पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता · भाग 6180
शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते अनुत्पन्नेन धर्मेण उत्पन्ना प्राप्तिः प्राप्यते, अथ उत्पन्नेन धर्मेण अनुत्पन्ना प्राप्तिः प्राप्यते?
सुभूतिर् आह: नाहम् आयुष्मन् शारिपुत्र उत्पन्नेन धर्मेण अनुत्पन्नां प्राप्तिं प्राप्यमाणाम् इच्छामि, नाप्य् अनुत्पन्ने नोत्पन्नां प्राप्तिं प्राप्यमाणाम्.
शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते अनुत्पन्नेन धर्मेण प्राप्तिम् इच्छसि, अथ वोत्पन्नेन धर्मेण प्राप्तिम् इच्छसि?
सुभूतिर् आह: नाहम् आयुष्मन् शारिपुत्र अनुत्पन्नेन धर्मेण प्राप्तिम् इच्छामि, नाप्य् उत्पन्नेन धर्मेण प्राप्तिम् इच्छामि.
शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते नास्ति प्राप्तिर् नास्त्य् अभिसमयः?
सुभूतिर् आह: अस्त्य् आयुष्मन् शारिपुत्र प्राप्तिर् अस्त्य् अभिसमयो न पुनर् द्वयम्, अपि तु खलु पुनर् आयुष्मन् शारिपुत्र लोकव्यवहारेण प्राप्तिश् चाभिसमयश् च प्रज्ञप्यते लोकव्यवहारेण स्रोतआपन्नो वा सकृदागामी वा अनागामी वा अर्हन् वा प्रत्येकबुद्धो वा बोधिसत्त्वो वा बुद्धो वा प्रज्ञप्यते न पुनः परमार्थेन प्राप्तिर् नाभिसमयो न स्रोतआपन्नो न सकृदागामी नानागामी नार्हन् न प्रत्येकबुद्धो न बोधिसत्त्वो न बुद्धः.
शारिपुत्र आह: अनुत्पन्नो धर्म इत्य् आयुष्मन् सुभूते प्रतिभाति मन्त्रयितुम्.
सुभूतिर् आह: अनुत्पन्नो धर्मो ऽनुत्पन्नो धर्म इत्य् आयुष्मन् शारिपुत्र यद् वदसि प्रतिभाति मन्त्रयितुम् इति, अनुत्पादो ऽपि ये आयुष्मन् शारिपुत्र प्रतिभाति मन्त्रयितुम्. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र यश् चानुत्पन्नो धर्मो यच् च प्रतिभानं ये च मन्त्रा या चानुत्पत्तिः सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
शारिपुत्र आह: अनुत्पादो ऽप्य् आयुष्मन् सुभूते मन्त्रः, अनुत्पादः प्रतिभानम् अनुत्पादो धर्मस् ते ऽपि धर्मा अनुत्पन्ना यान् आरभ्य प्रतिभाति मन्त्रयितुम्.
सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र अनुत्पादो मन्त्रः, अनुत्पादः प्रतिभानम् अनुत्पादो धर्मस् ते ऽपि धर्मा अनुत्पन्ना, यान् आरभ्य प्रतिभाति मन्त्रयितुम्. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र रूपम् अनुत्पादः, एवं वेदना संज्ञा संस्कारा विज्ञानम् अनुत्पादः, एवं व्यस्तसमस्ताः स्कन्धधातव आयतनानि प्रतीत्यसमुत्पादः पारमिताः सप्तत्रिंशद् बोधिपक्षा धर्माः सर्वशून्यता अप्रमाणध्यानारूप्यसमापत्तयः, अभिज्ञासमाधयो धारणीमुखानिबलानि वैशारद्यानि प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अनुत्पादः, स्रोतआपन्नः सकृदागामी अनागामी अर्हन् प्रत्येकबुद्धो बोधिसत्त्वः सर्वज्ञः सर्वाकारज्ञः सर्वाकारज्ञताप्य् अनुत्पादः.
शारिपुत्र आह: एवम् एतद् आयुष्मन् सुभूते अनुत्पादो मन्त्रः, ( प्स्प्1-2: 166 ) अनुत्पादः प्रतिभानम् अनुत्पादो धर्मस् ते ऽपि धर्मा अनुत्पन्ना यान् आरभ्य प्रतिभाति मन्त्रयितुं, यावत् स्कन्धधात्वायतनप्रतीत्यसमुत्पदपारमिताबोधिपक्षा धर्माः सर्वशून्यता सर्वधारणीमुखानि सर्वसमाधयो बलवैशारद्यप्रतिसंविद आवेणिकबुद्धधर्माः पेयालं, यावत् सर्वाकारज्ञताप्य् अनुत्पादाः.
शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते यथैव लोकव्यवहारेण प्राप्तिश् चाभिसमयश् च, एवं पञ्चाणां गतीनां संभेदो भवति लोकव्यवहारेण परमार्थतो न भवति.
सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्रैवम् एतत्, यथैव लोकव्यवहारेण प्राप्तिश् चाभिसमयश् च तथैव लोकव्यवहारेण पञ्चाणां गतीनां संभेदो भवति नात्र खलु पुनः परमार्थेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र परमार्थे न कर्म न विपाको नोत्पादो न निरोधो न संक्लेशो न व्यवदानम्.
शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते ऽनुत्पन्नो धर्म उत्पद्यते उताहो उत्पन्नो धर्म उत्पद्यते.
सुभूतिर् आह: नाहम् आयुष्मन् शारिपुत्र उत्पन्नस्य धर्मस्य उत्पादम् इच्छामि नाप्य् अनुत्पन्नस्य धर्मस्य उत्पादम् इच्छामि.
शारिपुत्र आह: कतमस्यायुष्मन् सुभूते अनुत्पन्नस्य धर्मस्योत्पादं नेच्छसि?
सुभूतिर् आह: रूपस्याहम् आयुष्मन् शारिपुत्र अनुत्पन्नस्य धर्मस्य स्वभावशून्यस्योत्पादं नेच्छामि, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्याहम् आयुष्मन् शारिपुत्र अनुत्पन्नस्य धर्मस्य स्वभावशून्यस्योत्पादं नेच्छामि, एवं व्यस्तसमस्तानां स्कन्धधात्वायतनानां प्रतीत्यसमुत्पादस्य पारमितानां बोधिपक्षाणां धर्माणाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् अभिज्ञानां सर्वशून्यतानां सर्वसमाधीनां धारणीमुखानां बलानां वैशारद्यानां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां बोधेर् अप्य् अहम् आयुष्मन् शारिपुत्र अनुत्पापन्नायाः स्वभावशून्याया उत्पादं नेच्छामि.
शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते उत्पाद उत्पद्यते अथानुत्पाद उत्पद्यते?
सुभूतिर् आह: न ह्य् आयुष्मन् शारिपुत्र उत्पाद उत्पद्यते नाप्य् अनुत्पाद उत्पद्यते. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र यश् चोत्पादो यश् ( प्स्प्1-2: 167 ) चानुत्पादो द्वाव् अप्य् एतौ धर्मौ न संयुक्तौ न विसंयुक्तौ अरूपिणौ अनिदर्शनौ अप्रतिघौ एकलक्षणौ यद् उतालक्षणौ.
अनेनायुष्मन् शारिपुत्र पर्यायेण नोत्पाद उत्पद्यते नाप्य् अनुत्पाद उत्पद्यते.
अनेनायुष्मन् शारिपुत्र पर्यायेण अनुत्पादो मन्त्रो ऽनुत्पादः प्रतिभानम्, अनुत्पादो धर्मस् ते ऽपि धर्मा अनुत्पन्ना यान् आरभ्य प्रतिभाति मन्त्रयितुम्.
शारिपुत्र आह: धर्मकथिकानाम् आयुष्मान् सुभूतिर् अग्रतायां स्थापयितव्यः. तत् कस्य हेतोः? तथा हि आयुष्मान् सुभूतिर् यद् यद् एव परिप्रश्नीक्रियते ततस् तत एव निःसरति.
सुभूतिर् आह: धर्मतैषा आयुष्मन् शारिपुत्र तथागतश्रावकाणाम् अनिश्रितसर्वधर्माणां ते यतो यत एव परिपृच्छ्यन्ते ततस् तत एव निःसरन्ति. तत् कस्य हेतोः? यथापि नामानिश्रितत्वात् सर्वधर्माणाम्.
शारिपुत्र आह: कथम् आयुष्मन् सुभूते अनिश्रिताः सर्वधर्माः?
सुभूतिर् आह: रूपम् आयुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, वेदना संज्ञा संस्कारा, विज्ञानम् आयुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते.
चक्षुर् आयुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, एवं श्रोत्रं घ्राणं जिह्वा कायो मन आयुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते.
दानपारमितापि आयुष्मन् शारिपुत्र प्रकृतिशून्या सा नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिताप्य् आयुष्मन् शारिपुत्र प्रकृतिशून्या सा नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
अध्यात्मशून्यता प्रकृतिशून्या सा नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते, एवं बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता प्रकृतिशून्या सा नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
स्मृत्युपस्थानानि प्रकृतिशून्यानि तानि नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते, एवं सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियाणि ( प्स्प्1-2: 168 ) बलानि बोध्यङ्गानि आर्याष्टाङ्गो मार्गः प्रकृतिशून्यः स नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
एवम् अप्रमाणध्यानारूप्यसमापत्त्यभिज्ञासमाधिधारणीमुखबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः प्रकृतिशून्यास् ते नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
अनेनायुष्मन् शारिपुत्र पर्यायेण सर्वधर्मा अनिश्रिताः, प्रकृतिशून्यताम् उपादाय. एवं हि आयुष्मन् शारिपुत्र बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता रूपं परिशोधयितव्यं, वेदना संज्ञा संस्कारा विज्ञानं परिशोधयितव्यम्, एवं व्यस्तसमस्ताः स्कन्धा धातवः, आयतनानि प्रतीत्यसमुत्पादः सर्वपारमिताः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि सप्तत्रिंशद् बोधिपक्ष्या धर्माः, अप्रमाणध्यानारूप्यसमापत्तयो ऽभिज्ञादशबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः परिशोधयितव्याः, यावत् सर्वाकारज्ञता परिशोधयितव्या.
इति सर्वाकारज्ञतानिर्याणम्
शारिपुत्र आह: कथम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः षट्पारमितासु चरन् बोधिसत्त्वमार्गं परिशोधयति?
सुभूतिर् आह: अस्त्य् आयुष्मन् शारिपुत्र दानपारमिता लौकिकी अस्ति लोकोत्तरा, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता अस्ति प्रज्ञापारमिता लौकिकी अस्ति लोकोत्तरा.
शारिपुत्र आह: कतमा आयुष्मन् सुभूते दानपारमिता लौकिकी कतमा लोकोत्तरा?
सुभूतिर् आह: लौकिकी आयुष्मन् शारिपुत्र दानपारमिता इह बोधिसत्त्वो महासत्त्वो दायको भवति दानपतिः, श्रमणब्राह्मणकृपणवनीपकाध्वगेभ्यो याचनकेभ्यो दाता भवति, अन्नार्थिकेभ्यो ऽन्नं ददाति, पानयानवसनगन्धमाल्यविलेपनपुष्पधूपचूर्णवासोपाश्रयप्रतिश्रयजीवितोपकरणशयनासनभैषज्यार्थिकेभ्यो ऽन्नपानयानवसनशयनासनगन्धमाल्यविलेपनपुष्पधूपचूर्णवासोपाश्रयप्रतिश्रयान्यतरान्यतरजीवितपरिष्कारोपकरणभैषज्यदाता भवति, पुत्रार्थिकेभ्यः पुत्रं ददाति, दुहित्र्यर्थिकेभ्यो दुहितरं ददाति, भार्यार्थिकेभ्यो भार्यां ददाति, राष्ट्रार्थिकेभ्यो राज्यानि ददाति, शिरो ऽर्थिकेभ्यः शिरो ददाति, अङ्गार्थिकेभ्यो ऽङ्गानि ददाति, मांसशोणितमज्जार्थिकेभ्यो मांसशोणितमज्जानो ददाति, तच् च संनिश्रितं परित्यजति, ( प्स्प्1-2: 169 ) तस्यैवं भवति, अहं ददामि एष परिगृह्णीते इदं दानम् अहं निर्मत्सरः सर्वस्वं परित्यजामि, अहं बुद्धाज्ञां करोमि, अहं दानपारमितायां चरामि, अहम् एतद् दानं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयामि तच् चानुपलम्भयोगेन, अनेन च दानेन दानफलेन च सर्वसत्त्वा दृष्ट एव धर्मे सुखिता भवन्तु अनुपादाय परिनिर्वान्तु, स त्रिभिः सङ्गैः सक्तो दानं ददाति, कतमैस् त्रिभिर्? यद् उतात्मसंज्ञया परसंज्ञया दानसंज्ञया च एभिस् त्रिभिः सङ्गैः सक्तो दानं ददाति, इयम् उच्यते लौकिकी दानपारमितेति. तथा हि आयुष्मन् शारिपुत्र लोकतो न चलति नोच्चलति न संक्रामति, तेनोच्यते लौकिकी दानपारमितेति.
तत्र कतमा लोकोत्तरा दानपारमिता? यद् उत त्रिमण्डलपरिशुद्धिः. तत्र कतमा त्रिमण्डलपरिशुद्धिः? इह बोधिसत्त्वो महासत्त्वो दानं ददन् नात्मानम् उपलभते प्रतिग्राहकं नोपलभते दानं च नोपलभते, तद् विपाकं च नोपलभते, इयम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य त्रिमण्डलपरिशुद्धिः.
पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो दानं ददन् सर्वसत्त्वेभ्यस् तद् दानं निर्यातयति, सत्त्वांश् च नोपलभते, आत्मानं च नोपलभते, तच् च दानम् अनुत्तरायै सम्यक्संबोधये परिणामयति, न च बोधिम् उपलभते. इयम् उच्यते लोकोत्तरा दानपारमितेति.
केन कारणेनोच्यते लोकोत्तरा दानपारमितेति? तथा ह्य् आयुष्मन् शारिपुत्र लोकाच् चलति उच्चलति संक्रामति, तेन कारणेनोच्यते लोकोत्तरा दानपारमितेति, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता.
शारिपुत्र आह: कतमायुष्मन् सुभूते प्रज्ञापारमिता लौकिकी, कतमा लोकोत्तरा?
सुभूतिर् आह: लौकिकी आयुष्मन् शारिपुत्र प्रज्ञापारमिता, इह बोधिसत्त्वो महासत्त्वो दानं ददाति उपलम्भनिश्रितो मात्सर्यचित्तं मया निग्रहीतव्यम् इति, तच् चात्मसत्त्वदानसंज्ञानिश्रितः सर्वस्वं परित्यजति बाह्यं वा अध्यात्मिकं वा वस्तु उपात्तं वा अनुपात्तं वा नास्ति किंचिद् यं न परित्यजति, तच् च कुशलमूलं बोधये परिणामयति सर्वसत्त्वसाधारणं कृत्वा उपलम्भनिश्रितः,
स शीलं सेवते धूतगुणप्रतिष्ठितः, कायवाक्चित्तोपलम्भनिश्रितस् ( प्स्प्1-2: 170 ) तांश् च दश कुशलान् कर्मपथान् सेवमानः, आत्मदृष्ट्यां सत्त्वदृष्ट्यां कुशलदृष्ट्यां निश्रितो बोधिम् उपलभ्य सर्वसत्त्वसाधारणानि शीलानि बोधये परिणामयति तच् चोपलम्भेन, आत्मानम् उत्कर्षयति परान् पंसयति.
स सर्वसत्त्वानां दुष्कृतानि क्षमते, आत्मसत्त्वक्षान्तिदृष्टिनिश्रितस् तच् च कुशलमूलम् अनुत्तरायै सम्यक्संबोधये परिणामयति सर्वसत्त्वसाधारणं कृत्वा उपलम्भयोगेन.
स वीर्यम् आरभते कायम् उपलम्भमानश् चित्तम् उपलम्भमानः पुण्यसंभारम् उपलम्भमानः, ज्ञानसंभारम् उपलम्भमानः, आत्मानम् उपलम्भमानः, बोधिम् उपलम्भमानस् तेन च वीर्यारम्भेन मन्यते, तच् च सर्वसत्त्वसाधारणं कृत्वा उपलम्भयोगेनानुत्तरायै सम्यक्संबोधये परिणामयति.
स मैत्रीकरुणामुदितोपेक्षां भावयति ध्यानसमापत्तीः समापद्यते व्युत्तिष्ठते च ता आस्वादयति, ता आस्वादयन् मन्यते सर्वसत्त्वसाधारणानि च कुशलमूलानि उपलम्भदृष्टिको बोधाय परिणामयति. इयम् उच्यते लौकिकी प्रज्ञापारमिता.
स शून्यतां भावयन् रूपं शून्यम् इत्य् उपलभते, वेदना संज्ञा संस्कारान् विज्ञानं शून्यम् इत्य् उपलभते, यावद् बुद्धबोधिं चोपलभते उपलम्भयोगेन, तानि कुशलमूलानि सर्वसत्त्वसाधारणानि कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, तं चोपलम्भयोगेन, सर्वपापं प्रतिदेशयत्य् उपलम्भयोगेन, आत्मनश् च परेषां च पुण्यम् अनुमोदते, आत्मनश् च परस्य चार्थाय उपलभमानः सर्वबुद्धान् अध्येषयते, अनुपायेन त्रिःकृत्वः पुण्यं सर्वज्ञतायै परिणामयति सर्वसत्त्वसाधारणं कृत्वा. इयम् उच्यते लौकिकी प्रज्ञापारमिता
तत्र कतमा लोकोत्तरा प्रज्ञापारमिता? आत्मसत्त्वदेयबोध्यनुपलब्ध्या त्रिमण्डलपरिशुद्ध्या दानपारमितां परिशोधयति, बोधाय आत्मसत्त्वशीलबोध्यनुपलब्ध्या त्रिमण्डलपरिशुद्ध्या शीलपारमितां परिशोधयति, बोधाय आत्मसत्त्वक्षमाबोध्यनुपलब्ध्या त्रिमण्डलपरिशुद्ध्या क्षान्तिपारमितां परिशोधयति, बोधाय चात्मकायचित्तवीर्यपुण्यज्ञानबोध्यनुपलब्ध्या त्रिमण्डलपरिशुद्ध्या वीर्यपारमितां परिशोधयति, बोधाय आत्मसत्त्वध्यानसमाधिसमापत्तिबोध्यानुपलब्ध्या त्रिमण्डलपरिशुद्ध्या ध्यानपारमितां ( प्स्प्1-2: 171 ) परिशोधयति, बोधाय आत्मसत्त्वसर्वधर्मानुपलब्ध्या त्रिमण्डलपरिशुद्ध्या प्रज्ञापारमितां परिशोधयति, बोधाय सर्वकुशलमूलानि चानुत्तरायै सम्यक्संबोधये परिणामयति निर्विशेषपरिणामेन, अनुत्तरपरिणामेन, असमसमपरिणामेन, अचिन्त्यातुल्यपरिणामेन, अप्रमेयपरिणामेन. इयम् उच्यते लोकोत्तरा प्रज्ञापारमिता.
केन कारणेन लौकिकी? लोको याभिर् भवति, लोकं वा याभिर् निवर्तयति, लोकेन वा याः समाः, लोकाय वा याभिर् दीयते, लोकाद् वा याभिर् निःसरति, लोकस्य वा या भवाय, लोके वा भवा यास् ता लौकिकस्यः.
तत्र कतमा लोकोत्तरा? लोको याभिर् उत्तरति, लोकं वा याभिर् उत्तारयति, लोकेन वा याभिर् उत्तार्यते, आलोकाय वा या भवति, लोकाद् वा याभिर् निःसरति, लोकस्य वा या उत्तरणाय, लोके वा या उत्तरास् ता लोकोत्तरा इति.
एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् बोधिमार्गं परिशोधयति.
शारिपुत्र आह: कतम आयुष्मन् सुभूते बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः?
सुभूतिर् आह: चत्वार्य् आयुष्मन् शारिपुत्रै स्मृत्युपस्थानानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टान्गो मार्गः शून्यताविमोक्षमुखम् आनिमित्तविमोक्षमुखम् अप्रणिहितविमोक्षमुखम् अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता सर्वसमाधयः सर्वधारणीमुखानि चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा महाकरुणा. अयम् उच्यते आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः.
शारिपुत्र आह: कतमस्या आयुष्मन् सुभूते पारमिताया अयं पुरुषकारः?
सुभूतिर् आह: प्रज्ञापारमिताया आयुष्मन् शारिपुत्र अयं पुरुषकारः. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र प्रज्ञापारमिता जनयित्री सर्वेषां कुशलानां धर्माणां श्रावकप्रत्येकबुद्धधर्माणां बोधिसत्त्वधर्माणां बुद्धधर्माणां, प्रज्ञापारमिता आयुष्मन् ( प्स्प्1-2: 172 ) शारिपुत्र प्रतिग्राहिका सर्वेषां कुशलानां धर्माणां श्रावकप्रत्येकबुद्धधर्माणां बोधिसत्त्वधर्माणां, प्रज्ञापारमितायाम् आयुष्मन् शारिपुत्र शिक्षित्वा तैः पौर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा, अनागता अप्य् आयुष्मन् शारिपुत्र तथागता अर्हन्तः सम्यक्संबुद्धा इहैव प्रज्ञापारमितायां शिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते, ये ऽप्य् एतर्हि आयुष्मन् शारिपुत्र दशसु दिक्षु लोके तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं देशयन्ति, ते ऽपि सर्वे इहैव प्रज्ञापारमितायां शिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः.
सचेत् पुनर् आयुष्मन् शारिपुत्र अस्यां प्रज्ञापारमितायां भाष्यमाणायां बोधिसत्त्वस्य महासत्त्वस्य न भवति काङ्क्षायितत्वं न भवति धन्वायितत्वं वेदितव्यम् एतद् आयुअष्मन् शारिपुत्र विहरत्य् अयं बोधिसत्त्वो महासत्त्वो ऽनेन विहारेणाविरहितश् चानेन मनसिकारेण यद् उत सर्वसत्त्वपरित्राणाय सर्वसत्त्वापरित्यागमनसिकारेण महाकरुणामनसिकारेण.
शारिपुत्र आह: यद् आयुष्मन् सुभूते एवम् आह, विहरत्य् अयं बोधिसत्त्वो महासत्त्वो ऽनेन विहारेणाविरहितश् चानेन मनसिकारेणेति, एवं सत्य् आयुष्मन् सुभूते सर्वसत्त्वा अपि बोधिसत्त्व भविष्यन्ति. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् सुभूते सर्वसत्त्वा अविरहिता मनसिकारेण.
सुभूतिर् आह: साधु साधु आयुष्मन् शारिपुत्र उपालप्स्ये त्वां अर्थ एवायुष्मता शारिपुत्रेण भूतपदाभिधानेन परिगृहीतः. तत् कस्य हेतोः? सत्त्वासत्तयायुष्मन् शारिपुत्र मनसिकारासत्ता वेदितव्या, सत्त्वसून्यतया मनसिकारशून्यता वेदितव्या, सत्त्वास्वभावतया मनसिकारास्वभावता वेदितव्या, सत्त्वविविक्ततया मनसिकारविविक्तता वेदितव्या, सत्त्वानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, रूपासत्तया रूपशून्यतया रूपास्वभावतया रूपविविक्ततया रूपानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, वेदना संज्ञासंस्कारा विज्ञानासत्तया विज्ञानशून्यतया विज्ञानास्वभावतया विज्ञानविविक्ततया विज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनतावेदितव्या.
एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु सत्यबोधिपक्ष्यधर्मपारमिताप्रमाणध्यानारूप्यसमापत्तिष्व् अभिज्ञासु सर्वशून्यतासु सर्वसमाधिषु सर्वधारणीमुखेषु दशबलवैशारद्यप्रतिसंवित्सु अष्टादशावेणिकेषु बुद्धधर्मेषु सर्वाकारज्ञतासत्तया सर्वाकारज्ञताशून्यतया सर्वाकारज्ञतास्वभावतया सर्वाकारज्ञताविविक्ततया सर्वाकारज्ञतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
अनेनायुष्मन् शारिपुत्र विहारेणानेन च मनसिकारणाविरहितो बोधिसत्त्वो महासत्त्व इति.
अथ खलु भगवान् आयुष्मते सुभूतये साधुकारम् अदात्: साधु साधु सुभूते, एवं हि सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितोपदेष्टव्या यथा त्वम् उपदिशसि यथापि नाम तथागतानुभावेनैवं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं यथा त्वम् उपदिशसि.
अस्मिन् खलु पुनः प्रज्ञापारमिता परिवर्ते आयुष्मता सुभूतिना भाष्यमाणे त्रिसाहस्रमहासाहस्रो लोकधातुः षड् विकारं प्रकम्पितो यावत् पूर्वोत्तरदक्षिणपश्चिमायां विदिश्य् उन्नामावनामं गच्छन्ति स्म. अथ खलु भगवांस् तस्यां वेलायां स्मितम् अकरोत्.
अथ खल्व् आय्तिष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: को भगवन् हेतुः काः प्रत्ययः स्मितस्य प्रादुर्भावाय?
भगवान् आह: यथैव सुभूते इह लोकधातौ तथागतः प्रज्ञापारमितां निर्दिशति तथैव पूर्वस्यां दिश्य् असंख्येयेष्व् अप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां भाषन्ते, एवं समन्ताद् दशसु दिक्ष्व् असंख्येयेष्व् अप्रमेयेषु लोकधातुषु बुद्धा भगवन्तो बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां निर्दिशन्ति, अस्मिन् खलु पुनः सुभूतिना प्रज्ञापारमितानिर्देशे निर्दिश्यमाने द्वादशानाम् अयुतानां देवमानुषिकायाः प्रजाया अनुत्पत्तिकधर्मक्षान्तिप्रतिलम्भो ऽभूत्, तेषाम् अपि बुद्धानां भगवतां समन्ताद् दशसु दिक्षु लोकधातुषु इमां प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां भाषमाणानाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पन्नानि.
इति मार्गनिर्याणम्
इत्य् उक्ता निर्याणप्रतिपत्तिर्
इत्य् उक्ता सर्वाकारज्ञता
आर्यपञ्चविंशतिसाहस्रिकायां भगवत्यां प्रज्ञापारमितायाम् अभिसमयालंकारानुसारेण संशोधितायां सर्वाकारज्ञताधिकारः सुभूतिपरिवर्तः प्रथमः
(प्स्प्_2-3:1)
पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता इइ
अथ खलु ये ऽस्मिंस् त्रिसाहस्रमहासाहस्रे लोकधातौ महाराजानस् ते सर्वे ऽनेकैर् देवपुत्रसहस्रैः सार्धं तत्रैव परिषदि संनिपतिता अभूवन्, एवं शक्रो देवानाम् इन्द्रो यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या यावन् महाब्रह्माणो ये चेह त्रिसाहस्रमहासाहस्रे लोकधातौ परीत्ताभा यावच् छुद्धावासकायिकाश् च देवपुत्रा अनेकैः शुद्धावासकायिकैर् देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव परिषदि संनिपतिता. यश् च तेषां चातुर्महाराजकायिकानां देवपुत्राणां कर्मविपाकजः. कायावभासः, यश् च त्रयस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां यावच् छुद्धावासकायिकानां देवपुत्राणां कर्मविपाकजः कायावभासः, स तथागतप्रकृतिप्रभायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि कोटीशतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि नोपैति, न क्षमते तथागतप्रभायाः पुरतः सा देवानां प्रभा. तथागतप्रभैवाग्राख्यते ज्येष्ठा श्रेष्ठा वरा प्रवरा प्रणीता अनुत्तरा निरुत्तरा उत्तरोत्तरा चाख्यायते. तद्यथापि नाम जम्बूनदस्य सुवर्णस्य पुरतः कृष्णलौहं न भ्राजते न तपति न विरोचते, एवम् एव तथागतस्य प्रकृतिप्रभायाः पुरतः सा देवानां कर्मविपाकजप्रभा न भ्राजते न तपति न विरोचते. तथागतप्रभैव तेषाम् अग्राख्यायते ज्येष्ठाख्यायते श्रेष्ठा वरा प्रवरा (प्स्प्_2-3:2) प्रणीता अनुत्तरा निरुत्तरा उत्तरोत्तरा चाखायते.
इति ध्यामीकरणभा देयानाम्
अथ खलु शक्रो देवानाम् इन्द्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एते भदन्त सुभूते त्रिसाहस्रमहासाहस्रे लोकधातौ ये चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो देवा यावच् छुद्धावासकायिका देवपुत्रास् ते सर्वे संनिपतिता आयुष्मतः सुभूतेः प्रज्ञापारमितानिर्देशश्रवणाय प्रज्ञापारमितोपदेशं श्रोतुकामाः. कथं च भदन्त सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्? कतमा च बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता? इति योग्यता
एवम् उक्ते, आयुष्मान् सुभूतिः शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: तेन हि कौशिक उपदेक्ष्यामि बुद्धानुभावेन बुद्धाधिष्ठानेन बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां यथा बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यं, यैश् च देवपुत्रैर् अनुत्तरायां सम्यक्संबोधौ चित्तं नोत्पादितं तैर् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयितव्यम्. ये पुनर् अवक्रान्तनियामास् ते ऽप्रतिबला अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयितुं. तत् कस्य हेतोर्? बद्धसीमानो हि ते संसारस्रोतसः.
इति विषयप्रतिनियमः
अपि तु खलु पुनस् तेषाम् अप्य् अनुमोदे ते चेद् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयेयुः. इति व्याप्तिः
नाहं तेषां कुशलपक्षस्यान्तरायं करोमि.इति स्वभावः
विशिष्टेभ्यो धर्मेभ्यो विशिष्टतमा धर्मा अध्यालम्बितव्याः.
इति कारित्रम् इत्य् उक्तानि ध्यामीकरणादीनि
तत्र कौशिक बोधिसत्त्वस्य महासत्त्वस्य कतमा प्रज्ञापारमिता, इह बोधिसत्त्वो महासत्त्वः सर्वज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः रूपम् अनित्यतो मनसिकरोति दुःखतो ऽनात्मतः शान्ततो रोगतो गण्डतः शल्यतो ऽघतः परतः प्रलोपधर्मतश् चलतः प्रभङ्गुरतो भयत उपसर्गत उपद्रवतो मनसिकरोति तच् चानुपलम्भयोगेन, वेदना संज्ञा संस्कारा विज्ञानम्. एवं चक्षुः श्रोत्रं घ्राणं जिह्वा कायो मनः, एवं पृथिवीधातुर् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुर् विज्ञानधातुम् अनित्यतो मनसिकरोति दुःखतो (प्स्प्_2-3:3) ऽनात्मतः शान्ततो रोगतो गण्डतः शल्यतो ऽघतः परतः प्रलोपधर्मतश् चलतः प्रभङ्गुरतो भयत उपसर्गत उपद्रवतो मनसिकरोति तच् चानुपलम्भयोगेन सर्वज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन. एवम् अविद्याप्रत्ययान् संस्कारान् अनित्यतो मनसिकरोति दुःखतो ऽनात्मतः शान्ततो रोगतो गण्डतः शल्यतो ऽघतः परतः प्रलोपधर्मतश् चलतः प्रभङ्गुरतो भयत उपसर्गत उपद्रवतः संस्कारप्रत्ययं विज्ञानं विज्ञानप्रत्ययं नामरूपं नामरूपप्रत्ययं षडायतनं षडायतनप्रत्ययः स्पर्शः स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा तृष्णाप्रत्ययम् उपादानम् उपादानप्रत्ययो भवो भवप्रत्यया जातिर् जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति. एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति तच् चानित्यतो दुःखतो ऽनात्मतः शान्ततो रोगतो गण्डतः शल्यतो ऽघतः परतः प्रलोपधर्मतश् चलतः प्रभङ्गुरतो भयत उपसर्गत उपद्रवतो मनसिकरोति तच् चानुपलम्भयोगेन सर्वज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन. अविद्यानिरोधात् संस्कारनिरोध इति मनसिकरोति निरात्मतः शान्ततो विविक्ततः शून्यतो ऽनिमित्ततो ऽप्रणिहिततो ऽनभिसंस्कारतः संस्कारनिरोधाद् विज्ञाननिरोधो विज्ञाननिरोधाद् नामरूपनिरोधो नामरूपनिरोधात् षडायतननिरोधः षडायतननिरोधात् स्पर्शनिरोधः स्पर्शनिरोधाद् वेदनानिरोधो वेदनानिरोधात् तृष्णानिरोधस् तृष्णानिरोधाद् उपादाननिरोध उपादाननिरोधाद् भवनिरोधो भवनिरोधाज् जातिनिरोधो जातिनिरोधाज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते. एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति तच् च निरात्मतः शान्ततो विविक्ततः शून्यतो ऽनिमित्ततो ऽप्रणिहिततो ऽनभिसंस्कारतो मनसिकरोति तच् चानुपलम्भयोगेन सर्वज्ञताप्रतिसंयुक्तैर् मनसिकारैः.
पुनर् अपरं कौशिक बोधिसत्त्वो महासत्त्वः सर्वज्ञताप्रतिसंयुक्तेन चित्तेन चत्वारि स्मृत्युपस्थानानि भावयति तच् चानुपलम्भयोगेन. एवं चत्वारि सम्यक्प्रहाणानि चतुर ऋद्धिपादान् पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टाङ्गमार्गं चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तीर् दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् (प्स्प्_2-3:4) बुद्धधर्मान् भावयति सर्वज्ञताप्रतिसंयुक्तैर् मनसिकारैस् तच् चानुपलम्भयोगेन.
पुनर् अपरं कौशिक बोधिसत्त्वो महासत्त्वः सर्वज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन दानपारमितां चरति तच् चानुपलम्भयोगेन. एवं सर्वज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरति तच् चानुपलम्भयोगेन.
पुनर् अपरं कौशिक बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवंधर्मेण धर्मान् योजयति. एवंधर्मेण धर्मान् अभिष्यन्दयन् परिष्यन्दयन् परिपूरयन् परिस्फारन् प्रत्यवेक्षते निरात्मका ह्य् एते सर्वधर्मा आत्मात्मीयविगताः. तत् कस्य हेतोस्? तथा हि यद् बोधिसत्त्वस्य महासत्त्वस्य कुशलमूलचित्तं तद् बोधिचित्तेनासमवहितं यत् परिणामनाचित्तं तद् बोधिचित्तकुशलमूलचित्ताभ्याम् असमवहितं यद् बोधिचित्तं तत् परिणामनाचित्तेनासमवहितं. तत् कस्य हेतोर्? यत् कौशिक बोधिचित्तं तत् परिणामनाचित्ते न संविद्यते नोपलभ्यते. यत् परिणामनाचित्तं तद् बोधिचित्ते न संविद्यते नोपलभ्यते. इयं कौशिक बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता यद् एवं सर्वधर्मांश् च प्रत्यवेक्षते न च कंचिद् धर्मम् अभिनिविशते नोपलभते.
एवम् उक्ते शक्रो देवानाम् इन्द्रः स्थविरं सुभूतिम् एतद् अवोचत्: कथं भदन्त सुभूते परिणामनाचित्तं बोधिचित्तेनासमवहितं? कथं बोधेश् चित्तं परिणामनाचित्तेनासमवहितं? कथं वा परिणामनाचित्ते बोधिचित्तं न संविद्यते नोपलभ्यते? कथं बोधिचित्ते परिणामनाचित्तं न संविद्यते नोपलभ्यते?
सुभूतिर् आह : यत् कौशिक परिणामनाचित्तं तद् अचित्तं यद् बोधिचित्तं तद् अचित्तं न ह्य् अचित्तताचित्ततायां परिणामयति. इति हि यद् अचित्तं तद् अचिन्त्यं यद् अचिन्त्यं तद् अचित्तम् अचित्तताचित्ततायां परिणामयति. इयं कौशिक बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता.
इति श्रावकमार्गस्य चतुःसत्यालम्बनषोडशाकारव्यवस्थानम्.
अथ खलु भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: साधु साधु (प्स्प्_2-3:5) सुभूते साधु खलु पुनस् त्वं सुभूते यस् त्वं बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिताम् उपदिशसि, उत्साहं ददासि.
सुभूतिर् आह: कृतज्ञेन मया भगवन् भवितव्यं नाकृतज्ञेन, तथा हि भगवन् पूर्वं बोधिसत्त्वचर्यां चरन् पूर्वकाणां तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् अन्तिके तैः श्रावकैः षट्सु पारमितास्व् अववदितो ऽनुशिष्टः संदर्शितः समुत्तेजितः संप्रहर्षितः समादापितो निवेशितः प्रतिष्ठापितो यतो भगवान् बोधिसत्त्वभूतः षट्सु पारमितासु शिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः. एवम् एव भगवन्न् अस्माभिर् अपि बोधिसत्त्वा महासत्त्वाः षट्सु पारमितास्व् अववदितव्या अनुशासितव्याः. संदर्शयितव्याः समादापयितव्याः समुत्तेजयितव्याः संप्रहर्षयितव्या निवेशयितव्याः प्रतिष्ठापयितव्या अस्माभिर् अपि बोधिसत्त्वा महासत्त्वा अववदिता अनुशिष्टाः संदर्शिताः समुत्तेज्जिताः संप्रहर्षिताः समादापिता निवेशिताः प्रतिष्ठापिता अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते.
अथ खल्व् आयुष्मान् सुभूतिः शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: तेन हि कौशिक शृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये यथा बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यं यथा प्रतिपत्तव्यं रूपं कौशिक रूपेण शून्यं वेदना संज्ञा संस्कारा विज्ञानं कौशिक विज्ञानेन शून्यं बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक या च रूपशून्यता, या च वेदनासंज्ञासंस्कारविज्ञानशून्यता, या च बोधिसत्त्वशून्यता, अद्वयम् एतद् अद्वैधीकारम्. एवं हि कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
पुनर् अपरं कौशिक चक्षुश् चक्षुषा शून्यम्. एवं श्रोत्रं घ्राणं जिह्वा कायो मनो मनसा शून्यं बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि या च चक्षुःशून्यता, या च श्रोत्रघ्राणजिह्वाकायमनःशून्यता, या च बोधिसत्त्वशून्यता, अद्वयम् एतद् अद्वैधीकारम्. एवं हि कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
पुनर् अपरं कौशिक पृथिवीधातुः पृथिवीधातुना शून्यः. एवम् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुर् विज्ञानधातुर् विज्ञानधातुना शून्यः बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि पृथिवीधातुशून्यता चाब्धातुशून्यता च तेजोधातुशून्यता च वायुधातुसून्यता चाकाशधातुशून्यता च विज्ञानधातुशून्यता (प्स्प्_2-3:6) च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं हि कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
पुनर् अपरं कौशिक, अविद्याविद्यया शून्या. एवं संस्कारा विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णोपादानं भवो जातिर् जरामरणं जरामरणेन सून्यम्. अविद्यानिरोधो ऽविद्यानिरोधेन शून्यः. एवं संस्कारा विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णोपादानं भवो जातिर् जरामरणनिरोधो जरामरणनिरोधेन शून्यः बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति ह्य् अविद्याशून्यता चाविद्यानिरोधशून्यता यावज् जरामरणशून्यता च जरामरणनिरोधशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं हि कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
पुनर् अपरं कौशिक दानपारमिता दानपारमितया शून्या. एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता, प्रज्ञापारमिता प्रज्ञापारमितया शून्या, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि दानपारमिताशून्यता च शीलक्षान्तिवीर्यध्यानप्रज्ञापारमिताशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्.
पुनर् अपरं कौशिक अध्यात्मशून्यताध्यात्मशून्यतया शून्या. एवं बहिर्धाशून्यताध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यताभावस्वभावशून्यतया शून्या बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति ह्य् अध्यात्मशून्यता च बहिर्धाशून्यता चाध्यात्मबहिर्धाशून्यता च यावद् अभावस्वभावशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्.
पुनर् अपरं कौशिक स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाभिज्ञार्यसत्याप्रमाणध्यानारूप्यसमापत्तिदशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अष्टादशभिर् आवेणिकैर् बुद्धधर्मैः शून्या बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि स्मृत्युपस्थानशून्यता च यावद् आवेणिकबुद्धधर्मशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्.
पुनर् अपरं कौशिक समाधिः समाधिना शून्यः. धारणीमुखानि (प्स्प्_2-3:7) धारणीमुखैः शून्यानि बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि समाधिशून्यता च धारणीमुखशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्.
पुनर् अपरं कौशिक श्रावकयानं श्रावकयानेन शून्यं प्रत्येकबुद्धयानं प्रत्येकबुद्धयानेन शून्यं महायानं महायानेन शून्यं श्रावकः श्रावकत्वेन शून्यः प्रत्येकबुद्धः प्रत्येकबुद्धत्वेन शून्यः बोधिसत्त्वो बोधिसत्त्वेन शून्यः बुद्धो बुद्धत्वेन शून्यः, इति हि श्रावकयानशून्यता च यावन् महायानशून्यता च श्रावकशून्यता च यावद् बुद्धशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं हि कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्. इत्य् उष्मगतम्
अथ खलु सक्रो देवानाम् इन्द्रः सुभूतिं स्थविरम् एतद् अवोचत्: कथं भदन्त सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यं?
सुभूतिर् आह: इह कौशिक बोधिसत्त्वेन महासत्त्वेन रूपे न स्थातव्यं न वेदनायां न संज्ञायां न संस्कारेषु विज्ञाने न स्थातव्यम् उपलम्भयोगेन. चक्षुषि न स्थातव्यं रूपे न स्थातव्यं चक्षुर्विज्ञाने न स्थातव्यं चक्षुःसंस्पर्शे न स्थातव्यं चक्षुःसंस्पर्शजायां वेदनायां न स्थातव्यम्, एवं श्रोत्रघ्राणजिह्वाकायमनसि न स्थातव्यं धर्मेषु न स्थातव्यं मनोविज्ञाने न स्थातव्यं मनःसंस्पर्शे न स्थातव्यं मनःसंस्पर्शजायां वेदनायां न स्थातव्यम् उपलम्भयोगेन. पृथिवीधातौ न स्थातव्यं अब्धातौ न स्थातव्यं तेजोधातौ न स्थातव्यं वायुधातौ न स्थातव्यम् आकाशधातौ न स्थातव्यं विज्ञानधातौ न स्थातव्यम् उपलम्भयोगेन. स्मृत्युपस्थानेषु न स्थातव्यम्. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाभिज्ञार्यसत्याप्रमाणध्यानारूप्यसमापत्तिदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु न स्थातव्यम् उपलम्भयोगेन. स्रोतआपत्तिफले न स्थातव्यम् एवं सकृदागामिफले ऽनागामिफले ऽर्हत्त्वफले प्रत्येकबुद्धत्वफले यावद् बुद्धत्वे न स्थातव्यम् उपलम्भयोगेन. इति मूर्धगतम्
रूपं नित्यम् इति न स्थातव्यम्, एवम् अनित्यम् इति सुखम् इति दुःखम् इत्य् आत्मेत्य् अनात्मेति शान्तम् इत्य् अशान्तम् इति विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यं, रूपं शून्यम् इत्य् अशून्यम् इति निमित्तम् इत्य् अनिमित्तम् इति प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन. वेदना संज्ञा संस्कारा विज्ञानं (प्स्प्_2-3:8) नित्यम् इति न स्थातव्यम् एवम् अनित्यम् इति सुखम् इति दुःखम् इत्य् आत्मेत्य् अनात्मेति शान्तम् इत्य् अशान्तम् इति विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम्. विज्ञानं शून्यम् इत्य् अशून्यम् इति निमित्तम् इत्य् अनिमित्तम् इति प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन. एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुपादाङ्गेषु पारमितासु बोधिपक्ष्येषु धर्मेष्व् अप्रमाणध्यानारूप्यसमापत्तिषु सत्याभिज्ञासु समाधिषु सर्वधारणीमुखेषु दशबलवैशारद्यप्रतिसंवित्स्व् अष्टादशावेणिकेषु बुद्धधर्मेषु यावत् सर्वाकारज्ञतायां सर्वेषु तेषु नित्यम् इति न स्थातव्यम् एवम् अनित्यम् इति सुखम् इति दुःखम् इत्य् आत्मेति अनात्मेति शान्तम् इत्य् अशान्तम् इति विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यं, शून्यम् इति अशून्यम् इति निमित्तम् इत्य् अनिमित्तम् इति प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
पुनर् अपरं कौशिक स्रोतआपत्तिफलम् असंस्कृतप्रभावितम् इति न स्थातव्यम् एवं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबुद्धत्वम् असंस्कृतप्रभावितम् इति न स्थातव्यं, बुद्धत्वम् असंस्कृतप्रभावितम् इति न स्थातव्यं. स्रोतआपन्नो दक्षिणीय इति न स्थातव्यम्, एवं सकृदागामी, अनागामी, अर्हन् प्रत्येकबुद्धस् तथागतो दक्षिणीय इति न स्थातव्यम् उपलम्भयोगेन. इति क्षान्तिगतम्
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रथमायां भूमौ न स्थातव्यम्. एवं द्वितीयायां भूमौ तृतीयायां भूमौ चतुर्थ्यां भूमौ पञ्चम्यां भूमौ षष्ठ्यां भूमौ सप्तम्यां भूमाव् अष्टम्यां भूमौ नवम्यां भूमौ दशम्यां भूमौ न स्थातव्यम् उपलम्भयोगेन. प्रथमचित्तोत्पादे स्थित्वा दानपारमितां परिपूरयिष्यामीति न स्थातव्यम्. एवं शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमितां परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन. एवं स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन. बोधिसत्त्वनियामम् अवक्रामयिष्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन. बोधिसत्त्वनियामम् अवक्रम्याविनिवर्तनीयभूमौ स्थास्यामीति, एवम् अपि बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन. पञ्चाभिज्ञाः परिपूरयिष्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन. पञ्चसु बोधिसत्त्वाभिज्ञासु स्थित्वासंख्येयान्य् अप्रमेयान्य् अपरिमाणानि बुद्धक्षेत्राण्य् उपसंक्रमिष्यामीति, (प्स्प्_2-3:9) बुद्धांश् च भगवतो दर्शनाय वन्दनाय पूजनाय पर्युपासनाय धर्मश्रवणाय च श्रुत्वा च तथत्वाय प्रतिपत्स्ये परेषां च धर्मं देशयिष्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन. यादृशानि च तेषां बुद्धानां भगवतां बुद्धक्षेत्राणि तादृशानि निष्पादयिष्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन. सत्त्वान् अनुत्तरायां सम्यक्संबोधौ परिपाचयिष्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन. अप्रमेयेष्व् असंख्येयेषु लोकधातुष्व् गत्वा तथागतान् अर्हतः सम्यक्संबुद्धान् सत्करिष्यामीति गुरुकरिष्यामीति मानयिष्यामीति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकादुष्यकोटीनियुतशतसहस्रैस् तांस् तथागतान् पूजयिष्यामीति, एवम् अपि न स्थातव्यम् अप्रमेयान् असंख्येयान् सत्त्वान् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यं. पञ्च चक्षूंषि उत्पादयिष्यामीति न स्थातव्यं मांसचक्षुर् दिव्यचक्षुः प्रज्ञाचक्षुर् धर्मचक्षुर् बुद्धचक्षुर् उत्पादयिष्यामीति न स्थातव्यं सर्वसमाधीन् निष्पादयिष्यामीति न स्थातव्यं. येन येन पुनः समाधिनाकाङ्क्षिष्यामि विक्रीडितुं तेन तेन समाधिना विक्रीडिष्यामीति न स्थातव्यं सर्वधारणीमुखानि निष्पादयिष्यामीति न स्थातव्यम्. अप्रमाणध्यानारूप्यसमापत्तिर् निष्पादयिष्यामीति न स्थातव्यम्. दशतथागतबलानि निष्पादयिष्यामीति न स्थातव्यं. चत्वारि वैशारद्यानि निष्पादयिष्यामीति न स्थातव्यं. चतस्रः प्रतिसंविदो निष्पादयिष्यामीति न स्थातव्यम्. अष्टादशावेणिकान् बुद्धधर्मान् परिनिष्पादयिष्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन. महामैत्रीं महाकरुणां निष्पादयिष्यामीति न स्थातव्यम्. द्वात्रिंशच् च महापुरुषलक्षणानि काये निष्पादयिष्यामीति न स्थातव्यम्. अशीत्यनुव्यञ्जनानि निष्पादयिष्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन. श्रद्धानुसारी धर्मानुसार्य् अष्टमकः स्रोतआपन्नः सप्तकृत्वो भवपरम इति न स्थातव्यम्. कुलंकुल इति एकवीचिक इति न स्थातव्यम्. समशीर्षः पुद्गल इति न स्थातव्यम्. आयुःक्षये क्लेशक्षये च न स्थातव्यम्. स्रोतआपन्नो ऽविनिपातधर्म इति न स्थातव्यं. सकृदागामी सकृद् इमं लोकम् आगम्य दुःखस्यान्तं करिष्यान्तं करिष्यामीति न स्थातव्यम्. अनागाम्य् अनागामिफलं साक्षात्क्रियायै प्रतिपन्न इति न स्थातव्यम्. अनागामी तत्रैव परिनिर्वायीति न स्थातव्यम्. अर्हन्न् अर्हत्फलं साक्षात्क्रियायै प्रतिपन्न इति न स्थातव्यम्. अर्हन्न् (प्स्प्_2-3:10) इहैवानुपधिशेषे निर्वाणधातौ परिनिर्वायीति न स्थातव्यम्. प्रत्येकबुद्ध इति न स्थातव्यम्. बोधिसत्त्वो ऽतिक्रम्य श्रावकाभूमिं च प्रत्येकबुद्धभूमिं च बोधिसत्त्वभूमौ च स्थास्यामीति न स्थातव्यम्. मार्गज्ञताज्ञाने न स्थातव्यम् उपलम्भयोगेन. सर्वाकारेण सर्वधर्मान् अभिसंबुद्ध्य सर्ववासनानुसंधिक्लेशक्षयात् तथागतो ऽर्हन् सम्यक्संबुद्धो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य धर्मचक्रं प्रवर्तयिष्यामीति न स्थातव्यम्. बुद्धकृत्यं कृत्वासंख्येयान् अप्रमेयान् सत्त्वान् परिनिर्वापयिष्यामीति, एवम् अपि न स्थातव्यम्. चतुर्ष्व् ऋद्धिपादेष्व् इन्द्रियेषु स्थित्वा तथारूपं समाधिं समापत्स्ये यथारूपेण समाधिना गङ्गानदीवालुकोपमान् कल्पान् स्थास्यामीति न स्थातव्यम् उपलम्भयोगेन. अपरिमितं म आयुःप्रमाणं भविष्यतीति न स्थातव्यम् उपलम्भयोगेन. द्वात्रिंशन्महापुरुषलक्षणेष्व् एकैकलक्षणं शतपुण्यपरिनिष्पन्नं भविष्यतीति न स्थातव्यं. यावन्तः पूर्वेण गङ्गानदीवालुकोपमा लोकधातव एवं दक्षिणपश्चिमोत्तरेण गङ्गानदिवालुकोपमा लोकधातवस् तावत् ममैकैकं बुद्धक्षेत्रं भविष्यतीति न स्थातव्यम्. वज्रमयो मे त्रिसाहस्रमहासाहस्रो लोकधातुर् भविष्यतीति न स्थातव्यम्. बोधिवृक्षान् मे तादृग्गन्धो निश्चरेद्, यस् तं गन्धं घ्रायेत तस्य सर्वकायस्य न रागो बाधेत, न द्वेषो बाधेत, न मोहो बाधेत, न कस्यचिच् छ्रावकचित्तं वा प्रत्येकबुद्धचित्तं वा स्यात्, सर्वे च ते सत्त्वा नियता भविष्यन्त्य् अनुत्तरायां सम्यक्संबोधौ, ये च ते सत्त्वास् तं गन्धं घ्रास्यन्ति तेषां न कश्चिद् व्याधिर् भवेद् इति एवम् अपि न स्थातव्यं. तत्र च बुद्धक्षेत्रे न रूपशब्दो, न वेदनाया, न संज्ञाया, न संस्काराणां, न विज्ञानशब्दो भविष्यतीति न स्थातव्यम्. न दानपारमितायाः शब्दो भविष्यतीति, एवं न शीलपारमिताया न क्षान्तिपारमिताया न वीर्यपारमिताया न ध्यानपारमिताया न प्रज्ञापारमितायाः शब्दो भविष्यतीति न स्थातव्यम्. न स्मृत्युपस्थानशब्दो भविष्यतीति, न सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाप्रमाणध्यानारूप्यसमापत्त्यभिज्ञार्यसत्यदशबलवैशारद्यप्रतिसंविदष्टादशावेणिकबुद्धधर्मशब्दो भविष्यतीति, एवं न यावत् स्रोतआपन्नसकृदागाम्यनागाम्यर्हत्प्रत्येकबुद्धबोधिसत्त्वबुद्धशब्दो भविष्यतीति न स्थातव्यं, विस्तरेण कर्तव्यम्. तत् कस्य हेतोस्? तथागतेनार्हता सम्यक्संबुद्धेनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य (प्स्प्_2-3:11) सर्वधर्मा नोपलब्धाः. एवं हि कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाम् उपलम्भयोगेन न स्थातव्यम्.
अथ खल्व् आयुष्मतः शारिपुत्रस्यैतद् अभवत्: कथं पुनर् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्? इति.
अथ खल्व् आयुष्मान् सुभूतिर् आयुष्मतः शारिपुत्रस्य चेतसैव चेतःपरिवितर्कम् आज्ञाय आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: तत् किं मन्यसे? त्वम् आयुष्मञ् शारिपुत्र क्व तथागतः स्थित इति
शारिपुत्र आह: न क्वचिद् आयुष्मन् सुभूते तथागतः स्थितः. अप्रतिष्ठितमानसः स खलु पुनस् तथागतो ऽर्हन् सम्यक्संबुद्धः स न रूपे स्थितो न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने स्थितो न संस्कृते धातौ स्थितो नासंस्कृते धातौ स्थितः. एवं न व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गेषु न पारमितासु न बोधिपक्ष्येषु धर्मेषु नाप्रमाणध्यानारूप्यसमापत्तिषु नाभिज्ञासु न सत्येषु स्थितो न सर्वशून्यतासु न सर्वसमाधिषु न सर्वधारणीमुखेषु स्थितः, न बलवैशारद्यप्रतिसंविदावेणिकेषु बुद्धधर्मेषु स्थितो न सर्वज्ञतायां स्थितः.
अथ खल्व् आयुष्मान् सुभूतिर् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: एवं ह्य् आयुष्मञ् शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यं. यथा तथागतो ऽर्हन् सम्यक्संबुद्धो न रूपे स्थितो नास्थितः, न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने स्थितो नास्थितः. एवं ह्य् आयुष्मञ् शरिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यं. स्थास्यामीत्य् अस्थानयोगेन. इत्य् अग्रधर्मगतम् इत्य् उक्तः श्रावकमार्गः
अथ खलु तत्र परिषदि केषांचिद् देवपुत्राणाम् एतद् अभवत्: यानि तानि यक्षाणां यक्षरुतानि यक्षपदानि यक्षमन्त्रितानि यक्षप्रव्याहृतानि प्रज्ञायन्ते तानि जल्प्यमानानि. इदं पुनर् न विज्ञायते यद् आर्यस्थविरः सुभूतिः प्रज्ञापारमितां भाषते प्रव्याहरति देशयत्य् उपदिशति.
अथ खल्व् आयुष्मान् सुभूतिस् तेषां देवपुत्राणां चेतसैव चेतःइपरिवितर्कम् आज्ञाय तान् देवपुत्रान् आमन्त्रयामास: न विज्ञायते देवपुत्रा यन् मन्त्र्यते? (प्स्प्_2-3:12)
देवपुत्रा आहुह्: न विज्ञायते आर्यसुभूते.
सुभूतिर् आह: तथा हि देवपुत्रा एकाक्षरम् अप्य् अत्र न प्रव्याह्रियते, तन् न श्रूयते, तन् न विज्ञायते, तत् कस्य हेतोः? अनक्षरा हि प्रज्ञापारमिता तस्मान् नास्ति ज्ञाता न श्रोता न देशयिता अनक्षरा तथागतानाम् अर्हतां सम्यक्संबुद्धानां बोधिः. तद्यथापि नाम देवपुत्रास् तथागतो ऽर्हन् सम्यक्संबुद्धो बुद्धनिर्मितं निर्मिमीयाच् चतस्रश् च परिषदो भिक्षुभिक्षुण्युपासकोपासिकाः सो ऽभिनिर्माय तासां चतसृणां परिषदां धर्मं देशयेत्, तत् किं मन्यध्वे? देवपुत्रा अपि नु तत्र किंचिद् देशितं वा श्रुतं वाज्ञातं वा.
देवपुत्रा आहुह्: नो भदन्त.
सुभूतिर् आह: एवम् एव देवपुत्राः. सर्वधर्मा निर्मितोपमास् तत्र न केनचिद् देशितं न केनचिच् छ्रुतं न केनचिद् आज्ञातम्. तद्यथापि नाम देवपुत्राः पुरुषः सुप्तः. स्वप्नान्तरगतस् तथागतम् अर्हन्तं सम्यक्संबुद्धं पश्येद् धर्मं देशयन्तं. तत् किं मन्यध्वे? देवपुत्रा अपि नु तत्र किंचिद् देशितं वा श्रुतं वाज्ञातं वा.
देवपुत्रा आहुः.: न भदन्त सुभूते.
सुभूतिर् आह : एवं देवपुत्राः स्वप्नोपमाः. सर्वे धर्मास् तत्र न केनचिच् छ्रुतं न केनचिद् देशितं न केनचिद् आज्ञातम्. तद्यथापि नाम देवपुत्रा द्वौ पुरुषौ पर्वतकन्दरे स्थित्वा बुद्धस्य वर्णं भाषेयातां धर्मस्य वर्णं भाषेयातां संघस्य वर्णं भाषेयाताम्. ततो द्वयोर् अपि तयोः प्रतिश्रुत्कास्वरो निश्चरेत्. तत् किं मन्यध्वे? देवपुत्रा अपि नु तया प्रतिश्रुत्कया द्वितीयः. प्रतिश्रुत्काशब्दो विज्ञापितो भवेत्.
देवपुत्रा आहुः: नो भदन्त सुभूते.
सुभूतिर् आह: एवम् एव देवपुत्रः. सर्वधर्माः प्रतिश्रुत्कोपमास् तत्र न किंचिद् देश्यते न श्रूयते न विज्ञायते. तद्यथापि नाम देवपुत्रा दक्षो मायाकारो वा मायाकारान्तेवासी वा चतुर्महापथे तथागतम् अर्हन्तं सम्यक्संबुद्धं निर्मिमीयाच् चतस्रश् च परिषदः सो ऽभिनिर्माय निर्मितानां चतसृणां परिषदां धर्मं देशयेत्. तत् किं मन्यध्वे? देवपुत्रा अपि नु तत्र केनचिद् देशितं वा श्रुतं वा विज्ञातं वा भवेत्.
देवपुत्रा आहुः: नो भदन्त सुभूते.
सुभूतिर् आह: एवम् एव देवपुत्रा मायोपमाः सर्वधर्मा न तत्र कश्चिद् (प्स्प्_2-3:13) देशयिता न श्रोता न विज्ञाता. इति परोपदेशवैयर्थ्यम्
अथ खलु तेषां देवपुत्राणाम् एतद् अभवत्: उत्तानीकरिष्यति बतायम् आर्यसुभूतिः प्रज्ञापारमिताम् इति, अथ पुनर् गम्भिराद् गम्भीरतरं देशयति, सूक्ष्मात् सूक्ष्मतरं देशयति. इति ज्ञानगम्भीरता
अथ खल्व् आयुष्मान् सुभूतिस् तान् देवपुत्रान् एतद् अवोचत्: न हि देवपुत्रा रूपं गम्भीरं वा सूक्ष्मं वा, न वेदना न संज्ञा न संस्कारा न विज्ञानं गम्भीरं वा सूक्ष्मं वा. तत् कस्य हेतोर्? न रूपस्य स्वभावो गम्भिरो न सूक्ष्मः न वेदनाया न संज्ञाया न संस्काराणां न विज्ञानस्य स्वभावो गम्भीरो न सूक्ष्मः. न चक्षुषः स्वभावो गम्भीरो न सूक्ष्मः न श्रोतस्य न घ्राणस्य न जिह्वाया न कायस्य न मनसः स्वभावो गम्भीरो न सूक्ष्मः. न पृथिवीधातोः. स्वभावो गम्भीरो न सूक्ष्मः, नाब्धातोर् न तेजोधातोर् न वायुधातोर् नाकाशधातोर् न विज्ञानधातोः. स्वभावो गम्भीरो न सूक्ष्मः. न दानपारमितायाः स्वभावो गम्भीरो न सूक्ष्मः, न शीलपारमिताया न क्षान्तिपारमिताया न वीर्यपारमिताया न ध्यानपारमिताया न प्रज्ञापारमितायाः स्वभावो गम्भीरो न सूक्ष्मः नाध्यात्मशून्यतायाः स्वभावो गम्भीरो न सूक्ष्मः, न बहिर्धाशून्यताया नाध्यात्मबहिर्धाशून्यताया यावन् नाभावस्वभावशून्यतायाः स्वभावो गम्भीरो न सूक्ष्मः. न स्मृत्युपस्थानानां स्वभावो गम्भीरो न सूक्ष्मः. एवं सम्यक्प्रहाणानाम् ऋद्धिपादानाम् इन्द्रियाणां बलानां बोध्यङ्गानाम् आर्याष्टाङ्गस्य मार्गस्य सत्यानाम् अभिज्ञानां चतुर्णाम् अप्रमाणानां चतुर्णां ध्यानानां चतसृणाम् आरूप्यसमापत्तीनां दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृनां प्रतिसंविदाम् अष्टादाशानाम् आवेणिकानां बुद्धधर्माणां स्वभावो गम्भीरो न सूक्ष्मः न सर्वसमाधिधारणीमुखानां स्वभावो गम्भिरो न सूक्ष्मः, यावन् न सर्वाकारज्ञतायाः स्वभावो गम्भीरो न सूक्ष्मः.
अथ खलु तेषां देवपुत्राणाम् एतद् अभवत्: न खलु पुनर् अस्यां धर्मदेशनायां रूपं प्रज्ञप्तं न वेदना न संज्ञा न संस्कारा न विज्ञानं प्रज्ञप्तं, यावन् न धातवो नायतनानि न प्रतित्यसमुत्पादः प्रज्ञप्तो न पारमिता प्रज्ञप्ता न बोधिपक्षा धर्माः प्रज्ञप्ताः, नाप्रमाणध्यानारूप्यसमापत्तवः, न सर्वशून्यता न सर्वसमाधयः न सर्वधारणीमुखानि (प्स्प्_2-3:14) न दशतथागतबलानि न वैशारद्यानि न प्रतिसंविदो नावेणिकबुद्धधर्माः प्रज्ञप्ताः. नापीह धर्मदेशनायां स्रोतआपत्तिफलं प्रज्ञप्तं न सकृदागामिफलं नानागामिफलं नार्हत्त्वं न प्रत्येकबुद्धत्वं न बोधिसत्त्वत्वं प्रज्ञप्तं न बोधिः प्रज्ञप्ता नाक्षराणि प्रज्ञप्तानि.
अथ खल्व् आयुष्मान् सुभूतिस् तान् देवपुत्रान् आमन्त्रयामास: एवम् एतद् देवपुत्रा एवम् एतद्, अनभिलप्या तथागतानां बोधिर् अप्रव्याहारा, सा न केनचिद् देशिता न केनचिच् छ्रुता न केनचिद् विज्ञाता. तेन हि देवपुत्रा ये स्रोतआपत्तिफले स्थातुकामाः, ये स्रोतआपत्तिफलं साक्षात्कर्तुकामा नेमां क्षान्तिम् अनागम्य, ये सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं, ये प्रत्येकबुद्धत्वे स्थातुकामाः, ये प्रत्येकबुद्धत्वं प्राप्तुकामा नेमां क्षान्तिम् अनागम्य. एवं हि देवपुत्रा बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादाय प्रज्ञापारमितायां स्थातव्यम् अप्रव्याहाराश्रवणताम् उपादाय.
इति प्रत्येकबुद्धानां ग्राह्यविकल्पप्रहाणम्
अथ खलु तेषां देवपुत्राणाम् एतद् अभवत्: कियद्रूपाः स्थविरस्य सुभूतेर् धर्मश्रवणिका एष्टव्याः.
अथ खल्व् आयुष्मान् सुभूतिस् तेषां देवपुत्राणां चेतसैव चेतःपरिवितर्कम् आज्ञाय तान् देवपुत्रान् एतद् अवोचत्: मायोपमा मम देवपुत्रा धर्मश्रवणिका एष्टव्या निर्मितोपमा मम धर्मश्रवणिका एष्टव्याः. ते नैव किंचिच् छ्रोष्यन्ति न पर्यवाप्स्यन्ति न साक्षात्करिष्यन्ति.
अथ खलु ते देवपुत्रा आयुष्मन्तं सुभूतिस्थविरम् एवम् आहुः: किं पुनर् भदन्त सुभूते मायोपमास् ते सत्त्वा मायोपमास् ते धर्मश्रवणिका निर्मितोपमास् ते सत्त्वा निर्मितोपमास् ते धर्मश्रवणिकाः?
सुभूतिर् आह: एवम् एतद् देवपुत्रा एवम् एतत्, मायोपमास् ते सत्त्वा मायोपमास् ते धर्मश्रवणिका, निर्मितोपमास् ते सत्त्वा निर्मितोपमास् ते धर्मश्रवणिकाः. रूपम् अपि देवपुत्राः स्वप्नोपमं मायोपमं, वेदना संज्ञा संस्कारा विज्ञानम् अपि देवपुत्राः स्वप्नोपमं मायोपमं. चक्षुर् अपि देवपुत्राः स्वप्नोपमं मायोपमं. एवं श्रोत्रं घ्राणं जिह्वा कायो मनो ऽपि देवपुत्राः स्वप्नोपमं मायोपमं. रूपम् अपि देवपुत्राः स्वप्नोपमं (प्स्प्_2-3:15) मायोपमं. एवं शब्दगन्धरसस्पर्शधर्मा अपि देवपुत्राः. स्वप्नोपमा मायोपमाश्. चक्षुर्विज्ञानं चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शजा वेदना स्वप्नोपमा मायोपमाः. एवं श्रोत्रं घ्राणं जिह्वा कायो मनोविज्ञानं मनःसंस्पर्शो मनःसंस्पर्शजा वेदना स्वप्नोपमा मायोपमा. दानपारमितापि स्वप्नोपमा मायोपमा. एवं शीलपारमिता क्षान्तिपारमीता वीर्यपार्मिता ध्यानपारमिता प्रज्ञापारमितापि स्वप्नोपमा मायोपमा. एवम् अध्यात्मशूम्यता बहिर्धाशून्यताध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यतापि स्वप्नोपमा मायोपमा. स्मृत्युपस्थानान्य् अपि स्वप्नोपमानि. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गार्याष्टाङ्गमार्गाप्रमाणध्यानारूप्यसमापत्तयः, अभिज्ञा सत्यानि दश बलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका अपि बुद्धधर्माः स्वप्नोपमा मायोपमाः. स्रोतआपत्तिफलम् अपि स्वप्नोपमं मायोपमं. स्रोतआपन्नो ऽपि स्वप्नोपमो मायोपमः. एवं सकृदागामिफलम् अपि सकृदागाम्य् अप्य् अनागामिफलम् अप्य् अनागाम्य् अप्य् अर्हत्फलम् अप्य् अर्हन्न् अपि स्वप्नोपमो मायोपमः प्रत्येकबोधिर् अपि स्वप्नोपमा मायोपमा, प्रत्येकबुद्धो ऽपि स्वप्नोपमो मायोपमः. बोधिसत्त्वत्वम् अपि स्वप्नोपमं मायोपमं, बोधिसत्त्वो ऽपि स्वप्नोपमो मायोपमो. अनुत्तरा सम्यक्संबोधिर् अपि स्वप्नोपमा मायोपमा, बुद्धो ऽपि स्वप्नोपमो मायोपमः.
अथ खलु ते देवपुत्रा आयुष्मन्तं सुभूतिम् एतद् अवोचत्: बुद्धत्वम् अपि स्थविर सुभूते स्वप्नोपमं मायोपमम् इति वदसि. तत् किं मन्यसे? निर्वाणम् अपि स्वप्नोपमं मायोपमं.
सुभूतिर् आह: निर्वाणम् अप्य् अहं देवपुत्राः स्वप्नोपमं मायोपमम् इति वदामि, सचेद् अहं देवपुत्रा निर्वाणाद् अपि कंचिद् धर्मविशिष्टतरं जानियां, तम् अप्य् अहं स्वप्नोपमं मायोपमं वदेयं. तत् कस्य हेतोस्? तथा हि देवपुत्राः स्वप्नश् च माया च निर्वाणं चाद्वयम् एतद् अद्वैधीकारम्.
इति प्रत्येकबुद्धानां ग्राहकविकल्पाप्रहाणम्
अथ खल्व् आयुष्माञ् शारिपुत्र आयुष्मांश् च महामौद्गल्यायन आयुष्मांश् च महाकौष्ठिल आयुष्मांश् च महाकात्यायन आयुष्मांश् च पूर्णो मैत्रायणिपुत्र आयुष्मांश् च महाकाश्यपो ऽनेकानि च देवकोटीनियुतशतसहस्राण्य् आयुष्मन्तं सुभूतिं स्थविरम् एवम् आहुः: के ऽस्या भदन्त सुभूते एवं गम्भीरायाः प्रज्ञापारमिताया एवम् अतर्काया एवम् अतर्कावचराया एवं सूक्ष्माया (प्स्प्_2-3:16) एवं निपुणाया एवं दुर्दृशाया एवं दुरनुबोधाया एवं शान्ताया एवं प्रणीताया एवम् अलमार्याया एवं पण्डितविज्ञवेदनीयाया देश्यमानायाः प्रत्येषका भविष्यन्ति?
अथ खल्व् आयुष्मान् सुभूतिस् तान् महाश्रावकांस् तांश् च देवपुत्रान् एतद् अवोचत्: अविनिवर्तनीया आयुष्मन्तो बोधिसत्त्वा महासत्त्वा अस्याः प्रज्ञापारमिताया एवं गम्भीराया एवम् अतर्काया एवम् अतर्कावचराया एवं सूक्ष्माया एवं निपुणाया एवं दुर्दृशाया एवं दुरनुबोधाया एवं शान्ताया एवं प्रणीताया एवम् अलमार्याया एवं पण्डितविज्ञवेदनीयाया देश्यमानायाः प्रत्येषका भविष्यन्ति. दृष्टसत्या वा पुद्गला अर्हन्तो वा क्षीणास्रवाः परिपूर्णसंकल्पाः, पूर्वजिनकृताधिकारा बहुबुद्धकोटिष्व् अवरोपितकुशलमूला वा कल्याणमित्रपरिगृहिता वा. ते कुलपुत्राः कुलदुहितरश् चास्याः प्रज्ञापारमिताया एवं गम्भीराया एवम् अतर्काया एवम् अतर्कावचराया एवं सूक्ष्माया एवं निपुणाया एवं दुर्दृशाया एवं दुरनुबोधाया एवं शान्ताया एवं प्रणीताया एवम् अलमार्याया एवं पण्डितविज्ञवेदनीयाया देश्यमानायाः प्रत्येषका भविष्यन्ति.
तेन खलु पुनर् न रूपं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां रूपम् इति विकल्पयिष्यन्ति, न वेदनां न संज्ञां न संस्कारान् न विज्ञानं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां विज्ञानम् इति विकल्पयिष्यन्ति. न रूपम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं रूपम् इति विकल्पयिष्यन्ति. न वेदनां न संज्ञां न संस्कारान् न विज्ञानम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं विज्ञानम् इति विकल्पयिष्यन्ति. न रूपम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं रूपम् इति विकल्पयिष्यन्ति, न वेदनां न संज्ञां न संस्कारान् न विज्ञानम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं विज्ञानम् इति विकल्पयिष्यन्ति. एवं नानुत्पाद इति, नानिरोध इति, न शान्तम् इति, न विविक्तम् इति विकल्पयिष्यन्ति. एवं व्यस्तसमस्तानि स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गानि सर्वपारमिताम्, एवम् अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यताम् एवं स्मृत्युपस्थानानि सम्यक्प्रहाणान्य् ऋद्धिपादानीन्द्रियाणि बलानि बोध्यङ्गान्य् आर्याष्टाङ्गमार्गम् अप्रमाणध्यानारूप्यसमापत्तीः अभिज्ञासत्यानि दशतथागतबलानि चत्वारि वैशारद्यानि (प्स्प्_2-3:17) चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् सर्वसमाधीन् सर्वधारणीमुखानि, एवं न स्रोतआपत्तिफलं न सकृदागामिफलं नानागामिफलं नार्हत्त्वं न प्रत्येकबुद्धत्वं न सर्वाकारज्ञतां शून्येति विकल्पयिष्यन्ति, न शून्यतां सर्वाकारज्ञतेति विकल्पयिष्यन्ति. न सर्वाकारज्ञताम् आनिमित्तेति विकल्पयिष्यन्ति, नानिमित्तं सर्वाकारज्ञतेति विकल्पयिष्यन्ति. न सर्वाकारज्ञताम् अप्रणिहितेति विकल्पयिष्यन्ति, नाप्रणिहितं सर्वाकारज्ञतेति विकल्पयिष्यन्ति. न सर्वाकारज्ञताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं सर्वाकारज्ञतेति विकल्पयिष्यन्ति. न सर्वाकारज्ञताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं सर्वाकारज्ञतेति विकल्पयिष्यन्ति. न सर्वाकारज्ञतां शान्तम् इति विकल्पयिष्यन्ति, न शान्तं सर्वाकारज्ञतेति विकल्पयिष्यन्ति. न सर्वाकारज्ञतां विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं सर्वाकारज्ञतेति विकल्पयिष्यन्ति. न संस्कृतधातुं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां संस्कृतधातुर् इति विकल्पयिष्यन्ति. न संस्कृतधातुम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं संस्कृतधातुर् इति विकल्पयिष्यन्ति. न संस्कृतधातुउ अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं संस्कृतधातुर् इति विकल्पयिष्यन्ति. न संस्कृतधातुम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं संस्कृतधातुर् इति विकल्पयिष्यन्ति. न संस्कृतधातुम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं संस्कृतधातुर् इति विकल्पयिष्यन्ति. न संस्कृतधातुं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं संस्कृतधातुर् इति विकल्पयिष्यन्ति. न संस्कृतधातुं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं संस्कृतधातुर् इति विकल्पयिष्यन्ति. नासंस्कृतधातुं शून्यम् इति विकल्पयिष्यन्ति, न शून्यताम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति. नासंस्कृतधातुम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति. नासंस्कृतधातुम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति. नासंस्कृतधातुम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति. नासंस्कृतधातुम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति. नासंस्कृतधातुं शान्तम् इति विकल्पयिष्यन्ति, न शान्तम् (प्स्प्_2-3:18) असंस्कृतधातुर् इति विकल्पयिष्यन्ति. नासंस्कृतधातुं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति.
अथ खल्व् आयुष्मान् सुभूतिस् तान् देवपुत्रान् एतद् अवोचत्: नास्या देवपुत्राः प्रज्ञापारमिताया एवं गम्भीराया यावद् अलमार्यायाः पण्डितविज्ञवेदनीयायाः कश्चित् प्रत्येषको भविष्यति तत् कस्य हेतोस्? तथा ह्य् अत्र न कश्चिद् धर्मो देश्यते न सूच्यते न परिदीप्यते, यथैवात्र न कश्चिद् धर्मो देश्यते न सूच्यते न परिदीप्यते तथैवात्र न कश्चित् प्रत्येषको भविष्यति.
अथ खल्व् आयुष्माञ् शारिपुत्र आयुष्मन्तं सुभूतिं स्थविरम् एतद् अवोचत्: नन्व् आयुष्मन् सुभूते इह प्रज्ञापारमितायां त्रीणि यानानि विस्तरेणोपदिश्यन्ते यद् उत श्रावकयानं प्रत्येकबुद्धयानं सम्यक्संबुद्धयानं, बोधिसत्त्वानां च महासत्त्वानां संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पाद इति बोधिसत्त्वमार्गश् चोपदिश्यते यद् उत दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता स्मृत्युपस्थानानि सम्यक्प्रहाणान्य् ऋद्धिपादा इन्द्रियाणि बलाणि बोध्यङ्गान्य् आर्याष्टाङ्गमार्गश् चत्वार्य् अप्रमाणां चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयो ऽभिज्ञाः सत्यानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि, बोधिसत्त्वानां च महासत्त्वानां संपरिग्रह उपदिष्यते एवं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् नोपपादुको भविष्यति. एवम् अभिज्ञाभिर् अपरिहाणधर्मा बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तान्य् अस्य कुशलमूलानि समृद्धिं यास्यन्ति. यं च तेषां बुद्धानां भगवताम् अन्तिके धर्मं श्रोष्यन्ति सर्वो ऽस्य धर्मो न जात्व् अन्तरा विच्छेत्स्यति यावन् नानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धेति सदा समाहितश् च भविष्यति अविक्षिप्तचित्तः. समाहितयोगेन, असङ्गप्रतिभानश् च भविष्यति, अनाच्छेद्यप्रतिभानः समाहितप्रतिभानो युक्तप्रतिभानः श्लिष्टप्रतिभानो ऽर्थवत्प्रतिभानः सर्वलोकाभ्युद्गतविशिष्टप्रतिभानश् च भविष्यति.
(प्स्प्_2-3:19)
सुभूतिर् आह: एवम् एतद् आयुष्मञ् शारिपुत्र एवम् एतत्. तथैव तद्यथा वदसि विस्तरेणेह प्रज्ञापारमितायां त्रीणि यानान्य् उपदिष्टानि यद् उत श्रावकयानं प्रत्येकबुद्धयानं महायानं, बोधिसत्त्वानां च महासत्त्वानां संपरिग्रहा उपदिष्टा यावद् बोधिसत्त्वा महासत्त्वाः सर्वलोकाभ्युद्गतविशिष्टप्रतिभाना भविष्यन्ति. तच् चानुपलम्भयोगेन कस्यानुपलम्भयोगेन? आत्मसत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकस्यानुपलम्भयोगेन. रूपस्यानुपलम्भयोगेन, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यानुपलम्भयोगेन. चक्षुषो ऽनुपलम्भयोगेन, एवं श्रोत्रस्य घ्राणस्य जिह्वायाः कायस्य मनसो ऽनुपलम्भयोगेन. चक्षुर्विञानस्य चक्षुःसंस्पर्शस्य चक्षुःसंस्पर्शजाया वेदनाया अनुपलम्भयोगेन, एवं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानस्य मनःसंस्पर्शस्य मनःसंस्पर्शजाया वेदनाया अनुपलम्भयोगेन. एवं रूपशब्दगन्धरसस्पर्शधर्माणाम् अनुपलम्भयोगेन. पृथिवीधातोर् अनुपलम्भयोगेन, एवम् अब्धातोस् तेजोधातोर् वायुधातोर् आकाशधातोर् विज्ञानधातोर् अनुपलम्भयोगेन. दानपारमिताया अनुपलम्भयोगेन, एवं शीलपारमितायाः. क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमिताया अनुपलम्भयोगेन. अध्यात्मशून्यताया अनुपलम्भयोगेन यावद् अभावस्वभावशून्यताया अनुपलम्भयोगेन. स्मृत्युपस्थानानाम् अनुपलम्भयोगेन, एवं सम्यक्प्रहाणानाम् ऋद्धिपादानाम् इन्द्रियाणां बलानां बोध्यङ्गानाम् आर्याष्टाङ्गिकस्य मार्गस्यानुपलम्भयोगेन. अप्रमाणध्यानारूप्यसमापत्तीनाम् अभिज्ञानाम् आर्यसत्यानाम् अनुपलम्भयोगेन. दशानां तथागतबलानां वैशारद्यानां प्रतिसंविदाम् आवेणिकबुद्धधर्माणाम् अनुपलम्भयोगेन. सर्वसमाधीनां सर्वधारणीमुखानां सर्वज्ञताया अनुपलम्भयोगेन.
अथ खल्व् आयुष्माञ् छारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: केन कारणेनायुष्मन् सुभूते इह प्रज्ञापारमितायां त्रिणि यानानि विस्तरेणोपदिश्यन्ते अनुपलम्भयोगेन? केन कारणेन बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते यावत् सर्वलोकाभ्युद्गतविशिष्टप्रतिभानो बोधिसत्त्वो महासत्त्वो भविष्यति अनुपलम्भयोगेन?
सुभूतिर् आह: अध्यात्मशून्यताम् उपादायायुष्मञ् शारिपुत्र त्रिणि यानानि विस्तरेणोपोदिश्यन्ते अनुपलम्भयोगेन. बहिर्धाशून्यताम् उपादायाध्यात्मबहिर्धाशून्यताम् (प्स्प्_2-3:20) उपादाय यावद् अभावस्वभावशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते अनुपलम्भयोगेन, यावद् अभावस्वभावशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते यावत् सर्वलोकाभ्युद्गतविशिष्टप्रतिभानो बोधिसत्त्वस्य महासत्त्वस्य भविष्यति अनुपलम्भयोगेन.
अथ खलु शक्रस्य देवानाम् इन्द्रस्यैतद् अभवत्: अस्या धर्मदृष्टेः सुभूतिना स्थविरेण भाष्यमाणाया यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् तेषां चैतद् अभवत्: अस्या धर्मदृष्टेः सुभूतिना स्थविरेण भाष्यमाणाया यन् नु वयं पुष्पाण्य् अभिनिर्माय तैः पुष्पैर् बुद्धं भगवन्तं बोधिसत्त्वं भिक्षुसंघं च सुभूतिं च स्थविरम् इमां प्रज्ञापारमिताम् अभ्यवकिरेम.
अथ खलु शक्रो देवानाम् इन्द्रस् ते त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिकान् देवान् उपादाय यावद् अकनिष्ठा देवा दिव्यानि मान्दारवाणि पुष्पाण्य् अभिनिर्माय, तैः पुष्पैर् बुद्धं भगवन्तं बोधिसत्त्वं भिक्षुसंघं च सुभूतिं च स्थविरम् इमां च प्रज्ञापारमिताम् अभ्यवकिरन्ति स्म, अभिप्रकिरन्ति स्म, समनन्तरावकीर्णानि च तानि पुष्पाणि शक्रेण देवानाम् इन्द्रेण, तैश् च यावद् अकनिष्ठैर् देवैः.
अथ खलु सर्वस्मिंस् त्रिसाहस्रमहासाहस्रे लोकधातौ पुष्पसंस्तरः संस्तृतो ऽभूत्. उपरिष्टाच् चान्तरीक्षे पुष्पकूटागारं संस्थितम् अभूत् रमणीयं मनोरमम्.
अथ खलु सुभूतेः स्थविरस्यैतद् अभवत्: न पुनर् इमानि पुष्पाणि मया सर्वदेवभवणेषु दृष्टपूर्वाणि प्रचरन्ति यानीमानि पुष्पाणि देवपुत्रैर् अभ्यवकीर्णानि निर्मितानीमानि पुष्पाणि न वृक्षगुल्मलतानिर्जातानि, यानीमानि देवपुत्रैर् अभ्यवकीर्णानि मनोमयान्य् एतानि पुष्पाणि नैतानि पुष्पाणि वृक्षगुल्मलतानिर्जातानीमानि देवपुत्रैर् अभ्यवकीर्णानि.
अथ खलु शक्रो देवानाम् इन्द्रः स्थविरं सुभूतिं एतद् अवोचत्: अनिर्जातानीमानि भदन्त सुभूते पुष्पाणि नैतानि पुष्पाणि मनोनिर्जातानि नापि (प्स्प्_2-3:21) वृक्षगुल्मलतानिर्जातानि.
सुभूतिर् आह: यत् कौशिकैवं वदसि, अनिर्जातानीमानि पुष्पाणि नैतानि मनोनिर्जातानि नापि वृक्षगुल्मलतानिर्जातानीति. यानि कौशिकानिर्जातानि न तानि पुष्पाणि शक्रो देवानाम् इन्द्र आह: किं पुनर् भदन्त सुभूते इमान्य् एव पुष्पान्य् अनिर्जातानि, अथ रूपम् अप्य् अनिर्जातं वेदनासंज्ञासंस्काराः विज्ञानम् अप्य् अनिर्जातं?
सुभूतिः स्थविर आह: न कौशिक इमान्य् एव पुष्पाण्य् अनिर्जातानि, रूपम् अपि कौशिकानिर्जातं यच् चानिर्जातं न तद् रूपम्. वेदनासंज्ञासंस्काराः विज्ञानं कौशिकानिर्जातं यच् चानिर्जातं न तद् विज्ञानं. चक्षुः कौशिकानिर्जातं यच् चानिर्जातं न तच् चक्षुः, एवं श्रोत्रं घ्राणं जिह्वा कायो मनः कौशिकानिर्जातं यच् चानिर्जातं न तन् मनः. पृथिवीधातुः कौशिकानिर्जातो यश् चानिर्जातो न स पृथिवीधातुर्, एवम् अब्धातुस् तेजोधातुर् आकाशधातुर् विज्ञानधतुः कौशिकानिर्जातो यश् चानिर्जातो न स विज्ञानधातुः. दानपारमिता कौशिक अनिर्जाता या चानिर्जाता न सा दानपारमिता, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता कौशिक अनिर्जाता या चानिर्जाता न सा प्रज्ञापारमिता. अध्यात्मशून्यता कौशिक अनिर्जाता या चानिर्जाता न सा अध्यात्मशून्यता यावद् अभावस्वभावशून्यता कौशिक अनिर्जाता या चानिर्जाता न सा अभावस्वभावशून्यता, स्मृत्युपस्थानानि कौशिक अनिर्जातानि यानि चानिर्जातानि न तानि स्मृत्युपस्थानानि, एवं सम्यक्प्रहाणान्य् ऋद्धिपादाः इन्द्रियाणि बलानि बोध्यङ्गान्य् आर्याष्टङ्गो मार्गः कौशिक, अनिर्जातो यश् चानिर्जातो न स मार्गः. एवम् अभिज्ञाः सत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयो दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकाबुद्धधर्माः कौशिक अनिर्जाता ये चानिर्जाता न ते बुद्धधर्माः. स्रोतआपत्तिफलं कौशिक अनिर्जातं यच् चानिर्जातं न तत् स्रोतआपत्तिफलं, एवं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबुद्धत्वं सर्वज्ञत्वं कौशिकानिर्जातं यच् चानिर्जातं न तत् सर्वज्ञत्वं. स्रोतआपन्नः कौशिक अनिर्जातो यश् चानिर्जातो न स स्रोतआपन्नः, एवं सकृदागामी, अनागामी, अर्हन् प्रत्येकबुद्धस् तथागतो ऽर्हन् सम्यक्संबुद्धः कौशिकानिर्जातो यश् चानिर्जातो न स सम्यक्संबुद्धः. इत्य् अधिगमाधारगोत्रम्
(प्स्प्_2-3:22)
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: गम्भीरप्रज्ञो बतायम् आर्यसुभूतिः. स्थविरो यत्प्रज्ञप्तिं च न विरोधयति धर्मतां चोपदिशति.
अथ खलु भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्, गम्भीरप्रज्ञो बतायम् आर्यसुभूतिः स्थविरो यत्प्रज्ञप्तिं च न विरोधयति धर्मतां चोपदिशति.
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: कथं भगवन् सुभूतिः स्थविरः प्रज्ञप्तिं च न विरोधयति धर्मतां चोपदिशति?
भगवान् आह: रूपं कौशिक प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिमात्रं सा धर्मता, तां च सुभूतिः स्थविरो न विरोधयत्य् उपदिशस्ति च. वेदनासंज्ञासंस्कारा विज्ञानं कौशिक प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिमात्रं सा धर्मता, तां च सुभूतिः स्थविरो न विरोधत्य् उपदिशति च. तत् कस्य हेतोर्? या धर्मता सा न विरुध्यते या न विरुध्यते तां च सुभूतिः स्थविर उपदिशति न विरोधयति, एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गेषु, एवं दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां, एवम् अध्यात्मशून्यतायां यावद् अभावस्वभावशून्यतायां. एवं स्मृत्युपस्थानेषु सम्यक्प्रहाणेष्व् ऋद्धिपादेन्द्रियेषु बलेषु बोध्यङ्गेष्व् आर्याष्टाङ्गे मार्गे ऽप्रमाणध्यानारूप्यसमापत्तिष्व् अभिज्ञासु सत्येषु दशतथागतबलेषु वैशारद्येषु प्रतिसंवित्स्व् अष्टादशावेणिकेषु बुद्धधर्मेषु, एवं स्रोतआपत्तिफले सकृदागामिफले ऽनागामिफले ऽर्हत्त्वे प्रत्येकबुद्धत्वे सर्वज्ञत्वे स्रोतआपन्न इति कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता, तां च सुभूतिः स्थविरो न विरोधयत्य् उपदिशति च. एवं सकृदागामी, अनागामी, अर्हन् प्रत्येकबुद्धस् तथागतो ऽर्हन् सम्यक्संबुद्ध इति कौशिक प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिमात्रं सा धर्मता, तां च सुभूतिः स्थविरो न विरोधयत्य् उपदिशति च. तत् कस्य हेतोर्? या कौशिक धर्मता सा न विरुध्यते, या न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति, एवं हि कौशिक सुभूतिः स्थविरः प्रज्ञप्तिं च न विरोधयति धर्मतां चोपदिशति.
(प्स्प्_2-3:23)
सुभूतिर् आह: एवम् एतत् कौशिकैवम् एतत्. यथा भगवता प्रज्ञप्तिमात्राः सर्वधर्मा उपदिष्टा एवं हि कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञप्तिमात्रान् सर्वधर्मान् विदित्वा प्रज्ञापारमितायां शिक्षितव्यम् एवं शिक्षमाणः पुनः कौशिक बोधिसत्त्वो महासत्त्वो न रूपे शिक्षते न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने शिक्षते. तत् कस्य हेतोस्? थथा हि रूपं न समनुपश्यति यत्र शिक्षते. वेदनां संज्ञां संस्कारान् विज्ञानं न समनुपश्यति यत्र शिक्षते. एवं शिक्षमाणः कौशिक बोधिसत्त्वो महासत्त्वो न दानपारमितायां शिक्षते. तत् कस्य हेतोस्? तथा हि स दानपारमितां न समनुपश्यति यत्र शिक्षते. एवं न शीलपारमितायां न क्षान्तिपारमितायां न वीर्यपारमितायां न ध्यानपारमितायां न प्रज्ञापारमितायां शिक्षते. तत् कस्य हेतोस्? तथा हि स प्रज्ञापारमितां न समनुपश्यति यत्र शिक्षते. अध्यात्मशून्यतायाम् अपि न शिक्षते यावद् अभावस्वभावशून्यतायाम् अपि न शिक्षते. तत् कस्य हेतोस्? तथा हि सो ऽध्यात्मशून्यतां न समनुपश्यति यावद् अभावस्वभावशून्यताम् अपि न समनुपश्यति यत्र शिक्षते. स्मृत्युपस्थानेष्व् अपि न शिक्षते. एवं सम्यक्प्रहानेष्व् ऋद्धिपादेष्व् इन्द्रियेषु बलेषु बोध्यङ्गेष्व् आर्याष्टाङ्गेषु मार्गेष्व् अप्रमाणध्यानारूप्यसमापत्तिष्व् अभिज्ञासु सत्येषु बलेषु वैशारद्येषु प्रतिसंवित्स्व् अष्टादशावेणिकेषु बुद्धधर्मेष्व् अपि न शिक्षते. न स्रोतआपत्तिफले न सकृदागामिफले नानागामिफले नार्हत्त्वे न प्रत्येकबुद्धत्वे शिक्षते सर्वज्ञत्वे ऽपि न शिक्षते. तत् कस्य हेतोस्? तथा हि स सर्वज्ञत्वं न समनुपश्यति यत्र शिक्षते.
अथ खलु शक्रो देवानाम् इन्द्रः सुभूतिं स्थविरम् एतद् अवोचत्: केन कारणेन भदन्त सुभूते बोधिसत्त्वो महासत्त्वो न रूपं समनुपश्यति न वेदनां न संज्ञां न संस्कारान् न विज्ञानं समनुपश्यति. एवं व्यस्तसमस्तान् स्कन्धधात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यान् धर्मान् न समनुपश्यति. अप्रमाणध्यानारूप्यसमापत्तीर् न समनुपश्यति. सत्यान्य् अभिज्ञादशबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् न समनुपश्यति यत्र शिक्षते यावत् सर्वज्ञत्वं अपि न समनुपश्यति यत्र शिक्षते?
सुभूतिर् आह: तथा हि कौशिक रूपं रूपेण शून्यं, वेदनासंज्ञासंस्कारा विज्ञानं विज्ञानेन शून्यं. एवं व्यस्तसमस्तानि स्कन्धधात्वायतनानि (प्स्प्_2-3:24) प्रतीत्यसमुत्पादाः पारमिताः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि सप्तत्रिंशद्बोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तयः सत्यान्य् अभिज्ञा दशबलानि वैशारद्यानि प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा यावत् सर्वाकारज्ञता सर्वाकारज्ञतया शून्या. तत् कस्य हेतोः? न हि कौशिक रूपशून्यता रूपशून्यतां समनुपश्यति यावन् न सर्वज्ञताशून्यता सर्वज्ञताशून्यतां समनुपश्यति. यः कौशिक इह शून्यतायां शिक्षते स रूपशून्यतायां शिक्षते अद्वैधीकारेण. वेदनासंज्ञासंस्कारेषु विज्ञानशून्यतायां शिक्षते अद्वैधीकारेण. एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनेषु प्रतीत्यसमुत्पादपारमितासु सप्तत्रिंशद्बोधिपक्षेषु धर्मेष्व् अप्रमाणध्यानारूप्यसमापत्तिषु सत्येष्व् अभिज्ञासु सर्वशून्यतासु सर्वसमाधिषु सर्वधारणीमुखेषु दशतथागतबलेषु वैशारद्येषु प्रतिसंवित्स्व् आवेणिकेषु बुद्धधर्मेषु यावत् सर्वज्ञताशून्यतायां शिक्षते अद्वैधीकारेण. यः कौशिक रूपशून्यतायां शिक्षते अद्वैधीकारेण यावत् सर्वज्ञताशून्यतायां शिक्षते अद्वैधीकारेण स दानपारमितायाम् अपि शिक्षते अद्वैधीकारेण. एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायाम् अपि शिक्षते अद्वैधीकारेण. अध्यात्मशून्यतायाम् अपि शिक्षते अद्वैधीकारेण यावद् अभावस्वभावशून्यतायाम् अपि शिक्षते अद्वैधीकारेण. स्मृत्युपस्थानेषु सम्यक्प्रहाणेष्व् ऋद्धिपादेष्व् इन्द्रियेषु बलेषु बोध्यङ्गेष्व् आर्याष्टाङ्गे मार्गे शिक्षते अद्वैधीकारेण. अप्रमाणध्यानारूप्यसमापत्तिष्व् अभिज्ञासु सत्येषु दशसु तथागतबलेषु वैशारद्येषु प्रतिसंवित्स्व् आवेणिकेषु बुद्धधर्मेषु शिक्षते अद्वैधीकारेण. सर्वसमाधिषु सर्वधारणीमुखेषु शिक्षते अद्वैधीकारेण. असंख्येयेष्व् अपरिमाणेषु बुद्धधर्मेषु शिक्षते अद्वैधीकारेण. स्रोतआपत्तिफले सकृदागामिफले ऽनागामिफले ऽर्हत्वे प्रत्येकबुद्धत्वे शिक्षते अद्वैधीकारेण. सम्यक्संबुद्धत्वे सर्वाकारज्ञतायां शिक्षते अद्वैधीकारेण.
इति प्रत्येकबुद्धमार्गे निर्वेधभागिय उष्मगतम्
न रूपस्य हानये शिक्षते न वृद्धये शिक्षते. न वेदनासंज्ञासंस्कारविज्ञानस्य हानये शिक्षते न वृद्धये शिक्षते. एवं व्यस्तसमस्तानां स्कन्धधात्वायतनानां न हानये न वृद्धये शिक्षते. प्रतीत्यसमुत्पादस्य न (प्स्प्_2-3:25) हानये न वृद्धये शिक्षते. दानपारमिताया न हानये न वृद्धये शिक्षते. एवं शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमिताया न हानये न वृद्धये शिक्षते. स्मृत्युपस्थानानां न हानये न वृद्धये शिक्षते. एवं सम्यक्प्रहाणानाम् ऋद्धिपादानाम् इन्द्रियाणां बलानां बोध्यङ्गानां मार्गस्य न हानये न वृद्धये शिक्षते. अप्रमाणानां ध्यानारूप्यसमापत्तीनां न हानये न वृद्धये शिक्षते. अध्यात्मशूयताया बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावद् अभावस्वभावशून्यताया न हानये न वृद्धये शिक्षते. सत्यानाम् अभिज्ञानां दशबलवैशारद्यप्रतिसंविदावेणिकानां बुद्धधर्माणां यावत् सर्वज्ञताया न हानये न वृद्धये शिक्षते. यो रूपस्य न हानये न वृद्धये शिक्षते यावत् सर्वज्ञताया न हानये न वृद्धये शिक्षते स न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय शिक्षते. न वेदनाया न संज्ञाया न संस्काराणां न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय शिक्षते. एवं व्यस्तसमस्तानां स्कन्धधात्वायतनानां प्रतीत्यसमुत्पादानां न परिग्रहाय शिक्षते नान्तर्धानाय शिक्षते. एवं पारमितानां सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणम् अप्रमाणध्यानारूप्यसमापत्तीनां सत्यानाम् अभिज्ञानां सर्वसमाधीनां सर्वधारणीमुखानां न परिग्रहाय शिक्षते नान्तर्धानाय शिक्षते. दशानां तथागतबलानां वैशारद्यानां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां यावत् सर्वज्ञताया न परिग्रहाय नान्तर्धानाय शिक्षते.
इति तत्रैव मूर्धगतम्
शारिपुत्र आह: किं कारणम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वो न रूपस्य परिग्रहाय नान्तर्धानाय शिक्षते, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य न परिग्रहाय नान्तर्धानाय शिक्षते यावत् सर्वज्ञताया न परिग्रहाय नान्तर्धानाय शिक्षते?
सुभूतिर् आह: तथा ह्य् आयुष्मञ् शारिपुत्र रूपस्य परिग्रहो नास्ति. तत् कस्य हेतोर्? न रूपं रूपं परिगृह्णाति. न वेदना न संज्ञा न संस्कारास् तथा ह्य् आयुष्मञ् शारिपुत्र विज्ञानस्य परिग्रहो नास्ति. तत् कस्य हेतोस्? तथा हि न (प्स्प्_2-3:26) विज्ञानं विज्ञानं परिगृह्णाति. एवं व्यस्तसमस्तानां स्कन्धधात्वायतनप्रतीत्यसमुत्पादानां पारमितानां बोधिपक्ष्याणां धर्माणां सत्यानाम् अभिज्ञानां सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानां दशबलवैशारद्यानां प्रतिसंविदावेणिकानां बुद्धधर्माणां परिग्रहो नास्ति. तत् कस्य हेतोस्? तथा ह्य् आवेणिकबुद्धधर्मा नावेणिकबुद्धधर्मान् परिगृह्णन्ति. तथा ह्य् आयुष्मञ् शारिपुत्र सर्वज्ञतायाः परिग्रहो नास्ति. तत् कस्य हेतोस्? तथा हि सर्वज्ञता न सर्वज्ञतां परिगृह्णाति. अध्यात्मशून्यतां यावद् अभावस्वभावशून्यताम् उपादाय. एतं ह्य् आयुष्मञ् शारिपुत्र बोधिसत्त्वो महासत्त्वः सर्वधर्मापरिग्रहाय सर्वज्ञतायां शिक्षते सर्वज्ञतायां निर्यास्यति.
शारिपुत्र आह: एवं शिक्षमाण आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते सर्वज्ञतायां निर्यास्यति.
सुभूतिर् आह: एवं शिक्षमाणः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते सर्वज्ञतायां निर्यास्यति सर्वधर्माणाम् अपरिग्रहयोगेन. इति तत्रैव क्षान्तिगतम्
शारिपुत्र आह: एवं शिक्षमाण आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः सर्वधर्माणाम् अपरिग्रहाय नान्तर्धानाय शिक्षित्वा कथं सर्वज्ञतायां निर्यास्यति?
सुभूतिर् आह: तथा ह्य् आयुष्मञ् शरिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपस्योत्पादं पश्यति न निरोधं नोद्ग्रहं नोत्सर्गं न संक्लेशं न व्यवदानं नाचयं नापचयं न हानिं न वृद्धिं. तत् कस्य हेतोस्? तथा ह्य् आयुष्मञ् शरिपुत्र रूपं रूपस्वभावेन न विद्यते, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यायुष्मञ् शारिपुत्र बोधिसत्त्वो महासत्त्वो नोत्पादं पश्यति न निरोधं नोद्ग्रहं नोत्सर्गं न संक्लेशं न व्यवदानं नाचयं नापचयं न हानिं न वृद्धिम्. तत् कस्य हेतोस्? अथा ह्य् आयुष्मञ् शरिपुत्र विज्ञानं विज्ञानस्वभावेन न विद्यते. एवं व्यस्तसमस्तानां स्कन्धधात्वायतनानां प्रतीत्यसमुत्पादस्य पारमितानां सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् अभिज्ञानां सर्वसमाधीनां सर्वधारणीमुखानां बलानां वैशारद्यानां (प्स्प्_2-3:27) प्रतिसंविदाम् आवेणिकानां बुद्धधर्माणां यावत् सर्वज्ञताया नोत्पादं पश्यति न निरोधं नोद्ग्रहं नोत्सर्गं न संक्लेशं न व्यवदानं नाचयं नापचयं न हानिं न वृद्धिं. तत् कस्य हेतोस्? तथा ह्य् आयुष्मञ् शारिपुत्र सर्वज्ञता सर्वज्ञतास्वभावेन न संविद्यते, एवं ह्य् आयुष्मञ् शरिपुत्र बोधिसत्त्वो महासत्त्वः सर्वधर्माणाम् अनुत्पादायानिरोधायानुद्ग्रहायानुत्सर्गायासंक्लेशायाव्यवदानाय नाचयाय नापचयाय न हानये न वृद्धये शिक्षते प्रज्ञापारमितायां शिक्षते सर्वज्ञतायां निर्यास्यति अशिक्षानिर्याणयोगेन.
इति तत्रैवाग्रधर्मगतम् इत्य् उक्तः प्रत्येकबुद्धमार्गः
अथ खलु शक्रो देवानाम् इन्द्र आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: प्रज्ञापारमिता भदन्त शारिपुत्र कुतो गवेषितव्या?
शारिपुत्र आह: प्रज्ञापारमिता कौशिक सुभूतेः परिवर्ताद् गवेषितव्या.
अथ खलु शक्रो देवानाम् इन्द्रः सुभूतिं स्थविरम् एतद् अवोचत्: तवैव आर्यसुभूते, अनुभावस् तवैतद् अधिष्ठानं यद् आर्यशारिपुत्र, एवं वदति; प्रज्ञापारमिता कौशिकायुष्मतः सुभूतेः परिवर्ताद् गवेषितव्येति.
सुभूतिर् आह: न ममैष कौशिकानुभावः न ममैतद् अधिष्ठानम्.
शक्र आह: कस्यैषो ऽनुभावः कस्यैतद् अधिष्ठानम्.
सुभूतिर् आह: तथागतस्यैष कौशिकानुभावस् तथागतस्यैतद् अधिष्ठानं न चान्यत्र निरधिष्ठानधर्मतायास् तथागत उपलभ्यते, न चान्यत्र तथतायास् तथागत उपलभ्यते, निरधिष्ठाना देवान्द्र सर्वधर्माः.
देवेन्द्र आह: कथम् आर्यसुभूते निरधिष्ठानेषु सर्वधर्मेषु एवं वदसि? तथागतस्यैषो ऽनुभावस् तथागतस्यैतद् अधिष्ठानम् इति.
सुभूतिर् आह: एवम् एतत् कौशिकैवम् एतत्, नान्यत्र निरधिष्ठानधर्मतायास् तथागत उपलभ्यते, नान्यत्र तथतायास् तथागत उपलभ्यते, न च निरधिष्ठानधर्मतायां तथागत उपलभ्यते, न च तथागते निरधिष्ठानधर्मता उपलभ्यते, न च तथतयां तथागत उपलभ्यते, न च ताथागते तथतोपलभ्यते, न रूपतथतायां तहागत उपलभ्यते, न च तथागते रूपतथतोपलभ्यते, न रूपधर्मतायां तथागत उपलभ्यते, न च तथागते रूपधर्मता न वेदनातथतायां न संज्ञातथतयां न संस्कारतथतायां न विज्ञानतथतायां तथागत उपलभ्यते, न च (प्स्प्_2-3:28) तथागते विज्ञानतथतोपलभ्यते, न विज्ञानधर्मतायां तथागत उपलभ्यते, न च तथागते विज्ञानधर्मता, एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमिताभिज्ञासत्येषु सप्तत्रिंशद्बोधिपक्षधर्माप्रमाणध्यानारूप्यसमापत्तिषु सर्वशून्यतायां सर्वसमाधिषु सर्वधारणीमुखेषु दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु यावन् न सर्वज्ञतातथतायां तथागत उपलभ्यते, न च तथागते सर्वज्ञतातथता उपलभ्यते, न सर्वज्ञताधर्मतायां तथागत उपलभ्यते, न च तथागते सर्वज्ञताधर्मता. तत् कस्य हेतोर्? यः कौशिक तथागतो न रूपतथतायां संयुक्तो न विसंयुक्तो वेदनासंज्ञासंस्कारविज्ञानतथतायां संयुक्तो न विसंयुक्तः. यः कौशिक तथागतो न रूपधर्मतायां संयुक्तो न विसंयुक्तो वेदनासंज्ञासंस्कारविज्ञानधर्मतायां संयुक्तो न विसंयुक्तः, न चान्यत्र रूपतथतायाः संयुक्तो न विसंयुक्तः. न चान्यत्र रूपधर्मतायाः संयुक्तो न विसंयुक्तः. वेदनासंज्ञासंस्कारा न चान्यत्र विज्ञानतथतायाः संयुक्तो न विसंयुक्तो न चान्यत्र विज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः. विस्तरेण यावद् यस् तथागतो न स सर्वज्ञतातथतायां संयुक्तो न विसंयुक्तः, न सर्वज्ञताधर्मतायां संयुक्तो न विसंयुक्तः, न चान्यत्र सर्वज्ञतायाः संयुक्तो न विसंयुक्तः न चान्यत्र सर्वज्ञताधर्मतायाः संयुक्तो न विसंयुक्तः यो हि कौशिक सर्वधर्मेषु न संयुक्तो न विसंयुक्तः तस्यैषो ऽनुभावस् तस्यैतद् अधिष्ठानम् अनधिष्ठानयोगेन. यत् पुनः कौशिक एवं वदसि: कुतो बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता गवेषितव्येति? न रूपतो गवेषितव्या नान्यत्र रूपतो गवेषितव्या, न वेदनाया न संज्ञाया न संस्कारेभ्यो न विज्ञानतो गवेषितव्या नान्यत्र विज्ञानाद् गवेषितव्या. तत् कस्य हेतोस्? तथा हि कौशिक या च प्रज्ञापारमिता यच् च रूपं या च वेदना या च संज्ञा ये च संस्कारा यच् च विज्ञानं या च गवेषणा सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न धातुतो गेवेषितव्या नायतनेभ्यो न प्रतीत्यसमुत्पादेभ्यो न पारमिताभ्यो न बोधिपक्ष्येभ्यो धर्मेभ्यो नाप्रमाणध्यानारूप्यसमापत्तिभ्यो न (प्स्प्_2-3:29) सत्येभ्यो नाभिज्ञाभ्यो न समाधिभ्यो न धारणीमुखेभ्यो न बलेभ्यो न वैशारद्येभ्यो न प्रतिसंविद्भ्यो नाष्टादशभ्य आवेणिकेभ्यो बुद्धधर्मेभ्यो यावन् न सर्वाकारज्ञताया गवेषितव्या नान्यत्र सर्वाकारज्ञताया गवेषितव्या. तत् कस्य हेतोस्? तथा हि कौशिक या च प्रज्ञापारमिता या च सर्वाकारज्ञता या च गवेषणा सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. तत् कस्य हेतोस्? तथा हि कौशिक न रूपं प्रज्ञापारमिता नान्यत्र रूपात् प्रज्ञापारमिता न वेदना न संज्ञा न संस्कारा न विज्ञानं प्रज्ञापारमिता नाप्य् अन्यत्र विज्ञानात् प्रज्ञापारमिता एवं व्यस्तसमस्ताः स्कन्धधात्वायतनप्रतीत्यसमुत्पादपारमितासत्याभिज्ञासप्तत्रिंशद्बोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तयः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि दशबलवैशारद्यप्रतिसंविद आवेणिकबुद्धधर्मा यावन् न सर्वाकारज्ञता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञतायाः प्रज्ञापारमिता. एवं न रूपतथता प्रज्ञापारमिता नाप्य् अन्यत्र रूपतथतायाः प्रज्ञापारमिता न वेदनातथता न संज्ञातथता न संस्कारतथता न विज्ञानतथता प्रज्ञापारमिता न चान्यत्र विज्ञानतथतायाः प्रज्ञापारमिता. न रूपधर्मता प्रज्ञापारमिता नान्यत्र रूपधर्मतायाः प्रज्ञापारमिता न वेदनाधर्मता न संज्ञाधर्मता न संस्कारधर्मता न विज्ञानधर्मता प्रज्ञापारमिता नान्यत्र विज्ञानधर्मतायाः प्रज्ञापारमिता, यावन् न सर्वज्ञतातथता प्रज्ञापारमिता नान्यत्र सर्वज्ञतातथतायाः प्रज्ञापारमिता, न सर्वज्ञताधर्मता प्रज्ञापारमिता नान्यत्र सर्वज्ञताधर्मतायाः प्रज्ञापारमिता. तत् कस्य हेतोस्? तथा हि कौशिक सर्व एते धर्मा न संविद्यन्ते नोपलभ्यन्ते. एवम् एव सर्वधर्मेष्व् असंविद्यमानेष्व् अनुपलभ्यमानेषु न रूपं प्रज्ञापारमिता नान्यत्र रूपात् प्रज्ञापारमिता, न रूपतथता प्रज्ञापारमिता नान्यत्र रूपतथतायाः प्रज्ञापारमिता. न रूपधर्मता प्रज्ञापारमिता नान्यत्र रूपधर्मतायाः प्रज्ञापारमिता. न वेदना न संज्ञा न संस्कारा, न विज्ञानं प्रज्ञापारमिता नान्यत्र विज्ञानात् प्रज्ञापारमिता. न विज्ञानतथता प्रज्ञापारमिता नान्यत्र विज्ञानतथतायाः प्रज्ञापारमिता. न विज्ञानधर्मता प्रज्ञापारमिता (प्स्प्_2-3:30) नान्यत्र विज्ञानधर्मतायाः प्रज्ञापारमिता. एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमितासत्याभिज्ञासप्तत्रिंशद्बोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तयः सर्वशून्यताः सर्वसमाधयः. सर्वधारणीमुखानि दशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा न सर्वाकारज्ञता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञतायाः प्रज्ञापारमिता. न सर्वाकारज्ञतातथता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञतातथतायाः प्रज्ञापारमिता. न सर्वाकारज्ञताधर्मता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञताधर्मतायाः प्रज्ञापरमिता.
इति सानुशंसं दर्शनमार्गम् अधिकृत्य दुःखे धर्मज्ञानक्षान्तिः
अथ खलु शक्रो देवानाम् इन्द्र आयुष्मन्तं सुभूतिं स्थविरम् एतद् अवोचत्: महापारमितेयं भदन्त सुभूते बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, अप्रमाणपारमितेयं यद् उत प्रज्ञापारमिता, अपरिमाणपारमितेयं यद् उत प्रज्ञापारमिता, अनन्तपारमितेयं भदन्त सुभूते यद् उत प्रज्ञापारमिता, यस्यां शिक्षमाणैः स्रोतआपन्नैः स्रोतआपत्तिफलं प्राप्तम्, एवं सकृदागामिभिर् अनागामिभिर् अर्हद्भिः प्रत्येकबुद्धैः प्रत्येकबोधिः प्राप्ता. बोधिसत्त्वैर् महासत्त्वैः सर्वाकारज्ञता ऽनुप्राप्ता ऽनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा ऽभिसंबुद्ध्यते ऽभिसंभोत्स्यते च.
सुभूतिर् आह: एवम् एतत् कौशिकैवम् एतत्, महापारमितेयम् अप्रमाणपारमितेयम् अपरिमाणपारमितेयं अनन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, यत्र शिक्षमाणैः. स्रोतआपन्नैः स्रोतआपत्तिफलं प्राप्तम्, एवं सकृदागामिभिर् अनागामिभिर् अर्हद्भिः प्रत्येकबुद्धैः प्रत्येकबोधिः प्राप्ता. बोधिसत्त्वैर् महासत्त्वैः सर्वाकारज्ञता ऽनुप्राप्ता ऽनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा ऽभिसंबुद्ध्यते ऽभिसंभोत्स्यते च. तत् कस्य हेतोः? रूपमहत्तया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानां तत् कस्य हेतोस्? तथा हि कौशिक रूपस्य न पूर्वन्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, वेदनासंज्ञासंस्कारा विज्ञानमहत्तया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानां तत् कस्य हेतोस्? तथा हि कौशिक विज्ञानस्य न (प्स्प्_2-3:31) पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. एवं व्यस्तसमस्तानां प्रतीत्यसमुत्पादाङ्गानां पारमितानां सत्यानाम् अभिज्ञानां सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणाम् अप्रमाणध्यानारूप्यसमापत्तीनां सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानां दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां यावत् सर्वाकारज्ञतामहत्तया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानां. तत् कस्य हेतोस्? तथा हि कौशिक सर्वाकारज्ञताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. अनेन कौशिक पर्यायेण महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. इति दुःखे धर्मज्ञानम्
रूपाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानां. तत् कस्य हेतोस्? तथा हि कौशिक रूपस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक रूपस्य प्रमाणं नोपलभ्यते. आकाशाप्रमाणतया च रूपाप्रमाणता, रूपाप्रमाणतया च प्रज्ञापारमिताप्रमाणता बोधिसत्त्वानां महासत्त्वानां वेदनासंज्ञासंस्कारा विज्ञानाप्रमाणतया कौशिक, अप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोस्? तथा हि कौशिक विज्ञानस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिक, आकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक विज्ञानस्य प्रमाणं नोपलभ्यते. आकाशाप्रमाणतया च व्ज्ञानाप्रमाणता, विज्ञानाप्रमाणतया च प्रज्ञापारमिताप्रमाणता बोधिसत्त्वानां महासत्त्वानाम्. एवं व्यस्तसमस्ताः स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गपारमिताबोधिपक्ष्यधर्माः सत्याभिज्ञाप्रमाणध्यानारूप्यसमापत्तयः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा यावत् सर्वाकारज्ञातताप्रंआणतया कौशिक, अप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानां. तत् कस्य हेतोस्? तथा हि कौशिक सर्वाकारज्ञतायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिक, आकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक सर्वाकरज्ञतायाः प्रमाणं नोपलभ्यते. आकाशाप्रमाणतया च सर्वाकारज्ञताप्रमाणता, सर्वाकारज्ञताप्रमाणतया च प्रज्ञापारमिताप्रमाणता. अनेन कौशिक पर्यायेणाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्.
(प्स्प्_2-3:32)
इति दुःखे ऽन्वयज्ञानक्षान्तिः
रूपापरिमाणतया कौशिक, अपरिमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानां. तत् कस्य हेतोस्? तथा हि कौशिक रूपस्य परिमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य परिमाणं नोपलभ्यते, एवम् एव कौशिक रूपस्य परिमाणं नोपलभ्यते. आकाशापरिमाणतया च रूपापरिमाणता, रूपापरिमाणतया च प्रज्ञारमितापरिमाणता बोधिसत्त्वानां महासत्त्वानाम् एवं यावत् सर्वाकारज्ञता वक्तव्या. इति दुःखे ऽन्वयज्ञानम्
रूपानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां. तत् कस्य हेतोस्? तथा हि रूपस्य नान्तो न मध्यम् उपलभ्यते. वेदनासंज्ञासंस्काराणां विज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोस्? तथा हि कौशिक विज्ञानस्य नान्तो न मध्यम् उपलभ्यते. एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमिताभिज्ञासत्येषु स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाप्रमाणध्यानारूप्यसमापत्तिषु सर्वशून्यतासु सर्वसमाधिषु सर्वधारणीमुखेषु दशबलवैशारद्येषु प्रतिसंविदावेणिकबुद्धधर्मेषु सर्वाकारज्ञतानन्ततया कौशिक, अनन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानं. तत् कस्य हेतोस्? तथा हि कौशिक सर्वाकारज्ञताया नान्तो न मध्यम् उपलभ्यते. अनेन कौशिक पर्यायेण अनन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां रूपानन्तताम् उपादाय यावत् सर्वाकारज्ञतानन्तताम् उपादाय. इति हेतुप्रतिषेधः
पुनर् अपरं कौशिकारम्बणानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.
देवेन्द्र आह: कथं भदन्त सुभूते आरम्बणानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता?
सुभूतिर् आह: सर्वाकारज्ञतारम्बणानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता. इति समुदयप्रतिषेधः
पुनर् अपरं कौशिकारम्बणानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.
देवेन्द्र आह: कथं भदन्त सुभूते आरम्बणानन्ततयानन्तपारमितेयं (प्स्प्_2-3:33) बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता?
सुभूतिर् आह: धर्मधात्वारम्बणानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता. इति प्रभवप्रतिषेधः
पुनर् अपरं कौशिक तथतारम्बणानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.
देवेन्द्र आह: कथं भदन्त सुभूते तथतारम्बणानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता?
सुभूतिर् आह: तथा हि कौशिक तथतानन्ततयारम्बणानन्तता, एवं तथतारम्बणानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता. इति प्रत्ययप्रतिषेधः
पुनर् अपरं कौशिक सत्त्वानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.
देवेन्द्र आह: कथं भदन्त सुभूते सत्त्वानन्ततयानन्तपारमितायं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता?
सुभूतिर् आह: तत् किं मन्यसे? कौशिक कतमस्यैतद् धर्मस्याधिवचनं यद् उत सत्त्वः सत्त्व इति.
देवेन्द्र आह: नेदं भदन्त सुभूते धर्माधिवचनम् आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं, अवस्तुकम् एतन् नामधेयं प्रक्षिप्तम्, अनारम्बणम् एतन् नामधेयं प्रक्षिप्तं यद् उत सत्त्वः सत्त्व इति.
सुभूतिर् आह: तत् किं मन्यसे कौशिक काचिद् इह प्रज्ञापारमितायां सत्त्वपरिदीपना कृता?
देवेन्द्र आह: न भदन्त सुभूते.
सुभूतिर् आह: यत्र कौशिक न सत्त्वपरिदीपना कृता न काचित् तत्र सत्त्वानन्तता. सचेत् कौशिक तथागतो ऽर्हन् सम्यक्संबुद्धो गङ्गानदीवालुकोपमान् कल्पान् तिष्ठन् सत्त्वः सत्त्व इति वाचं भाषेत. तत् किं मन्यसे कौशिक, अपि नु तत्र कश्चित् सत्त्व उत्पन्नो वा निरुद्धो वा?
देवेन्द्र आह: नो भदन्त सुभूते, तत् कस्य हेतोः? आदिशुद्धत्वात् सत्त्वस्य.
सुभूतिर् आह: अनेन कौशिक पर्यायेण सत्त्वानन्ततया प्रज्ञापारमितानन्तता वेदितव्या. इति तत्रैव सत्त्वधातूद्देशिकतां परिदीपयतीति समुदये धर्मज्ञानक्षान्तिः
(प्स्प्_2-3:34)
अथ खलु सेन्द्रका देवाः सब्रह्मकाः सप्रजापतिकाः सनारीनरर्षिगणास् त्रिर् उदानम् उदानयामासुः, अहो धर्मः, अहो धर्मः, अहो धर्मस्य धर्मता येयं सुभूतिना स्थविरेण देश्यते यद् उत तथागतानुभावेन तथागताधिष्ठानेन सूच्यते प्रभाव्यते प्रकाश्यते तथागतान् एव तान् भगवन् बोधिसत्त्वान् महासत्त्वान् धारयिष्यामो ये ऽनया प्रज्ञापारमितयाविरहिता भविष्यन्ति, न च नाम कश्चिद् धर्म उपलभ्यते रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा यावत् सर्वाकारज्ञता वा, कुतः पुनस् त्रयाणां यानानां व्यवस्थानं प्रज्ञायते श्रावकयानस्य वा प्रत्येकबुद्धयानस्य वा महायानस्य वा.
अथ खलु भगवांस् तान् देवपुत्रान् आमन्त्रयामास: एवम् एतद् देवपुत्रा एवम् एतत्, यथा वाचं भाषध्वे न च नाम कश्चिद् धर्म उपलभ्यते रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा यावत् सर्वाकारज्ञता वा त्रयाणां च यानानां व्यवस्थानं प्रज्ञायते श्रावकयानस्य वा प्रत्येकबुद्धयानस्य वा महायानस्य वा. तथागतः स देवपुत्रा बोधिसत्त्वो महासत्त्वो धारयितव्यो यो ऽनया प्रज्ञापारमितयाविरहितो भविष्यति अनुपलम्भयोगेन. तत् कस्य हेतोस्? तथा ह्य् अत्र प्रज्ञापारमितायां त्रीणि यानानि विस्तरेणोपदिष्टानि श्रावकयानं वा प्रत्येकबुद्धयानं वा महायानं वा. न चान्यत्र दानपारमितायास् तथागत उपलभ्यते, एवं शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमिताया न चान्यत्र प्रज्ञापारमितायास् तथागत उपलभ्यते. न चान्यत्राध्यात्मशून्यताया न चान्यत्र बहिर्धाशून्यताया न चान्यत्राध्यात्मबहिर्धाशून्यतायाः, यावन् न चान्यत्राभावस्वाभावशून्यतायास् तथागत उपलभ्यते. न चान्यत्र स्मृत्युपस्थानेभ्यस् तथागत उपलभ्यते. एवं न चान्यत्र सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाभिज्ञासत्याप्रमाणध्यानारूप्यसमापत्तिसमाधिधारणीमुखेभ्यस् तथागत उपलभ्यते. न चान्यत्र दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेभ्यस् तथागत उपलभ्यते. न चान्यत्र सर्वाकारज्ञतायास् तथागत उपलभ्यते. बोधिसत्त्वा महासत्त्वाश् च देवपुत्राः सर्वेष्व् एव धर्मेषु शिक्षन्ते दानपारमितायाम् आदिं कृत्वा यावत् सर्वाकारज्ञतायां शिक्षन्ते. तस्मात् तर्हि (प्स्प्_2-3:35) देवपुत्राः स बोधिसत्त्वो महासत्त्वस् तथागत एवेति वक्तव्यो यो ऽनया प्रज्ञापारमितयाविरहितश् चरति. यदाहं देवपुत्रा दीपंकरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके दीपवत्यां राजधान्याम् अन्तरायणमध्यगतो दानपारमितयाविरहितो भवेयम्. एवं शीलपारमितया क्षान्तिपारमितया वीर्यपारमितया ध्यानपारमितया प्रज्ञापारमितयाविरहितो भवेयम्. एवम् अध्यात्मशून्यतयाविरहितो भवेयम्. एवं बहिर्धाशान्यतयाध्यात्मबहिर्धाशून्यतया यावद् अभावस्वभावशून्यतयाविरहितो भवेयम्. एवं स्मृत्युपस्थानैर् अविरहितो भवेयम्. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गैर् अविरहितो भवेयं. एवं चतुर्भिर् ध्यानैश् चतुर्बिर् अप्रमाणैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिश् चावेणिकैर् बुद्धधर्मैः. महामैत्र्या महाकरुणया चान्यैश् चाप्रमाणैर् बुद्धधर्मैर् अविरहितो भवेयं तच् चानुपलम्भयोगेन. तदाहं देवपुत्रास् तेन तथागतेनार्हता सम्यक्संबुद्धेन व्याकृतो; भविष्यसि त्वम् अनागते ऽध्वन्य् अस्मिन्न् एव सहालोकधातव् असंख्यैः कल्पैः शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्यानां च बुद्धो भगवान्.
इति समुदये धर्मज्ञानम्
अथ खलु ते देवपुत्रा भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावद् इयं प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां सर्वाकारज्ञताया अनुपरिग्राहिका रूपस्यापरिग्रहानुत्सर्गयोगेन. वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यापरिग्रहानुत्सर्गयोगेन. एवं व्यस्तसमस्तानां स्कन्धधात्वायतनानां प्रतीत्यसमुत्पादाङ्गानां पारमितानां स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाणां ध्यानारूप्यसमापत्तिनां सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानां दशबलवैशारद्यप्रतिसंविदष्टादशावेणिकबुद्धधर्माणां यावत् सर्वाकारज्ञतया अपरिग्रहानुत्सर्गयोगेनेति आर्यपञ्चविंशतिसाहस्रिकायां प्रज्ञापारमितायाम् अभिसमयालंकारानुसारेण परिशोधितायां शक्रपरिवर्तो नाम द्यितीयः.
अथ खलु भगवांश् चतस्रः परिषदो भिक्षुभिभ्षुण्युपासकोपासिका बोधिसत्त्वान् महासत्त्वांश् चतुरो महाराजांश् चातुर्महाराजकायिकांश् च देवपुत्रान् यावद् अकनिष्ठांश् च देवपुत्रान् संनिपतितान् संनिषण्णांश् (प्स्प्_2-3:36) च सर्वान् साक्षिणः स्थापयित्वा शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: ये केचित् कौशिक बोधिसत्त्वा महासत्त्वा भिक्षुभिक्षुण्युपासकोपासिका वा कुलपुत्रा वा कुलदुहितरो वा देवपुत्रा देवकन्या वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति भावयिष्यन्ति परेभ्यश् च विस्तरेण संप्रकाशयिष्यन्ति योनिशो मनसिकरिष्यन्ति, ये च सर्वाकारज्ञताचित्तेनाविरहिता भविष्यन्ति तेषां मारा वा मारकायिका वा अवतारं न लप्स्यन्ते. तत् कस्य हेतोस्? तथा हि तैः कुलपुत्रैः कुलदुहितृभिश् च रूपशून्यतैव स्वधिष्ठिता भविष्यति. एवं वेदना संज्ञासंस्काराविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोर्? न हि शून्यता शून्यतायाम् अवतारं लभते, नानिमित्तम् आनिमित्ते ऽवतारं लभते, नाप्रणिहितम् अप्रणिहिते ऽवतारं लभते. एवं व्यस्तसमस्ता स्कन्धधात्वायतनप्रतीत्यसमुत्पादशून्यतैव स्वधिष्ठिता भविष्यति. एवं पारमितासत्याभिज्ञाप्रमाणध्यानारूप्यसमापत्तिशून्यतैव स्वधिष्ठिता भविष्यति. एवं सर्वशून्यता सर्वसमाधिसर्वधारणीमुखस्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गशून्यतैव स्वधिष्ठिता भविष्यति. एवं दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मशून्यतैव स्वधिष्ठिता भविष्यति. यावत् सर्वाकारज्ञताशून्यतैव तैः कुलपुत्रैः कुलदुहितृभिश् च स्वधिष्ठिता भविष्यति. तत् कस्य हेतोस्? तथा हि न शून्यता शून्यतायाम् अवतारं लभते, नानिमित्तम् आनिमित्ते ऽवतारं लभते, नाप्रणिहितम् अप्रणिहिते ऽवतारं लभते. तत् कस्य हेतोस्? तथा हि तेषां स्वभावो न संविद्यते, येनावतारं लभेरन्, यत्र वावतारं लभेरन्, यस्य वावतारं लभेरन्.
इति समुदये ऽन्वयज्ञानक्षान्तिः
न खलु पुनः कौशिक तेषां कुलपुत्राणां कुलदुहितृणां वा मनुष्यो वामनुष्यो वावतारं लप्स्यते. तथा हि तैः कुलपुत्रैः कुलदुहितृभिश् च सर्वसत्त्वानाम् अन्तिके मैत्रीकरुणामुदितोपेक्षा भाविता सा चानुपलम्भयोगेन. (प्स्प्_2-3:37) न च ते कौशिक कुलपुत्रा वा कुलदुहितरो वा विषमापरिहारेण कालं करिष्यन्ति तत् कस्य हेतोस्? तथा हि तैः कुलपुत्रैः कुलदुहितृभिश् च दानपारमितायां चरद्भिः सर्वसत्त्वाः सम्यक्परिचर्यया उपस्थिताः. यैर् वा कौशिक चातुर्महाराजकायिकैर् देवपुत्रैर् इह त्रिसाहस्रमहासाहस्रे लोकधातौ त्रयस्त्रिंशैर् वा यामैर् वा तुषितैर् वा निर्माणरतिभिर् वा परनिर्मितवशवर्तिभिर् वा ब्रह्मकायिकैर् वा ब्रह्मपुरोहितैर् वा ब्रह्मपार्षद्यैर् वा यावद् अकनिष्ठैर् वा देवपुत्रैर् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादितं न चायं प्रज्ञापारमिता श्रुता नोद्ग्रहीता न धारिता न वाचिता न पर्यवाप्ता, तैर् देवपुत्रैर् इयं प्रज्ञापारमिता श्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च मनसिकर्तव्या सर्वज्ञताचित्तेनाविरहितैः.
इति समुदये ऽन्वयस्ज्ञानम्
पुनर् अपरं कौशिक ये कुलपुत्रा वा कुलदुहितरो वा इमां प्रज्ञापारमिताम् उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति अविरहिताः सर्वाकारज्ञताचित्तेन भविष्यन्ति, न खलु पुनः कौशिक तेषां कुलपुत्राणां कुलदुहितृणां वा शून्यागारगतानां वा अभ्यवकाशगतानां वा उत्पथगतानां वा भयं वा स्तम्भितत्वं वा भविष्यति. तत् कस्य हेतोस्? तथा हि तैः कुलपुत्रैः कुलदुहितृभिश् चाध्यात्मशून्यता सुभाविता अनुपलम्भयोगेन, बहिर्धाशून्यता सुभाविता अनुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता सुभाविता अनुपलम्भयोगेन यावद् अभावस्वभावसुन्यता सुभाविता अनूपलम्भयोगेन.
अथ खलु तावद् एव त्रिसाहस्रमहासाहस्रे लोकधातौ ये चातुर्महाराजकायिका देवपुत्रास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परम्र्मितवशवर्तिनो यावच् छुद्धावासकायिका देवपुत्रास् ते भगवन्तम् एतद् अवोचत्: वयं भगवंस् तेषां कुलपुत्राणां कुलदुहितॄणां च सततसमितं रक्षावरणगुप्तिं संविधास्यामः य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति लिखिष्यन्ति योनिशश् च मनसिकरिष्यन्ति अविरहिताश् च भविष्यन्ति सर्वज्ञताचित्तेन. (प्स्प्_2-3:38) तत् कस्य हेतोस्? तथा हि भगवन् बोधिसत्त्वं महासत्त्वम् आगम्य निरया उच्छिद्यन्ते, तिर्यग्योनियमलोका असुराः काया मनुष्यदारिद्र्या उपद्रवा उपसर्गाः. सर्वे ऽप्य् उच्छिद्यन्ते. बोधिसत्त्वं महासत्त्वम् आगम्य दशानां कुशलानां कर्मपथनां लोके प्रादुर्भावो भवति. चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतसृणाम् आरूप्यसमापत्तीनां दानपारमितायाः शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमिताया लोके प्रादुर्भावो भविष्यति अध्यात्मशून्यताया बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावद् अभावस्वभावशून्यताया लोके प्रादुर्भावो भविष्यति. चतुर्णां स्मृत्युपस्थानानां चतुर्णां सम्यक्प्रहाणानां चतुर्णाम् ऋद्धिपादानां पञ्चानाम् इन्द्रियाणां पञ्चानां बलानां सप्तानां बोध्यङ्गानाम् आर्याष्टाङ्गिकस्य मार्गस्य चतुर्णाम् आर्यसत्यानां चतुर्णाम् अप्रमाणानां षण्णाम् अभिज्ञानां दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृनां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां लोके प्रादुर्भावो भविष्यति. अनेकेषां समाधीनाम् अनेकेषां धारणीमुखानां सर्वज्ञताया बोधिसत्त्वमार्गस्य लोके प्रादुर्भावो भविष्यति.
पुनर् अपरं बोधिसत्त्वं महासत्त्वम् आगम्य क्षत्रियमहाशालकुलानि लोके प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि लोके प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते, चक्रवर्तिमहाशालकुलानि प्रज्ञायन्ते, चातुर्महाराजकायिका देवपुत्राः प्रज्ञायन्ते. एवं त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्या महाब्रह्माणो यावद् अकनिष्ठाश् च देवपुत्रा लोके प्रज्ञायन्ते.
पुनर् अपरं बोधिसत्त्वं महासत्त्वम् आगम्य स्रोतआपत्तिफलं प्रज्ञायते, स्रोतआपन्नः. प्रज्ञायते. एवं सकृदागामिफलं सकृदागामी अनागामिफलम् अनागामी अर्हत्त्वम् अर्हल् लोके प्रज्ञायते, प्रत्येकबोधिः प्रत्येकबुद्धा लोके प्रज्ञायन्ते.
पुनर् अपरं बोधिसत्त्वं महासत्त्वम् आगम्य सत्त्वपरिपाकः प्रज्ञायते, बुद्धक्षेत्रपरिशुद्धिः प्रज्ञायते, तथागतो ऽर्हन् (प्स्प्_2-3:39) सम्यक्संबुद्धो लोके प्रज्ञायते, धर्मचक्रप्रवर्तनं प्रज्ञायते, बुद्धरत्नं प्रज्ञायते, धर्मरत्नं प्रज्ञायते, संघरत्नं प्रज्ञायते. अनेन भगवन् पर्यायेण बोओधिसत्त्वस्य महासत्त्वस्य सदेवमानुषासुरगन्धर्वयक्षगरुडकिंनरमहोरगमनुष्यामनुष्येण लोकेन रक्षावरणगुप्तिः संविधातव्या.
एवम् उक्ते भगवाञ् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्, बोधिसत्त्वं महासत्त्वम् आगम्य निरयतिर्यग्योनियमलोके गतय उच्छिद्यन्ते, देवदारिद्र्यं मनुष्यदारिद्र्यम् उपद्रवा उपसर्गाः सर्वे ऽप्य् उच्छिद्यन्ते. बोधिसत्त्वं महासत्त्वम् आगम्य दशानां कुशलानां कर्मपथानां लोके प्रादुर्भावो भवति. दशानां पारमितानां दशानां बोधिसत्त्वभूमीनाम् अप्रमाणध्यानारूप्यसमापत्तीनां सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणां सत्यानाम् अभिज्ञानां सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानां लोके प्रादुर्भावो भवति. दशबलवैशारद्यप्रतिसंविदावेणिकानां बुद्धधर्माणां सर्वाकारज्ञताया बोधिसत्त्वं महासत्त्वम् आगम्य लोके प्रादुर्भावो भवति. क्षत्रियमहाशालकुलानि ब्राह्मणमहाशालकुलानि गृहपतिमहाशालकुलानि बोधिसत्त्वं महासात्त्वम् आगम्य लोके प्रज्ञायन्ते, चक्रवर्तिराज्यकुलानि लोके प्रज्ञायन्ते, चातुर्महाराजकायिका देवपुत्रा यावद् अकनिष्ठा देवपुत्राः प्रज्ञायन्ते, स्रोतआपत्तिफलं स्रोतआपन्नः, एवं सकृदागामिफलं सकृदागामी अनागामिफलम् अनागामी अर्हत्त्वम् अर्हश् च लोके प्रज्ञायते, प्रत्येकबोधिः प्रत्येकबुद्धा लोके प्रज्ञायन्ते, बोधिसत्त्वं महासत्त्वम् आगम्य सत्त्वपरिपाकः प्रज्ञायते, बुद्धक्षेत्रपरिशुद्धिः प्रज्ञायते, तथागतो ऽर्हन् सम्यक्संबुद्धो लोके प्रज्ञायते, धर्मचक्रप्रवर्तनं लोके प्रज्ञायते, बुद्धरत्नस्य धर्मरत्नस्य संघरत्नस्य बोधिसत्त्वं महासत्त्वम् आगम्य लोके प्रादुर्भावो भवति तस्मात् तर्हि कौशिक बोधिसत्त्वो महासत्त्वः सदेवमानुषासुरेण लोकेन सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयितव्यः सततसमितं चात्र नु रक्षावरणगुप्तिः संविधातव्या, इमां प्रज्ञापारमितां स कौशिक सत्कर्तव्यां गुरुकर्तव्यां मानयितव्यां पूजयितव्यां मन्येत यो बोधिसत्त्वं महासत्त्वं सत्कर्तव्यं गुरुकर्तव्यं मन्येत, तस्माद् बोधिसत्त्वो महासत्त्वः सदेवकेन (प्स्प्_2-3:40) लोकेन सत्कर्तव्यः सततसमितं चात्र नु रक्षावरणगुप्तिः संविधातव्या. यश् च कौशिक इमं त्रिसाहस्रमहासाहस्रं लोकधातुं श्रावकप्रत्येकबुद्धप्रतिपूर्णं, तद्यथापि नाम इक्षुवनं वा नडवनं वा वेणुवनं वा शरवनं वा सालिवनं वा तिलवनं वा कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद्, यश् च प्रथमचित्तोत्पादिकं बोधिसत्त्वं महासत्त्वम् अविरहितं षड्भिः पारमिताभिः सत्कुर्याद् गुरुकुर्याद् मानयेत् पुजयेद् अयम् एव ततो बहुतरं पुण्यं प्रसवति तत् कस्य हेतोर् बहुतरं पुण्यं प्रसवति? तथा हि न कौशिक श्रावकप्रत्येकबुद्धान् आगम्य बोधिसत्त्वास् तथागताश् चार्हन्तः सम्यक्संबुद्धा लोके प्रज्ञायन्ते, बोधिसत्त्वं महासत्त्वं पुनर् आगम्य श्रावकप्रत्येकबुद्धास् तथागताश् चार्हन्तः सम्यक्संबुद्धा लोके प्रज्ञायन्ते, तस्मात् तर्हि कौशिक सदेवमानुषासुरेण लोकेन बोधिसत्त्वो महासत्त्वः सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयितव्यः सततसमितं चात्र नु रक्षावरणगुप्तिः संविधातव्या. इति निरोधे धर्मज्ञानक्षान्तिः
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावद् अमी बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमिताम् उद्गृह्णन्तः पर्यवाप्नुवन्तो धारयन्तो वाचयन्तो योनिशश् च मनसिकुर्वन्तः, इमान् दृष्टधार्मिकान् गुणान् परिगृह्णन्ति, सत्त्वांश् च परिपाचयन्ति बुद्धक्षेत्रं च परिशोधयन्ति, बुद्धक्षेत्राच् च बुद्धक्षेत्रं संक्रामन्ति बुद्धान् भगवतः पर्युपासनाय, यैश् च कुशलमूलैर् आकाङ्क्षेयुस् तान् बुद्धान् भगवतः पूजयितुं तैः पूजयेयुस्. तच् चैषां तथैव ऋध्यते. यं च तेषां बुद्धानां भगवताम् अन्तिके स्थित्वा धर्मं शृण्वन्ति स चैषां धर्मस् तावद् एव न प्रमुष्यते यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः. इति कुलसंपदं च परिगृह्णन्ति जननीसंपदं च परिवारसंपदं च लक्षणसंपदं च प्रभासंपदं च चक्षुःसंपदं च स्वरसंपदं च समाधिसंपदं च धारणीसंपदं च परिगृह्णन्ति. उपायकौशल्येन (प्स्प्_2-3:41) आत्मानं बुद्धविग्रहं निर्माय लोकधातोर् लोकधातुं संक्रामन्ति, यत्र बुद्धानां भगवताम् उत्पादो नास्ति ते तत्र गत्वा दानपारमिताया वर्णं भाषन्ते. एवं शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमिताया वर्णं भाषन्ते. अध्यात्मशून्यताया वर्णं भाषन्ते. एवं बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावद् अभावस्वभावशून्यताया वर्णं भाषन्ते. ध्यानानां वर्णं भाषन्ते. अप्रमाणानाम् आरूप्यसमापत्तीनां वर्णं भाषन्ते. स्मृत्युपस्थानानां वर्णं भाषन्ते. एवं सम्यक्प्रहाणानाम् ऋद्धिपादानाम् इन्द्रियाणां बलानां बोध्यङ्गानाम् आर्याष्टाङ्गिकस्य मार्गस्य वर्णं भाषन्ते. चतुर्णाम् आर्यसत्यानाम् अभिज्ञानां दशानां तथागतबलानां वैशारद्यानां प्रतिसंविदां यावद् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां वर्णं भाषन्ते. उपायकुशलेन च धर्मं देशयन्ति यानत्रयेण च सत्त्वान् विनयन्ति, श्रावकयानेन प्रत्येकबुद्धयानेन बुद्धयानेन. इति निरोधे धर्मज्ञानम्
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावद् अनया गम्भीरया प्रज्ञापारमिताया परिगृहीतया सर्वाः पारमिताः परिगृहीत भवन्ति. यद् उत दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता सर्वे बोधिपक्ष्या धर्माः सर्वसमाधयः सर्वधारणीमुखानि सर्वशून्यता अप्रमाणध्यानारूप्यसमापत्तयः सत्याभिज्ञा दशबलानि वैशारद्यानि प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः यावद् व्यस्तसमस्ताः स्कन्धधातव आयतनानि प्रतीत्यसमुत्पादाङ्गानि च परिगृहीतानि भवन्ति. स्रोतआपत्तिफलं परिगृहीतं भवति. एवं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबोधिः सर्वाकारज्ञता परिगृहिता भवति.
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: प्रज्ञापारमितया परिगृहीतया सर्वाः पारमिताः परिगृहिता भवन्ति. एवं सर्वे बोधिपक्ष्या धर्माः सर्वसमाधयः सर्वधारणीमुखानि सर्वशून्यता अप्रमाणध्यानारूप्यसमापत्तयः सत्याभिज्ञाः सर्वे कुशलाः कर्मपथा दशबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा यावद् व्यस्तसमस्तानि स्कन्धधात्वायतननि प्रतित्यसमुत्पादाङ्गानि यावत् सर्वाकारज्ञता परिगृहीता भवति.
(प्स्प्_2-3:42)
पुनर् अपरं कौशिक प्रज्ञापारमितया उद्गृहीतया धारितया वाचितया पर्यवाप्तया लिखितया योनिशो मनसिकृतया यान् गुणान् स कुलपुत्रो वा कुलदुहिता वा प्रतिलभते दृष्ट एव धर्मे तान् शृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये ऽहं ते. एवं भगवन्न् इति शक्रो देवानाम् इन्द्रो भगवतःत् प्रत्यश्रोषीत् भगवान् एतद् अवोचत्: यः कश्चित् कौशिकान्यतीर्थिकः कुलपुत्रो वा कुलदुहिता वा मारो वा मारकायिका वा देवता अभिमानिको वा पुद्गलो बोधिसत्त्वं महासत्त्वम् इतः प्रज्ञापारमितातो विवेचयितुकामो भविष्यति, विवदितुकामो भविष्यति, विग्रहीतुकामो भविष्यति, विरोधयितुकामो भविष्यति, तेषां विवेचयितुकामानां विवदितुकामानां विग्रहीतुकामानां विरोधयितुकामानाम् उत्पन्नोत्पन्ना विग्रहा विवादा विरोधाः क्षिप्रं पुनर् एवान्तर्धास्यन्ति, तेषां विवेचयितुकामानां विग्रहीतुकामानां विवदितुकामानां विरोधयितुकामानां न ते ऽभिप्रायाः परिपूरिं गमिष्यन्ति. तत् कस्य हेतोस्? तथा हि कौशिक बोधिसत्त्वेन महासत्त्वेन दीर्घरात्रं दानपारमितायां चरता, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरता. येषां कृतशः सत्त्वा दीर्घरात्रं विग्रहान् विवादान् विरोधान् आपद्यन्ते ते ऽध्यात्मिकबाह्या धर्माः सर्वे सर्वदा परित्यक्ता. येषां कृतशः सत्त्वा दीर्घरात्रं सत्त्वदौःशील्यम् आपद्यन्ते तान् बोधिसत्त्वो महासत्त्व आध्यात्मिकबाह्यान् धर्मान् परित्यज्य तान् सत्त्वान् शीले प्रतिष्ठापयति. येषां कृतशः सत्त्वा दीर्घरात्रं क्रोधव्यापादविहिंसाम् आपद्यन्ते तान् बोधिसत्त्वो महासत्त्व आध्यात्मिकबाह्यान् धर्मान् परित्यज्य तान् सत्त्वान् क्षान्तौ प्रतिष्ठापयति. येषां कृतशः सत्त्वा दीर्घरात्रं कौसीद्यम् आपद्यन्ते तान् बोधिसत्त्वो महासत्त्व आध्यात्मिकबाह्यान् धर्मान् परित्यज्य तान् सत्त्वान् वीर्यपारमितायां प्रतिष्ठापयति. येषां कृतशः सत्त्वा दीर्घरात्रं विक्षिप्तचित्तम् आपद्यन्ते तान् बोधिसत्त्वो महासत्त्व आध्यात्मिकबाह्यान् धर्मान् परित्यज्य तान् सत्त्वान् ध्याने प्रतिष्ठापयति. येषां कृतशः सत्त्वा दीर्घरात्रं दौष्प्रज्ञाम् आपद्यन्ते तान् बोधिसत्त्वो महासत्त्व आध्यात्मिकबाह्यान् धर्मान् परित्यज्य तान् सत्त्वान् महाप्रज्ञापारमितायां प्रतिष्ठापयति. येषां कृतशः कौशिक सत्त्वा दीर्घरात्रं संसारे संसरन्ति यद् उतानुनयप्रतिघपर्यवस्थाने तद्बोधिसत्त्वो महासत्त्व (प्स्प्_2-3:43) उपायकौशल्येन तेषां सत्त्वानां विनीय तान् सत्त्वांश् चतुर्षु ध्यानेषु प्रतिष्ठापयति. चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु प्रतिष्ठापयति, चतुर्षु स्मृत्युपस्थानेषु प्रतिष्ठापयति. एवं सम्यक्प्रहानेष्व् ऋद्धिपादेष्व् इन्द्रियेषु बलेषु वैशारद्येष्व् आर्याष्टाङ्गेषु मार्गेषु शून्यतायां वानिमित्ते ऽप्रणिहिते समाधिधारणीमुखेषु च प्रतिष्ठापयति. चतुर्ष्व् आर्यसत्येष्व् अभिज्ञासु दशबलवैशारद्येषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु प्रतिष्ठापयति. स्रोतआपत्तिफले सकृदागामिफले ऽनागामिफले ऽर्हत्त्वे प्रतिष्ठापयति. प्रत्येकबोधौ प्रतिष्ठापयति. अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति. इमे ते कौशिक बोधिसत्त्वस्य महासत्त्वस्य बोधिसत्त्वचारिकां चरतो दृष्टा धार्मिका गुणानुशंसा भविष्यन्ति. संपराये चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. धर्मचक्रं प्रवर्त्य सत्त्वान् यथाप्रणिधाने प्रतिष्ठाप्य निरुपधिशेषे निर्वाणधातौ परिनिर्वापयिष्यन्ति. इमे कौशिक बोधिसत्त्वस्य महासत्त्वस्य साम्परायिका गुणानुशंसा भविष्यन्ति. इति निरोधे ऽन्वयज्ञानक्षान्तिः
पुनर् अपरं कौशिक यस्मिन् पृथिवीप्रदेशे कुलपुत्रा वा कुलदुहितरो वा इमां प्रज्ञापापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, न तत्र पृथिवीप्रदेशे मारा वा मारकायिका वा देवता अन्यतीर्थिका वा परिव्राजका वा आभिमानिका वा पुद्गलाः शक्ष्यन्ति चित्तविक्षेपं कर्तुं अस्यां प्रज्ञापारमितायां विग्रहाय विवादाय विरोधाय. उत्तरे च तेषां गुणानुशंसा भविष्यन्ति यद् उतास्याः प्रज्ञापारमितायाः श्रवणेनानुपूर्वेण त्रिभिर् यानैर् निर्याय दुःखस्यान्तं करिष्यन्ति. तद्यथापि नाम कौशिक मघि नाम्ऽ औषधी तत्र आशीविषेण जन्तुना बुभुक्षितेनाहारार्थिना आहारगवेषिणा कश्चिद् एव प्राणकजातो दृष्टो भवेत्, स तं प्राणकजातं पुनः खादितुकामः प्राणकजातम् अनुधावेत्.
अथ खलु स प्राणजातः येन सा मघि नाम्ऽ औषधि तेनोपसंक्रामेद् अथ स आशीविषस् तस्या औषध्या गन्धेन प्रत्युदावर्तते. तत् (प्स्प्_2-3:44) कस्य हेतोः? तथा हि तस्या औषध्या भैषज्यगुणः यत् तस्याशीविषस्य तद् विषम् अभिभवति. एवं बलवती हि सा कौशिक औषधी एवम् एव कौशिक यः कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति. तत्र कौशिक ये उत्पन्नोत्पन्ना विग्रहा विवादा विरोधा भविष्यन्ति ते प्रज्ञापारमितायास् तेजसा प्रज्ञापारमिताया बलेन क्षिप्रम् एवान्तर्धास्यन्त्य् उपशमिष्यन्ति यतो यत एवोत्पत्स्यन्ते तत्र तत्रैवान्तर्धास्यन्ति न विवर्धिष्यन्त्य् उपशमिष्यन्ति.
इति निरोधे ऽन्वयज्ञानम्
तत् कस्य हेतोस्? तथा हि कौशिक प्रज्ञापारमिता सर्वधर्माणम् उपशमयित्री न विवर्धिका, कतमेषां धर्माणाम्? यद् उत रागस्य दोषस्य मोहस्याविद्यायाः संस्काराणां विज्ञानस्य नामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवजातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायानाम् उपशमयित्री न विवर्धिका सर्वदुःखस्कन्धस्य निवरणावरणानुशयपर्यवस्थानानाम् आत्मदृष्टेः सत्त्वदृष्टेर् जीवदृष्टेः पोषदृष्टेः पुरुषदृष्टेः पुद्गलदृष्टेर् मनुजदृष्टेर् मानवदृष्टेः कारकदृष्टेर् वेदकदृष्टेर् जानकदृष्टेः पश्यकदृष्टेर् उच्छेददृष्टेः शाश्वतदृष्टेर् अस्तिदृष्टेर् नास्तिदृष्टेर् यावत् सर्वदृष्टिकृतानां मात्सर्यदौःशील्यव्यापादस्य कौशीद्यस्य विक्षेपस्य दौष्प्रज्ञस्य नित्यसंज्ञासुखसंज्ञात्मसंज्ञाशुचिसंज्ञाशुभसंज्ञातृष्णाविचरितानां रूपग्राहस्य वेदनासंज्ञासंस्कारविज्ञानग्राहस्य दानपारमिताग्राहस्य शीलपारमिताग्राहस्य क्षान्तिपारमिताग्राहस्य वीर्यपारमिताग्राहस्य ध्यानपारमिताग्राहस्य प्रज्ञापारमिताग्राहस्याध्यात्मशून्यताग्राहस्य बहिर्धाशून्यताग्राहस्याध्यात्मबहिर्धशून्यताग्राहस्य यावद् अभावस्वभावशून्यताग्राहस्य स्मृत्युपस्तानग्राहस्य सम्यक्प्रहाणर्द्धिपादान्द्रियबलबोध्यङ्गग्राहस्याप्रमाणध्यानरूप्यसमापत्तिग्राहस्य सत्याभिज्ञाग्राहस्य सर्वसमाधिधारणीमुखग्राहस्य दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मग्राहस्य सर्वाकारज्ञताग्राहस्य निर्वाणग्राहस्योपशमयित्री न विवर्धिका. इति मार्गे धर्मज्ञानक्षान्तिः
अथ खलु य इह त्रिसाहस्रमहासाहस्रे लोकधातौ महाराजानो (प्स्प्_2-3:45) लोकपालाः शक्रा देवेन्द्रा ये च ब्रह्माणो ब्रह्मा च सहापतिर् यावद् अकनिष्ठा देवपुत्रास् ते सततसमितं तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षावरणगुप्तिं संविधास्यन्ति यत्र कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति लिखिष्यति लिखापयिष्यति योनिशश् च मनसिकरिष्यति. ये ऽपि ते दशसु दिक्षु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति ते ऽपि तस्य कुलपुत्रस्य वा कुलदुहितुर् वा रक्षावरणगुप्तिं संविधास्यन्ति य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति लिखिष्यति लिखापयिष्यति योनिशश् च मनसिकरिष्यति यथा कुशलैर् धर्मैर् न परिहास्यते, कुशलैर् धर्मैर् विवर्धिष्यते. यद् उत दानपारमिताशीलपारमिताक्षान्तिपारमितावीर्यपारमिताध्यानपारमिताप्रज्ञापारमिताभिर् विवर्धिष्यते न परिहास्यति अनुपलम्भयोगेन. अध्यात्मशून्यतया विवर्धिष्यते न परिहास्यति. एवं बहिर्धाशून्यतयाध्यात्मबहिर्धाशूम्यतया यावद् अभावस्वभावशून्यतया विवर्धिष्यते न परिहास्यति अनुपलम्भयोगेन. स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गैर् विवर्धिष्यते न परिहास्यति. अप्रमाणध्यानारूप्यसमापत्तिभिर् विवर्धिष्यते न परिहास्यति. सत्याभिज्ञाभिर् दशबलैर् वैशारद्यैः प्रतिसंविद्भिर् आवेणिकैर् बुद्धधर्मैर् विवर्धिष्यते न परिहास्यति अनुपलम्भयोगेन. सर्वसमाधिभिः सर्वधारणीमुखैर् विवर्धिष्यते न परिहास्यति, यावत् सर्वाकारज्ञतया विवर्धिष्यते न परिहास्यति अनुपलम्भयोगेन. इति मार्गे धर्मज्ञानम्
स आदेयवचनश् च मितवचनश् च भविष्यति, न क्रोधाधिभूतो भविष्यति, न मानाभिभूतश् भविष्यति, न मत्सरी भविष्यति, नेर्ष्यालुर् भविष्यति.
आत्मना च प्राणातिपातात् प्रतिविरतो भविष्यति, परांश् च प्राणातिपतवैरमणे प्रतिष्ठापयिष्यति, प्राणातिपातविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये प्राणातिपातात् प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना चादत्तादानात् प्रतिविरतो भविष्यति, परांश् चादत्तादानवैरमणे प्रतिष्ठापयिष्यति, अदत्तादानविरतेश् च वर्णं भाषिष्यते, ये ऽपि (प्स्प्_2-3:46) चान्ये ऽदत्तादानात् प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च काममिथ्याचारात् प्रतिविरतो भविष्यति, परांश् च काम मिथ्याचारवैरमणे प्रतिष्ठापयिष्यति, काममिथ्याचारविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये काममिथ्याचारात् प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च मृषावादात् प्रतिविरतो भविष्यति, परांश् च मृषावादवैरमणे प्रतिष्ठापयिष्यति, मृषावादविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये मृषावादात् प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च पिशुनवचनात् प्रतिविरतो भविष्यति, परांश् च पिशुनवचनवैरमणे प्रतिष्ठापयिष्यति, पिशुनवचनविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये पिशुनवचनात् प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च परुषवचनात् प्रतिविरतो भविष्यति, परांश् च परुषवचनवैरमणे प्रतिष्ठापयिष्यति, परुषवचनविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये परुषवचनात् प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च संभिन्नप्रलापात् प्रतिविरतो भविष्यति, परांश् च संभिन्नप्रलापवैरमणे प्रतिष्ठापयिष्यति, संभिन्नप्रलापविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये संभिन्नप्रलापात् प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना चाभिध्यायाः प्रतिविरतो भविष्यति, परांश् चाभिध्यावैरमणे प्रतिष्ठापयिष्यति, अभिध्याविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये ऽभिध्यायाः प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च व्यापादात् प्रतिविरतो भविष्यति, परांश् च व्यापादवैरमणे प्रतिष्ठापयिष्यति, व्यापादविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये व्यापादात् प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च मिथ्यादृष्टेः प्रतिविरतो भविष्यति, परांश् च मिथ्यादृष्टिवैरमणे प्रतिष्ठापयिष्यति, मिथ्यादृष्टिविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये मिथ्यादृष्टेः प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी (प्स्प्_2-3:47) भविष्यति समनुज्ञः.
आत्मना च दानपारमितायां प्रतिष्ठितो भविष्यति, पारांश् च दानपारमितायां प्रतिष्ठापयिष्यति, दानपारमितायाश् च वर्णं भाषिष्यते. ये ऽपि चान्ये दानपारमितायां चरन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च शीलपरमितायां प्रतिष्ठितो भविष्यति, परांश् च शीलपारमितायां प्रतिष्ठापयिष्यति, शीलपारमितायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये शीलपारमितायां चरन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च क्षान्तिपारमितायां प्रतिष्ठितो भविष्यति, परांश् च क्षान्तिपारमितायां प्रतिष्ठापयिष्यति, क्षान्तिपारमितायाश् च वर्णं भाषीष्यते, ये ऽपि चान्ये क्षान्तिपारमितायां चरन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च वीर्यपारमितायां प्रतिष्ठितो भविष्यति, परांश् च वीर्यपारमितायां प्रतिष्ठापयिष्यति, वीर्यपारमितायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये वीर्यपारमितायां चरन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च ध्यानपारमितायां प्रतिष्ठितो भविष्यति, परांश् च ध्यानपारमितायां प्रतिष्ठापयिष्यति, ध्यानपारमितायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये ध्यानपारमितायां चरन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च प्रज्ञापारमितायां प्रतिष्ठितो भविष्यति, परांश् च प्रज्ञापारमितायां प्रतिष्ठापयिष्यति, प्रज्ञापारमितायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये प्रज्ञापार्मितायां चरन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना चाध्यात्मशून्यतायां प्रतिष्ठितो भविष्यति, परांश् चाध्यात्मशून्यतायां प्रतिष्ठापयिष्यति, अध्यात्मशून्यातायाश् च वर्णं भाषिष्यते. ये ऽपि चान्ये ऽध्यात्मशून्यतां भावयन्ति तेषाम् अपि वर्णवादि भविष्यति समनुज्ञः.
आत्मना च बहिर्धाशून्यतायां प्रतिष्ठितो भविष्यति, परांश् च (प्स्प्_2-3:48) बहिर्धाशून्यतायां प्रतिष्ठापयिष्यति, बहिर्धाशून्यतायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये बहिर्धाशून्यतां भावयन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना चाध्यात्मबहिर्धाशून्यतायां प्रतिष्ठितो भविष्यति, परांश् चाध्यात्मबहिर्धाशून्यतायां प्रतिष्ठापयिष्यति, अध्यात्मबहिर्धाशून्यतायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये ऽध्यात्मबहिर्धाशून्यतां भावयन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च यावद् अभावस्वभावशून्यतायां प्रतिष्ठितो भविष्यति, परांश् चाभावस्वभावशून्यतायां प्रतिष्ठापयिष्यति, अभावस्वभावशून्यतायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये ऽभावस्वभावशून्यतां भावयन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च सर्वसमाधीन् समापत्स्यते, परांश् च सर्वसमाधिसमापत्तौ प्रतिष्ठापयिष्यति, सर्वसमाधिसमापत्तीनां वर्णं भाषिष्यते, ये ऽपि चान्ये सर्वसमाधिसमापत्तीः समापद्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च धारणीप्रतिलब्धो भविष्यति, परांश् च धारणीप्रतिलम्भाय समादापयिष्यति, धारणीप्रतिलम्भस्य वर्णं भाषिष्यते, ये ऽपि चान्ये धारणीप्रतिलब्धा भवन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च प्रथमं ध्यानं समापत्स्यते, परांश् च प्रथमध्यानसमापत्तौ प्रतिष्ठापयिष्यति, प्रथमध्यानप्रतिष्ठानस्य च वर्णं भाषिष्यते, ये ऽपि चान्ये प्रथमं ध्यानं समापद्य विहरन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च द्वितीयं ध्यानं समापत्स्यते यावत् तृतीयं ध्यानं समापत्स्यते. आत्मना च चतुर्थं ध्यानं समापत्स्यते, परांश् च चतुर्थध्याने प्रतिष्ठापयिष्यति, चतुर्थध्यानप्रतिष्ठानस्य वर्णं भाषिष्यते, ये ऽपि चान्ये चतुर्थं ध्यानं समापद्य विहरन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च मैत्रीं समापत्स्यते, परांश् च मैत्र्यां समादापयिष्यति, मैत्रीसमाधेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये मैत्रीं (प्स्प्_2-3:49) समापद्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च करुणामुदितोपेक्षाः समापत्स्यते, परांश् च करुणामुदितोपेक्षासु समादापयिष्यति, करुणामुदितोपेक्षाणां च वर्णं भाषिष्यते, ये ऽपि चान्ये करुणामुदितोपेक्षाः समापद्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना चाकाशानन्त्यायतनं समापत्स्यते, परांश् चाकाशानन्त्यायतनसमापत्तौ समादापयिष्यति, आकाशानन्त्यायतनसमापत्तेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये आकाशानन्त्यायतनसमापत्तिं समापद्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च विज्ञानानन्त्यायतनं समापत्स्यते. आत्मना चाकिंचन्यायतनं समापत्स्यते. आत्मना च नैवसंज्ञानासंज्ञायतनं उपसंपद्य विहरिष्यति, परांश् च नैवसंज्ञानासंज्ञायतनसमापत्तौ समादापयिष्यति, नैवसंज्ञानासंज्ञायतनसमापत्तेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च चत्वारि स्मृत्युपस्थानानि भावयिष्यति, परांश् च स्मृत्युपस्थानभावनायां समादापयिष्यति, स्मृत्युपस्थानभावनायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये स्मृत्युपस्थानानि भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
एवम् आत्मना च चत्वारि सम्यक्प्रहाणानि भावयिष्यति, चतुर ऋद्धिपादान् पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गानि, आत्त्नना चार्याष्टाङ्गं मार्गं भावयिष्यति, परांश् च मार्गभावनायां समादापयिष्यति, मार्गभावनायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये मार्गं भावयन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च चत्वार्य् आर्यसत्यानि भावयिष्यति, परांश् च चतुर्ष्व् आर्यसत्येषु प्रतिष्ठापयिष्यति, चतुर्णां आर्यसत्यानां च वर्णं भाषिष्यते, ये ऽपि चान्ये चत्वार्य् आर्यसत्यानि भावयन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च शून्यतानिमित्ताप्रणिहितान् समाधीन् भावयिष्यति, परांश् च शून्यतानिमित्ताप्रणिहितसमाधिभावनायां प्रतिष्ठापयिष्यति, शून्यतानिमित्ताप्रणिहितसमाधिभावनायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये शून्यतानिमित्ताप्रणिहितान् समाधीन् भावयन्ति तेषाम् अपि वर्णवादि भविष्यति समनुज्ञः.
(प्स्प्_2-3:50)
आत्मना चाष्टविमोक्षान् समापत्स्यते, परांश् चाष्टविमोक्षसमापत्तौ समादापयिष्यति, अष्टानां च विमोक्षाणां वर्णं भासिष्यते, ये ऽपि चान्ये ऽष्टविमोक्षान् समापद्यन्ते तेषां अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च नवानुपूर्वविहारसमापत्तीः समापत्स्यते, परांश् च नवानुपूर्वविहारसमापत्तौ समादापयिष्यति, नवानुपूर्वविहारसमापत्तीनां च वर्णं भाषिष्यते, ये ऽपि चान्ये नवानुपूर्वविहारसमापत्तीः समापद्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः समापत्स्यते, परांश् च दशतथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु समादापयिष्यति दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदां च वर्णं भाषिष्यते, ये ऽपि चान्ये दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः समापद्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना चाष्टादशावेणिकान् बुद्धधर्मान् समापत्स्यते, परांश् चाष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु समादापयिष्यति, अष्टादशानाम् आवेणिकानां बुद्धधर्माणां च वर्णं भाषिष्यते, ये ऽपि चान्ये ऽष्टादशावेणिकान् बुद्धधर्मान् समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना चासंमोषधर्मा भविष्यति, परांश् चासंमोषधर्मतायां समादापयिष्यति, असंमोषधर्मतायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये ऽसंमोषधर्मतायां प्रतिष्टापिता भवन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च सर्वाकारज्ञतायां प्रतिष्ठितो भविष्यति, परांश् च सर्वाकारज्ञतायां समादापयिष्यति सर्वाकारज्ञतायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये सर्वाकारज्ञतायां प्रतिष्ठिता भवन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः. इति मार्गे ऽन्वयज्ञानक्षान्तिः
पुनर् अपरं कौशिक बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् यद् दानं ददाति तत् सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अनुपलम्भयोगेन. यच् छीलं रक्षति तत् सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् (प्स्प्_2-3:51) अनुपलम्भयोगेन. यां क्षान्तिं भावयति तां सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अनुपलम्भयोगेन. यद् वीर्यम् आरभते तत् सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अनुपलम्भयोगेन. यद् ध्यानं समापद्यते तत् सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अनुपलम्भयोगेन. यां प्रज्ञां भावयति तां सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अनुपलम्भयोगेन. एवं चरतः कौशिक कुलपुत्रस्य वा कुलदुहितुर् वा षट्सु पारमितासु स्मृतिर् एवम् उत्पद्यते: यद्य् अहं दानं न दास्यामि, दुर्गतेषु मे कुलेषूपपत्तिर् भविष्यति, न च मे सत्त्वपरिपाको भविष्यति, न च मे बुद्धक्षेत्रं परिशोधनं भविष्यति, न च सर्वज्ञतां प्रतिलप्स्ये. तस्यैवं भवति: यद्य् अहं शीलं न रक्षिष्यामि, तिसृणं दुर्गतीनां मे ऽपावृतानि द्वाराणि भविष्यन्ति, न देवमनुष्योपपत्तिर् मे भविष्यति, न सत्त्वपरिपाको न बुद्धक्षेत्रपरिशोधनं, कुत एव सर्वज्ञताप्रतिलाभस्. तस्यैवं भवति: यद्य् अहं क्षान्तिं न भावयिष्यामि, इन्द्रियाणि मे परिभेत्स्यन्ते, मुखमण्डलं मे ध्यामीभविष्यति, न च रूपसंपदं प्रतिलप्स्ये, यया रूपसंपदा बोधिसत्त्वचारिकां मे चरतः. सत्त्वाः सह दर्शनेन नियता भविष्यन्त्य् अनुत्तरायां सम्यक्संबोधौ, न च रूपसंपदा सत्त्वान् परिपाचयिष्यामि, न बुद्धक्षेत्रं परिशोधयिष्यामि, कुतः पुनः सर्वज्ञतां प्रतिलप्स्ये. तस्यैवं भवति: सचेद् अहं कुसीदो भविष्यामि, नैव बोधिसत्त्वमार्गं भावयिष्यामि, न वीर्यम् आरप्स्ये कथं बुद्धधर्मान् परिपूरयिष्यामि, कुत एव सर्वज्ञतां प्रतिलप्स्ये, तस्यैवं भवति: सचेद् अहं विक्षिप्तचित्तो भविष्यामि, न शिक्षिष्यामि सर्वसमाधिपरिनिष्पादनाय, न सत्त्वान् परिपाचयिष्यामि, न बुद्धक्षेत्रं परिशोधयिष्यामि, कुतः पुनः सर्वज्ञतां प्रतिलप्स्ये. तस्यैवं भवति: सचेद् अहं दुष्प्रज्ञो भविष्यामि, प्रज्ञोपायकौशल्येन श्रावकभूमिं प्रत्येकबुद्धभूमिं चातिक्रम्य सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य सर्वज्ञताम् अभिसंबोद्धुं नाहं शिक्षिष्यामि स एवं प्रतिसंशिक्षते, अयुक्तम् (प्स्प्_2-3:52) एतत् मम भवेद्, यो ऽहं मात्सर्यवशेन दानपारमितां न परिपूरयेयम्, एवं दौःशील्यवशेन शीलपारमितां व्यापादवशेन क्षान्तिपारमितां कौशीद्यवशेन वीर्यपारमितां विक्षेपवशेन ध्यानपारमितां दौष्प्रज्ञावशेन प्रज्ञापारमितां न परिपूरयेयं. अपरिपूरयन् दानपारमिताम् एवं शीलं क्षान्तिं वीर्यं ध्यानं प्रज्ञापारमितां चापरिपूरयन् न निर्यास्यामि सर्वाकारज्ञतायाम्. एवं हि कौशिक स कुलपुत्रो वा कुलदुहिता वा दृष्टधर्मिकान् सांपरायिकांश् च गुणानुशंसान् प्रतिलभते य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति लिखिष्यति लिखापयिष्यति योनिशश् च मनसिकरिष्यति, अविरहितश् च भविष्यति सर्वज्ञताचित्तेन.
इति मार्गे ऽन्वयज्ञानम् इत्य् उक्तो बोधिसत्त्वदर्शनमार्गः
एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावद् इयं प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां परिदमनाय परिणमनाय च प्रत्युपस्थिता.
भगवान् आह: कथं पुनः कौशिक प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां परिदमनाय परिणमनाय च प्रत्युपस्थिता?
एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: इह भगवन् बोधिसत्त्वो महासत्त्वो लौकिक्यां दानपारमितायां चरन् बुद्धेभ्यो भगवद्भ्यः प्रत्येकबुद्धेभ्यः श्रावकेभ्यो दानां ददाति. तस्यैवं भवति: अहं दानं ददामि बुद्धबोधिसत्त्वश्रावकप्रत्येकबुद्धेभ्यः कृपणवनीकार्थिकयाचनकेभ्यः. स एतेन दानेनानुपायकौशल्येनोन्नतिं गच्छति. तस्य बोधिसत्त्वस्य महासत्त्वस्य लौकिकं शीलं रक्षत एवं भवत्य्: अहं शीलपारमितायां चरामि, अहं शीलपारमितां परिपूरयामि, स तेनोन्नतिं गच्छति. तस्य बोधिसत्त्वस्य महासत्त्वस्य लौकिकीं क्षान्तिं भावयत एवं भवत्य्: अहं क्षान्तिपारमितायां चरामि, अहं क्षान्तिपारमितां परिपूरयामि, स तेनोन्नतिं गच्छति. तस्य बोधिसत्त्वस्य महासत्त्वस्य लौकिकं वीर्यम् आरम्भमाणस्यैवं भवति: अहं वीर्यपारमितायां चरामि, अहं वीर्यपारमितां परिपूरयामि, स तेनोन्नतिं गच्छति. तस्य बोधिसत्त्वस्य महासत्त्वस्य लौकिकं ध्यानं समापद्यमानस्यैवं भवत्य्: अहं ध्यानपारमितायां चरामि, अहं ध्यानपारमितां परिपूरयामि, स तेनोन्नतिं गच्छति. तस्य बोधिसत्त्वस्य महासत्त्वस्य (प्स्प्_2-3:53) लौकिक्यां प्रज्ञापारमितायां चरतो ऽनुपायकौशल्येनैवं भवत्य्: अहं प्रज्ञापारमितायां चरामि, प्रज्ञापारमितां परिपूरयामि, स तेनोन्नतिं गच्छति. तस्य बोधिसत्त्वस्य महासत्त्वस्य लौकिक्यां स्मृत्युपस्थानभावनायां स्थितस्यैवं भवत्य्: अहं स्मृत्युपस्थानानि, भावयामि, अहं सम्यक्प्रहाणानि, अहम् ऋद्धिपादान्, अहम् इन्द्रियाणि, अहं बलानि, अहं बोध्यङ्गानि, अहम् आर्याष्टाङ्गं मार्गं भावयामि, अहं शून्यतानिमित्ताप्रणिहितसमाधिं भावयामि, अहं सर्वसमाधीन्, अहं सर्वधारणीमुखानि, अहम् अप्रमाणध्यानारूप्यसमापत्तीर् भावयामि, अहं चत्वार्य् आर्यसत्यानि भावयामि, अहम् अभिज्ञा, अहं दशबलानि, अहं वैशारद्यानि, अहं प्रतिसंविदः, अहम् अष्टादशावेणिकान् बुद्धधर्मान् भावयामि, अहं सत्त्वान् परिपाचयिष्यामि, अहं बुद्धक्षेत्रं परिशोधयिष्यामि, अहं सर्वाकारज्ञतां परिप्राप्स्यामि, स तेनाहंकारममकाराभिनिवेशेनोन्नतिं गच्छति. एवं हि भगवन् बोधिसत्त्वो महासत्त्वो लौकिकेषु धर्मेषु चरन्न् उन्नतिं गच्छति. अहंकारममकाराभिनिवेशेन. तस्य खलु पुनः प्रज्ञापारमिता परिदमनाय परिणामनाय च प्रत्युपस्थिता भवति.
इह पुनर् भगवन् बोधिसत्त्वो महासत्त्वो लोकोत्तरेषु धर्मेषु चरन् दानं ददद् दायकं नोपलभते, प्रतिग्राहकं नोपलभते, देयं च नोपलभते. एवं हि बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् परिदमनाय प्रत्युपस्थितो भवति परिणामनाय. एवं शीलं रक्षन् क्षान्तिं संपादयमानो वीर्यम् आरम्भमाणो ध्यानं ध्यायन् प्रज्ञापारमितां भावयन् प्रज्ञां नोपलभते. एवं स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयन् नोपलभते. अप्रमाणध्यानारूप्यसमापत्तीः, आर्यसत्यान्य् अभिज्ञां भावयन् नोपलभते. बलानि वैशारद्यां प्रतिसंविदः, अष्टादशावेणिकान् बुद्धधर्मान् भावयन् नोपलभते. सर्वशून्यताः सर्वसमाधिन् सर्वधारणीमुखानि भावयन् नोपलभते. एवं महामैत्रीं महाकरुणां च भावयन् नोपलभते यावत् सर्वाकारज्ञतां भावयन् नोपलभते. एवं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् परिदमनाय परिणामनाय च प्रत्युपस्थितो भवति. इति सर्वतो दमननमनकारित्रम्
(प्स्प्_2-3:54)
अथ खलु भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: यो हि कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमिताम् उद्गृह्णन् वा धारयन् वा वाचयन् वा पर्यवाप्नुवन् वा प्रवर्तयन् वा स्वाध्यायन् वा योनिशो मनसिकुर्वन् वा संग्रामशीर्षम् आरूढः संग्रामे वर्तमाने संग्रामे ऽवतीर्णो वा शयितो वातिक्रान्तो वा निषण्णो वा स्थितो वा स्यात्, अस्थानं कौशिकानवकाशो यत् तस्य कुलपुत्रस्य वा कुलदुहितुर् वा इमां प्रज्ञापारमिताम् उद्गृह्णतो धारयतो वाचयतः पर्यवाप्नुवतः प्रवर्तयतः स्वाध्यायतो योनिशो मनसिकुर्वतो वा कश्चिद् एव काण्डं वा शस्त्रं वा लोष्टं वा क्षिपेत् क्षिप्तानि वा तस्य तानि शरीरे प्रहरणानि पतेयुः, परोपक्रमेन वास्य जीवितान्तरायो भवेन् नैतत् स्थानं विद्यते. तत् कस्य हेतोः? तथा हि तेन कुलपुत्रेण वा कुलदुहित्रा वा दीर्घरात्रम् इह प्रज्ञापारमितायां चरता आत्मनो रागकाण्डानि रागशस्त्राणि निर्जितानि भवन्ति. परेषाम् अपि रागकाण्डानि रागशस्त्राणि निर्जितानि. आत्मनो दोषकाण्डानि दोषशस्त्रानि मोहकाण्डानि मोहशस्त्राणि निर्जितानि. परेषाम् अपि दोषकाण्डानि दोषशस्त्राणि मोहकाण्डानि मोहशस्त्राणि निर्जिताम्. आत्मनो दृष्टिकृतकाण्डानि दृष्टिकृतशस्त्राणि निर्जितानि परेषाम् अपि दृष्टिकृतकाण्डानि दृष्टिकृतशस्त्राणि निर्जितानि. आत्मनः पर्युत्थानकाण्डानि पर्युत्थानशस्त्राणि निर्जितानि. परेषाम् अपि पर्युत्थानकाण्डानि पर्युत्थानशस्त्राणि निर्जितानि. आत्मनो ऽनुशयकाण्डान्य् अनुशयशस्त्राणि निर्जितानि. परेषाम् अप्य् अनुशयकाण्डान्य् अनुशयशस्त्राणि निर्जितानि. अनेन कौशिक पर्यायेण तस्य कुलपुत्रस्य वा कुलदुहितुर् वा काण्डं वा शस्त्रं वा शरीरे क्षिप्तं न पतति. इति क्लेशनिर्जयकारित्रम्
पुनर् अपरं कौशिक सचेत् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति योनिशश् च मनसिकरिष्यति, अविरहितश् च सर्वज्ञताचित्तेन भविष्यति तस्य कश्चिद् एवाभैषज्यम् अवकिरेत्, काखोर्दं वा कुर्याद् अग्निखदां वोपनामयेच् छस्त्रेण वा हन्याद् विषं वा दद्याद् उदके वैनच् छोरयेत् सर्वाण्य् एतानि तस्य न क्रामन्ति. तत् कस्य हेतोर्? महाविद्यैषा कौशिक यद् उत प्रज्ञापारमिता, अनुत्तरैषा (प्स्प्_2-3:55) कौशिक विद्या यद् उत प्रज्ञापारमिता. अत्र हि कौशिक शिक्षमाणः कुलपुत्रो वा कुलदुहिता वा नात्मव्याबाधाय चेतयते, न परव्याबाधाय चेतयते, नोभयव्याबाधाय चेतयते.
इत्य् उपक्रमाधिसह्यताकारित्रम्
तत् कस्य हेतोस्? तथा हि नैवात्मानम् उपलभते. न परान् नोभयम् उपलभते. न रूपम् उपलभते. न वेदनां न संज्ञां न संस्कारान् न विज्ञानम् उपलभते. न यावद् व्यस्तसमस्तान् स्कन्धधात्व् आयतन प्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्माप्रमाणध्यानारूप्यसमापत्तिसर्वशून्यतासर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदष्टादशावेणिकान् बुद्धधर्मान् यावत् सर्वाकारज्ञताम् अपि नोपलभते. अनुपलभमानो नात्मव्याबाधाय चेतयते, न परव्याबाधाय चेतयते, नोभयव्याबाधाय चेतयते. अनुत्तरां सम्यक्संबोधिं प्रतिलभते सर्वसत्त्वांश् चावलोकयति. तत् कस्य हेतोर्? अत्र हि विद्यायां शिक्षमाणैर् अतीतैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा. ये ऽपि ते भविष्यन्ति तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽप्य् अत्र प्रज्ञापारमितायां शिक्षमाणा अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. ये ऽपि ते दशदिग्लोकधातुष्व् एतर्हि प्रत्युत्पन्नास् तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽप्य् अत्र प्रज्ञापारमितायां शिक्षमाणा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. इति सम्यक्संबोधिकारित्रम्
पुनर् अपरं कौशिक यत्रेमां प्रज्ञापारमितां लिखित्वा उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति योनिशश् च मनसिकरिष्यन्ति, न तत्र मणुष्यो वा अमनुष्यो वा अवतारप्रेक्षी अवतारगवेषी अवतारं लप्स्यते. तत् कस्य हेतोस्? तथा ह्य् अत्र प्रज्ञापारमितायां पूजार्थाय त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवपुत्रास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्या यावद् अकनिष्ठा देवपुत्रा, ये ऽप्य् अन्येष्व् अप्रमेयेष्व् असंख्येयेषु लोकधातुषु चातुर्महाराजकायिका देवपुत्रा यावद् अकनिष्ठा देवापुत्रास् ते ऽपि तेषां कुलपुत्राणां कुलदुहितृणां वा रक्षावरणगुप्तिं संविधास्यन्ति. (प्स्प्_2-3:56) य इमां प्रज्ञापारमितां लिखित्वा धारयिष्यन्ति वाचयिष्यन्ति ते च देवपुत्रा अगत्येमां प्रज्ञापारमितां सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति पूजयित्वा प्रतिगमिष्यन्ति. य इमां प्रज्ञापारमितां लिखित्वा धारयिष्यति वाचयिष्यति तस्येमे दृष्टधार्मिका गुणानुशंसा भविष्यन्ति. तद्यथापि नाम कौशिक ये केचिद् बोधिमण्डगता वा बोधिमण्डपरिसामन्तगता वा बोधिमण्डाभ्यन्तरगता वा तिर्यग्योनिगतान् अप्य् उपादाय न ते शक्यन्ते मनुष्येण वा अमनुष्येण वा विहेठयितुं वा विहिंसयितुं वा. तत् कस्य हेतोर्? अत्र हि निषद्य तैः पौर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा. अनागतैर् अपि प्रत्युत्पन्नैर् अपि तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंभोत्स्यते अभिसंबुध्यते च. अभिसंबुध्य च सर्वसत्त्वान् सुखे ऽभये ऽनुद्वेगे ऽवैरे ऽनुत्त्रासे ऽव्याबाधे ऽसपत्ने प्रतिष्ठापयन्ति. सुखे ऽभये ऽनुद्वेगे ऽनुत्त्रासे ऽवैरे ऽव्याबाधे ऽसपत्ने प्रतिष्ठाप्याप्रमेयान् असंख्येयान् सत्त्वान् दिव्यमानुष्यकायं संपत्तौ प्रतिष्ठापयन्ति. स्रोतआपत्तिफले सकृदागामिफले ऽनागामिफले ऽर्हत्त्वे प्रत्येकबुद्धत्वे ऽनुत्तरायां सम्यक्संबोधौ परिणामयन्ति. तत् कस्य हेतोर्? अनयैव कौशिक प्रज्ञापारमितया सपृथिवीप्रदेशश् चैत्यभूतः कृतः सर्वसत्त्वानां वन्दनीयः सत्करणीयो गुरुकरणीयो माननीयः पूजनीयो ऽर्चनीयो ऽपचायनीयः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
इत्य् आधारदेशपूज्यताकारित्रम् इत्य् उक्तं कारित्रम्
एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: यो हि कश्चिद् भगवन् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा पुस्तकगताम् अपि कृत्वा धारयेत् ताञ् च पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः समन्ताच् च दीपमालाभिर् बहुविधाभिश् च पूजाभिः सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, यश् च तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य शरीराणि स्तूपेषु प्रतिष्ठापयिष्यति प्रतिष्ठाप्य प्रतिगृह्णीयाद् धारयेद् वाचयेत् तानि च सत्कुर्याद् गुरुकुर्याद् (प्स्प्_2-3:57) मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः, कतरस् ततो बहुपुण्यं प्रसवति?
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: तेन हि कौशिक त्वाम् एवात्र प्रतिप्रक्ष्यामि, यथा ते क्षमते तथा व्याकुर्याः. तत् किं मन्यसे? कौशिक येयं तथागतस्यार्हतः सम्यक्संबुद्धस्य सर्वज्ञता यो चायं तथागतस्यात्मभावो ऽभिनिर्वृत्तः, स कतरस्यां प्रतिपदि शिक्षमाणेन तथागतेनार्हता सम्यक्संबुद्धेनानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अयं चात्मभावो ऽभिनिर्वृत्तः?
एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: इहैव भगवन् शिक्षमाणेन तथागतेनार्हता सम्यक्संबुद्धेन प्रज्ञापारमितायाम् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अयं चात्मभावो ऽभिनिर्वृत्तः.
भगवान् आह: एवम् एतत् कौशिकैवम् एतत्, प्रज्ञापारमितायां शिक्षमाणेन तथागतेनार्हता सम्यक्संबुद्धेनानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अयं चात्मभावो ऽभिनिर्वृत्तः.
तस्मात् तर्हि कौशिक नानेनात्मभावशरीरप्रतिलम्भेन तथागतस् तथागत इति संख्यां गच्छति. सर्वज्ञतायां तु प्रतिलब्धायां तथागतस् तथागत इति संख्यां गच्छति. येयं कौशिक सर्वज्ञता सा प्रज्ञापारमिता निर्जाता. एवम् अयम् आत्मभावशरीरप्रतिलाभस् तथागतस्य प्रज्ञापारमितानिर्जातत्वात्, सर्वज्ञज्ञानस्याश्रयभूतो भवति. एवं चाश्रयं निश्रित्य सर्वज्ञज्ञानप्रतिलाभप्रभावनाबुद्धप्रभावनाधर्मप्रभावनासंघप्रभावना भवति. एवम् अस्य सर्वज्ञज्ञानहेतुको ऽयम् आत्मभावप्रतिलाभः. आश्रयभूतत्वात् सर्वसत्त्वानां चैत्यभूतो वन्दनीयः सत्करणीयो गुरुकरणीयो माननीयः पूजनीयो ऽर्चनीयो ऽपचायनीयः संवृत्तः. एवं च मम परिनिर्वृतस्यापि सत एषां शरीराणां पूजा भविष्यति.
तस्मात् तर्हि कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा सत्कारेण वाचयिष्यति धारयिष्यति, पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः समन्ताच् च दीपमालाभिर् बहुविधाभिश् च पूजाभिः सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेत्, अयम् एव ततो बहुतरं पुण्यं प्रसवति.
तत् कस्य हेतोः? सर्वज्ञज्ञानस्य हि कौशिक तेन कुलपुत्रेण वा (प्स्प्_2-3:58) कुलदुहित्रा वा पूजा कृता भवेत्. यः कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा तथागतस्य परिनिर्वृतस्य सप्तरत्नमये स्तूपे शरीरं प्रतिष्ठापयेत् सप्तरत्नमये वा समुद्गे वा कृत्वा परिवहेत्, तच् च सत्कुर्याद् यावद् अपचायेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिर्, यश् च इह प्रज्ञापारमितायां लिख्यामानायां वा पुस्तकगतायां वा सत्कारं कुर्याद् गुरुकारं कुर्याद् माननां पूजनाम् अर्चनाम् अपचायनां कुर्यात्, अयं ततो बहुतरं पुण्यं प्रसवेत्.
तत् कस्य हेतोः? सर्वज्ञज्ञानस्य तेन पूजा कृता भविष्यति अतो निर्जाता हि पञ्चपारमिता, अतो निर्जाता अध्यात्मशून्यता यावद् अभावस्वभावशून्यता, अतो निर्जातानि स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाभिज्ञार्यसत्यानि, अतो निर्जाता अप्रमाणध्यानारूप्यसमापत्तयः अतो निर्जातानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा, अतो निर्जाताः सर्वसमाधयः सर्वधारणीमुखानि, अतो निर्जातः सर्वसत्त्वपरिपाकः, अतो निर्जाता बुद्धक्षेत्रपरिशुद्धिः, अतो निर्जाता बोधिसत्त्वानां महासत्त्वानां कुलसंपद् भोगसंपद् परिवारसंपद्, अतो निर्जाता महामैत्री महाकरुणा, अतो निर्जाता क्षत्रियमहाशालकुलता ब्राह्मणमहाशालकुलता गृहपतिमहाशालकुलता, अतो निर्जाता चातुर्महाराजकायिका देवपुत्रास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्त्मो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्माणो यावद् अकनिष्ठा देवपुत्रा, अतो निर्जाताः स्रोतआपन्नाः सकृदागामिनो ऽनागामिनो ऽर्हन्तः प्रत्येकबुद्धा, अतो निर्जाता बोधिसत्त्वा महासत्त्वा, अतो निर्जातास् तथागता अर्हन्तः सम्यक्संबुद्धा, अतो निर्जाताचिन्त्या अतुल्या अनुत्तरा निरुत्तरा असमा असमसमा सर्वाकारज्ञता.
इति स्वार्थाधिमुक्तिमृदुमृद्धी
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: य इमे भगवन् जाम्बूद्वीपका मनुष्या इमां प्रज्ञापारमितां न सत्कुर्वन्ति न गुरुकुर्वन्ति न मानयन्ति न पूजयन्ति नार्चयन्ति नापचायन्ते पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः किं नु भगवञ् ज्ञास्यन्ति एवं महर्द्धिका प्रज्ञापारमितायाः पूजा कृता भविष्यतीति, एवं महानुशंसा प्रज्ञापारमितायाः पूजा कृता भविष्यतीति, उत न ज्ञास्यन्ति?
(प्स्प्_2-3:59)
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: तत् किं मन्यसे कौशिक कियन्तस् ते जाम्बूद्वीपका मनुष्या ये बुद्धे ऽवेत्यप्रसादेन समन्वागता, ये धर्मे ऽवेत्यप्रसादेन समन्वागता, ये संघे ऽवेत्यप्रसादेन समन्वागता, ये बुद्धे निष्काङ्क्षा ये धर्मे निष्काङ्क्षा ये संघे निष्काङ्क्षा, ये बुद्धे निष्ठांगता ये धर्मे निष्ठांगता ये संघे निष्ठांगताः?
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: अल्पकास् ते भगवन् जाम्बूद्वीपका मनुष्या ये बुद्धे ऽवेत्यप्रसादेन समन्वागता ये धर्मे ऽवेत्यप्रसादेन समन्वागता ये संघे ऽवेत्यप्रसादेन समन्वागता, ये बुद्धे निष्काङ्क्षा ये धर्मे निष्काङ्क्षा ये संघे निष्काङ्क्षा, ये बुद्धे निष्ठांगता ये धर्मे निष्ठांगता ये संघे निष्ठांगताः.
भगवान् आह: तत् किं मन्यसे कौशिक कियन्तस् ते जाम्बूद्वीपका मनुष्या ये सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये त्रयाणां विमोक्षमुखानां लाभिनः, कियन्तस् ते जाम्बाद्वीपका मनुष्या ये ऽष्टानां विमोक्षाणां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये नवानुपूर्वविहारसमापत्तीनां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये चतसृणां प्रतिसंविदां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये षण्णाम् अभिज्ञानां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्ना, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये रागदोषमोहतनुत्वात् सकृदागामिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये पञ्चानाम् अवरभागीयानां संयोजनानां प्रहाणाद् अनागामिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये पञ्चानाम् ऊर्ध्वभागीयानां संयोजनानां प्रहाणाद् अर्हन्तः, कियन्तस् ते जाम्बुद्वीपका मनुष्या ये प्रत्येकबोधये संप्रस्थिताः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः?
शक्र आह: अल्पतरकास् ते भगवन् जाम्बूद्वीपका मनुष्या ये सप्तत्रिंशतां बोधिपक्ष्यां धर्माणां लाभिनः, ततो ऽल्पतरका ये त्रयाणां विमोक्षमुखानां लाभिनस्, ततो ऽल्पतरका ये ऽष्टानां विमोक्षाणां लाभिनस्, ततो ऽल्पतरका ये नवानुपूर्वविहारसमापत्तीनां लाभिनस्, ततो ऽल्पतरका ये चतसृणां प्रतिसंविदां लाभिनस्, ततो ऽल्पतरका ये षण्णाम् अभिज्ञानां लाभिनः. ततो ऽल्पतरकास् जाम्बूद्वीपका मनुष्या ये त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्नाः, ततो ऽल्पतरकास् ते ये रागदोषमोहतनुत्वात् (प्स्प्_2-3:60) सकृदागामिनः, ततो ऽल्पतरकास् ते ये पञ्चानाम् अवरभागीयानां संयोजनानां प्रहाणाद् अनागामिनः, ततो ऽल्पतरकास् ते ये पञ्चानाम् ऊर्ध्वभागीयानां संयोजनानां प्रहाणाद् अर्हन्तः, ततो ऽल्पतरकास् ते जाम्बूद्वीपका मनुष्या ये प्रत्येकबोधये संप्रस्थिताः, ततो ऽल्पतरकास् ते जाम्बूद्वीपका मनुष्या ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः.
भगवान् आह: एवम् एतत् कौशिकैवम् एतत्, अल्पकास् ते जाम्बूद्वीपका मनुष्या ये बुद्धे धर्मे संघे ऽवेत्यप्रसादेन समन्वागताः, ये बुद्धे धर्मे संघे निष्काङ्क्षाः, ये बुद्धे धर्मे संघे निष्ठांगताः. तेभ्यो ऽप्य् अल्पेभ्यो ऽल्पतरकास् ते ये दशकुशलकर्मपथसेविनस्, तेभ्यो ऽल्पेभ्यो ऽल्पतरकास् ते ये दानशीलक्षान्तिवीर्यध्यानप्रज्ञाभावना युक्ताः. तेभ्यो ऽप्य् अल्पेभ्यो ऽल्पतरकास् ते ये सप्तत्रिंशद्बोधिपक्षान् धर्मान् भावयन्ति. तेभ्यो ऽप्य् अल्पेभ्यो ऽल्पतरका ये त्रीणि विमोक्षमुखानि भावयन्ति. तेभ्यो ऽल्पेभ्यो ऽल्पतरका ये ऽष्ट विमोक्षां भावयन्ति, तेभ्यो ऽल्पेभ्यो ऽल्पतरका ये नवानुपूर्वविहारसमापत्तीर् भावयन्ति, तेभ्यो ऽप्य् अल्पेभ्यो ऽल्पतरका ये चतस्रः प्रतिसंविदो भावयन्ति, तेभ्यो ऽल्पेभ्यो ऽल्पतरका ये षड् अभिज्ञा भावयन्ति. ततो ऽल्पतरका ये स्रोतआपन्नाः, ततो ऽल्पतरका ये सकृदागामिनः, ततो ऽल्पतरका ये ऽर्हन्तः, ततो ऽल्पतरका ये प्रत्येकबुद्धाः, ततो ऽल्पतरका ये ऽनुत्तरायै सम्यक्संबोधये संप्रस्थिताः. ततो ऽल्पेभ्यो ऽल्पतरका ये बोधाय चरन्ति.
तत् कस्य हेतोस्? तथा हि तैः संसारे संसरद्भिर् न बुद्धो दृष्टः न धर्मः श्रुतः न संघः पर्युपासितः. न दानं दत्तं न शीलं रक्षितं न क्षान्तिर् भाविता न वीर्यम् आरब्धं न ध्यानं सेवितं न प्रज्ञा भाविता, न दानपारमिता श्रुता एवं न शीलपारमिता न क्षान्तिपारमिता न वीर्यपारमिता न ध्यानपारमिता न प्रज्ञापारमिता श्रुता नोपायकौशलं श्रुतं नाध्यात्मशून्यता न बहिर्धाशून्यता नाध्यात्मबहिर्धाशून्यता न यावद् अभावस्वभावशून्यता श्रुता न सप्तत्रिंशद्बोधिपक्षा धर्माः श्रुता न समाधयो न सर्वधारणीमुखानि नाप्रमाणध्यानारूप्यसमापत्तयाः श्रुता नार्यसत्यानि नाभिज्ञा न बलानि न वैशारद्यानि न प्रतिसंविदो नाष्टादशावेणिका बुद्धधर्माः श्रुता न सर्वज्ञता श्रुता न भाविता न बहुली कृताः.
अनेन कौशिक हेतुनाल्पकास् ते सत्त्वा ये बुद्धे ऽवेत्यप्रसादेन समन्वागता ये धर्मे ऽवेत्यप्रसादेन समन्वागता ये संघे ऽवेत्यप्रसादेन (प्स्प्_2-3:61) समन्वागताः, अल्पकास् ते सत्त्वा ये बुद्धे धर्मे संघे निष्काङ्क्षा, अल्पकास् ते सत्त्वा ये बुद्धे धर्मे संघे निष्ठांगता, अल्पकास् ते जाम्बूद्वीपका मनुष्या ये दशकुशलकर्मपथसेविनः, अल्पकास् ते ये दानशीलक्षान्तिवीर्यध्यानप्रज्ञाभावना युक्ताः, अल्पकास् ते ये सप्तत्रिंशद्बोधिपक्ष्यां धर्मां भावयन्ति. अल्पकास् ते ये त्रीणि विमोक्षमुखानि भावयन्ति. अल्पकास् ते ये ऽष्ट विमोक्षां भावयन्ति अल्पकास् ते ये नवानुपूर्वविहारसमापत्तीर् भावयन्ति. अल्पकास् ते ये चतस्रः प्रतिसंविदो भावयन्ति. अल्पकास् ते षड् अभिज्ञा भावयन्ति. अल्पकास् ते जाम्बूद्वीपका मनुष्या ये त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्नाः, रागदोषमोहतनुत्वात् सकृदागामिनः, पञ्चानाम् अवरभागीयानां संयोजनानां प्रहाणाद् आनागामिनः, पञ्चानम् ऊर्ध्वभागीयानां संयोजनानां प्रहाणाद् अर्हन्तः. अल्पकास् ते जाम्बुद्वीपका मनुष्या ये प्रत्येकबुद्धयानं संप्रस्थिताः. तेभ्यो ऽल्पेभ्यो ऽल्पतरका ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः तेभ्यो ऽल्पेभ्यो ऽल्पतरका ये बोधाय चरन्ति. ततो ऽल्पतरका ये बोधिचित्तम् उपबृंहयन्ति. ततो ऽल्पतरका ये प्रज्ञापारमितायां योगम् आपद्यन्ते. ततो ऽल्पतरका ये प्रज्ञापारमितायां चरन्ति. ततो ऽल्पतरका ये ऽविनिवर्तनीयायां भूमौ स्थित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
इहाहं कौशिक पश्यामि अनावरणेन बुद्धचक्षुषा पूर्वस्यां दिशि अप्रमेयाम् असंख्येयां सत्त्वाम् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पाद्य प्रज्ञापारमितायां चरत उपायकौशलविरहितांस् तत एको वा द्वौ वा बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयत्वे ऽवतिष्ठेयातां, भूयस्त्वेन ते श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते.
तत् कस्य हेतोर्? दुरभिसंभवा हि कौशिक अनुत्तरा सम्यक्संबोधिः कुशीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् हीनसत्त्वैर् दुष्प्रज्ञैः. एवं दक्षिणस्यां दिशि पश्चिमायाम् उत्तरस्याम् ऊर्ध्वम् अधो विदिक्षु पश्याम्य् अहं कौशिक अनावरणेन बुद्धचक्षुषा अप्रमेयान् असंख्येयान् सत्त्वान् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पाद्य बोधाय चरत उपायकौशलविरहितास् तत एको वा द्वौ वा बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयत्वे ऽवतिष्ठेयातां, भूयस्त्वेन ते श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते.
तत् कस्य हेतोर्? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः (प्स्प्_2-3:62) कुशीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् हीनसत्त्वैर् दुष्प्रज्ञैः.
इति स्वार्थाधिमुक्तिमृदुमध्या
तस्मात् तर्हि कौशिक कुलपुत्रेण वा कुलदुहित्रा वा क्षिप्रं च सुखं चानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन इयम् एव प्रज्ञापारमिता अभीक्ष्णं श्रोतव्या उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या परिप्रश्नीकर्तव्या योनिशो मनसिकर्तव्या सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिश् च ये ऽपि चान्ये कुशला धर्मा इह प्रज्ञापरमितायाम् अन्तर्गतास् ते ऽप्य् उद्ग्रहीतव्या धारयितव्या वाचयितव्याः पर्यवाप्तव्याः प्रवर्तयितव्या योनिशो मनसिकर्तव्याः तद्यथापि नाम दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता सर्वसमाधयः सर्वधारणीमुखानि चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गानि आर्याष्टाङ्गो मार्गश् चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयः षड् अभिज्ञा दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा महामैत्री महाकरुणा, अन्ये चापरिमाणा बुद्धधर्मा ये प्रज्ञापारमितायाम् अन्तर्गतास् ते ऽप्य् उद्ग्रहीतव्या यावद् योनिशो मनसिकर्तव्याः.
तत् कस्य हेतोस्? तथा हि कौशिक ते कुलपुत्रा वा कुलदुहितरो वा एवं प्रज्ञास्यन्ति अत्र हि तथागतः पूर्वबोधिसत्त्वचारिकां चरन् शिक्षितो यदुत प्रज्ञापारमितायां ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायाम् अध्यात्मशून्यतायां बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशून्यतायां यावद् अभावस्वभावशून्यतायां सर्वसमाधिषु सर्वधारणीमुखेषु सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु षट्सु अभिज्ञासु दशतथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु महामैत्र्यां महाकरुणायाम् अन्येषु चापरिमाणेषु बुद्धधर्मेष्व् अस्माभिर् अप्य् अस्यां प्रज्ञापारमितायाम् अनुशिक्षमाणैः शिक्षितव्यम् एषास्माकं शास्ता, तिष्ठतो वा तथागतस्य परिनिर्वृतस्य वा इयम् एव प्रज्ञापारमिता प्रतिसर्तव्या बोधिसत्त्वैर् महासत्त्वैः.
(प्स्प्_2-3:63)
इति स्वार्थाधिमुक्तिर् मृद्वधिमात्रा
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: कियत् स भगवन् कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितां सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति?
भगवान् आह: यः कौशिक कुलपुत्रो वा कुलदुहिता वा तथागतस्य परिनिर्वृतस्य पूजायै सप्तरत्नमयं स्तूपं योजनोच्छ्रितं कारयेत् कारयित्वा यावज्जीवं पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः, समन्ताच् च सत्कुर्याद् गुरुकुर्याद् मानायेत् पूजयेत्.
तत् किं मन्यसे कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति?
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति परेभ्यश् च विस्तरेण संप्रकाशयिष्यति देशयिष्यति योनिशो मनसिकरिष्यति अविरहितः सर्वज्ञताचित्तेन लिखितां च सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
इति स्वार्थाधिमुक्तिर् मध्यमृद्धी
तिष्ठतु कौशिक स्तूपो रत्नमयः सचेत् कौशिक कुलपुत्रो वा कुलदुहिता वा तथागतस्य परिनिर्वृतस्य पूजाकर्मणे इमं जम्बूद्वीपं सप्तरत्नमयैः स्तूपैः परिपूर्णं कुर्याद् योजनोच्छ्रितैः, तांश् च सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेद् दिव्यपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
तत् किं मन्यसे कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति?
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति, य इमां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति योनिशो मनसिकरिष्यति, अविरहितश् सर्वज्ञताचित्तेन लिखितां च सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिर् (प्स्प्_2-3:64) बहुविधाभिश् च पूजाभिः पूजयिष्यति. इति स्वार्थाधिमुक्तिमध्यमध्या
तिष्ठतु कौशिक जम्बूद्वीपस् तथागतस्तूपपरिपूर्णः सचेत् कौशिक य इमां चातुर्महाद्वीपकं लोकधातुं तथागतस्य परिनिर्वृतस्य पूजार्थं सप्तरत्नमयैः स्तूपैर् योजनोच्छ्रितैः परिपूर्णं कुर्यात् तांश् च सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेद् दिव्यपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
तत् किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्?
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमिताम् उद्गृह्णीयाद् धारयेद् वाचयेत् पर्यवाप्नुयाद् अन्तशः पुस्तकगताम् अपि कृत्वा पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिश् च पूजयेत् अर्चयेद् अपचायेत् अयम् एव ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
इति स्वार्थाधिमुक्तिर् मध्याधिमात्रा
तिष्ठतु कौशिक चातुर्महाद्वीपको लोकधातुस् तथागतस्तूपपरिपूर्णः सचेत् कौशिक यः साहस्रं लोकधातुं तथागतस्य परिनिर्वृतस्य पूजार्थं सप्तरत्नमयैः स्तूपैर् योजनोच्छ्रितैः पूरयेत् पूरयित्वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेत्, दिव्यपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
तत् किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्?
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमिताम् अन्तशः पुस्तकगताम् अपि कृत्वा उद्गृह्णीयाद् धारयेद् वाचयेत् पर्यवाप्नुयाद् योनिशश् च मनसिकुर्यात् सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिश् च पूजयेद् अर्चयेद् अपचायेत्, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्.
इति स्वार्थाधिमुक्तिर् अधिमात्रमृद्धी
तिष्ठतु कौशिक साहस्रो लोकधातुर् नानारत्नमयस्तूपपरिपूर्णः सचेत् कौशिक द्विसाहस्रं लोकधातुं कश्चिद् एव पुरुषस् तथागतस्य परिनिर्वृतस्य (प्स्प्_2-3:65) पूजार्थं नानारत्नमयैः स्तूपैः परिपूर्णं कारयेत् कारयित्वा च सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः पूजयेद् अर्चयेद् अपचायेत्.
तत् किं मन्यसे कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्?
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमिताम् अन्तशः पुस्तकगताम् अपि कृत्वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. इति स्वार्थाधिमुक्तिर् अधिमात्रमध्या
तिष्ठतु कौशिक द्विसाहस्रो लोकधातुर् नानारत्नमयस्तूपपरिपूर्णो यः. कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा तथागतस्य परिनिर्वृतस्य पूजार्थम् इमां त्रिसाहस्रमहासाहस्रं लोकधातुं सप्तरत्नमयैस् तथागतस्तूपैर् योजनोच्छ्रितैः पूरयेत् पूरयित्वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेत् दिव्यपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
तत् किं मन्यसे कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्?
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमिताम् अन्तशः पुस्तकगताम् अपि कृत्वा उद्गृह्णीयाद् धारयेद् वाचयेत् पर्यवाप्नुयात् सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः. इति स्वार्थाधिमुक्तिर् अधिमात्राधिमात्रा
तिष्ठतु कौशिक त्रिसाहस्रमहासाहस्रो लोकधातुर् नानारत्नमयस्तुपपरिपूर्णः पूजितो ये केचित् कौशिक त्रिसाहस्रे लोकधातौ सत्त्वाः सत्त्वसंग्रहेण संगृहीताः तेषाम् एकैकः सत्त्वस् तथागतस्य परिनिर्वृतस्य पूजार्थं सप्तरत्नमयान् स्तूपान् कारयेद् योजनोच्छ्रितांस् तांश् च सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेत् दिव्यपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिः.
(प्स्प्_2-3:66)
तत् किं मन्यसे कौशिकापि नु ते सत्त्वास् ततोनिदानं बहुतरं पुण्यं प्रसवेयुः?
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां पुस्तकगताम् अपि कृत्वा उद्गृह्णीयाद् धारयेद् वाचयेत् पर्यवाप्नुयाद् योनिशश् च मनसिकुर्याद् अविरहितः सर्वज्ञताचित्तेन पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिश् च पूजयेद् अर्चयेद् अपचायेत्, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्.
एवम् उक्ते सक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: एवम् एतद् भगवन्न् एवम् एतत् सुगत, प्रज्ञापारमितया भगवन् सत्कृतया गुरुकृतया मानितया पूजितया अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तः सत्कृता गुरुकृता मानिता पूजिताश् च, ये ऽपि ते भगवन् पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वास् तेभ्य एकैकः सत्त्वस् तथागतस्य परिनिर्वृतस्य पूजार्थं सप्तरत्नमयान् स्तूपान् प्रतिष्ठापयेद् योजनोच्छ्रितांस् तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिः, अपि नु ते भगवन् कुलपुत्रा वा कुलदुहितरो वा ततोनिदानं बहुतरं पुण्यं प्रसवेयुः.
एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् ऊर्ध्वम् अधो विदिक्षु एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तेभ्य एकैकः सत्त्वस् तथागतस्य परिनिर्वृतस्य पूजार्थं सप्तरत्नमयान् स्तूपान् प्रतिष्ठापयेद् योजनोच्छ्रितांस् तांश् च कल्पं वा कल्पावशेसं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेत् दिव्यपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिः, अपि नु ते भगवन् कुलपुत्रा वा कुलदुहितरो वा ततोनिदानं बहुतरं पुण्यं प्रसवेयुः.
भगवान् आह: एवम् एतत् कौशिकैवम् एतत्.
शक्र आह: अतः स भगवन् कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा उद्गृह्णीयाद् धारयेद् वाचयेत् पर्यवाप्नुयाद् योनिशश् च मनसिकुर्यात् तांश् च (प्स्प्_2-3:67) सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेत् दिव्यपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिश् च पूजयेद् अर्चयेद् अपचायेत्, अयम् एव भगवन् कुलपुत्रो वा कुलदुहिता वा तस्मात् पूर्वकात् कुलपुत्राद् वा कुलदुहितृतो वा बहुतरं पुण्यं प्रसवेत्, तथा हि भगवन्न् अस्यां प्रज्ञापारमितायां सर्वे कुशला धर्मा अन्तर्गताः. तद्यथा दशकुशलाः कर्मपथाश् चत्वारि ध्यानां चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः सप्तत्रिंशद्बोधिपक्ष्या धर्मास् त्रीणि विमोक्षमुखानि चत्वार्य् आर्यसत्यानि षड् अभिज्ञा अष्ट विमोक्षा नवानुपूर्वविहारसमापत्तयः दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता सर्वसमाधयः सर्वधारणीमुखानि दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः. प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा महामैत्री महाकरुणा मार्गाकारज्ञता सर्वज्ञता सर्वाकारज्ञता, इदं तद् बुद्धानां भगवता शासनं यत्र शिक्षित्वा अतीतानागतप्रत्युत्पन्ना बोधिसत्त्वाः प्रत्येकबुद्धाः श्रावकाश् च निर्जाता निर्यान्ति निर्यास्यन्ति च.
अथ खलु भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्, बहु ते कुलपुत्राः कुलदुहितरो वा ततोनिदानं बहुतरं पुण्यं प्रसविष्यन्ति. अप्रमेयम् असंख्येयम् अचिन्त्यम् अतुल्यम् अपरिमाणं य इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति उत्तरे च सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति अर्चयिष्यन्ति अपचायिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
तत् कस्य हेतोः? प्रज्ञापारमिता निर्जाता हि कौशिक तथागतानाम् अर्हतां सम्यक्संबुद्धानां पञ्च पारमिता सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि सप्तत्रिंशद् बोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तय आर्यसत्यानि दशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्माः पञ्च चक्षूंषि षड् अभिज्ञा अष्ट विमोक्षा नवानुपूर्वविहार समापत्तयः सत्त्वपरिपाको बुद्धक्षेत्रसंपत्, प्रज्ञापारमितानिर्जाता हि कौशिक मार्गाकारज्ञता सर्वज्ञता सर्वाकारज्ञता, प्रज्ञापारमितानिर्जातं हि (प्स्प्_2-3:68) कौशिक श्रावकयानं प्रत्येकबुद्धयानं, प्रज्ञापारमितानिर्जाता हि कौशिक अनुत्तरा सम्यक्संबोधिः.
तस्मात् तर्हि कौशिक यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति तां च सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति अर्चयिष्यति अपचायिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिः, अस्य पुण्याभिसंस्कारस्यासौ पौर्वकः पुण्याभिसंस्कारः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि यावत् कोटिनियुतशतसहस्रतमीम् अपि कलां नोपैति, संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि न क्षमते.
तत् कस्य हेतोर्? यावद् इयं हि कौशिक प्रज्ञापारमिता जाम्बूद्वीपे स्थास्यति तावद् न बुद्धरत्नस्यान्तर्धानं भविष्यति न धर्मरत्नस्य न संघरत्नस्यान्तर्धानं भविष्यति, तावद् दश कुशलाः कर्मपथा लोके भविष्यन्ति चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः, दानपारमितायाः शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमितायाः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गानाम् आर्यसत्यानां षण्णाम् अभिज्ञानाम् अष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां चतसृणां प्रतिसंविदां दशानां तथागतबलानां चतुर्णां वैशारद्यानाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां मार्गाकारज्ञतायाः सर्वज्ञतायाः सर्वाकारज्ञतायाः क्षत्र्यमहाशालकुलानां ब्राह्मणमहाशालकुलानां गृहपतिमहाशालकुलानां चातुर्महाराजकायिकानां देवानां त्रायस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां देवानां लोके प्रादुर्भावो भवति यावद् अकनिष्ठानां देवानां लोके प्रादुर्भावो भवति, स्रोतआपत्तिफलस्य सकृदागामिफलस्यानागामिफलस्यार्हत्त्वस्य प्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां समुदागमो भवति. अनुत्तरस्य बुद्धज्ञानस्य धर्मचक्रप्रवर्तनस्य सत्त्वपरिपाकस्य बुद्धक्षेत्रपरिशुद्धिश् च प्रज्ञायते.
इति स्वपरार्थाधिमुक्तिमृदुमृद्धी
अथ खलु ये ऽस्मिंस् त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका (प्स्प्_2-3:69) देवा यावद् अकनिष्ठा देवपुत्रास् तान् शक्रो देवानाम् इन्द्र आमन्त्रयामास: उद्ग्रहीतव्या मार्षाः प्रज्ञापारमिता धारयितव्या वाचयितव्या पर्यवाप्तव्या मार्षाः प्रज्ञापारमिता योनिशो मनसिकर्तव्या प्रज्ञापारमिता.
तत् कस्य हेतोः? प्रज्ञापारमिताया मार्षा उद्ग्रहीतया धारितया वाचितया पर्यवाप्तया सर्वे ऽकुशला धर्माः परिहीयन्ते कुशला धर्मा विवर्धन्ते दिव्याः काया विवर्धन्ते असुराः कायाः परिहीयन्ते, प्रज्ञापारमिताया मार्षा उद्गृहीतया धार्तितया वाचितया पर्यवाप्तया न बुद्धनेत्री समुच्छिद्यते न धर्मनेत्री न संघनेत्री समुच्छिद्यते, त्रिरत्नवंशानुपच्छेदाय मार्षाः सर्वासां पारमितानां लोके प्रादुर्भावो भवति, सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् अष्टानां विमोक्षमुखानां नवानुपूर्वविहारसमापत्तीनां षण्णाम् अभिज्ञानां दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां लोके प्रादुर्भावो भवति, सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानां मार्गाकारज्ञतायाः सर्वज्ञतायाः सर्वाकारज्ञताया लोके प्रादुर्भावो भवति, बोधिसत्त्वचर्याया लोके प्रादुर्भावो भवति, स्रोतआपन्नसकृदागाम्यनागाम्यर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां लोके प्रादुर्भावाः प्रज्ञायन्ते.
अथ खलु भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: उद्ग्रहाण त्वं कौशिक प्रज्ञापारमितां धारय वाचय पर्यवाप्नुहि त्वं कौशिक प्रज्ञापारमिताम्.
तत् कस्य हेतोर्? यदा कौशिक असुराणाम् एवं समुदाचारा भविष्यन्ति देवैस् त्रायस्त्रिंशैः सार्धं संग्रामयिष्याम इति तदा त्वं कौशिक इमां प्रज्ञापारमितां समन्वाहरेः स्वाध्यायेः एवं तेषाम् असुराणां ते समुदाचारा अन्तर्धास्यन्ति, न च पुनस् तान् विग्रहचित्तोत्पादान् उत्पादयिष्यन्ति, येषां च देवपुत्राणां देवकन्यानां वा च्युतिकालो भवेत् तेषाम् अपि पुरतः स्वाध्यायं कुर्यास्, ते यद्य् आत्मनो ऽपायोपपत्तिं द्रक्ष्यन्ति तेषाम् एनां प्रज्ञापारामितां शृण्वतां ते ऽपायोपपत्तिचित्तोत्पादा अन्तर्धास्यन्ति, तत्रैव देवभवने ते उत्पत्स्यन्ते एवं महर्द्धिका ह्य् अस्याः प्रज्ञापारमितायाः श्रवा यस्य कस्यचित् कौशिक कुलपुत्रस्य वा कुलदुहितुर् वा देवपुत्रस्य वा देवकन्याया (प्स्प्_2-3:70) वा इयं प्रज्ञापारमिता श्रोत्रावभासम् आगमिष्यति. सर्वे ते तेन कुशलमूलेनानुपूर्वेणानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते.
एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: एवम् एतद् भगवन्न् एवम् एतत् सुगत तथा हि भगवन् ये ऽतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धा अभूवन्, येषां श्रावका निरुपधिशेषे निर्वाणधातौ प्रतिष्ठितास् ते ऽपीमाम् एव प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः. ये ऽपि ते भगवन् भविष्यन्ति अनागते ऽध्वनि बुद्धा भगवन्तः सश्रावकसंघास् ते ऽपीमाम् एव प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. ये ऽपि चैतर्हि दशदिशि लोके प्रत्युत्पन्ने ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धा भगवन्तः स श्रावकसंघास् तिष्ठन्ति ध्रियन्ते यापयन्ति सर्वे ते इहैव प्रज्ञापारमितायां शिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
तत् कस्य हेतोस्? तथा हि प्रज्ञापारमितायां सर्वे बुद्धधर्मा अन्तर्गताः सर्वे बोधिसत्त्वधर्माः सर्वे प्रत्येकबुद्धधर्माः सर्वे श्रावकधर्मा अन्तर्गताः
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्, महाविद्येयं कौशिक यद् उत प्रज्ञापारमिता, अनुत्तरेयं कौशिक विद्या यद् उत प्रज्ञापारमिता, असमसमेयं कौशिक विद्या यद् उत प्रज्ञापारमिता.
तत् कस्य हेतोस्? तथा हि कौशिक ये ऽतीतानागतप्रत्युत्पन्ना दशदिशि लोके तथागता अर्हन्तः सम्यक्संबुद्धाः सर्वे ते इमाम् एव प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च. इमाम् एव प्रज्ञापारमिताम् आगम्य दशकुशलाः कर्मपथाः प्रज्ञायन्ते, चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः सर्वपारमिताः सप्तत्रिंशद्बोधिपक्ष्या धर्मा आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधमाः प्रज्ञायन्ते. त्रीणि विमोक्षमुखानि अष्ट विमोक्षा नवानुपूर्वविहारसमापत्तयः षड् अभिज्ञा धर्मधातुर् भूतकोटितथता अवितथता अनन्यतथता धर्मता धर्मस्थितिता धर्मनियामता लोके प्रज्ञायते. पञ्च चक्षूंषि स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् (प्स्प्_2-3:71) अर्हत्त्वं प्रत्येकबुद्धत्वं सर्वज्ञता लोके प्रज्ञायते. बोधिसत्त्वं पुनः कौशिकागम्य दश कुशलाः कर्मपथा लोके प्रभाव्यन्ते. सप्तत्रिंशद् बोधिपक्ष्या धर्मा आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयो ऽष्ट विमोक्षा नवानुपूर्वविहारसमापत्तयस् त्रीणि विमोक्षमुखानि षड् अभिज्ञाः सर्वपारमिताः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा मार्गाकारज्ञता सर्वज्ञता सर्वाकारज्ञता लोके प्रज्ञायते. धर्मधातुर् भूतकोटितथता अवितथता अनन्यतथता धर्मता धर्मस्थितिता धर्मनियामता लोके प्रज्ञायते. पञ्च चक्षूंषि स्रोतआपत्तिफलं स्रोतआपन्नः सकृदागामिफलं सकृदागामी अनागामिफलम् अनागामी अर्हत्त्वम् अर्हन् प्रत्येकबोधिः प्रत्येकबुद्धः, अनुत्तरा सम्यक्संबोधिः. तथागतो ऽर्हन् सम्यक्संबुद्धो लोके प्रभाव्यते. तद्यथापि नाम कौशिक चन्द्रमण्डलम् आगम्य सर्वौषधीतारागणाः प्रभाव्यन्ते. एवम् एव कौशिक बोधिसत्त्वचन्द्रमण्डलम् आगम्य दशकुशलाः कर्मपथाः. सर्वकुशलचर्या सम्यक्चर्या सर्वपारमिताः सप्तत्रिंशद्बोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तयः, आर्यसत्यानि अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः षडभिज्ञाः सर्वसमाधयः सर्वशून्यताः सर्वधारणीमुखानि शून्यतानिमित्ताप्रणिहितसमाध्योषधयः प्रभाव्यन्ते. दशबलवैशारद्यप्रतिसंविदष्टादशावेणिका बुद्धधर्मौषधयः प्रभाव्यन्ते. सर्वशैक्षाशैक्षसर्वश्रावकप्रत्येकबुद्धतारानक्षत्राणि प्रज्ञायन्ते. सर्वज्ञता प्रभाव्यते. तथागता अर्हन्तः सम्यक्संबुद्धाः प्रभाव्यन्ते. यदापि बुद्धा भगवन्तो लोके नाभिसंबुध्यन्ते नोत्पादस् तथागतानां भवति, तदापि ते बोधिसत्त्वा महासत्त्वाः. सत्त्वानां लौकिकांश् च लोकोत्तरांश् च धर्मान् देशयन्ति.
तत् कस्य हेतोः? बोधिसत्त्वनिर्जातानि हि देवयानमनुष्ययानश्रावकयानप्रत्येकबुद्धयानानि, तच् च बोधिसत्त्वस्य महासत्त्वस्योपायकौशल्यं प्रज्ञापारमितानिर्जातं, येनोपायकौशल्येन षड् पारमिताः परिपूरयति सर्वशून्यतां भावयति सर्वसमाधींश् च समापद्यते सर्वधारणीमुखानि च प्रतिलभते अप्रमाणध्यानारूप्यसमापत्तीश् च समापद्यते सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् भावयति आर्यसत्यानि भावयति अष्ट विमोक्षान् भावयति नवानुपूर्वविहारसमापत्तीश् च समापद्यते अभिज्ञा भावयति त्रिणि विमोक्षमुखानि (प्स्प्_2-3:72) भावयति दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् प्रतिलभते द्वात्रिंशन्महापुरुषलक्षणानि अशीत्यनुव्यञ्जनानि प्रतिलभते. न च श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा साक्षात् करोति. सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति बोधिसत्त्वसंपदं च परिगृह्णाति सर्वज्ञतां चानुप्राप्नोति.
पुनर् अपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति स एभिः दृष्टधार्मिकैर् गुणैः समन्वागतो भविष्यति.
एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: कतमैर् भगवन् दृष्टधार्मिकैर् गुणैः कुलपुत्रा वा कुलदुहितरो वा समन्वागता भविष्यन्ति य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति.
भगवान् आह: तेन हि कौशिक कुलपुत्रा वा कुलदुहितरो वा न विषेण कालं करिष्यन्ति नाग्निना न शस्त्रेण नोदकेन कालं करिष्यन्ति यावन् न केनचिद् व्याधिना कालं करिष्यन्ति स्थापयित्वा पूर्वकर्मविपाकं न च राजकुलाद् उपद्रवा भविष्यन्ति. सचेत् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां स्वाध्यायन् राजकुलं प्रविशत्य् अस्यावतारप्रेक्षिणो ऽवतारगवेषिणो ऽवतारं न लप्स्यन्ते.
तत् कस्य हेतोस्? तथा ह्य् अस्या एव प्रज्ञापारमितायास् तेजसा. सचेत् कौशिक कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां स्वाध्यायंस् तत्र राजकुलम् उपसंक्रमिष्यति, ते चास्य तत्र राजानो वा राजपुत्रा वा राजमहामात्रा वा पूर्वम् आलपितव्यं मंस्यन्ते अभिभाषितव्यं मंस्यन्ते.
तत् कस्य हेतोः? तथा हि तेषां कुलपुत्राणां कुलदुहितृणां च सर्वसत्त्वानाम् अन्तिके मैत्रचित्तं प्रत्युपस्थितं करुणाचित्तं मुदिताचित्तम् उपेक्षाचित्तं प्रत्युपस्थितं भवति. एभिः स कौशिक दृष्टधार्मिकैर् गुणैः कुलपुत्रो वा कुलदुहिता वा समन्वागतो भविष्यति. य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति.
पुनर् अपरं कौशिक कुलपुत्रो वा कुलदुहिता वा एभिः सांपरायिकैर् (प्स्प्_2-3:73) गुणैः समन्वागतो भविष्यति. य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति. यद् उत न जातु दशभिः कुशलैः कर्मपथे ऽविरहितो भविष्यति, न चतुर्भिर् ध्यानैर् न चतुर्भिर् अप्रमाणैर् न चतसृभिर् आरूप्यसमापत्तिभिर् न पारमिताभिर् न सप्तत्रिंशद्बोधिपक्ष्यैर् धर्मैर् न सत्यैर् नाष्टविमोक्षैर् न नवानुपूर्वविहारसमापत्तिभिर् न त्रिभिर् विमोक्षमुखैर् नाभिज्ञाभिर् न सर्वशून्यताभिर् न सर्वसमाधिभिर् न सर्वधारणीमुखैर् न दशभिर् बलैर् न वैशारद्यैर् न प्रतिसंविद्भिर् नाष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् विरहितो भविष्यति. न लक्षणानुव्यञ्जनैर् विरहितो भविष्यति. स न जातु निरयतिर्यग्योनियमलोकेषूपपत्स्यते. न जात्व् इन्द्रियविकलो भविष्यति न जात्व् अङ्गहीनो भविष्यति न जातु दरिद्रकुलेषूपपत्स्यते न वेणुकारकुलेषूपपत्स्यते न पुष्कसकुलेषूपपत्स्यते न मौष्टिककुलेषूपपत्स्यते न चण्डालौरभ्रिकशाकुनिककुलेषूपपत्स्यते न शूद्रकुलेषूपपत्स्यते क्षत्रियमहाशालकुलेषु वा ब्राह्मणमहाशालकुलेषु वा गृहपतिमहाशालकुलेषु वा उदारोदारेषूपपत्स्यते. स ततः प्रभृति सततसमितं द्वात्रिंशन्महापुरुषलक्षणानुव्यञ्जनसमलंकृतकायो भविष्यति यत्र वा लोकधातौ बुद्धा भगवन्तो भविष्यन्ति तत्र बुद्धानां भगवतां पुरतः पद्म औपपादुक उपपत्स्यते. न जात्व् अभिज्ञा विरहितो भविष्यति. स आकाङ्क्षं बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रमिष्यति, तान् बुद्धान् भगवतः पर्युपासितुं धर्मं च श्रोतुं बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन् सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयिष्यति.
तस्मात् तर्हि कौशिक कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमिता उद्गृहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च मनसिकर्तव्या सर्वज्ञताचित्तेन चाविरहितेन भवितव्यं. स एतैर् दृष्टधार्मिकैर् गुणैः सांपरायिकैर् गुणैर् अविरहितो भविष्यति यावन् नानुत्तरा सम्यक्संबोधिर् अभिसंबुध्यते इति.
अथ खल्व् अन्यतीर्थिकानां परिव्राजकानां शतम् उपारम्भाभिप्रायाणां येन भगवांस् तेनोपसंक्रामति स्म.
अथ खलु शक्रस्य देवानाम् इन्द्रस्यैतद् अभवत्: इदम् अन्यतीर्थिकानां परिव्राजकानां शतम् उपारम्भाभिप्रायाणां येन भगवांस् तेनोपसंक्रामति, यन् नूनम् अहं यावन्मात्रं मया भगवतो ऽन्तिकात् प्रज्ञापारमिताया उद्ग्रहीतं तावन्मात्रं स्वाध्यायेयं यद् एतद् अन्यतीर्थिकानां (प्स्प्_2-3:74) परिव्राजकानां शतं न भगवन्तम् उपसंक्रामेयुर् नान्तरायं प्रज्ञापारमितायां कुर्युः.
अथ खलु शक्रो देवानाम् इन्द्रो यावद् अनेन भगवतो ऽन्तिकात् प्रज्ञापारमिताया उद्ग्रहीतं तावत् स्वाध्यायति स्म.
अथ खलु ते ऽन्यतीर्थिकाः परिव्राजका दूरत एव भगवन्तं प्रदक्षिणीकृत्य येनैव मार्गेणागतास् तेनैव प्रतिगताः.
अथ खल्व् आयुष्मतः शारिपुत्रस्यैतद् अभवत्: किम् अत्र कारणं येनैते ऽन्यतीर्थिकाः परिव्राजका उपारम्भाभिप्राया भगवन्तं दूरत एव प्रदक्षिणीकृत्य येनैव मार्गेणागतास् तेनैव प्रतिगताः?
अथ खलु भगवान् आयुष्मतः शारिपुत्रस्य चेतसैव चेतःपरिवितर्कम् आज्ञायायुष्मन्तं शारिपुत्रम् आमन्त्रयते स्म: शक्रेण शारिपुत्र देवानाम् इन्द्रेण इयं प्रज्ञापारमिता समन्वाहृता येनैते ऽन्यतीर्थिकाः परिव्राजका दूरत एव भगवन्तं प्रदक्षिणीकृत्य येनैव मार्गेणागतास् तेनैव प्रतिगताः न हि शारिपुत्र तेषाम् अन्यतीर्थिकानां परिव्राजकानाम् एकस्यापि शुक्लं धर्मं समनुपश्यामि, सर्व एते ऽन्यतीर्थिकाः परिव्राजकाः प्रतिहतचित्ता उपारम्भाभिप्राया उपसंक्रमितव्यं मंस्यन्ते, नाहं तं शारिपुत्र समनुपश्यामि सदेवके लोके समारके सब्रह्मके सश्रमणब्राह्मणिकायां प्रजायाम् इमां प्रज्ञापारमिताम् उपारम्भाभिप्रायः प्रतिहतचित्त उपसंक्रामेन्, नैतत् स्थानं विद्यते.
तत् कस्य हेतोस्? तथा हि शारिपुत्र य इह त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजिकास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्या यावद् अकनिष्ठा देवपुत्रा ये ऽपि श्रावका ये ऽपि प्रत्येकबुद्धा ये ऽपि बोधिसत्त्वा महासत्त्वास् तैर् अपीयं प्रज्ञापारमिता परिगृहीता. तत् कस्य हेतोः? तथा हि ते प्रज्ञापारमितानिर्जाताः.
पुनर् अपरं शारिपुत्र ये ऽपि ते पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावद् दशसु दिक्षु गङ्गानदीवालुकोपमेषु लोकधातुष्व् एकैकस्यां दिशि बुद्धा भगवन्तः सश्रावकसंघाः सबोधिसत्त्वदेवानागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैर् अपि सर्वैर् इयं प्रज्ञापारमिता परिगृहीता. तत् कस्य हेतोस्? तथा हि ते प्रज्ञापारमितानिर्जाताः सर्वे.
अथ खलु मारस्य पापीयस एतद् अभवद्: इमास् तथागतस्यार्हतः सम्यक्संबुद्धस्य चतस्रः परिषदः संमुखं स्थिताः. अमी च कामावचरा रूपावचराश् च देवपुत्राः संमुखं स्थिता निःसंशयम् अत्र बोधिसत्त्वा (प्स्प्_2-3:75) महासत्त्वा व्याकरिष्यन्ते ऽनुत्तरायां सम्यक्संबोधौ, यन् नूनम् अहं येन भगवांस् तेनोपसंक्रामेयं विचक्षुःकरणायेति.
अथ खलु मारः पापीयांश् चतुरङ्गबलकायं निर्माय येन भगवांस् तेनोपसंक्रमितुकामो भवेत्.
अथ खलु शक्रस्य देवानाम् इन्द्रस्यैतद् अभवत्: मारो बतायं पापीयांश् चतुरङ्गबलकायं निर्माय येन भगवांस् तेनोपसंक्रमितुकामः. यो ऽयं मारस्य पापीयसश् चतुरङ्गस्य बलकायस्यैवंरूपो व्यूहः. न राज्ञो बिम्बिसारस्य चतुरङ्गस्य बलकायस्यैवंरूपो व्यूहः, न प्रसेनजितश् चतुरङ्गस्य बलकायस्यैवंरूपो व्यूहः, न शाक्यानां चतुरङ्गस्य बलकायस्यैवंरूपो व्यूहः, न लिच्छवीनां चतुरङ्गस्य बलकायस्यैवंरूपो व्यूहः, न मल्लानां चतुरङ्गस्य बलकायस्यैवंरूपो व्युहः, यो ऽयं चतुरङ्गस्य बलकायस्यैवंरूपो मारेण पापीयसा निर्मितः, दीर्घरात्रं खलु पुनर् मारः पापीयान् भगवतो ऽवतारप्रेक्षी अवतारगवेषी सत्त्वानां च विहेठनाभिप्रायः, यन् नूनम् अहम् इमां प्रज्ञापारमितां समन्वाहरेयं स्मृत्या स्वाध्यायं कुर्याम्.
अथ खलु शक्रो देवानाम् इन्द्रः प्रज्ञापरमितां समन्वाजहार स्मृत्या स्वाध्यायम् अकरोत्, यथा यथा शक्रो देवानाम् इन्द्रः स्मृत्या इमां प्रज्ञापारमितां स्वाध्यायति स्म तथा तथा मारः पापीयांस् तेनैव मार्गेण तेनैव द्वारेण पुनर् एव प्रत्युदावृत्तो ऽभूत्.
अथ खलु ये ऽस्यां परिषदि चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते दिव्यानि पुष्पाण्य् अभिनिर्मायान्तरीक्षगता एव येन भगवांस् तेनाक्षिपन्ति स्म तेनाभ्यवकिरन्ति स्म.
एवं च वाचम् अभाषन्त: चिरं बतेयं प्रज्ञापारमिता जाम्बूद्वीपकानां मनुष्याणां प्रचरतु यावद् इयं प्रज्ञापारमिता जाम्बूद्वीपकानां मनुष्यानां प्रचरिष्यति तावन् न तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तर्धानं भविष्यति, सद्धर्मश् चिरस्थितिको भविष्यति, संघस्य लोके प्रादुर्भावो भविष्यति. एवं त्रिसाहस्रमहासाहस्रे लोकधातौ, एवं दशसु दिक्षु सर्वबुद्धक्षेत्रेषु बोधिसत्त्वानां चर्याविशेषः प्रज्ञास्यते, यत्र च दिग्भागे इमां प्रज्ञापारमितां ते कुलपुत्रा वा कुलदुहितरो वा लिखितां धारयिष्यन्ति वाचयिष्यन्ति पुस्तकलिखिताम् अपि कृत्वा स्थापयिष्यन्ति, आलोकजाता च एषा दिग् (प्स्प्_2-3:76) भविष्यति, सनाथा विगततमोन्धकारा च एषा दिग् भविष्यति, यत्रेयं प्रज्ञापारमिता प्रचरिष्यति.
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्, यत्र यत्र दिशि लोकधातुप्रसरे इयं प्रज्ञापारमिता प्रचरिष्यति, पुस्तकलिखिता आलोकजाता च एषा दिग् भविष्यति, सनाथा विगततमोन्धकारा च एषा दिग् भविष्यति.
अथ खलु ते देवपुत्रा दिव्यानि कुसुमान्य् अभिनिर्माय येन भगवांस् तेनाभ्यवकिरन्ति स्म.
एवं च वाचम् अभाषन्त: यः कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति न तस्य मारा वा मारकायिका वा देवपुत्रा अवतारं लप्स्यन्ते. वयम् अपि भगवं तस्य कुलपुत्रस्य वा कुलदुहितुर् वा सततसमितं रक्षावरणगुप्तिं संविधास्यामः, शास्तारम् इति भगवंस् तं वयं कुलपुत्रं वा कुलदुहितरं वा मंस्यामहे य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति.
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: न ते भगवन् कुलपुत्रा वा कुलदुहितरो वावरकेण कुशलमूलेन समन्वागता भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति. पूर्वजिनकृताधिकारास् ते भगवन् कुलपुत्रा वा कुलदुहितरो वा भविष्यन्ति य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति. बहुबुद्धपर्युपासिताः कल्याणमित्रपरिगृहीतास् ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति.
तत् कस्य हेतोः? अतो निर्जाता हि सर्वज्ञता यद् उत प्रज्ञापारमिता निर्जाता सर्वज्ञता निर्जाता च प्रज्ञापारमिता.
तत् कस्य हेतोस्? तथा हि नान्या प्रज्ञापारमिता नान्या सर्वज्ञता इति हि सर्वज्ञता च प्रज्ञापारमिता चाद्वयम् एतद् अद्वैधीकारम्.
एवम् उक्ते भगवान् सक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् (प्स्प्_2-3:77) कौशिकैवम् एतत्, यथा वदसि सर्वज्ञता च प्रज्ञापारमिता चाद्वयम् एतद् अद्वैधीकारम्. इति स्वपरार्थाधिमुक्तिर् मृदुमध्या
अथ खल्व् आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: तथा हि भगवान् न दानपारमिताया नामधेयं परिकीर्तयति न शीलपारमिताया न क्षान्तिपारमिताया न वीर्यपारमिताया न ध्यानपारमिताया यथा प्रज्ञापारमिताया नामधेयं परिकीर्तयति, न सप्तत्रिंशद्बोधिपक्षाणां धर्माणां नामधेयं परिकीर्तयति, नार्यसत्यानां नाप्रमाणध्यानारूप्यसमापत्तीनां नामधेयं परिकीर्तयति, नाष्टानां विमोक्षमुखानां न नवानुपूर्वविहारसमापत्तीनां नामधेयं परिकीर्तयति, न षण्णाम् अभिज्ञानां न सर्वाणां शून्यतानां न समाधीनां न सर्वधारणीमुखानां नामधेयं परिकीर्तयति, न दशानां तथागतबलानां न वैशारद्यानां न प्रतिसंविदां नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां नामधेयं परिकीर्तयति यथा प्रज्ञापारमिताया नामधेयं परिकीर्तयति.
एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत्: प्रज्ञापारमिता आनन्द पूर्वंगमा नायिका यद् उत षण्णां पारमितानां सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनां पूर्वंगमा नायिका, अष्टानां विमोक्षाणां नवानाम् अनुपूर्वविहारसमापत्तीनां शून्यतानिमित्ताप्रणिहितानां विमोक्षमुखानां षण्णाम् अभिज्ञानां पूर्वंगमा नायिका, सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानां पूर्वंगमा नायिका, दशानां तथागतबलानां वैशारद्यानां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां पूर्वंगमा नायिका, सर्वबुद्धधर्माणां पूर्वंगमा नायिका प्रज्ञापारमिता.
तत् किं मन्यसे? आनन्द अपरिणामितं दानं सर्वज्ञतायां पारमितानामधेयं लभते.
तत् किं मन्यसे? अपरिणामितं शीलं अपरिणामिता क्षान्तिर् अपरिणामितं वीर्यम् अपरिणामितं ध्यानम् अपरिणामिता प्रज्ञा सर्वज्ञतायां पारमितानामधेयं लभते.
आनन्द आह: नो हीदं भगवन् नो हीदं सुगत,
कथं पुनर् भगवन् दानं सर्वज्ञतापरिणामितं पारमितानामधेयं लभते?
(प्स्प्_2-3:78)
कथं पुनर् भगवन् शीलं क्षान्तिर् वीर्यं ध्यानं प्रज्ञा सर्वज्ञतायां परिणामिता पारमितानामधेयं लभते?
भगवान् आह: अद्वययोगेनानन्द दानं परिणामितं शीलं क्षान्तिर् वीर्यं ध्यानं प्रज्ञा सर्वज्ञतायां परिणामिता पारमितानामधेयं लभते. अनुत्पादयोगेनानुपलम्भयोगेन परिणामितं दानं यावत् प्रज्ञा सर्वज्ञतायां पारमितानामधेयं लभते.
आनन्द आह: कथं भगवन्न् अद्वययोगेन दानं परिणामितं सर्वज्ञतायां पारमितानामधेयं लभते? एवं शीलं क्षान्तिर् वीर्यं ध्यानं कथं भगवन् प्रज्ञाद्वययोगेन परिणामिता सर्वज्ञतायां पारमितानामधेयं लभते?
भगवान् आह: रूपस्यानन्द अद्वययोगेन वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्याद्वययोगेन यावद् बोधेः.
आनन्द आह: कथं भगवन् रूपस्याद्वययोगेन, कथं वेदनायाः संज्ञायाः संस्काराणां अद्वययोगेन, कथं विज्ञानस्याद्वययोगेन, कथं यावद् बोधेर् अद्वययोगेन?
भगवान् आह: तथा हि आनन्द रूपं रूपेण शून्यं वेदना वेदनया शून्या संज्ञा संज्ञया शून्या संस्काराः संस्कारैः शून्या विज्ञानं विज्ञानेन शून्यम्.
तत् कस्य हेतोः? तथा हि रूपं च वेदना च संज्ञा च संस्कारा च विज्ञानं च पारमिताश् चाद्वयम् एतद् अद्वैधीकारं यावद् बोधिश् च पारमिताश् चाद्वयम् एतद् अद्वैधीकारं, तस्मात् तर्ह्य् आनन्द प्रज्ञापारमिता नु पूर्वंगमा नायिका सर्वपारमितानां सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानां सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् आर्यसत्यानाम् अष्टानां विमोक्षाणां नवानाम् अनुपूर्वविहारसमापत्तीनां त्रयाणां विमोक्षमुखानां षण्णाम् अभिज्ञानां दशानां तथागतबलानां वैशारद्यानां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां यावद् बोधेः सर्वज्ञतायाः प्रज्ञापारमिता पूर्वंगमा नायिका. तद्यथापि नामानन्द महापृथिवीं निश्राय सामग्रीवशेन बीजानि विरोहन्ति. एवम् एवानन्द प्रज्ञापारमितां निश्राय प्रज्ञापारमिताम् आगम्य सर्वाः. पारमिताः सप्तत्रिंशद्बोधिपक्ष्या धर्माः, अप्रमाणध्यानारूप्यसमापत्तय आर्यसत्यानि षडभिज्ञाः सर्वधारणीमुखानि विरोहन्ति. दशबलवैशारद्यप्रतिसंविदावेणिका बुद्धधर्मा विरोहन्ति यावत् सर्वज्ञता (प्स्प्_2-3:79) विरोहति. सर्वज्ञतां परिनिश्राय सर्वपारमिताः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि सप्तत्रिंशद्बोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तयो दशबलवैशारद्यप्रतिसंविदो यावद् आवेणिका बुद्धधर्मा विरोहन्ति. तस्माद् आनन्द प्रज्ञापारमितैवासां पारमितानां परिणायिका यावाद् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां यावत् सर्वाकारज्ञतायाः. इति स्वपरार्थाधिमुक्तिर् मृद्वधिमात्रा
शक्र आह: न खलु पुनर् भगवंस् तथागतेनार्हता सम्यक्संबुद्धेन प्रज्ञापारमितायाः सर्वगूणाः परिकीर्तिताः यान् गुणान् स कुलपुत्रो वा कुलदुहिता वा परिगृह्णाति इमां प्रज्ञापारमिताम् उद्गृह्णन् धारयन् वाचयन् पर्यवाप्नुवन् योनिशश् च मनसिकुर्वन् प्रज्ञापारमितया भगवन्न् उद्ग्रहीतया धारितया वाचितया पर्यवाप्तया योनिशश् च मनसिकृतया दशानां कुशलानां कर्मपथानां लोके प्रादुर्भावो भवति. चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतसृणाम् आरूप्यसमापत्तीनां सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां षण्णाम् अभिज्ञानां त्रयानं विमोक्षमुखानां सर्वपारमितानां सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानां दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां लोके प्रादुर्भावो भवति. प्रज्ञापारमितया भगवन्न् उद्ग्रहीतया धारितया वाचितया पर्यवाप्तया योनिशश् च मनसिकृतया गृहपतिमहाशालकुलानि प्रज्ञायन्ते, क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवाः प्रज्ञायन्ते, प्रज्ञापारमितया भगवन्न् उद्ग्रहीतया यावद् योनिशो मनसिकृतया स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनो ऽनागामिनो ऽर्हन्तः प्रज्ञायन्ते प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वाः प्रज्ञायन्ते, प्रज्ञापारमितया भगवन्न् उद्ग्रहीतया धारितया वाचितया पर्यवाप्तया योनिशश् च मनसिकृतया तथागता अर्हन्तः सम्यक्संबुद्धा लोके प्रज्ञायन्ते.
(प्स्प्_2-3:80)
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: न पुनः कौशिक यैः कुलपुत्रैः कुलदुहितृभिर् वा इयं प्रज्ञापारमिता धारिता वाचिता पर्यवाप्ता योनिशश् च मनसिकृता तेषाम् एतावत एवं गुणान् वदामि.
तत् कस्य हेतोर्? अप्रमाणेन हि कौशिक ते कुलपुत्रा वा कुलदुहितरो वा शीलस्कन्धेन समन्वागता भविष्यन्ति य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति सर्वज्ञताचित्तेन चाविरहिता भविष्यन्ति. अप्रमाणेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन समन्वागता भविष्यन्ति य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति सर्वज्ञताचित्तेन चाविरहिता भविष्यन्ति. तथागतप्रतिमास् ते कौशिक कुलपुत्राः कुलदुहितरो वा वेदितव्या य इमां प्रज्ञापारमिताम् उद्ग्रहीयन्ति धारयियन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति सर्वज्ञताचित्तेन चाविरहिता भविष्यन्ति. यश् च कौशिक सर्वश्रावकप्रत्येकबुद्धानां शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः, यश् च प्रज्ञापारमिताविहारिणां कुलपुत्राणां कुलदुहितृणां च शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः अस्य कौशिक शीलस्कन्धस्य समाधिस्कन्धस्य प्रज्ञास्कन्धस्य विमुक्तिस्कन्धस्य विमुक्तिज्ञानदर्शनस्कन्धस्य सर्वश्रावकप्रत्येकबुद्धानां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि कलां नोपैति, संख्याम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिशाम् अप्य् उपनिषदम् अपि नोपैति.
तत् कस्य हेतोस्? तथा हि तेषां कुलपुत्राणां कुलदुहितृणां च श्रावकप्रत्येकबुद्धभूमेश् चित्तं विमुक्तं, न च कश्चिद् धर्मो नाविगतो न ज्ञातः. ये कौशिक कुलपुत्रा वा कुलदुहितरो वा इमां प्रज्ञापारमितां सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिस् तेषाम् अपि कुलपुत्राणां (प्स्प्_2-3:81) कुलदुहितृणां च इमे दृष्टधार्मिकाः सांपरायिकाश् च गुणानुशंसाः प्रतिकाङ्क्षितव्याः.
इति स्वपरार्थाधिमुक्तिमध्यमृद्धी
एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: अहं भगवंस् तस्य कुलपुत्रस्य वा कुलदुहितुर् वा सततसमितं रक्षावरणगुप्तिं संविधास्यामि य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, अविरहितश् च भविष्यति सर्वज्ञताचित्तेन इमां च प्रज्ञापारमितां सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: तेषां पुनः कौशिक कुलपुत्राणां कुलदुहितृणां वा इमां प्रज्ञापारमितां स्वाध्यायतां बहूनि देवपुत्रशतसहस्राणि धर्मश्रवणायोपसंक्रमिष्यन्ति. तेषां खलु पुनः कुलपुत्राणां कुलदुहितृणां वा प्रज्ञापारमिताप्रतिसंयुक्तं प्रतिभानं ते देवपुत्रा उपसंहर्तव्यं मंस्यन्ते. यदापि ते धर्म भाणका न मन्त्रयितुकामा भविष्यन्ति तदापि तेनैव देवपुत्रा धर्मगौरवेण प्रतिभानम् उपसंहर्तव्यं मंस्यन्ते. इमम् अपि कौशिक कुलपुत्रा वा कुलदुहितरो वा दृष्टधार्मिकगुणं प्रतिलप्स्यन्ते य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति तां च लिखित्वा सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
पुनर् अपरं कौशिक तेषां कुलपुत्राणां कुलदुहितृणां वा इमां प्रज्ञापारमितां भाष्यमाणानां चतसृणां पर्षदां पुरतो नावलीनचित्तता भविष्यति को वा ममानुयोक्ष्यते उपालप्स्यते चेति.
तत् कस्य हेतोस्? तथा हि तेषां कुलपुत्राणां कुलदुहितृणां वा इयम् एव प्रज्ञापारमिता रक्षावरणगुप्तिं करिष्यति, तथा ह्य् अत्र प्रज्ञापारमितायां सर्वधर्मा अभिन्ना लौकिकाश् च लोकोत्तराश् च साधारणाश् च कुशलाश् च संस्कृताश् चासंस्कृताश् च श्रावकधर्माश् च प्रत्येकबुद्धधर्माश् च बोधिसत्त्वधर्माश् च बुद्धधर्माश् च.
तत् कस्य हेतोस्? तथा हि ते कुलपुत्रा वा कुलदुहितरो वा अध्यात्मशून्यतायां (प्स्प्_2-3:82) स्थित्वा यावद् अभावस्वभावशून्यतायां स्थितास् ते उपालम्भं प्रज्ञापारमितायां न समनुपश्यन्ति, यो ऽप्य् उपालभ्येत तम् अपि न समनुपश्यन्ति.
एवं हि तेषां कुलपुत्राणां कुलदुहितृणां वा प्रज्ञापारमितापरिगृहीतानाम् उपालम्भो न भविष्यति.
पुनर् अपरं कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर् वा इमां प्रज्ञापारमिताम् उद्गृह्णतो धारयतो वाचयतः पर्यवाप्नुवतो योनिशश् च मनसिकुर्वतश् चित्तं नावलीयते न संलीयते नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते.
तत् कस्य हेतोस्? तथा हि स कुलपुत्रो वा कुलदुहिता वा वस्तु न समनुपश्यति य आलीयेत वा संलीयेत वा उत्त्रस्येद् वा संत्रस्येद् वा संत्रासम् आपद्यते वा. इमान् अपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकान् गुणान् प्रतिग्रहीष्यति य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति सत्करिष्यति मानयिष्यति पूजयिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः इति स्वपरार्थाधिमुक्तिमध्यमध्या
पुनर् अपरं कौशिक यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति तां च लिखित्वा सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः स प्रियो भविष्यति मातापितृणां मित्रामात्यज्ञातिसालोहितानां श्रमणब्राह्मणानां, ये ऽपि ते दशदिशि लोके सर्वलोकधातुषु बुद्धा भगवन्तो बोधिसत्त्वाश् च प्रत्येकबुद्धाश् चार्हन्तश् च सर्वे शैक्षाः सर्वे चाशैक्षास् तेषाम् अपि स बोधिसत्त्वः प्रियो भविष्यति स देवकस्यापि लोकस्य स मारकस्य स श्रमणब्राह्मणिकायाः प्रजायाः स देवमानुषासुरायाः प्रजायाः प्रियो भविष्यति मनआपः. इति स्वपरार्थार्धिमुक्तिमध्याधिमात्रा
अनाच्छेदेन च प्रतिभानेन समन्वागतो भविष्यति. अनाच्छेद्यया दानपारमितया समन्वागतो भविष्यति. एवम् अनाच्छेद्यया शीलपारमितया (प्स्प्_2-3:83) अनाच्छेद्यया क्षान्तिपारमितया अनाच्छेद्यया वीर्यपारमितया अनाच्छेद्यया ध्यानपारमितया अनाच्छेद्यया प्रज्ञापारमितया समन्वागतो भविष्यति. अनाच्छेद्यया अध्यात्मशून्यतया अनाच्छेद्यया यावद् अभावस्वभावशून्यतया समन्वागतो भविष्यति. अनाच्छेद्यैः स्मृत्युपस्थानैः समन्वागतो भविष्यति. अनाच्छेद्यैः सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गैः समन्वागतो भविष्यति. अनाच्छेद्यैर् आर्यसत्यैर् अनाच्छेद्याभिर् अप्रमाणध्यानारूप्यसमापत्तिभिः, अनाच्छेद्यैर् अष्टविमोक्षमुखैर् अनाच्छेद्यैर् नवानुपूर्वविहारसमापत्त्यभिज्ञार्यसत्यसर्वसमाधिसर्वधारणीमुखैर् अनाच्छेद्यैर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिश् चावेणिकैर् बुद्धधर्मैर् अनाच्छेद्येन सत्त्वपरिपाकेन अनाच्छेद्यया बुद्धक्षेत्रपरिशुद्ध्या अनाच्छेद्यया सर्वाकारज्ञतया समन्वागतो भविष्यति. प्रतिबलश् च भविष्यति, उत्पन्नोत्पन्नानां तीर्थ्यवादानां सहधर्मेणैव निग्रहं करिष्यति. इमम् अपि कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकं सांपरायिकं च गुणं परिगृह्णीयाद् य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति. अविरहितश् च भविष्यति स सर्वाकारज्ञाताचित्तेन तां च लिखित्वा सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
इति स्वपरार्थाधिमुक्तिर् अधिमात्रामृद्धी
पुनर् अपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखिताम् अपि कृत्वा धारायिष्यति वाचयिष्यति पर्यवाप्स्यति तत्र कौशिक ये त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवपुत्रा अनुत्तरायां सम्यक्संबोधौ संप्रस्थितास् ते तत्रागत्यैनां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति मनसिकरिष्यन्ति वन्दिष्यन्ति नमस्कृत्वा वन्दित्वा च पुनर् एव प्रक्रमिष्यन्ति. एवं त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मपारिषद्या ब्रह्मपुरोहिता महाब्रह्माणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा ब्र्हत्फलाः शुद्धावासा अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठाः तत्र ये कौशिक महाब्रह्माणो ऽनुत्तरायां सम्यक्संबोधौ कृतप्रणिधानास् ते ऽपि तत्रागत्येमां प्रज्ञापारमिताम् उद्ग्रह्य पर्यवाप्य धारयित्वा वाचयित्वा नमस्कृत्य पुनर् एव (प्स्प्_2-3:84) प्रक्रमिष्यन्ति. ये ऽपि शुद्धावासकायिका अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवपुत्रास् ते ऽपि तत्रागत्येमां प्रज्ञापारमिताम् उद्ग्रह्य पर्यवाप्य धारयित्वा वाचयित्वा नमस्कृत्य पुनर् एव प्रक्रमिष्यन्ति. तेन हि कौशिक कुलपुत्रेण वा कुलदुहित्रा वा एवं चित्तम् उत्पादयितव्यं: ये ते दशदिग्लोकधातुषु देवपुत्राश् चातुर्महाराजकायिका यावद् बृहत्फला ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्हिता ये ऽपि शुद्धावासकायिका देवपुत्रा ये ऽपि चान्ये देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते ऽपीहागत्येमां प्रज्ञापारमिताम् उद्ग्रह्य पर्यवाप्य धारयित्वा वाचयित्वा पूजयित्वा पुनर् गच्छन्तु, तेषाम् एतद् धर्मदानं दत्तं भवन्तु. ये ऽपि दशदिग्लोकधातुषु चातुर्महाराजकायिका देवपुत्रा यावद् बृहत्फला देवपुत्रा ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिता ये ऽपि शुद्धावासकायिका देवपुत्रास् ते ऽपि तत्रागत्येमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति वन्दित्वा नमस्कृत्य पूजयित्वा पुनर् एव प्रक्रमितव्यं मंस्यन्ते. तस्य खलु पुनः कुलपुत्रस्य वा कुलदुहितुर् वा य इह त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवा ये ऽपि ते दशदिग्लोकधातुषु चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते ऽपि तस्य कुलपुत्रस्य वा कुलदुहितुर् वा रक्षावरणगुप्तिं संविधास्यन्ति. नाप्य् अस्य कश्चिद् अवतारप्रेक्षी अवतारगवेषी अवतारं लप्स्यते स्थापयित्वा पूर्वकर्मविपाकं, इमान् अपि कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकान् गुणान् परिगृह्णाति.
तत् कस्य हेतोस्? तथा हि ये देवपुत्रा अनुत्तरायां सम्यक्संबोधौ संप्रस्थितास् ते ऽपि तत्रागन्तव्यं मंस्यन्ते. तथा हि कौशिक देवपुत्रा अनुत्तरायां सम्यक्संबोधौ सर्वसत्त्वानां त्रणाय हितसुखाय संप्रस्थिताः. इति स्वपरार्थाधिमुक्तिर् अधिमात्रमध्या
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: कथं भगवन् कुलपुत्रो वा कुलदुहिता वा ज्ञास्यति, इह चातुर्महाराजकायिका देवपुत्रा आगच्छन्ति यावद् अकनिष्ठा देवपुत्रा आगच्छन्तीति? एवं समन्ताद् दशभ्यो दिग्भ्य इमां प्रज्ञापारमिताम् उद्ग्रहीतुं वा धारयितुं वा वाचयितुं वा पर्यवाप्तुं वा सत्कर्तुं वा गुरुकर्तुं वा मानयितुं वा पूजयितुं वा.
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: सचेत् कौशिक (प्स्प्_2-3:85) कुलपुत्रो वा कुलदुहिता वा उदारम् अवभासं ज्ञास्यति निष्ठा तेन गन्तव्या महौजस्का महौजस्का देवा आगाता इमां प्रज्ञापारमितां वाचयितुम् उद्ग्रहीतुं पर्यवाप्तुं धारयितुं सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं वन्दितुं नमस्कर्तुम्.
पुनर् अपरं कौशिक सचेत् कुलपुत्रो वा कुलदुहिता वा अमानुषं दिव्यं गन्धम् अनाघ्रातपूर्वम् आघ्रास्यति निष्ठा तेन गन्तव्या महौजस्का महौजस्का इह देवपुत्रा आगता इति प्रज्ञापारमितां वाचयितुं श्रोतुम् उद्ग्रहीतुं पर्यवाप्तुं धारयितुं सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुम्.
पुनर् अपरं कौशिक कुलपुत्रो वा कुलदुहिता वा चौक्षसमुदाचारो भविष्यति, तस्य तया चौक्षसमुदाचारतया देवता आगत्येमां प्रज्ञापारमिताम् उद्गृह्य धारयित्वा वाचयित्वा सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा आत्तमनस्का भविष्यन्ति. याश् च तत्र पृथिवीप्रदेशे ऽल्पौजस्का अल्पौजस्का देवता भविष्यन्ति तास् ततो ऽपक्रमितव्यं मंस्यन्ते. तेषां महौजस्कानां महौजस्कानां देवानां तेजश् च श्रियश् चासहमानाः. यथायथा महौजस्का महौजस्का देवता उपसंक्रमिष्यन्ति तथातथा ते कुलपुत्राः कुलदुहितरो वा उदाराधिमुक्तिका भविष्यन्ति. तस्मिंश् च पृथिवीप्रदेशे ऽचौक्षसमुदाचारता न प्रचारयितव्या, पुष्पधूपगन्धमाल्यविलेपनचूर्णचिवरच्छत्रध्वजपताकाभिश् च स पृथिवीप्रदेशो ऽलंकर्तव्यः गन्धलिप्तो मुक्तपुष्पावकीर्णः कारयितव्यः. अवसक्तपटदामकलापश् चैलवितानविततः. अनेकप्रकारं च स पृथिवीप्रदेशो ऽलंकर्तव्यः.
पुनर् अपरं कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर् वा कायो न क्लान्तो भविष्यति. कायसुखं भविष्यति. कायलघुतां च बहुजनहिताय बहुजनसुखाय प्रतिपन्नो भविष्यति. स च कौशिक कुलपुत्रो वा कुलदुहिता वा कायलघुतां कायकर्मण्यतां कायसुखतां चित्तलघुतां चित्तकर्मण्यतां चित्तसुखतां च ज्ञास्यति. सुखेन स रात्रौ शय्यां कल्पयिष्यति. इमां एव प्रज्ञापारमिताम् आशयेन कल्पयन् न पापकान् स्वप्नान् द्रक्ष्यति, द्रक्ष्यंश् च पुनः स्वप्नेन तथागतान् एवार्हतः सम्यक्संबुद्धान् द्रक्ष्यति द्वात्रिंशन्महापुरुषलक्षणचित्रितगात्रान् सुवर्णवर्णेन समुच्छ्रयेण भिक्षुसंघपरिवृतान् बोधिसत्त्वगणपरिवृतान् धर्मं देशयमानांस् (प्स्प्_2-3:86) तेभ्यः षट्पारमिताप्रतिसंयुक्ताम् एव कथां श्रोष्यति. सप्तत्रिंशद्बोधिपक्ष्यधर्मप्रतिसंयुक्तां यावद् अष्टादशावेणिकबुद्धधर्मप्रतिसंयुक्ताम् एव कथां श्रोष्यति. तासां च पारमितानाम् अर्थं श्रोष्यति यावद् अष्टादशानाम् आवेणिकानाम् अर्थं श्रोष्यति. बोधिवृक्षं द्रक्ष्यति. बोधिसत्त्वं महासत्त्वं बोधिमण्डम् उपसंक्रममाणं द्रक्ष्यति. अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यमानं द्रक्ष्यति. अभिसंबुध्याद्वयं धर्मचक्रप्रवर्तयमानं द्रक्ष्यति. बहूनि बोधिसत्त्वकोटीनियुतशतसहस्राणि द्रक्ष्यति धर्मसंगीतिरतानि एवं सर्वज्ञता परिग्रहीतव्या एवं सत्त्वाः परिपाचयितव्या एवं बुद्धक्षेत्रं परिशोधयितव्यम् इति. बहुनां बुद्धकोटीनियुतशतशहस्राणां पूर्वस्यां दिशि शब्दं श्रोष्यति.
एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् ऊर्ध्वम् अधो विदिक्षु बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यति. अमुष्मिन् लोकधातौ अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्धः इयद्भिर् बोधिसत्त्वकोटीशतसहस्रैर् इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति. पूर्वस्यां दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि द्रक्ष्यति परिनिर्वायमाणानि यावद् दशसु दिक्षु बहूनि बुद्धकोटीनियुतशतसहस्राणि द्रक्ष्यति परिनिर्वायमाणानि. तेषां च तथागतानां स्तूपान् धातुधरान् नानारत्नमयान् बहूनि स्तूपकोटीनियुतशतसहस्राणि द्रक्ष्यति. तांश् च स्तूपान् सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
स खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वा इमान् एवंरूपान् भद्रकांश् च स्वप्नान् द्रक्ष्यति. स सुखम् एव स्वप्स्यति सुखं च प्रतिभोत्स्यते ओजःप्रक्षिप्तं च कायं संज्ञास्यति. लघुं च कायं संज्ञास्यति न गुरुं. न चास्य बलवती गृद्धिर् आहारे भविष्यति. न चीवरपिण्डपातशयनाशनग्लानप्रत्ययभैषज्यपरिष्कारगृद्धिर् भविष्यति. तद्यथापि नाम कौशिक योगाचारस्य भिक्षोः समाधेर् व्युत्थितस्य मनसिकारसंतर्पितेन चित्तेन न बलवत्य् आहारे गृद्धिर् भवति.
एवम् एव कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर् वा न बलवत्य् आहारे गृद्धिर् भविष्यति.
तत् कस्य हेतोस्? तथा हि तस्यामनुष्या ओजः काय उपसंहरन्ति. ये चापि (प्स्प्_2-3:87) दशसु दिक्षु बुद्धा भगवन्तस् ते ऽपि सदेवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगाः ओजः काये प्रक्षिपन्ति. इमं स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकं गुणं परिगृह्णीते य इमां प्रज्ञापारमिताम् उद्गृह्णीते पर्यवाप्नोति धारयति वाचयति योनिशश् च मनसिकरोति अविरहितश् च सर्वज्ञताचित्तेन. इति स्वपरार्थाधिमुक्तिर् अधिमात्राधिमात्रा
किं चापि स कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां नोद्गृह्णीयान् न धारयेन् न वाचयेन् न पर्यवाप्नुयान् न योनिशश् च मनसिकुर्यान् न परेभ्यश् च संप्रकाशयेद् अपि तु खलु पुनः पुस्तकलिखितां कृत्वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
यश् च कौशिक कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्गृह्णीयाद् धारयेद् वाचयेत् पर्यवाप्नुयाद् योनिशश् च मनसिकुर्यात् परेभ्यश् च संप्रकाशयेत् तां च लिखितां सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः अयं स कौशिक कुलपुत्रो वा कुलदुहिता वा ततो निदानं बहुतरं पुण्यं प्रसवेत्.
न त्व् एव यः समन्ताद् दशसु दिक्षु सर्वलोकधातुषु तथागतान् अर्हतः सम्यक्संबुद्धान् सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् सश्रावकसंघांश् चीवरपिण्डपातशयनाशनग्लानप्रत्ययभैषज्यपरिष्कारैः परिनिर्वृतानां च तेषां तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सप्तरत्नमयान् स्तूपान् कारयेत्, तांश् च सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
इति परार्थाधिमुक्तिर् मृदुमृद्धि स्तूपसत्कारपरिवर्तो नाम तृतीयः
अथ खलु भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: यद्य् अयं कौशिक जम्बुद्वीपः परिपूर्णश् चूडिकाबद्धस् तथागतशरीराणां भवेत्, तानि ते कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा उपनामयेद्, यश् चेमां ते प्रज्ञापारमिताम् उपनामयेत्, ततस् त्वं तयोर् द्वयोर् भागयोः स्थापितयोः कं परिगृह्णीयाः?
शक्र आह: सचेद् मे भगवन्न् अयं जम्बुद्वीपः परिपूर्णश् चूडिकाबद्धस् तथागतशरीराणाम् उपनाम्येत, इयं च प्रज्ञापारमिता पुस्तकलिखितां कृत्वा उपनाम्येत परिकल्पम् उपादाय इमाम् एवाहं तयोर् द्वयोर् (प्स्प्_2-3:88) भागयोः स्थापितयोः प्रज्ञापारमितां परिगृह्णीयां. तत् कस्य हेतोर्? न मम भगवंस् तेषु तथागतशरीरेष्व् अगौरवं, नाहं भगवंस् तथागतशरिराणि न सत्कर्तुकामो न गुरुकर्तुकामो न मानयितुकामो न पूजयितुकामो. अपि तु खलु पुनर् मे भगवन्न् एवं स्यात् प्रज्ञापारमितानिर्जातानि तथागतशरिराणि येन तानि सत्क्रियन्ते गुरुक्रियन्ते मान्यन्ते पूज्यन्ते, प्रज्ञापारमितापरिभावितानि तथागतशरीराणि येन तानि पूजां लभन्ते.
अथ खल्व् आयुष्मान् शारिपुत्रः शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: प्रज्ञापारमिता कौशिक अग्राह्या अनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणा. तत् कथं त्वम् अग्राह्यां प्रज्ञापारमिताम् अनिदर्शनाम् अप्रतिघाम् एकलक्षणां यद् उतालक्षणाम् उद्ग्रहीतव्यां मन्यसे?
तत् कस्य हेतोर्? न हि प्रज्ञापारमिता ग्रहाय अनुग्रहाय वा स्थिता, न हानाय न वृद्धये नोत्क्षेपाय न विक्षेपाय न संक्लेशाय न व्यवदानाय, न बुद्धधर्माणां दायिका, न पृथग्जनधर्माणां च्छोरिका, न बोधिसत्त्वधर्माणां न प्रत्येकबुद्धधर्माणां न श्रावकधर्माणां न शैक्षधर्माणां नाशैक्षधर्माणां दायिका, न संस्कृतधातो दायिका, नासंस्कृतधातो दायिका, नाध्यात्मशून्यताया यावन् नाभावस्वभावशून्यताया दात्री, न पारमितानां न स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाणां नाप्रमाणध्यानारूप्यसमापत्तीनां न बलवैशारद्यप्रतिसंविदां नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां दात्री, न सर्वज्ञताया दात्री.
शक्र आह: एवम् एतद् भदन्त शारिपुत्र यथा वदसि न प्रज्ञापारमिता बुद्धधर्माणां दात्री यावन् न सर्वज्ञताया दात्री. तत् कस्य हेतोर्? न हि प्रज्ञापारमिता द्वयं प्रत्युपस्थिता, अद्वया हि प्रज्ञापारमिता, एवं ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता, दानपारमिता न द्वयं प्रत्युपस्थिता, अद्वया हि दानपारमिता.
अथ खलु भगवान् शक्रस्य देवानाम् इन्द्रस्य साधुकारम् अदात्: साधु साधु कौशिक एवम् एतद् यथा निर्दिशसि न प्रज्ञापारमिता द्वयं प्रत्युपस्थिता, अद्वया हि प्रज्ञापारमिता, एवं ध्यानपारमिता वीर्यपारमिता, क्षान्तिपारमिता शीलपारमिता, दानपारमिता न द्वयं प्रत्युपस्थिता, अद्वया हि दानपारमिता.
धर्मधातोः स कौशिक द्वयम् इच्छेद् यः प्रज्ञापारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोस्? तथा हि कौशिक धर्मधातुश् च प्रज्ञापारमिता (प्स्प्_2-3:89) चाद्वयम् एतद् अद्वैधीकारम्, एवं ध्यानपारमिता च वीर्यपारमिता च क्षान्तिपारमिता च शीलपारमिता च, धर्मधातुश् च दानपारमिता चाद्वयम् एतद् अद्वैधीकारम्.
तथतायाः स कौशिक द्वयम् इच्छेद् यः प्रज्ञापारमिताया द्वयम् इच्छेत्, तत् कस्य हेतोस्? तथा हि कौशिक तथता च प्रज्ञापारमिता चाद्वयम् एतद् अद्वैधीकारम्, एवं ध्यानपारमिता च वीर्यपारमिता च क्षान्तिपारमिता च शीलपारमिता च, तथता च दानपारमिता चाद्वयम् एतद् अद्वैधीकारम्.
भूतकोटेर् अचिन्त्यधातोः स कौशिक द्वयम् इच्छेद् यः प्रज्ञापारमिताया द्वयम् इच्छेत्, तत् कस्य हेतोस्? तथा हि कौशिक भूतकोटिश् चाचिन्त्यधातुश् च प्रज्ञापारमिता चाद्वयम् एतद् अद्वैधीकारम्, एवं ध्यानपारमिता च वीर्यपारमिता च क्षान्तिपारमिता च शीलपारमिता च, भूतकोटिश् चाचिन्त्यधातुश् च दानपारमिता चाद्वयम् एतद् अद्वैधीकारम्.
शक्र आह: नमस्करोमि भगवन् प्रज्ञापारमितां सदेवमानुषासुरेण लोकेन नमस्कृतां यत्र शिक्षित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. यदाहं भगवन् सुधर्मायां देवसभायां तस्मिन् देवेन्द्रासने निषण्णो भवामि स्वके आसने तत्र ये देवपुत्रा ममोपस्थानायागच्छन्ति ते मां तत्र स्थं नमस्यन्ति. यदाहं तत्र न भवामि स्वके सिंहासने तदा ते देवपुत्रास् तत् ममासनं नमस्कृत्य पुनर् एव प्रक्रामन्ति, इह शक्रो देवानाम् इन्द्रो धर्मासने निषण्णस् त्रायस्त्रिंशानां देवानां धर्मं देशयामासेति.
एवम् एव भगवन् यत्रेयं प्रज्ञापारमिता लिखित्वा स्थास्यते स्वाध्यास्यते वा परेभ्यो वा संप्रकाशयिष्यते, तत्र ये ते दशभ्यो दिग्भ्यो देवपुत्रा देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगास् ते तां प्रज्ञापारमितां नमस्कृत्य पुनर् एव प्रक्रमिष्यन्ति, अतो निर्जातास् तथागता अर्हन्तः सम्यक्संबुद्धाः, अतो निर्जातं च सर्वसत्त्वानां सुखोपधानं, यद् अपि तथागतशरीराणि तद् अपि प्रज्ञापारमितापरिभावितत्वात् पूजां प्रतिलभन्ते. प्रज्ञापारमिता भगवन् बोधिसत्त्वचर्यां चरतः सर्वज्ञानस्याश्रयभूता, कारणभूता आहारिका प्रज्ञापारमितेति.
तस्माद् अहं भगवंस् ताभ्यां द्वाभ्यां प्रत्यंशाभ्यां प्रज्ञापारमिताम् एव परिगृह्णीयाम्. इमां प्रज्ञापारमिताम् उद्गृह्य स्वाध्यायं कुर्यान् धर्मान्तर्गतेन मानसेन यस्मिन् समये प्रज्ञापारमितां मनसिकरोमि (प्स्प्_2-3:90) तस्मिन् समये भगवन् निमित्तम् एव न समनुपश्यामि भयस्य वा स्तम्भितत्वस्य वा. तत् कस्य हेतोर्? अनिमित्ता हि भगवन् प्रज्ञापारमिता अलिङ्गा अनभिलप्या, अप्रव्याहारा हि भगवन् प्रज्ञापारमिता, एवं ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता, अनिमित्ता हि भगवन् दानपारमिता अलिङ्गा अनभिलप्या अप्रव्याहारा हि भगवन् दानपारमिता यावत् सर्वज्ञता, सचेद् भगवन् प्रज्ञापारमिता सनिमित्ता सलिङ्गा साभिलप्या सप्रव्याहाराभविष्यन् नानिमित्ता नालिङ्गा नानभिलप्या नाप्रव्याहारा नैव तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वधर्मान् अनिमित्तान् अलिङ्गान् अनभिलप्यान् अप्रव्याहारान् इति विदित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानाम् अनिमित्तम् अलिङ्गम् अनभिलप्यम् अप्रव्याहारं धर्मम् अदेशयिष्यत्, यस्माद् भगवन्न् इयं प्रज्ञापारमिता अनिमित्ता अलिङ्गा अनभिलप्या अप्रव्याहारा तस्मात् तथागतः सर्वधर्मान् अनिमित्तान् अलिङ्गान् अनभिलप्यान् अप्रव्याहारान् विदित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानाम् अनिमित्तम् अलिङ्गम् अनभिलप्यम् अप्रव्याहारं धर्मं देशयेत्.
इति परार्थाधिमुक्तिर् मृदुमध्या
तस्माद् भगवन्न् इयं प्रज्ञापारमिता सदेवमानुषासुरेण लोकेन सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या पुष्पधूपगन्धमाल्यविलेपनचूर्णचिवरच्छत्रध्वजपताकाभिः. न चास्य नरकतिर्यग्योनियमलोकगतिः प्रतिकाङ्क्षितव्या, न श्रावकभूमिर् न प्रत्येकबुद्धभूमिः प्रतिकाङ्क्षितव्या यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो भविष्यति. अविरहितश् च भविष्यति तथागतदर्शनेन सत्त्वपरिपाकेन यद् उत बुद्धक्षेत्रम् उपसंक्रामति, तांश् च तथागतान् सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः. इति परार्थाधिमुक्तिमृद्वधिमात्रा
पुनर् अपरं भगवन् यद्य् अयं त्रिसाहस्रमहासाहस्रो लोकधातुस् तथागतशरीराणां परिपूर्णश् चूडिकाबद्धो ऽपि मे उपनाम्येत, इमां च प्रज्ञापारमितां पुस्तकलिखितं कृत्वा उपनाम्येत, अहम् अनयोर् द्वयोर् भागयोः स्थापितयोर् इमाम् एव प्रज्ञापारमितां परिगृह्णीयां. तत् कस्य हेतोर्? अतो निर्जातानि हि तथागतशरीराणि. तेन सत्क्रियन्ते गुरुक्रियन्ते मानयन्ते पूज्यन्ते येन ते कुलपुत्राः कुलदुहितरश् च तानि सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा न दुर्गतिविनिपातेषूपपद्यन्ते, देवमनुष्यसंपत्तीर् अनुभूय यथाप्रणिधानेन निर्वास्यन्ति श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन (प्स्प्_2-3:91) वा. अपि तु खलु पुनर् भगवन् यच् च तथागतदर्शनं यच् च प्रज्ञापारमितादर्शनं तुल्यम् एतत्, तथा हि भगवन् या प्रज्ञापारमिता यश् च तथागतो ऽद्वयम् एतद् अद्वैधीकारम्. इति परार्थाधिमुक्तिर् मध्यमृद्धी
पुनर् अपरं भगवन् यश् च तथागतो ऽर्हन् सम्यक्संबुद्धस् त्रिभिः प्रातिहार्यैर् धर्मं देशयति, यद् उत द्वादशाङ्गं सूत्रं गेयं व्याकरणं यावद् अवदानोपदेशा, यश् च स कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्गृह्य पर्यवाप्य परेभ्यश् च विस्तरेण देशयेत तुल्यम् एतत्. तत् कस्य हेतोर्? अतो निर्जातानि हि भगवंस् त्रीणि प्रातिहार्याणि, ततो निर्जातं सूत्रं गेयं व्याकरणं यावद् अवदानोपदेशाः.
पुनर् अपरं भगवन् ये पूर्वस्यां दिशि गङ्गानदीवालुकोपमा बुद्धा भगवन्तो धर्मं देशयन्ति यद् उत सूत्रं गेयं व्याकरणं यावद् अवदानोपदेशाः त्रिभिः प्रातिहार्यैर्, एवं दक्षिणस्यां दिशि पश्चिमायाम् उत्तरस्याम् ऊर्ध्वम् अधो यावद् विदिक्षु गङ्गानदीवाल्कोपमेषु लोकधातुषु बुद्धा भगवन्तो धर्मं देशयन्ति त्रिभिः प्रातिहार्यैर् यद् उत सूत्रं गेयं व्याकरणं यावद् अवदानोपदेशाः, यश् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्गृह्णीयात् यावत् परेभ्यश् च विस्तरेण संप्रकाशयेत् तुल्यम् एतत्. तत् कस्य हेतोर्? अतो निर्जातानि हि भगवंस् त्रीणि प्रातिहार्याणि. ततो निर्जातं सूत्रं गेयं व्याकरणं यावद् अवदानोपादेशाः.
पुनर् अपरं भगवन् यश् चैकैकस्यां दिशि यावन्तो दशसु दिक्षु सर्वलोकधातुषु गङ्गानदीवालुकोपमास् तथागता अर्हन्तः सम्यक्संबुद्धास् तान् सत्कुर्याद् गुरुकुर्यात् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिर्, यश् चेमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा सत्कुर्याद् गुरुकुर्यात् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिस् तुल्यम् एतत्. तत् कस्य हेतोर्? अतो निर्जाता हि तथागता अर्हन्तः सम्यक्संबुद्धाः.
इति परार्थाधिमुक्ति मध्यमध्या
पुनर् अपरं भगवन् यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति (प्स्प्_2-3:92) परेभ्यश् च विस्तरेण संप्रकाशयिष्यति, तस्य न निरयतिर्यग्योनियमलोकगतिः. प्रतिकाङ्क्षितव्या न श्रावकभूमिर् न प्रत्येकबुद्धभूमिः प्रतिकाङ्क्षितव्या, तथा हि स भगवन् बोधिसत्त्वो महासत्त्वः स्थितो ऽविनिवर्तनीयायां भूमौ. तत् कस्य हेतोस्? तथा हि स कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा उद्गृह्णाति धारयति वाचयति पर्यवाप्नोति योनिशश् च मनसिकरोति तां च लिखितां सत्करोति गुरुकरोति मानयति पूजयति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिस्, तस्य न कुतश्चिद् भयं प्रतिकाङ्क्षितव्यं. तद्यथापि नाम भगवन् धनिकभयभीतः पुरुषो राजानम् उपतिष्ठेत्, स राजानं सेवमानो येभ्य एवास्य भयं भवति तैर् एव सेव्यते न च तेभ्यो बिभेति. तत् कस्य हेतोर्? एवम् एतत् भगवन् बलवति निश्रये भयं न भवति. एवम् एव भगवन् प्रज्ञापारमितापरिभावितानि तथागतशरीराणि पूजां लभन्ते. तत्र भगवन् यथा स राजा एवं प्रज्ञापारमिता द्रष्टव्या, यथा स राजनिःश्रितः पुरुषः पूजां लभते. एवम् एव तथागतशरीराणि प्रज्ञापारमितापरिभावितानि पूजां लभन्ते. यद् अपि भगवंस् तत् सर्वज्ञज्ञानं तद् अपि प्रज्ञापारमितापरिभावितं वेदितव्यं, तस्मात् तयोर् द्वयोर् भागयोः स्थापितयोः प्रत्यंशम् इमाम् एवाहं प्रज्ञारपामितां परिगृह्णीयां. तत् कस्य हेतोर्? अतो निर्जातानि हि तथागतशरीराणि, अतो निर्जातानि द्वात्रिंशद् महापुरुषलक्षणान्य्, अतो निर्जातानि दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, अतो निर्जाता महामैत्री महाकरुणा, अतो निर्जाताः पञ्च पारमिताः पारमितानामधेयं लभन्ते, अतो निर्जाता तथागतस्य सर्वज्ञता.
यत्र भगवंस् त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति तत्र तेषां सत्त्वानां मनुष्या वा अमनुष्या वा अवतारप्रेक्षिणो ऽवतारगवेषिणो ऽवतारं न लप्स्यन्ते, सर्वे च ते सत्त्वा अनुपूर्वेण परिनिर्वाणधर्माणो भविष्यन्ति. एवं महर्द्धिका भगवन्न् इयं प्रज्ञापारमिता. यत्र हि नाम भगवन्न् इयं प्रज्ञापारमिता त्रिसाहस्रमहासाहस्रे लोकधातौ ये सत्त्वास् तेषां बुद्धकृत्येन प्रत्युपस्थिता, बुद्धोत्पादो (प्स्प्_2-3:93) भगवंस् तत्र लोकधातौ प्रतिकाङ्क्षितव्यो यत्र लोकधातौ इयं प्रज्ञापारमिता प्रचरिष्यति. तद्यथापि नाम भगवन्न् अनर्घं यत् मणिरत्नैः भवेत् तत् खलु पुनर् महामणिरत्नम् एभिर् एव गुणैः समन्वागतं भवेत्. यत्रयत्र तन् महामणिरत्नं स्थाप्येत तत्रतत्रामनुष्या अवतारं न लभन्ते. यत्रयत्र चामनुष्यगृहीतः स्त्री वा पुरुषो वा भवेत् तत्रतत्र तन् महामणिरत्नं प्रवेष्येत प्रवेशितमात्र एव तस्मिन् महामणिरत्ने सो ऽमनुष्यः प्रक्रामेत् तस्य महामणिरत्नस्य तेजो ऽसहमानः. पित्तेन वा दह्यमाने शरीरे तन् महामणिरत्नं स्थाप्येत तद् अपि पित्तं निगृह्णीयान् न विवर्धेतोपशाम्येत. वाताभिभूते वा शरीरे तन् महामणिरत्नं स्थाप्येत तम् अपि वातं निगृह्णीयात्. श्लेष्मणा उपस्तब्धे शरीरे तन् महामणिरत्नं स्थाप्येत तं सर्वं श्लेष्माणं प्रशमयेत्. संनिपाताभिभूते वा शरीरे तन् महामणिरत्नं कुलपुत्रस्य वा कुलदुहितुर् वा पुरतः स्थाप्येत तस्यापि स व्याधिर् उपशाम्येत. तच् च महामणिरत्नं रात्रावभासं कुर्यात्. उष्णकाले च वर्तमाने यत्र पृथिवीप्रदेशे तन् महामणिरत्नं स्थाप्येत स पृथिवीप्रदेशः शिशिरः परिवर्तेत. शिशिरकाले ऽपि वर्तमाने यत्र पृथिवीप्रदेशे तन् महामणिरत्नं स्थाप्येत स पृथिवीप्रदेशो घर्मः परिवर्तेत. यत्र च तन् महामणिरत्नं स्थाप्येत स च पृथिवीप्रदेशो नात्युष्णो नातिशीतः स्यात् ऋतुसुखो.
यत्र पृथिवीप्रदेशे तन् महामणिरत्णं तिष्ठति तत्र पृथिवीप्रदेशे नाशीविषा उपविचरन्ति वृश्चिकादीनि वा सरीसृपाणि वा, यः कश्चित् कुलपुत्रो वा कुलदुहिता आशीविषेण दष्टो भवेत् तस्यापि तन् महामणिरत्नम् उपदर्श्येत तस्य सह दर्शनेनैव तद् विषं विगच्छेत्. एभिर् एवम् आदिभिर् गुणैर् युक्तं तत् महामणिरत्नं भवेद्, ये ऽपि भगवन् स्त्रियो वा पुरुषा वा नानाव्याधिपरिगता भवन्ति तेषाम् अपि काये तन् महामणिरत्नं स्थाप्येत, तेषाम् अपि सर्वे ते व्याधय उपशमं गच्छेयुः. यत्रापि भगवन्न् उदके तन् महामणिरत्नं स्थाप्येत तद् अपि सर्वम् (प्स्प्_2-3:94) उदकं स्ववर्णसदृशं कुर्यात्. सचेद् भगवंस् तन् महामणिरत्नं नीलेन वाससा परिवेष्ट्य उदके प्रक्षिपेत् तद् उदकं नीलं कुर्यात्. सचेत् पीतकेन सचेल् लोहितकेन वस्त्रेण सचेद् माञ्जिष्ठवर्णेन सचेत् स्फटिकवर्णेन वस्त्रेण तन् महामणिरत्नं बद्ध्वा उदके प्रक्षिप्येत तद् वर्णम् उदकं भवेत्. नानारङ्गरक्तैर् अपि वस्त्रैस् तन् महामणिरत्नं बद्ध्वा उदके प्रक्षिप्येत तद् उदकं नानावर्णं कुर्यात्. यत्र च भगवन्न् उदके कलुषे तन् महामणिरत्नं स्थाप्येत तत् सर्वम् उदकं प्रसादयेद् एभिर् एवम् आदिभिर् गुणैः समुपेतं तन् महामणिरत्नं भवेत्.
अथ खल्व् आयुष्मान् आनन्दः शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: तत् किं मन्यसे? कौशिक दिव्यं तन् महामणिरत्नम् उताहो जाम्बूद्वीपकानां मनुष्याणाम् एतद् महामणिरत्नं विद्यते.
शक्र आह: दिव्यं तद् भदन्त महामणिरत्नं, यानि जाम्बूद्वीपकानां मनुष्याणां मणिरत्नानि तानि परीत्तानि गुरूणि च, यानि पुनर् दिव्यानि तानि महान्ति लघूनि च, तैर् आकारैस् तथा सुपरिपूर्णानि जाम्बूद्वीपकानां मनुष्याणां मणिरत्नानि यथा न सुपरिपूर्णानि पुनर् जाम्बूद्वीपकानि मणिरत्नानि दिव्यानां मणिरत्नानां संख्याम् अपि नोपयान्ति कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिशाम् अपि नोपयान्ति. तत् खलु महामणिरत्नं यस्मिन् करण्डके तिष्ठति यदा तन् महामणिरत्नं तस्मात् करण्डकाद् उत्क्षिप्तं भवति स्पृहणीयः स करण्डको भवति, अत्र तन् महामणिरत्नं स्थितम् अभूद् इति.
एवम् एतद् भदन्तानन्द यत्रेयं प्रज्ञापारमिता पृथिवीप्रदेशे प्रचरिष्यति न तत्र कुलपुत्राणां कुलदुहितृणां वा कायिका वा चैतसिका वा दुःखोपद्रवा मनुष्यकृता वा अमनुष्यकृता वा भविष्यन्ति. महामणिरत्नम् इति प्रज्ञापारमिताया एतद् अधिवचनं सर्वज्ञज्ञानस्य च. कियन्तः शक्याः प्रज्ञापारमिताया गुणाः? परिकीर्तयितुम् अप्रमेया हि प्रज्ञापारमिताया गुणाः. एवं ध्यानपारमिताया वीर्यपारमिताया क्षान्तिपारमिताया शीलपारमिताया दानपारमिताया अध्यात्मशून्यताया यावद् अभावस्वभावशून्यतायाः स्मृत्युपस्थानां सम्यक्प्रहाणानाम् ऋद्धिपादानाम् इन्द्रियाणां बलानां बोध्यङ्गानाम् आर्याष्टाङ्गस्य (प्स्प्_2-3:95) मार्गस्याप्रमाणध्यानारूप्यसमापत्तीनां चतुर्णाम् आर्यसत्यानाम् अष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां षण्णाम् अभिज्ञानां सर्वसमाधीनां सर्वधारणीमुखानां दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां सर्वज्ञज्ञानस्यापि धर्मधातोर् अपि धर्मनियामतायास् तथताया भूतकोटेर् अचिन्त्यधातोः सर्वज्ञज्ञानस्यैते गुणा येन परिनिर्वृतस्यापि तथागतस्य शरीराणि पूजां लभन्ते. सर्वज्ञज्ञानस्य सर्ववासनानुसंधिक्लेशप्रहाणस्य सदोपेक्षाविहारिताया असंप्रमुषितधर्मताया एषां तथागतशरिराणि भाजनभूतान्य् अभूवंस् तेनैतानि तथागतशरीराणि पूजां लभन्ते.
इति परार्थाधिमुक्तिमध्याधिमात्रा
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: रत्नपारमिताया भगवन्न् इमानि तथागतशरीराणि भाजनम् अभूत्. असंक्लेशाव्यवदानपारमिताया अनुत्पादानिरोधपारमिताया अनागतिपारमिताया इमानि तथागतशरीराणि भाजनं, धर्मतापारमितायास् तथागतशरीराणि भाजनं, धर्मतापरिभावितानि तथागतशरीराणि पूजां लभन्ते.
पुनर् अपरं भगवंस् तिष्ठतु त्रिसाहस्रमहासाहस्रो लोकधातुस् तथागतशरीराणां परिपूर्णश् चूडिकाबद्धः, सचेद् भगवन् गङ्गानदीवालुकोपमा लोकधातवस् तथागतशरीराणां परिपूर्णाश् चूडिकाबद्धा भवेयुर्, इयं च प्रज्ञापारमिता पुस्तकलिखितां कृत्वा उपनाम्येत, तयोर् अहं भगवन् द्वयोर् भागयोः स्थापितयोर् इमाम् एव प्रज्ञापारमिताम् उद्गृह्णीयां. तत् कस्य हेतोर्? अतो निर्जातानि हि तथागतशरीराणि प्रज्ञापारमितापरिभावितानि पूजां लभन्ते.
यः पुनर् भगवन् कुलपुत्रो वा कुलदुहिता वा तथागतशरीराणि सत्कुर्याद् गुरुकुर्यात् मानयेत् पूजयेत् स तस्य कुशलमूलस्य परित्तीकृतानि दिव्यानि मानुष्यकाणि च सुखानि प्रत्यनुभूय क्षत्रियमहाशालकुलेषु वा ब्राह्मणमहाशालकुलेषु वा गृहपतिमहाशालकुलेषु वा चातुर्महाराजकायिकेषु वा त्रायस्त्रिंशेषु यामेषु तुषितेषु निर्माणरतिषु परनिर्मितवशवर्तिषु देवेषु सुखं प्रत्यनुभूय तेन कुशलमूलेन दुःखस्यान्तं करिष्यति.
तस्य खलु पुनः कुलपुत्रस्य वा कुलदुहितुर् वा इमां प्रज्ञापारमिताम् उद्गृह्णतो धारयतो वाचयतः पर्यवाप्नुवतो योनिशश् च मनसिकुर्वतो ध्यानपारमिता (प्स्प्_2-3:96) परिपूर्यते ध्यानपारमिता परिपूर्णा वीर्यपारमिता परिपूर्यते वीर्यपारमिता परिपूर्णा क्षान्तिपारमिता परिपूर्यते क्षान्तिपारमिता परिपुर्णा शीलपरमिता परिपूर्यते शीलपारमिता परिपूर्णा दानपारमिता परिपूर्यते दानपारमिता परिपूर्णा. एवं सप्तत्रिंशद्बोधिपक्ष्या धर्मा यावद् अष्टादशावेणिका बुद्धधर्माः परिपूर्यन्ते, सो ऽतिक्रम्य श्रावकप्रत्येकबुद्धभूमिं बोधिसत्त्वनियामम् अवक्रम्य बोधिसत्त्वाभिज्ञाः प्रतिलभ्य बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रमिष्यति, समचिन्त्यात्मभावान् प्रतिगृहीष्यति, यैर् आत्मभावैः सत्त्वान् परिपाचयिष्यति. यदि वा चक्रवर्त्यात्मभावं पैगृह्य क्षत्रिय महाशालकुलात्मभावं परिगृह्य ब्राह्मण महाशालकुलात्मभावं परिगृह्य गृहपतिमहाशालकुलात्मभावं परिगृह्य सत्त्वान् परिपाचयिष्यति. तस्माद् भगवन् न मे तथागतशरीरेष्व् अगौरवम् एव मे भगवन् नापि न ग्रहीतुकामः. अपि तु खलु पुनः प्रज्ञापारमितया सत्कृतया गुरुकृतया मानितया पूजितया तथागतशरीराण्य् अपि सत्कृतानि भवन्ति गुरुकृतानि मानितानि पूजितानि भवन्ति.
पुनर् अपरं भगवन् ये दशसु दिक्षु तथागता अर्हन्तः सम्यक्संबुद्धा असंख्येयेष्व् अप्रमेयेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति. तांश् च धर्मकायेन च रूपकायेन च द्रष्टुकामेन इयम् एव प्रज्ञापारमिता श्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या परेभ्यश् च विस्तरेण संप्रकाशयितव्या योनिशश् च मनसिकर्तव्या. सचेत् कुलपुत्रो वा कुलदुहिता वा तान् दशसु दिक्षु तथागतान् अर्हतः सम्यक्संबुद्धान् इच्छेद् द्रष्टुं, तेन कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमितायां चरता बुद्धानुस्मृतिर् भावयितव्या.
धर्मतया द्वे इमे भगवतां धर्मते. कतमे द्वे? यद् उत संस्कृतधर्मता चासंस्कृतधर्मता च.
तत्र भगवन् कतमा संस्कृतधर्मता? यद् उताध्यात्मशून्यताज्ञानं बहिर्धाशून्यताज्ञानम् अध्यात्मबहिर्धाशून्यताज्ञानं यावद् अभावस्वभावशून्यताज्ञानं सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु यद् आर्यसत्येषु यद् अप्रमाणध्यानारूप्यसमापत्तिषु यद् दशसु तथागतबलेषु ज्ञानं, यच् चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशावेणिकेषु बुद्धधर्मेषु (प्स्प्_2-3:97) ज्ञानं, यत् कुशलमूलेषु सास्रवानास्रवेषु सावद्यानवद्येषु लौकिकलोकोत्तरेषु संक्लेशव्यवदानधर्मेषु ज्ञानम् इयम् उच्यते संस्कृतधर्मता.
तत्र कतमा असंस्कृतधर्मा उच्यते? यस्य धर्मस्य नोत्पादो न निरोधो न स्थितिर् नास्थिः, नान्यथात्वं न संक्लेशो न व्यवदानं न हानिर् न वृद्धिः, यावत् सर्वधर्माणाम् अभावस्वभावता. कतमा सर्वधर्माणाम् अभावस्वभावता? या अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यता संस्कृतशून्यता असंस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता अनवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता अनुपलम्भशून्यता अभावशून्यता स्वभावशून्यता अभावस्वभावशून्यता परभावशून्यता. यत् सर्वधर्माणां प्रकृतिशून्यतात्वम् अनुपलम्भो यावद् या सर्वधर्माणां निरभिलप्यता अप्रव्याहारता इयम् उच्यते असंस्कृतधर्मता.
इति परार्थाधिमुक्तिर् अधिमात्रमृद्धी
अथ खलु भगवान् सक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्. ये ऽपि ते ऽभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽपीमाम् एव प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः. ये ऽपि ते भविष्यन्त्य् अनागते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽपीमाम् एव प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. ये ऽप्य् एतर्हि दशदिग्लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति ते ऽपीमाम् एव प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः. ये ऽपि ते ऽभूवन्न् अतीतानागताः श्रावका ये च प्रत्येकबुद्धास् ते ऽपीमाम् एव प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंभोत्स्यन्ते, ये ऽपि स्रोतआपत्तिफलं प्राप्स्यन्ते प्राप्नुवन्ति च, ये ऽपि सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्स्यन्ते प्राप्नुवन्ति च. ये ऽपि ते दशदिशि लोके ऽसंख्येयेषु लोकधातुषु श्रावका, ये च प्रत्येकबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति ते ऽपीमाम् एव प्रज्ञापारमिताम् आगम्य श्रावकबोधिप्रत्येकबोधिप्राप्तास्. तत् कस्य हेतोस्? तथा ह्य् (प्स्प्_2-3:98) अत्र प्रज्ञापारमितायां त्रीणि यानानि विस्तरेणोपदिष्टानि, तानि पुनर् अनिमित्तयोगेनानुत्पादानिरोधयोगेनासंक्लेशाव्यवदानयोगेनानभिसंस्कारयोगेनानायूहानिर्यूहयोगेनानुत्क्षेपाप्रक्षेपयोगेनानुद्ग्रहानुत्सर्गयोगेन. तत् पुनर् लोकव्यवहारेण न पुनः परमार्थेन. तत् कस्य हेतोर्? न हि प्रज्ञापारमितायाम् अपारं वा पारं वा स्थलं वा निम्नं वा समं वा विषमं वा निमित्तं वा अनिमित्तं वा लौकिकं वा लोकोत्तरं वा संस्कृतं वा असंस्कृतं वा कुशलं वा अकुशलं वा अतीतं वा अनागतं वा प्रत्युत्पन्नं वा प्रज्ञायते. न च कौशिक प्रज्ञापारमिता कस्यचिद् धर्मस्य प्रदायिका न प्रत्येकबुद्धधर्माणां नार्हत्वधर्माणां प्रदायिका.
इति परार्थाधिमुक्तिर् अधिमात्रमध्या
शक्र आह: महापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. अत्र हि भगवन् बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः सर्वसत्त्वचित्तचरितानि प्रजानन्ति न च सत्त्वम् उपलभन्ते, न जीवं न पोषं न पुरुषं न मनुजं न मानवं न कारकं न वेदकं न जानकं न पश्यकम् उपलभन्ते. न रूपम् उपलभन्ते, न वेदनां न संज्ञां न संस्कारान् न विज्ञानम् उपलभन्ते. न पृथिवीधातुम् उपलभन्ते, नाब्धातुं न तेजोधातुं न वायुधातुं नाकाशधातुं न विज्ञानधातुम् उपलभन्ते. न चक्षुर् उपलभन्ते, न रूपम् उपलभन्ते, न चक्षुर्विज्ञानम् उपलभन्ते, न चक्षुःसंस्पर्शम् उपलभन्ते, यद् अपि तच् चक्षूरूपसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नोपलभन्ते. एवं श्रोत्रं घ्राणं जिह्वां कायं मनो नोपलभन्ते. शब्दगन्धरसस्प्रष्टव्यधर्मान् नोपलभन्ते. श्रोत्रविज्ञानं यावन् मनोविज्ञानं, श्रोत्रसंस्पर्शं यावन् मनःसंस्पर्शं नोपलभन्ते यावद् यद् अपि तन् मनोधर्मसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नोपलभन्ते. स्मृत्युपस्थानानिनोपलभन्ते. सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् नोपलभन्ते. अप्रमाणध्यानारूप्यसमापत्तीर् नोपलभन्ते. नार्यसत्यानि नाष्टविमोक्षान् न नवानुपूर्वविहारसमापत्तीर् न षडभिज्ञा उपलभन्ते. (प्स्प्_2-3:99) न दशतथागतबलानि न वैशारद्यानि न प्रतिसंविदो नाष्टादशावेणिकान् बुद्धधर्मान् उपलभन्ते. नाध्यात्मशून्यताम् उपलभन्ते, न बहिर्धाशून्यतां नाध्यात्मबहिर्धाशून्यतां यावन् नाभावस्वभावशून्यताम् उपलभन्ते. न समाधीन् न धारणीमुखान्य् उपलभन्ते. न शून्यतानिमित्ताप्रणिहितान्य् उपलभन्ते. न बोधिं न बुद्धं न बुद्धधर्मान् उपलभन्ते. न हि प्रज्ञापारमिता उपलम्भयोगेन प्रत्युपस्थिता. तत् कस्य हेतोस्? तथा हि स्वभावो न संविद्यते नोपलभ्यते, येनोपलभ्येत यद् उपलभ्येत यत्र चोपलभ्येत.
भगवान् आह: एवम् एतत् कौशिकैवम् एतत्, तथा हि कौशिक बोधिसत्त्वो महासत्त्वो ऽनुपलम्भयोगेन प्रज्ञापारमितायां चरन् बोधिम् अपि नोपलभते प्राग् एव बोधिसत्त्वधर्मान्.
शक्र आह: किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् एव चरति नान्यासु पारमितासु?
भगवान् आह: सर्वासु कौशिक पारमितासु बोधिसत्त्वो महासत्त्वश् चरति न केवलं प्रज्ञापारमितायां. तच् चानुपलम्भयोगेन स दानपारमितां नोपलभते दायकम् अपि नोपलभते प्रतिग्राहकम् अपि नोपलभते, शीलपारमितां नोपलभते शीलवन्तम् अपि नोपलभते दौःशील्यम् अपि नोपलभते, क्षान्तिपारमितां नोपलभते क्षमिणम् अपि नोपलभते क्षम्यम् अपि नोपलभते वीर्यपारमितां नोपलभते कर्तव्यम् अपि नोपलभते कायचित्तम् अपि नोपलभते, ध्यानपारमितां नोपलभते चित्तम् अपि नोपलभते समाधिम् अपि नोपलभते, प्रज्ञापारमितां नोपलभते प्रज्ञावन्तम् अपि नोपलभते प्रज्ञयम् अपि नोपलभते. अपि तु खलु पुनः कौशिक प्रज्ञापारमिता पूर्वंगमा नायिका बोधिसत्त्वस्य महासत्त्वस्य दानं ददतः. प्रज्ञापारमिता पूर्वंगमा बोधिसत्त्वस्य महासत्त्वस्य शीलं रक्षतः क्षान्तिं भावयतो वीर्यम् आरम्भमाणस्य ध्यानं समापद्यमानस्य धर्मान् विभावयतो बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता पूर्वंगमा नायिका सर्वधर्माणाम् अनुपलम्भयोगेन. एवं व्यस्तसमस्तानां स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गानाम् अनुपलम्भयोगेन. सप्तत्रिंशतां (प्स्प्_2-3:100) बोधिपक्ष्याणां धर्माणाम् अनुपलनिभयोगेन. आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् अनुपलम्भयोगेन. अष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां शून्यतानिमित्ताप्रणिहितानां षण्णाम् अभिज्ञानाम् अनुपलम्भयोगेन. दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणाम् अनुपलम्भयोगेन. सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानाम् अनुपलम्भयोगेन. सर्वज्ञताया अनुपलम्भयोगेन यावत् सर्वधर्माणाम् अनुपलम्भयोगेन. तद्यथापि नाम कौशिक जाम्बूद्वीपकानां वृक्षाणां नानापत्रपलाशानां नानापुष्पफलानां नानारोहसंस्थानपरिणाहानां न च तेषां वृक्षाणां च्छायाया विशेषो वा नानाकरणं चोपलभ्यते, अपि तु च्छाया च्छायेति संख्यां गच्छति. एवम् एव कौशिक पञ्चानां पारमितानां प्रज्ञापारमितापरिगृहीतानां सर्वज्ञातापरिणामितानां न विशेषो न नानाकरणम् उपलभ्यते ऽनुपलम्भयोगेन.
इति परार्थाधिमुक्तिर् अधिमात्राधिमात्रेत्य् उक्तो अधिमुक्तिमनस्कारः गुणपरिकीर्तनपरिवर्तो नाम चतुर्थः
शक्र आह: महागुणसमन्वागता भगवन्न् इयं प्रज्ञापारमिता, सर्वगुणपरिपूरणी अप्रमेयगुणसमन्वागता अचिन्त्यगुणसमन्वागता अतुल्यगुणसमन्वागता अपरिमाणगुणसमन्वागता अपर्यन्तगुणसमन्वागतेयं भगवन् प्रज्ञापारमिता. यः कश्चिद् भगवन् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखिताम् अपि कृत्वा धारयिष्यति वाचयिष्यति पर्यवाप्स्यति, तां च सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिर् यथोपदिष्टां च प्रज्ञापारमितां योनिशो मनसिकुर्याद्, यश् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परस्मै दद्यात्, कतरस् तयोर् बहुतरं पुण्यं प्रसवेत्?
भगवान् आह: तेन हि कौशिक त्वाम् एवात्र प्रतिप्रक्ष्यामि यथा ते क्षमते तथा व्याकुर्याः. तत् किं मन्यसे? कौशिक, यः कश्चित् कुलपुत्रो वा कुलदुहिता वा तथागतशरीराणि सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः, यश् च कुलपुत्रो वा कुलदुहिता वा सर्षपफलमात्रकं तथागतशरीरं परस्मै दद्यात् संविभागं कुर्यात्, सो ऽपि कुलपुत्रो वा कुलदुहिता वा तत् सर्षपफलमात्रकं (प्स्प्_2-3:101) तथागतशरीरं सत्कुर्याद् गुरुकुर्याद् मानयेत् पाजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः, कतरस् तयोर् बहुतरं पुण्यं प्रसवेत्?
शक्र आह: यथाहं भगवन् भगवतो भाषितस्यार्थम् आजानेयायं कुलपुत्रो वा कुलदुहिता वा तथागतशरीराणि स्वयं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेत, सो ऽपि सर्षपफलमात्रकं तथागतशरीरं परस्मै दाद्याद् अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. एवम् अर्थवशं संपश्यमानेन तथागतेन वज्रोपमं समाधिं समापद्य आत्मभावं वज्रोपमं भित्त्वा तथागतशरीराण्य् अधिष्ठितानि महाकरुणां संजनय सत्त्वकाये तथागतधातुवैनयिकानां सत्त्वानाम्. तत् कस्य हेतोर्? ये केचिद् भगवन् तथागतस्य परिनिर्वृत्तस्यान्तशः सर्षपफलमात्रकम् अपि धातुं पूजयिष्यन्ति सर्वेषां तेषां न शक्यं तस्य कुशलमूलस्य पर्यन्तो ऽधिगन्तुं यावत् परिनिर्वाणम् इति.
भगवान् आह: एवम् एतत् कौशिकैवम् एतत्. यः कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यत्य् अर्चयिष्यत्य् अपचायिष्यते पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः, परस्मै च लिखित्वा दद्याद् एवं कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति. इति प्रथमा स्तुतिमात्र
पुनर् अपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां यथोपदिष्टां परेभ्यो गत्वा आचक्षीत देशयेत् प्रकाशयेद् विभजेद् उत्तानीकुर्याद् अयं स कुलपुत्रो वा कुलदुहिता वा ततः पूर्वकात् कुलपुत्राद् वा कुलदुहितुर् वा बहुतरं पुण्यं प्रसवति. शास्तेति वा प्रतिकांक्षितव्यः, अन्यतरान्यतरो वा गुरुस्थानीयः सब्रह्मचारी. तत् कस्य हेतोर्? एष एवात्र शास्ता द्रष्टव्यो येयं प्रज्ञापारमिता न ह्य् अन्यः शास्ता अन्या प्रज्ञापारमिता, प्रज्ञापारमितैव शास्ता, शास्तैव प्रज्ञापारमिता. तत् कस्य हेतोर्? अत्र हि प्रज्ञापारमितायां शिक्षित्वा कुलपुत्राः कुलदुहितरो वा अतीतानागतप्रत्युत्पन्नास् तथागता अर्हन्तः सम्यक्संबुद्धा लोके प्रादुर्भूताः, ये ऽपि ते ऽभिज्ञाः सब्रह्मचारिणो ऽन्यतरान्यतरे ऽविनिवर्तनीयत्वे स्थितास्, ते ऽपि बोधिसत्त्वा महासत्त्वा इहैव प्रज्ञापारमितायां शिक्षमाणा अनुत्तरां सम्यक्संबोधिम् (प्स्प्_2-3:102) अभिसंबुद्धाः. अत्रैव कौशिक प्रज्ञापारमितायां श्रावकाः शिक्षिताः, अर्हन्तो ऽर्हत्त्वं प्राप्ताः, प्रत्येकबुद्धाः प्रत्येकबोधिं प्राप्ता, बोधिसत्त्वा बोधिसत्त्वनियामम् अवक्रामन्ति अवक्रान्ताश् च अवक्रमिष्यन्ति च. तस्मात् तर्हि कौशिक कुलपुत्रेण वा कुलदुहित्रा वा तथागतान् अर्हतः सम्यक्संबुद्धान् संमुखं सत्कर्तुकामेन गुरुकर्तुकामेन मानयितुकामेन पूजयितुकामेन पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः. इयम् एव प्रज्ञापारमिता पुस्तकलिखिता सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्र ध्वजपताकाभिः. इमम् अपि चार्थवशं संपश्यमानस्य ममानुत्तरां सम्यक्संबोधिम् अभिसंबुधस्यैतद् अभूत्; कन् न्व् अहं धर्मम् उपनिश्रित्य विहरेयं सत्कुर्यां गुरुकुर्यां मानयेयं पूजयेयम् इति. सो ऽहं कौशिक यदा नाद्राक्षं सदेवके लोके सब्रह्मके समारके सश्रमणब्राह्मणिकायां प्रजायां सदेवमानुषासुरायां सदृशम्. तस्य मे सदृशं समनुपश्यमानस्य एतद् अभूत्; यन् नूनम् अहं य एव मया धर्माभिसंबुद्धस् तम् एव धर्मं सत्कुर्यां गुरुकुर्यां मानयेयं पूजयेयम् इति, धर्मम् एव चोपनिश्राय विहरेयम् इति. अयम् एव कौशिक सद्धर्मो येयं प्रज्ञापारमिता. अहम् एव कौशिक इमां प्रज्ञापारमितां सत्करोमि गुरुकरोमि मानयामि पूजयामि सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा उपनिश्राय च विहरामि. किं वा पुनः कौशिक कुलपुत्रेण वा कुलदुहित्रा वा अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन इयम् एव प्रज्ञापारमिता न सत्कर्तव्या न गुरुकर्तव्या न मानयितव्या न पूजयितव्या पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः. तत् कस्य हेतोस्? तथा हि श्रावकप्रत्येकबुद्धयानिकैः कुलपुत्रैर् वा कुलदुहितृभिर् वा इयम् एव प्रज्ञापारमिता सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या पुष्पधूपगन्धमाल्यविलेपनचूर्णचीव्रच्छत्रध्वजपताकाभिः. तत् कस्य हेतोः? प्रज्ञापारमितानिर्जाता हि बोधिसत्त्वा, बोधिसत्त्वनिर्जाताश् च तथागता अर्हन्तः सम्यक्संबुद्धास्, तथागतनिर् जाताश् च सर्वश्रावकप्रत्येकबुद्धास्. तस्मात् तर्हि कौशिक महायानिकैः कुलपुत्रैर् वा कुलदुहितृभिर् वा श्रावकयानिकैश् च इयम् एव प्रज्ञापारमिता सत्कर्तव्या गुरुकर्तव्या मानयितव्या (प्स्प्_2-3:103) पूजयितव्या पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः, यत्र शिक्षित्वा कुलपुत्राः कुलदुहितरश् च अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते. इति द्वितीया स्तुतिमात्रा
एकं कौशिक सत्त्वं स्रोतआपत्तिफले प्रतिष्ठाप्य अप्रमेयं पुण्यं प्रसवति, न त्व् एव जाम्बुद्वीपकान् सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्य. तत् कस्य हेतोर्? दशसु कौशिक कुशलेषु कर्मपथेषु सत्त्वाः प्रतिष्ठापिता अपरिमुक्ता एव निरयतिर्यग्योनियमलोकासुरगतिभ्यः, स्रोतआपत्तिफले प्रतिष्ठापितः पुनः सर्वदुर्गतिभ्यो मुक्तो भवति. इति तृतीया स्तुतिमात्रा
सकृदागामिफले एवं सत्त्वं प्रतिष्ठाप्य बहुतरं पुण्यं प्रसवति, न त्व् एव जाम्बुद्वीपकान् सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्य. इति चतुर्थी स्तुतिमात्रा
एवम् अनागामिफले एकं सत्त्वं प्रतिष्ठाप्य बहुतरं पुण्यं प्रसवति, न त्व् एव जाम्बुद्वीपकान् सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्य. इति पञ्चमी स्तुतिमात्रा
एवम् एकं सत्त्वम् अर्हत्त्वे प्रतिष्ठाप्य बहुतरं पुण्यं प्रसवति, न त्व् एव जाम्बुद्वीपकान् सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्य. इति षष्ठी स्तुतिमात्रा
एवम् एकं सत्त्वं प्रत्येकबोधौ प्रतिष्ठाप्य बहुतरं पुण्यं प्रसवति, न त्व् एव जाम्बुद्वीपकान् सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्य. इति सप्तमी स्तुतिमात्रा
यः कश्चित् कौशिक कुलपुत्रो वास् कुलदुहिता वा जाम्बुद्वीपकान् सत्त्वान् स्रोतआपत्तिफले प्रतिष्ठापयेत्, यो वान्यः कुलपुत्रो वा कुलदुहिता वा एकं सत्त्वम् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयेद् अयन् ततो बहुतरं पुण्यं प्रसवति. तत् कस्य हेतोस्? तथा हि बुद्धनेत्र्याः सो ऽनुपच्छेदाय प्रत्युपस्थितो भवति. इति अष्टमी स्तुतिमात्रा
एवं यः सर्वजाम्बुद्वीपकान् सत्त्वान् सकृदागामिफले प्रतिष्ठापयेद्, यो वान्य एकं सत्त्वम् अनुत्तरायां सन्यक्संबोधौ प्रतिष्ठापयेद् अयन् ततो बहुतरं पुण्यं प्रसवति. इति नवमी स्तुतिमात्रेत्य् उक्ता स्तुतिः
एवं यः सर्वजाम्बुद्वीपकान् सत्त्वान् अनागामिफले प्रतिष्ठापयेद्, यो वान्य एकं सत्त्वम् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयेद् अयन् ततो बहुतरं पुण्यं प्रसवति. इति प्रथमा स्तोभमात्रा
(प्स्प्_2-3:104)
एवं यः सर्वजाम्बुद्वीपकान् सत्त्वान् अर्हत्त्वे प्रतिष्ठापयेद्, यो वान्य एकं सत्त्वम् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयेद् अयन् ततो बहुतरं पुण्यं प्रसवति. इति द्वितिया स्तोभमात्रा
एवं यः सर्वजाम्बुद्वीपकान् सत्त्वान् प्रत्येकबोधौ प्रतिष्ठापयेद्, यो वान्यः कुलपुत्रो वा कुलदुहिता वा एकं सत्त्वम् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयेद् अयम् एव ततो बहुतरं पुण्यं प्रसवति. तत् कस्य हेतोस्? तथा हि बुद्धनेत्र्याः. सो ऽनुपच्छेदाय प्रत्युपस्थितो भवति, य एकं सत्त्वम् अप्य् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयेत्. तत् कस्य हेतोर्? बोधिसत्त्वनिर्जाता हि कौशिक यावन्तस् तथागता अर्हन्तः सम्यक्संबुद्धाः. तद् अनेन कौशिक पर्यायेणैवं वेदितव्यं बोधिसत्त्वो ऽपि पूजयितव्यः सदेवमानुषासुरेण लोकेन. इति तृतीया स्तोभमात्रा
पुनर् अपरं कौशिक यः. कश्चित् कुलपुत्रो वा कुलदुहिता वा जाम्बुद्वीपकान् सत्त्वान् दशकुशलेषु कर्मपथेषु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परस्मै दद्याद् अन्तशो लिखनायापि वाचनायापि. तत् कस्य हेतोर्? अत्र हि प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा, यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वनियामम् अवक्रान्ताश् चावक्रमिष्यन्ति चावक्रामन्ति च. यावद् अर्हत्त्वं प्राप्ताः प्राप्स्यन्ते प्राप्नुवन्ति च. प्रत्येकां बोधिं प्राप्ताः प्राप्स्यन्ते प्राप्नुवन्ति च. बोधिसत्त्वा बोधिसत्त्वनियामम् अवक्रान्ता अवक्रमिष्यन्ति च अवक्रामन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंभोत्स्यन्ते अभिसंबुध्यन्ते च. कतमे च ते कौशिक अनास्रवा धर्मास्? तद्यथा पारमिताः सप्तत्रिंशद्बोधिपक्ष्या धर्माश् चत्वार्य् आर्यसत्यानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयो ऽष्ट विमोक्षा नवानुपूर्वं विहारसमापत्तयः शून्यतानिमित्ताप्रणिहिताभिज्ञा अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता सर्वसमाधयः सर्वधारणीमुखानि दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा यावद् अपरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टास् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः प्रज्ञापारमितायां तद् अनेनापि ते कौशिक (प्स्प्_2-3:105) पर्यायेणैवं वेदितव्यम्. यश् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखिताम् अपि कृत्वा परेभ्यो दद्याल् लिखनायापि वाचनायापि अयन् ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोस्? तथा हि अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा, यैर् धर्मैः क्षत्रियमहाशालकुलानि ब्राह्मणमहाशालकुलानि गृहपतिमहाशालकुलानि प्रज्ञयन्ते, चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्तिंशा यामा तुषिता निर्माणरतयः परनिर्मितवशवर्त्मो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्माणो यावन् नैवसंज्ञानासंज्ञायतनोपगा देवा प्रज्ञायन्ते, सर्वपारमिताः प्रज्ञायन्ते, सप्तत्रिंशद्बोधिपक्ष्या धर्माः प्रज्ञायन्ते, आर्यसत्यान्य् अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमिताप्रणिहितानि षड् अभिज्ञाः प्रज्ञायन्ते, सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि प्रज्ञायन्ते, दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः प्रज्ञायन्ते, महामैत्री महाकरुणा प्रज्ञायन्ते, सर्वज्ञताः प्रज्ञायन्ते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनो ऽनागामिनो ऽर्हन्तः प्रत्येकबुद्धाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते. तिष्ठन्तु कौशिक जाम्बुद्वीपकाः सत्त्वा यावत् प्रत्येकायां बोधौ प्रतिष्ठापिता यावन्तः कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु यावत् प्रत्येकबोधौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परस्मै दद्याद् अन्तशो लिखनायापि वाचनायापि. तत् कस्य हेतोस्? तथा हि कौशिक प्रज्ञापारमितानिर्जाताः सर्वश्रावकप्रत्येकबुद्धबोधिसत्त्वधर्मा बुद्धधर्माश् च. तिष्ठन्तु कौशिक चातुर्महाद्वीप्द्वीपके लोकधातौ सत्त्वा दशसु कुशलेषु कर्मपथेषु यावत् प्रत्येकबुद्धत्वे प्रतिष्ठापिता, यः कौशिक कुलपुत्रो वा कुलदुहिता वा ये साहस्रे लोकधातौ सत्त्वास् तन् सर्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेत्, स्रोतआपत्तिफले सकृदागामिफले ऽनागामिफले ऽर्हत्त्वे प्रत्येकबुद्धत्वे प्रतिष्ठापयेद्, यश् च कुलपुत्रो वा (प्स्प्_2-3:106) कुलदुहिता वा इमां प्रज्ञापारमिताम् अन्तशः पुस्तकलिखिताम् अपि कृत्वा परस्मै दद्याद् अन्तशो लिखनायापि वाचनायापि अयन् ततो बहुतरं पुण्यं प्रसवेत्.
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: तिष्ठन्तु कौशिक साहस्रे लोकधातौ सत्त्वा यावत् प्रत्येकायां बोधौ प्रतिष्ठापिता, यः कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा ये द्विसाहस्रे लोकधातौ सत्त्वास् तान् सर्वान् दशसु कुशलेषु कर्मपथेषु यावत् प्रत्येकबुद्धत्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परस्मै दद्याद् अन्तशो लिखनायापि वाचनायापि अयन् ततो बहुतरं पुण्यं प्रसवेत्. तिष्ठन्तु कौशिक द्विसाहस्रे लोकधातौ सत्त्वा यावत् प्रत्येकबोधौ प्रतिष्ठापिता, ये केचित् कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु पृतिष्ठापयेत् यावत् प्रत्येकबुद्धत्वे प्रतिष्ठापयेद्, यश् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखिताम् अपि कृत्वा परेभ्यो दद्याद् अन्तशो लिखनायापि वाचनायापि अयन् ततः कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति. तिष्ठन्तु कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वा यावत् प्रत्येकबुद्धत्वे प्रतिष्ठापिताः यावन्तः काउशिक दशसु दिक्षु गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु प्रतिष्टापयेद् यावत् प्रत्येकबुद्धत्वे प्रतिष्ठापयेत्, यश् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखिताम् अपि कृत्वा परस्मै दद्याद् अन्तशो लिखनायापि वाचनायापि अयन् ततः कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति. तत् कस्य हेतोर्? अत्र हि प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टास्, तत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वनियामम् अवक्रान्ता अवक्रमिष्यन्ति अवक्रामन्ति च, यावद् अर्हत्त्वं प्राप्ताः प्राप्स्यन्ते प्राप्नुवन्ति च. प्रत्येकां बोधिं प्राप्ताः प्राप्स्यन्ते प्राप्नुवन्ति च. बोधिसत्त्वाश् च महासत्त्वाश् च बोधिसत्त्वनियामम् अवक्रान्ता अवक्रमिष्यन्ति अवक्रामन्ति च. अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च. कतम एव कौशिक (प्स्प्_2-3:107) अनास्रवा धर्मास्? तद्यथा पारमिताः सप्तत्रिंशद्बोधिपक्ष्या धर्माश् चत्वारि सत्यानि अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता यावद् अभावस्वभावशून्यता अप्रमाणध्यानारूप्यसमापत्तयो दश तथागतबलानि यावद् अपरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टास् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः प्रज्ञापारमितायां तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यश् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखिताम् अपि कृत्वा परेभ्यो दद्याद् अन्तशो लिखनायापि वाचनायापि अयन् ततो बहुतरं पुण्यं प्रसवति, तत् कस्य हेतोस्? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा, यैर् धर्मैः क्षत्रियमहाशालकुलानि ब्राह्मणमहाशालकुलानि गृहपतिमहाशालकुलानि प्रज्ञायन्ते, चातुर्महाराजकायिका देवाः प्रज्ञायन्ते यावन् नैवसंज्ञानासंज्ञायतनोपगा देवाः प्रज्ञायन्ते, पारमिताः प्रज्ञायन्ते यावत् सप्तत्रिंशद्बोधिपक्ष्या धर्माः प्रज्ञायन्ते, सर्वज्ञताः प्रज्ञायन्ते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनो ऽनागामिनो ऽर्हन्तः प्रत्येकबुद्धाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
पुनर् अपरं कौशिक ये जाम्बुद्वीपकाः सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेत्. चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा परेभ्यो दद्याद् अन्तशो लिखनायापि वाचनायापि. तत् कस्य हेतोर्? अत्र हि प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टाः.
पुनर् अपरं कौशिक यः कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, इदन् तेन कुलपुत्रेण वा कुलदुहित्रा वा बहुतरं पुण्यं प्रसूतं भविष्यति, न त्व् एव जाम्बुद्वीपकान् सत्त्वांश् चातुर्द्वीपकान् साहस्रे द्विसाहस्रे त्रिसाहस्रे लोकधातौ सर्वसत्त्वान् दशसु कुशलेषु कर्मपथेषु ध्यानाप्रमाणेष्व् आरूप्याभिज्ञासु प्रतिष्ठाप्य. तत्रायं योनिशो मनसिकारो न द्वयचरितो बोधौ प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, न द्वयचरितो बोधौ ध्यानपारमितां (प्स्प्_2-3:108) वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां, न द्वयचरितो बोधौ दानपारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति. न द्वयचरितो बोधौ अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां योनिशो मनसिकरिष्यति. न द्वयचरितो बोधौ स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् योनिशो मनसिकरिष्यति. न द्वयचरितो बोधौ अष्टादशावेणिकान् बुद्धधर्मान् सर्वाकारज्ञतां योनिशो मनसिकरिष्यति. इति चतुर्थी स्तोभमात्रा
पुनर् अपरं कौशिक यः कश्चित् कुलपुत्रो वा कुलदुहिता वा अनेकपर्यायेण प्रज्ञापारमितां परेभ्यो देशयिष्यति विस्तरेण संप्रकाशयिष्यति भावयिष्यति विचरिष्यति उत्तानीकरिष्यति अर्थम् उपदेक्ष्यति. तत्रायं प्रज्ञापारमितार्थो ऽद्वये न प्रज्ञापारमितां द्रक्ष्यति न द्वये, न निमित्ततो नानिमित्ततः नायूहतो न निर्यूहतः, नोत्क्षेपतो न प्रक्षेपतः, न संक्लेशतो न व्यवदानतः, नोत्पादतो न निरोधतः, न ग्राहतो नोत्सर्गतः, न स्थानतो नास्थानतः, न भूततो नाभूततः, न योगतो नायोगतः, न शेषतो नाशेषतः, न प्रत्यंशतो नाप्रत्यंशतः न धर्मतो नाधर्मतः, न तथतातो नातथतातः, न भूतकोटितो नाभूतकोटितः. अयम् एव कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसविष्यति, य इमां प्रज्ञापारमितां परेभ्यो विस्तरेण संप्रकाशयिष्यति स्वाध्यास्यति देशयिष्यति भावयिष्यति उत्तानीकरिष्यति अर्थं चोपदेक्ष्यति. न त्व् एव यः केवलम् आत्मने चोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति. इति पञ्चमी स्तोभमात्रा
पुनर् अपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा स्वयं प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, तां च परेभ्यो विस्तरेण संप्रकाशयिष्यति प्रज्ञापयिष्यति प्रस्थापयिष्यति विभावयिष्यति उत्तानीकरिष्यति अर्थं चोपदेक्ष्यति, अयम् एव ततो बहुतरं पुण्यं प्रसविष्यति.
शक्र आह: एवम् एतद् भगवन्न् एवम् एतत् सुगत.
भगवान् आह: एवं खलु कौशिक कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमिता उपदेष्टव्या सार्था सव्यञ्जना, एवम् उपदिशन् कौशिक कुलपुत्रो वा (प्स्प्_2-3:109) कुलदुहिता वा अप्रमेयासंख्येयापरिमाणेन पुण्यस्कन्धेन समन्वागतो भविष्यति. इति षष्ठी स्तोभमात्रा
सचेत् कौशिक कुलपुत्रो वा कुलदुहिता वा दशसु दीक्ष्व् एकैकस्यां दिश्य् अप्रमेयान् असंख्येयान् अपरिमाणांस् तथागतान् अर्हतः सम्यक्संबुद्धान् यावज्जीवं सुखोपधानेन सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः, यड् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् अनेकपर्यायेण परेभ्यो विस्तरेण देशयेद् अर्थम् अस्या विज्ञापयेत् संप्रकाशयेद् विभावयेद् विचरेद् उत्तानीकुर्याद् अयम् एव ततः कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति. तत् कस्य हेतोर्? अत्र हि प्रज्ञापापारमितायां शिक्षित्वा तैर् अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते अभिसंभोत्स्यते च. इति सप्तमी स्तोभमात्रा
पुनर् अपरं कौशिक कुलपुत्रो वा कुलदुहिता वा असंख्येयान् अपरिमाणान् कल्पान् दानशीलक्षान्तिवीर्यध्यानप्रज्ञापारमितां परेभ्यो विस्तरेण संप्रकाशयेत् कथयेद् यावत् सूचयेत् तच् चानुपलम्भयोगेन, अयन् ततो बहुतरं पुण्यं प्रसवेत्. तत्र कौशिक कतम उपलम्भः? यद् बोधिसत्त्वस्योपलम्भयोगेन दानन् ददतः, एवं भवति; अहं दानन् ददामि, इदं दानन् ददामि, परस्मै दानन् ददतो दानम् एव स्थास्यति, न दानपारमिता. इदं शिलम्, अहं शीलवान्, अमून् सत्त्वान् रक्षामि नेयं शीलपारमिता. अहं क्षान्तिम् आरभे, इमां क्षान्तिं परस्मै क्षमामि, अस्यां क्षान्तौ स्थास्यामि, नेयं क्षान्तिपारमिता. अहं वीर्यम् आरभे, इदं वीर्यम् एषाम् अर्थाय, अस्मिन् विर्ये स्थास्यामि, नेयं वीर्यपारमिता. अहं ध्यानं समापत्स्ये, इदं ध्यानम् एषाम् अर्थाय समापत्स्ये, अत्र ध्याने स्थास्यामि, नेयं ध्यानपारमिता. अहं प्रज्ञां भावयामि, इयं प्रज्ञा एषाम् अर्थाय, अस्यां प्रज्ञायां स्थास्यामि, नायं प्रज्ञापारमिता. एवं हि कौशिक उपलम्भे चरितस्य कुलपुत्रस्य वा कुलदुहितुर् वा न दानपारमिता परिपूर्यते, न शीलपारमिता न क्षान्तिपारमिता न वीर्यपारमिता न ध्यानपारमिता, न प्रज्ञापारमिता परिपूर्यते.
शक्र आह: कथं चरतो भगवन् बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता परिपूर्यते? कथं शीलपारमिता परिपूर्यते? कथं क्षान्तिपारमिता (प्स्प्_2-3:110) परिपूर्यते? कथं वीर्यपारमिता परिपूर्यते? कथं ध्यानपारमिता परिपूर्यते? कथं प्रज्ञापारमिता परिपूर्यते?
भगवान् आह: इह कौशिक बोधिसत्त्वो महासत्त्वो दानन् ददन् न दायकम् उपलभते न प्रतिग्राहकम् उपलभते न देयम् उपलभते, इयम् उच्यते दानपारमिता. न शिलम् उपलभते न शीलवन्तं न सत्त्वम् उपलभते, इयम् उच्यते शीलपारमिता. न क्षान्तिम् उपलभते न क्षम्यं न क्षमिणम् उपलभते, इयम् उच्यते क्षान्तिपारमिता. न वीर्यम् उपलभते न कायं न चित्तम् उपलभते, इयम् उच्यते वीर्यपारमिता. न ध्यानम् उपलभते न ध्यायिनं न ध्यातव्यम् उपलभते, इयम् उच्यते ध्यानपारमिता. न प्रज्ञाम् उपलभते न प्रज्ञावन्तं न प्रज्ञेयम् उपलभते येषाम् अर्थाय भावयति, इयम् उच्यते प्रज्ञापारमिता. एवं चरतः कौशिक बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता परिपूर्यते, शीलपारमिता परिपूर्यते क्षान्तिपारमिता परिपूर्यते वीर्यपारमिता परिपूर्यते ध्यानपारमिता परिपूर्यते प्रज्ञापारमिता परिपूर्यते. एवं हि कौशिक कुलपुत्रस्य वा कुलदुहितुर् वा अनुपलम्भेनेयं प्रज्ञापारमिता सार्था सव्यञ्जनोपदेष्टव्या. एवं ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता दानपारमिता अनुपलम्भेनेयं सार्था सव्यञ्जनोपदेष्टव्या. तत् कस्य हेतोर्? भविष्यन्ति कौशिकानागते ऽध्वनि कुलपुत्राः कुलदुहितरश् च ते प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. तत्र कुलपुत्रस्य वा कुलदुहितुर् वा अनुत्तरायां सम्यक्संबोधौ संप्रस्थितस्य प्रज्ञापारमिताप्रतिवर्णिकाश्रवणेन विनाशयिष्यन्ति तेषाम् अपीयं प्रज्ञापारमिता सार्था सव्यञ्जनोपदेष्टव्या.
शक्र आह: कतमा सा भगवन् प्रज्ञापारमिताप्रतिवर्णिका?
भगवान् आह: इह कौशिक कुलपुत्रा वा कुलदुहितरो वा इमां प्रज्ञापारमिताम् उपदेक्ष्याम इति प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. तत्रेयं प्रज्ञापारमिताप्रतिवर्णिका रूपम् अनित्यम् इत्य् उपदेक्ष्यन्ति. वेदनासंज्ञासंस्कारा विज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति. एवं चोपदेक्ष्यन्ति य एवं च चरति स चरति प्रज्ञापारमितायाम् इति. येषाम् उपदेक्ष्यन्ति कुलपुत्राणां वा कुलदुहितृणां वा ते रूपम् अनित्यम् इति गवेषिष्यन्ति. एवं वेदनासंज्ञासंस्कारा विज्ञानम् अनित्यम् इति गवेषिष्यन्ति. ते प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. ते प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति. ते चक्षुर् अनित्यम् इत्य् उपदेक्ष्यन्ति. एवं श्रोत्रं घ्राणं जिह्वा कायो मनो ऽनित्यम् इत्य् उपदेक्ष्यन्ति. रूपम् अनित्यम् इत्य् उपदेक्ष्यन्ति. एवं शब्दा गन्धा रसाः स्प्रष्टव्या धर्मा अनित्या इत्य् उपदेक्ष्यन्ति. पृथिवीधातुम् अनित्य इत्य् उपदेक्ष्यन्ति. अब्धातुं तेजोधातुं वायुधातुम् (प्स्प्_2-3:111) आकाशधातुं विज्ञानधातुम् अनित्य इत्य् उपदेक्ष्यन्ति. चक्षुर्धातुम् अनित्य इत्य् उपदेक्ष्यन्ति. श्रोत्रधातुं घ्राणधातुं जिह्वाधातुं कायधातुं मनोधातुम् अनित्य इत्य् उपदेक्ष्यन्ति. रूपधातुम् अनित्य इत्य् उपदेक्ष्यन्ति. शब्दधातुम् अनित्य इत्य् उपदेक्ष्यन्ति. गन्धधातुं रसधातुं स्प्रष्टव्यधातुं धर्मधातुम् अनित्य इत्य् उपदेक्ष्यन्ति. चक्षुर्विज्ञानधातुम् अनीत्य इत्य् उपदेक्ष्यन्ति. श्रोत्रविज्ञानधातुं घ्राणविज्ञानधातुं जिह्वाविज्ञानधातुं कायविज्ञानधातुं मनोविज्ञानधातुम् अनित्य इत्य् उपदेक्ष्यन्ति. चक्षुःसंस्पर्शधातुनि अनित्य इत्य् उपदेक्ष्यन्ति. श्रोत्रसंस्पर्शधातुं घ्राणसंस्पर्शधातुं जिह्वासंस्पर्शधातुं कायसंस्पर्शधातुं मनःसंस्पर्शधातुम् अनित्य इत्य् उपदेक्ष्यन्ति. चक्षुःसंस्पर्शप्रत्यया वेदना अनित्या इत्य् उपदेक्ष्यन्ति. एवं श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शप्रत्यया वेदना अनित्या इत्य् उपदेक्ष्यन्ति. रूपं दुःखम् अनित्यम् अनात्मेत्य् अशुभम् इत्य् उपदेक्ष्यन्ति. वेदनासंज्ञासंस्कारा विज्ञानं दुःखम् अनित्यम् अनात्मेत्य् अशुभम् इत्य् उपदेक्ष्यन्ति. पृथिवीधातुं दुःख इत्य् अनात्मेत्य् अशुभ इत्य् उपदेक्ष्यन्ति. अब्धातुं तेजोधातुं वायुधातुम् आकाशधातुं विज्ञानधातुं दुःख इत्य् अनात्मेत्य् अशुभ इत्य् उपदेक्ष्यन्ति. रूपशब्दगन्धरसस्पर्शधर्मा दुःखा इति अनात्मान इत्य् अशुभा इत्य् उपदेक्ष्यन्ति. चक्षुर् दुःखम् इत्य् अनात्मेत्य् अशुभम् इत्य् उपदेक्ष्यन्ति. श्रोत्रं घ्राणं जिह्वा कायो मनो दुःखम् इत्य् अनात्मेत्य् अशुभम् इत्य् उपदेक्ष्यन्ति. रूपधातुं शब्दधातुं गन्धधातुं रसधातुं स्प्रष्टव्यधातुं धर्मधातुं दुःख इत्य् अनात्मेत्य् अशुभ इत्य् उपदेक्ष्यन्ति. चक्षुर्धातुं दुःख इत्य् अनात्मेत्य् अशुभ इत्य् उपदेक्ष्यन्ति. श्रोत्रधातुं घ्राणधातुं जिह्वाधातुं कायधातुं मनोधातुं दुःख इत्य् अनात्मेत्य् अशुभ इत्य् उपदेक्ष्यन्ति. चक्षुर्विज्ञानधातुं दुःख इत्य् अनात्मेत्य् अशुभ इत्य् उपदेक्ष्यन्ति, श्रोत्रविज्ञानधातुं घ्राणविज्ञानधातुं जिह्वाविज्ञानधातुं कायविज्ञानधातुं मनोविज्ञानधातुं दुःख इत्य् अनात्मेत्य् अशुभ इत्य् उपदेक्ष्यन्ति. चक्षुःसंस्पर्शधातुं चक्षुःसंस्पर्शप्रत्यया वेदना दुःखेत्य् अनात्मिकेत्य् अशुभेत्य् उपदेक्ष्यन्ति. एवं श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शधातुं श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शप्रत्यया वेदना दुःखेत्य् अनात्मेत्य् (प्स्प्_2-3:112) अशुभेत्य् उपदेक्ष्यन्ति. एवं ते प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. एवं ध्यानपारमिताप्रतिवर्णिकां वीर्यपारमिताप्रतिवर्णिकां क्षान्तिपारमिताप्रतिवर्णिकां शीलपारमिताप्रतिवर्णिकां दानपारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. एवं रूपं वेदनासंज्ञासंस्कारा विज्ञानम् अनित्यं दुःखम् अनात्माशुभम् इत्य् उपदेक्ष्यन्ति. यावच् चक्षू रूपं चक्षुर्विज्ञानधातुम् अनित्यो दुःखो ऽनात्माशुभ इत्य् उपदेक्ष्यन्ति. एवं यावच् छ्रोत्रघ्राणजिह्वाकायमनोविज्ञानधातुम् अनित्यो दुःखो ऽनात्माशुभ इत्य् उपदेक्ष्यन्ति. एवं प्रज्ञापारमिता अनित्या दुःखानात्माशुभेत्य् उपदेक्ष्यन्ति. एवं ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता दानपारमिता अनित्या दुःखानात्माशुभेत्य् उपदेक्ष्यन्ति. एवम् अप्रमाणध्यानारूप्यसमापत्तीर् अनित्या दुःखानात्मानोशुभा इत्य् उपदेक्ष्यन्ति, प्रज्ञापार्मितायां चरन्तः. एवम् उपदेक्ष्यन्ति स्मृत्युपस्थानान्य् अनित्यानि दुःखान्य् अनात्मान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् अनित्या दुःखा अनात्मानो ऽशुभा इत्य् उपदेक्ष्यन्ति प्रज्ञापारमितायां चरन्तो यावत् सर्वाकारज्ञताम् अनित्या दुःखानात्माशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, इयं कौशिक प्रज्ञापारमिताप्रतिवर्णिका.
पुनर् अपरं कौशिक ते कुलपुत्रा वा कुलदुहितरो वा प्रज्ञापारमिताम् उपदिशन्त एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय स त्वं प्रज्ञापारमितां भावयमानः प्रथमायां भूमौ स्थास्यसि यावद् दशम्यां भूमौ स्थास्यसि. एवं ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां भावयमानः प्रथमायां भूमौ स्थास्यसि यावद् दशम्यां भूमौ स्थास्यसि. तच् च निमित्तयोगेनोपलम्भयोगेन सर्वाकारसंज्ञया प्रज्ञापारमितां भावयिष्यति, इयं सा कौशिक प्रज्ञापारमिताप्रतिवर्णिका.
पुनर् अपरं कौशिक ते कुलपुत्रा वा कुलदुहितरो वा एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय स त्वं प्रज्ञापारमितां भावयमानः श्रावकभूमिं समतिक्रमिष्यसि, प्रत्येकबुद्धभूमिं समतिक्रमिष्यसि, इयं सा कौशिक प्रज्ञापारमिताप्रतिवर्णिका.
(प्स्प्_2-3:113)
पुनर् अपरं कौशिक ते कुलपुत्रा वा कुलदुहितरो वा तेषां महायानिकानां कुलपुत्राणां वा कुलदुहितृणां वा प्रज्ञापारमिताम् उपदिशन्त एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय स त्वं प्रज्ञापारमितां भावयमानो बोधिसत्त्वनियामम् अवक्रमिष्यसि, इयं सा कौशिक प्रज्ञापारमिताप्रतिवर्णिका.
पुनर् अपरं कौशिक ते कुलपुत्रा वा कुलदुहितरो वा प्रज्ञापारमिताम् उपदिशमाना एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय स त्वं प्रज्ञापारमितां भावयमानो ऽनुत्पत्तिकधर्मक्षान्तिं प्रतिलप्स्यसे स त्वम् अनुत्पत्तिकधर्मक्षान्तिं प्रतिलभ्य बोधिसत्त्वाभिज्ञासु स्थास्यसि स त्वम् अभिज्ञासु स्थित्वा बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रमिष्यसि बुद्धानां भगवतां सत्करणाय गुरुकरणाय माननाय पूजनायार्चनायापचायनाय, एवम् उपदेक्ष्यन्ति. एवम् उपदिशमानाः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्रा वा कुलदुहितरो वा तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां वा कुलदुहितृणां वा एवम् उपदेक्ष्यन्ति, यः कुलपुत्रः प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशो मनसिकरिष्यति सो ऽसंख्येयम् अप्रमेयम् अपरिमाणं पुण्यस्कन्धं प्रसविष्यति. एवं चोपदिशमानाः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्रा वा कुलदुहितरो वा तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितृणाम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र अतीतानागतप्रत्युत्पन्नानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां यत् कुशलमूलं प्रथमचित्तोत्पादम् उपादाय यावद् अनुपधिशेषे निर्वाणधातौ परिनिर्वृतानां तत् सर्वम् अनुमोद्य एकतः पिण्डीकृत्यानुत्तरायै सम्यक्संबोधये परिणामय. एवम् उपदिशमानाः कौशिक ते कुलपुत्र वा कुलदुहितरो वा प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
शक्र आह: कथम् उपदिशन्तस् ते कुलपुत्रा वा कुलदुहितरो वा तेषां बोधिसत्त्वयानसंप्रस्थितानां कुलपुत्राणां वा कुलदुहितृणां वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति?
(प्स्प्_2-3:114)
भगवान् आह: इह कौशिक कुलपुत्रा वा कुलदुहितरो वा तेषां बोधिसत्त्वयानसंप्रस्थितानां कुलपुत्राणां कुलदुहितृणां वा प्रज्ञापारमिताम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावयमानो रूपम् अनित्यतो मा द्राक्षीस्. तत् कस्य हेतोः? रूपं रूपस्वभावेन शून्यं, यश् च रूपस्वभावः सो ऽभावो, यश् चाभावः सा प्रज्ञापारमिता, या प्रज्ञापारमिता तत्र रूपन् न नित्यम् इति वा अनित्यम् इति वा व्यपदिश्यते. तत् कस्य हेतोस्? तथा हि रूपम् एव तत्र न संविद्यते. कुतो नित्यं वा अनित्यं वा भविष्यति? एवं चोपदिशन्तस् ते कौशिक कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. एवं वेदनासंज्ञासंस्कारा विज्ञानम् अनित्यतो मा द्राक्षीस्. तत् कस्य हेतोर्? विज्ञानं विज्ञानस्वभावेन शून्यं, यश् च विज्ञानस्वभावः सो ऽभावो, यश् चाभावः सा प्रज्ञापारमिता, या प्रज्ञापारमिता तत्र विज्ञानं न नित्यम् इति वा अनित्यम् इति वा व्यपदिश्यते. तत् कस्य हेतोस्? तथा हि विज्ञानम् एव तत्र न संविद्यते. कुतो नित्यं वा अनित्यं वा भविष्यति? एवम् उपदिशन्तस् ते कौशिक कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गेषु सर्वपारमितासु सर्वशून्यतासु सर्वसमाधिषु सर्वधारणीमुखेषु सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु सत्येष्व् अष्टविमोक्षेषु नवानुपूर्वविहारसमापत्तिष्व् अप्रमाणध्यानारूप्यसमापत्तिषु शून्यतानिमित्ताप्रणिहितेषु षट्स्व् अभिज्ञासु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु कर्तव्यम्. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च त्वं कुलपुत्र सर्वज्ञताम् अनित्यतो द्राक्षीस्. तत् कस्य हेतोस्? तथा हि सर्वज्ञता सर्वज्ञतास्वभावेन शून्या, यष् च सर्वज्ञतायाः स्वभावः सो ऽभावो, यो ऽभावः सा प्रज्ञापारमिता, या प्रज्ञापारमिता न तत्र सर्वज्ञताया नित्यता वा अनित्यता वा व्यपदिश्यते. तत् कस्य हेतोस्? तथा हि सर्वज्ञतैव न संविद्यते. कुतः पुनर् नित्यता वा अनित्यता वा भविष्यति? एवं चोपदिशन्तः. कौशिक कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक कुलपुत्रा वा कुलदुहितरो वा तेषां महायानिकानां कुलपुत्राणां वा कुलदुहितृणां वा एवं न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति, (प्स्प्_2-3:115) एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च त्वं कंचिद् धर्मं द्राक्षीः, मा च कस्मिंचिद् धर्मे स्थाः. तत् कस्य हेतोस्? तथा हि प्रज्ञापारमितायां न स धर्मः संविद्यते यो धर्मो द्रष्टव्यो यत्र वा प्रतिष्ठातव्यः. तत् कस्य हेतोस्? तथा हि कौशिक सर्वधर्मा स्वभावेन शून्याः, यश् च धर्मः स्वभावेन शून्यः सो ऽभावो, यश् चाभावः सा प्रज्ञापारमिता, या प्रज्ञापारमिता सा न कस्यचिद् धर्मस्यायुहलं वा निर्यूहलं वा उत्पादो वा निरोधो वा उच्छेदो वा शश्वतो वा एकार्थता वा नानार्थता वा आगमो वा निर्गमो वा. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. तस्मात् तर्हि कौशिक कुलपुत्रेण वा कुलदुहित्रा वा एवं प्रज्ञापारमिताया अर्थो व्यपदेष्टव्यः. एवम् उपदिशन् कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति. न त्व् एव ते पूर्वकाः कुलपुत्राः कुलदुहितरश् च. इत्य् अष्टमी स्तोभमात्रा
पुनर् अपरं कौशिक ये जाम्बुद्वीपकाः सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो नैकैः पर्यायैः कथयिष्यति देशयिष्यति विभावयिष्यति उत्तानीकरिष्यति संप्रकाशयिष्यति. एवं च वक्ष्यन्ति एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृह्णीष्व पर्यवाप्नुहि धारय वाचय योनिशो मनसिकुरु यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोर्? अतो हि कौशिक प्रज्ञापारमितायाः स्रोतआपन्नश् च स्रोतआपत्तिफलं च प्रभाव्यते. तिष्ठन्तु कौशिक जाम्बुद्वीपकाः सर्वसत्त्वाः स्रोतआपत्तिफले विनीतास्, तिष्ठन्तु चातुर्द्वीपकाः सर्वसत्त्वाः स्रोतआपत्तिफले विनीतास्, तिष्ठन्तु साहस्रे लोकधातौ सर्वसत्त्वाः स्रोतआपत्तिफले विनीतास्, तिष्ठन्तु द्विसाहस्रे लोकधातौ सर्वसत्त्वाः स्रोतआपत्तिफले विनीताः. तिष्ठन्तु कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्व्स्ः स्रोतआपत्तिफले विनीताः, यावन्तः कौशिक पूर्वस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु सर्वसत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा (प्स्प्_2-3:116) स्रोतआपत्तिफले प्रतिष्ठापयेत्. एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्षूर्ध्वम् अधो गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति. य इमां प्रज्ञापारमितां परेभ्यः. सार्थां सव्यञ्जनां विस्तरेण कथयेद् देशयेद् अर्थम् अस्याः संप्रकाशयेद् विभजेद् विभावयेद् विचरेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृह्णीष्व पर्यवाप्नुहि धारय वाचय योनिशो मनसिकुरु यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोर्? अतो हि कौशिक प्रज्ञापारमितायाः स्रोतआपन्नः प्रभाव्यते.
इति नवमी स्तोभमात्रेत्य् उक्तः स्तोभः
पुनर् अपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा यावन्तो जाम्बुद्वीपकाः सत्त्वास् तान् सर्वान् सकृदागामिफले प्रतिष्ठपयेत्. इति प्रथमा प्रशंसामात्रा
यावद् अनागामिफले प्रतिष्ठापयेत्. इति द्वितीया प्रशंसामात्रा
यावद् अर्हत्त्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेणोपदिशेत् कथयेत् संप्रकाशयेद् विभजेद् विभावयेद् विचरेद् उत्तानीकुर्याद्, एवं वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशो मनसिकुरु यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोर्? अतो हि कौशिक प्रज्ञापारमितायाः सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रज्ञायते. तिष्ठन्तु कौशिक जाम्बुद्वीपकाः सत्त्वाः सकृदागाम्य् अनागाम्य् अर्हत्त्वे विनीता यः कश्चित् कुलपुत्रो वा कुलदुहिता वा चातुर्द्वीपकान् सर्वसत्त्वान् अर्हत्त्वे प्रतिष्ठापयेत्. साहस्रे लोकधातौ सर्वसत्त्वान् अर्हत्त्वे प्रतिष्ठापयेत्. द्विसाहस्रे लोकधातौ सर्वसत्त्वान् अर्हत्त्वे प्रतिष्ःआपयेत्. त्रिसाहस्रे (प्स्प्_2-3:117) लोकधातौ सर्वसत्त्वान् अर्हत्त्वे प्रतिष्ठापयेत्, यावन्तः कौशिक पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वास् तान् सर्वान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा यावद् अर्हत्त्वे प्रतिष्ठापयेत्. एवं दक्षिणस्यां दिशि पश्चिमायाम् उत्तरस्यां दिशि विदिक्षूर्ध्वम् अधो गङ्गानदीवालुक्पमेषु लोकधातुषु सर्वसत्त्वास् तान् सर्वान् यावद् अर्हत्त्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यः संप्रकाशयेद् देशयेत् कथयेद् विभावयेद् विचरेद् उत्तानीकुर्याद्, एवं वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशो मनसिकुरु यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्यस्व. अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोर्? अतो हि कौशिक प्रज्ञापारमितायाः सकृदागाम्यनागाम्यर्हन्तः प्रज्ञायन्ते. इति तृतिया प्रशंसामात्रा
पुनर् अपरं कौशिक यावन्तो दशसु दिक्षु गङ्गानदीवालुक्पमेषु लोकधातुष्व् एकैकस्यां दिशि सत्त्वास् तान् सर्वान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबुद्धत्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनाम् अर्थिकेभ्यः छन्दिकेभ्यो विस्तरेणोपदिशेत् कथयेत् संप्रकाशयेद् विभावयेद् विचरेद् उत्तानीकुर्याद्, एवं च कथयेद् एवं वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशो मनसिकुरु यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोर्? अतो हि कौशिक प्रज्ञापारमितायाः प्रत्येकबुद्धः प्रभाव्यते. इति चतुर्थी प्रशंसामात्रा
पुनर् अपरं कौशिक ये जाम्बुद्वीपे सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ समादापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
(प्स्प्_2-3:118)
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेत् कथयेद् देशयेत् संप्रकाशयेद् विभावयेद् विचरेद् उत्तानीकुर्याद्, एवं वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण धारय वाचय देशय संप्रकाशय पर्यवाप्नुहि योनिशो मनसिकुरु यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्यस्व. यथायथा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे तथातथा त्वं कुलपुत्र सर्वज्ञताया लाभी भविष्यसि. यथायथा च ते सर्वज्ञतापरिपूरिं गमिष्यति तथातथा च ते भूयस्या मात्रया प्रज्ञापारमिताभावनापरिपूरिं गमिष्यति. यथायथा च ते प्रज्ञापारमिताभावनापरिपूरिं गमिष्यति तथातथा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोर्? अतो निर्जाता हि कौशिक प्रथमचित्तोत्पादिका बोधिसत्त्वा, ये च केचन दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसत्त्वास् तेषाम् अपि सर्वेषां प्रज्ञापारमितानिर्जाता प्रथमचित्तोत्पादिका भूमिः. इति पञ्चमी प्रशंसामात्रा
यायन्तश् चातुर्द्वीपकाः सत्त्वाः इति षष्ठी प्रशंसामात्रा
यायन्तः साहस्रे सत्त्वाः. इति सप्तमी प्रशंसामात्रा
यायन्तो द्विसाहस्रे त्रिसाहस्रे सत्त्वाः.
पुनर् अपरं कौशिक यः कश्चित् कुलपुत्रो वा कुलदुहिता वा ये दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् सर्वान् अनुत्तरायां सम्यक्संबोधौ समादापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेद् यावत् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण धारय वाचय देशय संप्रकाशय पर्यवाप्नुहि योनिशो मनसिकुरु यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्यस्व. यथायथा (प्स्प्_2-3:119) त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे तथातथा त्वं कुलपुत्र सर्वज्ञताया लाभी भविष्यसि. यथायथा ते सर्वज्ञतापरिपूरिं गमिष्यति तथातथा ते भूयस्या मात्रया प्रज्ञापारमिताभावनापरिपूरिं गमिष्यति. यथायथा ते प्रज्ञापारमिताभावनापरिपूरिं गमिष्यति तथातथा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोर्? अतो निर्जाता हि कौशिक प्रथमचित्तोत्पादिका बोधिसत्त्वा ये च केचन दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसत्त्वास् तेषाम् अपि सर्वेषां प्रज्ञापारमितानिर्जाता प्रथमचित्तोत्पादिका भूमिः. इत्य् अष्टमी प्रशंसामात्रा
पुनर् अपरं कौशिक यावन्तो जाम्बुद्वीपकास् सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अविनिवर्तनीयभूमौ प्रतिष्ठापयेद् यश् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां तेषां सर्वसत्त्वानां सार्थां सव्यञ्जनाम् उपदिशेद् यावत् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र इमां प्रज्ञापारमिताम् उद्गृह्णीष्व धारय वाचय पर्यवाप्नुहि योनिशो मनसिकुरु यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्यस्व, यथायथा त्वं यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे तथातथा त्वं प्रज्ञापारमितायां शिक्षमाणो ऽविनिवर्तानीयत्वे स्थास्यसि, अनुपूर्वेण चानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे, अयं कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यावन्तश् चातुर्द्वीपके लोकधातौ सत्त्वा यावत् साहस्रे लोकधातौ सर्वसत्त्वा यावद् द्विसाहस्रे लोकधातौ सर्वसत्त्वा यावन्तश् च त्रिसाहस्रमहासाहस्रे लोहधातौ सर्वसत्त्वा यावद् दशसु दिक्ष्व् एकैकस्यां दिशि गन्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहित वा अविनिवर्तनीयभूमौ प्रतिष्ठापयेद्, यश् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां तेषां सत्त्वानाम् उपदिशेद् यावत् संप्रकाशयेत् सार्थां सव्यञ्जनाम्, एवं वदेद् एहि त्वं कुलपुत्र इमां प्रज्ञापारमिताम् उद्गृहाण धारय वाचय देशय संप्रकाशय पर्यवाप्नुहि योनिशो मनसिकुरु यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्यस्वात्र हि त्वं प्रतिपद्यमानो ऽविनिवर्तनीयभूमौ स्थास्यसि, अनुपूर्वेणानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्.
पुनर् अपरं कौशिक यः कश्चित् कुलपुत्रो वा कुलदुहिता वा यावन्तो (प्स्प्_2-3:120) जाम्बुद्वीपकाः सत्त्वास् तान् सर्वान् अविनिवर्तनीयत्वे स्थापयेद् अनुत्तरायां सम्यक्संबोधौ तेभ्यश् च प्रज्ञापारमिताम् उपदिशेत् संप्रकाशयेद् विभावयेद् विचरेद् उत्तानीकुर्याद् विभजेत् सार्थां सव्यञ्जनां तेभ्यो ऽन्यतरेभ्यो ब्रूयाद् अहं क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्य इति, तस्मिन् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां विस्तरेण सार्थं सव्यञ्जनाम् उपदिशेद् देशयेत् संप्रकाशयेद् विभावयेद् विभजेद् विस्तरेणोत्तानिकुर्याद् अयम् एव ततो बहुतरं पुण्यं प्रसवेद् यावद् दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अविनिवर्तनीयत्वे स्थापयेत् तेभ्यः कश्चिद् एव इमां प्रज्ञापारमिताम् उपदिशेत् तेभ्यश् चैकः कश्चिद् एवं ब्रूयाद् अहं क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्य इति, यश् च तस्मै इमां प्रज्ञापारमिताम् उपदिशेद् देशयेत् संप्रकाशयेद् विभावयेद् विचरेद् उत्तानीकुर्याद् विभजेत् सार्थां सव्यञ्जनाम् अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोर्? अवैवर्तिकेभ्यो हि बोधिसत्त्वेभ्यो ऽत्यर्थं धर्म उपदेष्टव्यो नियता हि ते संबोधिपरायणा न ते भूयो विनिवर्तन्ते ऽनुत्तरायाः सम्यक्संबोधेर् अमी भूत्कण्ठिताः संसाराद् महाकरुणासंपीडिताश् च. इति नवमी प्रशंसामात्रेत्य् उक्त्वा प्रशंसा
शक्र आह: यथायथा भगवन् बोधिसत्त्वो महासत्त्व आसन्नीभवत्य् अनुत्तरायाः सम्यक्संबोधेस् तथातथा बोधिसत्त्वो महासत्त्वो ऽववदितव्यो ऽनुशासनीयः प्रज्ञापारमितायां ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायाम् अववदितव्यो ऽनुशासितव्यः, सर्वशून्यतास्व् अववदितव्यो ऽनुशासितव्यः, स्मृत्युपस्थाणेषु सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेष्व् अववदितव्यो ऽनुशासितव्यः, अप्रमाणध्यानारूप्यसमापत्तिष्व् आर्यसत्येषु शून्यतानिमित्ताप्रणिहितेष्व् अववदितव्यो ऽनुशासितव्यः, अष्टविमोक्षेषु नवानुपूर्वविहारसमापत्तिष्व् अभिज्ञास्व् अववदितव्यो ऽनुशासितव्यः, सर्वसमाधिषु सर्वधारणीमुखेषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशास्व् आवेणिकेषु बुद्धधर्मेष्व् अववदितव्यो ऽनुशासितव्यः चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् अनुग्राह्यः, स च बोधिसत्त्वो महासत्त्वो धर्मामिषासंग्रहाभ्याम् अनुग्रहितव्यः. अयम् एव धर्मामिषानुग्राहकस् ततो बहुतरं (प्स्प्_2-3:121) पुण्यं प्रसवेत्. तत् कस्य हेतोः? एवम् एतद् भवति यद् बोधिसत्त्वो महासत्त्वः पारमितास्व् अववाद्यते ऽनुशास्यते. सर्वशून्यतासु सर्वबोधिपक्ष्येषु धर्मेष्व् अप्रमाणध्यानारूप्यसमापत्तिष्व् आर्यसत्येषु शून्यतानिमित्ताप्रणिहितेष्व् अभिज्ञासु समाधिषु सर्वधारणीमुखेषु दशसु तथागतबलेषु वैशारद्येषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेष्व् अवबोध्यते ऽनुशास्यते.
अथ खल्व् आयुष्मान् सुभूतिः शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: साधु साधु कौशिक यस् त्वं बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितृणां चोत्साहं ददासि, एवम् एव त्वया करणीयं य आर्यश्रावकाः सत्त्वान् अनुग्रहीतुकामास् ते बोधिसत्त्वानां महासत्त्वानाम् अनुग्रहं कुर्वन्ति, अनुत्तरायां सम्यक्संबोधौ अनुगृह्णन्ति धर्मामिषानुग्रहाभ्यां चानुपालयन्ति. तत् कस्य हेतोर्? अतः प्रभवो हि भगवतः श्रावकसंघः, अतः प्रत्येकबुद्धयानम् अतो महायानम्. यदि हि बोधिसत्त्वेन महासत्त्वेनानुत्तरायां सम्यक्संबोधौ चित्तं नोत्पादितम् अभविष्यत्, तदा बोधिसत्त्वो महासत्त्वो नाशिक्षिष्यत् षट्सु पारमितासु न सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु नार्यसत्येषु नाष्टसु विमोक्षेषु न नवानुपूर्वविहारसमापत्तिषु नाप्रमाणध्यानारूप्यसमापत्तिषु न षट्सु पारमितासु न शून्यतानिमित्ताप्रणिहितेषु नाध्यात्मशून्यतायां न बहिर्धाशून्यतायां नाध्यात्मबहिर्धाशून्यतायां यावन् नाभावस्वभावशून्यतायां न सर्वसमाधिषु न सर्वधारणीमुखेषु न तथागतबलेषु न वैशारद्येषु न प्रतिसंवित्सु नाष्टादशास्व् आवेणिकेषु बुद्धधर्मेष्व् अशिक्षिष्यताशिक्षमाणे न तेषु धर्मेषु नानुत्तरां सम्यक्संबोधिम् अभिसंबुध्येत अनभिसंबुध्यमाने तस्मिन् नानुत्तरा सम्यक्संबोधिः प्रज्ञायेत न प्रत्येकबुद्धबोधिर् न श्रावकबोधिः. यस्मात् तर्हि कौशिक बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु सर्वशून्यतासु सर्वसमाध्हिषु सर्वधारणीमुखेषु शून्यतानिमित्ताप्रणिहितेषु सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेष्व् अप्रमाणध्यानारूप्यसमापत्तिष्व् आर्यसत्येषु चाष्टसु विमोक्षेषु नवानुपूर्वविहारसमापत्तिषु षट्स्व् अभिज्ञासु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु यावत् सर्वधर्मेषु शिक्षते, तस्माद् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सर्वलोकधातोर् निरयान् उच्छीनत्ति, तिर्यग्योनिं पितृविषयम् उच्छीनत्ति. क्षत्रियमहाशालकुलप्रादुर्भावो भवति. ब्राह्मणमहाशालकुलप्रादुर्भावो भवति. गृहपतिमहाशालकुलप्रादुर्भावो भवति. चातुर्महाराजकायिकानां प्रादुर्भावो भवति. त्रायस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां ब्रह्मपार्षद्यानां ब्रह्मपुरोहितानां (प्स्प्_2-3:122) महाब्रह्माणां परीत्ताभानाम् अप्रमाणाभानाम् आभास्वराणां परीत्तशुभानाम् अप्रमाणशुभानां शुभकृत्स्नानाम् अनभ्रकानां पुण्यप्रसवानां बृहत्फलानां सुद्धावासानाम् अवृहाणाम् अतपानां सुदृशानां सुदर्शनानाम् अकनिष्ठानाम् आकाशानत्यायतनोपगानां देवानां विज्ञानानन्त्यायतनोपगानां देवानाम् अकिञ्चन्यायतनोपगानां देवानां नैवसंज्ञानासंज्ञायतनोपगानां देवानां लोके प्रादुर्भावो भवति. दानपारमिताया लोके प्रादुर्भावो भवति. शीलपारमिताया लोके प्रादुर्भावो भवति. क्षान्तिपारमिताया लोके प्रादुर्भावो भावति. वीर्यपारमिताया लोके प्रादुर्भावो भवति. ध्यानपारमिताया लोके प्रादुर्भावो भवति. प्रज्ञापारमिताया लोके प्रादुर्भावो भवति. अध्यात्मशून्यताया बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावद् अभावस्वभावशून्यताया लोके प्रादुर्भावो भवति. सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणां चतुर्णाम् आर्यसत्यानां लोके प्रादुर्भावो भवति. अप्रमाणध्यानारूप्यसमापत्तीनाम् अष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां शून्यतानिमित्ताप्रणिहितानां षण्णाम् अभिज्ञानां लोके प्रादुर्भावो भवति. सर्वसमाधीनां सर्वधारणीमुखानां बोधिसत्त्वभूमीनां लोके प्रादुर्भावो भवति. दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां लोके प्रादुर्भावो भवति. सर्वज्ञताया लोके प्रादुर्भावो भवति. श्रावकयानस्य प्रत्येकबुद्धयानस्य महायानस्य च लोके प्रादुर्भावो भवति.
इति स्तुत्य् आदि पदार्थोपसंहारः कृतः
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वः सुभूतिं स्थविरम् एतद् अवोचत्: यद् भदन्त सुभूते बोधिसत्त्वस्य महासत्त्वस्यानुमोदनासहगतं पुण्यक्रियावस्तु सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामितं तच् चानुपलम्भयोगेन. यच् च सर्वसत्त्वानाम् अनुमोदनासहगतं पुण्यक्रियावस्तु, यच् च श्रावकयानसंप्रस्थितानां, यच् च प्रत्येकबुद्धयानसंप्रस्थितानां दानमयं पुण्यक्रियावस्तु शीलमयं पुण्यक्रियावस्तु भावनामयं पुण्यक्रियावस्तु ततो बोधिसत्त्वस्य महासत्त्वस्यानुमोदनासहगतं पुण्यक्रियावस्तु सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामितम् अग्रम् आख्यायते श्रेष्ठम् आख्यायते ज्येष्ठम् आख्यायते वरम् आख्यायते प्रवरम् आख्यायते प्रणीतम् आख्यायते (प्स्प्_2-3:123) उत्तमम् आख्यायते ऽनुत्तमम् आख्यायते. असमम् आख्यायते असमसमम् आख्यायते. इति विशेषपरिणामः
तत् कस्य हेतोस्? तथा हि यत् सर्वश्रावकप्रत्येकबुद्धयानिकानां दानमयं शीलमयं भावनामयं पुण्यक्रियावस्तु सर्वं तद् आत्मदमनाय आत्मशमनाय आत्मपरिनिर्वाणाय यावत् सप्तत्रिंशद्बोधिपक्ष्या धर्माः शून्यतानिमित्ताप्रणिहितं चत्वार्य् आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः, अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयश् चतस्रः प्रतिसंविदः षड् अभिज्ञा आत्मदमनाय आत्मशमनाय आत्मपरिनिर्वाणाय भवन्ति. बोधिसत्त्वस्य महासत्त्वस्य पुनर् अनुमोदनासहगतं पुण्यक्रियावस्तु सर्वसत्त्वानां दमनाय शमनाय परिनिर्वाणाय अनुत्तरायै सम्यक्संबोधये परिणामितं भवति. इति परिणामनाकारित्रम्
अथ खल्व् आयुष्मान् सुभूतिर् मैत्रेयं बोधिसत्त्वं महासत्त्वम् एतद् अवोचत्: यत् पुनर् अयं मैत्रेय बोधिसत्त्व ये ते बुद्धा भगवन्तः पूर्वस्यां दिश्य् असंख्येयाप्रमेयापरिमाणेषु लोकधातुषु, एवं दक्षिणपश्चिमोत्तरासु दिग्विदिक्षूर्ध्वम् अधः, एकैकस्यां दिशि यावद् असंख्येयाप्रमेयापरिमाणा बुद्धा भगवन्तः परिनिर्वृतास् तेषां यावत् प्रथमचित्तोत्पादम् उपादाय यावच् चानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धानां यावद् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतानां यावत् सद्धर्मो नान्तर्हितः, एतस्मिन्न् अन्तरे यत् कुशलमूलम् षट्पारमितिआप्रतिसंयुक्तं, यच् च तेषां श्रावकयानिकानां, यच् च प्रत्येकबुद्धयानिकानां दानमयं शीलमयं भावनाम्यं पुण्यक्रियावस्तु, यानि च शैक्षान्य् अनास्रवाणि कुशलमूलानि, यानि चाशैक्षाण्य् अनास्रवाणि कुशलमूलानि, यश् च तेषां तथागतानां शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः, या च हितैषिता, या च महामैत्री, या च महाकरुणा, अप्रमेयासंख्येयाश् च बुद्धधर्मा, यश् च तैर् बुद्धैर् भगवद्भिर् धर्मो देशितो, ये च तत्र धर्मदेशनायाः स्रोतआपत्तिफलं प्राप्ताः सकृदागामिफलं प्राप्ता अनागामिफलं प्राप्ता अर्हत्त्वं प्राप्ताः प्रत्येकबोधिं प्राप्ता बोधिसत्त्वनियामम् अवक्रान्तास् तेषां यानि कुशलमूलानि, यैश् च तत्र तथागतेष्व् अर्हत्सु वा परिनिर्वृतेषु वा कुशलमूलान्य् अवरोपितानि तत् सर्वम् अभिसंक्षिप्याग्रया अनुमोदनया ज्येष्ठया श्रेष्ठया वरया प्रवरया उत्तमया अनुत्तमया असमया असमसमया (प्स्प्_2-3:124) अनुमोदनया अनुमोदते, अनुमोद्यानुमोदनासहगतं कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयत्य् अनुत्तरायाः सम्यक्संबोधेर् आहारकं भवत्व् इति.
यत् पुनर् अयं माहायानिक एवं तथा चित्तं परिणामयति यैर् आरम्बणैर् यैर् वस्तुभिस् तच् चित्तम् उत्पादितम्, अपि नु तानि वस्तूनि तान्य् आरम्बणानि तथा संविद्यन्ते तथोपलभ्यन्ते यथा तैर् महायानिकैः कुलपुत्रैर् निमित्तीकृतानि?
मैत्रेय आह: न तानि भदन्त सुभूते वस्तूनि, न तान्य् आरम्बणानि तथोपलभ्यन्ते यथा तैर् महायानिकैः कुलपुत्रैर् निमित्तीकृत्यानुत्तरायां सम्यक्संबोधौ परिणामिताम्.
सुभूतिर् आह: यदि तावद् असंविद्यमानैर् वस्तुभिर् असंविद्यमानैर् आरम्बणैस् ते बुद्धा भगवन्तो निमित्तीकृतास् तदा ये ते दशसु दिक्षु सर्वदिग्लोकधातुप्रसरेषु तिष्ठन्ति ध्रियन्ते यापयन्ति तेषां यानि कुशलमूलानि प्रथमचित्तोत्पादम् उपादाय यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धानां यावद् अनुपधिशेषे निर्वाणधातौ परिनिर्वृतानां यावत् सद्धर्मस्थितिः, यानि च तेषां श्रावकयानिकानां पुद्गलानां, यानि च प्रत्येकबुद्धयानिकानां पुद्गलानां कुशलमूलानि, यानि च शैक्षाण्य् अनास्रवाणि कुशलमूलानि, यानि चाशैक्षाण्य् अनास्रवाणि कुशलमूलानि तानि सर्वाण्य् अभिसंक्षिप्यानुत्तरायै सम्यक्संबोधये परिणामितानि आनिमित्तयोगेन मा चास्य संज्ञाविपर्यासो ऽभूत्. अनित्ये नित्यम् इति संज्ञाविपर्यासश् चित्तविपर्यासो दृष्टिविपर्यासो ऽभूत्. दुःखे सुखम् इति, अनात्मीये आत्मीयम् इति, अशान्ते शान्तम् इति संज्ञाविपर्यासश् चित्तविपर्यासो दृष्टिविपर्यासः.
अथ पुनः किं यथैव वस्तु यथैवारम्बणं तथा बोधिस् तथा चित्तं तथा दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता तथा सप्तत्रिंशद्बोधिपक्ष्या धर्मास् तथा अप्रमाणध्यानारूप्यसमापत्तयः, तथा आर्यसत्यानि तथा अध्यात्मशून्यता यावद् अभावस्वभावशून्यता तथा शून्यतानिमित्ताप्रणिहितानि तथा अष्टविमोक्षास् तथा नवानुपूर्वविहारसमापत्तयस् तथा षडभिज्ञास् तथा सर्वसमाधयस् तथा सर्वधारणीमुखानि तथा दशतथागतबलानि तथा वैशारद्यानि तथा प्रतिसंविदस् तथा अष्टादशावेणिका बुद्धधर्मास् तथा सर्वज्ञता.
(प्स्प्_2-3:125)
यदि तावद् यथैव वस्तु यथारम्बणं तथा बोधिस् तथा चित्तं तथा रूपं वेदनासंज्ञासंस्कारा विज्ञानं तथा चक्षुः श्रोत्रघ्राणजिह्वाकायमनः तथा अध्यात्मशून्यता यावद् अभावस्वभावशून्यता तथा स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाः तथा अप्रमाणध्यानारूप्यसमापत्तयस् तथा आर्यसत्यानि तथा अष्टविमोक्षास् तथा नवानुपूर्वविहारसमापत्तयहि तथा त्रीणि विमोक्षमुखानि तथा षडभिज्ञास् तथा सर्वसमाधयस् तथा सर्वधारणीमुखानि तथा दश तथागतबलानि तथा वैशारद्यानि तथा प्रतिसंविदः तथा अष्टादशावेणिका बुद्धधर्माः.
तत्र कतमद् वस्तु? कतमद् आरम्बणं? कतमा बोधिः? कतमच् चित्तं? कतमानि कुशलमूलानि? कतमत् तद् अनुमोदनासहगतं पुण्यक्रियावस्तु यद् अनुत्तरायां सम्यक्संबोधौ परिणामयति?
मैत्रेय आह: सचेद् भदन्त सुभूते बोधिसत्त्वाः षट्सु पारमितासु चरिता अभविष्यन्, बहुबुद्धपर्युपासिता अभविष्यन्न्, अवरोपितकुशलमूला अभविष्यन्, कल्याणमित्रपरिगृहीता अभविष्यन्, स्वलक्षणशून्येषु धर्मेषु शिक्षिता अभविष्यन्, न ते तानि वस्तूनि न तान्य् आरम्बणानि न तान् बुद्धान् भगवतो न तानि कुशलमूलानि न तान्य् अनुमोदनासहगतानि पुण्यक्रियावस्तूनि निमित्तिकृत्यानुत्तरायां सम्यक्संबोधौ परिणामयिष्यन्ति.
अपि तु खलु पुनस् तथा परिणामयिष्यन्ति यथा न द्वययोगेन नाद्वययोगेन न निमित्तयोगेन नानिमित्तयोगेन नोपलम्भयोगेन नानुपलम्भयोगेन न संक्लेशयोगेन न व्यवदानयोगेन नोत्पादयोगेन न निरोधयोगेन.
सचेत् पुनर् एते बोधिसत्त्वाः न षट्सु पारमितासु शिक्षिता अभविष्यन्, न बुद्धपर्युपासिता नावरोपितकुशलमूला न कल्याणमित्रपरिगृहीता न स्वलक्षणशून्येषु धर्मेषु शिक्षिता अभविष्यन्, तानि वस्तूनि तान्य् आरम्बणानि तानि कुशलमूलानि तान् अनुमोदनासहगतांश् चित्तोत्पादान् निमित्तीकृत्यानुत्तरायै सम्यक्संबोधये परिणामयिष्यन्ति.
न खलु पुनर् इयं भदन्त सुभूते प्रज्ञापारमिता एवम् उपदिष्टा नवयानसंप्रस्थितस्य बोधिसत्त्वस्य महासत्त्वस्य पुरतो भाषितव्या. एवं ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता दानपारमिता अध्यात्मशून्यता यावद् अभावस्वभावशून्यतैवम् उपदिष्टा नवयानसंप्रस्थितस्य बोधिसत्त्वस्य महासत्त्वस्य पुरतो भाषितव्या. तत् कस्य हेतोर्? यद् (प्स्प्_2-3:126) अपि तस्य स्याच् छ्रद्धामात्रकं प्रसादमात्रकं प्रेममात्रकं गौरवमात्रकं तद् अप्य् अन्तर्धीयेताविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य पुरतो भाषितव्योपदेष्टव्या यावद् अभावस्वभावशून्यता भाषितव्योपदेष्टव्या. स एवं श्रुत्वा नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते. सचेत् कल्याणमित्रपरिगृहीतो भविष्यति पूर्वजिनकृताधिकारो ऽवरोपितकुशलमूलो बहुबुद्धपर्युपासित, एवं च पुनर् भदन्त सुभूते बोधिसत्त्वेन महासत्त्वेनानुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायां सम्यक्संबोधौ परिणामयितव्यम्. येन चित्तेनानुमोद्य परिणामयति तच् चित्तं क्षीणं निरुद्धं विगतं विपरिनतं, तानि च वस्तूनि तान्य् आरम्बणानि तानि च कुशलमूलानि क्षीणानि निरुद्धानि विगतानि विपरिणतानि, कतमद् अनुमोदनासहगतं चित्तं? कतमानि वस्तूनि? कतमान्य् आरम्बणानि? कतमानि कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये परिणामयति? किं चित्तेन चित्तं परिणामयति? यदा द्वयोश् चित्तयोः समवधानं नास्ति, न च यश् चित्तस्वभावः. स शक्यः परिणामयितुम्.
सचेत् पुनर् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं जानीते अभावः प्रज्ञापारमितेति, एवं ध्यानपारमितावीर्यपारमिताक्षान्तिपारमिताशीलपारमिता दानपारमितेत्य् अभावो, रूपं वेदनासंज्ञासंस्कारा विज्ञानम् इत्य् अभावः. सप्तत्रिंशद्बोधिपक्ष्या धर्मा अभावो, ऽप्रमाणध्यानारूप्यसमापत्तय आर्यसत्यान्य् अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयो ऽभावः, शून्यतानिमित्ताप्रणिहितान्य् अभावः, षडभिज्ञा अभावः, सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखान्य् अभावो, दशतथागतबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा इत्य् अभावो, बोधिसत्त्वेन महासत्त्वेनानुमोदनासहगतं पुण्यक्रियावस्त्व् अनुत्तरायां सम्यक्संबोधौ परिणामयितव्यं, यद्य् एवं परिणामयति परिणामितं भवत्य् अनुत्तरायां सम्यक्संबोधौ.
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वः सुभूतिं स्थविरम् एतद् अवोचत्: कथं भदन्त सुभूते नवयानसंप्रस्थितेन कुलपुत्रेण वा कुलदुहित्रा वा तानि कुशलमूलान्य्. अनुत्तरायै सम्यक्संबोधये परिणामितानि भवन्ति. कथं चानुमोदनासहगतं पुण्यक्रियावस्तु परिगृह्य परिणामितं भवति?
सुभूतिर् आह: सचेत् मैत्रेय नवयानसंप्रस्थितो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरिष्यति, तां च प्रज्ञापारमिताम् अनुपलम्भयोगेन ग्रहीष्यति न निमित्तयोगेन. एवं ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां (प्स्प्_2-3:127) शीलपारमितां दानपारमिताम् अनुपलम्भयोगेन ग्रहीष्यति न निमित्तयोगेन. अध्यात्मशून्यतायाम् अधिमुक्तिबहुलो भवीष्यति. बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशून्यतायां यावद् अभावस्वभावशून्यतायाम् अधिमुक्तिबहुलो भविष्यति. अप्रमाणध्यानारूप्यसमापत्तिष्व् आर्यसत्येष्व् अधिमुक्तिबहुलो भविष्यति. अष्टविमोक्षेषु नवानुपूर्वविहारसमापत्तिष्व् अधिमुक्तिबहुलो भविष्यति. शून्यतानिमित्ताप्रणिहितेष्व् अधिमुक्तिबहुलो भविष्यति. अभिज्ञासु सर्वसमाधिषु सर्वधारणीमुखेष्व् अधिमुक्तिबहुलो भविष्यति. दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशावेणिकेषु बुद्धधर्मेष्व् अधिमुक्तिबहुलो भविष्यति. कल्याणमित्रपरिगृहितश् च भविष्यति. तानि चास्य कल्याणमित्राणिमाम् एव प्रज्ञापारमितां ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां सार्थां सव्यञ्जनाम् उपदेक्ष्यन्ति. तथा चोपदेक्ष्यन्ति यथा प्रज्ञापारमितया अविरहीतो भविष्यत्य् एवं सर्वाभिः पारमिताभिर् अविरहितो भविष्यति. यावत् सर्वशून्यताभिः सप्तत्रिंशद्बोधिपक्ष्यैर् धर्मैर् आर्यसत्यैर् अप्रमाणध्यानारूप्यसमापत्तिभिः शून्यतानिमित्ताप्रणिहितैर् अष्टाभिर् विमोक्षैर् नवभिर् अनुपूर्ववीहारसमापत्तिभिः सर्वसमाधिः सर्वधारणीमुखैर् दशभिः तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टाबशभिर् आवेणिकैर् बुद्धधर्मैर् अविरहितो भविष्यति. यावद् बोधिसत्त्वन्यामम् अवक्रान्तो भविष्यति. मारकर्माणि चोपदेक्ष्यन्ति. तस्य तानि मारकर्माणि श्रुत्वा न हानिर् न वृद्धिर् भविष्यति. तत् कस्य हेतोस्? तथा हि तेषां मारकर्मणां स्वभावो नोपदृश्यते. बुद्धैर् भगवद्भिर् अविरहितः स्याद् यावन् बोधिसत्त्वन्यामम् अवक्रान्तेति. तत्र च कुशलमूलान्य् अवरोपयिष्यति. तैश् च कुशलमूलैर् बोधिसत्त्वकुलं ग्रहीष्यति. तेन च बोधिसत्त्वकुलेन न जातु विरहितो भविष्यति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो भविष्यति.
पुनर् अपरं नवयानसंप्रस्थितेन बोधिसत्त्वेन महासत्त्वेन तेषां बुद्धानां भगवतां छिन्नवर्त्मनां छिन्नवर्त्मनीनां छिन्नप्रपञ्चभवनेत्रिकाणां पर्यात्तबाष्पाणां मर्दितकण्टकानाम् अपहृतभाराणाम् अनुप्राप्तस्वकार्थानां परिक्षीणभवसंयोजनानां सम्यगाज्ञासुविमुक्तिचित्तानां सर्वचेतवशिपरमपारमिताप्राप्तानां, ये ते दशसु दिक्ष्व् अप्रमेयेष्व् असंख्येयेषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति तेषां बुद्धानां भगवतां सश्रावकसंघानां ये पुण्याभिसंस्कारा यैर् वा तत्र कुशलमुलान्य् अवरोपितानि क्षत्रियमहाशालकुलेषु (प्स्प्_2-3:128) वा ब्राह्मणमहाशालकुलेषु वा गृहपतिमहाशालकुलेषु वा चातुर्महाराजकायिकेषु वा देवेषु, त्रायस्त्रिंशेषु वा यामेषु वा तुषितेषु वा निर्माणरतिषु वा परनिर्मितवशवर्तिषु वा देवेषु, ब्रह्मपार्षद्येषु वा ब्रह्मपुरोहितेषु वा महाब्रह्मसु वा परीत्ताभेषु वा अप्रमाणाभेषु वा आभास्वरेषु वा परीत्तशुभेषु वा अप्रमाणशुभेषु वा शुभकृत्स्नेषु वा अनभ्रकेषु वा पुण्यप्रसवेषु वा बृहत्फलेषु वा सुद्धावासेषु वा अवृहेषु वा अतपेषु वा सुदृशेषु वा सुदर्शनेषु वा अकनिष्ठेषु वा देवेषु कुशलमूलान्य् अवरोपितानि सर्वान्य् अभिसंक्षिप्य पिण्डयित्वा तुलयित्वा अग्रयानुमोदनया श्रेष्ठया ज्येष्ठया वरया प्रवरया उत्तमया अनुत्तमया अनुमोदनया अनुमोदेतानुमोद्य चानुमोदनासहगतं कुशलमूलम् अनुत्तरायै सम्यक्संबोधये परिणामयितव्यम्. इत्य् अनुपलम्भपरिणामः
मैत्रेय आह: सचेद् भदन्त सुभूते नवयानसंप्रस्थितो बोधिसत्त्वो महासत्त्वस् तेषां बुद्धानां भगवतां सश्रावकसंघानां सर्वकुशलमूलानि समन्वाहृत्याग्रया अनुमोदनया अनुमोदते अनुमोद्य च यावद् अनुत्तमया अनुमोदनया अनुमोद्यानुत्तरायै सम्यक्संबोधये परिणामयति. कथं न बोधिसत्त्वस्य महासत्त्वस्य संज्ञाविपर्यासो भवति, न चित्त विपर्यासो भवति, न दृष्टिविपर्यासो भवति?
सुभूतिर् आह: सचेत् मैत्रेय बोधिसत्त्वो महासत्त्वस् तान् बुद्धान् भगवतः सश्रावकसंघान् समन्वाहरति, तत्र न बुद्धसंज्ञी न श्रावकसंज्ञी भवति, न कुशलमूलसंज्ञी भवति. येनापि चित्तेन परिणामयति तत्रापि चित्तेन चित्तसंज्ञी भवत्य्, एवं परिणामयतो बोधिसत्त्वस्य महासत्त्वस्य न संज्ञाविपर्यासो भवति, न चित्तविपर्यासो भवति, न दृष्टिविपर्यासो भवति.
सचेद् बोधिसत्त्वो महासत्त्वस् तान् बुद्धान् भगवतस् तानि च कुशलमूलान् समन्वाहृत्य निमित्तीकरोति निमित्तीकृत्यानुत्तरायै सम्यक्संबोधये परिणामयत्य् एवं परिणामयतः संज्ञाविपर्यासश् चित्तविपर्यासो दृष्टिविपर्यासो भवति.
सचेत् पुनर् बोधिसत्त्वो महासत्त्वस् तान् बुद्धान् भगवतस् तानि च कुशलमूलानि येन च चित्तेन समन्वाहरति तानि तथैव क्षीणानि क्षीणानीत्य् एवं प्रजानाति. यच् च क्षीणन् न तच् छक्यं परिणमयितुम्. येनापि चित्तेन परिणामयति (प्स्प्_2-3:129) तस्यापि चित्तस्य सैव धर्मता. यत्रापि परिणामयति तस्यापि सैव धर्मता.
सचेद् एवं परिणामयति समेन परिणामयति न विषमेन, न च मिथ्या परिणामयति, एवं परिणामयितव्यं बोधिसत्त्वेन महासत्त्वेन.
सचेद् बोधिसत्त्वो महासत्त्वो ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां यावत् प्रथमचित्तोत्पादम् उपादाय परिनिर्वाणं यावद् च सद्धर्मान्तर्धानं तच् छ्रावकाणां प्रत्येकबुद्धानां च यावद् यैश् च तत्र पृथग्जनैः कुशलमूलान्य् अवरोपितानि, या च धर्मदेशना श्रुता श्रुत्वा च यैश् च तत्र देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगैः कुशलमूलान्य् अवरोपितानि, कुशत्रियमहाशालकुलैर् वा ब्राह्मणमहाशालकुलैर् वा गृहपतिमहाशलकुलैर् वा चातुर्महाराजकायिकैर् वा देवैर् यावच् छुद्धावासकायिकैर् वा देवैः सद्धर्मः श्रुतः कुशलमूलान्य् अवरोपितानि, चित्तं चोत्पादितम् अनुत्तरायां सम्यक्संबोधौ तत् सर्वम् अभिसंक्षिप्य पिण्डयित्वा तुलयित्वाग्रयानुमोदनयानुमोदते ज्येष्ठया श्रेष्ठया वरया प्रवरया प्रणितया उत्तमया अनुत्तमया असमया असमसमया अनुमोदनया अनुमोदते अनुमोद्य तत् सर्वम् अनुत्तरायां सम्यक्संबोधौ परिणामयति.
सचेत् पुनर् एवं संजानीते क्षीणास् ते धर्मा निरुद्धा विगता विपरिणता सो ऽपि धर्मस्वभावेन शून्यो यत्रापि परिणामयति. सचेद् एवं परिणामयति परिणामितं भवत्य् अनुत्तरायां सम्यक्संबोधौ.
सचेत् पुनर् एवं संजानीते न च धर्माधर्मान् परिणामयन्ति. तत् कस्य हेतोस्? तथा हि स्वभावशून्याः सर्वधर्माः.
सचेद् एवं परिणामयति परिणामितं भवत्य् अनुत्तरायां सम्यक्संबोधौ. एवं हि बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः, एवं ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां चरतो न संज्ञाविपर्यासो न चित्तविपर्यासो न दृष्टिविपर्यासो भवति. तत् कस्य हेतोस्? तथा हि बोधिसत्त्वो महासत्त्वस् तां परिणामनां नाभिनिविशते, तानि कुशलमूलानि तद्बोधिचित्तं च न समनुपश्यति यत्राभिनिवेशेत, इदं बोधिसत्त्वस्य महासत्त्वस्यानुत्तरं परिणामनम्. इत्य् अविपर्यस्तलक्षणपरिणामः
सचेत् पुनर् बोधिसत्त्वो महासत्त्वस् तं पुण्यक्रियावस्त्व् अभिसंस्कारं विविक्तं संजानीते स्कन्धधात्वायतनैः, प्रज्ञापारमितया विविक्तं संजानीते. एवं ध्यानपारमितया वीर्यपारमितया क्षान्तिपारमितया शीलपारमितया (प्स्प्_2-3:130) दानपारमितया विविक्तं संजानीते. अध्यात्मशून्यतया विविक्तं संजानीते यावद् अभावस्वभावशून्यतया विविक्तं संजानीते. सप्तत्रिंशद्बोधिपक्षैर् धर्मैर् विविक्तं संजानीते. दशभिर् बलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् विविक्तं संजानीते. एवं बोधिसत्त्वेन महासत्त्वेन पुण्यक्रियावस्त्व् अभिसंस्कारः परिणामितो भवत्य् अनुत्तरायां सम्यक्संबोधौ.
सचेत् पुनर् बोधिसत्त्वो महासत्त्वो ऽनुमोदनासहगतं पुण्यक्रियावस्तु स्वभावेन विविक्तं संजानीते, विविक्तास् ते बुद्धा भगवन्तो बुद्धस्वभावेन, कुशलमूलान्य् अपि कुशलमूलस्वभावेन विविक्तानि, अभिसंस्कारा अभिसंस्कारस्वभावेन विविक्ताः, बोधिचित्तं बोधिचित्तस्वभावेन विविक्तं, परिणामनाचित्तं परिणामनाचित्तस्वभावेन विविक्तं, बोधिर् अपि बोधिस्वभावेन विविक्ता, प्रज्ञापारमिता प्रज्ञापारमितास्वभावेन विविक्ता, ध्यानपारमिता ध्यानपारमितास्वभावेन विविक्ता, वीर्यपारमिता वीर्यपारमितास्वभावेन विविक्ता, क्षान्तिपारमिता क्षान्तिपारमितास्वभावेन विविक्ता, शीलपारमिता शीलपारमितास्वभावेन विविक्ता, दानपारमिता दानपारमितास्वभावेन विविक्ता, अध्यात्मशून्यता अध्यात्मशून्यतास्वभावेन विविक्ता, बहिर्धाशून्यता भिर्धाशून्यतास्वभावेन विविक्ता, अध्यात्मबहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतास्वभावेन विविक्ता यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतास्वभावेन विविक्ता, एवं सप्तत्रिंशद्बोधिपक्ष्या धर्माः चत्वार्य् आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तवो ऽष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितानि षडभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशबलवैशारद्यप्रतिसंविदो, ऽष्टादशावेणिका बुद्धधर्मा बुद्धधर्मस्वभावेन विविक्ताः. एवं हि बोधिसत्त्वेन महासत्त्वेन विविक्तायां प्रज्ञापारमितायां चरितव्यम् इयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता. इति विविक्तपरिणामः.
पुनर् अपरं बोधिसत्त्वेन महासत्त्वेन तेषां बुद्धानां भगवतां यत् कुशलमूलं तत् सर्वम् अनुस्मरता एवं परिणामयितव्यं यादृश एव स परिणामस् तादृशम् एव तच् चित्तं येन परिणामयति तज्जातिकं तत्स्वभावम्.
सचेद् एवं संजानीते परिणामितं भवत्य् अनुत्तरायां सम्यक्संबोधौ, एवं परिणामयतो न संज्ञाविपर्यासो भवति न चित्तविपर्यासो भवति न दृष्टिविपर्यासो भवति.
सचेत् पुनर् बोधिसत्त्वो महासत्त्वः प्रञापारमितायां चरन् निमित्तयोगेन (प्स्प्_2-3:131) तेषां बुद्धानां भगवतां तानि कुशलमूलानि संजानीते, न परिणामयत्य् अनुत्तरायां सम्यक्संबोधौ, ये चातीता बुद्धा भगवन्तः परिनिर्वृता अनिमित्ता अविषयाः.
सचेद् एवम् अपि समन्वाहरति निमित्तीकरोति, न परिणामयति तानि कुशलमूलान्य् अनुत्तरायां सम्यक्संबोधौ, एवं चास्य संज्ञाविपर्यासो भवति चित्तविपर्यासो भवति दृष्टिविपर्यासो भवति.
सचेत् तान् बुद्धान् भगवतस् तानि कुशलमुलानि तांश् चाभिसंस्कारांस् तांश् चित्तोत्पादान् संजानीते न निमित्तीकरोति, परिणामितानि तानि कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये भवति. एवं च बोधिसत्त्वस्य महासत्त्वस्य न संज्ञाविपर्यासो भवति न चित्तविपर्यासो भवति न दृष्टिविपर्यासो भवति. इति बुद्धकुशलमुलजातीयस्वभावानुस्मृतिपरिणामः
मैत्रेय आह: कथं भदन्त सुभूते बोधिसत्त्वो महासत्त्वो न निमित्तीकरोति परिणामयति च?
सुभूतिर् आह: अत्र हि तानि बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाम् उपायकौशलानि शिक्षितव्याम्. अत एव च बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाम् उपायकौशलं वेदितव्यं, न च प्रज्ञापारमिताम् अनागम्य शक्यं पुण्यक्रियावस्तु परिणामयितुम्.
मैत्रेय आह: मा हैवास्य स्याद् भदन्त सुभूते वचनीयम्. न ते बुद्धा भगवन्तः प्रज्ञापारमितायां संविद्यन्ते. नापि तानि कुशलमूलानि, नापि ते ऽभिसंस्कारा, नापि ते चित्तोत्पादा यावन् नानुत्तरायै सम्यक्संबोधये परिणामयति.
सुभूतिर् आह: तत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवं व्युपपरीक्षितव्यं, निरुद्धास् ते आत्मभावा तानि च कुशलमूलानि ते चाभिसंस्कारास् ते च चित्तोत्पादाः. अथ च पुनर् निमित्तीकृत्य विकल्प्यन्ते ते बुद्धा भगवन्तस् तानि च कुशलमूलानि ते चाभिसंस्कारास् ते च चित्तोत्पादा निमित्तीकृत्य विकल्प्यन्ते. न च तथागता अर्हन्तः सम्यक्संबुद्धा एवं निमित्तयोगेन परिणामयतो ऽनुमोदनाम् अभ्यनुजानन्ति. तत् कस्य हेतोः? एष एवास्य महान् उपलम्भो यत् परिनिर्वृतान् बुद्धान् भगवतो निमित्तीकरोति विकल्पयति चोपलभते तस्माद् बोधिसत्त्वेन महासत्त्वेन कुशलमूलानि परिणामयितुकामेन न चोपलभ्य निमित्तीकृत्य परिणामयितव्यानि. न चोपलम्भसंज्ञिनो न निमित्तसंज्ञिनस्, तथागता अर्हन्तः सम्यक्संबुद्धाः परिणामतां महर्द्धिकाम् इति वदन्ति. तत् हस्य हेतोः? सविषः सशल्य एष परिणामः.
इत्य् उपायकौशलपरिणामः
(प्स्प्_2-3:132)
तद्यथापि नाम प्रणीतभोजनं विषसंसृष्टं वर्णेन गन्धेन चोपेतं तद् एव बालजातीयः पुरुषः परिभोक्तव्यं मन्येत, तस्य तत् परिभुञ्जानस्य वर्णतो ऽपि गन्धतो ऽपि रोचेत, परिणामे च दुष्खविपाकं स्यात्. एवम् एव इहैकत्या दुर्गृहीतेन दुरुपलक्षितेन दुःस्वाध्यातेन चार्थम् अजानन्तो ऽबुध्यमाना एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां प्रथमचित्तोत्पादम् उपादाय यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धानां यावच् च निरुपधिशेषे निर्वाणधातौ परिनिर्वृतानां यावच् च सद्धर्माणां अन्तर्हितः, यान्य् एतस्मिन् अन्तरे प्रज्ञापारमितायां चरद्भिः कुशलमूलान्य् अभिसंस्कृतानि, एवं ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां चरद्भिः कुशालमूलान्य् अभिसंस्कृतानि. यानि च चतुर्ध्यानप्रतिसंयुक्तानि चतुरप्रमाणप्रतिसंयुक्तानि चतुरारूप्यसमापत्तिप्रतिसंयुक्तानि सप्तत्रिंशद् बोधिपक्ष्यधर्म प्रतिसंयुक्तानि चतुर् आर्यसत्य प्रतिसंयुक्तानि शून्यतानिमित्ताप्रणिहितप्रतिसंयुक्तान्य् अष्टविमोक्ष नवानुपूर्वविहारसमापत्तिप्रतिसंयुक्तान्य् अभिज्ञाप्रतिसंयुक्तानि सर्वशून्यताधारणीमुखप्रतिसंयुक्तानि दशतथागतबलप्रतिसंयुक्तानि चतुर्वैशारद्यप्रतिसंयुक्तानि, चतुःप्रतिसंवित्प्रतिसंयुक्तानि कुशलमूलान्य् अभिसंस्कृतानि, अष्टादशावेणिकबुद्धधर्मप्रतिसंयुक्तानि कुशलमूलान्य् अभिसंस्कृतानि, यैश् च कुशलमूलाभिसंस्कारैर् बुद्धक्षेत्रानि परिशोधितानि सत्त्वाश् च परिपाचिताः, यश् च तेषां बुद्धानां भगवतां शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः सर्वाकारज्ञताज्ञानम् असंप्रमुषितधर्मताज्ञानं सदोपेक्षाविहारिता तेषां च श्रावकाणां, यैश् च तत्र कुशलमूलान्य् अभिसंस्कृतानि, ये च प्रत्येकबुद्धत्वे व्याकृता, यैश् च तत्र देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगैः कुशलमूलान्य् अभिसंस्कृतानि तानि सर्वान्य् अभिसंक्षिप्य पिण्डयित्वा तुलयित्वा अनुत्तरायै सम्यक्संबोधये परिणामयति. एवं हि परिणामो निमित्तयोगेनोपलम्भयोगेन च परिणामितो विषत्वाय कल्पयते. तद्यथापि नाम तत् सविषं भोजनं नास्त्य् उपलम्भसंज्ञिनः परिणामः. तत् कस्य हेतोः? सविषो ह्य् उपलम्भः सनिमित्तः सहेतुकः सप्रत्ययो य एवं परिणामयति तेन तथागतो ऽभ्याख्यातो भवति. न च स तथागतस्योक्तवादी भवति न च धर्मवादी. तत्र बोधिसत्त्वयानिकैः कुलपुत्रैः कुलदुहित्र्भिश् च नैवं शिक्षितव्यम्.
इत्य् अनिमित्तपरिणामः
(प्स्प्_2-3:133)
मैत्रेय आह: कथं पुनर् अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां कुशलमूलान्य् अनुमोद्य परिणामयितव्यानि? प्रथमचित्तोत्पादम् उपादाय यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धानां यावद् अनुपधिशेषे निर्वाणधातौ परिनिर्वृतानां यावच् च सद्धर्मस्थितिः सश्रावकसंघानाम् एतस्मिन्न् अन्तरे यानि प्रज्ञापारमितायां चरता कुशलमूलान्य् अभिसंस्कृतानि यावत् सर्वज्ञता प्राप्ता यावद् यैश् च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगमनुष्यामनुष्यैः कुशलमूलान्य् अवरोपितानि? कथं चानुमोद्य परिणामयितव्यानि? कथं च परिणामयतस् तानि कुशलमूलानि परिणामितानि भवन्त्य् अनुत्तरायै सम्यक्संबोधये?
सुभूतिर् अह: इह महायानिकेन कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमितायां चरता तथागतम् अनभ्याख्यातुकामेन, एवं परिणामयितव्यं यथा ते तथागता अर्हन्तः सम्यक्संबुद्धा जानन्ति निरुत्तरायै सम्यक्संबोधये.
सुभूतिर् आह: इह महायानिकेन कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमितायां चरता तथागतम् अनभ्याख्यातुकामेन, एवं परिणामयितव्यं यथा ते तथागता अर्हन्तः सम्यक्संबुद्धा जानन्ति निरुत्तरेण बुद्धज्ञानेन, तानि च कुशलमूलानि यज्जातिकानि यत्स्वभावानि यल्लक्षणानि यया धर्मतया संविद्यन्ते. तथाहम् अप्य् अनुमोदे यथा ते बुद्धा भगवन्तो जानन्ति तथाहम् अपि परिणामयाम्य् अनुत्तरायै सम्यक्संबोधये. एवं महायानिकेन कुलपुत्रेण वा कुलदुहित्रा वा तानि कुशलमूलानि परिणामयितव्यान्य् अनुत्तरायै सम्यक्संबोधये.
एवं च परिणामयितुकामेन परिणामयितव्यं यथा ते तथागता अर्हन्तः सम्यक्संबुद्धा जानन्ति निरुत्तरेण बुद्धज्ञानेन, तानि च कुशलमूलानि यज्जातिकानि यत्स्वभावानि यल्लक्षणानि यया धर्मतया संविद्यन्ते. तथाहम् अप्य् अनुमोदे यथा ते बुद्धा भगवन्तो जानन्ति तथाहम् अपि परिणामयाम्य् अनुत्तरायै सम्यक्संबोधये. एवं महायानिकेन कुलपुत्रेण वा कुलदुहित्रा वा तानि कुशलमूलानि परिणामयितव्यान्य् अनुत्तरायै सम्यक्संबोधये. एवं च परिणामयंस् तथागतान् नाभ्याचष्टे उक्तवादी च भवति. तथागतस्य धर्मवादी, चैवं बोधिसत्त्वस्य महासत्त्वस्य परिणामो निर्विषो भवति.
इति बुद्धानुज्ञातपरिणामः
पुनर् अपरं महायानसंप्रस्थितेन कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमितायां (प्स्प्_2-3:134) चरतैवं तानि कुशलमूलानि परिणामयितव्यानि, यथा रूपम् अपर्यापन्नं कामधातुं रूपधातुम् आरूप्यधातुम्, एवं वेदनासंज्ञासंस्कारा विज्ञानम् अपर्यापन्नं कामधातुं रूपधातुम् आरूप्यधातुम्, एवं धातव आयतनानि प्रतीत्यसमुत्पादः प्रज्ञापारमिताप्य् अपर्यापन्ना कामधातुं रूपधातुम् आरूप्यधातुम्, एवं ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता दानपारमिताप्य् अपर्यापन्ना कामधातुं रूपधातुम् आरूप्यधातुं, या चापर्यापन्ना न सातीता नानागता न प्रत्युत्पन्ना, एवम् अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता अपर्यापन्ना कामरूपारूप्यधातुम्, अप्रमाणध्यानारूप्यसमापत्तय आर्यसत्यान्य् अपर्यापन्नानि कामरूपारूप्यधातुम्, अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयो ऽपर्यापन्नाः कामरूपारूप्यधातुं, शून्यतानिमित्ताप्रणिहितानि षडभिजाआ अपर्यापन्नाः कामरूपारूप्यधातुं, सर्वसमाधयः सर्वधारणीमुखान्य् अपर्यापन्नानि कामरूपारूप्यधातुं, दशबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अपर्यापन्नाः कामरूपारूप्यधातुम्, एवं तथता अवितथता अनयतथता धर्मता धर्मधातुर् धर्मनियामता धर्मस्थितिता भूतकोटिर् अचिन्त्यधातुर् अपर्यापन्नः कामरूपारूप्यधातुं, शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनानि सर्वाकारज्ञता असंप्रमुषितधर्मता सदा चोपेक्षाविहारिता अपर्यापन्ना कामरूपारूप्यधातुं, यच् चापर्यापन्नं तन् नातीतं नानागतं न प्रत्युत्पन्नं. तत् कस्य हेतोः? यथैव तद् अपर्यापन्नम् एवं परिणामो ऽप्य् अपर्यापन्नो, यत्रापि धर्मे परिणामयति ते ऽपि धर्मा अपर्यापन्ना, यो ऽपि परिणामयति सो ऽप्य् अपर्यापन्नस्, ते ऽपि बुद्धा भगवन्तो ऽपर्यापन्नाः कामरूपारूप्यधातुं, तान्य् अपि कुशलमूलान्य् अपर्यापन्नानि कामरूपारूप्यधातुं, ते ऽपि श्रावकप्रत्येकबुद्धा अपर्यापन्नाः कामरूपारूप्य धातुं, तेषाम् अपि तानि कुशलमूलान्य् अपर्यापन्नानि कामरूपारूप्यधातुं, यच् चापर्यापन्नं तन् नातीतन् नानागतन् न प्रत्युत्पन्नम्.
सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं संजानीते, यद् रूपं तत् कामधातुरूपधात्वारूप्यधातुम् अपर्यापमम्, एवं वेदनासंज्ञासंस्कारा यद् विज्ञानं तत् कामधातुरूपधात्वारूप्यधातुम् अपर्यापन्नम्, एवं धातव आयतनानि प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानीति कामधातुरूपधात्वारूप्यधात्वपर्यापन्नानि.
सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं संजानीते, यद् (प्स्प्_2-3:135) रूपं तत् कामधातुरूपधात्वारूप्यधातुम् अपर्यापन्नं, तन् नातीतन् तन् नानागतन् न प्रत्युत्पन्नन् तन् न शक्यं निमित्तयोगेन चोपलम्भयोगेन वा परिणामयितुम्. तत् कस्य हेतोर्? न हि तस्य स्वभावः संविद्यते. यस्य च स्वभावो न संविद्यते सो ऽभावो. न चाभावो ऽभावेन शक्यः परिणामयितुम्. एवं वेदनासंज्ञासंस्कारा विज्ञानं धातव आयतनानि प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गान्य्, एवं दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता, एवं अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता, एवं यावत् सप्तत्रिंशद्बोधिपक्ष्या धर्मा आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयो ऽष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितानि षडभिज्ञा दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः सर्वज्ञता असंप्रमुषितधर्मता सदोपेक्षाविहारिता न कामधातुपर्यापन्ना न रूपधातुपर्यापन्ना नारूप्यधातुपर्यापन्ना, या चापर्यापन्ना न सातीता नानागता न प्रत्युत्पन्ना न सा शक्या निमित्तयोगेन न चोपलम्भयोगेन वा परिणामयितुम्. तत् कस्य हेतोर्? न हि तस्याः स्वभावः संविद्यते. यो न संविद्यते सो ऽभावो. न चाभावो ऽभावेन शक्यः परिणामयितुम्. एवं हि बोधिसत्त्वस्य महासत्त्वस्य परिणामो निर्विषो भवति.
यः पुनर् महायानसंप्रस्थितः कुलपुत्रो वा कुलदुहिता वा निमित्तयोगेन चोपलम्भयोगेन च तानि कुशलमूलानि परिणामयति तानि मिथ्या परिणामयति न च मिथ्या परिणामं सम्यक्परिणामं बुद्धा भगवन्तो वर्णयन्ति. यं बुद्धा भगवन्तः परिणामं न वर्णयन्ति स तेन परिणामयति. न दानपारमितायां परिणामयति न शीलपारमितायां न क्षान्तिपारमितायां न वीर्यपारमितायां न ध्यानपारमितायां न प्रज्ञापारमितायां परिणामयति. न षड्पारमिताः परिपूरयिष्यति. न सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् परिपूरयिष्यति. नाध्यात्मशून्यतां न बहिर्धाशून्यतां नाध्यात्मबहिर्धाशून्यतां न यावद् अभावस्वभावशून्यतां नाप्रमाणध्यानारूप्यसमापत्तिर् नार्यसत्यानि नाष्टविमोक्षान् न नवानुपूर्वविहारसमापत्तिर् न शून्यतानिमित्ताप्रणिहितानि नाभिज्ञा न दशतथागतबलानि न वैशारद्यानि न प्रतिसंविदो नाष्टादशावेणिकान् बुद्धधर्मान् परिपूरयिष्यति. न समाधीन् न धारणीमुखानि परिपूरयिष्यति. न बुद्धक्षेत्रं परिशोधयिष्यति. न सत्त्वान् परिपाचयिष्यति. (प्स्प्_2-3:136) यो न बुद्धक्षेत्रां परिशोधयिष्यति न सत्त्वान् परिपाचयिष्यति स नानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. तत् कस्य हेतोस्? तथा ह्य् अस्य परिणामः सविषः.
पुनर् अपरं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवम् उपपरीक्षितव्यं, यथा बुद्धा भगवन्तो जानन्ति, अनया च धर्मतया तत् कुशलमूलं परिणामयितव्यम् इत्य्, एवं परिणामितं भवतीति, तथाहम् अपि तया धर्मतया परिणामयाम्य् अनुत्तरायै सम्यक्संबोधये.
इति त्रैधातुकापर्यापन्नपरिणामः
अथ खलु भगवान् आयुष्मन्तं सुभूतिम् आमन्त्रयामास: साधु साधु सुभूते साधु खलु पुनस् त्वं सुभूते यस् त्वम् एव बोधिसत्त्वानां महासत्त्वानां परिणामनास्कन्धम् उपदिशसि, अनिमित्तयोगेनानुपलम्भयोगेनानुत्पादयोगेनाप्रादुर्भावयोगेनासंक्लेशयोगेनाव्यवदानयोगेनाभावस्वभावयोगेन स्वलक्षणशून्यतायोगेन धर्मधातुयोगेन तथतायोगेनावितथतायोगेनान्यतथतायोगेन.
सचेत् सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे दशानां कुशलानां कर्मपथानां लाभिनो भवेयुश्, चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतसृणाम् आरूप्यसमापत्तीनां पञ्चानाम् अभिज्ञानां लाभिनो भवेयुः. तत् किं मन्यसे? सुभूते अपि नु ते सत्त्वास् ततोनिदानं बहुपुण्यं प्रसवेयुः.
सुभूतिर् आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः सुभूते स कुलपुत्रो वा कुलदुहिता वा बहुततं पुण्यं प्रसवेत्, यः कुशलमूलानि निरुपलेपपरिणामनया परिणामयेद्, एवं हि सुभूते तस्य कुलपुत्रस्य वा कुलदुहितुर् वा कुशलमुलपरिणामो ऽग्र आख्यायते ज्येष्ठ आख्यायते श्रेष्ठ आख्यायते वर आख्यायते प्रवर आख्यायते प्रणीत आख्यायते उत्तम आख्यायते अनुत्तम आख्यायते निरुत्तम आख्यायते इति मृदुमहापुण्योदयपरिणामः
पुनर् अपरं सुह्बुते यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे स्रोतआपन्ना भवेयुः, सकृदागामिनो वानागामिनो वार्हन्तो वा भवेयुस्, तान् सर्वान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा यावज्जीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेच् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैस्. तत् किं मन्यसे? सुभूते अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
सुभूतिर् आह: बहु भगवन् बहु सुगत.
(प्स्प्_2-3:137)
भगवान् आह: अतः सुभूते स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य एवं कुशलमूलं निरुपलेपपरिणामनया परिणामयेत्.
पुनर् अपरं सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे प्रत्येकबुद्धा भवेयुस्, तान् सर्वान् प्रत्येकबुद्धान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा यावज्जीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेच् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैस्. तत् किं मन्यसे? सुभूते अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
सुभूतिर् आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः सुभूते स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य एवं कुशलमूलं निरुपलेपपरिणामनया परिणामयेत्.
इति मध्यमहापुण्योदयपरिणामः
पुनर् अपरं सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे ऽनुत्तरायां सम्यक्संबोधौ संप्रतिष्ठेरन्, तत्र ये पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् ते सर्व एकैकं बोधिसत्त्वं गङ्गानदीवालुकोपमान् कल्पांश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सत्कुर्युर् गुरुकुर्युर् मानयेयुः पूजयेयुः सर्वसुखोपधानैर् उपतिष्ठेयुर्, एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्षूर्ध्वम् अधो दिशि गङ्गानदीवाल्कोपमेषु लोकधातुषु ये सत्त्वास् ते सर्व एकैकं बोधिसत्त्वं गङ्गानदीवालुकोपमान् कल्पांश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सत्कुर्युर् गुरुकुर्युर् मानयेयुः पूजयेयुः सर्वसुखोपधानैर् उपतिष्ठेयुः. तत् किं मन्यसे? सुभूते अपि नु ते कुलपुत्रा वा कुलदुहितरो वा ततोनिदानं बहुतरं पुण्यं प्रसवेयुः.
सुभूतिर् आह: बहु भगवन् बहु सुगत. अप्रमेयम् असंख्येयम् अपरिमाणं भगवन्न् उपमापि न सुकरा कर्तुं तस्य पुण्यक्रियावस्तुनः. सचेद् भगवंस् तत् पुण्यक्रियावस्तु रूपि भवेत्, सर्वं तद् गङ्गानदिवालुकोपमेषु न मायेत्.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: साधु साधु सुभूते साधु खलु पुनस् त्वं सुभूते यस् त्वम् एवं ब्रवीषि. अतः सुभूते स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य एवं कुशलमूलं निरुपलेपपरिणामनयानुत्तरायै सम्यक्संबोधये परिणामयेद्. एवं सुभूते तस्य कुलपुत्रस्य वा कुलदुहितुर् वा अयं कुशलमुलपरिणामो ऽग्र आख्यायते श्रेष्ठ आख्यायते ज्येष्ठ आख्यायते वर आख्यायते प्रवर आख्यायते (प्स्प्_2-3:138) प्रणीत आख्यायते उत्तम आख्यायते अनुत्तम आख्याते निरुत्तम आख्यायते. तस्य सुभूते निरुपलेपपरिणामनापुण्यस्कन्धस्यासौ पूर्वकः पुण्यस्कन्धः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि कोटीतमीम् अपि कोटीशततमीम् अपि कोटीसहस्रतमीम् अपि कोटीशतसहस्रतमीम् अपि कोटिनियुतशतसहस्रतमीम् अपि संख्यम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् औपम्यम् अप्य् उपनिशाम् अप्य् उपनिषदम् अपि न क्षमते. तत् कस्य हेतोस्? तथा हि ते कुलपुत्राः कुलदुहितरश् चोपलम्भसंज्ञिनो ये दशकुशलकर्मपथसमन्वागताश् चतुर्ध्यानचतुरप्रमाणचतुरारूप्यसमापत्तिपञ्चाभिज्ञासमन्वागतास्. तत् कस्य हेतोः? तथा हि ते कुलपुत्राः कुलदुहितरश् चोपलम्भसंज्ञिनस् तान् सर्वसत्त्वान् स्रोतआपन्नभूतान् यावद् अर्हत्त्वभूतान् सर्वसत्त्वान् प्रत्येकबुद्धभूतान् सत्कुर्युर् गुरुकुर्युर् मानयेयुः पूजयेयुश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सर्वसुखोपधानैर् उपतिष्ठेयुस्, तथा हि स तान् औपलम्भिकान् बोधिसत्त्वान् सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत्. इत्य् अधिमात्रपुण्योदयपरिणामः
अथ खलु चत्वारो महाराजानश् चातुर्महाराजकायिकानां च देवानां विंशतिदेवपुत्रसहस्राणि प्राञ्जलीभूतानि भगवन्तं नमस्यन्ति स्म. एवं चाहुर्: महापरिणामो बतायं भगवन् बोधिसत्त्वस्य महासत्त्वस्य यो ऽयम् उपायकौशलेनानुपलम्भयोगेन निरुपलेपयोगेनानिमित्तयोगेन तानि कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये परिणामयति. तथा परिणामयति यथा न द्वयम् उपैति नाद्वयम्.
अथ खलु शक्रो देवानाम् इन्द्रस् त्रायस्त्रिंशैर् देवपुत्रैः सार्धं दिव्यपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिर् दिव्यतूर्यताडावचरवाद्यैश् च भगवन्तं पूजयामास. एवं च वाचम् अभाषत: महापरिणामो बतायं भगवन् बोधिसत्त्वस्य महासत्त्वस्य यो ऽयम् उपायकौशलेनानुपलम्भयोगेन निरुपलेपयोगेनानिमित्तयोगेन तानि कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये परिणामयति. तथा च परिणामयति यथा न द्वयम् उपैति नाद्वयम्.
अथ खलु सुयामो देवपुत्रः संतुषितो निर्माणरतिः परनिर्मितवशवर्ती च देवपुत्रो ऽनेकैर् देवपुत्रशतसहस्रैः सार्धं भगवन्तम् एतद् अवोचत्: महापरिणामो बतायं भगवन् बोधिसत्त्वस्य महासत्त्वस्य यो ऽयम् उपायकौशलेनानुपलम्भयोगेन निरुपलेपयोगेनानिमित्तयोगेन तानि कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये परिणामयति. तथा च परिणामयति यथा न (प्स्प्_2-3:139) द्वयम् उपैति नाद्वयम्.
अथ खलु ब्रह्मपार्षद्यानां देवानाम् अनेकानि देवपुत्रकोटीनियुतशतसहस्राणि येन भगवांस् तेनोपसंक्रान्तान्य् उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य शब्दम् अकार्षुः, घोषम् उदीरयामासुः: आश्चर्यं भगवन् यथापि नाम बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितया परिगृहीता उपायकौशल्येन च तेषां पौर्वकाणां बोधिसत्त्वानां महासत्त्वानां कुलपुत्राणां कुलदुहितृणां च औपलम्भिकानां तानि कुशलमूलान्य् अभिभवन्ति. एवं ब्रह्मपुरोहिता महाब्रह्माणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा वृहत्फलाः शुद्धावासाः सुदृशाः सुदर्शना अवृहा अतपा अकनिष्ठाः, अनेकैर् देवपुत्रकोटीनियुतशतसहस्रैः सर्धां येन भगवांस् तेनोपसंक्रामन्न् उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य शब्दम् अकार्षुः, घोषम् उदीरयामासुह्: आश्चर्यं भगवन् यथापि नाम बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितया परिगृहीता, उपायकौशलेन च तेषां पौर्वकानां बोधिसत्त्वानां महासत्त्वानां कुलपुत्राणां कुलदुहितृणां च औपलम्भिकानां तानि कुशलमूलान्य् अभिभवन्ति.
अथ खलु भगवांश् चातुर्महाराजकायिकान् देवपुत्रान् यावद् अकनिष्ठान् देवपुत्रान् आमन्त्रयामास: यदि देवपुत्रा ये त्रिसाहरमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिता भवेयुस्, ते सर्वे ऽतीतानागतप्रत्युत्पन्नानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सप्रत्येकबुद्धानां यानि कुशलमूलानि प्रथमचित्तोत्पादम् उपादाय यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धानां यावच् च निरुपधिशेषे निर्वाणधातौ परिनिर्वृतानां यावत् सद्धर्मस्थितिर् एतस्मिन्न् अन्तरे तेषां बुद्धानां भगवतां तेषां च श्रावकाणां तेषां च प्रत्येकबुद्धानां ततो ऽन्येषां च सर्वसत्त्वानां यत् कुशलमूलं दानपारमिता निर्जातम् एवं शीलपारमिताक्षान्तिपारमितावीर्यपारमिताध्यानपारमिताप्रज्ञापारमितानिर्जातं शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धो ऽन्ये चापरिमाणा बुद्धधर्मास् तत् सर्वम् अभिसंक्षिप्यानुमोद्यानुत्तरायै सम्यक्संबोधये परिणामयेयुर् उपलम्भयोगेन. यश् च कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ संप्रस्थितो भवेत् सो ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सश्रावकसंघानां सप्रत्येकबुद्धानां प्रथमचित्तोत्पादम् उपादाय (प्स्प्_2-3:140) यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धानां यावद् अनुपधिशेषे निर्वाणधातौ परिनिर्वृतानां यावत् सद्धर्मस्थितिर् एतस्मिन्न् अन्तरे तेषां सर्वेषाम् अन्येषां च सर्वसत्त्वानां यत् कुशलमूलं दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमित ध्यानपारमिता प्रज्ञापारमिता यावद् अपरिमाणा बुद्धधर्मास् तत् सर्वम् अभिसंक्षिप्य पिण्डयित्वा तुलयित्वा अनुपलम्भयोगेनाद्वययोगेनानिमित्तयोगेन निरुपलेपयोगेन निरीहधर्मयोगेन, अग्रयानुमोदनयानुमोदित अनुमोद्यानुत्तरायै सम्यक्संबोधये परिणामयेद्, एवं स कुलपुत्रो वा कुलदुहिता वा तेषां पूर्वकानां कुलपुत्राणां कुलदुहितृणाम् अन्तिकाद् बहुतरं पुण्यं प्रसवेत्. इदं च कुशलमूलं तस्य पूर्वकस्य कुशलमूलस्य शततमीम् अपि कलां नोपैति यावद् उपनिषदम् अपि न क्षमते. इदं बोधिसत्त्वेन महासत्त्वेनानुपलम्भयोगेन परिणामितम् अग्रम् आख्यायते यावद् निरुत्तरम् आख्यायते.
इति परिणामकारित्रम् इत्य् उक्तः परिणाममनस्कारः
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यो भगवंस् तस्य कुलपुत्रस्य वा कुलदुहितुर् वा स च कुशलमूलानुमोदनापरिणामनापुण्यस्कन्ध एकतः पिण्डीकृतो ऽग्रयानुमोदनया नुमोदितः. कथं भगवन्न् अग्रानुमोदना भवति यावन् निरुत्तरानुमोदना भवति?
भगवान् आह: यदा स कुलपुत्रो वा कुलदुहिता वा अतीतानागतप्रत्युत्पन्नानां तथागतानां अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सप्रत्येकबुद्धानाम् अन्येषां च सर्वसत्त्वानां कुशलान् धर्मान् न गृह्णाति न मुञ्चति न मन्यते नावमन्यते नोपलभते. एवं चास्य भवति नैवात्र कश्चिद् धर्म उत्पद्यते न निरुध्यते न संक्लिश्यते न व्यवदायते, न च तेषां धर्माणां हानिर् न वृद्धिर् नागमो न निर्गमो न राशिर् नाभावः, एतेन पर्यायेण यच् चैषाम् अतीतानागतप्रत्युत्पन्नां धर्माणां तथतावितथतानन्यतथता धर्मता धर्मस्थितिता धर्मनियामता तथाहम् अनुमोदे अनुमोद्यानुत्तरायै सम्यक्संबोधये परिणामयामीति परिणामयेत्. एवम् अनुमोदमानस्य बोधिसत्त्वस्य महासत्त्वस्यग्रानुमोदना भवति यावन् निरुत्तरानुमोदना भवति. अस्याः खलु पुनः सुभूते अनुमोदनाया अन्या या अनुमोदनास् ताः. सर्वा शततमीम् अपि कलां नोपयान्ति यावद् उपनिषदम् अपि न क्षमन्ते. इयं चानुमोदना अन्याभ्यो ऽनुमोदनाभ्यो ऽग्र आख्यायते.
पुनर् अपरं सुभूते नवयानसंप्रस्थितेन कुलपुत्रेण वा कुलदुहित्रा (प्स्प्_2-3:141) वा तेषां अतीतानागतप्रत्युत्पन्नानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सप्रत्येकबुद्धानां प्रथमचित्तोत्पादम् उपादाय यावच् चानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धानां यावद् अनुपधिशेषे निर्वाणधातौ परिनिर्वृतानां यावत् सद्धर्मस्थितिर् एतस्मिन्न् अन्तरे यत् कुशलमूलं दानपारमिताप्रतिसंयुक्तम् एवं शिलं क्षान्तिं वीर्यं ध्यानं प्रज्ञापारमिताप्रतिसंयुक्तं यावद् अपरिमाणबुद्धधर्मप्रतिसंयुक्तं, ततो ऽन्येषाम् अपि सर्वसत्त्वानां यानि कुशलमूलानि दानमयानि शिलमयानि भावनामयानि तानि सर्वाण्य् अनुमोदितुकामेन एवम् अनुमोदितव्यम्. यथाधिमुक्तिस् तथा दानम्, एवं शीलं क्षान्तिं वीर्यं ध्यानं यथाधिमुक्तिस् तथा प्रज्ञा, यथाधिमुक्तिस् तथा रूपं वेदनासंज्ञासंस्काराः यथाधिमुक्तिस् तथा विज्ञानं, यथाधिमुक्तिस् तथा धातव आयतनानि यथाधिमुक्तिस् तथा प्रतीत्यसमुत्पादः, यथाधिमुक्तिस् तथाध्यात्मशून्यता बहिर्धाशून्यताध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावाशून्यता, यथाधिमुक्तिस् तथा सप्तत्रिंशद्बोधिपक्ष्या धर्माः, यथाधिमुक्तिस् तथाप्रमाणध्यानारूप्यसमापत्तयः, यथाधिमुक्तिस् तथार्यसत्यान्य् अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः, यथाधिमुक्तिस् तथा शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षडभिज्ञाः, यथाधिमुक्तिस् तथा सर्वसमाधयः सर्वधारणीमुखानि, यथाधिमुक्तिस् तथा दशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, यथाधिमुक्तिस् तथा विमुक्तिज्ञानदर्शनं, यथाधिमुक्तिस् तथानुमोदना, यथाधिमुक्तिस् तथा ते ऽतीतानागतप्रत्युत्पन्ना बुद्धधर्माः, यथाधिमुक्तिस् तथा बुद्धा भगवन्तः, यथाधिमुक्तिस् तथा तेषां बुद्धानां भगवताम् अभिसंबोधिः, यथाधिमुक्तिस् तथा तेषां बुद्धानां भगवतां परिनिर्वाणं, यथाधिमुक्तिस् तथा तेषां बुद्धानां भगवतां श्रावकाः प्रत्येकबुद्धाः, यथाधिमुक्तिस् तथा श्रावकप्रत्येकबुद्धपरिर्वाणं, यथाधिमुक्तिस् तथा तेषां बुद्धानां भगवतां धर्मता, यथाधिमुक्तिस् तथा तेषां श्रावकप्रत्येकबुद्धानां धर्मता, यथाधिमुक्तिस् तथा सर्वधर्माणां सर्वसत्त्वानां मुक्तानाम् अशान्तानाम् अक्लिष्टानाम् अविशुद्धानां धर्माणां धर्मता, अजातानाम् असंजातानाम् अनुत्पन्नानाम् अनिरुद्धानां धर्माणां धर्मता, ऽतथानुत्तरायै सम्यक्संबोधये परिणामयत्य् असंक्रान्त्यविनाशिताम् उपादाय. इयं सा सुभूते बोधिसत्त्वानां महासत्त्वानाम् अग्रा अनुमोदना यावन् निरुत्तरा अनुमोदना. अनया च सुभूते अनुमोदनया समन्वागतो बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां (प्स्प्_2-3:142) सम्यक्संबोधिम् अभिसंबुध्यते.
पुनर् अपरं सुभूते दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु ये ते बुद्धा भगवन्तः. सश्रावकसंघास् तिष्ठन्ति ध्रियन्ते यापयन्ति, तान् कश्चिद् एव महायानसंप्रस्थितः. कुलपुत्रो वा कुलदुहिता वा तथागतन् अर्हतः सम्यक्संबुद्धान् सश्रावकसंघान् यावज्जीवं सर्वसुखोपधानेन सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेच् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः परिनिर्वृतानां च तेषां बुद्धां भगवतां रात्रिंदिवम् औत्सुक्यम् आपद्येत सत्करणगुरुकरणमाननपूजनैः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः, शीले च तिष्ठेद् उपलम्भयोगेन क्षान्तिं भावयेद् वीर्यम् आरभेत ध्यानं समापद्येत प्रज्ञां च भावयेद् उपलम्भयोगेन, यश् च कुलपुत्रो वा कुलदुहित वा अनुत्तरायां सम्यक्संबोद्ःऔ संप्रस्थितो दानपारमितायां चरन् शीलपारमितायां चरन् क्षान्तिपारमितायां चरन् वीर्यपारमितायां चरन् ध्यानपारमितायां चरन् प्रज्ञापारमितायां चरन्न् अनुपलम्भयोगेन तानि कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये परिणामयति. अस्य पुण्याभिसंस्कारस्य कुशलमूलाभिसंस्कारस्य चासौ पौर्वकः पुण्याभिसंस्कारः शततमीम् अपि कलां नोपैति यावद् उपनिषदम् अपि न क्षमते. अयं स परिणामः, अग्र आख्यायते यावद् निरुत्तर आख्यायते. एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन दानपारमितायां चरता शीलपारमितायां चरता क्षान्तिपारमितायां चरता वीर्यपारमितायां चरता ध्यानपारमितायां चरता प्रज्ञापारमितायां चरता उपायकौशलेनानुपलम्भयोगेन तानि कुशलमूलान्य् अनुमोद्यानुत्तरायै सम्यक्संबोधये परिणामयितव्यानि.
इत्य् अनुमोदनामनस्कार इत्य् उक्तो ऽनुमोदनामनस्कारः
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: अवभासकरी भगवन् प्रज्ञापारमिता, नमस्करणीया भगवन् प्रज्ञापारमिता, नमस्करोमि भगवन् प्रज्ञापारमितायै, अनुपलिप्ता भगवन् प्रज्ञापारमिता, सर्वत्रैधातुकेन वितिमिरकरी भगवन् प्रज्ञापारमिता, सर्वक्लेशदृष्ट्यन्धकारप्रहाणाय, अग्रकरी भगवन् प्रज्ञापारमिता, सर्वेषां बोधिपक्ष्याणां धर्माणां क्षेमकरी भगवन् प्रज्ञापारमिता, सर्वभयभैरवोपद्रवप्रहाणाय, आलोककरि भगवन् प्रज्ञापारमिता पञ्चचक्षुःपरिग्रहाय, सत्त्वानां मार्गदर्शयित्री भगवन् प्रज्ञापारमिता, कुमार्गप्रयातानाइः सत्त्वानाम् अन्तद्वयविवर्जनतया, सर्वाकारज्ञताकरणी भगवन् प्रज्ञापारमिता सर्ववासनानुसंधिक्लेशप्रहाणताम् उपादाय, माता भगवन् प्रज्ञापारमिता (प्स्प्_2-3:143) बोधिसत्त्वानां महासत्त्वानां बुद्धधर्मजननताम् उपादाय, अनुत्पन्ना निरुद्धा भगवन् प्रज्ञापारमिता स्वलक्षणशून्यताम् उपादाय, संसारविमोक्षा भगवन् प्रज्ञापारमिताकूटस्थाविनाशिताम् उपादाय, अनाथानां सत्त्वानां नाथकरी भगवन् प्रज्ञापारमिता सर्वधर्मरत्नदात्रीताम् उपादाय, दशबलकरी भगवन् प्रज्ञापारमिता अनवमर्दनीयताम् उपादाय, त्रिपरिवर्तद्वादशाकारधर्मचक्रप्रवर्तयित्री भगवन् प्रज्ञापारमिता अप्रवर्तनानिवर्तनताम् उपादाय, सर्वधर्माणां स्वभावसंदर्शयित्री भगवन् प्रज्ञापारमिता अभावस्वभावशून्यताम् उपादाय. इति स्वभयः.
कथं भगवन् प्रज्ञापारमितायां स्थातव्यम्?
भगवान् आह: यथा शारिपुत्र शास्तरि तथा प्रज्ञापारमितायां स्थातव्यं, यथा शास्ता नमस्कर्तव्यस् तथा प्रज्ञापारमिता नमस्कतव्या. तत् कस्य हेतोर्? एषैव प्रज्ञापारमिता शास्ता, न चान्यः शास्ता अन्या प्रज्ञापारमिता, शास्तैव प्रज्ञापारमिता प्रज्ञापारमितैव शास्ता. अतो हि शरिपुत्र प्रज्ञापारमितायाः सर्वे तथागता अर्हन्तः सम्यक्संबुद्धाः प्रभाव्यन्ते बोधिसत्त्वाश् च महासत्त्वाः प्रत्येकबुद्धाश् चार्हन्तश् चानागामिनश् च सकृदागामिनश् च स्रोतआपन्नाश् च प्रभाव्यन्ते. अतश् च दशकुशलाः कर्मपथाः प्रभाव्यन्ते. चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः प्रभाव्यन्ते. पञ्चाभिज्ञाः, अध्यात्मशून्यता बहिर्धाशूयता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता सप्तत्रिंशद्बोधिपक्ष्या धर्माः, आर्यसत्यानि शून्यतानिमित्ताप्रणिहितान्य् अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः सर्वपारमिताः सर्वसमाधयः सर्वधारणीमुखानि दशबोधिसत्त्वभूमयः प्रभाव्यन्ते. दशतथागतबलानि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः प्रभाव्यन्ते यावत् सर्वाकारज्ञता प्रभाव्यते
अथ खलु शक्रस्य देवानाम् इन्द्रस्यैतद् अभूत्: कुत इयम् आयुष्मतः शारिपुत्रस्य पृच्छा जाता किंनिदाना वा?
अथ खल्व् आयुष्मान् शरिपुत्रः सक्रस्य देवानाम् इन्द्रस्य चेतसैव चेतःपरिवितर्कम् आज्ञाय शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: यत् कौशिकैवं वितर्कयसि, कुत इयम् आयुष्मतः शारिपुत्रस्य पृच्छा जाता किंनिदाना वेति. प्रज्ञापारमितापरिगृहीताः कौशिक बोधिसत्त्वा महासत्त्वा उपायकौशलेन च तेषाम् अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां प्रथमचित्तोत्पादम् उपादाय यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धानां यावत् सद्धर्मस्थितिर् एतस्मिन्न् अन्तरे यत् किंचित् कुशलं तत् सर्वाकारज्ञतायै परिणामयन्तीत्य् एतन्निदाना मे पृच्छा जाता. इयं प्रज्ञापारमिता कौशिक बोधिसत्त्वानां (प्स्प्_2-3:144) महासत्त्वानां दानपारमिताम् अभिभवति. एवं शीलं क्षान्तिं वीर्यं ध्यानपारमिताम् अभिभवति. तद्यथापि नाम कौशिक जात्यन्धानां शतं वा सहस्रं वा शतसहस्रं वा परिणायकम् अभव्यं मार्गावताराय कुत एव नगरप्रवेशाय? एवम् एव कौशिक इमा पञ्चपारमिता जात्यन्धभूता भवन्ति प्रज्ञापारमितां विना परिणायका अभव्या मार्गावताराय कुत एव सर्वाकारज्ञतामहानगरम् अनुप्राप्तये? यदा पुनः कौशिक पञ्चपारमिताः प्रज्ञापारमितापरिगृहीता भवन्ति तदा पञ्चपारमिताः सचक्षुस्का भवन्ति पारमितानामधेयं च प्रतिलभन्ते.
शक्र आह: यद् भदन्त शारिपुत्र एवम् आह, प्रज्ञापारमितापरिगृहीताः पञ्चपारमिता पारमितानामधेयं लभन्ते. न च भदन्त शरिपुत्र दानपारमितापरिगृहीताः पञ्चपारमिताः पारमितानामधेयं लभन्ते. एवं न शीलक्षान्तिवीर्यध्यानपारमितापरिगृहीताः पञ्चपारमिताः पारमितानामधेयं लभन्ते.
शारिपुत्र आह: एवम् एतत् कौशिकैवम् एतत्. न दानपारमितापरिगृहीताः कौशिक पञ्चपारमिताः पारमितानामधेयं लभन्ते. एवं न शीलक्षान्तिवीर्यध्यानपारमितापरिगृहीताः कौशिक पञ्चपारमिताः पारमितानामधेयं लभन्ते. तस्मात् तर्हि कौशिक प्रज्ञापारमितैव पञ्चानां पारमितानाम् अग्रा आख्यायते श्रेष्ठा आख्यायते ज्येष्ठा आख्यायते वरा आख्यायते प्रवरा आख्यायते उत्तमा आख्यायते अनुत्तमा आख्यायते असमा आख्यायते असमसमा आख्यायते.
इति श्रेष्ठता
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कथं भगवन् प्रज्ञापारमिताभिनिर्हर्तव्या?
भगवान् आह: रूपस्य शारिपुत्रानभिनिर्हाराय प्रज्ञापारमिताभिनिर्हर्तव्या वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यानभिनिर्हाराया प्रज्ञापारमिटाभिनिर्हर्त्व्या. एवं धातूनाम् आयतनानां प्रतीत्यसमुत्पादाङ्गानां दानपारमितानभिनिर्हाराय प्रज्ञापारमिताभिनिर्हर्तव्या. एवं शीलक्षान्तिवीर्यध्यानपारमितानभिनिर्हाराय प्रज्ञाप्रमिताभिनिर्हर्तव्या. अध्यात्मशूयतानभिनिर्हाराय प्रज्ञापारमिताभिनिर्हर्तव्या यावद् अभावस्वभावशून्यतानभिनिर्हाराय प्रज्ञापारमिताभिनिर्हर्तव्या. सप्तत्रिंशद्बोधिपक्ष्या धर्मानभिनिर्हाराय प्रज्ञापारमिताभिनिर्हर्तव्या. दशबलवैशारद्यावेणिकबुद्धधर्मानभिनिर्हाराय प्रज्ञापारमिताभिनिर्हर्तव्या. सर्वधर्मानभिनिर्हाराय प्रज्ञाप्रमिताभिनिर्हर्तव्या. एवं यावात् सर्वाकारज्ञतानभिनिर्हाराय (प्स्प्_2-3:145) प्रज्ञापारमिताभिनिर्हर्तव्या.
शरिपुत्र आह: कथं भगवन् रूपस्यानभिनिर्हाराय प्रज्ञापारमिताभिनिर्हर्तव्या? कथं भगवन् यावत् सर्वाकारज्ञतानभिनिर्हाराय प्रज्ञापारमिताभिनिर्हर्तव्या?
भग्वान् आह: रूपस्यानभिसंस्कारतो ऽनुत्पादतो ऽभावतो ऽजातितो ऽविनाशतो ऽनुपलब्धितः, यावत् सर्वाकारज्ञतानभिसंस्कारतो ऽनुत्पादतो ऽभावतो ऽजातितो ऽविनाशतो ऽनुपलब्धितः प्रज्ञापारमिताभिनिर्हर्तव्या.
इति सर्वधर्मानभिसंस्कारः
शारिपुत्र आह: एवम् अभिनिर्हृता भगवन् प्रज्ञापारमिता कतमं धर्मम् अर्पयति?
भगवान् आह: एवम् अभिनिर्हृता शारिपुत्र प्रज्ञापारमिता न कंचिद् धर्मम् अर्पयति, यतो न कंचिद् धर्मम् अर्पयति तस्मात् प्रज्ञापारमितेति संख्यां गच्छति.
शारिपुत्र आह: कतमं धर्मं नार्पयति?
भगवान् आह: न कुशलं धर्मम् अर्पयति नाकुशलं धर्मम् अर्पयति. एवं न सावद्यं नानवद्यं न सास्रवं नानास्रवं न संस्कृतं नासंस्कृतं न संक्लेशं न निःक्लेशं न लौकिकं न लोकोत्तरं न संक्लिष्टं न व्यवदानं न संसारं न निर्वाणम् अर्पयति. तत् कस्य हेतोर्? न हि प्रज्ञापारमिता कस्यचिद् धर्मस्योपलम्भयोगेन प्रत्युपस्थिता तेन कारणेन न कंचिद् धर्मम् अर्पयति.
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: किम् इयं भगवन् प्रज्ञापारमिता सर्वाकारज्ञताम् अपि नार्पयति?
भगवान् आह: यत् कौशिक एवं वदसि, किम् इयं प्रज्ञापारमिता सर्वाकारज्ञताम् अपि नार्पयतीति. एवम् एतत् कौशिकैवम् एतत्, प्रज्ञापारमिता कौशिक न कंचिद् धर्मम् अर्पयति नोपलभते सर्वाकारज्ञताम् अपि नार्पयति नोपलभते.
देवेन्द्र आह: कथं भगवन् प्रज्ञापारमिता सर्वाकारज्ञताम् अपि नार्पयति नोपलभते?
भगवान् आह: न हि कौशिक प्रज्ञाप्रमिता यथा नाम यथा निमित्तं यथाभिसंस्कारस् तथार्पयति.
देवेन्द्र आह: कथैः पुनर् भगवन्न् अर्पयति?
भगवान् आह: यथा नोपैति नोपाददाति नधितिष्ठति न प्रजहाति नाभिनिविशते (प्स्प्_2-3:146) तथार्पयति यथा न कंचिद् धर्मम् अर्पयति मुञ्चति न प्रतिगृह्णाति. एवं हि कौशिक प्रज्ञापारमिता सर्वधर्मान् नार्पयति न मुञ्चति न प्रतिगृह्णाति.
शक्र आह: आश्चर्यं भगवन् यावद् इयं प्रज्ञापारमिता सर्वधर्माणाम् अनुत्पादाय अनिरोधाय अनभिसंस्काराय अनुपलब्धये अविनाशाय प्रत्युपस्थिता.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं संज्ञास्यति, प्रज्ञापारमिता सर्वधर्मान् नार्पयतीति, रिञ्चिष्यति भगवन् प्रज्ञापारमितां दूरीकरिष्यति भगवन् प्रज्ञापारमिताम्.
भगवान् आह: अस्ति सुभूते पर्यायो येन पर्यायेण बोधिसत्त्वो महासत्त्वो रिञ्चन् प्रज्ञापारमितां दूरीकुर्यान् प्रज्ञापारमिताम्. सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं संज्ञास्यति, रिक्तेयं प्रज्ञापारमितेयं तुच्छा असारा वशिकेयं प्रज्ञापारमितेति, रिञ्चिष्यति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां दूरीकरिष्यति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताम्. अयं सुभूते पर्यायो येन पर्यायेण रिञ्चिष्यति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां दूरीकरिष्यति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताम्.
सुभूतिर् आह: प्रज्ञापारमितया भगवन् प्रत्यर्पितया कतमे धर्माः प्रत्यर्पिता भवन्ति?
भगवान् आह: प्रज्ञापारमितया सुभूते प्रत्यर्पितया न रूपं प्रत्यर्पितं भवति, न वेदना न संज्ञा न संस्काराः न विज्ञानं प्रत्यर्पितं भवति. न चक्षुः प्रत्यर्पितं भवति, न श्रोत्रं न घ्राणं न जिह्वा न कायो न मनः प्रत्यर्पितं भवति. न रूपं प्रत्यर्पितं भवति, न शब्दो न गन्धो न रसो न स्प्रष्टव्यं न धर्माः प्रत्यर्पिता भवन्ति. न दानपारमिता प्रत्यर्पिता भवति, न शीलपारमिता न क्षान्तिपारमिता न वीर्यपारमिता न ध्यानपारमिता न प्रज्ञापारमिता प्रत्यर्पिता भवति. नाध्यात्मशून्यता प्रत्यर्पिता भवति. न बहिर्धाशून्यता प्रत्यर्पिता भवति. नाध्यात्मबहिर्धाशून्यता प्रत्यर्पिता भवति यावन् नाभावस्वभावशून्यता प्रत्यर्पिता भवति. न सप्तत्रिंशद्बोधिपक्ष्या धर्माः प्रत्यर्पिता भवन्ति. न दशबलवैशारद्यानि न प्रतिसंविदो नाष्टादशावेणिका बुद्धधर्माः प्रत्यर्पिता भवन्ति. न स्रोतआपत्तिफल्ं प्रत्यर्पितं भवति. न सकृदागामिफलं प्रत्यर्पितं भवति. नानागामिफलं प्रत्यर्पितं भवति. नार्हत्त्वं प्रत्यर्पितं भवति. न प्रत्येकबुद्धत्वं प्रत्यर्पितं भवति. नानुत्तरा सम्यक्संबोधिः प्रत्यर्पिता भवति.
(प्स्प्_2-3:147)
सुभूतिर् आह: कथं भगवन् प्रज्ञापारमितया प्रत्यर्पितया न रूपं प्रत्यर्पितं भवति यावद् न सर्वाकारज्ञता प्रत्यर्पिता भवति?
भगवान् आह: रूपस्य सुभूते ऽनुपलब्ध्या प्रज्ञापारमिता प्रत्यर्पिता भवति यावत् सर्वाकारज्ञतानुपलब्ध्या प्रज्ञापारमिता प्रत्यर्पिता भवति. एवं खलु सुभूते प्रज्ञापारमितया प्रत्यर्पितया न रूपं प्रत्यर्पितं भवति यावद् न सर्वाकारज्ञता प्रत्यर्पित भवति.
इति सर्वधर्मानुपलम्भाभिसमयार्प्यणा
सुभूतिर् आह: महापारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
भगवान् आह: तत् किं मन्यसे? सुभूते कतमेन पर्यायेण महापारमितेयं यद् उत प्रज्ञापारमिता.
सुभूतिर् आह: न भगवन् रूपं महत्करोति नाल्पीकरोति, वेदनां संज्ञां संस्कारान् न विज्ञानं महत्करोति नाल्पीकरोति. एवं धातून् आयतनानि प्रतीत्यसमुत्पादाङ्गानि न महत्करोति नाल्पीकरोति. न दानपारमितां महत्करोति नाल्पीकरोति. एवं शीलं क्षान्तिं वीर्यं ध्यानं न प्रज्ञापारमितां महत्करोति नाल्पीकरोति. नाध्यात्मशून्यतां महत्करोति नाल्पीकतोति यावन् नाभावस्वभावशून्यतां महत्करोति नाल्पीकरोति. न सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् महत्करोति नाल्पीकरोति. नार्यसत्यानि नाप्रमाणध्यानारूप्यसमापत्तीः न शून्यतानिमित्ताप्रणिहितानि नाभिज्ञा महत्करोति नाल्पीकरोति. न तथागतबलानि न वैशारद्यानि न प्रतिसंविदो नाष्टादशावेणिकान् बुद्धधर्मान् महत्करोति नाल्पीकरोति. न बोधिं महत्करोति नाल्पीकरोति. न बुद्धधर्मं महत्करोति नाल्पीकरोति. यावन् न बुद्धं महत्करोति नाल्पीकरोति. न रूपं विपुलीकरोति न परित्तीकरोति. न रूपं बलवत्करोति न दुर्बलीकरोति. अनेन भगवन् पर्यायेण महापारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता. सचेत् पुनर् नवयानसंप्रस्थितो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताम् आगम्य ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमिताम् आगम्य एवं ज्ञास्यति न प्रज्ञापारमिता रूपं महत्करोति नाल्पीकरोति यावन् न बुद्धधर्मं महत्करोति नाल्पीकरोति. न रूपं बलवत्करोति न दुर्बलीकरोति. एवं संजानन् बोधिसत्त्वो महासत्त्वो न चरति प्रज्ञापारमितायां. तत् कस्य हेतोः? नैष भगवन् निष्यन्दः प्रज्ञापारमितायाः. यद् रूपं महद् अल्पं वा कुर्याद् यावद् बुद्धधर्मं महद् अल्पं वा कुर्यान् नैष प्रज्ञापारमिताया निष्यन्दः. तत् कस्य हेतोः? न ह्य् उपलम्भसंज्ञिनो बोधिसत्त्वास् तथा सत्त्वाजातितया प्रज्ञापारमिता द्रष्टव्या. रूपाजातितः प्रज्ञापारमिताजातिता (प्स्प्_2-3:148) द्रष्टव्या. वेदनासंज्ञासंस्कारा विज्ञानाजातितः प्रज्ञापारमिताजातिता द्रष्टव्या यावद् बुद्धाजातितः प्रज्ञापारमिताजातिता द्रष्टव्या. सत्त्वास्वभावतया प्रज्ञापारमितास्वभावता द्रष्टव्या. रूपास्वभावतया प्रज्ञापारमितास्वभावता द्रष्टव्या. वेदनासंज्ञासंस्कारा विज्ञानास्वभावतया प्रज्ञापारमितास्वभावता द्रष्टय्या यावद् बुद्धास्वभावतया प्रज्ञापारमितास्वभावता द्रष्टव्या. रूपाभावतया प्रज्ञापारमिताभावता वेदितव्या. वेदनासंज्ञासंस्कारा विज्ञानाभावतया प्रज्ञापारमिताभावता वेदितव्या यावद् बुद्धाभावतया प्रज्ञापारमिताभावता वेदितव्या. सत्त्वशून्यतया प्रज्ञापारमिता शून्यता वेदितव्या. रूपशून्यतया प्रज्ञापारमिता शून्यता वेदितव्या. वेदनासंज्ञासंस्कारा विज्ञानशून्यतया प्रज्ञापारमिता शून्यता वेदितव्या यावद् बुद्धशून्यतया प्रज्ञापारमिता शून्यत वेदितव्या. एवं सत्त्वानिमित्ततया सत्त्वाप्रणिहिततया प्रज्ञापारमितानिमित्तताप्रणिहितता. रूपानिमित्ततयाप्रणिहिततया प्रज्ञापारमितानिमित्तताप्रणिहितता. वेदनासंज्ञासंस्कारा विज्ञानानिमित्ततयाप्रणिहिततया प्रज्ञापारमितानिमित्तताप्रणिहितता यावद् बुद्धानिमित्ततयाप्रणिहिततया प्रज्ञापारमितानिमित्तताप्रणिहितता. एवं सत्त्वासत्तया प्रज्ञापारमितासत्ता वेदितव्या. सत्त्वाचिन्त्यतया प्रज्ञापारमिताचिन्त्यता वेदितव्या. सत्त्वाविनाशितया प्रज्ञापारमिताविनाशिता वेदितव्या. सत्त्वानभिसंबोधनतया प्रज्ञापारमितानभिसंबोधनता वेदितव्या. रूपानभिसंबोधनतया प्रज्ञापारमितानभिसंबोधनता वेदितव्या. वेदनासंज्ञासंस्कारा विज्ञानानभिसंबोधनतया प्रज्ञापारमितानभिसंबोधनता वेदित्वया यावद् बुद्धानभिसंबोधनतया प्रज्ञापारमितानभिसंबोधनता वेदितव्या. सत्त्वबलासमन्वागततया प्रज्ञापारमिता बलासमन्वागतता वेदितव्या. रूपबलासमन्वागततया प्रज्ञापारमिता बलासमन्वागतता वेदितव्या. वेदनासंज्ञासंस्कारा विज्ञानबलासमन्वागतया प्रज्ञापारमिता बलासमन्वागतता वेदितव्या यावद् बुद्धबलासमन्वागततया प्रज्ञापारमिता बलासमन्वागतता वेद्ज्तव्या. अनेनापि भगवन् पर्यायेण महापारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.
इति महार्थतेत्य् उक्तो ऽभिनिर्हारः
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: यो ऽयं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताम् अधिमोक्ष्यते, कुतश् च्युत्वा स इहागतो भविष्यति? कियच्चिरसंप्रस्थितः स कुलपुत्रो वा कुलदुहिता वा अभूद् अनुत्तरायां सम्यक्संबोधौ? कियन्तो वानेन तथागताः पर्युपासिताः? कियच्चिरं (प्स्प्_2-3:149) स दानपारमितायां चरितः? कियच्चिरं शीलपारमितां चरितः? कियच्चिरं क्षान्तिपारमितायां चरितः? कियच्चिरं वीर्यपारमितायां चरितः? कियच्चिरं ध्यानपारमितायां चरितः? कियच्चिरं प्रज्ञापारमितायां चरितो य इमां प्रज्ञापारमिताम् अर्थतश् च नयतश् चाधिमोक्ष्यते?
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: स खलु पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वो दशसु दिक्षु तथागतान् अर्हतः सम्यक्संबुद्धान् पर्युपास्येहागत इहोपपन्नो भविष्यति. इति बुद्धसेवा
यः खलु पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽसंख्येयान्य् अप्रमेयाणि कल्पकोटीनियुतशतसहस्राणि समुदागतो ऽभूद् अनुत्तरायां सम्यक्संबोधौ, स प्रथमचित्तोत्पादम् उपादाय दानपारमितायां चरितः शीलपारमितायां चरितः क्षान्तिपारमितायां चरितो वीर्यपारमितायां चरितो ध्यानपारमितायां चरितः प्रज्ञापारमितायां चरितः सन्न् इहागतो भविष्यति. स खलु पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया दृष्टया श्रुतया वा शास्ता मया दृष्ट इति चित्तम् उत्पादयिष्यति, शास्ता मया श्रुत इति चित्तम् उत्पादयिष्यति. स खलु पुनः शारिपुत्र बोधिसत्त्वो महासत्त्व इमां प्रज्ञापारमिताम् अर्थतश् च नयतश् चाधिगमिष्यत्य् अनिमित्ताद्वयानुपलम्भयोगेन.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: शक्या पुनर् भगवन् प्रज्ञापारमिता द्रष्टुं वा श्रोतुं वा?
भगवान् आह: नो हीदं सुभूते न हि सुभूते प्रज्ञापारमितायाः श्रोतारो द्रष्टारो न प्रज्ञापारमितां ते पश्यन्ति न शृण्वन्ति धर्मजडताम् उपादय. एवं ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां ते न पश्यन्ति न शृण्वन्ति धर्मजडताम् उपादाय. अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां न पश्यन्ति न शृण्वन्ति धर्मजडताम् उपादाय. स्मृत्युपस्थानानि न पश्यन्ति न शृण्वन्ति धर्मजडताम् उपादाय. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् न पश्यन्ति न शृण्वन्ति धर्मजडताम् उपादाय. एवम् आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहितान्य् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् न पश्यन्ति न शृण्वन्ति. बुद्धबोधिं न पश्यन्ति न शृण्वन्ति धर्मजडताम् उपादाय.
इति दानादिपारमितासमुदागमः
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कियच्चिरं चरितः स भगवन् बोधिसत्त्वो महासत्त्वो भविष्यति य इह गम्भीरायां प्रज्ञापारमितायां योगम् आपत्स्यते?
(प्स्प्_2-3:150)
भगवान् आह: विभज्यैतत् सुभूते व्याकर्तव्यं, स्यात् सुभूते पर्यायो यो बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय गम्भीरायां प्रज्ञापारमितायां योगम् आपद्यते. एवं ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां योगम् आपद्यते. तच् चोपायकौशलेन न च कंचिद् धर्मं प्रतिक्षिपति यथा नोपचयं पश्यति नापचयं, न जातु षड्भिः पारमिताभिर् विरहितो भवति न बुद्धैर् भगवद्भिर्, यैश् च पूजाविशेषैर् आकाङ्क्षेत् तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तस्य ते पूजाविशेषाः सहचित्तोत्पादेनैव संऋध्यन्ते. बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति. न जातु मातुः कुक्षाव् उपपद्यते. न च जातु विरहितो भवति अभिज्ञाभिर्. न च केनचित् क्लेशेन सार्धं संवसति. न श्रावकचित्तेन न प्रत्येकबुद्धचित्तेन सार्धं संवसति. बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति सत्त्वांश् च परिपाचयन् बुद्धक्षेत्रं च परिशोधयन्. अयं सुभूते बोभिसत्त्वो महासत्त्वो यो ऽस्यां गम्भीरायां प्रज्ञापारमितायां प्रथमचित्तोत्पादम् उपादाय योगम् आपत्स्यते. इत्य् उपायकौशलम्
सन्ति पुनः सुभूते महायानिकाः कुलपुत्राः कुलदुहितरश् च यैर् बहूनि बुद्धशतानि बहूनि बुद्धसहस्राणि बहूनि बुद्धशतसहस्राणि बहूनि बुद्धकोटिनियुतशतसहस्राणि दृष्टानि भवन्ति. तेभ्यश् चान्तिके शिक्षमाणैर् दानानि दत्तानि भवन्ति, शीलं रक्षितं क्षान्तिर् भाविता वीर्यम् आरब्धं ध्यानम् आसेवितं प्रज्ञा भाविता भवति सा चोपलम्भयोगेन. ते ऽस्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां पर्षड्भ्यो ऽपक्रमिष्यन्ति. ते पुनः कुलपुत्राः कुलदुहितरश् चागौरवतयास्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां बुद्धानां भगवताम् अन्तिकाद् अपक्रमिष्यन्ति. इहैव ते कुलपुत्राः कुलदुहितरश् च महायानिकाः संनिपतिता ये गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायाम् अपक्रमिष्यन्ति. तत् कस्य हेतोस्? तथा हि ते कुलपुत्राः कुलदुहितरश् च पूर्वान्ते ऽपि गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायाम् अपक्रान्ता, एतर्ह्य् अपि गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायाम् अपक्रामान्ति. न कायेन न चित्तेन समग्रीन् दास्यन्ति दुष्प्रज्ञसंवर्तनीयं कर्मोपचेष्यन्ति. ते तेन दौष्प्रज्ञसंवर्तनीयेन कर्मणा कृतेनोपचितेन इमां गम्भीरां प्रज्ञापारमितां भाष्यमाणां प्रत्याख्यास्यन्ति, तैः प्रत्याख्याय अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सर्वज्ञताप्रत्याख्याता भवति. ते तेन सर्वज्ञताप्रत्याख्यानेन धर्मव्यसनसंवर्तनीयेन कर्मणा कृतेनोपचितेन बहूनि वर्षाणि बहूनि वर्षशतानि बहूनि वर्षसहस्राणि (प्स्प्_2-3:151) बहूनि वर्षकोटीनियुतशतसहस्राणि महानिरये प्रक्षेप्स्यन्ते. तेषां महानिरयान् महानिरयं संक्रामतां तेजःसंवर्तनी वा अप्संवर्तनी वा वायुसंवर्तनी वा प्रादुर्भावो भविष्यति. ते तासु संवर्तनीषु प्रादुर्भातास्व् अन्येषु लोकधातुषु ये महानिरयास् तेषु प्रक्षेप्स्यन्ते. ते तत्रोपपन्नाः समानाः, महानिरयान् महानिरयं संक्रमिष्यन्ति. तेषां महानिरयान् महानिरयं संक्रामतां पुनर् एव संवर्तनीयः प्रादुर्भविष्यन्ति. तासु संवर्तनीषु प्रादुर्भूतासु पूर्वस्यां दिशि प्रक्षेप्स्यन्ते, दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्षूर्ध्वम् अधो दिशि यो महानिरयास् तेषु प्रक्षेप्स्यन्ते. तेभ्यो ऽपि पुनः संवर्तनीषु प्रादुर्भूतास्व् अन्येषु लोकधातुषु ये महानिरयास् तेषु प्रक्षेप्स्यन्ते. तेषु पुनर् अपि तेभ्यो लोकधातुभ्यः संवर्तनीषु प्रादुर्भूतासु तेभ्यो महानिरयेभश् च्युतास् तेन धर्मव्यसनसंवर्तनीयेन कर्मणाक्षीणेन पुनर् एव इहोपपत्स्यन्ते. ते पुनर् एव महानिरयान् महानिरयं संक्रमिष्यन्ति. ते तेषु महानिरयेषूपपन्ना बहूनि तीव्राणि महाकटुकानि महानिरयदुःखानि प्रत्यनुभविष्यन्ति. तावद् एव ते तानि निरयदुःखां प्रत्यनुभविष्यन्ति यावत् पुनर् एव संवर्तनीयः प्रादुर्भविष्यन्ति. संवर्तनीषु प्रादुर्भूतास्व् इतश् च्युता अन्येषु लोकधातुषु पुनर् एव महानिरयेषूपपत्स्यन्ते. एवं समन्तात् पुनर् अपि दशसु दिक्षु तिर्यग्योनिषूपपत्स्यन्ते. पुनर् एव दशसु दिक्षु यमलोकेषूपपन्ना महातीव्रां महाकटुकां महादुष्खां वेदनां वेदयन्तस् तत् कर्म क्षेपयिष्यन्ति. ते बहुदुःखवेदनीयं कर्म क्षेपयित्वा कदाचित् कर्हिचित् मानुष्यकम् आत्मभावं प्रतिलप्स्यन्ते. ते यत्र यत्रोपपत्स्यन्ते तत्र तत्र जात्यन्धा भविष्यन्ति. जात्यन्धकुलेषूपपत्स्यन्ते. चण्डालकुलेषु वा पुष्कसकुलेषु वा शाकुनिकुलेषु वा सुकरिकुलेषु वा औरभिककुलेषु वा नीचेषु वा कुत्सितेषु वा कुलेषु वा नीचवृत्तिसु वा उपपत्स्यन्ते. ते तेषूपपन्ना अन्धा वा भविष्यन्ति काणा वा अजिह्वा वा अहस्ता वा अपादा वा अकर्णका वा अनासिका वा यत्र बुद्धशब्दं न श्रोष्यन्ति न धर्मशब्दं न संघशब्दं न बोधिसत्त्वशब्दं न प्रत्येकबुद्धशब्दं श्रोष्यन्ति नार्हच्छब्दं श्रोष्यन्ति ते तेनैव धर्मव्यसनसंवर्तनीयेन कर्मणा कृतेनोपचितेन.
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: पञ्च भगवन्न् आनन्तर्याण्य् अस्य धर्मव्यसनसंवर्तनीयस्य कर्मणः कृतस्योपचितस्य प्रतिवर्णिका अपि न भवन्ति?
भगवान् आह: प्रतिवर्णिकेति शारिपुत्र न वक्तव्यास्य धर्मव्यसनसंवर्तनीयकर्मणः कृतस्योपचितस्य. ये प्रज्ञापारमितायां भाष्यमाणायां प्रतिबाधितव्यां मंस्यन्ते, नात्र शिक्षितव्यं नैष धर्मो नैष विनयो नैतच् (प्स्प्_2-3:152) छास्तुः शासनं नैतत् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् भाषितम् इति भाष्यन्ते, त आत्मना च प्रतिवहितव्यां मंस्यन्ते, अन्यांश् च सत्त्वान् विवेचयिष्यन्ति. ते स्वसंतानान्य् उपहत्य परसंतानान्य् उपहन्तव्यानि मंस्यन्ते. ते स्वसंतानं सविषं कृत्वा परसंतानान्य् अपि सविषाणि करिष्यन्ति. ते स्वयं नष्टाः. परान् अपि नाशयिष्यन्ति. स्वयं च गम्भीरां प्रज्ञारमिताम् अजानन्तो ऽबुद्ध्यमानाः प्रतिवहितव्यां मंस्यन्ते, परांश् च तथैव ग्राहयिष्यन्ति. नाहं शारिपुत्र तेषां पुद्गलानां श्रवणम् अप्य् अभ्यनुजानामि कः पुनर् वादो दर्शनं कुत एव स्थानं, तत् कस्य हेतोर्? धर्मदूषका हि ते शारिपुत्र तथारूपाः पुद्गला वेदितव्याः कशंबकजातीयाः कृष्णा हि जातयः शारिपुत्र तथारूपाः पुद्गला वेदितव्याः. तेषां खलु पुनः शारिपुत्र तथारूपाणां पुद्गलानां ये श्रोतव्यं श्रद्धातव्यं मंस्यन्ते ते ऽनयेन व्यसनम् आपत्स्यन्ते. यश् चेमां शारिपुत्र प्रज्ञापारमितां दूषयिष्यति धर्मदूषकः स पुद्गलो वेदितव्यः.
शारिपुत्र आह: न खलु पुनर् भगवंस् तस्य धर्मदूषकस्य पुद्गलस्य भगवता तत्रोपपन्नस्यात्मभावस्य प्रमाणम् आख्यातम्.
भगवान् आह: तिष्ठतु शारिपुत्र तस्य धर्मदूषकस्य पुद्गलस्य तत्रोपपन्नस्यात्मभावस्य प्रमाणम्. तत् कस्य हेतोः? मा तस्य धर्मदूषकस्य पुद्गलस्यात्मभावस्य प्रमाणं श्रुत्वा उष्णं रुधिरं मुखाद् आगच्छेत्, मरणं वा निगच्छेत् मरणमात्रकं वा, दुःखं श्रुत्वा शोकशल्पसमर्पितो वा भवेत्. उच्छोष्येद् वा म्लायेद् वा नीलो वा हरितो वा लूनो वा यावद् इदं तस्य धर्मदूषकस्य पुद्गलस्य दृशस्यात्मभावप्रतिलाभस्य प्रमाणम् इति, यस्यायम् ईदृशो दोषः संविद्यत इति. न भगवान् आयुष्मतः शारिपुत्रस्यावकाशं करोतीदं तस्यात्मभावस्य प्रमाणं भविष्यतीति.
शारिपुत्र आह: आख्यातु भगवान् पश्चिमाया जनताया आलोकाः कृतो भविष्यत्य् अनेन धर्मव्यसनसंवर्तनीयेन कर्मणा कृतेनोपचितेन धर्मदूषकाः पुद्गला ईदृशम् आत्मभावं परिग्रहीष्यन्तीति.
भगवान् आह: एवम् एव शारिपुत्र पश्चिमाया जनताया आलोकः कृतो भविष्यत्य् अनेनासौ धर्मव्यसनसंवर्तनीयेन कर्मणा कृतेनोपचितेन महानिरयेषु दुःखम् अनुभविष्यति. या एतस्यैव दुःखस्याप्रमाणता बहुतरं चेयच्चिरं दुःखानि प्रत्यनुभविष्यन्तीति, एष एव शुक्लांशिकस्य कुलपुत्रस्य वा कुलदुहितुर् वा तेभ्यो धर्मव्यसनसंवर्तनीयेभ्यः. कर्मभ्यो निर्वृत्तिर् भविष्यति. ते जिवितहेतोर् अपि धर्मं न प्रतिक्षेप्स्यन्ति. मा भूद् अस्माकम् ईदृशैर् दुःखैः समवधानम् इति.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: सुसंवृतकायवाग्मनस्कर्मणा (प्स्प्_2-3:153) भगवन् कुलपुत्रेण वा कुलदुहिता वा भवितव्यं मा भूद् ईदृशानां दुःखानाम् अनुभवनम् इति तथागतं वा न द्रक्ष्याम इति धर्मं वा न श्रोष्याम इति संघं वा न द्रक्ष्याम इत्य् अपगतबुद्धोत्पादेषु वा बुद्धक्षेत्रेषूपपत्स्यामह इति मनुष्यदरिद्रेषु वा अग्राह्यवचना वा भविष्याम इत्य्. अनेन भगवन् धर्मप्रतिक्षेपवाक्कर्मणा कृतेनोपचितेन व्यसनसंवर्तनीयं कर्मकृतम् उपचितं भवति.
भगवान् आह: अनेन सुभूते सर्वधर्मप्रतिक्षेपवाक्कर्मणा कृतेनोपचितेन धर्मव्यसनसंवर्तनीयं कर्म कृतं भवत्य् उपचितम् इहैव ते सुभूते मोहपुरुषाः स्वाख्याते धर्मविनये प्रव्रजिता भविष्यन्ति. य इमां प्रज्ञापारमितां दूषयितव्यां मंस्यन्ते प्रतिबाधितव्यां मंस्यन्ते. प्रज्ञापारमितया सुभूते दूषितया प्रतिबाधितया बुद्धानां भगवतां बोधिर् दूषिता प्रतिबाधिता भवति, बुद्धानां भगवतां बोध्या दूषितया प्रतिबाधितयातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सर्वज्ञता दूषिता भवति प्रतिबाधिता. सर्वज्ञतया दूषितया प्रतिबाधितया धर्मः. प्रतिबाधितो भवति. धर्मेण प्रतिबाधितेन संघः. प्रतिबाधितो भवति. संघेन प्रतिबाधितेन लौकिकी सम्यग्दृष्टिर् लोकोत्तरा च सम्यक्दृष्टिः प्रतिबाधिता भवति. एवं षट्पारमिताः सप्तत्रिंशद्बोधिपक्ष्या धर्मा आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः. प्रतिबाधिता भवन्ति. शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः षडभिज्ञाः प्रतिबाधिता भवन्ति. अध्यात्मशून्यता यावद् अभावस्वभावशून्यता सर्वसमाधयः सर्वधारणीमुखानि दशबोधिसत्त्वभूमयः प्रतिबाधिता भवन्ति. दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः प्रतिबाधिता भवन्ति. यावत् सर्वज्ञता प्रतिबाधिता भवति. सर्वज्ञतया प्रतिबाधितयाप्रमेयासंख्येयापरिमाणो ऽपुण्यस्कन्धः परिगृहीतो भवति. तेन वापुण्यस्कन्धेन परिगृहितेनाप्रमेयम् असंख्येयम् अपरिमाणं दुःखदौर्मनस्यं परिगृहीतं भवति.
इति धर्मव्यसनसंवर्तनकर्म
सुभूतिर् आह: य इमे भगवन् मोहपुरुषा गम्भिरां प्रज्ञापारमितां प्रतिबाधिष्यन्ति, कतमैर् आकारैर् इमां प्रज्ञापारमितां प्रतिबाधिष्यन्ति?
भगवान् आह: चतुर्भिः सुभूते आकारैस् ते मोहपुरुषा इमां गम्भीरां प्रज्ञापारमितां प्रतिबाधिष्यन्ति. कतमैश् चतुर्भिर्? यद् उत माराधिष्ठिताश् च ते मोहपुरुषा भविष्यन्ति. अनभियुक्ताश् च गम्भीरेषु धर्मेषु भविष्यन्ति (प्स्प्_2-3:154) न च प्रसादं प्रतिलप्स्यन्ते. अभिनिविष्टाश् च ते पञ्चस्कन्धेषु भविष्यन्ति पापमित्रहस्तगता. दोषचरिताश् च ते मोहपुरुषा भविष्यन्त्य् आत्मोत्कर्षकाः परपंसकाः. एभिः सुभूते चतुर्भिर् आकारैः समन्वागतास् ते मोहपुरुषा गम्भीरां प्रज्ञापारमितां प्रतिक्षेप्स्यन्ति.
सुभूतिर् आह: दुरधिमोच्या भगवन् गम्भीरा प्रज्ञापारमितानभियुक्तेन कुशलमूलविरहितेन पापमित्रहस्तगतेन.
भगवान् आह: एवम् एतत् सुभूते दुरधिमोच्या गम्भीरा प्रज्ञापारमितानभियुक्तैः कुशलमूलविरहितैः पापमित्रहस्तगतैः.
सुभूतिर् आह: कियद् भगवन् गम्भीरा प्रज्ञापारमिता येयं दुरधिमोच्या?
भगवान् आह: रूपं सुभूते ऽबद्धम् अमुक्तं. तत् कस्य हेतो? रूपास्वभावो हि सुभूते रूपं, वेदनास्वभावो हि वेदना, संज्ञास्वभावो हि संज्ञा, संस्कारास्वभावो हि संस्कारा, विज्ञानं सुभूते ऽबद्धम् अमुक्तम्. तत् कस्य हेतोर्? विज्ञानास्वभावो हि विज्ञानम्. दानपारमिता सुभूते ऽबद्धामुक्ता. तत् कस्य हेतोर्? दानपारमितास्वभावा हि दानपारमिता. एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता सुभूते ऽबद्धामुक्ता. तत् कस्य हेतोः? प्रज्ञापारमितास्वभावा हि प्रज्ञापारमिता. अध्यात्मशून्यता सुभूते ऽबद्धामुक्ता. तत् कस्य हेतोर्? अध्यात्मशून्यतास्वभावा ह्य् अध्यात्मशून्यता, यावद् अभावस्वभावशून्यता सुभूते ऽबद्धामुक्ता. तत् कस्य हेतोर्? अभावस्वभावशून्यतास्वभावा ह्य् अभावस्वभावशून्यता. स्मृत्युपस्थानानि सुभूते ऽबद्धान्य् अमुक्तानि. तत् कस्य हेतोः? स्मृत्युपस्थानास्वभावा हि स्मृत्युपस्थानाम्. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबोध्यङ्गानि मार्गाः सुभूते ऽबद्धा अमुक्तास्. तत् कस्य हेतोर्? मार्गास्वभावा हि मार्गाः. एवं दशबलानि वैशारद्यानि प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः सर्वाकारज्ञता सुभूते ऽबद्धामुक्ता. तत् कस्य हेतोः? सर्वाकारज्ञतास्वभावो हि सुभूते सर्वाकारज्ञता. रूपस्य सुभूते पूर्वान्तो ऽबद्धो ऽमुक्तस्. तत् कस्य हेतोः? पूर्वान्ताभावस्वभावो हि सुभूते रूपं वेदनासंज्ञासंस्काराः विज्ञानस्य सुभूते पूर्वान्तो ऽबद्धो ऽमुक्तस्. तत् कस्य हेतोः? पूर्वान्ताभावस्वभावो हि सुभूते विज्ञानम्, एवं यावत् सर्वाकारज्ञतायाः सुभूते पूर्वान्तो ऽबद्धो ऽमुक्तस्. तत् कस्य हेतोः? पूर्वान्तो ऽभावस्वभावो हि सुभूते सर्वाकारज्ञता. रूपस्य सुभूते ऽपरान्तो ऽबद्धो ऽमुक्तस्. तत् कस्य हेतोर्? अपरान्तो ऽभावस्वभावो हि सुभूते रूपं वेदनासंज्ञासंस्कारा विज्ञानस्य सुभूते ऽपरान्तो ऽबद्धो ऽमुक्तः. तत् कस्य हेतोर्? अपरान्ताभावस्वभावो (प्स्प्_2-3:155) हि सुभूते विज्ञानम्. एवं यावत् सर्वाकारज्ञतायाः सुभूते ऽपरान्तो ऽबद्धो ऽमुक्तः. तत् कस्य हेतोर्? अपरान्ताभावस्वभावो हि सुभूते सर्वाकारज्ञता. रूपं सुभूते प्रत्युत्पन्नम् अबद्धम् अमुक्तं. तत् कस्य हेतोः? प्रत्युत्पन्नाभावस्वभावो हि सुभूते रूपं वेदनासंज्ञासंस्कारा, विज्ञानं सुभूते प्रत्युत्पन्नम् अबद्धम् अमुक्तं. तत् कस्य हेतोः? प्रत्युत्पन्नाभावस्वभावो हि सुभूते विज्ञानं. यावत् सर्वाकारज्ञता प्रत्युत्पन्नाबद्धामुक्ता. तत् कस्य हेतोः? प्रत्युत्पन्नाभावस्वभावो हि सुभूते सर्वाकारज्ञता.
सुभूतिर् आह: दुरधिमोच्या भगवन् प्रज्ञापारमितानभियुक्तैर् अनवरोपितकुशलमूलैः पापमित्रहस्तगतैर् मारवशगतैः कुशीदैर् हीनवीर्यैर् मुषितस्मृतिभिर् असंप्रजानैः.
भगवान् आह: एवम् एतत् सुभूते दुरधिमोच्या सुभूते प्रज्ञापारमितानभियुक्तैर् अनवरोपितकुशलमूलैः पापमित्रहस्तगतैर् मारवशगतैः कुशीदैर् हीनवीर्यैर् मुषितस्मृतिभिर् असंप्रजानैः.
इति कर्मावरणस्य चत्वारो हेतवः
या सुभूते रूपस्य विशुद्धिः फलविशुद्धिर् एव सा, वेदनायाः संज्ञायाः संस्काराणां, या विज्ञानस्य विशुद्धिः फलविशुद्धिर् एव सा. या दानपारमिताया विशुद्धिः फलविशुद्धिर् एव सा. एवं शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमिताया, या प्रज्ञापारमिताया विशुद्धिः फलविशुद्धिर् एव सा. याध्यात्मशून्यताया विशुद्धिः फलविशुद्धिर् एव सा. यावद् याभावस्वभावशून्यताया विशुद्धिः फलविशुद्धिर् एव सा. एवं या सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणां विशुद्धिः फलविशुद्धिर् एव सा. एवम् आर्यसत्यानाम् अप्रमाणानां ध्यानारूप्यसमापत्तीनां या विशुद्धिः फलविशुद्धिर् एव सा. या शून्यतानिमित्ताप्रणिहितानां विशुद्धिः फलविशुद्धिर् एव सा. याष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां विशुद्धिः फलविशुद्धिर् एव सा. या षण्णाम् अभिज्ञानां विशुद्धिः फलविशुद्धिर् एव सा. एवं या सर्वसमाधीनां सर्वधारणीमुखानां विशुद्धिः फलविशुद्धिर् एव सा. या दशानां बोधिसत्त्वभूमीनां विशुद्धिः फलविशुद्धिर् एव सा. या दशानां तथागतबलानां विशुद्धिश् चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदां यावद् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां विशुद्धिः फलविशुद्धिर् एव सा. या बोधेर् विशुद्धिः फलविशुद्धिर् एव सा.
पुनर् अपरं सुभूते या रूपविशुद्धिः फलविशुद्धिर् एव सा, या फलविशुद्धिः प्रज्ञापारमिताविशुद्धिः सा, या प्रज्ञापारमिताविशुद्धिः रापविशुद्धिः. (प्स्प्_2-3:156) सा इति हि रूपविशुद्धिश् च फलविशुद्धिश् च प्रज्ञापारमिताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. एवं यावद् या सर्वाकारज्ञताविशुद्धिः प्रज्ञापारमिताविशुद्धिः सा, या प्रज्ञापारमिताविशुद्धिः. सर्वाकारज्ञताविशुद्धिः. सा इति हि सर्वाकारज्ञताविशुद्धिश् च प्रज्ञापारमिताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. इति विशुद्धिसामान्यम्
पुनर् अपरं सुभूते या आत्मविशुद्धिः रूपविशुद्धिः सा, या रूपविशुद्धिर् आत्मविशुद्धिः सा इति ह्य् आत्मविशुद्धिश् च रूपविशुद्धिश् चाद्वयम् एतद् अद्वैधिकारम् अभिन्नम् अच्छिन्नम्. एवं या सत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकविशुद्धिः रूपविशुद्धिः सा, या रूपविशुद्धिर् यावत् पश्यकविशुद्धिः सा इति हि यावत् पश्यकविशुद्धिश् च रूपविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. एवं यावद् या पश्यकविशुद्धिः सर्वज्ञताविशुद्धिः सा, या सर्वज्ञताविशुद्धिः पश्यकविशुद्धिः सा इति हि पश्यकविशुद्धिश् च सर्वज्ञताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्.
पुनर् अपरं सुभूते आत्मपरिशुद्ध्या रूपविशुद्धी रूपविशुद्ध्या आत्मपरिशुद्धिर् इति ह्य् आत्मपरिशुद्धिश् च रूपपरिशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. एवं सत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकपरिशुद्ध्या रूपविशुद्धिः रूपपरिशुद्ध्या यावत् पश्यकपरिशुद्धिर् इति हि पश्यकपरिशुद्धिश् च रूपपरिशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. एवं यावत् पश्यकपरिशुद्ध्या सर्वज्ञतापरिशुद्धिः सर्वज्ञताविशुद्ध्या पश्यकपरिशुद्धिर् इति हि पश्यकविशुद्धिश् च सर्वज्ञतापरिशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्.
पुनर् अपरं सुभूते रागपरिशुद्ध्या रूपपरिशुद्धिर् यावत् सर्वज्ञतापरिशुद्धिर् इति हि रागपरिशुद्धिश् च सर्वज्ञतापरिशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. एवं दोषमोहपरिशुद्ध्या रूपपरिशुद्धिर् यावत् सर्वज्ञतापरिशुद्धिर् इति हि दोषमोहपरिशुद्धिश् च सर्वज्ञतापरिशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्.
पुनर् अपरं सुभूते रागदोषमोहपरिशुद्ध्या रूपपरिशुद्धिर् एवं यावत् सर्वज्ञतापरिशुद्धिर् इति हि रागदोषमोहपरिशुद्धिश् च सर्वज्ञतापरिशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्.
(प्स्प्_2-3:157)
इति श्रावकस्य क्लेशावरणविशुद्धिः
पुनर् अपरं सुभूते या रूपविशुद्धिः फलविशुद्धिर् एव सा, एवं वेदनासंज्ञासंस्कारा या विज्ञानविशुद्धिः फलविशुद्धिर् एव सा. एवं यावद् अविद्याविशुद्ध्या संस्कारविशुद्धिः संस्कारविशुद्ध्या विज्ञानविशुद्धिर् विज्ञानविशुद्ध्या नामरूपविशुद्धिर् नामरूपविशुद्ध्या षडायतनविशुद्धिः षडायतनविशुद्ध्या स्पर्शविशुद्धिः स्पर्शविशुद्ध्या वेदनाविशुद्धिः वेदनाविशुद्ध्या तृष्णाविशुद्धिः तृष्णाविशुद्ध्या उपादानविशुद्धिर् उपादानविशुद्ध्या भवविशुद्धिर् भवविशुद्ध्या जातिविशुद्धिर् जातिविशुद्ध्या जरामरनशोकपरिदेवदुष्खदौर्मनस्योपायासविशुद्धिर् जरामरनडोकपरिदेवदुष्खदौर्मनस्योपायासविशुद्ध्या सर्वज्ञताविशुद्धिर् इति हि जरामरणशोकपरिदेवदुष्खदौर्मनस्योपायासविशुद्धिश् च सर्वज्ञताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्.
इति प्रत्येकबुद्धस्य ज्ञेयावरणैकदेशविशुद्धिः
पुनर् अपरं सुभूते दानपारमिताविशुद्धिः दानपारमिताविशुद्ध्या शीलपारमिताविशुद्धिः शीलपारमिताविशुद्ध्या क्षान्तिपारमिताविशुद्धिः क्षान्तिपारमिताविशुद्ध्या वीर्यपारमिताविशुद्धिर् वीर्यपारमिताविशुद्ध्या ध्यानपारमिताविशुद्धिर् ध्यानपारमिताविशुद्ध्या प्रज्ञापारमिताविशुद्धिः प्रज्ञापारमिताविशुद्ध्या अध्यात्मशून्यताविशुद्धिर् अध्यात्मशून्यताविशुद्ध्या बहिर्धाशून्यताविशुद्धिर् बहिर्धाशून्यताविशुद्ध्या अध्यात्मबहिर्धाशून्यताविशुद्धिर् अध्यात्मबहिर्धाशून्यताविशुद्ध्या, एवं यावद् अभावस्वभावशून्यताविशुद्धिर् अभावस्वभावशून्यताविशुद्ध्या स्मृत्युपस्थानविशुद्धिः स्मृत्युपस्थानविशुद्ध्या सम्यक्प्रहाणविशुद्धिः सम्यक्प्रहाणविशुद्ध्या ऋद्धिपाद विशुद्धिर् ऋद्धिपाद विशुद्ध्या इन्द्रिय विशुद्धिर् इन्द्रियविशुद्ध्या बलविशुद्धिर् बलविशुद्ध्या बोध्यङ्गविशुद्धिर् बोध्यङ्गविशुद्ध्या मार्गविशुद्धिर् मार्गविशुद्ध्या आर्यसत्यविशुद्धिर् आर्यसत्यविशुद्ध्या अप्रमाणविशुद्धिर् अप्रमाणविशुद्ध्या ध्यानविशुद्धिर् ध्यानविशुद्ध्या आरूप्यविशुद्धिर् आरूप्यविशुद्ध्या अभिज्ञाविशुद्धिर् अभिज्ञाविशुद्ध्या शून्यतानिमित्ताप्रणिहितविशुद्धिः शून्यतानिमित्ताप्रणिहितविशुद्ध्या अष्टविमोक्षविशुद्धिर् अष्टविमोक्षविशुद्ध्या नवानुपूर्वविहारसमापत्तिविशुद्धिर् नवानुपूर्वविहारसमापत्तिविशुद्ध्या सर्वसमाधिविशुद्धिः सर्वसमाधिविशुद्ध्या सर्वधारणीमुखविशुद्धिः सर्वधारणीमुखविशुद्ध्या दशबलवैशारद्यविशुद्धिर् दशबलवैशारद्यविशुद्ध्या प्रतिसंविद्विशुद्धिः प्रतिसंविद्विशुद्ध्या आवेणिकबुद्धधर्मविशुद्धिर् आवेणिकबुद्धधर्मविशुद्ध्या सर्वज्ञताविशुद्धिर् (प्स्प्_2-3:158) इति हि सर्वज्ञताविशुद्धिश् चावेणिकबुद्धधर्मविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्.
इति बोधिसत्त्वस्य यानत्रयमार्गविशुद्धिः
पुनर् अपरं सुभूते या प्रज्ञापारमिताविशुद्धिः सा रूपविशुद्धिर् या रूपविशुद्धिः सा यावत् सर्वाकारज्ञताविशुद्धिर् इति हि प्रज्ञापारमिताविशुद्धिश् च रूपविशुद्धिश् च सर्वाकारज्ञताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नं, वेदनासंज्ञासंस्कारा या प्रज्ञापारमिताविशुद्धिः सा विज्ञानविशुद्धिर् या विज्ञानविशुद्धिः सा सर्वाकारज्ञताविशुद्धिर् इति हि प्रज्ञापारमिताविशुद्धिश् च विज्ञानविशुद्धिश् च सर्वाकारज्ञताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. एवं ध्यानपारमिताविशुद्धिर् वीर्यपारमिताविशुद्धिः क्षान्तिपारमिताविशुद्धिः शीलपारमिताविशुद्धिर् या दानपारमिताविशुद्धिः सा रूपविशुद्धिर् या रूपविशुद्धिः सा सर्वाकारज्ञताविशुद्धिर् इति हि दानपारमिताविशुद्धिश् च रूपविशुद्धिश् च सर्वाकारज्ञताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नं, वेदनासंज्ञासंस्कारा या दानपारमिताविशुद्धिः सा विज्ञानविशुद्धिर् या विज्ञानविशुद्धिः सा सर्वाकारज्ञताविशुद्धिर् इति हि दानपारमिताविशुद्धिश् च विज्ञानविशुद्धिश् च सर्वाकारज्ञताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्.
इति मृदुमृदुमार्गः
पुनर् अपरम् अध्यात्मशून्यताविशुद्ध्या यावद् अभावस्वभावशून्यताविशुद्ध्या सर्वाकारज्ञताविशुद्धिर् इति ह्य् अध्यात्मशून्यताविशुद्धिश् च यावद् अभावस्वभावशून्यताविशुद्धिश् च सर्वाकारज्ञताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. स्कन्धधात्वायतनप्रतीत्यसमुत्पादविशुद्ध्या यावद् दशबलवैशारद्यावेणिकबुद्धधर्मविशुद्ध्या सर्वाकारज्ञताविशुद्धिर् इति हि स्कन्धधात्वायतनप्रतीत्यसमुत्पादविशुद्धिश् च पारमिता बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वसमाधिसर्वधारणीमुखविशुद्धिर् दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मविशुद्धिश् च सर्वाकारज्ञताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्.
पुनर् अपरं सुभूते सर्वाकापज्ञताविशुद्धिश् च प्रज्ञारारमिताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. इति मृदुमध्यमार्गः
पुनर् अपरं सुभूते संस्कृतविशुद्ध्या असंस्कृतविशुद्धिर् असंस्कृतविशुद्ध्या संस्कृतविशुद्धिर् इति हि संस्कृतविशुद्धिश् चासंस्कृतविशुद्धिश् (प्स्प्_2-3:159) चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्.
पुनर् अपरं सुभूते ऽतीतविशुद्ध्यानागतविशुद्धिर् अनागतविशुद्ध्यातीतविशुद्धिर् अतीतानागतविशुद्ध्या प्रत्युत्पन्नविशुद्धिः प्रत्युत्पन्नविशुद्ध्यातीतानागतविशुद्धिर् इति ह्य् अतीतानागतविशुद्धिश् च प्रत्युत्पन्नविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. इति मृद्वधिमात्रामार्गः
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: गम्भिरैषा भगवन् विशुद्धिः.
भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्र.
शरिपुत्र आह: कस्य विशुद्धत्वात्?
भगवान् आह: रूपस्य विशुद्धत्वाच् छान्पुत्र गम्भीरा विशुद्धिः. वेदना संज्ञासंस्कारा विज्ञानस्य विशुद्धत्वाद् गम्भीरा. एवं पृथिवीधात्वब्धातुतेजोधातुवायुधात्वाकाशधातुविज्ञानधातुविशुद्धत्वाद् गम्भिरा. एवं चक्षुःश्रोत्रघ्राणजिह्वाकायमनोविशुद्धत्वाद् गम्भीरा. रूपशब्दगन्धरसस्पर्शधर्मविशुद्धत्वाद् गम्भीरा. दानशीलक्षान्तिवीर्यध्यानप्रज्ञापारमिताविशुद्धत्वाद् गम्भीरा. अध्यात्मशून्यताविशुद्ध्या गम्भीरा, यावद् अभावस्वभावशून्यताविशुद्ध्या गम्भिरा. स्मृत्युपस्थानविशुद्ध्या गम्भीरा. सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गविशुद्ध्या गम्भीरा. शून्यतानिमित्ताप्रणिहितविशुद्ध्या गम्भीरा. अष्टविमोक्षनवानुपूर्वविहारसमापत्तिविशुद्ध्या गम्भीरा. अभिज्ञाविशुद्ध्या गम्भीरा. सर्वसमाधिसर्वधारणीमुखविशुद्ध्या गम्भीरा. दशतथागतबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्म विशुद्ध्या गम्भीरा. बोधिसत्त्वसर्वाकारज्ञताविशुद्ध्या गम्भीरा. इति मध्यामृदुमार्गः
शारिपुत्र आह: आलोकभूता भगवन् प्रज्ञापारमिता.
भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्रात्यन्तालोकविशुद्धिः.
शारिपुत्र आह: कस्य विशुद्धत्वात्?
भगवान् आह: प्रज्ञापारमिताविशुद्धत्वाच् छारिपुत्रात्यन्तालोकविशुद्धिः. एवं ध्यानपारमिताविशुद्धत्वाद् वीर्यपारमिताविशुद्धत्वात् क्षान्तिपारमिताविशुद्धत्वाच् छीलपारमिताविशुद्धत्वाद् दानपारमिताविशुद्धत्वाद् अत्यन्तालोकविशुद्धिः. अध्यात्मशून्यताविशुद्ध्या अत्यन्तालोकविशुद्धिः, यावद् अभावस्वभावशून्यता विशुद्ध्या अत्यन्तालोकविशुद्धिः. स्मृत्युपस्थानविशुद्ध्या अत्यन्तालोकविशुद्धिः. सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यण्गमार्गविशुद्ध्या अत्यन्तालोकविशुद्धिः. आर्यसत्याप्रमाणध्यानआरूप्यसमापत्तिविशुद्ध्या अत्यन्तालोकविशुद्धिः. अष्टविमोक्षनवानुपूर्वविहारसमापत्तिविशुद्ध्या अत्यन्तालोकविशुद्धिः. शून्यतानिमित्ताप्रणिहिताभिज्ञाविशुद्ध्या अत्यन्तालोकविशुद्धिः. सर्वसमाधिसर्वधारणीमुखविशुद्ध्या अत्यन्तालोकविशुद्धिः. (प्स्प्_2-3:160) दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मविशुद्ध्या अत्यन्तालोकविशुद्धिः, यावत् सर्वाकारज्ञताविशुद्ध्या अत्यन्तालोकविशुद्धिः.
इति मध्यमध्यामार्गः
शारिपुत्र आह: अप्रतिसंधिर् भगवन् विशुद्धिः.
भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्र.
शारिपुत्र आह: कस्यासंक्रान्त्या विशुद्धिः?
भगवान् आह: रूपस्यासंक्रान्तिर् अप्रतिसंधिर् विशुद्धिः, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यासंक्रान्तिर् अप्रतिसंधिर् विशुद्धिः. एवं यावत् सर्वाकारज्ञताया असंक्रान्तिर् अप्रतिसंधिर् विशुद्धिः.
इति मध्याधिमात्रामार्गः
शारिपुत्र आह: असंक्लिष्टा भगवन् विशुद्धिः.
भगवान् आह: अत्यन्तासंक्लिष्टत्वाच् छारिपुत्र.
शरिपुत्र आह: कस्य भगवन्न् असंक्लेशतया विशुद्धिः?
भगवान् आह: रूपस्य प्रकृत्यसंक्लिष्टत्वाद् विशुद्धिः, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य प्रकृत्यसंक्लिष्टतया विशुद्धिः. एवं यावत् सर्वाकारज्ञतायाः प्रकृत्यसंक्लिष्टतया विशुद्धिः. इत्य् अधिमात्रमृदुमार्गः
शारिपुत्र आह: अप्राप्तिर् अनभिसमया भगवन् विशुद्धिः.
भगवान् आह: अत्यन्ताप्राप्त्यनभिसमयत्वाच् छारिपुत्र.
शारिपुत्र आह: कस्य भगवन्न् अप्राप्त्यानभिसमयेन विशुद्धिः?
भगवान् आह: रूपस्याप्राप्त्यानभिसमयेन विशुद्धिः, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्याप्राप्त्यानभिसमयेन विशुद्धिः. एवं यावत् सर्वाकारज्ञताया अप्राप्त्यानभिसमयेन विशुद्धिः. इत्य् अधिमात्रमध्यमार्गः
शारिपुत्र आह: अनभिनिवृत्तिर् भगवन् विशुद्धिः.
भगवान् आह: अत्यन्तानभिनिवृत्तत्वाच् छारिपुत्र.
शारिपुत्र आह: कस्य भगवन्न् अनभिनिवृत्त्या विशुद्धिः?
भगवान् आह: रूपस्य शारिपुत्रानभिनिवृत्त्या विशुद्धिः, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यानभिनिवृत्त्या विशुद्धिः. एवं यावत् सर्वाकारज्ञताया अनभिनिवृत्त्या विशुद्धिः. इत्य् अधिमात्राधिमात्रामार्गः
शारिपुत्र आह: अनुपपत्तिर् भगवन् कामधातोर् विशुद्धिः.
भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्र.
शारिपुत्र आह: कथं भगवन् कामधातोर् अनुपपत्तिर् विशुद्धिः?
भगवान् आह: कामधातुस्वभावानुपपत्त्या शारिपुत्रानुपपत्तिर् विशुद्धिः.
शारिपुत्र आह: अनुपपत्तिर् भगवन् रूपधातोर् विशुद्धिः.
भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्र.
(प्स्प्_2-3:161)
शारिपुत्र आह: कथं भगवन् रूपधातोर् अनुपपत्तिर् विशुद्धिः?
भगवान् आह: रूपधातुस्वभावानुपपत्त्या शारिपुत्रानुपपत्तिर् विशुद्धिः.
शारिपुत्र आह: अनुपपत्तिर् भगवन्न् आरूप्यधातोर् विशुद्धिः.
भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्र.
शारिपुत्र आह: कथं भगवन्न् आरूप्यधातोर् अनुपपत्तिर् विशुद्धिः?
भगवान् आह: आरूप्यधातुस्वभावानुपपत्त्या शारिपुत्रानुपपत्तिर् विशुद्धिः. इति त्रैधातुकप्रतिपक्षत्वं भावनामार्गस्य
शारिपुत्र आह: न जानीते भगवन् विशुद्धिः.
भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्र.
शारिपुत्र आह: कथं भगवन् न जानीते विशुद्धिः?
भगवान् आह: धर्मजडताम् उपादाय शरिपुत्र न संजानिते विशुद्धिः.
शारिपुत्र आह: रूपं न जानाति भगवन् विशुद्धिः.
भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्र.
शारिपुत्र आह: कथं भगवन् रूपं न जानाति विशुद्धिः?
भगवान् आह: स्वलक्षणशून्यताम् उपादाय शरिपुत्र रूपं न जानाति विशुद्धिः.
शारिपुत्र आह: वेदनां संज्ञां संस्कारान् विज्ञानं भगवन् न जानाति विशुद्धिः.
भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत.
शारिपुत्र आह: कथं भगवन् वेदनां संज्ञां संस्कारान् विज्ञानं न जानाति विशुद्धिः?
भगवान् आह: स्वलक्षणशून्यताम् उपादाय शारिपुत्र वेदनां संज्ञां संस्कारान् विज्ञानं न जानाति विशुद्धिः.
शारिपुत्र आह: सर्वधर्मान् भगवन् न जानाति विशुद्धिः.
भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्र.
शारिपुत्र आह: कथं भगवान् सर्वधर्मान् न जानाति विशुद्धिः?
भगवान् आह: सर्वधर्मानुपलब्ध्या शारिपुत्र सर्वधर्मान् न जानाति. इति ज्ञेयज्ञानाद्वयसमतामार्गस्य
शारिपुत्र आह: सर्वज्ञताया भगवन् प्रज्ञापारमिता नापकारं करोति नोपकारं करोति.
भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्र.
शारिपुत्र आह: कथं भगवन् सर्वज्ञतायाः प्रज्ञापारमिता नापकारं करोति नोपकारं करोति?
(प्स्प्_2-3:162)
भगवान् आह: धर्मस्थितिताम् उपादाय शारिपुत्र प्रज्ञापारमिता सर्वज्ञताया नापकारं करोति नोपकारं करोति.
शारिपुत्र आह: प्रज्ञापारमिताविशुद्धिर् भगवन् न कंचिद् धर्मं परिगृह्णाति?
भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्र.
शारिपुत्र आह: कथं भगवन् प्रज्ञापारमिताविशुद्धिर् न कंचिद् धर्मं परिगृह्णाति?
भगवान् आह: धर्मधातुपरिगृहीताम् उपादाय.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आत्मविशुद्धितो भगवन् रूपविशुद्धिः.
भगवान् आह: अत्यन्तविशुद्धिताम् उपादाय.
सुभूतिर् आह: केन कारणेन भगवन्न् आत्मविशुद्ध्या रूपविशुद्धिः?
भगवान् आह: आत्मासद्भूतत्वात् सुभूते रूपासद्भूतत्वाद् अत्यन्तविशुद्धिः.
सुभूतिर् आह: आत्मविशुद्ध्या भगवन् वेदनासंज्ञासंस्कारा विज्ञानविशुद्धिः.
भगवान् आह: अत्यन्तविशुद्धिताम् उपादाय.
सुभूतिर् आह: केन कारणेन भगवन्न् आत्मविशुद्ध्या वेदनासंज्ञासंस्कारा विज्ञानविशुद्धिः.
भगवान् आह: आत्मासद्भूतत्वात् सुभूते वेदनासंज्ञासंस्कारा विज्ञानासद्भूतत्वाद् अत्यन्तविशुद्धिः.
सुभूतिर् आह: आत्मविशुद्ध्या भगवन् दानपारमिताविशुद्धिः. एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता आत्मविशुद्ध्या भगवन् प्रज्ञापारमिताविशुद्धिः. आत्मविशुद्ध्या भगवन् स्मृत्युपस्थानविशुद्धिः. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानाम्, आत्मविशुद्ध्या भगवङ् मार्गविशुद्धिः. आत्मविशुद्ध्या आर्यसत्याप्रमाणध्यानारूप्यसमाःअत्तिविशुद्धिः. आत्मविशुद्ध्या शून्यतानिमित्ताप्रणिहितविशुद्धिः. आत्मविशुद्ध्या अष्टविमोक्षनवानुपूर्वविहारसमापत्तिविशुद्धिः. आत्मविशुद्ध्या अध्यात्मशून्यताविशुद्धिः, यावद् अभावस्वभावशून्यताविशुद्धिः. आत्मविशुद्ध्या समाधिधारणीमुखविशुद्धिः. आत्मविशुद्ध्या दशबलवैशारद्यप्रतिसंविद्विशुद्धिः. आत्मविशुद्ध्या भगवन्न् अष्टादशावेणिकबुद्धधर्मविशुद्धिः.
भगवान् आह: अत्यन्तविशुद्धत्वात् सुभूते.
सुभूतिर् आह: आत्मविशुद्ध्या भगवन् सर्वधर्मविशुद्धिः.
भगवान् आह: अत्यन्तविशुद्धत्वात् सुभूते.
(प्स्प्_2-3:163)
सुभूतिर् आह: केन कारणेन भगवन्न् आत्मविशुद्ध्या सर्वधर्मविशुद्धिः?
भगवान् आह: आत्मासद्भूतत्वात् सुभूते सर्वधर्मासद्भूतत्वाद् विशुद्धिः.
सुभूतिर् आह: आत्मविशुद्ध्या भगवन् स्रोतआपत्तिफलविशुद्धिः, एवं सकृदागामिफलानागामिफलार्हत्त्वप्रत्येकबोधिविशुद्धिः.
भगवान् आह: स्वलक्षणशून्यताम् उपादाय.
सुभूतिर् आह: आत्मविशुद्ध्या भगवन् बोधिविशुद्धिः.
भगवान् आह: अत्यन्तविशुद्धत्वात् सुभूते.
सुभूतिर् आह: केन कारणेन भगवन्न् आत्मविशुद्ध्या बोधिविशुद्धीः?
भगवान् आह: स्वलक्षणशून्यताम् उपादाय.
सुभूतिर् आह: आत्मविशुद्ध्या भगवन् सर्वज्ञताविशुद्धिः.
भगवान् आह: अत्यन्तविशुद्धत्वात् सुभूते.
मूल पाठ: Pañcaviṃśatisāhasrikā Prajñāpāramitā, 1-8 · Edition: Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0