तरा व्यसनम् आपत्स्यन्ते. किम् इति सुभूते बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितृणां चान्तरा व्यसनं भविष्यति, यद् उत श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा? तद्यथापि नाम सुभूते स्त्री वा पुरुषो वा सुपरिपक्वेन घटेनोदकं परिवहेन् नद्याः कूपाद् वा सरस्तो वा तडागाद् वा उदपानाद् वा तस्योदकं परिहरतो, वेदितव्यम् एतत् सुभूते स्वस्तिनायं घटो गृहं गमिष्यति, एवम् एव सुभूते यस्य बोधिसत्त्वस्य महासत्त्वस्यास्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरतानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, सचेत् प्रज्ञापारमितया परिगृहीत, उपायकौशल्येन च परिगृहीतो, ध्यानपारमितया परिगृहीतो वीर्यपारमितया परिगृहीतः क्षान्तिपारमितया परिगृहीतः शीलपारमितया (प्स्प्_4:88) परिगृहीतो दानपारमितया परिगृहीतः, एवं यावत् सर्वाकारज्ञतया परिगृहीतो, वेदितव्यम् एतद् सुभूते अयं बोधिसत्त्वो महासत्त्वो नान्तरा व्यध्वनि व्यवसादम् आपत्स्यते, यद् उत श्रावकयानेन वा प्रत्येकबुद्धयानेन वा अक्षतो ऽनुपहतो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. इत्य् आधारविशेषेण मार्गे प्रथमः क्षणः
तद्यथापि नाम सुभूते सामुद्रिका नौर् अनवबद्धानाकोटिता अकोटीकृता उदके ऽवतारिता भवति, वेदितव्यम् एतत् सुभूते इयं नौर् अन्तरा संसत्स्यते व्यसनम् आपत्स्यते, अन्येन भाण्डं भविष्यति अन्येन नौर् भविष्यति. एवं स वणिग् अनुपायकुशलो वेदितव्यो महतानयेन संयोक्ष्यते महता रत्नेन बहिष्कृतो भविष्यति. एवम् एव किं चापि सुभूते बोधिसत्त्वानाम् अस्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरतानुत्तरायै सम्यक्संबोधये, ते च प्रज्ञापारमितयापरिगृहीता उपायकौशलेन चापरिगृहीता ध्यानपारमितयापरिगृहीता वीर्यपारमितयापरिगृहीताः क्षान्तिपारमितयापरिगृहीताः शीलपारमितयापरिगृहीता दानपारमितयापरिगृहीताः, सर्वशून्यताभिर् अपरिगृहीताः सप्तत्रिंशद् बोधिपक्ष्यैर् धर्मैर् अपरिगृहीताः, अप्रमाणध्यानारूप्यसमापत्तिभिर् अपरिगृहीता, आर्यसत्यैर् अपरिगृहीता, अष्टाभिर् विमोक्षैर् अपरिगृहीता, नवभिर् अनुपूर्वविहारसमापत्तिभिर् अपरिगृहीताः, शून्यतानिमित्ताप्रणिहितैर् अपरिगृहीताः, सर्वसमाधिधारणीमुखाभिज्ञाभिर् अपरिगृहीता, दशभिस् तथागतबलैर् अपरिगृहीताः, वैशारद्यैर् अपरिगृहीताः, प्रतिसंविद्भिर् आवेणिकैर् बुद्धधर्मैर् अपरिगृहीता, यावत् सर्वाकारज्ञतयापरिगृहीता, वेदितव्यम् एतत् सुभूते अमी बोधिसत्त्वा अन्तरा व्यध्वनि व्यसनम् आपत्स्यन्ते, महतो ऽर्थात् परिहीणा भविष्यन्ति, यद् उत सर्वाकारज्ञता रत्नराशेः, किं च सुभूते बोधिसत्त्वानाम् अन्तरा व्यसनं यद् उत श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा. तद्यथापि नाम सुभूते पण्डितजातिकः पुरुषः सामुद्रिकायां नावि स्वाकोटितायाम् उदके ऽवतारितायां भाण्डावरोपितायां युक्तेन वायुनावष्टब्धायां, वेदितव्यम् एतत् सुभूते नेयं सामुद्रिका नौर् अन्तरा व्यसनम् आपत्स्यते, गमिष्यत्य् एषा तं प्रदेशं यत्रानया गन्तव्यं, लौकिकानाञ् च रत्नानां स वणिग् लाभी भविष्यति. एवम् एव सुभूते यस्य बोधिसत्त्वस्य महासत्त्वस्यास्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् (प्स्प्_4:89) अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरतानुत्तरायां सम्यक्संबोधौ, स च प्रज्ञापारमितया परिगृहीत उपायकौशल्येन च परिगृहीतः, ध्यानपारमितया वीर्यपारमितया क्षान्तिपारमितया शीलपारमितया दानपारमितया च परिगृहीतः, सर्वशून्यताभिः सर्वबोधिपक्ष्यैर् धर्मैः सर्वसमाधिभिः सर्वधारणीमुखैर् अप्रमाणध्यानारूप्यसमापत्तिभिः परिगृहीतः, आर्यसत्यैः परिगृहीतः, अष्टाभिर् विमोक्षैर् नवानुपूर्वविहारसमापत्तिभिः परिगृहीतः, शून्यतानिमित्ताप्रणिहितैः परिगृहीतः, अभिज्ञाभिः परिगृहीतः, दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैः परिगृहीतः, यावत् सर्वाकारज्ञतया परीगृहीतो, वेदितव्यम् एतत् सुभूते नायं बोधिसत्त्वो महासत्त्वो ऽन्तरा व्यसनम् आपत्स्यते ऽनुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? एवम् एव सुभूते भवति यस्य बोधिसत्त्वस्य महासत्त्वस्यास्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरतानुत्तरायां सम्यक्संबोधौ, स च प्रज्ञापारमितया परिगृहीतो भवत्य् उपायकौशल्येन च परिगृहीतो भवति, ध्यानपारमितया वीर्यपारमितया क्षान्तिपारमितया शीलपारमितया दानपारमितया परिगृहीतो भवति. एवं यावत् सर्वाकारज्ञतया परिगृहीतो भवति, स च बोधिसत्त्वो महासत्त्वो न च श्रावकभूमिं न प्रत्येकबुद्धभूमिं पतति.
इति साकल्यविशेषेण मार्गे द्वितीयः क्षणः
तद्यथापि नाम सुभूते पुरुषो विंशतिवर्षशतिको जात्या जीर्णो वृद्धो महल्लकस् तस्य कश्चिद् एव शरीरे व्याधिर् उत्पद्येत वातिको वा पैत्तिको वा श्लेष्मिको वा सांनिपातिको वा, तत् किं मन्यसे? सुभूते अपि नु स पुरुषो मुक्तकः शक्तः स्वयम् उत्क्रान्तुम्.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: कश्चित् पुनः सुभूते स पुरुष उत्तिष्ठेत्?
सुभूतिर् आह: किं चापि भगवन् स पुरुषो मञ्चाद् उत्तिष्ठेद्, अथ च पुनर् अप्रतिबलः क्रोशान्तं वा प्रक्रमितुं स तया जरया तैश् च व्याधिभिः क्षपितः, किं चापि ततो मञ्चाद् उत्तिष्ठेद्, अथ च पुनः सो ऽप्रतिबलः प्रक्रमितुम्.
(प्स्प्_4:90)
भगवान् आह: एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्यास्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरतानुत्तरायां सम्यक्संबोधौ, स च प्रज्ञापारमितयापरिगृहीत उपायकौशल्येन चापरिगृहीतो, ध्यानपारमितया वीर्यपारमितया क्षान्तिपारमितया शीलपारमितया दानपारमितयापरिगृहीतो, अध्यात्मशून्यतया यावद् अभावस्वभावशून्यतयापरिगृहीतः, स्मृत्युपस्थानैर् अपरिगृहीतः सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गैर् अपरिगृहीतो, ऽप्रमाणध्यानारूप्यसमापत्तिभिर् आर्यसत्यैश् चापरिगृहीतः, शून्यतानिमित्ताप्रणिहितैर् अपरिगृहीतो, दशबलवैशारद्यावेणिकबुद्धधर्मैर् अपरिगृहीतो, वेदितव्यम् एतत् सुभूते ऽयं बोधिसत्त्वो ऽन्तरा व्यध्वनि श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतिष्यति. तत् कस्य हेतोः? तथा हि स प्रज्ञापारमितया अपरीगृहीत उपायकौशल्येन चापरिगृहीतो यावत् सर्वाकारज्ञतयापरिगृहीतः. तद्यथापि नाम सुभूते स एव पुरुषो विंशतिवर्षशतिको जात्या जीर्णो वृद्धो महल्लकः, स वातेन वा पित्तेन वा श्लेष्मना वा सांनिपातेन वा परिक्षपितस्, तं मञ्चाद् उत्स्थाप्य द्वौ बलवन्तौ पुरुषौ वामदक्षिणयोः पार्श्वयोर् अबलं व्यानुपरिगृह्य एवं वदेताम्: आगच्छ त्वं भोः पुरुष येनेच्छसि येन कामो ऽनुपरिगृहीतस् त्वम् आवाभ्यां नान्तरा पतिष्यसि यावन् न तत् स्थानम् अनुप्राप्तो भविष्यसि. एवम् एव सुभूते यस्य बोधिसत्त्वस्य महासत्त्वस्यास्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरतानुत्तरायां सम्यक्संबोधौ, स च बोधिसत्त्वः प्रज्ञापारमितया परिगृहीत उपायकौशल्येन च परिगृहीतो, ध्यानपारमितया परिगृहीतो, वीर्यपारमितया परिगृहीतः, क्षान्तिपारमितया परिगृहीतः, शीलपारमितया परिगृहीतो, दानपारमितया परिगृहीतो, ऽध्यात्मशून्यतया बहिर्धाशून्यतया अध्यात्मबहिर्धाशून्यतया यावद् अभावस्वभावशून्यतया परिगृहीतः, वेदितव्यम् एतत् सुभूते नायं बोधिसत्त्वो महासत्त्वो ऽन्तरा संसत्स्यते, प्रतिबलो ऽयं बोधिसत्त्वो महासत्त्वस् तत् स्थानम् अनुप्राप्तुं यद् उतानुत्तरां सम्यक्संबोधिम्. तत् कस्य हेतोः? तथा हि प्रज्ञापारमितोपायकौशल्येनाविरहितः.
(प्स्प्_4:91)
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वयानसंप्रस्थिताः कुलपुत्राः कुलदुहितरश् चापरिगृहीताः प्रज्ञापारमितोपायकौशलेन चापरिगृहीताः श्रावकभूमिं प्रत्येकबुद्धभूमिञ् च पतन्ति?
भगवान् आह: साधु साधु सुभूते यस् त्वं तथागतम् अर्हन्तं सम्यक्संबुद्धम् एतम् अर्थं परिप्रश्नीकर्तव्यं मन्यसे, इह सुभूते बोधिसत्त्वो महासत्त्व आदित एव यद् दानन् ददाति तद् अहंकारममकारपतितया संतत्या ददाति, यच् छीलं रक्षति, यां क्षान्तिं भावयति, यद् वीर्यम् आरभते, यद् ध्यानं समापद्यते, यां प्रज्ञां भावयति, तद् अहंकारममकारपतितेन चित्तेन भावयति, तस्य तद् दानन् ददत एवं भवति, अहं दानं ददामीदन् दानं ददामि, अस्मै दानन् ददामि, अहं शीलं रक्षामि, इदं शीलं रक्षामि, अहं शीलवान्, अहं क्षमामि, अहं क्षान्तिं संपादयामि, अहं क्षमावान्, अहं वीर्यम् आरभे, ऽहम् आरब्धवीर्यो, ऽहं वीर्यवान्, अहं ध्यानं समापद्ये, अहं ध्यायामि, अहं ध्यानवान्, अहं प्रज्ञां भावयामीमां प्रज्ञां भावयामि, अहं प्रज्ञावान्, स तेन दानेन मन्यते तद् दानं मन्यते दानं ममेति मन्यते, एवं शीलं क्षान्तिं वीर्यं ध्यानं, तया प्रज्ञया मन्यते तां प्रज्ञां मन्यते प्रज्ञां ममेति मन्यते. तत् कस्य हेतोः? न हि दानपारमिताया एते विकल्पाः संविद्यन्ते. तत् कस्य हेतोः? आरमिता हि दानपारमिता, एवं न शीलपारमिताया न क्षान्तिपारमिताया न वीर्यपारमिताया न ध्यानपारमिताया न हि प्रज्ञापारमिताया एते विकल्पाः संविद्यन्ते. तत् कस्य हेतोः? आरमिता हि प्रज्ञापारमिता, स च बोधिसत्त्वयानिकः पुद्गलो नारं जानाति न पारं जानाति, सो ऽपरिगृहीतो दानपारमितया शीलपारमितया क्षान्तिपारमितया वीर्यपारमितया ध्यानपारमितया प्रज्ञापारमितयापरिगृहीतो यावत् सर्वाकारज्ञतयापरिगृहीतः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतति, न निर्यास्यति सर्वाकारज्ञतायाम्. कथञ् च बोधिसत्त्वो ऽनुपायकुशलो भवति? इह सुभूते यो बोधिसत्त्वयानिकः कुलपुत्रो वा कुलदुहिता वा आदाव् एवम् अनुपायेन दानं ददाति, अनुपायेन शीलं रक्षति, अनुपायेन क्षान्तिं संपादयति, अनुपायेन वीर्यम् आरभते, अनुपायेन ध्यानं समापद्यते, अनुपायेन प्रज्ञां भावयति, तस्यैवं भवति, अहं दानं ददामि, इदं दानं ददामि, अहं शीलं रक्षामि, इदं शीलं रक्षामि, अहं क्षान्तिं संपादयामि, इमां क्षान्तिं संपादयामि, अहं (प्स्प्_4:92) वीर्यम् आरभे, इदं वीर्यम् आरभे, अहं ध्यानं समापद्ये, इदं ध्यानं समापद्ये, अहं प्रज्ञां भावयामि, इमां प्रज्ञां भावयामि, स दानं मन्यते दानेन मन्यते दानं ममेति मन्यते, शीलं मन्यते शीलेन मन्यते शीलवान् अहम् इति मन्यते, क्षान्तिं मन्यते क्षान्त्या मन्यते क्षमावान् अहम् इति मन्यते, वीर्यं मन्यते वीर्येण मन्यते वीर्यं ममेति मन्यते, ध्यानं मन्यते ध्यानेन मन्यते ध्यानवान् अहम् इति मन्यते, प्रज्ञां मन्यते प्रज्ञया मन्यते प्रज्ञा ममेति मन्यते. तत् कस्य हेतोः? न हि दानपारमितायां विकल्पः संविद्यते यथासौ विकल्पयति. तत् कस्य हेतोः? तथा ह्य् आरमितैषा यद् उत दानपारमिता, आरमितैषा यद् उत शीलपारमिता, आरमितैषा यद् उत क्षान्तिपारमिता, आरमितैषा यद् उत वीर्यपारमिता, आरमितैषा यद् उत ध्यानपारमिता. न हि प्रज्ञापारमितायां विकल्पः संविद्यते यथासौ विकल्पयति. तत् कस्य हेतोः? तथा ह्य् आरमितैषा यद् उत प्रज्ञापारमिता, स च बोधिसत्त्वयानिकः कुलपुत्रो नारं जानाति न पारं जानाति, सो ऽपरिगृहीतो दानपारमितया परिगृहीतः शीलपारमितयापरिगृहीतः क्षान्तिपारमितयापरिगृहीतो वीर्यपारमितयापरिगृहीतो ध्यानपारमितयापरिगृहीतः प्रज्ञापारमितयापरिगृहीत, एवं यावत् सर्वाकारज्ञतया श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतति, न निर्यास्यति सर्वाकारज्ञतायाम्. एवं हि सुभूते बोधिसत्त्वः प्रज्ञापारमितया चोपायकौशलेन चापरिगृहीतः श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतति. कथं च सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया चोपायकौशलेन च परिगृहीतो न श्रावकभूमिं वा न प्रत्येकबुद्धभूमिं वा पतति, अनुत्तरां च सम्यक्संबोधिम् आरागयति? इह सुभूते बोधिसत्त्वो महासत्त्व आदाव् एव दानं ददन्, नाहंकारममकारपतितेन चेतसा दानन् ददाति, नाहंकारममकारपतितेन चेतसा शीलं रक्षति, नाहंकारममकारपतितेन चेतसा क्षान्तिं संपादयति, नाहंकारममकारपतितेन चेतसा वीर्यम् आरभते, नाहंकारममकारपतितेन चेतसा ध्यानं समापद्यते, नाहंकारममकारपतितेन चेतसा प्रज्ञां भावयति, तस्य नैवं भवति, अहं दानन् ददामीदन् दानन् ददाम्य् अस्यै दानं ददामि, अहं शीलं रक्षामि, इदं शीलं रक्षामि, एषु शीलं रक्षामि, अहं क्षान्तिं संपादयामि, इमां क्षान्तिं संपादयामि, अस्मै क्षान्तिम् (प्स्प्_4:93) संपादयामि, अहं वीर्यम् आरभे, इदं वीर्यम् आरभे, अस्यार्थे वीर्यम् आरभे, अहं ध्यानं समापद्ये, इदं ध्यानं समापद्ये, एषु ध्यानं समापद्ये, अहं प्रज्ञां भावयामि, इमां प्रज्ञां भावयामि, अस्यार्थे प्रज्ञां भावयामि, स दानं न मन्यते दानेन न मन्यते दानं ममेति न मन्यते, शीलं न मन्यते शीलेन न मन्यते शीलं ममेति न मन्यते, क्षान्तिं न मन्यते क्षान्त्या न मन्यते क्षान्तिं ममेति न मन्यते, वीर्यं न मन्यते वीर्येण न मन्यते वीर्यं ममेति न मन्यते, ध्यानं न मन्यते ध्यानेन न मन्यते ध्यानं ममेति न मन्यते, प्रज्ञां न मन्यते प्रज्ञया न मन्यते प्रज्ञा ममेति न मन्यते. तत् कस्य हेतोः? तथा हि दानपारमितायां विकल्पो न संविद्यते येन मन्यते, एवं शीलक्षान्तिवीर्यध्यानपारमितायां विकल्पो न संविद्यते येन मन्यते, तथा हि प्रज्ञापारमितायां विकल्पो न संविद्यते येन मन्यते, आरमितैषा यद् उत दानपारमिता, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता आरमितैषा यद् उत प्रज्ञापारमिता, स च बोधिसत्त्वो महासत्त्व आरमिताञ् च पारमिताञ् च न मन्यते, स दानपारमितया परिगृहीतः, शीलपारमितया क्षान्तिपारमितया वीर्यपारमितया ध्यानपारमितया, प्रज्ञापारमितया च परिगृहीतो, यावत् सर्वाकारज्ञतया परिगृहीतो न श्रावकभूमिं वा न प्रत्येकबुद्धभूमिं वा पतति, सर्वाकारज्ञतां चारागयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया परिगृहीत उपायकौशलेन च परिगृहीतो न श्रावकभूमिं न प्रत्येकबुद्धभूमिं पतति. एवम् उपायकौशलपरिगृहीतो ऽनुत्तरां सम्यक्संबोधिम् आरागयति.
इति संपरिग्रहविशेषेण मार्गे तृतीयः क्षणः
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन्न् आदिकर्मिकेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं? कथं ध्यानपारमितायां शिक्षितव्यं? कथं वीर्यपारमितायां शिक्षितव्यं? कथं क्षान्तिपारमितायां शिक्षितव्यं? कथं शीलपारमितायां शिक्षितव्यम्? कथं दानपारमितायां शिक्षितव्यं? कथं यावद् आवेणिकबुद्धधर्मेषु शिक्षितव्यं?
भगवान् आह: इह सुभूते आदिकर्मिकेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितुकामेन ध्यानपारमितायां वीर्यपारमितायां (प्स्प्_4:94) क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां शिक्षितुकामेन यावत् सर्वाकारज्ञतायां शिक्षितुकामेन कल्याणमित्राणि सेवितव्यानि भक्तव्यानि पर्युपासितव्यानि, ये ऽस्याः प्रज्ञापारमिताया उद्देष्टारः, ध्यानपारमिताया वीर्यपारमितायाः क्षान्तिपारमितायाः शीलपारमिताया दानपारमिताया उद्देष्टारः, तस्येमाङ् गम्भीरां प्रज्ञापारमिताम् एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र यद्यद् एव दानन् ददासि तत्तत् सर्वम् अनुत्तरायै सम्यक्संबोधये परिणामय, एहि त्वं कुलपुत्र यद्यद् एव शीलं रक्षसि, क्षान्तिं संपादयसि, वीर्यं आरभसे, ध्यानं समापद्यसे, प्रज्ञां भावयसि, तत्तत् सर्वम् अनुत्तरायै सम्यक्संबोधये परिणामय, मा च त्वं कुलपुत्रानुत्तरां सम्यक्संबोधिं रूपतः पराम्राक्षीः, मा वेदनातो मा संज्ञातो मा संस्कारतो मा विज्ञानतः पराम्राक्षीः, मा च त्वं कुलपुत्रानुत्तरां सम्यक्संबोधिन् दानपारमितया पराम्राक्षीः, मा शीलपारमितया मा क्षान्तिपारमितया मा वीर्यपारमितया मा ध्यानपारमितया, मा प्रज्ञापारमितया पराम्राक्षीः, मा अध्यात्मशून्यतया मा बहिर्धाशून्यतया मा अध्यात्मबहिर्धाशून्यतया यावद् अभावस्वभावशून्यतया पराम्राक्षीः, मा स्मृत्युपस्थानैः पराम्राक्षीः, मा सम्यक्प्रहाणैः पराम्राक्षीः, मा ऋद्धिपादैर् इन्द्रियबलबोध्यङ्गमार्गैः पराम्राक्षीः, मा पञ्चभिर् अभिज्ञाभिः पराम्राक्षीः, मा अप्रमाणध्यानारूप्यसमापत्तिभिः मा आर्यसत्यैर् मा अष्टाभिर् विमोक्षैर् मा नवानुपूर्वविहारसमापत्तिभिः, मा शून्यतानिमित्ताप्रणिहितैः पराम्राक्षीः, मा समाधिभिर् मा धारणीमुखैर् मा दशभिस् तथागतबलैर् मा चतुर्भिर् वैषारद्यैर् मा चतसृभिः प्रतिसंविद्भिर् मा अष्टादशभिर् आवेणिकैर् बुद्धधर्मैः पराम्राक्षीः, मा च त्वं कुलपुत्रानुत्तरां सम्यक्संबोधिं यावत् सर्वाकारज्ञतां पराम्राक्षीः. तत् कस्य हेतोः? अपरामृष्टं हि रूपम् अनुत्तरां सम्यक्संबोधिम् अनुप्राप्स्यति, अपरामृष्टा वेदना संज्ञा संस्काराः, अपरामृष्टं विज्ञानम् अनुत्तरां सम्यक्संबोधिम् अनुप्राप्स्यति, अपरामृष्टा दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता, अपरामृष्टा प्रज्ञापारमिता, अपरामृष्टा अध्यात्मशून्यता यावद् अभावस्वभावशून्यता, अपरामृष्टानि स्मृत्युपस्थानानि, अपरामृष्टाः सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गा, अपरामृष्टा अभिज्ञा, (प्स्प्_4:95) अपरामृष्टा अप्रमाणध्यानारूप्यसमापत्तयः, अपरामृष्टान्य् आर्यसत्यानि, अपरामृष्टा अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः, अपरामृष्टानि शून्यतानिमित्ताप्रणिहितानि, अपरामृष्टानि समाधिधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि, अपरामृष्टाश् चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, अपरामृष्टा यावत् सर्वाकारज्ञता अनुत्तरां सम्यक्संबोधिम् अनुप्राप्स्यति. मा च त्वं कुलपुत्र प्रज्ञापारमितायां चरन् रूपे स्पृहां कार्षीः. तत् कस्य हेतोः? अस्पृहं हि कुलपुत्र रूपं, वेदनायां संज्ञायां संस्कारेषु, मा च त्वं कुलपुत्र विज्ञाने स्पृहां कार्षीः. तत् कस्य हेतोः? अस्पृहं हि कुलपुत्र विज्ञानं, मा च त्वं कुलपुत्र दानपारमितायां स्पृहां कार्षीः, मा शीलक्षान्तिवीर्यध्यानपारमितायां स्पृहां कार्षीः, मा प्रज्ञापारमितायां स्पृहां कार्षीः, मा अध्यात्मशून्यतायां स्पृहां कार्षीः, मा यावद् अभावस्वभावशून्यतायां स्पृहां कार्षीः, मा स्मृत्युपस्थानेषु स्पृहां कार्षीः, मा सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु स्पृहां कार्षीः, मा अप्रमाणध्यानारूप्यसमापत्तिषु, मा आर्यसत्येषु स्पृहां कार्षीः, मा अष्टसु विमोक्षेषु नवानुपूर्वविहारसमापत्तिषु स्पृहां कार्षीः, मा शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु स्पृहां कार्षीः, मा सर्वसमाधिसमापत्तिधारणीमुखेषु स्पृहां कार्षीः, मा च त्वं कुलपुत्र सर्वाकारज्ञतायां स्पृहां कार्षीः. तत् कस्य हेतोः? अस्पृहा हि कुलपुत्र सर्वाकारज्ञता, मा च त्वं कुलपुत्र स्रोतआपत्तिफले स्पृहां कार्षीः, मा सकृदागामिफले मा अनागामिफले मा अर्हत्त्वे मा प्रत्येकबोधौ स्पृहां कार्षीः, मा बोधिसत्त्वनियामे स्पृहां कार्षीः, मानुत्तरायां सम्यक्संबोधौ स्पृहां कार्षीः. तत् कस्य हेतोः? स्वभावशून्या हि कुलपुत्र सर्वधर्माः. इत्य् अनास्वादनाविशेषेण मार्गे चतुर्थः क्षणः इति विशेषलक्षणम्
सुभूतिर् आह: दुष्करकारका हि भगवन् बोधिसत्त्वा महासत्त्वा भवन्ति, ये स्वलक्षणशून्येषु धर्मेषु अनुत्तरां सम्यक्संबोधिं प्रार्थयन्त्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामाः.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, दुष्करकारका हि सुभूते बोधिसत्त्वा महासत्त्वा, ये स्वलक्षणशून्येषु धर्मेष्व् अनुत्तरां सम्यक्संबोधिं प्रार्थयन्त्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामा (प्स्प्_4:96) लोकस्य हिताय, सुभूते बोधिसत्त्वा महासत्त्वाः संप्रस्थिता लोकस्य सुखाय, सुभूते बोधिसत्त्वा महासत्त्वाः संप्रस्थिता लोकस्य त्राणं भविष्याम इत्य् अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः. लोकस्य शरणं भविष्यामो, लोकस्य लयनं लोकस्य परायणं लोकस्य द्वीपा लोकस्य परिणायका अनुकम्पका नाथा लोकस्य गतिर् भविष्याम इति अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः. कथञ् च सुभूते बोधिसत्त्वा महासत्त्वाः लोकस्य हिताय संप्रस्थिता भवन्ति? इह सुभूते बोधिसत्त्वा महासत्त्वाः सत्त्वान् पञ्चभ्यो गतिभ्यः परिमोच्याभयस्थले क्षमे निर्वाणे प्रतिष्ठापयन्ति. एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामा लोकस्य हिताय संप्रस्थिता भवन्ति. इति हितकारित्रम्
कथञ् च सुभूते बोधिसत्त्वा महासत्त्वा लोकस्य सुखाय संप्रस्थिता भवन्ति? इह सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सर्वसत्त्वान् दुष्खदौर्मनस्योपायासेभ्यः परिमोचयित्वाभयस्थले क्षेमे निर्वाणे प्रतिष्ठापयन्ति. एवं हि सुभूते बोधिसत्त्वा महासत्त्वा लोकानां सुखाय संप्रस्थिता भवन्ति. इति सुखकारित्रम्
कथञ् च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामा लोकस्य त्राणं भवन्ति? इह सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य यानि तानि संसारावचराणि दुःखानि ततः सत्त्वांस् त्रायन्ति, तेषाञ् च दुष्खानां प्रहाणाय धर्मं देशयन्ति, ते तं धर्मं श्रुत्वानुपूर्वेण त्रिभिर् यानैः परिनिर्वान्ति. एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य लोकस्य त्राणं भवन्ति.
इति त्राणकारित्रम्
कथं च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामा लोकस्य शरनं भवन्ति? इह सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य जातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासधर्मणः सत्त्वा जातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः परिमोचयन्ति परिमोच्यानुपधिशेषे निर्वाणधातौ प्रतिष्ठापयन्ति. एवं हि सुभूते बोधिसत्त्वा महासत्त्वा लोकस्य शरणं भवन्ति. इति शरणकारित्रम्
(प्स्प्_4:97)
कथं च सुभूते बोधिसत्त्वा महासत्त्वाः सत्त्वानां लयनं भवन्ति? इह सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानां सर्वधर्माणाम् अश्लेषाय धर्मन् देशयन्ति. एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानां लयनं भवन्ति.
सुभूतिर् आह: कथं पुनर् भगवन् सर्वधर्माणाम् अश्लेषो भवति?
भगवान् आह: यः सुभूते रूपस्याश्लेषः स रूपस्यासंबन्धो, यो रूपस्यासंबन्धः स रूपस्यानुत्पादो, यो रूपस्यानुत्पादः स रूपस्यानिरोधो, यो रूपस्यानिरोधः स रूपस्याश्लेषः, वेदनायाः संज्ञायाः संस्काराणां, यः सुभूते विज्ञानस्याश्लेषः स विज्ञानस्यासंबन्धो, यो विज्ञानस्यासंबन्धः स विज्ञानस्यानुत्पादो, यो विज्ञानस्यानुत्पादः स विज्ञानस्यानिरोधो, यो विज्ञानस्यानिरोधः स विज्ञानस्याश्लेषः. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु प्रतीत्यसमुत्पादाङ्गेषु च सर्वपारमितासु सप्तत्रिंसत्सु बोधिपक्षेषु धर्मेषु आर्यसत्येष्व् अप्रमाणध्यानारूप्यसमापत्तिषु अष्टसु विमोक्षेषु नवानुपूर्वविहारसमापत्तिषु शून्यतानिमित्ताप्रणिहितेष्व् अभिज्ञासु सर्वसमाधिसर्वधारणीमुखेषु दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु, यः सुभूते सर्वाकारज्ञताया अश्लेषः स सर्वाकारज्ञताया असंबन्धो, यः सर्वाकारज्ञताया असंबन्धः स सर्वाकारज्ञताया अनुत्पादो, यः सर्वाकारज्ञताया अनुत्पादः स सर्वाकारज्ञताया अनिरोधो, यः सर्वाकारज्ञताया अनिरोधः स सर्वाकारज्ञताया अश्लेषः. एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सर्वसत्त्वानां सर्वधर्माश्लेषाय धर्मन् देशयन्ति.
इति लयनकारित्रम्
कथञ् च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामा लोकस्य परायणं भवन्ति? इह सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानाम् एवंधर्मन् देशयन्ति, यद् रूपस्य पारन् न तद् रूपं, वेदनायाः संज्ञायाः संस्काराणां, यद् विज्ञानस्य पारन् न तद् विज्ञानं, यत् स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य पारन् न ते स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः, यत् सर्वपारमितानां पारन् न ताः सर्वपारमिताः, यत् सर्वशून्यतानां पारन् न ताः सर्वशून्यताः, यद् बोधिपक्ष्याणां धर्माणां पारन् न ते बोधिपक्ष्या धर्माः, एवम् आर्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदो, (प्स्प्_4:98) यद् आवेणिकबुद्धधर्माणां पारन् न ते आवेणिकबुद्धधर्माः, यावद् यत् सर्वाकारज्ञतायाः पारन् न सा सर्वाकारज्ञता, यथा च सुभूते रूपन् तथा सर्वधर्मास् तथा सर्वाकारज्ञता.
सुभूतिर् आह: यदि भगवन् यथा सर्वधर्मास् तथा रूपं नन्व् अभिसंबुद्धैर् च भवति बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञता. तत् कस्य हेतोः? न हि भगवन् रूपस्य पारे विकल्पः कश्चिद् अस्ति, न वेदनाया न संज्ञाया न संस्काराणां, न विज्ञानस्य पारे विकल्पः कश्चिद् अस्ति. न स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गानां पारे विकल्पः कश्चिद् अस्ति. नाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां पारे विकल्पः कश्चिद् अस्ति यावत् सर्वाकारज्ञतायाः पारे विकल्पः कश्चिद् अस्ति. इदं रूपम् इति, वेदना संज्ञा संस्काराः, इदं विज्ञानम् इति यावद् इमे स्कन्धा इमे धातव इमान्य् आयतनानि अयं प्रतीत्यसमुत्पादः, इमानि प्रतीत्यसमुत्पादाङ्गानि इमाः पारमिता इमाः शून्यता इमे बोधिपक्ष्या धर्मा इमान्य् आर्यसत्यानि इमा अभिज्ञा इमा अप्रमाणध्यानारूप्यसमापत्तयः, इमानि विमोक्षसमापत्तिधारणीमुखानि इमानि शून्यतानिमित्ताप्रणिहितानि, इमे दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः, इयं सर्वाकारज्ञतेति.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न हि सुभूते रूपस्य पारे विकल्पः कश्चिद् अस्ति, न वेदनाया न संज्ञाया न संस्काराणां, न विज्ञानस्य पारे विकल्पः कश्चित्. एवं न स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानाञ् च पारे विकल्पः कश्चिन्, न पारमितानां सर्वशून्यतानां बोधिपक्ष्याणां धर्माणाम् अप्रमाणध्यानारूप्यसमापत्तीनां पारे विकल्पः कश्चिन्, न दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां पारे विकल्पः कश्चित्, एवन् न यावत् सर्वाकारज्ञतायाः पारे विकल्पः कश्चिद् अस्ति. अपि नु सुभूते दुष्करं बोधिसत्त्वानां महासत्त्वानां य इमान् एवंरूपान् धर्मान् उपनिध्यायन्ति न चावलीयन्ते. एवं च मयैते धर्मा अभिसंबोधव्या. एवञ् चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यैतान् धर्मान् एवंशान्तान् एवंप्रणीतान् प्रकाशयिष्याम इति. एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य लोकस्य परायणं भवन्ति. इति सुपरायणकारित्रम्
(प्स्प्_4:99)
कथञ् च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य लोकस्य द्वीपा भवन्ति? तद्यथापि नाम सुभूते ये प्रदेशा उदकपरिच्छिन्ना भवन्ति महानदीषु च महासमुद्रेषु वा ते सुभूते द्वीपा इत्य् उच्यन्ते. एवम् एव सुभूते रूपं पूर्वान्तापरान्तपरिच्छिन्नम्, एवं वेदना संज्ञा संस्कारा, विज्ञानं सुभूते पूर्वान्तापरान्तपरिच्छिन्नम्. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि च पूर्वान्तापरान्तपरिच्छिन्नानि, एवं दानपारमिता पूर्वान्तापरान्तपरिच्छिन्ना, एवं शीलक्षान्तिवीर्यध्यानप्रज्ञापारमिता पूर्वान्तापरान्तपरिच्छिन्ना, अध्यात्मशून्यता पूर्वान्तापरान्तपरिच्छिन्ना बहिर्धाशून्यता पूर्वान्तापरान्तपरिच्छिन्ना, अध्यात्मबहिर्धाशून्यता पूर्वान्तापरान्तपरिच्छिन्ना यावद् अभावस्वभावशून्यता पूर्वान्तापरान्तपरिच्छिन्ना, सप्तत्रिंशद्बोधिपक्ष्या धर्माः पूर्वान्तापरान्तपरिच्छिन्नाः, अप्रमाणध्यानारूप्यसमापत्तयः पूर्वान्तापरान्तपरिच्छिन्नाः, आर्यसत्यानि पूर्वान्तापरान्तपरिच्छिन्नानि, विमोक्षसमापत्तिधारणीमुखानि पूर्वान्तापरान्तपरिच्छिन्नानि, शून्यतानिमित्ताप्रणिहिताभिज्ञः पूर्वान्तापरान्तपरिच्छिन्नाः, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः पूर्वान्तापरान्तपरिच्छिन्नाः, यावत् सर्वाकारज्ञता पूर्वान्तापरान्तपरिच्छिन्ना. एतेन सुभूते पूर्वान्तापरान्तपरिच्छेदेन सर्वधर्माः परिच्छिन्नाः, यश् च सुभूते सर्वधर्माणां पूर्वान्तापरान्तपरिच्छेदः, एतच् छान्तम् एतत् प्रणीतम् एतद् यथात्म्यं, यद् उत शून्यतानुपलम्भो धर्मो परिच्छेदस् तृष्णाक्षयो विरागो विरोधो निर्वाणम्. एवं हि सुभूते बोधिसत्त्वा महासत्त्वा ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य पूर्वान्तापरान्तपरिच्छिन्नान् सर्वधर्मान् देशयन्तो लोकस्य द्वीपा भवन्ति.
कथञ् च सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य लोकस्यालोको भवति? इह सुभूते बोधिसत्त्वो महासत्त्वो दीर्घरात्रम् अविद्याण्डकोशपर्यवनद्धानां सत्त्वानां तमोभिभूतानां प्रज्ञयावभासयन् मोहान्धकारम् अविद्यातमोभिनत्तितिमिरं विधूनोत्य्, एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य लोकस्यालोको भवति.
कथं च सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानाम् उल्काधारो भवति प्रभाकरः? इह सुभूते (प्स्प्_4:100) बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य य इमे षट्पारमिताप्रतिसंयुक्ताश् चतुःसंग्रहवस्तुप्रतिसंयुक्ताश् च सूत्रान्तास् तेषाम् अर्थन् तत्त्वतः सत्त्वेभ्यः प्रकाशयति, सत्त्वांश् च तत्र नियोजयति निवेशयति प्रतिष्ठापयति, एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानाम् उल्काधारः प्रभाकरो भवति.
कथञ् च सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानां सार्थवाहो भवति? इह सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य कुमार्गसंप्रस्थितानां सत्त्वानां चतुर्गमनगामिनाम् एकायनं मार्गम् उपदिशति सत्त्वानां विशुद्धये शोकोपद्रवाणां समतिक्रमाय दुःखदौर्मनस्यानाम् अस्तंगमायार्यस्य धर्मस्याधिगमाय निर्वाणस्य साक्षात्क्रियायै, एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानां सार्थवाहो भवति. इति द्वीपकारित्रम्
कथं च सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य लोकस्य परिणायको भवति? इह सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वनिकाये महाकरुणाम् उत्पाद्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य रूपस्यानुत्पादायानिरोधायासंक्लेशायाव्यवदानाय सत्त्वानां धर्मन् देशयति संप्रकाशयति, वेदनायाः संज्ञायाः संस्काराणां, विज्ञानस्यानुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. एवं दानशीलक्षान्तिवीर्यध्यानप्रज्ञापारमिताया अनुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. उपायपारमितायाः प्रणिधानपारमिताया बलपारमिताया ज्ञानपारमितायाश् चानुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. अध्यात्मशून्यताया बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावद् अभावस्वभाव शून्यतायाश् चानुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् अभिज्ञानां चानुत्पादायानिरोधायासंक्लेशाया व्यवदानाय धर्मन् देशयति संप्रकाशयति. अष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां शून्यतानिमित्ताप्रणिहितानां चानुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. एवं सर्वसमाधीनाम् (प्स्प्_4:101) सर्वधारणीमुखानां दशानां बलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां चानुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. सर्वाकारज्ञताया अनुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. प्रत्येकबोधेर् अनुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. स्रोतआपत्तिफलस्यानुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. एवं सकृदागामिफलस्यानागामिफलस्यार्हत्त्वफलस्यानुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानां परिणायको भवति. इति परिणायककारित्रम्
कथञ् च सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामः सत्त्वानां गतिर् भवति? इह सुभूते बोधिसत्त्वो महासत्त्वो मूढानां गतिकानां सत्त्वानाम् अन्तशो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य गतिर् भवति. आकाशगतिकं रूपम् इति सत्त्वानां धर्मन् देशयति, वेदना संज्ञा संस्कारा, आकाशगतिकं विज्ञानम् इति सत्त्वानां धर्मन् देशयति. आकाशगतिका स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि चेति सत्त्वानां धर्मन् देशयति. एवं सर्वपारमिताः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि सप्तत्रिंशद्बोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तय आर्यसत्यान्य् अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितान्य् अभिज्ञादशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्मा आकाशगतिका इति सत्त्वानां धर्मन् देशयति. आकाशगतिका सर्वज्ञतेति सत्त्वानां धर्मन् देशयति. अनागतिगतिका रूपशून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति, वेदना संज्ञा संस्कारा, अनागतिगतिका विज्ञानशून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. अनागतिगतिका स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानाञ् च शून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. एवम् अनागतिगतिका सर्वपारमितासर्वशून्यतासर्वविमोक्षसमाधिसमापत्तिधारणीमुखशून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. (प्स्प्_4:102) अनागतिगतिका स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गशून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. अनागतिगतिका अप्रमाणध्यानारूप्यसमापत्तिशून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. अनागतिगतिका शून्यतानिमित्ताप्रणिहिताभिज्ञाशून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. अनागतिगतिका दशतथागतबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मशून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. अनागतिगतिका सर्वाकारज्ञताशून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानां गतिर् भवति. तत् कस्य हेतोः? शून्यतागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते शून्यताया आगतिर् वा गतिर् वोपलभ्यते. आनिमित्तगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते आनिमित्तस्यागतिर् वा गतिर् वोपलभ्यते. अप्रणिहितगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽप्रणिहितस्यागतिर् वा गतिर् वोपलभ्यते. अनभिसंस्कारगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽनभिसंस्कारस्यागतिर् वा गतिर् वोपलभ्यते. इत्य् अनाभोगकारित्रम्
अनुत्पादगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽनुत्पादस्यागतिर् वा गतिर् वोपलभ्यते. अनिरोधगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽनिरोधस्यागतिर् वा गतिर् वोपलभ्यते. असंक्लेशाव्यवदानगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽसंक्लेशाव्यवदानस्यागतिर् वा गतिर् वोपलभ्यते. अजाताभावगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽजाताभावस्यागतिर् वा गतिर् वोपलभ्यते. स्वप्नगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते स्वप्नस्यागतिर् वा गतिर् वोपलभ्यते. मायागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते मायाया आगतिर् वा गतिर् (प्स्प्_4:103) वोपलभ्यते. प्रतिश्रुत्कागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते प्रतिश्रुत्काया आगतिर् वा गतिर् वोपलभ्यते. प्रतिभासगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते प्रतिभासस्यागतिर् वा गतिर् वोपलभ्यते. निर्मितगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते निर्मितस्यागतिर् वा गतिर् वोपलभ्यते. मरीचीगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते मरीच्या आगतिर् वा गतिर् वोपलभ्यते. गन्धर्वनगरगतिका हि सुभूते सर्व धर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते गन्धर्वनगरस्यागतिर् वा गतिर् वोपलभ्यते. अनन्तापर्यन्तगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते अनन्तापर्यन्तस्यागतिर् वा गतिर् वोपलभ्यते. अनुद्धाराप्रत्युद्धारगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽनुद्धाराप्रत्युद्धारस्यागतिर् वा गतिर् वोपलभ्यते. अनागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभोते ऽनागतेर् आगतिर् वा गतिर् वोपलभ्यते. अनायूहानिर्यूहगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽनायूहानिर्यूहस्यागतिर् वा गतिर् वोपलभ्यते. अयोगावियोगाश्लेषाविश्लेषगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽयोगावियोगाश्लेषाविश्लेषस्यागतिर् वा गतिर् वोपलभ्यते. आत्मगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते आत्मन आगतिर् वा गतिर् वोपलभ्यते. सत्त्वगतिका हि सुभूते सर्वधर्मा, जीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकोत्थापकसमुत्थापकगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते सत्त्वो न संविद्यते जीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकोत्थापकसमुत्थापका न संविद्यन्ते, कुतः पुनर् एषाम् आगतिर् वा गतिर् वा भविष्यति. नित्यगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, सुखगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, आत्मगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, शुभगतिका (प्स्प्_4:104) हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते नित्यं सुखम् आत्मा शुभन् न संविद्यते, कुतः पुनर् एषाम् आगतिर् वा गतिर् वा भविष्यति. अनित्यगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, दुःखगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, अनात्मगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, अशुभगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते अनित्यं दुःखम् अनात्मा अशुभन् न संविद्यते, कुतः पुनर् एषाम् आगतिर् वा गतिर् वा भविष्यति. रागगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, दोषगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, मोहगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, दृष्टिगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते दृष्टिकृतं वस्तु न संविद्यते, कुतो दृष्टिकृतानि भविष्यन्ति?, कुत एवागतिर् वा गतिर् वा भविष्यति. तथतागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते तथताया आगतिर् वा गतिर् वोपलभ्यते, धर्मधातुगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, भूतकोटिगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, समतागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, अचिन्त्यधातुगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते धर्मधातोर् भूतकोटेः समताया अचिन्त्यधातोर् आगतिर् वा गतिर् वोपलभ्यते. अचलगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽचलस्य धर्मस्यागतिर् वा गतिर् वोपलभ्यते.
इति यानत्रयनिर्याणतत्फलसाक्षात्करणकारित्रम्
रूपगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते रूपन् न संविद्यते, कुतः पुनर् अस्यागतिर् वा गतिर् वा भविष्यति. वेदना संज्ञा संस्काराः, विज्ञानगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते विज्ञानन् न संविद्यते, कुतः पुनर् अस्यागतिर् वा गतिर् वा भविष्यति. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गानि न संविद्यन्ते, (प्स्प्_4:105) कुतः पुनर् एषाम् आगतिर् वा गतिर् वा भविष्यति. दानपारमितागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते दानपारमिता न संविद्यते, कुतः पुनर् अस्या आगतिर् वा गतिर् वा भविष्यति. एवं शीलपारमितागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, क्षान्तिपारमितागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, वीर्यपारमितागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, ध्यानपारमितागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, प्रज्ञापारमितागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते शीलक्षान्तिवीर्यध्यानप्रज्ञापारमिता न संविद्यते, कुतः पुनर् आसाम् आगतिर् वा गतिर् वा भविष्यति. अध्यात्मशून्यतागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, यावद् अभावस्वभावशून्यतागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते अध्यात्मशून्यता, यावद् अभावस्वभावशून्यता न संविद्यते, कुतः पुनर् आसाम् आगतिर् वा गतिर् वा भविष्यति. स्मृत्युपस्थानगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते स्मृत्युपस्थानानि न संविद्यन्ते, कुतः पुनर् एषाम् आगतिर् वा गतिर् वा भविष्यति. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा न संविद्यन्ते, कुतः पुनर् एषाम् आगतिर् वा गतिर् वा भविष्यति. अप्रमाणध्यानारूप्यसमापत्तिगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. आर्यसत्यविमोक्षसमाधिसमापत्तिधारणीमुखगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. अभिज्ञादशबलवैशारद्यप्रतिसंविच्छून्यतानिमित्तप्रणिहिताष्टादशावेणिकबुद्धधर्मा गतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते सर्वधर्मा न संविद्यन्ते, कुतः पुनर् एषाम् आगतिर् वा गतिर् वा भविष्यति. स्रोतआपत्तिफलगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, सकृदागामिफलगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, अनागामिफलगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, अर्हत्त्वप्रत्येकबुद्धगतिका (प्स्प्_4:106) हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते स्रोतआपन्नसकृदागाम्यनागाम्यर्हत्त्वप्रत्येकबुद्धा न संविद्यन्ते, कुतः पुनर् एषाम् आगतिर् वा गतिर् वा भविष्यति. अनुत्तरा सम्यक्संबोधिगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते ऽनुत्तरा सम्यक्संबोधिर् न संविद्यते, कुतः पुनर् अस्या आगतिर् वा गतिर् वा भविष्यति.
सुभूतिर् आह: को ऽत्र भगवन् गम्भीरायां प्रज्ञापारमितायाम् अधिमोक्ष्यते?
भगवान् आह: ये सुभूते बोधिसत्त्वा महासत्त्वाः पूर्वचरिता भविष्यन्त्य् अनुत्तरायां सम्यक्संबोधौ, पूर्वजिनकृताधिकाराः पूर्वजिनपरिपाचितकुशलमूला भविष्यन्ति, बहुबुद्धकोटीनियुतशतसहस्रपर्युपासिता भविष्यन्ति, कल्याणमित्रपरिगृहीताश् च त इमां गम्भीरां प्रज्ञापारमिताम् अधिमोक्षन्ते. इति गतिकारित्रम्
इति कारित्रलक्षणम्
सुभूतिर् आह: कानि पुनर् भगवंस् तेषां बोधिसत्त्वानां महासत्त्वानां लिङ्गान्य् आकाराणि निमित्तानि स्वभावा भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितां ज्ञास्यन्ति?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: रागविनयविविक्तस्वभावास् ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, दोषमोहविनयविविक्तस्वभावास् ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति. इति क्लेशविविक्तस्वभावः
रागलिङ्गविविक्तस्वभावाश् च ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, दोषमोहलिङ्गविविक्तस्वभावाश् च ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति. इति तल्लिङ्गविवेकस्वभावः
रागनिमित्तविवेकस्वभावाश् च ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, दोषमोहनिमित्तविवेकस्वभावाश् च ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति. इति तन्निमित्तविवेकस्वभावः
रागारागविविक्तस्वभावाश् च ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, दोषादोषमोहामोहविविक्तस्वभावाश् च ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमिताम् अधिमोक्ष्यन्ते.
(प्स्प्_4:107)
सुभूतिर् आह: किंगतिकास् ते भगवन् बोधिसत्त्वा महासत्त्वा भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमिताम् आज्ञास्यन्ति?
भगवान् आह: सर्वाकारज्ञतागतिका हि सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमिताम् आज्ञास्यन्ति.
सुभूतिर् आह: सर्वाकारज्ञतागतिकास् ते भगवन् बोधिसत्त्वा महासत्त्वाः सर्वसत्त्वानां गतिर् भवन्ति.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, सर्वाकारज्ञतागतिकास् ते सुभूते बोधिसत्त्वा महासत्त्वाः सर्वसत्त्वानां गतिर् भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमिताम् अधिमोक्ष्यन्ते.
इति विपक्षप्रतिपक्षविवेकस्वभावः
सुभूतिर् आह: दुष्करकारका भगवंस् ते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, यैर् अयं संनाहः संनद्धः सर्वसत्त्वान् परिनिर्वापयिष्याम इति. न चात्र सत्त्वो न सत्त्वप्रज्ञप्तिर् उपलभ्यते.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, दुष्करकारकास् ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, यैर् अयं संनाहः संनद्धः सर्वसत्त्वान् परिनिर्वापयिष्याम इति. स खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य संनाहो न रूपसंबद्धः. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते रूपं न संविद्यन्ते, न बोधिसत्त्वो न बोधिसत्त्वसंनाहस् तेनोच्यते सुभूते न रूपसंबद्धो ऽयं संनाह इति, वेदना संज्ञा संस्काराः, स खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य संनाहो न विज्ञानसंबद्धः. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते विज्ञानन् न संविद्यते न बोधिसत्त्वो न बोधिसत्त्वसंनाहस् तेनोच्यते सुभूते न विज्ञानसंबद्धो ऽयं संनाह इति. न स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानां वा संबद्धो ऽयं संनाहः. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते स्कन्धधात्वायतनप्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि वा न संविद्यन्ते न बोधिसत्त्वो न बोधिसत्त्वसंनाहस् तेनोच्यते सुभूते न प्रतीत्यसमुत्पादसंबन्धो न प्रतीत्यसमुत्पादाङ्गसंबद्धो ऽयं संनाह इति. एवं विस्तरेण सुभूते नायं संनाह आत्मसत्त्वजीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकसंबन्धो यावत् सुभूते नायं संनाहः सर्वाकारज्ञतासंबद्धः. तत् (प्स्प्_4:108) कस्य हेतोः? अत्यन्ततया हि सुभूते सर्वाकारज्ञता न संविद्यते न बोधिसत्त्वो न बोधिसत्त्वसंनाहस् तेनोच्यते, यावन् न सर्वाकारज्ञतासंबद्धो ऽयं बोधिसत्त्वस्य महासत्त्वस्य संनाह इति. सर्वधर्मसंबद्धो बतायं बोधिसत्त्वस्य महासत्त्वस्य संनाहो यैर् अयं गम्भीरायां प्रज्ञापारमितायां चरद्भिर् एवं संनाहः संनद्धः, एवं सर्वसत्त्वान् परिनिर्वापयिष्यामः. इति दुष्करतास्वभावः
सुभूतिर् आह: अस्य भगवन् बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वान् परिनिर्वापयिष्यामीति, एवं संनाहसंनद्धस्य स्थानद्वयन् न प्रतिकाङ्क्षितव्यं श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा, अस्थानम् एतत् भगवन्न् अनवकाशो ऽयं स बोधिसत्त्वो महासत्त्व एवं संनाहसंनद्धः सर्वसत्त्वान् परिनिर्वापयिष्यामीति श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतेन् नैतत् स्थानं विद्यते. तत् कस्य हेतोः? न हि बोधिसत्त्वस्य महासत्त्वस्य सीमाबद्धः सत्त्वानां कृतशः संनाहसंनद्धः. इत्य् ऐकान्तिकस्वभावः
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: कं पुनस् त्वं सुभूते ऽर्थवशं संपश्यन्न् एवं वदसि? अस्य बोधिसत्त्वस्य महासत्त्वस्य महासंनाहसंनद्धस्य इह गम्भीरायां प्रज्ञापारमितायान् न द्वयोः स्थानयोर् अन्यतरान्यतरं स्थानं प्रतिकाङ्क्षितव्यं श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा.
सुभूतिर् आह: तथा हि भगवन् न बोधिसत्त्वेन महासत्त्वेन प्रादेशिकानां सत्त्वानां कृतशः संनाहः संनद्धः, सर्वसत्त्वपरिनिर्वाणाय सर्वाकारज्ञताज्ञानस्य कृतशो भगवन् बोधिसत्त्वेन महासत्त्वेन संनाहः संनद्धः.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न प्रादेशिकानां सत्त्वानां कृतशो बोधिसत्त्वेन महासत्त्वेन महासंनाहः संनद्धः, अपि तु खलु पुनः सुभूते सर्वसत्त्वानां परिनिर्वाणाय सर्वाकारज्ञताज्ञानस्य कृतशो बोधिसत्त्वेन महासत्त्वेन महासंनाहः संनद्धः. इत्य् उद्देशस्वभावः
सुभूतिर् आह: गम्भीरा भगवन् प्रज्ञापारमिता सा न केनचिद् भावयितव्या न क्वचिन् न कथंचिद् भावयितव्या. तत् कस्य हेतोः? न (प्स्प्_4:109) हि भगवन्न् इह गम्भीरायां प्रज्ञापारमितायां कस्यचिद् धर्मस्य परिनिष्पत्तिर् उपलभ्यते, यो वा भावयेद् यं वा भावयेद् येन वा भावयेत्, आकाशभावनैषा भगवन् यद् उत प्रज्ञापारमिताभावना, सर्वधर्मा भावनैषा यद् उत प्रज्ञापारमिताभावना, असद्भावनैषा यद् उत प्रज्ञापारमिताभावना, अपरिग्रहभावनैषा यद् उत प्रज्ञापारमिताभावना भावनाविभावनैषा भगवन् यद् उत प्रज्ञापारमिताभावना.
भगवान् आह: कस्य सुभूते भावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना?
सुभूतिर् आह: रूपभावनाविभावनैषा भगवन् यद् उत प्रज्ञापारमिताभावना वेदनासंज्ञासंस्कारब्भावनाविभावनैषा भगवन् यद् उत प्रज्ञापारमिताभावना, विज्ञानभावनाविभावनैषा भगवन् यद् उत प्रज्ञापारमिताभावना, आत्मभावनाविभावनैषा भगवन् यद् उत प्रज्ञापारमिताभावना, सत्त्वजीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, दानपारमिताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना शीलपारमिताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, क्षान्तिपारमिताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, वीर्यपारमिताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, ध्यानपारमिताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, प्रज्ञापारमिताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, अध्यात्मशून्यताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना यावद् अभावस्वभावशून्यताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, स्मृत्युपस्थानभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, अप्रमाणध्यानारूप्यसमापत्तिभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, शून्यतानिमित्ताप्रणिहिताभिज्ञाभावनाविभावनैसा यद् उत प्रज्ञापारमिताभावना, विमोक्षमुखसमाधिसमापत्तिधारणीमुखभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, आर्यसत्यभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, (प्स्प्_4:110) दशबलभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, वैशारद्यप्रतिसंविदावेणिकबुद्धधर्मभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, स्रोतआपत्तिफलभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, सकृदागामिफलभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, अनागामिफलभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, अर्हत्त्वभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, प्रत्येकबुद्धभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, बोधिसत्त्वभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, यावत् सर्वाकारज्ञताभावनाविभावनैषा भगवन् यद् उत प्रज्ञापारमिताभावना.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, रूपभावनाविभावनैषा सुभूते यद् उत प्रज्ञापारमिताभावना, वेदनासंज्ञासंस्कारभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, विज्ञानभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, स्कन्धभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, धातुभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, आयतनभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, प्रतीत्यसमुत्पादभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, प्रतीत्यसमुत्पादाङ्गभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, चक्षुरूपचक्षुर्विज्ञानचक्षुःसंस्पर्शचक्षुःसंस्पर्शप्रत्ययवेदनाभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, एवं श्रोत्रघ्राणजिह्वाकायमनोधर्मः मनोविज्ञान मनःसंस्पर्शमनःसंस्पर्शप्रत्ययवेदनाभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, पृथिवीधातुभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, अब्धातुभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, तेजोधातुभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, वायुधातुभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, आकाशधातुभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना विज्ञानधातुभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना अविद्याभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना संस्कारभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, विज्ञानभावनाविभावनैषा, नामरूपभावनाविभावनैषा, षडायतनभावनाविभावनैषा, (प्स्प्_4:111) स्पर्शभावनाविभावनैषा, वेदनाभावनाविभावनैषा, तृष्णाभावनाविभावनैषा, उपादानभावनाविभावनैषा, भवभावनाविभावनैषा, जातिभावनाविभावनैषा, जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासभावनाविभावनै षा यद् उत प्रज्ञापारमिताभावना. एवं सर्वपारमिताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, सर्वशून्यताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, बोधिपक्ष्यधर्मभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, अप्रमाणध्यानारूप्यसमापत्तिभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, आर्यसत्याभिज्ञाशून्यतानिमित्ताप्रणिहितविमोक्षसमाधिसमापत्तिधारणीमुखभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, यावत् सर्वाकारज्ञताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना.
इत्य् अनुपलम्भस्वभावः
इह सुभूते गम्भीरायां प्रज्ञापारमितायाम् उपपरीक्षितव्यो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीय इति, यः कश्चिद् बोधिसत्त्वो महासत्त्व इह गम्भीरायां प्रज्ञापारमितायां नाभिनिविशेत सो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्व उपपरीक्षितव्यो, एवं ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां यो बोधिसत्त्वो महासत्त्वो नाभिनिविशेत सो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्व उपपरीक्षितव्यः. एवम् अध्यात्मशून्यतायां यावद् अभावस्वभावशून्यतायां नाभिनिविशेत, सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु नाभिनिविशेत, आर्यसत्येष्व् अप्रमाणध्यानारूप्यसमापत्तिषु नाभिनिविशेत, अष्टविमोक्षेषु नवस्व् अनुपूर्वविहारसमापत्तिषु शून्यतानिमित्ताप्रणिहितेषु नाभिनिविशेत, समाधिधारणीमुखेष्व् अभिज्ञासु नाभिनिविशेत, दशबलवैशारद्यप्रतिसंविदावेणिकेषु बुद्धधर्मेषु नाभिनिविशेत, यः कश्चिद् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायां नाभिनिविशेत सो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः. यः कश्चिद् बोधिसत्त्वो महासत्त्व इह गम्भीरायां प्रज्ञापारमितायां चरन् न परभाषितानि न परमन्त्रितानि सारतः परतः पश्यति सो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो, यः कश्चिद् बोधिसत्त्वो महासत्त्व इह गम्भीरायां प्रज्ञापारमितायां चरन् न परस्य श्रद्धया गच्छति सो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो, यः कश्चिद् बोधिसत्त्वो महासत्त्व इह (प्स्प्_4:112) गम्भीरायां प्रज्ञापारमितायां चरन् न रागसहितैश् चित्तोत्पादैः संह्रियते न दोषमोहसहगतैश् चित्तोत्पादैः संह्रियते सो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्व उपपरीक्षितव्यः. यः कश्चिद् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽस्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते नावलीयते न संलीयते न चास्य विपृष्ठीभवति मानसं प्रज्ञापारमितया चाविरहितो भवति, अभिनन्दति प्रज्ञापारमिताश्रवणं श्रुत्वा चोद्गृह्णाति पर्यवाप्नोति धारयति वाचयति योनिशश् च मनसिकरोति तथत्वाय प्रतिपद्यते, वेदितव्यम् एतत् सुभूते पूर्वान्ततो ऽप्य् अनेनाविनिवर्तनीयेन बोधिसत्त्वेन महासत्त्वेन इयं गम्भीरा प्रज्ञापारमिता श्रुता उद्गृहीता पर्यवाप्ता धारिता वाचिता योनिशश् च मनसिकृता तथत्वाय प्रतिपन्ना. तत् कस्य हेतोः? तथा हि अविनिवर्तनीयो बोधिसत्त्वो महासत्त्व इह गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते नावलीयते न संलीयते न चास्य विपृष्ठीभवति मानसं न प्रत्युदावर्तते उत्तरे च श्रुत्वा उद्गृह्णाति पर्यवाप्नोति धारयति वाचयति योनिशश् च मनसिकरोति तथत्वाय प्रतिपद्यते. इत्य् अनभिनिवेशस्वभावः
सुभूतिर् आह: यो भगवन् बोधिसत्त्वो महासत्त्व इह गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते नावलीयते न संलीयते न चास्य विपृष्ठीभवति मानसं, कथं भगवंस् तेन बोधिसत्त्वेन महासत्त्वेन इयं गम्भीरा प्रज्ञापारमिता व्यवचारयितव्या?
भगवान् आह: सर्वाकारज्ञता निम्नया सुभूते संतत्या तेन बोधिसत्त्वेन महासत्त्वेन इयं गम्भीरा प्रज्ञापारमिता व्यवचारयितव्या.
सुभूतिर् आह: कथं भगवन् सर्वाकारज्ञता निम्नया संतत्या बोधिसत्त्वस्य महासत्त्वस्य गम्भीरायां प्रज्ञापारमितायां व्यवचारणा भवति?
भगवान् आह: शून्यतानिम्नया शून्यताप्रवणया शून्यताप्राग्भारया सुभूते संतत्या बोधिसत्त्वस्य महासत्त्वस्य इह गम्भीरायां प्रज्ञापारमितायां व्यवचारणा भवति, आनिमित्तनिम्नया आनिमित्तप्रवणया आनिमित्तप्राग्भारया सुभूते संतत्या, अप्रणिहितनिम्नया अप्रणिहितप्रवणया (प्स्प्_4:113) अप्रणिहितप्राग्भारया सुभूते संतत्या, आकाशनिम्नया आकाशप्रवणया आकाशप्राग्भारया सुभूते संतत्या, यावद् भूतकोटिनिम्नया भूतकोटिप्रवणया भूतकोटिप्राग्भारया सुभूते संतत्या, अनभिसंस्कारनिम्नयानभिसंस्कारप्रवणयानभिसंस्कारप्राग्भारया सुभूते संतत्या इह गम्भीरायां प्रज्ञापारमितायां व्यवचारणा भवति. स्वप्ननिम्नया निर्माणनिम्नया सुभूते संतत्या, मायानिम्नया मरीचिनिम्नया सुभूते संतत्या, प्रतिश्रुत्कानिम्नया प्रतिभासनिम्नया सुभूते संतत्या, प्रतिबिम्बनिम्नया गन्धर्वनगरनिम्नया सुभूते संतत्या इह गम्भीरायां प्रज्ञापारमितायां व्यवचारणा भवति.
सुभूतिर् आह: यद् भगवान् एवम् आह, शून्यतानिम्नया शून्यताप्रवणया शून्यताप्राग्भारया संतत्या इह गम्भीरायां प्रज्ञापारमितायां बोधिसत्त्वानां महासत्त्वानां व्यवचारणा भवति. एवम् आनिमित्ताप्रणिहिताकाशानुत्पादानिरोधाजाताभावासंक्लेशाव्यवदानतथतावितथतानन्यतथताधर्मताधर्मस्थितिताधर्मनियामताचिन्त्यताभूतकोट्यनभिसंस्कारस्वप्ननिर्माणमायामरीचिप्रतिश्रुत्काप्रतिभासप्रतिबिम्बगन्धर्वनगरनिम्नया प्रवणया प्राग्भारया सुभूते संतत्या बोधिसत्त्वानां महासत्त्वानाम् इह गम्भीरायां प्रज्ञापारमितायां व्यवचारणा भवति. किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो रूपम् अपि व्यवचारयति? वेदनां संज्ञां संस्कारान्, विज्ञानम् अपि व्यवचारयति? एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादं प्रतीत्यसमुत्पादाङ्गानि व्यवचारयति? सर्वपारमिताः सर्वशून्यताः सर्वविमोक्षसमाधिधारणीमुखानि व्यवचारयति? सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् व्यवचारयति, अप्रमाणध्यानारूप्यसमापत्तीः शून्यतानिमित्ताप्रणिहिताभिज्ञा व्यवचारयति? दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् व्यवचारयति? किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो यावत् सर्वाकारज्ञताम् अपि व्यवचारयति?
भगवान् आह: न सुभूते बोधिसत्त्वो महासत्त्वो रूपं व्यवचारयति, न वेदना संज्ञा संस्कारान् न विज्ञानं व्यवचारयति, न स्कन्धधात्वायतनप्रतीत्यसमुत्पादं न प्रतीत्यसमुत्पादाङ्गानि व्यवचारयति, न सर्वपारमिता न सर्वशून्यता व्यवचारयति, न बोधिपक्ष्यान् धर्मान् व्यवचारयति, नाप्रमाणध्यानारूप्यसमापत्तीर् नार्यसत्यानि व्यवचारयति, न विमोक्षसमाधिसमापत्तिधारणीमुखानि व्यवचारयति, (प्स्प्_4:114) न दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् व्यवचारयति, न सुभूते बोधिसत्त्वो महासत्त्वो यावत् सर्वाकारज्ञतां व्यवचारयति. तत् कस्य हेतोः? तथा हि सुभूते सर्वाकारज्ञता न केनचित् कृता न कुतश्चिद् आगता न क्वचिद् गता नापि क्वचित् स्थिता न देशस्था न प्रदेशस्था न तस्याः संख्या उपलभ्यते, न गमनं नागमनम् उपलभ्यते, यस्याश् च न संख्या न गमनं नागमनम् उपलभ्यते, सा न शक्या केनचिद् अभिसंबोद्धुं, न रूपेण न वेदनया न संज्ञया न संस्कारैर् न विज्ञानेन न स्कन्धैर् न धातुभिर् नायतनैर् न प्रतीत्यसमुत्पादेन न प्रतीत्यसमुत्पादाङ्गैर्, न दानेन न शीलेन न क्षान्त्या न वीर्येण न ध्यानेन न प्रज्ञया यावन् न सर्वाकारज्ञता ज्ञानेनाभिसंबोद्धुम्. तत् कस्य हेतोः? रूपम् एव सर्वाकारज्ञता, वेदनैव संज्ञैव संस्कारा एव, विज्ञानम् एव सर्वाकारज्ञता. तत् कस्य हेतोः? तथा हि सुभूते या च रूपस्य तथता, या च सर्वाकारज्ञतायास् तथता, या च बुद्धधर्माणां तथता एकैवैषा तथताद्वयाद्वैधीकारा वेदनायाः संज्ञायाः संस्काराणां, या च विज्ञानस्य तथता, या च सर्वाकारज्ञतायास् तथता, या च बुद्धधर्माणां तथता एकैवैषा तथताद्वयाद्वैधीकारा, या च स्कन्धधात्वायतनप्रतीत्यसमुत्पादानां तथता, या च सर्वाकारज्ञतायास् तथता, या च बुद्धधर्माणां तथता एकैवैषा तथताद्वयाद्वैधीकारा, या च स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गानां तथता, या च सर्वाकारज्ञतायास् तथता, या च बुद्धधर्माणां तथता एकैवैषा तथताद्वयाद्वैधीकारा. एवं या च पारमितातथता, या च शून्यतातथता, या च बोधिपक्ष्यधर्मतथता, या चाप्रमाणध्यानारूप्यसमापत्तितथता या चार्यसत्यतथता, या च समाधिसमापत्तिधारणीमुखतथता, या च विमोक्षमुखतथता, या चाभिज्ञातथता, या च दशबलवैशारद्यप्रतिसंवित्तथता, या चावेणिकबुद्धधर्मतथता, या च सर्वाकारज्ञतायास् तथता, या च बुद्धधर्माणां तथता एकैवैषा तथताद्वयाद्वैधीकारा.
अथ खलु कामावचरा रूपावचराश् च देवपुत्रा दिव्यानि चन्दनचूर्णानि गृहीत्वा दिव्यान्य् उत्पलकुमुदपुण्डरीकसौगन्धिकमान्दरवमहामान्दरवाणि गृहीत्वा येन भगवांस् तेनाक्षिपन्ति स्म, क्षिप्त्वा च (प्स्प्_4:115) येन भगवांस् तेनोपसंक्रान्ता उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते तिष्ठन्, एकान्ते स्थिताश् च कामावचरा रूपावचराश् च देवपुत्रा भगवन्तम् एतद् अवोचन्: गम्भीरा भगवन् प्रज्ञापारमिता दुर्दृशा दुरनुबोधातर्कातर्कावचरा शान्ता शूक्ष्मा निपुणपण्डितविज्ञवेदनीया सर्वलोकविप्रत्यनीका यद् उत तथागतानां बोधिर् यत्र नाम तथागता अर्हन्तः सम्यक्संबुद्धाः, एवं गम्भीरां प्रज्ञापारमिताम् एवं निपुणां निर्दिशन्ति, रूपम् एव सर्वाकारज्ञता सर्वाकारज्ञतैव रूपं, वेदना संज्ञा संस्कारा, विज्ञानम् एव सर्वाकारज्ञता सर्वाकारज्ञतैव विज्ञानम्. तत् कस्य हेतोः? या च रूपस्य तथता, या च सर्वाकारज्ञतायास् तथता एकैवैषा तथताद्वयाद्वैधीकारा, या च वेदनायास् तथता, या च संज्ञायास् तथता, या च संस्काराणां तथता, या च विज्ञानस्य तथता, या च सर्वाकारज्ञतायास् तथता एकैवैषा तथताद्वयाद्वैधीकारा. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पाद एव सर्वाकारज्ञता, सर्वाकारज्ञतैव स्कन्धधात्वायतनप्रतीत्यसमुत्पादः. तत् कस्य हेतोः? या च स्कन्धधात्वायतनप्रतीत्यसमुत्पादतथता, या च सर्वाकारज्ञतातथता एकैवैषा तथताद्वयाद्वैधीकारा. एवं या च यावद् बुद्धानां भगवतां तथता, या च यावत् सर्वाकारज्ञतायास् तथता एकैवैषा तथताद्वयाद्वैधीकारा.
एवम् उक्ते भगवांस् तान् कामावचारान् रूपावचारांश् च देवपुत्रान् एतद् अवोचत्: एवम् एतद् देवपुत्रा एवम् एतत्, रूपम् एव देवपुत्राः सर्वाकारज्ञता सर्वाकारज्ञतैव देवपुत्रा रूपं, वेदना संज्ञा संस्काराः, विज्ञानम् एव देवपुत्राः सर्वाकारज्ञता सर्वाकारज्ञतैव देवपुत्रा विज्ञानम्. तत् कस्य हेतोः? या च रूपस्य तथता या च सर्वाकारज्ञतायास् तथता एकैवैषा तथताद्वयाद्वैधीकारा, या च वेदनायास् तथता या च संज्ञायास् तथता या च संस्काराणां तथता, या च विज्ञानस्य तथता या च सर्वाकारज्ञतायास् तथता एकैवैषा तथताद्वयाद्वैधीकारा. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पाद एव सर्वाकारज्ञता, सर्वाकारज्ञतैव स्कन्धधात्वायतनप्रतीत्यसमुत्पादः. तत् कस्य हेतोः? या च स्कन्धधात्वायतनप्रतीत्यसमुत्पादतथता या च सर्वाकारज्ञतायास् तथता एकैवैषा तथताद्वयाद्वैधीकारा. दानपारमितैव सर्वाकारज्ञता सर्वाकारज्ञतैव (प्स्प्_4:116) दानपारमिता, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता, प्रज्ञापारमितैव देवपुत्राः सर्वाकारज्ञता सर्वाकारज्ञतैव देवपुत्राः प्रज्ञापारमिता. तत् कस्य हेतोः? या च दानपारमितातथता, या च सर्वाकारज्ञतातथता एकैवैषा तथताद्वयाद्वैधीकारा. एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता, या च प्रज्ञापारमितातथता, या च सर्वाकारज्ञतातथता एकैवैषा तथताद्वयाद्वैधीकारा. अध्यात्मशून्यतैव सर्वाकारज्ञता सर्वाकारज्ञतैवाध्यात्मशून्यता, एवं यावद् अभावस्वभावशून्यतैव सर्वाकारज्ञता सर्वाकारज्ञतैवाभावस्वभावशून्यता. तत् कस्य हेतोः? या चाभावस्वभावशून्यतायास् तथता, या च सर्वाकारज्ञतायास् तथता एकैवैषा तथताद्वयाद्वैधीकारा. स्मृत्युपस्थानान्य् एव सर्वाकारज्ञता सर्वाकारज्ञतैव स्मृत्युपस्थानाइ, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा एव सर्वाकारज्ञता सर्वाकारज्ञतैव सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाः. तत् कस्य हेतोः? या च स्मृत्युपस्थानतथता या च सर्वाकारज्ञतातथथा एकैवैषा तथताद्वयाद्वैधीकारा. एवं या च सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गतथता, या च सर्वाकारज्ञतातथता एकैवैषा तथताद्वयाद्वैधीकारा. अप्रमाणध्यानारूप्यसमापत्तय एव सर्वाकारज्ञता सर्वाकारज्ञतैवाप्रमाणध्यानारूप्यसमापत्तयः. तत् कस्य हेतोः? या चाप्रमाणध्यानारूप्यसमापत्तितथता या च सर्वाकारज्ञतातथता एकैवैषा तथताद्वयाअद्वैधीकारा. एवम् आर्यसत्यशून्यतानिमित्ताप्रणिहिताभिज्ञाविमोक्षसमाधिसमापत्तिधारणीमुखदशबलवैशारद्यप्रतिसंविद्, आवेणिकबुद्धधर्मा एव सर्वाकारज्ञता सर्वाकारज्ञतैवावेणिकबुद्धधर्माः. तत् कस्य हेतोः? या चावेणिकबुद्धधर्माणां तथता, या च सर्वाकारज्ञतायास् तथथा एकैवैषा तथताद्वयाद्वैधीकारा. एवं स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबुद्धा, बुद्धा एव सर्वाकारज्ञता सर्वाकारज्ञतैव बुद्धाः. तत् कस्य हेतोः? या च बुद्धानां भगवतां तथता, या च सर्वाकारज्ञतायास् तथता एकैवैषा तथताद्वयाद्वैधीकारा. इदम् अपि देवपुत्रा अर्थवशं संपश्यंस् तथागतो ऽल्पोत्सुकतायां चित्तं नामयामास न धर्मदेशनायाम्. तत् कस्य हेतोः? गम्भीरो बतायं (प्स्प्_4:117) धर्मो दुर्दृशो दुरनुबोधो ऽतर्को ऽतर्कावचरः शान्तः शूक्ष्मः पण्डितविज्ञवेदनीयः सर्वलोकविप्रत्यनीको यद् उतेयं तथागतानां बोधिः, सा न केनचिद् अभिसंबुद्धा न कदाचिद् अभिसंबुद्धा न क्वचिद् अभिसंबुद्धा इयं सा धर्माणां गम्भीरता धर्मता यत्र न द्वयसमुदाचारो नाद्वयसमुदाचारः संविद्यते. इत्य् आलम्बनस्वभावः
आकाशगम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः, तथतागम्भीरतया धर्मधातुगम्भीरतया भूतकोटीगम्भीरतया अचिन्त्यधर्मधातुगम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः, अनन्तापर्यन्तया अनागमनागमनतया अनुत्पादानिरोधसमतया असंक्लेशाव्यवदानसमतया, अनभिसंस्कारसमतया आत्मगम्भीरतया सत्त्वजीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकगम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः. रूपगम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः, वेदनासंज्ञासंस्कारविज्ञानगम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः, स्कन्धगम्भीरतया धातुगम्भीरतयायतनगम्भीरतया प्रतीत्यसमुत्पादगम्भीरतया प्रतीत्यसमुत्पादाङ्गगम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः, दानपारमितागम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः, शीलपारमितागम्भीरतया क्षान्तिपारमितागम्भीरतया वीर्यपारमितागम्भीरतया ध्यानपारमितागम्भीरतया प्रज्ञापारमितागम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः, अध्यात्मशून्यतागम्भीरतया यावद् अभावस्वभावशून्यतागम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः, स्मृत्युपस्थानगम्भीरतया सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गगम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः, अप्रमाणध्यानारूप्यसमापत्तिगम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः, आर्यसत्यगम्भीरतया शून्यतानिमित्ताप्रणिहितगम्भीरतया अभिज्ञागम्भीरतया सर्वविमोक्षसमाधिसमापत्तिधारणीमुखगम्भीरतया दशबलवैशारद्यप्रतिसंविद्गम्भीरतया अष्टादशावेणिकबुद्धधर्मगम्भीरतया, यावत् सर्वाकारज्ञतागम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः.
एवम् उक्ते देवपुत्रा भगवन्तम् एतद् अवोचन्: सर्वलोकविप्रत्यनीको ऽयं भगवन् धर्मो देश्यते. तत् कस्य हेतोः? नायं भगवन् धर्मो रूपस्योद्ग्रहाय नानुद्ग्रहाय वा देश्यते, न वेदनाया न संज्ञाया न संस्काराणां, न विज्ञानस्योद्ग्रहाय नानुद्ग्रहाय वा देश्यते, न (प्स्प्_4:118) स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गानाम् उद्ग्रहाय नानुद्ग्रहाय वा देश्यते. एवं न सर्वशून्यतानां सप्तत्रिंशद्बोधिप्क्ष्याणां धर्माणां दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणाम् उद्ग्रहाय वा नानुद्ग्रहाय वा धर्म उपदेश्यते, न सर्वधर्माणाम् उद्ग्रहाय नानुद्ग्रहाय वा धर्मो देश्यते, नायं भगवन् धर्मः स्रोतआपत्तिफलस्य उद्ग्रहाय नानुद्ग्रहाय वा देश्यते. एवं न सकृदागामिफलस्य नानागामिफलस्य नार्हत्त्वस्य न प्रत्येकबोधेर् यावत् सर्वाकारज्ञताया नोद्ग्रहाय नानुद्ग्रहाय वा धर्मो देश्यते, उद्ग्रहे च लोकश् चरति मम रूपं, मम वेदना मम संज्ञा मम संस्कारा मम विज्ञानं, मम स्कन्धा मम धातवो ममायतनानि मम प्रतीत्यसमुत्पादो ऽहं प्रतीत्यसमुत्पन्नः, मम दानम् अहं दानपतिर् मम शीलम् अहं शीलवान् मम क्षान्तिर् अहं क्षान्तिमान् मम वीर्यम् अहं वीर्यवान् मम ध्यानम् अहं ध्यानवान् मम प्रज्ञा अहं प्रज्ञावान्, ममाध्यात्मशून्यता अहम् अध्यात्मशून्यतां भावयामि यावन् ममाभावस्वभावशून्यताहम् अभावस्वभावशून्यतां भावयामि, मम स्मृत्युपस्थानानि मम सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा ममाप्रमाणध्यानारूप्यसमापत्तयो ममार्यसत्यानि ममाभिज्ञा मम विमोक्षसमाधिसमापत्तिधारणीमुखानि मम शून्यतानिमित्ताप्रणिहितानि अहं शून्यतानिमित्ताप्रणिहितवान् मम दशबलवैशारद्यप्रतिसंविदो ममाष्टादशावेणिकबुद्धधर्मा मम स्रोतआपत्तिफलम् अहं स्रोतआपन्नो मम सकृदागामिफलम् अहं सकृदागामी ममानागामिफलम् अहम् अनागामी ममार्हत्त्वम् अहम् अर्हन् मम प्रत्येकबोधिर् अहं प्रत्येकबुद्धो मम सर्वाकारज्ञता अहं सर्वाकारज्ञताः.
भगवान् आह: एवम् एतद् देवपुत्रा एवम् एतन्, नायं देवपुत्रा धर्मो रूपस्योद्ग्रहाय देश्यते नानुद्ग्रहाय, न वेदनाया न संज्ञाया न संस्काराणां, न विज्ञानस्योद्ग्रहाय देश्यते नानुद्ग्रहाय. ये तु देवपुत्रा रूपस्योद्ग्रहाय चरन्ति, वेदनायाः संज्ञायाः संस्काराणां, ये विज्ञानस्योद्ग्रहाय चरन्ति, न ते भव्याः प्रज्ञापारमितां भावयितुम्. ये स्कन्धधात्वायतनप्रतीत्यसमुत्पादानाम् उद्ग्रहाय चरन्ति, ये सर्वपारमितासर्वशून्यतासमाधिसमापत्तिधारणीमुखानाम् उद्ग्रहाय चरन्ति, ये प्रमाणध्यानारूप्यसमापत्त्यार्यसत्यशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणाम् (प्स्प्_4:119) उद्ग्रहाय चरन्ति, ये देवपुत्राः सर्वाकारज्ञताया उद्ग्रहाय चरन्ति, न ते भव्याः प्रज्ञापारमितां भावयितुं यावन् न प्रतिबला ध्यानवीर्यक्षान्तिशीलदानपारमितां भावयितुं, यावन् न प्रतिबलाः सर्वाकारज्ञतां भावयितुम्. इति सर्वलोकविप्रत्यनीकस्वभावः
सुभूतिर् आह: सर्वधर्मानुलोमिको ऽयं भगवन् धर्मः, कस्यानुलोमिको ऽयं भगवन् धर्मः? प्रज्ञापारमितानुलोमिको ऽयं भगवन् धर्मः, यावद् ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता दानपारमितानुलोमिको ऽयं भगवन् धर्मः, अध्यात्मशून्यतानुलोमिको ऽयं भगवन् धर्मः, यावद् अभावस्वभावशून्यतानुलोमिको ऽयं भगवन् धर्मः, स्मृत्युपस्थानानुलोमिको ऽयं भगवन् धर्मः, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गानुलोमिको ऽयं भगवन् धर्मः, आर्यसत्यानुलोमिको ऽयं भगवन् धर्मः, अप्रमाणध्यानारूप्यसमापत्तिसर्वविमोक्षसमाधिसमापत्तिधारणीमुखानुलोमिको ऽयं भगवन् धर्मः, शून्यतानिमित्ताप्रणिहिताभिज्ञानुलोमिको ऽयं भगवन् धर्मः, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मानुलोमिको ऽयं भगवन् धर्मः, सर्वाकारज्ञतानुलोमिको ऽयं भगवन् धर्मः. नायं धर्मः क्वचित् प्रतिहन्यते रूपे न प्रतिहन्यते, एवं वेदनायां संज्ञायां संस्कारेषु विज्ञाने न प्रतिहन्यते, स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गेषु न प्रतिहन्यते, सर्वपारमितासु सर्वशून्यतासु न प्रतिहन्यते, सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु न प्रतिहन्यते, आर्यसत्येषु अप्रमाणध्यानारूप्यसमापत्तिसर्वविमोक्षसमाधिसमापत्तिधारणीमुखेषु न प्रतिहन्यते, शून्यतानिमित्ताप्रणिहितेस्व् अभिज्ञासु दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु न प्रतिहन्यते, सर्वाकारज्ञतायां न प्रतिहन्यते. अप्रतिहतलक्षणो बतायं धर्मः, आकाशसमताम् उपादाय, तथतासमताम् उपादाय, धर्मधातुस्थितिताम् उपादाय, भूतकोटिसमताम् उपादाय, अचिन्त्यधातुसमताम् उपादाय, शून्यतानिमित्ताप्रणिहितसमताम् उपादाय, अनुत्पादानिरोधसमताम् उपादाय, असंक्लेशाव्यवदानसमताम् उपादाय, अनुत्पादो ऽयं धर्मो रूपानुत्पादानिरोधताम् उपादाय, वेदना संज्ञा संस्कारा, विज्ञानानुत्पादानिरोधताम् उपादाय, स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गानाम् (प्स्प्_4:120) अनुत्पादानिरोधताम् उपादाय, सर्वपारमिता सर्वशून्यतानुत्पादानिरोधताम् उपादाय सप्तत्रिंशद्बोधिपक्ष्यधर्माप्रमाणध्यानारूप्यसमापत्त्यार्यसत्याभिज्ञाशून्यतानिमित्ताप्रणिहितसर्वविमोक्षसमाधिसमापत्तिधारणीमुखानुत्पादानिरोधताम् उपादाय, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मानुत्पादानिरोधताम् उपादाय. इत्य् अप्रतिघातस्वभावः
अपदो ऽयं धर्मो रूपपदानुपलब्धिताम् उपादाय, वेदनासंज्ञासंस्कारविज्ञानपदानुपलब्धिताम् उपादाय, स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गपदानुपलब्धिताम् उपादाय, सर्वपारमितासर्वविमोक्षसमाधिसमापत्तिधारणीमुखपदानुपलब्धिताम् उपादाय, बोधिपक्ष्यधर्मपदानुपलब्धिताम् उपादाय, अप्रमाणध्यानारूप्यसमापत्तिशून्यतानिमित्ताप्रणिहितपदानुपलब्धिताम् उपादाय, आर्यसत्याभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मपदानुपलब्धिताम् उपादाय, सर्वाकारज्ञतापदानुपलब्धिताम् उपादाय, अपदो ऽयं धर्मः. इत्य् अपदस्वभावः
अथ खलु ते कामावचरा रूपावचराश् च देवपुत्रा भगवन्तम् एतद् अवोचन्: अनुजातो ऽयं भगवन् भगवतः सुभूतिः स्थविरः. तत् कस्य हेतोः? तथा हि यद्यद् एव देशयति सर्वतच् छून्यतानिमित्ताप्रणिहितम् आरभ्य धर्मं देशयति.
अथ खल्व् आयुष्मान् सुभूतिस् तान् कामावचरान् रूपावचरांश् च देवपुत्रान् आमन्त्रयामास: यद् एवं देवपुत्रा वदथ, अनुजातो ऽयं भगवन् भगवतः सुभूतिः स्थविरः, किम् इत्य् अनुजातत्वात् सुभूतिः स्थविरो ऽनुजातस् तथागतस्य? यथा तथागतस्य तथानागतागता, एवम् एव सुभूतेर् अपि तथतानागतागता, एवं हि सुभूतिः स्थविरस् तथागतस्यानुजातः. या तथागतस्य तथता सा सर्वधर्मतथता, या सर्वधर्मतथता सा तथागततथता अवितथता अनन्यतथता, एवं हि सुभूतिः स्थविरस् तथागतम् अनुजातः. या तथागततथता सा स्थितितथता या स्थितितथता सा तथागततथता, एवं हि सुभूतिः स्थविरस् तथागतम् अनुजातः. यथा तथागततथताविकारा निर्विकारा, एवं हि सुभूतेः स्थविरस्य तथताविकारा निर्विकारा यथा तथागतस्य तथता न क्वचित् प्रतिहन्यते. एवं सर्वधर्मतथता न क्वचित् प्रतिहन्यते. या च तथागततथता या च सर्वधर्मतथता (प्स्प्_4:121) एकैवैषा तथताद्वयाद्वैधीकारा न सा कदाचिन् न तथता, यतः सा न कदाचिन् न तथता ततः सा तथताद्वयाद्वैधीकारा. एवं हि सुभूतिः स्थविरस् तथागतम् अनुजातः. यथा तथागततथता सर्वत्रगाविकल्पा निर्विकल्पा, एवं हि सुभूतितथता सर्वत्रगाविकल्पा निर्विकल्पा. यथा तथागततथता अभिन्ना अभेदतथतानुपलभ्या, एवं सुभूतितथता अभिन्ना अभेदतथतानुपलभ्या. एवं हि सुभूतिस्थविरस् तथागतम् अनुजातः. यथा तथागततथतानन्यतथता सर्वधर्मतथता, या न सा कदाचिन् न तथता, सदा सा तथता तथैव सुभूतिस्थविरो ऽनन्यतथता या तथागतम् अनुजातो न क्वचिद् अनुजातः, एवं हि सुभूतिस्थविरस् तथागतम् अनुजातः. यथा तथागततथता नातीता नानागता न प्रत्युत्पन्ना, एवं सर्वधर्मतथता नातीता नानागता न प्रत्युत्पन्ना. एवं हि सुभूतिस्थविरतथता नातीता नानागता न प्रत्युत्पन्ना, एवं हि सुभूतिस्थविरस् तथागतम् अनुजात इति उच्यते. अतीततथतासमतया तथागततथतासमतातथागततथतासमतयातीततथतासमता, अनागततथतासमतया तथागततथतासमता तथागततथतासमतया अनागततथतासमता, प्रत्युत्पन्नतथतासमतया तथागततथतासमता तथागततथतासमतया प्रत्युत्पन्नतथतासमता. इति ह्य् अतीतानागतप्रत्युत्पन्नतथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. रूपतथतया तथागततथता तथागततथतया रूपतथता, वेदना संज्ञा संस्काराः, विज्ञानतथतया तथागततथता तथागततथतया विज्ञानतथता, इति हि तथागततथता च रूपवेदनासंज्ञासंस्कारविज्ञानतथता चाद्वयम् एतद् अद्वैधीकारम्. स्कन्धतथतया तथागततथता तथागततथतया स्कन्धतथता, धातुतथतया तथागततथता तथागततथतया धातुतथता, आयतनतथतया तथागततथता तथागततथतया आयतनतथता, प्रतीत्यसमुत्पादतथतया तथागततथता तथागततथतया प्रतीत्यसमुत्पादतथता, प्रतीत्यसमुत्पादाङ्गतथतया तथागततथता तथागततथतया प्रतीत्यसमुत्पादाङ्गतथता, इति हि स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गतथता च तथागततथता चाद्वयम् एतद् (प्स्प्_4:122) अद्वैधीकारम्. अनन्यतथतया तथागततथता तथागततथतयानन्यतथता, एवं सत्त्वजीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकतथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. दानपारमितातथतया तथागततथता तथागततथतया दानपारमितातथता, एवं शीलपारमिताक्षान्तिपारमितावीर्यपारमिताध्यानपारमिताप्रज्ञापारमितातथतया तथागततथता तथागततथतया प्रज्ञापारमितातथता, इति हि दानशीलक्षान्तिवीर्यध्यानप्रज्ञापारमितातथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. अध्यात्मशून्यतातथतया तथागततथता तथागततथतयाध्यात्मशून्यतातथता, एवं यावद् अभावस्वभावशून्यतातथतया तथागततथता तथागततथतया यावद् अभावस्वभावशून्यतातथता, इति ह्य् अध्यात्मशून्यतातथता च तथागततथता च, यावद् अभावस्वभावशून्यतातथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. स्मृत्युपस्थानतथतया तथागततथता तथागततथतया स्मृत्युपस्थानतथता, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गतथतया तथागततथता तथागततथतया मार्गतथता. इति हि स्मृत्युपस्थानतथता च सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गतथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. अप्रमाणध्यानारूप्यसमापत्तितथतया तथागततथता तथागततथतया प्रमाणध्यानारूप्यसमापत्तितथता, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखतथतया तथागततथता तथागततथतया सर्वविमोक्षसमाधिसमापत्तिधारणीमुखतथता, इति ह्य् अप्रमाणध्यानारूप्यसमापत्तितथता च सर्वविमोक्षसमाधिसमापत्तिधारणीमुखतथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. शून्यतानिमित्ताप्रणिहिततथतया तथागततथता तथागततथतया शून्यतानिमित्ताप्रणिहिततथता, आर्यसत्यतथतया तथागततथता तथागततथतया आर्यसत्यतथता, अभिज्ञातथतया तथागततथता तथागततथतयाभिज्ञातथता, इति हि शून्यतानिमित्ताप्रणिहिततथता चार्यसत्यतथता चाभिज्ञातथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. दशबलवैशारद्यप्रतिसंवित्तथतया तथागततथता तथागततथतया दशबलवैशारद्यप्रतिसंवित्तथता, आवेणिकबुद्धधर्मतथतया तथागततथता तथागततथतयावेणिकबुद्धधर्मतथता, इति हि दशबलवैशारद्यप्रतिसंवित्तथता (प्स्प्_4:123) चावेणिकबुद्धधर्मतथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. सर्वाकारज्ञतातथतया तथागततथता तथागततथतया सर्वाकारज्ञतातथता, इति हि सर्वाकारज्ञतातथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. इयं सा सुभूते तथागततथतायां तथताम् आगम्य तथागतो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस् तथागत इति नामधेयं लभते. अस्मिन् खलु पुनस् तथतापरिवर्ते भाष्यमाणे, यं त्रिसाहस्रमहासाहस्रलोकधातुः षड्विकारम् अष्टादशमहानिमित्तं कम्पते प्रकम्पते संप्रकम्पते, चलति प्रचलति संप्रचलति, वेधते प्रवेधते संप्रवेधते, रणति प्ररणति संप्ररणति, क्षुभ्यति प्रक्षुभ्यति संप्रक्षुभ्यति, गर्जति प्रगर्जति संप्रगर्जति, पूर्वा दिग् उन्नमति पश्चिमा दिग् अवनमति, पश्चिमा दिग् उन्नमति पूर्वा दिग् अवनमति, उत्तरा दिग् उन्नमति दक्षिणा दिग् अवनमति, दक्षिणा दिग् उन्नमति उत्तरा दिग् अवनमति, अन्ताद् उन्नमति
मध्याद् अवनमति, मध्याद् उन्नमति अन्ताद् अवनमति.
अथ खलु कामावचरा रूपावचराश् च देवपुत्रा दिव्यैश् चन्दनचूर्णैर् भगवन्तं सुभूतिस्थविरं चाभ्यवकिरन्न् एवं च वाचम् अभाषन्त, आश्चर्यं भगवन् यावद् अयं सुभूतिस्थविरस् तथागततथतया तथागतम् अनुजातः. इत्य् अगतिस्वभावः
अथ खलु सुभूतिस्थविरस् तेषां देवपुत्राणां ताम् एव कथाम् अनुबध्नाति स्म, इति हि देवपुत्राः सुभूतिस्थविरो न रूपम् अनुजातो न रूपस्य तथताम् अनुजातो, नान्यत्र रूपतथताया अनुजातः, वेदना संज्ञा संस्कारा, न विज्ञानम् अनुजातो, न विज्ञानतथताम् अनुजातो, नान्यत्र विज्ञानतथताया अनुजातः न स्कन्धधात्वायतनम् अनुजातो न स्कन्धधात्वायतनतथताम् अनुजातो नान्यत्र स्कन्धधात्वायतनतथताया अनुजातः न प्रतीत्यसमुत्पादम् अनुजातो न प्रतीत्यसमुत्पादतथताम् अनुजातो, नान्यत्र प्रतीत्यसमुत्पादतथताया अनुजातः. एवं सर्वपारमिताः सर्वशून्यताः सप्तत्रिंशद्बोधिपक्ष्या धर्मा आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयः सर्वविमोक्षसमाधिसमापत्तिधारणीमुखशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः, (प्स्प्_4:124) न सर्वाकारज्ञताम् अनुजातो, न सर्वाकारज्ञतातथताम् अनुजातो, नान्यत्र सर्वाकारज्ञतातथताया अनुजातः. नासंस्कृतम् अनुजातो, नासंस्कृततथताम् अनुजातो, नान्यत्र संस्कृततथताया अनुजातः. तत् कस्य हेतोः? तथा हि ते धर्मा न संविद्यन्ते नोपलभ्यन्ते यो वानुजायेत येन वानुजायेत, यो वानुजन्येत येन वानुजन्येत. इत्य् अजातिस्वभावः
अथ खल्व् आयुष्माच् छारिपुत्रो भगवन्तम् एतद् अवोचत्: गम्भीरेयं भगवंस् तथता अवितथता अनन्यतथता धर्मता धर्मधातुस्थितिता धर्मनियामता भूतकोटिर्, यत्र न रूपम् उपलभ्यते न रूपतथता, यदा रूपम् एव नोपलभ्यते कुतः पुना रूपतथतोपलप्स्यते, यत्र न वेदना न संज्ञा न संस्कारा, यत्र न विज्ञानम् उपलभ्यते न विज्ञानतथता, यदा विज्ञानम् एव नोपलभ्यते कुतः पुनर् विज्ञानतथतोपलप्स्यते. यत्र न स्कन्धधात्वायतनान्य् उपलभ्यन्ते न स्कन्धधात्वायतनतथता, यदा स्कन्धधात्वायतनान्य् एव नोपलभ्यते, कुतः पुनः स्कन्धधात्वायतनतथतोपलप्स्यते. यत्र न प्रतीत्यसमुत्पादो न प्रतीत्यसमुत्पादाङ्गानि चोपलभ्यन्ते न प्रतीत्यसमुत्पादतथता न प्रतीत्यसमुत्पादाङ्गतथता वा, यदा प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गान्य् एव वा नोपलभ्यते, कुतः पुनः प्रतीत्यसमुत्पादतथता प्रतीत्यसमुत्पादाङ्गतथता वोपलप्स्यते. एवं सर्वपारमिताः सर्वशून्यताः सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि सप्तत्रिंशद्बोधिपक्ष्या धर्माः, आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा, यत्र न सर्वाकारज्ञतोपलभ्यते, न सर्वाकारज्ञतातथता, यदा सर्वाकारज्ञतैव नोपलभ्यते, कुतः पुनः सर्वाकारज्ञतातथतोपलप्स्यते.
भगवान् आह: एवम् एतच् छारिपुत्र एवम् एतद्, गम्भीरेयं शारिपुत्र तथता, यत्र न रूपम् उपलभ्यते, न रूपस्य तथतोपलभ्यते, रूपम् एव नोपलभ्यते कुतः पुना रूपस्य तथतोपलप्स्यते, यत्र न वेदना न संज्ञा न संस्कारा, न विज्ञानम् उपलभ्यते न विज्ञानस्य तथतोपलभ्यते विज्ञानम् एव नोपलभ्यते कुतो विज्ञानस्य तथतोपलप्स्यते. (प्स्प्_4:125) यत्र न स्कन्धधात्वायतनप्रतीत्यसमुत्पादा उपलभ्यन्ते न स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य तथतोपलभ्यते, स्कन्धधात्वायतनप्रतीत्यसमुत्पाद एव नोपलप्स्यते, कुतः पुनः स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य तथतोपलप्स्यते. एवं यावन् न सर्वाकारज्ञतोपलभ्यते न सर्वाकारज्ञतायास् तथतोपलभ्यते सर्वाकारज्ञतैव नोपलभ्यते, कुतः पुनः सर्वाकारज्ञतायास् तथतोपलप्स्यते. अस्यां खलु पुनः शारिपुत्र तथतायाम् अवितथतायाम् अनन्यतथतायां भाष्यमाणायां भिक्षुशतद्वयस्यानुपादायास्रवेभ्यश् चित्तानि विमुक्तानि, पञ्चानां भिक्षुणीशतानां विरजो विगतमलं धर्मेषु धर्मचक्षुर् विशुद्धं, पञ्चानां बोधिसत्त्वसहस्राणाम् अनुत्पत्तिकधर्मेषु क्षान्तिप्रतिलम्भो ऽभूत्, षष्टेश् च बोधिसत्त्वानां महासत्त्वानां परिहाणधर्मकाणाम् अनुपादायास्रवेभ्यश् चित्तानि विमुक्तानि.
अथ खल्व् आयुष्मान् शारिपुत्रस् तेषां बोधिसत्त्वानाम् अनुपादायास्रवेभ्यश् चित्तानि विमुक्तानि विदित्वा भगवन्तम् एतद् अवोचत्: को भगवन् हेतुः कः प्रत्ययो यद् एतेषां बोधिसत्त्वानां महासत्त्वानाम् अनुपादायास्रवेभ्यश् चित्तानि विमुक्तानि?
भगवान् आह: एतैश् च शारिपुत्र बोधिसत्त्वैः पञ्चबुद्धशतानि पर्युपासितानि सर्वत्र च दानं दत्तं शीलं रक्षितं क्षान्त्या संपादितं वीर्यम् आरब्धं ध्यानान्य् उत्पादितानि प्रज्ञा भाविता, ते प्रज्ञापारमितया विरहितत्वाद् उपायकौशल्येन चापरिगृहीतत्वाद् एवं चरिताः, वयं दानं ददामो वयं शीलं रक्षामो वयं क्षान्त्या संपादयामो वयं वीर्यम् आरभामहे वयं ध्यानं समापद्यामहे वयं प्रज्ञां भावयामः, ते प्रज्ञापारमिताविरहितत्वाद् अनुपायकौशलेन दानं शीलं क्षान्तिं वीर्यं ध्यानं प्रज्ञां भावयामासुः, ते नानात्वसंज्ञायां चरन्तो नानात्वोपलब्ध्या बोधिसत्त्वनियामं नावक्रामन्ति, ते बोधिसत्त्वनियामम् अनवक्रामन्तः स्रोतआपत्तिफलं प्राप्ता यावद् अर्हत्त्वं प्राप्ताः, किं चापि शारिपुत्र बोधिसत्त्वानां महासत्त्वानाम् अस्ति मार्गः शून्यता वा निमित्तं वा प्रणिहितं वा ते प्रज्ञापारमितया विरहिता उपायकौशल्येन चापरिगृहीता भूतकोटिं साक्षात्कृत्वा श्रावक भवन्ति.
(प्स्प्_4:126)
शारिपुत्र आह: केन कारणेन भगवंस् तैर् एवं शून्यतानिमित्ताप्रणिहितैर् धर्मैः सुभावितैः प्रज्ञापारमितया विरहिता उपायकौशल्येन चापरिगृहीता भूतकोटिं साक्षात्कृत्वा श्रावका भवन्ति. बोधिसत्त्वाः पुनर् भगवंस् तैर् एवं शून्यतानिमित्ताप्रणिहितैर् धर्मैः सुभावितैः प्रज्ञापारमिताम् उपायकौशल्यं चागम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्यन्ते?
भगवान् आह: इह शारिपुत्र एकः सर्वाकारज्ञताचित्तेन विरहितः, शून्यतानिमित्ताप्रणिहितान् धर्मान् भावयन्न् उपायकौशल्यम् अनागम्य श्रावको भवति. अपरः पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताचित्तेनाविरहितः शून्यतानिमित्ताप्रणिहितान् धर्मान् भावयन्न् उपायकौशलेन बोधिसत्त्वनियामम् अवक्रामत्य् अनुत्तरां च सम्यक्संबोधिम् अभिसंबुद्ध्यते. तद्यथापि नाम शारिपुत्र पक्षिणः शकुनेर् योजनशतिको वा आत्मभावो भवेद्, द्वियोजनशतिको वा त्रियोजनशतिको वा चतुर्योजनशतिको वा आत्मभावो भवेत्, स देवेभ्यस् त्रयस्त्रिंशेभ्यो जम्बूद्वीपम् आगन्तव्यं मन्येत, स च पक्षी शकुनिर् अपक्षो भवेत्, स देवेभ्यस् त्रयस्त्रिंशेभ्य आत्मानं परिमोक्तव्यं मन्येत जम्बूद्वीपं गमिष्यामीति. अथ तस्य पक्षिणः शकुनेर् अर्धपतितस्यल्तद् अभवत्, अहो बताहं देवेषु त्रयस्त्रिंशेषु प्रतितिष्ठेयम् इति. तत् किं मन्यसे शारिपुत्रापि नु स पक्षी शकुनिः प्रतिबलः, पुनर् एव देवेषु त्रयस्त्रिंशेषु प्रतिष्ठातुम्?
शारिपुत्र आह: नो भगवन्.
भगवान् आह: सचेत् पुनर् अस्यान्तरे, एवं भवेद्, अहो बताहम् अक्षतो ऽनुपहतो जम्बूद्वीपे प्रतितिष्ठेयम् इति. तत् किं मन्यसे शारिपुत्रापि नु स पक्षी शकुनिर् अक्षतो ऽनुपहतो जम्बूद्वीपे प्रतितिष्ठेत्?
शारिपुत्र आह: नो भगवन्, क्षतश् चासौ भगवन्न् उपहतश् चाप्राप्त एव जम्बूद्वीपं मरणं निगच्छेत्. तत् कस्य हेतोः? एवम् एतद् भवति भगवन् यस्य महांश् चात्मभावो भवति, अजातपक्षश् च दूराच् च विप्रकृष्टात् प्रपतति.
भगवान् आह: एवम् एव शारिपुत्र किञ् चापि बोधिसत्त्वो महासत्त्वो गङ्गानदीवालुकोपमान् कल्पान् अवगम्य दानं ददाति शीलं रक्षति क्षान्त्या संपादयति वीर्यम् आरभते ध्यानं समापद्यते, तस्य च महत् प्रस्थानं महांश् चित्तोत्पादो ऽप्रमाणपरिग्रहो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, स च प्रज्ञापारमितयोपायकौशलेनैव (प्स्प्_4:127) विरहितः श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतति. तत् कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञताविरहितेन चित्तेन दानं दत्तं भवति शीलं रक्षितं क्षान्त्या संपादितं वीर्यम् आरब्धं ध्यानान्य् उत्पादितानि स च बोधिसत्त्वः प्रज्ञापारमितयोपायकौशलेन च विरहितो ऽभूत्, तेन स श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतति. किञ् चापि स शारिपुत्र बोधिसत्त्वो ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनं समन्वाहरति आराधयति निमित्तीकरोति, न च स तथागतानां शीलं जानाति समाधिं जानाति प्रज्ञां जानाति विमुक्तिं जानाति विमुक्तिज्ञानदर्शनं जानाति, सो ऽजानन् न बुध्यमानः शून्यतायाम् आनिमित्ते प्रणिहिते वा शान्तिं शृणोति स तां शान्तिं निमित्तीकरोति निमित्ततश् चानुत्तरायै सम्यक्संबोधये परिणामयति. एवं हि परिणामयन् बोधिसत्त्वः स्थास्यति श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा. तत् कस्य हेतोः? एवम् एतच् छारिपुत्र यः प्रज्ञापारमितयोपायकौशलेन च विरहितो भवति, न च कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये परिणामयति, स श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतति. इति तथतानुपलम्भस्वभावः
इत्य् उक्तं स्वभावलक्षणम्
यः पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताचित्तेनाविरहितो दानं ददाति शीलं रक्षति क्षान्त्या संपादयति वीर्यम् आरभते ध्यानानि च समापद्यते न च निमित्तीकरोति, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयति न च निमित्तीकरोति यावत् सर्वाकारज्ञतां भावयति न च निमित्तीकरोति. इति सामान्येन मोक्षभागीयम्
स च प्रज्ञापारमितयोपायकौशल्येन चाविरहितस् त्रैयध्विकान् बुद्धान् समन्वाहरति, तेषां चातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतयश् च शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः, तत्सर्वं न निमित्तीकरोति न शून्यतासमाधिं निमित्तीकरोति आनिमित्तसमाधिम् अप्रणिहितसमाधिं न निमित्तीकरोति वेदितव्यम् एतच् छारिपुत्र नायं बोधिसत्त्वो महासत्त्वः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ (प्स्प्_4:128) वा स्थास्यतीति, अक्षतो ऽनुपहतो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. इति श्रद्धात्मकं मोक्षभागीयम्
तत् कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादाय दानं दत्तं न च निमित्तीकृतं, शीलं रक्षितं क्षान्त्या संपादितं वीर्यम् आरब्धं ध्यानं समापन्नं प्रज्ञा भाविता न च निमित्तीकृता, अतितानागतप्रत्युत्पन्नानां बुद्धानां भगवतां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनानि न निमित्तीकृतानि, इदं शारिपुत्र बोधिसत्त्वानां महासत्त्वानां तद् उपायकौशल्यं यन् निमित्तविरहितेन चित्तेन दानं ददाति शीलं रक्षति क्षान्त्या संपादयति वीर्यम् आरभते ध्यानं समापद्यते प्रज्ञां भावयति. स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयति, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तीर् भावयति, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि समापद्यते, शून्यतानिमित्ताप्रणिहितानि भावयति न च निमित्तीकरोति, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् भावयति यावत् सर्वाकारज्ञतायां चरति न च निमित्तीकरोति. इति वीर्यात्मकं मोक्षभागीयम्
शारिपुत्र आह: यथाहं भगवन् भगवतो भाषितस्यार्थम् आजानामि, यो भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया चोपायकौशल्येन चाविरहिताशयस् तस्यानुत्तरा सम्यक्संबोधिः. इति स्मृत्यात्मकं मोक्षभागीयम्
तत् कस्य हेतोः? तथा हि भगवन् तेन बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादाय न कश्चिद् धर्म उपलब्धो यो ऽभिसंबुध्येत येन चाभिसंबुध्येत यं चाभिसंबुध्येत रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादो वा प्रतीत्यसमुत्पादाङ्गानि वा सर्वपारमिता वा सर्वशून्यता वा सप्तत्रिंशद्बोधिपक्ष्या वा धर्मा आर्यसत्यानि वा अप्रमाणध्यानारूप्यसमापत्तयो वा सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि वा शून्यतानिमित्ताप्रणिहितानि वा अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिका वा बुद्धधर्माः सर्वाकारज्ञता वा. ये पुनर् इमे भगवन् बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् च प्रज्ञापारमिताविरहिता उपायकौशल्यविरहिताश् च संशयस् तेषां प्रतिकाङ्क्षितव्यो (प्स्प्_4:129) ऽनुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? तथा हि भगवंस् तैर् बोधिसत्त्वयानिकैः कुलपुत्रैः कुलदुहितृभिर् वा प्रज्ञापारमितोपायकौशल्यविरहितैर् यद्यद् एव दानं दत्तं तत्सर्वं निमित्तीकृत्य दत्तम्, एवं यद्यद् एव शीलं रक्षितं क्षान्त्या संपादितं वीर्यम् आरब्धं ध्यानं समापन्नं, या चैव प्रज्ञा व्यवचारिता सा सर्वा निमित्तीकृत्य व्यवचारिता. तस्मात् संशयस् तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितृणां चानुत्तरायाः सम्यक्संबोधेः प्रतिकाङ्क्षितव्यः. तस्मात् तर्हि भगवन् बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन प्रज्ञापारमितोपायकौशल्याविरहितेन भवितव्यं, प्रज्ञापारमितायाम् उपायकौशल्येन स्थित्वानुपलम्भयोगेन आनिमित्तसहगतेन चित्तेन दानं दातव्यं शीलं रक्षितव्यं क्षान्त्या संपादयितव्यं वीर्यम् आरब्धव्यं ध्यानं समापत्तव्यं प्रज्ञा भावयितव्या. आनिमित्तसहगतेन चित्तेन अध्यात्मशून्यता भावयितव्या, यावद् अभावस्वभावशून्यता भावयितव्या. आनिमित्तसहगतेन चित्तेन स्मृत्युपस्थानानि भावयितव्यानि. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि, आनिमित्तसहगतेन चित्तेनार्याष्टाङ्गो मार्गो भावयितव्यः. आनिमित्तसहगतेन चित्तेनाप्रमाणध्यानारूप्यसमापत्तयः समापत्तव्याः. आनिमित्तसहगतेन चित्तेनार्यसत्यानि भावयितव्यानि. आनिमित्तसहगतेन चित्तेन सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि भावयितव्यानि. आनिमित्तसहगतेन चित्तेन अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा भावयितव्याः, आनिमित्तसहगतेन चित्तेन सर्वाकारज्ञतायां चरितव्यम्.
मूल पाठ: Pañcaviṃśatisāhasrikā Prajñāpāramitā, 1-8 · Edition: Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0